श्रुतप्रदीपिका
[[लेखकः :|]]

।।श्रीः।।

श्रीमते रामानुजाय नमः ।

श्रीसुदर्शनभट्टारकविरचिता श्रीभाष्यव्याख्या

श्रुतप्रदीपिका ।




प्रथमाध्याये प्रथमः पादः ।।

अखिलभुवनजन्मस्थेमभङ्गादिलीले

विनतविविधभूतव्रातरक्षैकदीक्षे ।

श्रुतिशिरसि विदीप्ते ब्रह्मणि श्रीनिवासे

भवतु मम परस्मिन् शेमुषी भक्तिरूपा ।।

वरदं द्विरदाद्रिशेखरं कमलाया दयितं दयानिधिम् ।

सकलार्थिजनार्थितप्रदं प्रणमामि प्रणतार्तिहारिणम् ।।

वेदान्तसूत्रभाष्यार्थमाचार्योपासनाच्छØतम् ।

तद्गिरा दीपिकेवाहं दर्शयिष्ये यथामति ।।

प्रारिप्सितप्रबन्धस्याविघ्नपरिसमाप्तिप्रचयगमनार्थमिष्टदेवतोपासनलक्षणमङ्गलं श्रुत्याकुर्वन्नर्थं प्रतिपाद्यं संक्षेपतः श्रोतृबुद्धिसमवधानाय दर्शयति - अखिलेति । प्रथमेन पादेन प्रथमद्विकार्थसंक्षेपः, द्वितीयेन तूत्तरस्य । भवतीति भुवनं कार्यजातम् । कतिपयकारणचतुर्मुखादिव्यावृत्त्यर्थम् अखिल शब्दः । प्रायिकत्वनिवृत्त्यर्थं सकलेत्य नुक्तिः । अज्ञातं नास्ति इतिवदखिलेति व्यतिरेकोक्तिः । अकारोपक्रमत्वसिद्धये निखिलेत्यनुक्तिः । तस्य भगवद्वाचकत्वशक्तियोगात्तदविवक्षायामपि माङ्गलिकत्वमकारस्य । नञो मङ्गलेतरत्वं निषेध्यविशेषापेक्षया, न स्वतः । अत्र तु वैकल्यनिषेधेन पौष्कल्यपरत्वात् माङ्गलिकत्वमेव । जन्म त्रिविधम् । स्थेमा - अन्तर्यामिविष्ण्ववतारादिमुखेनैव करणीया विविधा स्थितिः । भङ्गः - नित्यनैमित्तिकप्राकृतरूपः । मोक्षस्य लयान्तर्भावेऽपि शास्त्रस्य

प्रधानप्रयोजनतया विषयवत् पृथगेव वक्तव्यत्वादनेकार्थसाधारणेन शब्देन तमन्तर्भावयितुमयुक्तम् । अतो हि पूर्वाचार्याः पृथगूचुः - जगज्जन्मस्थितिध्वंसमहानन्दैकहेतवे जगदुद्भवस्थितिप्रणाश- संसारविमोचनादयः इति । आदि शब्देनानुप्रवेशनियमनधारणादि गृह्यते ; प्रदेशान्तरे जगदुत्पत्तिस्थितिसंहारान्तः प्रवेशनियमनादिलीलम् इति स्वेनैव कण्ठरवेणोक्तार्थस्वीकारस्यैवोचितत्वात् । अप्रमेयोऽनियोज्यश्च इत्याद्युक्तप्रकारेण सापेक्षत्वादिव्युदासाय लीला शब्दः । जनयितृत्वाद्यनुक्त्वा जन्माद्युक्तिरुपादानाभिप्राया ; बहु स्यां प्रजायेयेति इति हि श्रुतिः । लीला शब्देन निमित्तत्वं द्योतितम् । अवाप्तसमस्तकामस्य व्यापारानुपपतिं्त परिहरतानेन लीलाशब्देन द्वितीयलक्षणार्थश्च सूचितः । अथ द्वितीयद्विकार्थं संक्षिपति - विनतेति । विनतरक्षाप दाभ्यां तृतीयचतुर्थलक्षणार्थौ सूचितौ । विशेषेण नताः प्रह्वीभूताः उपासकाः ; तद्वैविध्यं तदुपर्यपि बादरायणः संभवात् इत्यादिवक्ष्यमाणप्रकारेण । भूताः ; भगवज्ज्ञानेन लब्धसत्ताकाः इति भावः ; अस्ति ब्रह्मेति चेद्वेद, सन्तमेनं ततो विदुरिति इति श्रुतेः । विनतभूतसंबन्धी व्रातो विनतभूतव्रातः । व्रात शब्देन आस्फोटयन्ति पितरः पशुर्मनुष्यः पक्षी वा इत्याद्यर्थोऽभिप्रेतः । रक्षा इष्टप्रापणानिष्टनिवारणलक्षणा । एक शब्दः प्राधान्यपरः अप्यहं जीवितं जह्याम् काममात्मानं भार्यांपुत्रं वोपरुन्ध्यान्न त्वेव दासकर्मकरम् इति ह्युक्तम् । सा प्रधाना दीक्षा यस्य तत्तथोक्तम् । दीक्षा- शब्देनावर्जनीयत्वं गर्भितम्; एतद्व्रतं मम इति हि तदुक्तिः ।

अथ शास्त्रोपोद्धातचतुःसूत्र्यर्थमाह - श्रुतीति । ब्रह्मणो मानशून्यत्वान्यमानकत्वव्युदासेन शास्त्रारम्भणीयता हि तदर्थः । श्रुति शब्दः प्रमाणवैलक्षण्यं द्योतयति ; श्रूयते नित्यमिति हि श्रुतिः । शिरः शब्देनानन्यपरभागोक्तिः । विदीप्तिः विशेषेण दीप्तिः ; अग्न्यादिरूपेणकर्माराध्यताया अपि वेदान्तावगतत्वं ब्रह्मणः स्वतोऽनन्तपुरुषार्थत्वं चाभिप्रेत्य विशेषेण

दीप्तत्वमुक्तम् । ब्रह्मणीति सामान्यशब्दः । श्रीनिवास इति विशेषशब्दः । अत्र छागो वा मन्त्रवर्णात् इति न्यायोऽभिप्रेतः । श्रीनिवास शब्देन रूढितोऽवयवतश्च त्रिमूर्त्यैक्यसाम्योत्तीर्णत्वादिव्युदासो नित्यविभूतियोगश्च फलितः । परस्मिन्निति परमतः सेतून्मान इत्यत्र निर्णीतं प्राप्यत्वं विवक्षितम् । अथोपायोपेयात्मके प्रतिपाद्ये विनतपदसूचितमुपायांशं विशिनष्टि - शेमुषी भक्तिरूपेति । अत्रापि छागपशुन्यायोऽभिप्रेतः । पदद्वयेन धीकर्मसमुच्चयवाक्यार्थज्ञानमात्रोपायत्वव्युदासः । स्वनिकर्षाभिप्रायेणाह - ममेति ।

भवतु - फलान्तरादेतद्विषयोपायः स्वादुतम इति भावः ।

एवं परमविषयो दर्शितः । प्रयोजनं चात्रातिसंक्षिप्तम् । अथ स्वग्रन्थस्यावान्तरविषयं स्वव्याख्येयस्य व्याख्येयान्तराद्वैषम्यं च वदन् संक्षिप्तं शास्त्रप्रयोजनं च विशदीकुर्वन् व्याख्यानान्तरेभ्यः स्वग्रन्थस्य वैलक्षण्यं च दर्शयन्नर्थात् गुरूपासनरूपं मङ्गलमाचरति - पाराशर्येति ।

पाराशर्यवचस्सुधामुपनिषद्दुग्धाब्धिमध्योद्धृतां

संसाराग्निविदीपनव्यपगतप्राणात्मसञ्जीवनीम् ।

पूर्वाचार्यसुरक्षितां बहुमतिव्याघातदूरस्थिताम्

आनीतां तु निजाक्षरैः सुमनसो भौमाः पिबन्त्वन्वहम् ।।

व्यासस्यैव बादरायणत्वं श्रुतिसिद्धम् । जन्मतः प्रकर्षं च सूचयति पाराशर्यशब्देन । वचः- शब्दोऽर्थपर्यन्तः, वेदवित् इत्यत्र वेदशब्दवत् । वचसः सुधामिति निर्वाहे रूपकप्रकरणानौचित्यं सुधाशब्दामुख्यत्वं च । अमृतत्वहेतुत्वात् सुधात्वरूपणम् । पूर्वभागादप्यव्यवधानेन ब्रह्मप्रतिपादनरूपा सेत्यभिप्राय उपनिष च्छब्दः । उपनिषदां वेदसारत्वाभिप्रायो दुग्धशब्दः ; यथा आरण्कं च वेदेभ्य ओषधीभ्यो यथामृतम् इति । अब्धि शब्द आनन्त्यपरः । मध्य शब्देन सर्वश्रुतिमुख्यत्वमभिप्रेतम्, मध्यस्य सर्वप्रदेशानुगुण्यात् । अनेन स्वव्याख्येयस्य प्रमाणमूलता अवान्तरविषयश्च दर्शितौ । उद्धृतशब्देनातिनिम्नदेशनिमग्नोद्ग्रहणमभिदधता निःशेषार्थग्रहणं सूचितम् । परम प्रयोजनमाह - संसारेति । संसारस्याग्नित्वं तापत्रयात्मकतया । तत्राप्यवान्तरभेदं विद्यालब्धेः पूर्वं कदाचिदप्यनिर्वाप्यत्वं वैविध्यमनुपरतत्वं च द्योतयति विदीपन शब्दः । अनादिकालं बहुमुखश्रवणादिष्वन्यतमप्रकारेणालब्धपरमात्मानो व्यपगतप्राणाः । प्राणाः परमात्मा, प्राणमेवाभिसंविशन्ति इति श्रौतप्रयोगात् । संजीविनीम् इति परममोक्षहेतुत्वं विवक्षितम् । स्वग्रन्थस्य सत्संप्रदायमूलकतामाह - पूर्वेति । आर्थं गुरूपासनं चैतत्कीर्तनमुखेनात्र कृतम् । शंकरादिव्युदासाय पूर्वशब्दः । सुरक्षिताम् न परमुपदेशेन, ग्रन्थनिर्माणेनापीति भावः । तर्हि सा किमिति न प्रथितेत्यत्राह - बहुमतीति । बहूनां या मतयः तासां व्याघातो मिथो

विरोधः, तेन दूरस्थिताम् । न यथावदप्रतिपत्तिमात्रम्, अन्यथा च प्रतिपत्तिरभूदिति भावः । तुशब्दः स्वग्रन्थवैषम्यपरः । सुधासमाख्यानुगुण्याय ममाक्षरैरित्यनुक्तिः ; गायत्र्यवयवामृताक्षरैरित्यर्थः । सुमनसः ; सारासारविवेकादिविचक्षणाः । भौमाः ; अधीतसाङ्गसशिरस्कवेदाः श्रुतकर्ममीमांसा भूलोकवासिनः । देशकालान्तरादिषु वृत्त्यादिसाफल्यमिति भावः । पिबन्तु ; सुधापानवदस्य श्रवणाद्यपि सुखरूपम् इत्यर्थः । अन्वहम् ; भोग्यतातिशयात् गभीरत्वाच्च ।

भगवद्धोधायनकृतां विस्तीर्णां ब्रह्मसूत्रवृतिं्त पूर्वाचार्याः

सञ्चिक्षिपुः । तन्मतानुसारेण सूत्राक्षराणि व्याख्यास्यन्ते।।1।।

पूर्वाचार्यग्रन्थाः प्रवर्त्यन्ताम् ; किं ग्रन्थान्तरनिर्माणप्रयत्नगौरवेणेत्यत्राह - भगवदिति । पूर्वाचार्यशब्दोऽत्र विवृतः । शङ्करादिभ्योऽपि ज्ञानाधिक्यपरो भगव च्छब्दः । द्रमिडाचार्यादिग्रन्थोऽतिसंक्षिप्तः । तन्मतानुसारेण ; न तु स्वोत्प्रेक्षया । सूत्राक्षराणि ; प्रकृति प्रत्ययानुगुण्येन ; न तु यथाकथंचिद्योजयितव्यानीति भावः । व्याङ्भ्यामुपसर्गाभ्यामपेक्षितविस्तरानपेक्षितसंकोचौ विवक्षितौ । व्याख्येयं पदम् उपादत्ते - अथेति ।

1 जिज्ञासाधिकरणम्

अथातो ब्रह्मजिज्ञासा ।। 1-1-1।।

अत्रायमथशब्द आनन्तर्ये भवति । अतःशब्दो वृत्तस्य हेतुभावे । अधीतसाङ्गसशिरस्कवेदस्य ... ब्रह्मजिज्ञासा ह्यनन्तरभाविनी ।।1।।

पूर्ववृत्ताप्रतिपत्तिरूपापवादेन प्रसिद्धिप्रकर्षस्याकिंञ्चित्करतया संशयविपर्ययौ स्त इति तद्व्युदासायाथशब्दं व्याचष्टे - अत्रेति । अथशब्द आनन्तर्य इति प्रतिज्ञा । भवतीति स्वारस्यं सूचितम् । अत्रायमिति तदपवादपरिहारः । अत्र; वेदोत्तरभागार्थविचारारम्भे । अनेन पूर्वभागार्थविचारस्य वृत्तत्वमाक्षिप्तम् । एवं ब्रह्मजिज्ञासापदसामर्थ्यसूचितम् अथ शब्दानुशासनम् इत्याद्यथशब्दादस्य व्यावृतिं्त सूचयता अयं शब्देन अतःशब्दशिरस्कत्वं दर्शितम् । अनेन वृत्तसामान्यस्यातः पदेनाभिधानं ज्ञापितम्, एतच्छब्दस्य प्रकृतवाचित्वस्वारस्यात् । एवं वृत्तविशेषाक्षेपकतत्सामान्याभिधायकपदद्वयसमभिव्याहारलब्धमथशब्दस्यानन्तर्यपरत्वमित्यर्थादुक्तं भवति । अतोऽथ मौनम् इत्यादिषु प्रकृतिप्रत्यययोर

नेकार्थसाधारण्यदर्शनादतःशब्दं व्याचष्टे - अत इति । अत्रायं भवति इत्यनुषङ्गः । अत्र भवति शब्दौ पूर्ववत् । अयम्; अथशब्दपूर्वकः ; प्रकृतिप्रत्ययस्वारस्यात् अथशब्दस्वारस्यात् ब्रह्मजिज्ञासापदसामर्थ्याच्चेत्यर्थः । न च अथातः शब्दार्थनिर्णयस्यान्योन्यसापेक्षत्वादन्योन्याश्रयः शङ्क्यः. तयोरानन्तर्यवृत्तपरत्वस्वारस्यस्य व्युत्पत्त्यवगततयान्योन्यानपेक्षत्वात् । अत्रेत्यादिसूचितं वृत्तं वर्तिष्यमाणं तयोर्हेतुहेतुमद्भावं च विवृण्वन् वर्तिष्यमाणस्यानन्तर्यं च घटयति - अधीतेति । साङ्गशब्देनाध्ययनस्यापातप्रतीतिहेतुत्वं द्योतितम् ; सशिरस्क शब्देन व्याख्यानपौर्वापर्यनिमित्तव्याख्येयपौर्वापर्यं भागद्वयस्यैकप्रबन्धत्वं कृत्स्नध्ययनं च; कर्मज्ञानब्रह्मजिज्ञासा पदाभ्यां वृत्तवर्तिष्यमाणे ; केवल शब्देन ब्रह्मज्ञानवैधुर्यम् ; अल्पास्थिरानन्तस्थिर शब्दाभ्यां हेतुहेतुमद्भावः ; अनन्तरभाविनीति पदेन अथातः शब्दद्वयफलितं हेतुपौष्कल्यं च । तस्मिन् सति हि फलानन्तर्यम् । अनन्तस्थिरफल शब्दो ब्रह्मविशेषणम् ; ब्रह्मजिज्ञासाया वा ; तस्यास्तथात्वं सद्वारकम् ।

ब्रह्मणो जिज्ञासा ब्रह्मजिज्ञासा । ब्रह्मण इति कर्मणि षष्ठी ; .........

कृद्योगा च षष्ठी समस्यते इति प्रतिप्रसवसद्भावात् ।।1।।

अथैकपद्यहेतुभूतसमासार्थं निरूपयन् विभक्त्यन्तरव्यावृत्त्यर्थं व्यस्य निर्दिशति - ब्रह्मण इति । पञ्चमीमर्थान्तरशङ्कां च व्यपनुदन्नाह - ब्रह्मण इतीति । कुत इत्यत्र आह - कर्तृकर्मणोः कृतीति । कर्मत्वे सति विषयत्वं प्रयोजनत्वं च सिध्येदिति भावः । सामान्यविध्यपेक्षया प्रतिपदविधेर्बलीयस्त्वेऽपि प्रतिपदे समासनिषेधात् परंपरासंबन्धस्यापि संबन्धसामान्यान्तर्भावेन ब्रह्मानुबन्धिनामुपायादीनामपि जिज्ञास्यत्वसिद्धेः सामर्थ्यात् ब्रह्मणः कर्मत्वाक्षेपाच्च सामान्यपरत्वमाशङ्क्याह - यद्यपीति । परिग्रहेऽपि इत्यत्र परिणा अनुबन्धिनां जिज्ञास्यतासिद्धिर्द्योतिता । कर्मार्थत्वसिद्धिः ; षष्ठ्या इति शेषः । आभिधानिकस्यैव ग्राह्यत्वादिति ; उपपदविभक्तिरपि कारकविभक्तिवत् कर्मणि द्वितीया इत्यादिवत् कर्तृकर्मणोः कृति इत्यादिशब्दानुशासनस्वारस्यादर्थवतीति भाष्यकाराभिप्रायः । एव कारेण विलम्बितधीहेत्वपेक्षया शीघ्रधीहेतोर्बलीयस्त्वमभिप्रेतम् । प्रधानस्याप्रधानानां च कर्मत्वाक्षेपादपि प्रधानस्याभिधानिकत्वमितरेषामाक्षिप्तत्वं च युक्तमित्यर्थः । समासनिषेधमाशङ्क्य परिहरति - न चेति । प्रतिप्रसवो ऽपवादापवादः । अप्रयुक्तविभक्तेरनभिधायकत्वेऽप्यनुशासनाधीनलक्ष्यार्थविशेष निर्णयाय षष्ठी व्याख्याता । प्रातिपदिकेन विभ

क्त्यर्थलक्षणायां तु न केवलं योग्यतादि कारणम्, अनुशासनं चापेक्षितमिति तदनुसारेण व्याख्यातम् ।

ब्रह्मशब्देन स्वभावतो निरस्तनिखिलदोषोऽनवधिकातिशयासंख्येयकल्याणगुणगणः पुरुषोत्तमोऽभिधीयत् । ... ... ... ... तापत्रयातुरैमृतत्वातय स एव जिज्ञासास्यः । अतः सर्वेश्वर एव जिज्ञासाकर्मभृतं ब्रह्म ।।2।। अथ समस्तयोः पदयोः प्रथमपदमनेकार्थसाधारण्येन प्रसिद्धेः परैरन्यथा व्याख्यातत्वाच्च संशयविपर्ययौ स्त इति तद्व्युदासाय व्याचष्टे - ब्रह्मेति । परीत्य लोकान् इति श्रुत्यनुसारेण पुरुषोत्तम इत्युक्तम् । स्वेतरचिदचिद्विलक्षणत्वं तच्छब्दार्थः । स्वेतरान्यत्वं तृणादेरप्यस्तीति तद्व्यावृत्त्यर्थमुभयलिङ्गत्वेन वैलक्षण्यमाह - स्वभावतः इत्यादिना । निखिलेति बद्धादि व्युदासः । स्वभावतः इति मुक्तव्यावृत्तिः । सावधिकातिशयनित्यव्युदासाय अनवधिकातिशय शब्दः । प्रत्येकं तादृशा गुणा असंख्येयाः । एकस्य गुणस्य विधाभेदरूपगुणपुञ्जाभिप्रायो गण शब्दः । सत्यसंकल्पत्वान्तर्भूता हि वशित्वादयः । अभिधीयते ; मुख्यवृत्त्या बोध्यते । शब्दसामर्थ्यादर्थसामर्थ्यवशाच्च भगवत्परत्वं वक्तुं प्रथमं शब्दसामर्थ्यमुपपिपादयिषुरन्यत्र गौणत्वं हृदि निधाय ब्रह्मशब्दस्य गुणयोगतः प्रवृत्तत्वमाह - सर्वत्रेति ।
सर्वत्र प्रयोगेषु विषयेषु । ततः किमित्यत्राह -

बृहत्त्वं चेति । अन्यस्यापि किं न स्यादित्यत्राह - स चेति । चः शङ्कानिवृत्तौ । कथमेवकारः ? अन्यत्रापि हि प्रयुज्यत इत्यत्राह - तस्मादिति । सर्वेषां मुख्यत्वं किं न स्यादित्यत्राह - अनेकेति । अनन्यथासिद्धप्रयोगो हि शक्तिकल्पकः । अत्र त्वन्यथासिद्ध इति भावः । नात्रानेकशक्तिक्लृप्तिप्रसङ्गः ; न चान्यत्रामुख्यत्वम् ; एकयैवावयवशक्त्या सर्वत्र मुख्यत्वादित्यत्राह - भगवदिति । पङ्कजशब्दस्योत्पलादिव्यावृत्ततामरसानुवृत्तपद्मत्ववत् प्रयोगविषयानुगततदविषयव्यावृत्तप्रवृत्तिनिमित्ताभावेनानेकशक्तिकल्पने प्राप्ते प्रयोगस्यान्यथासिद्धत्वात् पुष्कलप्रवृत्तिनिमित्त एव विषये मुख्योऽन्यत्रामुख्यश्च यथा भगवच्छब्दो निर्णीतस्तथा ब्रह्मशब्दोऽपीत्यर्थः । अथार्थसामर्थ्यमुपपादयति - तापेति । न हि कारागृहनिगलितो निगलमोचनाय याच्यः ; किंतु यच्छासनान्निगलनं तन्निवृत्तौ स एवेत्यभिप्रयन्ती तमेवम् इत्यादिश्रुतिरिहानुस्त्रियते । निगमयति - अत इति ; अतः शब्दवशादर्थवशाच्चेत्यर्थः ।

ज्ञातुमिच्छा जिज्ञासा । इच्छाया इष्यमाणप्रधानत्वात् ... ... ... मीमांसा

शास्त्रम् अथातो धर्मजिज्ञासा इत्यारभ्य, अनावृत्तिः शब्दादनावृत्तिः शब्दात् इत्येवमन्तं सङ्गतिविशेषेण विशिष्टक्रमम् ।।

प्रकृतिप्रत्ययविभागेन द्वितीयं पदं व्याचष्टे - ज्ञातुमिति । इच्छायाःकार्यत्वे प्रतीतेऽपि स्नात्वा भुञ्जीत इतिवदप्राप्तेंऽशे विधिरित्यर्थः । सन्नन्तनिर्देशो विचारस्य रागप्राप्तत्वज्ञापनाय । तथाच धर्मजिज्ञासा इत्यत्रापि ज्ञानं विचाररूपं विधेयम् । विचारः कर्तव्यः इत्यन्यत्रोक्तेः । प्रमितिस्तु फलतया अर्थसिद्धा । मीमांसा हीयम् । इह -उपक्रमसूत्रे । अनेनास्य सूत्रस्य जिज्ञास्यविशेषपरत्वव्युदासः । आरम्भणीयत्वे सिद्धे हि जिज्ञास्य विशेषनिर्णयः । स चोत्तरत्र ईक्षतेर्नाशब्दम् इत्यारभ्य क्रियते । अथ वाक्यार्थं योजयति- मीमांसेति । पूर्ववृत्तादित्यादि प्रतिज्ञा । अन्यदुपपादकम् । पूर्वभागोपरितनभाग शब्दाभ्यां व्याख्यानस्य क्रमनियमानन्वितभागाध्ययनात्मकत्वं दर्शितम् । तद्धेतुभूतं व्याख्येयस्य तथात्वं पूर्वं पदयोजनायामुक्तम् । उभयत्रोभयं वाच्यम् । ग्रन्थलाघवायैवमुक्तिः । तन्मतानुसारेणेति प्रतिज्ञां वृत्तिग्रन्थेन संवादयति - तदाहेति । कर्मचिन्तानन्तर्याक्षेपकर्मैकशास्त्र्यं च वृत्तौ दर्शयति - वक्ष्यति चेति । लक्षणम् अध्यायः । संहितम् एकव्याख्येयव्याख्यानरूपतया संबद्धमिति भावः । शारीरकं ब्रह्ममीमांसा ; जगच्छरीरकब्रह्मविषयत्वात् । षोडशलक्षणेन ; षोडशाध्यायेन ।

शास्त्रैक्यप्रत्यनीकमर्थविरोधं प्रतिपाद्यभेदं प्रयोजनभेदं कर्तृभेदं चाशङ्क्याह - अत इति । अतः; एकव्याख्येयव्याख्यानरूपतया प्रबन्धैक्यसिद्धेः । प्रतिपिपादयिषितः ; प्रतिपादयितुमिष्टः, तात्पर्यविषय इत्यर्थः । देवतानिराकरणादिकं देवताज्ञानानपेक्षफलप्रदत्वरूपकर्मप्राशस्त्याद्यर्थान्तरपरम् ; न तु देवतानिरासादौ तात्पर्यम् । अन्यार्थं तु जैमिनिः परं जैमिनिर्मुख्यत्वात् इत्यादौ जैमिनेर्ब्रह्माभ्युपगमदर्शनादिति भावः । द्रव्यदेवतासामान्ये द्रव्यबलीयस्त्वमपि प्रमाणद्वारा, न स्वरूपतः । द्रव्यस्वरूपं हि प्रत्यक्षं हविस्स्वरूपं, धर्म एव हि शास्त्रगम्यः, देवतायास्तु स्वरूपं फलप्रदत्वमपि शास्त्रैकगम्यमित्याद्यनुसन्धेयम् । अतो विरुद्धार्थे तात्पर्याभावान्नार्थविरोधः । पूर्वोत्तरकाण्डाभिप्रायेण षट्कभेदवदध्यायभेदवदि त्युक्तम् । अनेन प्रयोजनप्रतिपाद्यभेदौ परिहृतौ । षट्कद्वयचिन्तितप्रकृतिविकृतिरूपार्थतत्फलभेदस्य शास्त्रभेदकत्वाभावात् । कर्तृभेदपरिहारस्तु स्फुटतया नोक्तः । अस्ति हि वैयाकरणपूर्वोत्तरवृत्त्यादौ कर्तृभेदः । अस्त्वैकशास्त्र्यम् ; ब्रह्म

चिन्ता पूर्वं किं न स्यादित्यत्राह - मीमांसेति । संगतिविशेषाः वक्ष्यमाणाः - पाठक्रमः, चेतनानां त्रिवर्गे प्रथमं प्रावण्यरूपोऽर्थक्रमः, पदार्थवाक्यार्थभावः, दृष्टान्तदार्ष्टान्तिकभावः, उपजीव्योपजीवकभावश्च । एवं पौर्वापर्यनियामकसंगतिविशेषेण विशिष्टक्रमं क्रमविशेषवदित्यर्थः ।

तथा हि - प्रथमं तावत् स्वाध्यायोऽध्येतव्यः इत्यध्ययनेनैव स्वाध्यायशब्दवाच्यवेदाख्याक्षरराशेर्ग्रहणं विधीयते । ... ... ... ... ... व्रतनियमविशेषयुक्तस्य चाचार्योच्चारणानूच्चारणरूपमक्षरराशिग्रहणफलमध्ययनमित्यवगम्यते ।।

ऐकशास्त्र्यकर्मविचारतदनन्तरभावि ब्रह्मविचारापेक्षोपयोगित्वेन अधीतसाङ्ग- सशिरस्क इति प्राक् प्रतिज्ञातसाङ्गकृत्स्नवेदाध्ययनकर्तव्यतायां प्रमाणतया स्वाध्यायविधिमुपन्यस्यन् तस्यार्थज्ञानपर्यन्तत्वनिमित्तां ब्रह्मविचारानारम्भशङ्कां वादिविप्रतिपत्तिनिमित्तसंशयं च व्युदस्यति - तथाहीति । विधेरक्षरग्रहणपर्यन्तत्वे सिद्धे ह्यारम्भणीयत्वसिद्धिः । अन्यथा अधीत्य स्नायात् इत्यर्थज्ञाने कर्मशेषतया विनियुक्ते सत्यवहन्तव्यव्रीहिवत् ज्ञातव्यात्मनोऽपि

कर्मशेषत्वात् अयमात्मा ब्रह्म इत्यात्मब्रह्मशब्दयोस्तुल्यार्थत्वाच्च कर्मसु कर्तृतयावक्लृप्तजीवस्वरूपपरा वेदान्ता इति तदतिरिक्ताप्रामाणिकेश्वरविचाररूपशास्त्रस्यानारम्भणीयतापत्तेः ।

तत्र भाट्टाभिमतांश्चतुरोऽर्थान् गुरुकुमारिलानभिमतमेकं च संग्रहेण प्रतिजानीते - प्रथममिति । प्रथमं तावत् ; प्रथमत एव । प्राथम्योक्त्या शास्त्रान्तरेण साधनचतुष्टयसिद्ध्ययोगः फलितः । शास्त्रान्तराधिगमायोग्यदशापेक्षया प्राथम्यम् ; गर्भाष्टमोपनीतस्य ह्यध्ययनम् । अत एव अष्टवर्षम् इत्युक्तकालविशेषोऽप्युपनयनद्वाराध्ययनाङ्गमिति फलितम् । अनेनोपनयनस्याध्ययनाङ्गत्वं, स्वाध्यायविधिवाक्योपादानेनाध्ययनस्य स्वविधिप्रयुक्तत्वम्, अध्ययनेन इति निर्देशेन संस्कारविधित्वम्, एवकारेण नियमविधित्वं च द्योत्यते । अक्षरराशिमात्रस्य स्वाध्यायशब्दवाच्यत्वव्युदासाय वेदाख्य शब्दः । वेदाख्येत्यनेन कृत्स्नाध्ययनस्य विहितत्वमप्यभिप्रेतम् । न हि वेदैकदेशः स्वाध्यायशब्दार्थः । नासावर्थावबोधनपर्यन्तो विधिरित्यभिप्रायेण अक्षरराशिग्रहणमित्युक्तम् । विधेरक्षरग्रहणपर्यन्ततया अधीत्याभिसमावृत्य अधीत्य स्नायात् इत्यत्रार्थज्ञानस्य कर्मशेषत्वाभावेन ज्ञातव्यात्मनोऽवहन्तव्यव्रीह्यादिवत् कर्मशेषत्वाभावेन कर्मसु कर्तुर्जीवादन्यस्मिन्प्रमाणसंभावनया तद्विल

क्षणेश्वरविचाररूपशास्त्रमारम्भणीयमिति फलितमित्यभिप्रायः ।

अयं चार्थः अध्ययनमात्रवतः इति वक्ष्यमाणसूत्रार्थः प्रतिपत्तिसौकर्यायात्र दर्शितः ; प्राथम्यं साङ्गत्वं च नात्र प्रतीतम् ; अध्यापनविधिश्रवणात् ; तत्प्रयुक्तता च प्रतीयत इति शङ्कायामाह - तच्चेति । चः शङ्कानिवृत्तौ । किंरूपम् स्वतन्त्रोच्चारणरूपं परतन्त्रोच्चारणरूपं वा, सकृदुक्तिरूपम्, असकृदुक्तिरूपं वेत्यर्थः । कथम् ? किमङ्गकम् ? अष्टवर्षत्वमुपनयनद्वारा अध्ययनशेषम् । द्वादशाहेन प्रजाकामं याजयेत् इतिवदध्ययनश्रुतिः । न हि तत्र यजनं याजनविधिप्रयुक्तम् । अत्र ब्राह्मणम् इति द्वितीयाश्रुत्या माणवकशेषमुपनयनमन्तरङ्गत्वलिङ्गात् तद्गताध्ययनाङ्गम् । उपनीय इति क्त्वाश्रुतिस्तु विलम्बद्वयहता ; सा हि स्मृतिरनुवादरूपा च । अतः श्रुतेर्लिङ्गं प्रबलम् । न च कर्त्रभिप्रायफलात्मनेपदवशादुपनयनमुपनेतृगताध्यापनाङ्गमिति वाच्यम्, अकर्त्रभिप्रायार्थेन संमानन - इत्यादिसूत्रेणात्मनेपदस्य विहितत्वात् । कर्तर्येव फलान्वयः कर्त्रभिप्रायत्वमिति तन्निवृत्तौ फलस्योभयान्वयसंभवेनोपनयनफलस्य गुरुगतत्वसंभवादध्यापनाङ्गत्वमिति शङ्का च निरस्ता, अग्नीनादधीत इत्यत्र स्वरित इत्यादिसूत्रेण विहितेऽप्यात्मनेपदे फलस्योभयान्वयदर्शनात् । अतः कर्त्नभिप्रायत्वं न कर्तर्येव फलान्वयः ; किंतु फलस्य कर्त्रन्वयमात्रमिति तन्निवृत्तौ कर्तरि फलान्वयो न सिध्येदिति नाचार्ये फलान्वयः । न च चेतनद्वयानन्वयः कर्त्रभिप्रायत्वम्
ऋत्विजोवृणीते इत्यत्र फलस्योभयत्रान्वयात् । न चाव्यवहितफलस्य कर्त्रन्वयः कर्त्रभिप्रायत्वमित्याचार्यकव्यवहितत्वादात्मनेपदाप्राप्तौ संमानन इत्यादिसूत्रेण व्यवहितफलस्य कर्त्रन्वयेऽप्यात्मनेपदं विधीयत इति व्यवहिताचार्यकनिष्पत्त्यर्थतयोपनयनस्याध्यापनाङ्गत्वं कर्त्रभिप्रायत्वविरोधीति वाच्यम्, उत्तरक्रतुविधीन् प्रत्याधानस्येवाध्यापनं प्रत्यङ्गत्वाभावेऽप्युपनयनस्य तदुपकारकत्वमात्रेणाचार्यकनिष्पादकत्वोपपत्तेः । अत उपनयनफलं नाचार्यान्वयीति न तदध्यापनाङ्गम् ।

व्रतम्, उपाकर्मादि । नियमाः ; पद्यु वा एतत् श्मशानम् इत्याद्युक्तदेशकालभक्ष्याभक्ष्यादिनियमाः । अनेन उपदेशश्च इति पृथङ्निर्देशः श्रुतित्वस्मृतित्वविमतिसंमतिविभागात् । मासान्.... अर्धपञ्चमान् इत्यनेनाङ्गाध्ययनकालसिद्धिः । एवमङ्गविधिसहितप्रधानविधिना किं प्रतिपन्नमित्यत्राह - एवमिति एवम् ; साङ्गे विधौ निरूपिते । सत्संतान इत्यादिकम् अभिजनविद्यासमुदेतम् इत्यादिसूत्रानुविधायि । आचार्योपनीतस्य ;

गुरुविशेषणमुपनयनद्वारा माणवकार्थं यथा पक्षान्तरे माणवकविशेषणमन्यार्थमिति भावः । आत्मगुणाः ; अक्रोधादयः । व्रतनियमविशेषयुक्तस्येति दृष्टान्ततयोक्तिः । अनेन पदद्वयेन कथमित्याकाङ्क्षापूरणम् । उपरितनपदद्वयेन किंरूपमित्याकाङ्क्षा च शमिता, परतन्त्रासकृदुच्चारणरूपतासिद्धेः । आद्यत्वं च तेन सिद्धम् । आवृत्त्यश्रवणेऽपि दृष्टफलस्य चापरित्याज्यतयावघातादिवदावृत्तिसिद्धिः ।।

अध्ययनं च स्वाध्यायसंस्कारः, स्वाध्यायोऽध्येतव्यः इति स्वाध्यायस्य कर्मत्वावगमात् । ... ... ... प्रयोजनवतोऽर्थानापाततो दृष्ट्वा, तत्स्वरूपप्रकारविशेषनिर्णयफलवेदवाक्यविचाररूपमीमांसाश्रवणोऽधीतवेदः पुरुषः स्वयमेव प्रवर्तते ।।

प्रथमं तावत् इत्यादौ प्रतिज्ञातं संस्कारविधिमुपपादयितुमाह - अध्ययनं- चेति । कुत इत्यत्राह - स्वाध्याय इति । स्वाध्यायस्य कर्मत्वावगमान्नापूर्वद्वारा पुरुषसंस्कार इत्यर्थः । सक्तून् जुहोति इतिवत् किं न स्यादित्याशङ्क्य तत्स्वरूपं

शिक्षयति - संस्कार इति । ततः किमित्यत्राह - संस्कार्यत्वमिति ; न सक्तुवदनुपयुक्तमिति भावः । कुत इत्यत्राह -- धर्मेति; चतुष्टयकीर्तनेन वेदाख्यप्रबन्धस्यानुगतार्थश्च सूचितः । स्वरूपेणापि ; अर्थज्ञानानुष्टानाभ्यामृतेऽपीत्यर्थः । जपादिना स्वरूपेणापि ; जप्यमानेनाक्षरराशिमात्रेणापीत्यर्थः । अनुष्ठानशेषं ज्ञानम दृष्टपर्यन्तो जपश्चाध्ययनसंस्कृतेनैव, न तु पुस्तकाद्यवगतेनेति नियमविधित्वं च सिद्धम् ।अर्थज्ञानपर्यन्तत्वं किं शब्दस्वारस्यात्, उतार्थानुपपत्त्येति विकल्पमभिप्रेत्य प्रथमं शिरः प्रतिवदन्नध्ययनविधिचिन्तनमुपसंहरति - एवमिति । व्रतानुप्रविष्टाननुप्रविष्टमन्त्राभिप्रायेण मन्त्रवदि त्युक्तम् । अननुप्रविष्टाः शं नो मित्रः इत्यादयः । नियमाः ; पूर्वोक्ताः । अर्थज्ञानव्युदासाय मात्रशब्दः ; शब्दप्रतिपन्नमेतावत्, तत्र तात्पर्यं च पर्यवस्यतीत्यर्थः ; न ह्याधानवाक्यमुत्तरक्रतुविनियोगपर्यन्तम्, तद्वदिति भावः ।

अथ विधेरक्षरग्रहणपर्यन्तत्वे स्वाध्यायस्यार्थपरत्वे मानाभावादविवक्षितार्थत्वं, विधेः पुरुषार्थपर्यन्तत्वाभावः, प्रवर्तकाभावान्मीमांसानारम्भणीयत्वं च स्यात् - इति त्रिविधानुपपत्तिमूलामर्थधीपर्यन्ततां तन्निमित्तां ब्रह्मविचारारम्भशङ्कां च व्युदस्य, एकव्याख्येयव्याख्यानतया शास्त्रैक्यमपि दर्शयति - अध्ययनेत्यादिना । स्वभावतः इत्यादिना अविवक्षितार्थत्वपरिहारः । साक्षात्प्रयोजनपर्यवसानं त्वन्मतेऽपि न; परंपरया चेदस्मन्मतेऽप्यस्तीत्यभिप्रायेण प्रयोजनविरहं परिहरति प्रयोजनवदर्थ शब्दः । स्वर्गमोक्षादिप्रयोजनव

न्तोऽर्था यज्ञोपासनादयः । पूर्वं श्रुतिस्वभावोक्तिः ; पश्चात् तन्निमित्तापातप्रतीतिः । आपातप्रतीतिसमयेऽपि प्रयोजनवत्तयैव प्रतीतिसिद्ध्यर्थं प्रयोजनवतोऽर्था निति पुनः कीर्तनम् । तत्र हेतुः - गृहीतादिति ; साङ्गाध्ययनगृहीतादित्यर्थः ; अवगम्यमानान् दृष्ट्वा ; अवगतत्वं दृष्ट्वा । स्वरूपम् अङ्गी ; प्रकारः अङ्गम् । विशेषः पूर्वपक्षितरूपाद्वैषम्यम् ।

व्याकरणादिव्यावृत्तं शास्त्रशरीरं विचारः । निर्णयः फलम् । स्वयमेवाधीतवेदत्वे सति पुरुषत्वाच्चेतनत्वाद्रागत एव प्रवर्तते, न तु विधिनेत्यर्थः । अनेन प्रवर्तकाभावादनारम्भः परिहृतः । श्रुतौ स्मृतौ चाध्ययनशब्दस्य तुल्यार्थतया प्राबल्यदौर्बल्यकल्पनमनर्थकम् । श्रुतिश्चास्ति - वेदमधीत्याभिसमावृत्य इति । रागप्राप्तस्यापि स्वोपयोग्यर्थार्जनादेरिव श्रवणस्यापि विधिरवसरप्रदः । क्त्वाप्रत्ययः समानकर्तृकत्वपूर्वकालत्वपरः, न त्वानन्तर्यपरः । स्नातकस्यापि श्रवणं घटते, श्रावयितुरिवावसरसंभवात् । न च उदकाहरणादिभिरनुष्ठानोपरोधः, अध्ययनविधिप्रयुक्तानां तन्निवृत्तौ निवृत्तेः । वित्तख्यात्यादि गुरोः फलम् । यावच्छ्रवणसमाप्ति हितैषिवचनादनुष्ठानोपपत्तिः । न च तर्हि मीमांसानैरपेक्ष्यम्, मूलजिज्ञासया स्वयं प्रतिपिपादयिषया च सापेक्षत्वात् । न च हितैषिवाक्यादनुष्ठानेऽपशूद्रनयविरोधः, न शूद्राय मतिं दद्यात् इत्यादिभिर्ब्राह्मणैस्तस्यानुपदेशात् ; क्रतुषु जप्यमन्त्रादीनां त्रैवर्णिकाधिकारोपनयनाङ्गकाध्ययनसापेक्षत्वाच्च । अतो रागतः प्रवृत्त्युपपत्तिः । वेदवाक्यविचाररूप- शब्देन व्याख्येयैक्याच्छास्त्रैक्यं च सिद्धमित्यभिप्रेतम् ।

तत्र कर्मविधिस्वरूपे निरूपिते कर्मणामल्पास्थिरफलत्वं दृष्ट्वा ... ... तन्निर्णयफलवेदान्ताविचाररूपशारीरकमीमांसायामधिकरोति।।

एवमस्तु , कथं पौर्वापर्यनियमः इत्यत्राह - तत्रेति । निरूपिते ; कर्मस्वरूपमेव निरूपितम् । आवृत्तिविधानादिनाऽल्पास्थिरफलत्वं फलितमिति भावः । यद्वा कर्म निरूपितम्, न त्वाराध्यपरदेवता । तज्ज्ञाने सति हि फलानन्त्यमिति भावः । अन्नवानन्नादो भवति इत्यानुषङ्गिकफलव्युदासाय अमृतत्वरूप शब्दः । स्वाध्यायमीमांसाप्रयोजनवदर्थादि शब्दाः उभयभागसाधारणाः । उपनिषदादयस्त्वसाधारणाः । एवमैकशास्त्र्यं, पौर्वापर्यनियमः, ब्रह्मविचारारम्भणीयत्वं चेत्यर्थत्रयमुपपादितम् ।

तथा च वेदान्तवाक्यानि केवलकर्मफलस्य क्षयित्वं ब्रह्मज्ञानस्य चाक्षयफलत्वं दर्शयन्ति ... ... पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेति

इत्यादीनि ।।

आपातधीजनकवाक्यानि सन्तीत्याह तथा च इति । यथा सूत्रं व्याख्यातं, तथा इत्यर्थः । क्षयिफलत्वपरवाक्योपादानं क्वचिन्निर्णीतार्थसंवाददर्शनादर्थान्तराणामपि श्रद्धेयत्वाय । लोक्यत इति लोकः फलम् । फलद्वाराऽन्तवत्त्वमुक्तम् । अन्तवत् इति वाक्यं केवलकर्मपरम्, अविदित्वा इति हि प्रकृतम् । ध्रुवफलासाधनत्वमाह - न हि इति । ध्रुवं तत् इति वाक्यखण्डः । तदुपपादयति - प्लवा हि इति । इति कर्मफलक्षयित्वपराणि । अथोभयपरम् - परीक्ष्य इति । ब्राह्मणः ब्रह्म वेदः, तदधीत इत्यण् । यः इत्यध्याहार्यः, सः इत्युक्तेः । अकृतः
- परः पुरुषः । इतिरध्याहार्यः । एव इति नियमविधिः । श्रोत्रियम् - श्रुतवेदान्तम् । ब्रह्मनिष्ठम् - ब्रह्मसाक्षात्कारिणम् । शमदमौ

श्रवणौपयिकतादात्विकावधानमात्रहेतू, न त्वत्यन्त बाह्यान्तरकरणविषयप्रावण्यत्यागः । स हि निरूपयिष्यते । अक्षरं सत्यं - स्वरूपतो गुणतश्चाविकारमिति चिदचिद्व्यावृत्तिः । प्रोवाच - प्रब्रूयात् । छन्दसि लुङ्लङ्लिटः इति विधौ लिट् । अथानन्तस्थिरफलवाक्यानि । ब्रह्मवित् इति वाक्येनानन्त्यसिद्धिः । यतो वाचः इति हि प्रकरणम् । न पुनः इत्यादिकं मृत्युतत्कार्यनिवृत्तिपरम् । न रोगं नोत दुःखताम् इति हि न पश्यः इत्यनन्तरं श्रूयते । पश्य शब्दविषय उक्तः - तदेकं इति । स्वराट् - अकर्मवश्यः । स हि स्वतन्त्रः । तमेवम् इत्युपायान्तरनिवृत्तिः । पृथक्त्वज्ञानस्योपायत्वं पृथक् इति । जुष्टः - प्रीतिविषयीकृतः ।।

ननु च साङ्गवेदाध्ययनादेव कर्मणां स्वर्गादिफलत्वं स्वर्गादीनां च क्षयित्वं ... ... ... तथैव धर्मविचारोऽपि कर्तव्य इति पश्यतु भवान् ।।

उदाहृतवाक्यमात्रतृप्तश्चोदयति - ननु च इति । क्षयिफलत्वज्ञानाय हि कर्मविचारः । तत् साङ्गाध्ययनसिद्धमित्यनन्तफलेच्छोस्तदेव जिज्ञास्यमिति चोद्यम् । एवं तर्हि - उदाहृत वाक्यमात्रतृप्तोऽसि चेत् । कृत्स्नस्य ब्रह्मणोऽपीति भावः । सत्यम् इति । आपातप्रतीतावभ्युपगमः, विचारनैरपेक्ष्येऽनभ्युपगमः । अन्नवान् इत्याद्यवगताल्पास्थिर फलदाकाशप्राणादिशब्दैः तान्येवानुविनश्यति इत्यनित्यत्वादिभिश्च संशयाद्यनतिवृत्तिः । भवान् - अनुदाहृतास्पष्टार्थवाक्यान्तरजिज्ञासु । अक्षय्यं ह वै अपाम सोमममृता अभूम इत्यादिकं पूर्वभागेऽपि पश्येत्यर्थः । उदाहृतवाक्यैः तृप्तिश्चेत् उत्तरत्रापि स्यात् । अनुदाहृ

तैरतृप्तिश्चेत् पूर्वत्रापि स्यात् । सान्तानन्तादिविरुद्धार्थधीरुभयत्र तुल्येति विचार्यत्वमविशिष्ठमित्युक्तं भवति ।।

लघुपूर्वपक्षः ।

ननु च ब्रह्मजिज्ञासा यदेव नियमेनापेक्षते, तदेव पूर्ववृत्तं वक्तव्यम् । ... ... ... अतो तत्प्रधानं शास्त्रम्, तदपेक्षितमेव पूर्ववृत्तं किमपि वक्तव्यम् ।।

इत्थं कर्मण फलद्वारा हानाय निरूप्यत्वमुक्तम् । अथ स्वरूपेणोपादानाय निरूप्यत्वमुपपादयितुं नियमेनानपेक्षितत्वमुखेन चोदयति - ननु च इति । प्रथम एवकारोऽपेक्षितद्वित्वव्युदासाय, द्वितीयस्त्वनपेक्षितस्य पूर्ववृत्तत्वव्युदासाय । ततः किमित्यत्राह - न धर्म इति । कुत इत्यत्राह - अधीत इति । वेदान्तमात्राध्यायिनस्तत्रैवाऽऽपातप्रतीतेरित्यर्थः । यद्वा कृत्स्नाध्यायिनोऽपि सुकृतवशात् उत्तरत्रापेक्षोत्पत्तेरिति । तदा अपेक्षितांशस्याप्यधीतत्वम् अधीत इति पदार्थः । शङ्कते - कर्म इति । प्रस्तावोद्गीथप्रतिहारोपद्रवनिधनाख्येषु सामावयवेषु द्वितीय उद्गीथः । उपासनस्य कर्माङ्गताप्रतीतिव्युदासाय आश्रय शब्दः । हेतुगर्भं पदमिदमशक्यत्वे । सोपालम्भं प्रतिवक्ति - अनभिज्ञ इति । प्रधानप्रतिपाद्यं ज्ञानं न वेत्सीत्यर्थः । तत्किमित्यत्राह - अस्मिन् इति । ज्ञातृज्ञेयज्ञानरूपो भेदः, अवान्तरभिदया- विविधः । सः अविद्याकृतः । अनवस्थापरिहारः अनादि शब्देन । आविद्यभेदर्शनहेतुकजन्मजरादिनिरसनीयत्वाय दुःखसागर शब्दः । मिथ्याज्ञानं - भ्रान्तिज्ञानम्, मिथ्याभूतज्ञानं वा । ज्ञाननिवर्त्यत्वायमिथ्यात्वोक्तिः । आत्मैकत्वविज्ञानम् - चन्द्रैकत्वविज्ञानं हि तद्भेदभ्रमनिवर्तकम्, न कर्म इत्यर्थ । क्व - न क्वापि । ज्ञानोत्पत्तितत्साधनानुग्रहतत्फलेषु न क्वापीत्यर्थ, प्रत्युत - भेदवासनाहेतुत्वादिति भावः । उद्गीथादिधियामौपनिषदत्वात्, ब्रह्मविद्यापेक्षितास्तः ; अतः शारीरके तच्चिन्तनं साक्षात्सङ्गतमित्यत्राह - उद्गीथ इति । कुत इह चिन्तेत्यत्राह - ज्ञान इति । तुशब्दौ शङ्काद्वयव्यावर्तकौ । अतः इति । प्रासङ्गिकापेक्षितं न पूर्ववृत्तम्, किन्तु प्रधानापेक्षितमेवेत्यर्थः ।।

बाढम् ; तदपेक्षितं च कर्मविज्ञानमेव ; कर्मसमुच्चितात् ज्ञानादपवर्गश्रुतेः । वक्ष्यति च, कर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् इति । .. ... ... इति विभागो न शक्यते ज्ञातुम् । अतस्तदेव पूर्ववृत्तम् ।।

अत्र भास्करीयाः प्राहुः बाढम् इति । सिद्धान्तिन इति च संप्रदायः, अङ्गत्वोपग

मसाम्यात् । पूर्वं तूचितं कर्म इत्यादेस्तद्ग्रन्थस्थत्वात् । बाढम् इति नियतापेक्षितस्य वृत्तत्वे संमतिः, न कर्मेत्यत्र विमतिः । किं नियतापेक्षितमित्यत्राह - तत् इति । त्वदनभिमतमेवेति भावः । कुत इत्यत्राह - कर्म इति । श्रुतिः च यज्ञेन इत्यादि । समुच्चयः - संबन्धमात्रम् । चः प्रतिपादकसमुच्चये । ततः किमित्यत्राह - अपेक्षिते च इति । पदार्थप्रतिपत्तौ न वाक्यार्थप्रतीतिरिति भावः । निगमयति अतः
इति ।।

समसमुच्चयवादिमतावलम्बनेन पार्श्वस्थः चोदयति - बाढम् इत्यादिना इति च निर्वाहः सांप्रदायिकः । तदा

समप्रधानतयाऽन्वयः समुच्चयः विवक्षितः । श्रुतिः च विद्यां चाविद्यां च इत्यादिः । चः प्रतिपाद्यसमुच्चये । अङ्गभावं च वक्ष्यतीत्यर्थः । ज्ञानोत्पत्तेः प्रागङ्गभावस्य तदभ्युपगमात् । उपरि पूर्ववत् । यद्यपि यादवप्रकाशमते कर्मधियः पूर्ववृत्तत्वमनभिमतं, तथापि तदभिमतं कर्मण उभयथाऽपेक्षितत्वमुपजीव्य पार्श्वस्थेन चोदयित्रा पूर्ववृत्तत्वमापाद्यते इति निगमनग्रन्थाविरोधः ।।

नैतद्युक्तम् ; सकलविशेषप्रत्यनीकचिन्मात्रब्रह्मविज्ञानादेवाविद्यानिवृत्तेः । अविद्यानिवृत्तिरेव हि मोक्षः । ... ... ... कथमिव साधनं भवेत् ?

मृषावादी प्रतिवदति - नैतत् इति । कथमयुक्तत्वमित्यपेक्षायां, कर्मणोऽपेक्षितत्वे संभावितं कृत्स्नं प्रकारं दूषयिष्यन्, किं समुच्चयशब्देन समप्रधानतयाऽन्वयो विवक्षितः, उत समुच्चयशब्दस्य संबन्धमात्रपरत्वं विवक्षित्वा तेनाङ्गतया संबन्धोऽभिधित्सित इति विकल्पमभिप्रेत्य, प्रथमे शिरसि साध्यद्वित्वं साधनद्वित्वं च ग्रन्थद्वयेन व्युदस्यति - सकल इत्यादिना । सकलभेदाः - सजातीयविजातीय स्वगतभेदाः । तेषां प्रत्यनीकं - सर्पादीनां रज्जुवत् । मात्रचा व्यावृत्तिरूपभेदव्युदासः । कर्मसाध्याभिमतप्रतिबन्धनिवृत्तेर्ज्ञानसाध्यत्वस्य तमेव विदित्वाऽतिमृत्युमेति इत्यादिभिः प्रतिपादनान्न साधनद्वित्वमित्यर्थः । निवृत्तिरेव प्रतिबन्धे निवृत्ते नित्यप्राप्तस्य प्राप्तिर्नसाध्येति भावः । ततः किमित्यपेक्षायां कर्मणो मोक्षविरोधित्वं प्रत्युतविरुद्धमेव इति प्रागुक्तं विवृणोति - वर्ण इति । आदि शब्दो निषिद्धादिपरः । भेददर्शननिवृत्तिरूप इति - कारणाज्ञाननिवृत्तिः कार्याज्ञाननिवृत्तिगर्भेति तद्रूपत्वम् । कथमिव - न कथञ्चित् ।।

श्रुतयश्च कर्मणामनित्यफलत्वेन मोक्षविरोधित्वं ज्ञानस्यैव मोक्षसाधनत्वं च .. ... ... ... तमेव विदित्वाऽतिमृत्युमेति इत्याद्याः ।।

श्रौतोऽर्थो न तर्कबाध्य इत्यत्राह - श्रुतयश्च इति । पूर्वं वस्तुविरोध उक्तः । अनित्यफलत्वेन इति - फलद्वारा विरोधः । अन्तवत् इति बहूनां बहुकालानुष्ठितानामप्यन्तवत्त्वम् । तद्यथा इति फलद्वारा विरोधो दर्शितः । ज्ञानस्योपायत्वं, प्राप्तृप्राप्यभेदविरहः, प्रतिबन्धनिवृत्तेरेव साध्यत्वम्, उपायान्तरनिषेधश्च ब्रह्मवित् इत्यादिवाक्यैः सिध्यति । एवं तर्कानुगृहीतस्फुटार्थानेकश्रुत्यनुगुणार्था विद्यां चाविद्यां च इति श्रुतिरिति भावः ।।

यदपि चेदमुक्तं, यज्ञादिकर्मापेक्षा विद्येति ... ... ... ... समाहितो भूत्वाऽऽत्मन्येवाऽऽत्मानं पश्येत् इति ।।

अथ यज्ञादिश्रुतेर्विद्यायाः कर्मसापेक्षत्वपरतां व्युदस्यति - यत् इति । यज्ञादिकर्मापेक्षा विद्या इति वचनव्यक्त्या समप्रधानतया वाऽङ्गतया वा यत्कर्मापेक्षितमुक्तं, तद्भेदवासनाहेतुत्वात् सन्नन्तपदश्रवणाच्च मनःशुद्धिद्वारेणेच्छार्थमित्यर्थः । समसमुच्चयप्रतिपादकताव्युदासपरत्वे फल शब्दो मोक्षपरः । अङ्गत्वपरताव्युदासपरत्वे वेदनपरः । विविदिषन्ति इत्येतत् असिना जिघांसति इतिवत् स्यादिति शङ्कायां, प्रथममितिकर्तव्यतात्वेन ज्ञानोत्पत्त्युपायतां व्युदस्यति - विविदिषायाम् इति । शमादीनामेव निवृत्तिरूपशमादेः प्रवृत्तिरूपयज्ञादिभिर्विरोधान्न समुच्चय इति भावः । विविदिषन्ति इति शब्दस्वारस्यभञ्जकन्यायनिरीक्षणविलम्बेनातुल्यत्वात् न विकल्प इत्यभिप्रेत्य श्रुतिरेव इत्युक्तम् । क्त्वाश्रुत्या हि शीघ्रप्रतिपत्तिः । इच्छार्थमपेक्षितत्वेऽपि कथं कर्म त्यज्यते, शमादिः स्वीक्रियते ? इत्यत्राह - अन्तरङ्ग इति । कर्मापेक्षा ज्ञानस्येच्छाद्वारेण व्यवहिता ; उत्पन्नायामपीच्छायां ज्ञानोत्पत्तौ शमाद्यपेक्षितमिति तदन्तरङ्गमिति भावः ।।

तदेवं जन्मान्तरशतानुष्ठितानभिसंहितफलविशेषकर्ममृदितकषायस्य ... ... अर्थस्वभावादेवेदमेव पूर्ववृत्तमिति ज्ञायते ।।

अथ विविदिषार्थं कर्मज्ञानं पूर्ववृत्तं स्यादिति शङ्कां च व्युदस्यन् ज्ञानोत्पत्तौ करणत्वं व्युदस्यति - तदेवम् इत्यादिना । इदं संभवतीति निरस्यते, न त्वभ्युपेतमिति । एवम् - उक्तोपपत्तिभिः समुच्चयेन विकल्पेन चेतिकर्तव्यतात्वेऽनुपपन्ने इत्यर्थः । इच्छार्थं तज्ज्ञानस्यास्मिन् जन्मनि संपाद्यताव्युदासाय जन्मान्तर शब्द । अनेकजन्मसंसिद्ध्यपेक्षत्वेनेह जन्मन्यप्यनुष्ठेयत्वशङ्काव्युदासाय शत शब्दः । कार्यकल्प्यं हि कारणमिति भावः । स्वर्गादिप्रदस्य कथमिच्छार्थत्वमित्यत्राह - अनभिसंहित इति । मृदितकषायस्य - मृदितपापस्य । सदेव

इति कारणवाक्यम् । सत्यम् इत्यादि शोधकम् । व्यावृत्तिवैशद्याय निष्कलम् इत्यादि । ऐक्यवाक्यम् अयमात्मा इति । तात्पर्यलिङ्गपुष्कलम् तत्त्वमसि इति । सामान्यतो विशेषतश्च ऐक्यसिद्धिः । वाक्यं करणं, न कर्मेत्यर्थः । निदिध्यासनविधिवैयर्थ्यमाशङ्क्याऽऽह - वाक्यार्थ इति । अवैयर्थ्यज्ञापनाय तानि शिक्षयति - श्रवणम् इति । विद्याप्रतिपादकानि - विद्यानिष्पादकानि इत्यर्थः । इति - समुच्चयाङ्गाङ्गिभावयोरनुपपन्नत्वात् । एवंरूपस्य -

बन्धनिवृत्तौ कर्मानपेक्षवाक्यार्थज्ञानोपक्रमभूतस्य । तच्च किमित्यत्राह - तच्च इति । साधनचतुष्टयस्य वृत्तत्वे हेतुं वस्तुसामर्थ्यमाह - अनेन इति । नित्यानित्यविवेकान्नित्येच्छा अनित्यजिहासा च ; तदुपयोगीशमादिरिति कथमनेन विना जिज्ञासेति भावः । शमादिकं वृत्तमस्तु; कर्मचापेक्षितमस्त्विति शङ्कायामाह - अर्थस्वभावादेव इति । अयोगव्यवच्छेदहेतुरर्थस्वभाव एवान्ययोगव्यवच्छेदस्यापि हेतुरित्यर्थः । शमादिकं हि निवृत्तिरूपत्वात् कर्मप्रतिक्षेपकम् । कर्मणो भेदावलम्बित्वं, ज्ञानस्य कर्मानपेक्षत्वं चेति ज्ञानकर्मणोरर्थस्वभावौ गर्भितौ ।।

एतदुक्तं भवति - ब्रह्मस्वरूपाच्छादिकाविद्यामूलमपारमार्थिकं ... ... ... उक्तमेव साधनचतुष्टयं पूर्ववृत्तमिति वक्तव्यम् ।।

कथं विशेषप्रत्यनीकेऽध्यासः ? कथं तन्निवृत्तौ कर्मानपेक्षा ? मनसः कथं मालिन्यनैर्मल्ये ? कश्चार्थस्वभावः ? इत्याशङ्कायामुक्तं सङ्कलय्यदर्शयति - एतदुक्तम् इति । स्वरूपतिरोधेरध्यासः । भेददर्शनमेव, न सत्यं किमपि । तथा सति हि कर्मापेक्षा । ततः किं बन्धस्य ज्ञानमात्रनिवर्त्यत्वे इत्यत्राह - बन्धश्च इति । समूलः - अविद्याभेददर्शनसहितः । ज्ञानेनैव , न तु कर्मणा । न हि सर्पभ्रमनिवृत्तौ रज्जुधीः कर्मापेक्षा । एवं समुच्चयव्युदासः । अथ करणत्वं व्युदस्यति - निवर्तकं च इति । तस्य - कर्मानपेक्षस्य ; एतस्य - अद्वैतविषयस्य । तत्र हेतुः वाक्यजन्यत्वम् ; कार्यम् बन्धनिवृत्तिः । तर्हि कुत्रेत्यत आह - विविदिषायमेव इति । श्रुतिप्रतिपन्नायामेवेति भावः । स च कथमित्यत्राह - स च इति । नैवं श्रुतमित्यत्राह - इतीमम् इति । इमं प्रणाड्या उपयोगम् अभिप्रेत्य उक्तमित्यर्थः । प्रकृतमुपसंहरति - अतः इति । अतः हानार्थमुपादानार्थं च कर्मज्ञानस्यानपेक्षितत्वादित्यर्थः । अत्र व्याख्यातार आहुः -

बिरोधादप्रमाणत्वाच्चित्तशुद्ध्युपयोजनात् ।

ज्ञानमात्रस्य हेतुत्वश्रुतेः सामर्थ्यतोऽपि च ।।

शमाद्यङ्गकताम्रानान्न धीकर्मसमुच्चयः ।

श्रवणादिक्रमोन्निद्रवाक्यजा धीर्विमोचिका । ।इति।।

इति लघुपूर्वपक्षः ।

लघुसिद्धान्तः ।

अत्रोच्यते - यदुक्तम् अविद्यानिवृत्तिरेव मोक्षः, सा च ब्रह्मविज्ञानादेव भवति इति, तदभ्युपगम्यते । अविद्यानिवृत्तये वेदान्तवाक्यैर्विधित्सितं ज्ञानं किंरूपमिति विवेचनीयम् ... ... तावन्मात्रेणाविद्यानिवृत्त्यनुपलब्धेश्च।।

अस्मिन् पूर्वपक्षे सिद्धान्त उच्यत इत्याह - अत्र इति । साध्यसाधनद्वित्वनिरासमभ्युपगमेन प्रतिवक्ति - यत् इति । तर्हि कुत्र विमतिरित्यत्राह - अविद्या इति । किंरूपम् - कर्माङ्गकत्वार्हं मदुक्तं ज्ञानम्, उत तदनर्हं त्वदुक्तमिति साधनप्रकारविशेषे विमतिः । परमतं स्वमतं चाह - किं वाक्यात् इति । न तु परमतविकल्पः । त्वन्मतमयुक्तमित्याह - न तावत् इति । न तु दूष्यशिरसोरन्यतरदूषणम् । कुत इत्यपेक्षायां विधिवैयर्थ्यं हेतुमाह - तस्य इति । न हि व्युत्पन्नस्य शब्दश्रवणादर्थबोधो विध्यपेक्षः । प्रत्यक्षविरोधं च हेतुमाह - तावत् इति । इदं दूषणद्वयम् आपस्तभ्बेन चोक्तं - बुद्धे क्षेमप्रापणं, तच्छास्त्रैर्विप्रतिषिद्धम् ; बुद्धे चेत् क्षेमप्रापणमिहैव न दुःखमुपलभेत इति । उपासनध्रुवानुस्मृतिदर्शनभक्ति यावज्जीवानुवृत्तिनिष्क्रमणमार्गविशेषपरबहुशास्त्रविरोधः शास्त्रैरिति विवक्षितः । विशेषतः प्रतिषेधः विप्रतिषेधः ; प्रबलैः प्रतिषेधः, ? न तु समैरुपरोध इत्यर्थः ।।

न च वाच्यम्-मेदवासनायामनिरस्तायां वाक्यमविद्यानिवर्तकं ज्ञानं न जनयति ... ... ... अतो वाक्यार्थज्ञानादन्यदेव ध्यानोपासनादिशब्दवाच्यं ज्ञानं वेदान्तवाक्यैर्विधित्सितम् ।।

अनयोः परिहारद्वयं परोक्तमनूद्य निरस्यति - न च इति । इदानीमुत्पद्यमानज्ञानव्यावृत्त्यर्थमाह - अविद्यानिवर्तकम् इति । पश्चादपि तत् वाक्यतश्चेदद्यैव ततस्तत् स्यादित्यत आह - भेद इति । व्यासादीनामपि ज्ञानानुदयवादः श्रोतृधियो दुरारोह इति बाधितानुवृत्तिमाह - जातेऽपि इति । सर्वमूलाविद्यैक्यात् सर्वस्य इत्यक्तम् । न दोषाय - मूलाज्ञानानिवर्तकत्वं न दोषाय । तर्हिबन्धकं स्यादित्यत्राह - अनिवृत्तमपि इति । छिन्नमूलत्वेन - छिन्नाविद्याख्य

मूलत्वेन । श्रवणादेर्वाक्यार्थज्ञानोपयोगाच्छास्त्रविरोधपरिहारश्च अर्थात् सिद्ध इत्यभिप्रेतम् । अनुत्पत्तिपक्षं दूषयति - सत्याम् इति । न्यायानुगृहीतव्युत्पन्नपदपङ्क्तिरूपं वाक्यम् सामग्री । प्रतिबन्धकस्थित्या तद्वैकल्यमाशंक्याह - सत्यामपि इति ।

बाधकोत्पत्तौ बाध्या वासना न प्रतिबन्धिकेत्यर्थः । बाधितानुवृतिं्त दूषयति - सत्यपि इति । भवता - कृत्स्नमिथ्यात्ववादिना । भवता इत्यभिप्रेतं विवृणोति - भेद इति । ऐक्यज्ञानोदयेऽपि किं वासना स्थिता, उत तन्निवृत्तावपि भेदधीरिति शिरोद्वये प्रथमं दूषयति - ज्ञानोत्पत्तावपि इति । स्वयं नाशे तत्क्लृप्तिभ्रमस्तस्यापि तथेति भावः । द्वितीयं दूषयति - वासना इति । छिन्नमूलम् - छिन्नवासनाख्यमूलम् । बालिशभाषितम् इति । मुक्तिर्विना ज्ञानेन स्यात्, तच्च श्रवणादिभिर्विना स्यात्, विनाऽपि अविद्यया जगद्भ्रमः स्यात्, सा च विनाऽधिष्ठानेन स्यात् इति भावः । तर्हि कथं द्विचन्द्रज्ञानानुवृत्तिरित्यत्राह - द्विचन्द्र इति । तिमिरं पारमार्थिकं, न मिथ्या इति तस्य ज्ञानाबाधितत्वात् । तर्हि उपदेशवैयर्थ्यमित्यत्राह - प्रबल इति । ऐन्द्रजालिककृतभयादिव्युदासाय प्रबल इत्यादिपदम् । याथार्थ्यापरोक्ष्या- र्थंप्रवृत्तिद्वारा वा सार्थत्वम् । एवं परपक्षे बाधकस्थितौ बाध्यस्थितिरहेतुककार्योदयश्च, स्वपक्षे तदुभयाभाव इति वैषम्यं दर्शितम् । सिंहावलोकितकेनानुत्पतिं्त दूषयति - अपि च इति । अदृष्टद्वारा चेन्निवर्त्यं सत्यं स्यादिति दृष्टद्वारा निवर्त्यत्वे दूषणमिदम् । अतः पारिशेष्यान्मुक्त्युपायज्ञानं वाक्यार्थधियोऽन्यदित्याह - अतः इति ।।

तथा च श्रुतयः - विज्ञाय प्रज्ञां कुर्वीत, अनुविद्य विजानाति ... ... ... यस्तद्वेद यत् स वेद स मयैतदुक्तः इत्यत्र , अनु म एतां भगवो देवतां शाधि यां देवतामुपास्से इति ।।

तथा च इति । न परं पारिशेष्यादवगम्यते, श्रूयते चेत्यर्थः । उपसर्गविशेषसन्विधिप्रत्यय योगायोगेऽप्यैकार्थ्यज्ञापनार्थं सामान्यशब्दानां छागपशुन्यायाद्विशेषपर्यवसानज्ञापनार्थं चानेकवाक्योपादानम् । निचाय्य - चायृ दर्शने । इति शब्दः स्वरूपे ; एवं शब्द उपसर्गयोगादिप्रकारे । प्रज्ञां कुर्वीत इत्यादिषु ज्ञानमात्रं विधेयं प्रतीयते, न ज्ञानविशेष इत्यत्राह - अत्र इति । अत्र - उदाहृतवाक्यसमुदाये । आदि शब्दात् आत्मानं ध्यायथ इत्यादेः ग्रहणम् । छागपशुन्यायात् ध्यानरूपविशेषे पर्यवसानमित्यर्थः । तर्हि ल्यबन्तपदाभ्यां अन्वेष्टव्यः इत्यनेन च किमुच्यत इत्यत्राह - वाक्यार्थ इति । सामान्यशब्दः श्रवणादौ विशेषे पर्यवस्येदित्यत्राह - श्रोतव्यः इति । श्रवणादिपर्यवसाने विध्यानर्थक्यादप्राप्तस्य ध्यानस्य विधेयत्वमाह - तस्मात्

इति । उक्तार्थस्य सौत्रतामाह - वक्ष्यति इति । सूत्रार्थमाह - तदिदम् इति । तृतीयलक्षणावसाने प्रकृतं श्रुतिषु सामान्यशदोक्तं वा तदिदम् इत्युक्तम् । हेतुमाह - विदि - इति । स्थलत्रयमुदाहरति - मनः इति । न स इत्यादौ व्यवधानाभावन्न अत्र शब्दः । अत्रादौ चोपासिः श्रुतः, अथ योऽन्यां देवतामुपास्ते इति । क्वचिदादौ, क्वचिदाद्यन्तयोः, क्वचिदन्ते च विशेषशब्दः । क्वचिदन्ते, क्वचिन्मध्ये, क्वचिदादौ च सामान्यशब्दः इत्युदाहरणत्रयविभागः । इदं वाक्यं रात्रिसत्र वाक्यवत् द्रष्टव्यम् । तत्र हि विधिवाक्यनिर्दिष्टा रात्रीः अर्थवादे य एता रात्रीः इत्यनूद्य फलत्वेन प्रतिष्ठा समर्प्यते । तद्वदत्रापि विधिवाक्य- निर्दिष्टमुपासनमर्थवादे य एवं वेद इति विदिनाऽनूद्य, तत्फलत्वेन भाति च इत्यादिना भानतपने समर्प्येते । यस्तत् इति । यः - वेदिता रैक्वः ; यत् -वेद्यं ब्रह्म ; सः - एतच्चोभयं तवोक्तमित्यर्थः । मे अनुशाधि इत्यन्वयः । कस्मिंश्चित् प्रकरणे सामान्य- शब्दनिर्दिष्टस्य तत्तुल्यप्रकरणान्तरे विशेषशब्देनोक्तिः प्रागुक्ता । एकैकस्मिन् प्रकरणे व्यतिकरेणोक्तिरत्रोक्ता । एतत् द्वयमपि सूत्रे पूर्वत्र च हेतुतया विवक्षितम् । एकत्रोक्तिर्लाघवाय । तदिदम् इत्यादि सूत्रव्याख्यानम् । न चेत् अपवर्गोपायतया विधित्सितं ध्यानम् इ त्युच्येत्, न तु वेदनमिति । अन्यथा श्रृङ्खलितोक्तिप्रकरणवैरूप्यात् ।।

ध्यानं च तैलधारावदविच्छिन्नस्मृतिसन्तानरूपम् - ध्रुवास्मृतिः । ... ... ... ... ... ... उपासनं स्यात् ध्रुवानुस्मृतिर्दर्शनान्निर्वचनाच्च इति तस्यैव वेदनस्योपासनरूपस्यासकृदावृत्तस्य ध्रुवानुस्मृतित्वमुपवर्णितम् ।।

पूर्वप्रकृतध्यानं विशिनष्टि - ध्यानं च इति । स्मृतीनां ध्रुवत्वं विजातीयस्मृत्यव्यवधानम् । अपवर्गोपायत्वश्रवणात् - निदिध्यासितव्यः इत्यादिविहितध्यानमेव ध्रुवा स्मृतिः इत्यत्र फलैक्यादवगतमित्यर्थः । कतिपयविशेषं प्रदर्शयतः सूत्रकृतोऽभिप्रेतं विशेषान्तरमाह - सा च इति । समानाकारत्वम् - विशदावभासरूपत्वम् । कुत इत्यत्राह भिद्यते इति । हृदयग्रन्थिः - अज्ञानम्; यद्वा हृदयः - हृद्गतः आत्मा,तस्य ग्रन्थिः - प्रकृतिसंबन्धः । उपायफलानुभवदशासाधारण्यात् प्रागविवृतस्य द्रष्टव्यः इति पदस्यार्थमाह - एवम् इति । एवं च सति -निर्णायकवाक्यान्तरे सति इत्यर्थः । कथं स्मृतेर्दर्शनरूपतेत्यत्राह भवति इति । वृक्षे वृक्षे च पश्यामि इतिवदिति भावः । अथमर्थः सूत्रतात्पर्यज्ञैरप्युक्त इत्याह - वाक्य इति । प्रपञ्चितम् - पूर्वपक्षसिद्धान्तरूपेणेत्यर्थः । तद्विषये श्रवणात् - व्यतिकरप्रयोगादिनेत्यर्थः ।

वाक्यं व्याचष्टे - सर्वासु इति । न परं छान्दोग्य इति भावः । मोक्षसाधनतया विहितम् इति अर्थान्तरधीश्रवणादिव्युदासः

। उक्तार्थस्य पूर्वपक्षत्वशङ्काव्युदासायाह - सकृत् इति । सिद्धम् - सिद्धान्तः । द्वित्रावृत्तिमात्रव्युदासाय असकृत् - शब्दः । सूत्राभिप्रेतस्य वाक्ये कण्ठोकिं्त दर्शयति - उपासनम् इति । तस्यैव - मोक्षसाधनस्यैव । उपासनशब्दवाच्यत्वादसकृदावृत्तत्वम् ।।

सेयं स्मृतिर्दर्शनरूपा प्रतिपादिता । दर्शनरूपता च प्रत्यक्षतापत्तिः । ... ... ... ... ... प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः इति च ।। अतः साक्षात्काररूपा स्मृतिः ... ... तेनैव लभ्यते पर आत्मेत्युक्तं भवति ।।

वाक्यकृतोऽप्यभिप्रेतं विशेषान्तरं प्रागस्मदुक्तमित्याह - सेयम् इति । वाक्यकारेणैव तुल्यन्यायतयाऽर्थादुक्तमिति वार्थः । सेयम् - असकृदावृत्ता ध्रुवा च । दींर्घदर्शी इतिवत् दर्शनशब्दस्य धीसामान्यपरत्वं मा भूदित्याह - दर्शन इति । प्रत्यक्षसमानाकारतापत्तिरित्यर्थः । श्रोतव्य इत्यादिधीविशेषान्तरवाचिपदैः समभिव्याहारात् द्रष्टव्य इत्यस्यापरोक्ष्यरूपधीविशेषपरत्वमेव न्याय्यमिति भावः । विशेषान्तरपरा श्रुतिरस्तीत्याह - एवम् इति । एवम् - सामान्यविशेषनयादिति भावः । प्रवचनम् मननम् ; कारणे कार्योपचारः । अत्र कथं स्मृतेर्विशेषितत्वं, ध्यानादेरनुपायत्वमेव प्रतीयत इत्याशङ्कायां प्रथमप्रतीतमर्थमाह - अनेन इति । न पृथिव्यामग्निः चेतव्यः इतिवदिति केवल शब्दस्य भावः । ततः किमित्यपेक्षायां लोकनीर्तिं दर्शयति - प्रिय इति । ततोऽपि किमित्यत्राह - यस्य इति । यस्य उपासकस्य; अयम् - परमात्मा । परमात्मविषयप्रीतिमत एव तत्प्रीतिविषयत्वमित्यत्र मानतया प्रियतमत्वकार्यवरणविवरणाय स्मृतिमर्थपूर्वकं दर्शयति - यथा इति । अयम् - भगवति प्रीतिमान् । सततयुक्तानाम् - आशंसायां क्तः । तद्विवरणायाह - प्रियो हि इति । लोकस्मृत्यनुगृहीतश्रुत्या ध्रुवानुस्मृतेर्विशेषितत्वं दर्शयति - अतः इति । स्मर्यमाणात्यर्थप्रियत्वेन - अर्थेनैव विशेषो हि निराकारतया धियाम् इति भावः । अत्यर्थप्रिया -अत्यर्थानुकूला ।।

एवंरूपा ध्रुवानुस्मृतिरेव भक्तिशब्देनाभिधीयते, उपासनपर्यायत्वात् भक्तिशब्दस्य । ... ... ... ... पुरुषः स परः पार्थभक्त्या लभ्यस्त्वनन्यया इति ।।

तर्हि कथं भक्तेरुपायत्वोक्तिरित्यत्राह - एवम् इति । सेवा भक्तिरुपास्तिः इति हि

नैघण्टुकाः । बहुश्रुत्यैकार्थ्यान्मोक्षोपायवेदनस्य भक्तिरूपत्वमुपपाद्य, अथ श्रतिस्मृत्यैकार्थ्यादेव तदुपपादयति - अत एव इति । अतः -भक्तिरूपोपासनस्य मुक्त्युपायवेदनत्वात् । यस्मात् परं नापरम् महान् प्रभुर्वै पुरुष इति पूर्वापरावगतभगवत्परो मध्यस्थशिवशब्दः पुरुषसूक्तैकार्थ्यादिति ज्ञापनाय श्वेताश्वतरवाक्यमुपात्तम् । उपायान्तरनिषेधकण्ठोक्त्या ततो मां तत्त्वतः इति वाक्यार्थनिश्चायकतया ज्ञानदर्शनप्राप्तीनां भक्तिसाध्यत्वकण्ठोक्त्या नाहं वेदैः इत्युदाहृतम् । विषयैक्यप्रत्यभिज्ञया तदुपायैक्यमिति ज्ञापनाय पुरुषः स परः इत्याद्युपात्तम् ।।

एवंरूपायाः ध्रुवानुस्मृतेः साधनानि यज्ञादीनि कर्माणि इति यज्ञादिश्रुतेरश्ववत् ... ... ... ... एवंनियमयुक्तस्याऽऽश्रमविहितकर्मानुष्ठानेनैव विद्यानिष्पत्तिरित्युक्तं भवति ।।

एवमस्तु, ततः किं कर्मसापेक्षत्वस्येत्यत्राह - एवंरूपाया इति । एवंरूपायाः - उक्तानेकविशेषणविशिष्टायाः । तत्तदवस्थाभेदः कर्मसाध्य इति भावः । ध्रुवानुस्मृतेः - न तु विविदिषाया इत्यर्थः । परमसाध्येच्छोरेवावान्तरसाध्ये प्रवृत्तेः, वेदनेच्छोरेव तदर्थेच्छार्थमनुष्ठानमित्यात्माश्रय इति भावः । अभ्युपेत्याह- यद्यपि इति । तदुत्पत्तये - विविदिषोत्पत्तये । विद्यायाः कर्मणश्च यावज्जीवानुवृत्तावाश्रम शेषस्य विद्याङ्गत्वे च सूत्राणि दर्शयति - वक्ष्यति च इति ।।

अथाप्रमाणतां शमादिविरोधं च परिजिहीर्षन्नाह - वाक्य इति । ध्रुवानुस्मृतेः इत्यनेन वाक्यस्थतच्छब्दो व्याख्यातः । केवलस्य यज्ञादेः शमादेश्च व्युदासाय एवकारः । इतरेतरयोगे द्वन्द्वः ; तेन विकल्पव्युदासः । स हि प्रतीत्यनुष्ठित्यपूर्वफलानां पाक्षिकबाधैरष्टदोषः । संभवः - युक्तिः । निर्वचनम् - आगमः । के पुनस्ते ? कथं च शमाद्यविरोधः ? इत्यत्राह - विवेक इति । इतिः भाष्योक्तिः, अत्र इत्यादिश्च । विषयानभुक्त्वा स्थातुमशक्तिर्येन स विकारः अभिष्वङ्गः । अनभिष्वङ्गेन क्रोधाद्यभावश्च फलितः । कामाद्धि क्रोधः । आरंबणम् - आलंबनम्, शुभाश्रयः । नात्र साध्याविशिष्टता, कालान्तरसंशीलनस्य योगोपकारकत्वात् । भाष्यकारः - द्रमिडाचार्यः । अतः सर्वं निर्वचनं तेन दर्शितमिति विज्ञायते । स्मार्तम् इति । श्रौतस्य अथ मुनिः इत्यस्यास्फुटार्थत्वात् स्फुटार्थंस्मार्तं दर्शितम् । शक्तितः -न ह्यशक्यं विधीयते । ब्रह्मविदाम् - न तु ब्रह्मवि

विदिषूणाम् । क्रिया
शब्दविवरणमाह - तमेतम् इति । अभिध्या - परकीये स्वत्वबुद्धिः, परकृतापकारानवरतस्मरणं वा,

निष्फलचिन्ता वा । आदि शब्दः अमानित्वमदंभित्वमहिसा क्षान्तिरार्जवम् इत्याद्यार्जवादिपरवाक्यपरः । शोकवस्तु - शोकनिमित्तं वस्तु । आदि शब्देन भयनिमित्तं वस्तूक्तम्। अतीतागाम्यनिष्टज्ञाननिमित्तचित्तविकारौ शोकभये । च शब्दो भिन्नक्रमः । तज्जं च - बन्धुजनदैन्यदर्शनजं च दैन्यमित्यर्थः । अभास्वरत्वम् - स्वप्रवृत्त्यक्षमत्वम् - दैन्य शब्दविवरणं ; भास्वरत्वविरोधीति दैन्य विशेषणम् वा । यद्वा भिन्नवाक्यतया योजनीयम् - देशकालवैगुण्याच्छोकवस्त्वाद्यनुस्मृतेश्च जनितमभास्वरत्वं मनसोऽवसादः । किमुक्तं भवतीत्यत आह - तज्जं दैन्यम् इति । देशकालवैगुण्यादिजनितं मनसो दैन्यम् अवसादः इत्युक्त भवति । अवसादलक्षणमात्रं वाक्योक्तम् । तद्विपर्ययः इति तु भाष्यम् । बलं - मनोबलम् । तद्विपर्ययजा इति । देशकालसाद्गुण्यातीतानागतप्रीतिनिमित्तवस्तुज्ञानादिजा । उद्धर्ष लक्षणेन तद्विपर्ययः फलित इति नोक्तः । कथं स्वाध्यायशौचसन्तोष इत्यादिषु योगाङ्गतयोक्तस्य सन्तोषस्य हेयत्वमित्यत्राह - अति इति । पदेषु व्याख्यातेषु वाक्यार्थमाह - एवम् इति । प्रवृत्तिनिवृत्तिरूपताविभागात् पृथङ्निर्देशः । त्वदभिमतेनैवेति एव काराभिप्रायः । अविहितनिषिद्धकाम्यनिवृत्तिरूपशमादेः विहितप्रवृत्तिरूपयज्ञादेश्च विरोध इत्यभिप्रायः ।।

तथा च श्रुत्यन्तरम् - विद्यां चाविद्यां च यस्तद्वेदोभयं सह । ... ... ... ... ब्रह्मविद्यामधिष्ठाय तर्तुं मृत्युमविद्यया ।।इति।।

मानं च दर्शितम् । अथ स्वमते श्रुत्यन्तरं च प्रमाणयन् शङ्करयादवप्रकाशमतयोजने च व्युदस्यन् विद्यां च इति श्रुतिमुपादाय व्याचष्टे - तथा च श्रुत्यन्तरम् इत्यादिना । श्रुत्यन्तरम् इति - सन्रहिततया यज्ञादिश्रुतिविलक्षणा । समसमुच्चयवादिभिश्च तत्परतया च स्वीकृता श्रुतिरित्यर्थः । परैः स्वाभिमतप्रमाणतयोक्तमपि मदुक्तार्थपरमित्यर्थः । अत्र किं कर्मवाचीत्यत्राह - अत्र इति । अत्र - न तु श्रूयतां चाप्यविद्यायाः इत्यादौ । पदद्वयेन विहितकर्माज्ञानव्युदासः । वाक्यार्थं योजयति - अविद्यया इति । ज्ञानोत्पत्तिविरोधि ; न तु फलविविदिषाविरोधीति भावः । प्राचीनं कर्म - न तु विद्यावदुत्तरपूर्वाघविरोधित्वमिति भावः । तीर्त्वा (?) - अपोह्य । प्राप्य स्थितः इति अस्वारस्यमध्याहारश्च गत्यन्तरसद्भावान्न युज्यत इति भावः । कर्मज्ञान शब्दाभ्यां कषाये कर्मभिः पक्वे

ततो ज्ञानं प्रवर्तते इति स्मृति स्मारिता फलोपायविरोधिसाधारणस्य मृत्युशब्दस्य प्रकृतिप्रत्ययार्थवेदनतदिच्छाहेतुसाधारणस्य यज्ञादिवाक्यस्य चार्थनिष्कर्षार्थम् । अस्यां स्मृतौ, ततो ज्ञानं प्रवर्तते इति हि कर्मसाध्यतया ज्ञानमेवोच्यते ; न तु मोक्षो वा विविदिषा वा । अविद्या शब्दस्य कर्मवाचित्वं सहेतुकं दर्शयति -मृत्युतरण इति । प्रतीता - प्रतीतिस्वारस्यादित्यर्थः । विद्येतरत् तदन्यार्थे नञ् इत्यर्थः । न त्वविहितकर्म ज्ञानं चेति भावः । उक्तं स्पष्टयितुमाह - यथोक्तम् इति । ज्ञानम् - आगमोत्थम् ; विद्या - विवेकादिजा । तर्तुम् इति । तरतेः प्राप्त्यर्थत्वव्युदासः ।।

ज्ञानविरोधि च कर्म पुण्यपापरूपम् । ब्रह्मज्ञानोत्पत्तिविरोधित्वेनानिष्टफलतया ... ... ... ... कर्ममीमांसावसेयमिति, सैवापेक्षिता ब्रह्मजिज्ञासायाः पूर्ववृत्ता वक्तव्या ।।

कर्ममात्रस्य निरसनीयत्वोक्तिरयुक्ता, पापमेव हि धर्मनिरसनीयं श्रूयत इत्याशङ्क्याह- ज्ञान इति । कथं पुण्यपापरूपस्य कर्मणः पापमपनुदति इति पापशब्देन निर्देश इत्यत्राह - ब्रह्म इति । न सुकृतं, न दुष्कृतं, सर्वे पाप्मानः इति प्रयोगोऽप्यभिप्रेतः । रजस्तमसी हि तद्विरोधिनी इत्यत्राह - अस्य च इति । अस्य तयोश्च तादृक्त्वे प्रामाणिके हि द्वारद्वारिभावक्लृप्तिरित्यत्राह - पापस्य च इति । अधो नयनम् -उपास्तिवैमुख्यकरणं संसारपतनहेतुतया तत्रोक्ता । रजस्तमसोस्तथात्वं दर्शयति रज इति । एव इत्याप्ततमत्वसूचनम् ।।

ततः किमित्यत्राह - अतश्च इति । चः त्वर्थः शङ्कानिवृत्तिपरः । अन्वयव्यतिरेकसमुच्चयपरो वा । केन निरास इत्यत्राह तत् इति । अनुष्ठितेन - न तु ज्ञातमात्रेण । अविद्याशब्दार्थस्य निरासकस्य धर्मत्वं, मृत्युशब्दार्थस्य निरसनीयस्य च पापत्व स्पष्टयन्तीं श्रुतिं दर्शयति - तथा च
इति । ततः किमित्यत्राह - तदेवम् इति । तत् - श्रुतिस्मृत्युपपत्तिसूत्रवाक्यकारवचनैः । एवम् - स्वोत्पत्तिविरोधिनिरासाय । ततः किं ब्रह्मविचारस्य कर्मविचारापेक्षत्व इत्यत्राह - अतः इति । अतः - ब्रह्मविद्यायाः कर्मसापेक्षत्वात् । अपेक्षित - इति । हानायोपादानाय चेत्यर्थः । सैव - त्वत्प्रतिक्षिप्तैवेति भावः ।।

अपि च नित्यानित्यवस्तुविवेकादयश्च मीमांसाश्रवणमन्तरेण न संपत्स्यन्ते ... ... ... तत्साद्गुण्यापादनान्येतानि सुतरामिहैव सङ्गतानि । तेषां च कर्मस्व

रूपाधिगमापेक्षा सर्वसम्मता ।।

एवं कर्मविचारस्य पूर्ववृत्तत्वमुपपादितम् ; अथ परोक्तसाधनचतुष्टयस्य पूर्ववृत्तत्वं निरस्यति - अपि च इति । मीमांसा इत्युभयभागोक्तिः । फलम् - भुक्तिमुक्ती ; करणम् - यज्ञादिकमुपासनं च ; इतिकर्तव्यता - प्रयाजादिका साधनसप्तकं च ; बुभुक्षुर्मुमुक्षुश्चाधिकारी । पदार्थनिश्चयाद्वाक्यार्थनिश्चयवत् तत्तदधिकरणाधीनप्रातिस्विकार्थनिश्चयात् पुरुषार्थतत्साधनसमुदायनिश्चय इति भिदा साङ्गाध्ययनाधीननित्यानित्यापातप्रतीतिः स्वर्गापवर्गसाधारणीति न साऽन्यविरागमुमुक्षुत्वहेतुः । काणादादिशास्त्रान्तरं तु नित्यानित्यविपरीतधीहेतुर्वियत्परमाण्वादिनित्याद्युक्तेः ; अनवसरग्रस्तं च पुरुषस्य प्रथममध्ययनविधिगृहीतत्वात् । पुराणादि च श्रुतवेदार्थोपबृंहणम् ; न स्वातन्त्र्येण नित्यादिनिश्चायकम् । तथा सति तेनैव ब्रह्मस्वरूपनिश्चयेनशारीरकवैयर्थ्यप्रसङ्गात् । शमादि तु निरूपयिष्यते - शमदमाद्युपेतः स्यात् इति । अतः पश्चाद्भाविनो न पूर्ववृत्तत्वमित्यर्थः ।।

एवं व्याख्येयवेदस्वभावात् कर्मब्रह्ममीमांसयोः पौर्वापर्यमुक्तम् । अथ व्याख्यानरूपमीमांसास्वभावाच्च कर्मचिन्तायाः पूर्ववृत्तत्वमाह - एषाम् इति । एषां - शमादीनाम् ; विनियोगः - अङ्गत्वज्ञापनम् । तार्तीयः - तृतीयाध्यायसिद्धः । इदं प्रदर्शनार्थम् । तत्र तत्र पूर्वकाण्डोक्तकृत्स्नन्यायसापेक्षत्वादिति भावः।।

अथाभ्युच्चयहेतुमाह - उद्गीथादि इति । समृद्धिः - अप्रतिबद्धफलत्वम् । अन्यतरस्योभयोर्वा अपेक्षाविरहेऽपि सादृश्यादिना धीस्थत्वं प्रासङ्गिकत्वमिति तद्व्युदासाय प्रथममुद्गीथादिधियो ब्रह्मचिन्तापेक्षामाह - ब्रह्मदृष्टि इति । ब्रह्मविद्याया एतदपेक्षामाह - तान्यपि इति । तच्छब्दो विद्योत्पादककर्मपरः । सुतराम् - उभयापेक्षयेत्यर्थः । कर्माङ्गाश्रयत्वात् पूर्वत्र ब्रह्मदृष्टिरूपत्वादुत्तरत्र च चिन्त्यत्वे प्राप्ते कर्मसमृद्ध्यर्थे च साधारणेऽपि, पूर्वत्र ब्रह्मणोऽचिन्तितत्वात् तद्दृष्टिरूपोद्गीथादिधियां चिन्तनं तत्राशक्यमित्यभिप्रेत्य इहैव - इत्युक्तम् । अस्त्वेवं सङ्गतिः, तथाऽपि किमित्यत्राह - तेषाम् इति । एवमुद्गीथविद्याविचारस्य साक्षात्सङ्गतत्वात्, तदपेक्षितं कर्मचिन्तनं पूर्ववृत्तमित्यभ्युच्चयहेतुः । एकदेशाध्ययनं त्ववैधम् । कृत्स्नाध्यायिनोऽपि सुकृतवशादुत्तरत्रैवापेक्षा चेत्, तत्रापि फलाध्याय एव सा किं न स्यात् ? तस्य समन्वयलक्षणाद्यपेक्षाऽस्ति चेत् , इहापि पूर्वभागचिन्तापेक्षा तुल्या । आपाततोऽनन्तप्रतीतिस्तु पूर्वत्रापि तुल्येत्युक्तम् । अतोऽधीतक्रमेण कर्मविचार

प्राथम्यात् तन्न्यायसापेक्षत्वात् ब्रह्मविचारस्योद्गीथादिचिन्तापेक्षितत्वाच्च कर्मविचारस्यैव पूर्ववृत्तत्वम् ।।

इति लघुसिद्धान्तः ।




महापूर्वपक्षः ।

यदप्याहुः - अशेषविशेषप्रत्यनीकचिन्मात्रं ब्रह्मैव परमार्थः, तदतिरेकि नानाविधज्ञातृज्ञेयतत्कृतज्ञानभेदादि सर्वं तस्मिन्नेव परिकल्पितं मिथ्याभूतम् ... ... ... वस्तुस्वरूपोपदेशपरैः शास्त्रेः निर्विशेषचिन्मात्रं ब्रह्मैव सत्यमन्यत्सर्वं मिथ्या इत्यभिधानात् ।।

एवं पूर्वपक्षोक्तहेतुषु वस्तुसामर्थ्यव्यतिरिक्ता हेतवः उपायपरवाक्यालोचनया परिहृताः । वस्तुसामर्थ्यं तूपेयपरवाक्यपर्यालोचनया विस्तरेणोपन्यस्य परिहरणीयमिति कृत्वा तत् पूर्वं न परिहृतम् । अतस्तद्विस्तरेणोपन्यस्यते - यदप्याहुः इत्यादिना ... सर्वे वेदान्ता आरभ्यन्ते इत्यन्तेन । यदप्याहुः इति अपिशब्दबहुवचनाभ्यामस्यार्थस्य प्राधान्यं बहुग्रन्थकाराभिमतिश्च सूचिते । चिन्मात्रसत्यत्वमन्यमिथ्यात्वं च प्रतिजानीते - अशेष इत्यादिग्रन्थद्वयेन । अशेषविशेषः - ज्ञात्रादिः व्यावृत्तिरूपश्च । प्रत्यनीकत्वम् - वस्तुतस्तदन्वयानर्हत्वम्, ज्ञातत्वेन तन्निवर्तकत्वं च । चित्- शब्देन तुच्छत्वं व्युदस्यते । मात्र चा ज्ञातृत्वज्ञेयत्वे । एव इति । सगुणं तु काल्पनिकमिति भावः । चिन्मात्रसत्यत्वं प्रतिज्ञातम् ; अथ एवकाराभिप्रेतं समूलबन्धधीनिवर्त्यत्वसिद्धये तदन्यमिथ्यात्वमाह - तत् इति । तदतिरेकि - नेह नाना इत्यादि निषेधास्तदन्यविषया इति भावः । नाना शब्दविषयं दर्शयति - ज्ञातृ इति । तत्कृत इति स्वरूपप्रयुक्तताव्यावृत्तिः । भेदः तु अवान्तरवैविध्यम् । आदि शब्दो जन्मजरामरणादिपरः । सर्वम् इति । अतदधिष्ठानः परमार्थश्च न कश्चिदर्थ इत्यर्थः । एव इत्यधिष्ठानानेकत्वव्युदासः स्वप्रकाशत्वरूपविरोधशङ्कास्फोरणं च ।।

प्रतिज्ञातयोर्मानमाह - सदेव इत्यादि । षड्विधतात्पर्यलिङ्गकं कारणवाक्यं विजातीयसजातीयस्वगतभेदाभावपरम् सदेव इति । एव कारार्थस्पाष्ट्याय कारणवाक्यान्तरमुदाहरति - अथ परा इति । अद्रेश्यम् अग्राह्यम् -प्रत्यक्षानुमित्य गोचरः, चक्षुस्तद

न्याक्षागोचरो वा । गोत्रम् - नाम । सर्वगतम् - अधिष्ठानतयाऽऽश्रितम् । अथ शोधकवाक्यम् - सत्यम् इति । कारणवाक्यशोधकवाक्यान्तरैकार्थ्य सामानाधिकरण्यैर्निर्विशेषपरत्वमभिप्रेतम् । सत्यादिवाक्यस्य व्यावृत्तिपरत्वस्पाष्ट्यायाह -
निष्कलम् इति । कलाः - अवयवाः । शान्तम् इत्यादि - ऊर्मिषट्करहितमित्यर्थः । यस्य इति - ज्ञेयत्वनिषेधः । न दृष्टेः इति ज्ञातृत्वनिषेधः । असुखव्यावृत्तिः आनन्दः इति । अथ चिदन्यमिथ्यात्वमाह - इदं सर्वम् आत्मा इति । रज्जुरेव सर्पः इतिवत् बाधार्थं सामानाधिकरण्यमभिप्रेतम् । तस्मिन्नेव इति प्रतिज्ञातं ब्रह्मणः सर्वाध्यासाधिष्ठानत्वं च सूचितम् । बाधं स्फुटयति - नेह इति । भेददृगज्ञ इत्याह मृत्योः इति । अत्र मृत्युः - अविद्या । तर्हि कदाचिन्निवृत्तिः स्यादित्यत्राह - यत्र हि इति । यत्र -यदा ; तत् -तदा । इतरेण, कः इति च पदद्वयमध्याहर्तव्यम् । दृष्टान्तेनोपपादयति - वाचा इति । उक्तमृत्युकार्यभेदधीफलं दर्शयति - यदा इति । अथ चिन्मात्रसत्यत्वतदन्यमिथ्यात्वपरं सूत्रद्वयम् - न स्थानतः इत्यादि ।।

अथ पुराणोक्तिमर्थद्वयेऽपि दर्शयति - प्रत्यस्तमित इति । प्रत्यस्तमित- भेदम् - सजातीयविजातीयस्वगतभेदरहितम् । सत्तामात्रम् - व्यावृत्तिरूपभेदरहितम् । तुच्छतां व्युदस्यति - आत्मसंवेद्यम् इति । स्वप्रकाशमित्यर्थः । तत्र हेतुः - ज्ञानम् इति । अत्यन्तनिर्मलम् - नित्यास्पृष्टदुःखित्वज्ञातृत्वादिभेदम् । अर्थः - देवादिः । नान्योऽस्ति इति जगदपारमार्थ्यमुक्तम् । तद्विवरणाय यदेतत् इति श्लोकद्वयम् । उक्तभ्रमनिवृत्तिः तत्त्वज्ञानेन इत्याह - ये तु इति । जीवैक्यप्रकरणमाह - तस्य इति । एकमयम् - एकम् । आत्म पर शब्दनिमित्तात्मभेदशङ्कां व्युदस्यति - यदि इति । निदर्शयति - वेणु इति । उपदिशति - सोहम् इति । यथोपदेशमनुष्ठानम् - तत्याज इति । जीवब्रह्मभेदनिवृत्तिः - विभेद इति । अर्थद्वयेऽपि श्रीगीतोक्तिः - अहमात्मा इति । भूत शब्दस्य शरीरमात्रस्पाष्ट्याय आह - क्षेत्र इति । अन्यमिथ्यात्वम् - न तदस्ति इति । अनन्यपरत्वमुक्तम् - वस्तुस्वरूप इति ।।

मिथ्यात्वं नाम प्रतीयमानत्वपूर्वकयथावस्थितवस्तुज्ञाननिवर्त्यत्वम् ... ... ... दोषश्च स्वरूपतिरोधानविचित्रविक्षेपकरी सदसदनिर्वचनीयाऽनाद्यविद्या।।

न अत्यन्तासत्त्वं मिथ्यात्वम्, ख्यातेर्निरसनीयाभावेन शास्त्रवैयर्थ्यप्रसङ्गाच्च ; न चान्यत्र सतोऽन्यत्र ख्यातत्वम्, क्वाऽपि सत्यत्वप्रसङ्गादित्यत्राह - मिथ्यात्वम् इति ।

प्रतीयमानत्व इत्यसद्व्यावृत्तिः । यथावस्थित इति सद्व्यावृत्तिः । प्रतीयमानत्वपूर्वक इति तन्नियमपूर्वकत्वं विवक्षितम् । अब्भक्ष इतिवत् । ज्ञाननिवर्त्यत्वम् इति - ज्ञानमात्रनिवर्त्यत्वम् । वस्तुशब्दः कर्मधारयशङ्काव्युदासाय । एवं सति मुद्गरादिनिवर्त्यशक्त्युपबृंहित ज्ञाननिवर्त्यभ्रान्तिज्ञाननिवर्त्यसम्यग्रजतनिवर्तकधीप्रागभावव्युदासः । न च भूरन्ध्रधीनिवृत्तरज्जुसर्पेऽतिव्याप्तिः, तस्यापि यथा- वस्थितरज्जुधिया निवर्तनार्हत्वात् । निदर्शयति - यथा इति । ननु रज्ज्वादेर्जडत्वेन स्वरूपानवभासादध्यासः ; स्वप्रकाशवस्तुनि तु स कथमित्यत्राह - दोष इति । दोष एवाध्यासप्रयोजकः, स्वतो वा परतो वा भानं तत्त्वध्यासोपयोगि अधिष्ठाने भातेऽपि हि सः इति भावः । मिथ्यालक्षणं तस्य दोषकल्पितत्वं च दृष्टान्ते दर्शितं दार्ष्टान्तिकेऽतिदिशन् शङ्काद्वयं च शमयति - एवम् इति । कथमेकत्र बह्वध्यास इति शङ्कां व्युदस्यति - पर इति । अधिष्ठानवैलक्षण्यात् रज्जौ सर्पभूरन्ध्रादिवदिति भावः । सर्वज्ञे कथं भ्रान्तिरिति च शङ्कां व्युदस्यति - पर इति । सर्वज्ञत्वादयः सगुणब्रह्मणः, न तु परस्येत्यर्थः । दोष इत्यादिपदैः प्रागुक्तार्थद्वयातिदेशः । इदं - प्रतीयमानम् । नानाविधत्वविवरणम्
देव इत्यादिपदम् ।।

दोषः कः ? स सत्यश्चेन्न धीनिवर्त्यः ; न चेद्दोषान्तरापेक्षया अनवस्था । स चेत् ब्रह्मण्यतिरोहिते कल्प्यते, भ्रमानुदयानुच्छेदयोरन्यतरः स्यात् । तिरोहिते चेत् ; यदि तिरोधिः स्वतः, अनिवृत्तिः स्वरूपनिवृत्तिर्वा स्यात् । परतश्चेदनवस्था । नानाध्यासा नानादोषमूलाश्च दृष्टा इति बहुशङ्कापरिहारायाह - दोषश्च इति । अविद्या इति , सदसदनिर्वचनीय इति, अनादि इति, स्वरूपतिरोधानविविधविचित्रविक्षेपकरी इति शब्दैरिमाः शङ्काः प्रत्युक्ताः ।।

अनृतेन हि प्रत्यूढाः तेषां सत्यानां सतामनृतमपिधानम् ... ... ... ... ब्रह्मैवानाद्यविद्यया सदसदनिर्वाच्यया तिरोहितस्वरूपं स्वगतनानात्वं पश्यतीत्यव- गम्यते ।।

एवंविधाविद्यायां मानमाह - अनृतेन इत्यादिना । प्रत्यूढाः - प्रतिबद्धाः । प्रत्यूढशब्दविवरणायाह - तेषाम् इति । बहुवचनम् अदितिः पाशान् इतिवत् । नासदासीत् इत्यनिर्वचनीयत्वम् । तमो हि सूक्ष्मावस्थप्रकृतिः, न तु मिथ्यारूपाविद्येत्यत्राह - मायां तु इति । बहुभ्रमहेतुत्वमाह - इन्द्र इति । धिया विना दुर्निरसत्वमाह - मम इति । अना

दित्वमाह - अनादि इति । आदि शब्दः प्रागुक्तस्वरूपपरश्रुतिस्मृतिगणपरः । इन्द्र-महेश्वरादि शब्दैः सविशेषत्वशङ्कां निरस्यन् वाक्यानामर्थमाह - निर्विशेष इति । स्वरूपपरवाक्यैकार्थ्यात् दोषपरवाक्येष्वपि निर्विशेषं वस्तु दोषाश्रयतया विवक्षितमित्यर्थः । स्वगत इति अधिष्ठानभूतेन स्वेन संबन्धमवगम्यते । यत इति पूरणम् ।।

यथोक्तम्#ः -

ज्ञानस्वरूपो भगवान् यतोऽसावाशेषमूर्तिर्न तु वस्तुभूतः । ... ... ... ... ... ... ... ...। एतत्तु यत्संव्यवहारभूतं तत्रापि चोक्तं भुवनाश्रितं ते।।इति।।

स्वरूपपरैरिव वाक्यैर्निर्विशेषं वस्तु दोषाश्रयतया दोषपरस्मृत्या अपिज्ञायते इत्याह - यथा इति । वस्तु शब्दो वक्ष्यमाणदेवादिपरः । विविधंज्ञायतेऽनेनेति विज्ञानम् अविद्या । भेददर्शनस्याज्ञानकार्यत्वं व्यतिरेकेण विवृणोति - यदा इति । शुद्धम् निजरूपि - अविद्याकृतभेददर्शनरहितम् । समन्तात् कल्प्यन्ते भेदा अनेनेत्यविद्या - सङ्कल्पः । अविद्यातरुसंभूतिः इति वक्ष्यते । वस्तुषु - देवादिधर्मिषु । वस्तुभेदाः - देवाद्याकारभेदाः । वस्त्वस्ति इत्यादिश्लोकद्वयं सिद्धान्ते वक्ष्यते । विजातीयभेदनिषेधमुपसंहरति - तस्मात् इति । सजातीयभेदं निषेधति - विज्ञानम् इति । स्वगतमपि निषेधति - ज्ञानम् इति । विशुद्धं विमलम् अविद्याभेदद्दष्टिरहितम् । सदैकम् वृद्ध्यादिरहितम् । नेदं परमतमित्याह - सत् इति । एतत् - ज्ञानम् ; भुवनाश्रितम् - भुवनेनाधिष्ठानतयाऽऽश्रितम् । संव्यवहार- भूतम् - समन्तात् व्यवहारास्पदं वर्तत इति यत्, तत्र हेतुरविद्येत्युक्त इत्यर्थः ।।

अस्याश्चाविद्याया निर्विशेषचिन्मात्रब्रह्मात्मैकत्वविज्ञानेन निवृतिं्त वदन्ति ... ... अनेन च ब्रह्मात्मैकत्वविज्ञानेन मिथ्यारूपस्य सकारणस्य बन्धस्य निवृत्तिर्युक्ता।।

ततः किं ज्ञानस्य कर्मनैरपेक्ष्य इत्यत्राह - अस्याश्च इति । अज्ञाननिवृतिं्त दर्शयितुं न पुनः इति वाक्यमुपात्तम् । ज्ञानस्यैक्यविषयत्वाय तदेकम् इति । तथा सत्यभयप्राप्त्यै यदा इति । आत्म्यम् -शरीरम् । निरुक्तिः - नाम । अभयम् - भयाभावाय ; अव्ययीभावसमासः । बन्धकत्वेन पराभिमतस्यापि ज्ञानेन निवर्त्यत्वायाऽऽह - भिद्यत इति । अत्र भेदप्रतीतिव्युदासायाह - ब्रह्म इति । उपायान्तरनिषेधमाह - तमेव इति ।

नात्राज्ञाननिवृत्तिः प्रतीतेत्यत्राह - अत्र इति । कथमित्यत्राह - यथा इति । प्रमादम् इति -अनवधानम्, तद्धेतुरविद्येत्यर्थः ।।

निर्विशेषब्रह्मात्मैक्यविषयत्वं नावगतमित्यत्राह - सत्यम् इति । निर्विशेषत्वं शोधकसिद्धम् । तेन आत्मन ऐक्यं श्रावयति - अथयोऽन्याम् इति । भेदधीर्निषिद्धा ; अथोपदेशं दर्शयति - तत्त्वम् इति । तथा देवतां प्रत्याह - त्वं वा इति । स्वस्मिन्ननुसन्धत्ते -- तद्योहम् इति । अस्य सौत्रतामाह - वक्ष्यति इति । तदभिप्रायज्ञोक्तिमाह - तथा च इति । तन्निष्पत्तेः - तस्मिन् कल्पितत्वात् । मानानुग्राहकं दर्शयति - अनेन च इति । मिथ्यारूपस्य इति हेतुगर्भम् । सकारणस्य -साविद्यस्य । सर्पभ्रमो हि रज्जुज्ञानेन निवर्त्यः, न कर्मणेति भावः ।।

ननु च - सकलभेदनिवृत्तिः प्रत्यक्षविरुद्धा कथमिव शास्त्रजन्यविज्ञानेन क्रियते ? ... ... ... यत्संभाव्यमानान्यथासिद्धि, तद्भाध्यम् ; अनन्यथासिद्धमनवकाशमितरद्धाधकम् - इति सर्वत्र बाध्यबाधकभावनिर्णयः - इति ।।

चोदयति - ननु च इति । द्विचन्द्रस्वप्नादिव्युदासाय सकल इति । व्याप्तिलिङ्गधर्मिधीव्युत्पत्त्याद्यर्थं प्रत्यक्षसापेक्षत्वात् वह्न्यनुष्णत्वहेतुद्रव्यत्ववत् यूपादित्यैक्यवाक्यवत् तद्विरुद्धं श्रुतिर्न बोधयेदिति भावः । एतत् परिहरन् किं प्रत्यक्षस्य बाध्यत्वं न संभवतीति मनुषे, उत परोक्षस्य बाधकत्वं न संभवतीति विकल्पं हृदि निधाय प्रथमं शिरः प्रतिवक्ति - कथं वा इति । प्रत्यक्षाभासत्वं न प्रतीतिदशायां भातम् ; पश्चाद्वाधस्तुल्य इति भावः । परोक्षस्य मूलिनो न बाधकत्वमिति शङ्कते - तत्र इति । तुल्यत्वव्यावृत्तये तु शब्दः । मूलित्वपरोक्षत्वाभिप्रायेण प्रत्यक्षमूलस्य शास्त्रस्य इत्युक्तम् । तुल्यत्वे विपर्ययोऽपि स्यादिति प्रयोजकान्तरमभ्युपगमयितुमाह - तुल्ययोः इति । तत्र परोक्तं शङ्कते पूर्वोत्तरयोः इति । तदत्रापि तुल्यमित्याह - शास्त्र इति । मूलमूलिभावाद्यभावविशेषितौ दुष्टहेतुजत्वतदभावौ तयोः प्रयोजकावित्यत आह - एतदुक्तम् इति । तुल्यत्व इति । तुल्यत्वे सति दुष्टकारणजन्यत्व तदभावावित्यर्थः । आदि शब्दात् परोक्षापरोक्षत्वं पूर्वोत्तरत्वं च विवक्षितम् । कुत इत्यत्राह - ज्वाला इति । अन्यथा इत्यध्याहार्यम् । अयोगप्रसङ्गादित्यर्थः । किंविषयं प्रत्यक्षं बाध्यत इत्यत्राह - तत्र हि इति । तर्हि किं प्रयोजकमित्यत्राह - एवं च इति । त्वदुक्तेऽनुपपन्ने सतीत्यर्थः । द्वयोः प्रमाणयोः इति । द्वयोः प्रत्यक्षयोः,

प्रत्यक्षानुमानयोः, अनुमानयोः प्रत्यक्षागमयोः, अनुमानागमयोः, आगमयोर्वेत्यर्थः । अनन्यथासिद्धत्वम् - विरुद्धविषयमानाबाधेनानुदयत्वम् ; तच्च विषयान्तरालाभाप्रमाणकोटिनिवेशाभावरूपात् अनवकाशत्वात् । सर्वत्र - प्रत्यक्षादिषु सजातीययोर्विजातीययोः विरोधे इत्यर्थः । इति एतदुक्तम् इत्यन्वयः ।।

तस्मादनादिनिधनाविच्छिन्न संप्रदायासंभाव्यमानदोषगन्धानवकाशशास्त्रजन्य निर्विशेषनित्यशुद्धमुक्तबुद्धस्वप्रकाशचिन्मात्र ... ... ... ... तेनैवापच्छेदन्यायेन निर्गुणवाक्यानां गुणापेक्षत्वेन परत्वात् बलीयस्त्वमिति न किञ्चिदपहीनम् ।।

ततः किं शास्त्रप्राबल्यस्य इत्यत्राह - तस्मात् इति । अनादिनिधना ह्येषा इति स्मृतिः अपौरुषेयत्वसाधकलिङ्गं च स्मारितम् अनादि इत्यादिना । यतो दोषासंभावना, ततोऽप्रमाणकोट्यनिवेशः । अर्थविरोधं दर्शयति - निर्विशेष इत्यादिना । शुद्धिः - अविद्याविरहः । ततः मुक्तम् - अविद्याकार्यबन्धरहितम् । बुद्धम् - भासमानम् ; तच्च स्वतः । तच्च चिद्रूपतया श्रुतत्वादिति पदार्थः । विविधविकल्परूपो बन्धः । कश्च दोष इत्यत्राह - संभाव्यते च इति । भेदप्रपञ्चः - भेदसमुदायः ज्ञात्रादिः ; स च देवादिरूपेण विविधः । स च ब्राह्मणादिरूपेण विकल्पवानिति विविधविकल्पभेदरूपः । आदि शब्देन भेददर्शनमुक्तम् । तयोरन्योन्याश्रयव्युदासाय अनादि शब्दः । बीजाङ्कुरवत् प्रवाहानादिः । काचादिव्युदासाय अविद्याख्य शब्दः । क्वाचित्केन काचादिना सर्वत्र दोषानुमाने, वाक्यत्वात् वेदेऽपि प्रसजेत् । योग्यानुपलब्धिस्तु तुल्येति भावः । आदि शब्दः कारणाविद्याविषयो वा ।।

चोदयति - ननु इति । अनन्तरोक्तबाध्यत्वप्रयोजकाभावमाह - अनादि इति । अपिः विरोधे । बाध्यबाधकताभ्युपगमनिमित्तं विरोधं दर्शयति - ज्योतिष्टोमेन इति । बाध्यत्वमङ्गीकुर्वन् दृष्टहेतुकत्वमनुपगच्छन् परिहरति - सत्यम् इति । सावकाशत्वानवकाशत्वावान्तरविधारूपेण पौर्वापर्येण निर्वाहः । उद्गातृप्रतिहर्त्रपच्छेदयोर्नैमित्तिकत्वेनादक्षिणसंस्थापनसर्वस्वदक्षिणत्वे विहिते । एकप्रयोगे तयोर्विरोधः ; तत्र यौगपद्ये विकल्पः ; पौर्वापर्ये तु पूर्वप्राबल्यम् असञ्जातविरोधितयोदयात्, परस्य सप्रतिपक्षतयैवोदयाच्च इति पूर्वपक्षितम् । विरोध्यसन्निधानात् तदबाधेन पूर्वस्योदयसंभवः ; उत्तरस्य तु सन्निहितविरो

ध्यबाधेनोदयासंभवात्, बाधित्वैवोदय इति प्राबल्यम् ; निमित्तोदयान्नैमित्तिकशास्त्रं चोदितमेवेति सिद्धान्तितम् । तदुक्तम् पूर्वाबाधेन नोत्पत्तिरुत्तरस्य हि सिध्यति इति । पाठक्रमात् त्रिवर्गे संसारिणां प्रथमप्रावण्यरूपार्थक्रमाच्च पौर्वापर्यसिद्धिरिति तेन न्यायेन पूर्वबाध इत्यर्थः ।।

तादृशपौर्वापर्याभावात् सगुणोपास्तिशास्त्रेषु नायं निर्वाह इत्यत्राह -
वेदान्त इति । कुत इत्यत्राह - निर्गुणत्वात् इति । अपच्छेदन्यायफलरूपबाधदर्शनादित्यर्थः । सगुणोपासनस्य जक्षणादिसांसारिकफलश्रवणात् पूर्वत्वमभिप्रैति । स्वरूप परसगुणवाक्येषु कथमिति चोदयति - ननु च इति । परिहरति - निर्गुण इति । कानि निर्गुणवाक्यानि, कथं च तेषां सामर्थ्यमित्यत्राह - एतदुक्तम् इति । कूटस्थम् - निर्विकारम् । इतराणि - यः सर्वज्ञः इत्यादीनि । गुणापेक्षत्वेन - निषेधस्य प्रसञ्जकसापेक्षत्वादित्यर्थः । न किञ्चिदपहीनम् - उपासनार्थत्वात् सगुणवाक्यानाम् न वैयर्थ्यमिति भावः । यद्वा - यः सर्वज्ञः इत्यादेरप्युपासनार्थत्वं विवक्षन्नाह - वेदान्त इति । पौर्वापर्याभावान्न गुणबाधः । तत एव नोपासनार्थत्वक्लृप्तिः इति चोदयति - ननु च इति । विधिनिषेधरूपपौर्वापर्यमभिप्रेत्य परिहरति - निर्गुण इति । सर्वमन्यत् पूर्ववत् ।।

ननु च - सत्यं ज्ञानमनन्तं ब्रह्म इत्यत्र सत्यज्ञानादयो गुणाः प्रतीयन्ते । नेत्युच्यते, ... ... ... ... ... एवमेकस्यैव वस्तुनः सकलेतरविरोध्याकारतामवगमयदर्थवत्तरमेकार्थमपर्यायं च पदत्नयम् ।।

निर्गुणपरतयोपात्तं सत्यादिवाक्यं सगुणपरं बुद्ध्वा चोदयति - ननु च इति । सत्यज्ञानादयः - सत्यत्वज्ञानत्वादयः । द्व्येकयोः इतिवत् द्वित्वैकत्वयोरिति ह्यर्थः । अन्यथा द्व्येकेषु इति बहुवचनप्रसङ्गात् । परिहरति - नेति इति । प्रतीतिः आपातधीश्चेन्न नः क्षतिः, प्रमितिश्चेन्नेत्युपपादयिष्यत इत्यर्थः । कुत इत्यत्राह - सामानाधिकरण्येन इति । शङ्कते - अनेक इति । व्यधिकरणवाक्येष्विव न पदार्थानेकत्वं वाक्यार्थैकत्वविरोधीति भावः । समानाधिकरणव्यधिकरणवाक्ययोरभिधानविशेषानभिज्ञ इत्युपालभ्य परिहरति - अनभिधान इति । देवानां प्रियः - छागः, अज्ञः इति भावः । कथमित्यत्राह - एकार्थत्वम् इति । न तु पृथगर्थ- पदसमुदायबोध्यप्रधानार्थैकत्वम्, तत्तु व्यधिकरणवाक्येष्विति भावः । ततः किमित्यत्राह - विशिष्ट इति । समानाधिकरणवाक्यस्थप्रातिपदि

कानि किं विशेषणमात्रपराणि, उत विशिष्टपराणि, उत स्वरूपमात्रपराणि इति विकल्पमभिप्रेत्य, प्रथमे

विशेषणरूपार्थानेकत्वान्नार्थैक्यम् ; द्वितीयेऽपि तत् तुल्यम् । किञ्च विशेषण- विशेष्य रूपार्थभेदाच्च नार्थैक्यम् । विशेषणभेदेन विशेष्यभेदप्रसङ्गाच्च । विशेषणं हि भेदकम् । देवदत्तः श्यामो युवा इत्यादौ प्रत्यक्षबलादैक्यम् । ब्रह्म तु न तद्गोचरम् । न च एकवचनान्तधर्मिवाचिपदैक्यात् विशेष्यैक्यम्, खण्डो मुण्डः पूर्णश्रृङ्गो गौः इत्यत्रादृष्टेः तद्वहुत्वं प्रत्यक्षबलात् इति चेत् न, अप्रत्यक्षगोरपि पुरुषस्यानेन वाक्येन गोबहुत्वप्रतीतेः । तस्मादप्रत्यक्षे ब्रह्मणि विशेषणभेदप्रयुक्तविशेष्यभेदो दुर्वार इत्यादिदूषणानि विशेषणभेदेन इत्यादिग्रन्थेनोक्तानि । अर्थ शब्दो विशेष्यस्यापि वाचकः । क्रमेणाभिधानं चेत् विशेष्य इव विशेषणेऽपि पदान्तरविहित विशेषणान्वयात् विशेषणयोर्मिथः समवायः । युगपच्चेत् समानविभक्त्या विशेष्यांश इव विशेषणेऽप्यैक्यप्रतिपादनात् विशेषणैक्यम् उद्देश्योपादेयविभागा- भावश्च इत्यादिदूषणान्यन्यत्रोक्तानि इहाभिप्रेतानि । ततः किमित्यत्राह - ततश्च इति । शिरोद्वयदूषणात् तृतीयशिरोऽर्थात् स्वीकृतम् । तद्विवृण्वंश्चोदयति - एवम् इति । एवं तर्हि - वस्तुमात्रपरत्वे । एकतरपदवैयर्थ्यं सामानाधिकरण्यलक्षणहानिश्चाभिप्रेते, परिहरिष्यमाणत्वात् । इदं बहुग्रन्थैः परिहर्तुं मध्ये त्वरया न चोदनीयमित्यभिप्रायेणाह - एकार्थ इति । एकार्थाभिधायित्वेऽपि इति चोद्य हेत्वनुवादः । परिहरति एकत्व इति । तात्पर्यनिश्चयः समानविभक्त्या । लक्षणहानिपरिहारः चशब्दाभिप्रेतः । अर्थवत्वम् - प्रयोजनवत्त्वम् । बहुव्यावर्त्यव्युदसनात् अर्थवत्त्वम् । प्रवृत्तिनिमित्तभूतैस्तैः अपर्यायता, सामानाधिकरण्यलक्षणानुरोधश्च एकार्थत्वाविरोधेन सिध्यन्तीत्युक्तं भवति ।।

तत् त्वं पदयोरिवान्वयमुखेनोपलक्षणद्वारा स्वरूपपरत्वं किं न स्यात् ? व्यावृत्तिबहुत्वान्नैकार्थत्वं, व्यावर्त्यानन्त्यान्न तद्व्युदासः कतिपयपदैः शक्यते ; येभ्यो व्यावृत्तिः, कानि च तानि ? व्यावृत्तिभिः सधर्मकत्वम् । व्यावृत्तयो न धर्माश्चेत् पर्यायता स्यादित्याशंक्याह - एतदुक्तम् इति । कारणतयोक्तस्य शङ्कितदोषव्युदासस्यापेक्षितत्वात् तद्व्यावृत्तिमुखेन स्वरूपपरत्वमभिप्रेत्य लक्षणतः इत्याद्युक्तम् । सर्वमनेन पदत्रयेण फलतः इति । प्रयोजकेन रूपेणानन्तव्यावर्त्यव्युदासः इति भावः । व्युदासस्तु फलितः । पदानि तु स्वरूपपाणीत्येकार्थत्वं चाभिप्रेतम् । केन कस्मात् व्यावृत्तिरित्यत्राह - तत्र इति । कारणतयैव तुच्छत्वव्यावृत्तेर्विकारिव्यावृत्तिरुक्ता । जडरूप इत्यस्य व्याख्यानम् अन्या

धीनप्रकाश इति । ताभिः सधर्मकत्वमित्यत्राह - न च इति । वादिविशेषापेक्षया भावाभावरूपतोक्तिः । तर्हि किमित्यत्राह - अपि तु इति । निदर्शयति - यथा इति । न धर्मान्तरम् इति । अनुपलम्भात्, तदभ्युपगमेऽनवस्थानाच्चेति भावः । तर्हि पर्यायता स्यादिति शङ्कायां, शौक्ल्यं काष्र्ण्यव्यावृत्तं पीतिमव्यावृत्तमित्यादिप्रतिबन्द्यभिप्रायेणाह - एकस्यैव इति । अर्थवत्तरम् -दृष्टान्तापेक्षया पराभिमतसगुणपरत्वापेक्षया च । शौक्ल्यं हि प्रत्यक्षम् । अतो वाक्यं मन्दप्रयोजनम् । शोधकस्य शङ्कितदोषव्युदासो हि कृत्यम्, न तु गुणान्वयज्ञापनमिति ।।


च्ड्ढड़दृदड्ड घ्ठ्ठड्डठ्ठ

प्रथमाध्याये द्वितीयः पादः ।।

1. सर्वत्र प्रसिद्धयधिकरणम् ।

प्रथमे पादे अधीतवेदः पुरुषः कर्ममीमांसा ... स्पष्टलिङ्गकानि तृतीये ; तत्तत्प्रतिपादनच्छायानुसारीणि चतुर्थे।।

प्रत्यधिकारणमनुगतस्य प्रथमपादर्थस्य त्रिपादीसङ्गत्यर्थं बुद्धिस्थत्वाय त्रि पादीसूत्रविषयभूतवाक्यानां प्रागुक्तन्यायाविषयतया तस्या आरम्भणीयत्वसिद्धये च प्रथमपादाधिकरणार्थानुक्रमः । शास्त्रारम्भसिद्ध्यर्थायाः चतुस्मूत्र्या अर्थात् प्रथमपादे सङ्गतिः । जनमादि त्रिसूत्र्याः प्रथमाधीनारंभात्वात् प्राथमिकार्थानुक्रमे शास्त्रारंभसिद्धये इत्युक्तम् । जन्मादि त्रिसूत्र्याः प्रथमपादे विशेषसङ्गतिश्चास्ति, चिदचिद्विलक्षणवस्तुलक्षणजन्मादिपरत्वात् । चिदचिद्विलक्षणवस्तुमद्भावो हि प्रथमपादार्थः । शास्त्रारंभ इति परमुतरत्रानुषङ्गेण चतुस्सूत्र्यर्थं वा ।।

प्रथमाधिकरणार्थमाह - अधीत इति । जन्माद्यधिकरणार्थमाह अनन्त इति। महानन्दैककारणम् इति तद्वजिज्ञासस्व इति फलितार्थ उक्तः । अब्रूमहि इत्यन्तं स्पष्टार्थम् । तत्तत्पदानां प्रयोजनवत्त्वं पूर्वानुरोधे नानुसन्धेयम् ।।

पादार्थमाह - तदेवम् इति । अतिपतित इति कुतर्काणां धर्मिग्राहकबाधोऽभिप्रेतः । चिदचिद्विलक्षणकारणास्तित्वं पादानुगतार्थ उक्तः । अतः परम् इति । उक्तस्य ब्रह्मकारणत्वस्यान्ययोगव्यवच्छेदः क्रियते इत्यर्थः ।।

जीवादि इति । अस्पष्ट इत्यादिकं न ब्रह्मलिङ्गगतमिति भावः । तत्तत् इति । तच्छब्दो लिङ्गिपरः । स्पष्टतरपूर्वपक्षबीजानि इत्यर्थः । द्वितीयाद्ये जीवलिङ्गावगमात् जीवादि इत्युक्तिः । अवयविस्वारस्यजीवपरताय इति शङ्कायाऽवान्तरसङ्गतिः । सर्वतादात्म्यमनःप्राणसंबन्धार्भकौकस्त्वाणुत्वादीनि जीवलिङ्गानि दृश्यन्ते ।।

सर्वत्र प्रसिद्धोपदेशात् ।। 1-2-1 ।।

इदमाम्नायते छान्दोग्ये - अथ खलु क्रतुमयः ... ... उपसंहारस्थब्रह्मपदमपि जीव एव पूजार्थं प्रयुक्तमित्यध्यवसीयते इति ।।

सर्वत्र प्रसिद्धोपदेशात् । विषयमाह - इदम् इति । प्रथम

योजनापेक्षितमात्रमुपात्तम् अथ खलु इत्यादिकम् , न तु सर्वम् इत्यादि । भारूपः इत्यादे द्वितीयसूत्रविषयत्वात् भारूप इत्यन्तमुपात्तम् । भाष्यान्तरानुरोधेन प्रथमयोजना । सर्वं खलु इत्यादेः परविषयत्वं स्फुटम् । अथ खलु इत्यादिविषयमिदं सूत्रमन्यैर्व्याख्यातम् ।।

पूर्वपक्षः

पूर्ववाक्यस्य परविषयत्वात्, तच्छेषत्वादुत्तरवाक्यान्यपि तथेति न जीवपरत्वशङ्का इत्यधिकरणमनारंभणीयमित्यत्राह - अत्र इति । विध्यन्त रोपास्यपरतया न पूर्वणैकविषयतेति जीवपरत्वशङ्कोचितेत्यर्थं#ः । प्रतिपादित स्योपासनस्य इति । क्रतुशब्दः उपासनपरः । न तु प्राग्विहित ब्रह्मोपासनाङ्गभूतकर्मपरः , यथाक्रतुः इत्यनेन फलसंबन्धदर्शनात् । तत्र च क्रतुः उपास्तिः तं यथा यथोपासते इत्येतदैकार्थ्यात् । प्राक् ब्रह्मोपासने विहितेऽपि जीवस्य क्रतुप्रचुरत्वात् , तदुपास्त्यन्तरविधिश्चोपपन्न इति भावः । तत्र इत्यादि स्पष्टम् । उपकरणोपकरणित्वलक्षणसंबन्ध विशेषस्यास्फुटत्वात् अस्पष्टलिङ्गता ।।

प्राक् प्रकृतं ब्रह्मैव क्रतुं कुर्वीत इत्यत्रोपास्यतया संबध्य मनोमयत्वादिविशेष्यं स्यादिति शङ्कायां , किं ब्रह्मपदस्य विधिपदाकांक्षया, उत क्रतुं कुर्वीत इत्यस्योपास्याकांक्षया वा ब्रह्मशब्दस्योत्तरत्रान्वय इति विकल्पमभिप्रेत्य, प्रथमं शिरः प्रतिवक्ति - न च सर्वम् इत् । अन्यार्थ तया निराकांक्षत्वादित्यर्थः । द्वितीयं प्रतिवक्ति - न च स क्रतुम् इति अनन्यार्थेन स्ववाक्यार्थेन निराकांक्षत्वादित्यर्थः । विभक्ति इति । प्रथमान्तस्येव द्वितीयान्तस्याप्यनन्वयः , अषष्ट्यन्तत्वाविशेषात् विपरिणामस्तु सन्निहितानन्यार्थपदस्यैवोचित इत्यर्थः । उभयाकांक्षा - विधिपदमनोमयादि पदाकांक्षा ।।

सिद्धान्तः

एवं प्राप्ते ब्रूमः - सर्वत्र प्रसिद्धोपदेशात् । मनोमयत्वादि गुणकः ... ... मनायत्तं ज्ञानं प्राणायत्तां स्थतिं च ब्रह्मणो निषेधति ।।

राद्धान्तमाह - एवम् इति । सर्वत्र प्रसिद्धोपदेशात् । सर्वत्र सामान्यविशेषशब्दवत्सु इति भावः । मनोमात्रेण

संबन्धमात्रं दर्शितं मनोमय इति वाक्ये ;

हृदा इत्यत्र संबन्धविशेषः । न चक्षुषा इत्यत्रमनोविशेषण संबन्धविशेषः। प्राणशरीरत्वं दर्शयति - तथा इति । प्राणः - धारकः । धारको हि शरीरी । उपसंहारविरोधमाह - एवम् इति । निषेधाविरोधमाह - अप्राण इति ।।

अथवा - सर्वं खल्विदं ब्रह्म ज्जलानिति ... ... अनाद्य विद्यया देवतिर्यङ्मनुष्यस्थावरात्मनाऽवतिष्ठते इति ।

पूर्वपक्षः 2

स्वामिमतयोजनामाह - अथवा इति । अध्याहार्यप्रतिज्ञत्वात् , आद्यन्तगतब्रह्मशब्दद्वयविषयैक्यखारस्यविरोधात् , एवंविच्छान्तः इति शान्तेः श्रवणमनननिष्पाद्यत्वदर्शनात् , तदुपायोपास्त्यान्तरादर्शनात् आशंसार्यत्वं शान्तशब्दास्वारस्यात् , वृत्त्यननुरोधाच्च प्राग्योजना न वरमिति भावः । अत्रैव इति । न तु शान्त्युपायमुक्त्युपाययोरस्ति भिदा इत्यर्थः । शान्त शब्दस्वारस्यं दर्शयन् वाक्यार्थमाह - सर्वात्मकम् इति । उपादानम् - विधानम् । अनुवादः - दध्ना जुहोति इत्यत्र होमवत् । वाक्यार्थमाह - अतः इति । एवमेकविषयत्वमङ्गीकृत्य संशयमाह - तत्र इति । अविद्याकर्मणोरनादित्वं बीजाङ्कुरनयात् । परस्य तदनुपपत्तिमाह परस्य तु इति । ब्रह्मशब्दः कथमित्यत्राह - प्रत्यक् इति । उपपादयति अत इति । प्रवृत्तिनिमित्त्योगं दर्शयति - प्रत्यक् इति । कारणत्वं निर्वहति - अविदुषः इति । ब्रह्मत्वं शुद्धे , कारणत्वं बद्धे । तत् कथं ब्रह्मत्वसर्वत्वसामानाधिकरण्यमित्यत्राह - तदयम् इति ।।

अत्र प्रतिविधीयते - सर्वत्र प्रसिद्धोपदेशात् । ... ... यथाह वृत्तिकारः - सर्वं खल्विति सर्वात्मा ब्रह्मोशः इति ।। 1 ।।

सिद्धान्तः

राद्धान्तमाह - अत्र इति । सर्वत्र प्रसिंद्धोपदेशात् । सर्वत्र सर्व शब्दो न वाचकपरः । किं तु वाच्यपर इति भावः । प्रसिद्धस्य हि हेतुत्वम् । हेतुतयोक्त्या जन्मादीनं प्रसिद्धतयोपदेशः । खलुना तादात्म्यस्य प्रसिद्धतयोक्तिरित्यर्थः । उक्तं स्पष्टयति - ब्रह्मण इति । प्रसिदिं्ध दर्शयति तथा हि इति। यतो वाचः इत्यादेर्जीवपरत्वञ्यावृत्त्यर्थमाह - आनन्द इति । आनन्द शब्दस्य आनन्दमयपरत्वं स्पष्टयति - पूर्वानुवाक इति । वाक्यान्तरमाह - स कारणम् इति । कारणत्वकृततादात्म्यमप्यर्थसिद मित्यभिप्रेत्याह - अतः इति । श्रुत्यन्तरेषु कारणतया

तादात्म्योपदेशात् इंहोक्तं तादात्म्यमुपपन्नमित्यर्थः । चिदचिद्विलक्षणस्य कथं तादात्म्यमित्यत्राह अतः इति । श्रुतिभिरेव तदनत्वोक्तेः आत्मत्वसिद्धरित्यर्थः। स्थितो हि देहात्भावःन तु कारणदशायाम् ; तदानीमैक्योक्तेरित्यत्राह - परं ब्रह्म हि इति । वस्तुसामर्थ्यात् कण्ठोक्त्या चेति भावः । तत- किमित्यत्राह एवंभूत इति ।।

यदुक्तम् इत्यादि स्फृटम् । जीवकर्म इति । कर्तृत्वोपादनते ब्रह्मणः ; कर्म तु वैषम्यमात्रहेरित्यर्थः । अतः इति निगमनम् । खोक्तार्थस्य सांप्रदायिकत्वमाह - इममेव इति । सर्वं खलु इति वाक्ये सर्वात्मकत योक्तं ब्रह्म ईशः परमात्मेत्यर्थः

।। 1।।

विवक्षितगुणोपपत्तेश्च ।। 1-2-2 ।।

वक्ष्यमाणाश्च गुणाः परमात्मन्येवोपपद्यन्ते ... ... जोषमासीन इत्यर्थः । त एते विवक्षिता गुणाः परमात्मन्येवोप पद्यन्ते ।। 2।।

विवक्षितगुणोपपत्तेश्च । वक्तुमिच्छिविषयत्वम् - विवक्षितत्वम् । तदनन्तरभाविवचनविषयत्वमिति वक्ष्यमाणा इत्युक्तम् । मनोमय शब्दं सामान्यविशेषवाक्यानुगुणं व्याचेष्टे - परिशुद्धेन इति । एकेन इति । अब्भक्ष वत् अवधारणगर्भत्वमभिप्रेतम् । तद्विवृणोति- विवेक इति । फलितमाह -
अनेन इति । कुत इत्यत्राह - मलिन इति । व्यापक निवृत्त्या वायप्यनिवृत्तिः । आधेयत्वादिसिद्धिः कथमित्यत्राह कथमित्यत्राह - आधेयत्व इति । भा दीप्तिः , तद्धर्मको भारूपः । तद्धर्मकत्वं विग्रहद्वारा इत्याह भास्वर इति । आकाश एव तदोतं प्रोतं च इत्युक्तप्रत्यभिज्ञाभिप्रायेणाह सकलेतर इति । प्रकाशयति , स्वस्मा इत्यर्थः । सर्वा वा इति । सर्वकर्माराध्य इत्यर्थः । निषेधस्य विहितव्यतिरिक्तविषयत्वमभिप्रेत्याह - तत इति । कुत इति - कुत इत्यत्राह इत्यर्थः । अत एव - न तु वाक्सामर्थ्याभावादिति भावः । तत् विवृणोति - परिपूर्णा इति । निगमयति - त एते इति ।। 2 ।।

अनुपपत्तेस्तु न शारीरः ।। 1-2-3 ।।

तमिमं गुणसागरं पर्यालोचतयां ... .... नास्मिन् प्रकरणे शारीरपरिग्रशहङ्का जायत इत्यर्थः ।। 3 ।।

मुक्तेऽप्यसंभवं व्यतिरेकमुखेनाह - अनुपपत्तेस्तु न शारीरः । मुक्तेऽप्यनुपपत्त्यर्थं योग्यशब्दः । बद्धोक्तिः दृष्टान्ततया ।। 3 ।।

कर्मकर्तृव्यपदेशाच्च ।। 1-2-4 ।।

एतमितः प्रेत्यामिसंभविताऽस्मि ... ... प्राप्यं परं ब्रह्मोपास्यमिति प्राप्तुरन्यदेवेदमिति विज्ञायते ।। 4 ।।

कर्मकर्तृव्यपदेशाच्च । व्यतिरेकोपपादनपरमिदम् । प्राप्यप्राप्तृभेदः सौत्रः । ततः किं सर्वं खलु इत्युक्तस्योपास्यस्य जीवात् भेदस्य इत्यत्राह - अतः इति ।।4 ।।

शब्दविशेषात् ।। 1-2-5।।

एष म आत्माऽन्तर्हृदये ... ... पुरुषो हिरण्मयः इति प्रथमयोपास्यः । अतःपर एवोपास्यः ।। 5 ।।

परमसाध्यस्य हेतुमाह - शब्दविशेषात् । असमानविभक्तिनिर्देशोऽभिप्रेतः सनानप्रकरणे शाण्डिल्यविद्यायाम् ।। 5 ।।

इतश्च शारीरादन्यः -

स्मृतेश्च ।। 1-2-6 ।।

सर्वस्य चाहं हृदि सन्निविष्टः ... ... ... परमात्मानं चोपास्यं स्मृतिर्दर्शयति ।। 6 ।।

स्मृतेश्च । हृदिस्थितौ अपास्योपासकभेदे च स्मृतिर्दशिंता ।। 6 ।।

अर्भकौकस्त्वात् तद्व्यापदेशाच्च नेति चेन्न

निचाय्यत्वादेवं व्योमवच्च ।। 1.2-7 ।।

अल्पायतन्त्वम् - अर्भकौकस्त्वम् । ... ... अत उपासनार्थमर्भकौकस्त्वमणीयस्त्वं च ।। 7 ।।

अर्भकौकस्त्वात् तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं वेयोमवच्च । अल्पत्वाक्षेपकोक्तेः तत्कण्ठोक्तेश्च इत्यर्थः । परस्य तद्वैधर्म्यमाह - अपि तु इति। विपरीतं कस्मान्नेत्यत्राह - तथा हि इति । प्रकरणाविच्छेदाय अथ खलु इत्याद्युक्तम्। स्वरूपगुणान् अद्वारकगुणान् । पूर्वत्र उत्तरत्र च विभुत्वोक्तेः मध्येऽल्पत्वमुक्तमौपाधिकमित्यर्थः ।।

संभोगप्राप्तिरिति चेन्न वैशेष्यात् ।। 1.2-8 ।।

जीवस्येव परस्यापि ... ... तयोरन्यः पिप्पलं स्वादूत्ति अनश्नन्नन्योऽभिचाकशीति

इति ।। 8 ।।

संभोगप्राप्तिरिति चेन्न वैशेष्यात् । शरीरान्तर्वर्तित्वम् - हृदि स्थितत्वम् । वैशेषयं - विशेषः ।। 8 ।।

इति सर्वत्रप्रसिद्ध्यधिकरणम् -1




2.अत्त्रधिकरणम् ।।

यदि परमात्मा न भोक्ता एवं तर्हि ...

अत्ता चराचरग्रहणात् ।। 1-2-9 ।।

कठवल्लीष्वाभ्नायते - यस्य ब्रह्म च ... .... जगदुपसंहारित्वरूपं परमात्मन एव ।। 9 ।।

अवान्तरसङ्गतिमाह - यदि इति । अत्ता चराचरग्रहणात् । अत्तुशब्दाश्रुतेः ।
सूचित इत्युक्ता ।

राद्धन्ते चराचरसंहाररूपतायां हेतुद्वयमाह - सोऽध्वनः इत्यादिना । ब्रह्मक्षत्र शब्दो कृत्स्नचराचरप्रदर्शनार्थाविति भावः । मृत्यूपसेचनत्वं कथं चरारराद्यदनीयत्वमित्यत्नाह - उपसेचनं हि इति ।। 9 ।।

प्रकरणाच्च ।।1-2-10 ।।

प्रकरणं चेदं परस्यैव ब्रह्मणः .... ... तत्प्रसादादृते तस्य दुरवबोधत्वमेव पूर्वप्रस्तुत प्रत्यभिज्ञायते ।। 10 ।।

प्रकरणाच्च । प्रकरणोक्यं कथणित्यत्नाह - क इत्था इति ।।

अथ स्यत् - नायं भ्रह्मक्षत्नौदनसूचितः ... ... तदेतत् प्रकरणत्वात् पूर्वप्रस्तुतोऽत्ताऽपि स एव भवितुमर्हति

- इति (143)

उत्तरत्य शङ्कामाह - अथ स्यात् इति । अनन्तरम् - न ह्यव्यवहितस्य विच्छेद इति भावः । अत्र प्रकरणात् ऋतपानलिङ्गबलीयस्त्वमुक्तम् । कथं भोवतुर्जिवत्वं, कथं वा द्वितीयस्य बुद्धिप्राणयोरन्यतरत्वमिंत्यत्राह - ऋचपानं हि इति । पूर्वोक्तात्तृत्ववत् जगत्संहर्तृत्वमपि बवक्तुं न शक्यमिति भावः । यथा इति । करणं कर्तृत्वोपचार इत्यर्थः । ततः किमत्तुर्जिवत्वस्येत्यत्राह - तदेक इति ।।

तत्रोच्यते -

गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ।। 1-2-11 ।।

न प्राणजीवौ बुद्धिजीवौ वा गुहां प्रविष्टौ ... ... यद्वा प्रयोज्यप्रयोजकरूपेण पाने कर्तृत्वं जीवपरयोरुषपपद्यते ।। 11 ।।

गुहां प्रवष्टावात्मानौ हि तद्दर्शनात् । जीवस्यापि इति । गुहाप्रवेशो दृश्यते इत्यन्वयः । प्रकरणविच्छेदकलिङ्गासिद्धमाह - एवं च इति । मुख्यकल्पं निर्वाहान्तरमाह - यद्वा इति । प्रयोजककर्तुरपि कर्तृत्वमस्ति ।। 11 ।।

विशेषणाच्च ।। 1-2-12 ।।

अस्मिन् प्रकरणे जीवपरमात्मानावेव .... .... छायातपौ इत्यज्ञत्वसर्वज्ञत्वाभ्यां तावेव विशेष्य व्यपदिश्येते ।। (244-245)

विशेषणाच्च । शकेमहि - उपासितुमिति शेषः । इहाप्युदाहृतवाक्यैकार्थ्यादिति भावः ।।

अथ स्यात् येयं प्रेते विचिकित्सा मनुष्ये ... ... तदपोक्षितांश्च विशेषानुपदिदेश इति सर्वं समाञ्जसम् । अतः परमात्मैवात्तेति सिद्धम् ।।12।।

चतर्थे पादे वक्ष्यमाणावपि चोद्यपरिहाराविह सुग्रहत्वायोक्तौ, चोद्यस्य धीस्थत्वात् । अथ स्यात् इति । वरद्वयं किं, वरणायोगः कथमित्यत्राह - तथा हि इति । अत्र इति । मोक्षज्ञानाय तदनुबन्धि जिज्ञासया प्रश्न इत्यर्थः । तदुपाय इति । प्रतिवचनप्रकारादुपायादीनां पृष्टत्वावगमः । निखइल इति कारणशोधकाद्यर्थ उक्तः । विशेषान् प्रणवाग्रिविद्यादीन् ।। 12 ।।

इति अत्त्रधिकरणम् ।। 2 ।।

3. अन्तराधिकरणम् ।।

अन्तर उपपत्ते ।। 1-2-13 ।।

इदमामनन्ति छन्दोगाः - य एषोऽक्षइणि पुरुषो दृश्यते । ... ... एव हि सर्वषु लोकेषु भाति इत्येषां गुणानां परमात्मन्येवोपपत्तेः ।। 13 ।।

अन्तर उपपत्तेः । परस्य तं दुर्दर्शम् क इत्था वेद इति दुर्दर्शत्वोक्तेः , यएष दृश्यते इत्युक्तो न परः इति शङ्कया सङ्गतिरर्थसिद्धेनि न कण्ठोक्ता । य एष इति

प्रसिद्धवदुक्तिः । दृश्यते इति अपरोक्षत्वोक्तिः प्रतिबिम्बादीनां क्रमात् अपरोक्षकाल्पनिकश्रुतिप्रसिद्धयः ।।

राद्धान्ते एषाम् इति । निरुपाधिकानामिति भावः ।। 13 ।।

स्थानादिव्यपदेशाच्च ।। 1-2-14 ।।

यक्षुषि स्थितिनियमनादय ... ... योगिभिर्दृश्यमानात्वा दुपपद्यते ।। 14 ।।

स्थानादिव्यपदेशाच्च । आदिशब्दात् धारकत्वावेद्यत्वादि । साधकहेतूक्तिफलितां पूर्वपक्षयुक्त्योरन्यथासिदिं्ध चाह - अतः इति ।। 14 ।।

सुखविशिष्टाभिधानादेव च ।। 1-2-15 ।।

इतश्चाक्ष्याधारः पुरुषोत्तमः ... ... प्रकृतस्यैव ब्रह्मणोऽत्नाभि धानादयमक्ष्याधारः परमात्मा ।। 15 ।।

सुखविशिष्टाभिधानादेव च । अङ्गत्वादिविशेध इत्यत्राह - न च इति । अङ्गिफलाविरोधशङ्काव्युदासाय तद्विरोधि इत्युक्तम् । उच्यते इत्यादि । उभयत्र - उपक्रमोपसंहारयोः । हेतुचतुष्ट्येनाङ्गङ्गित्वमुक्तम् ।
प्राणो ब्रह्म इत्यादना फलविरोधमुपगम्याह - एवं च इति । स च नेत्याह - न च इति । परिपालयामः इति भुजेः परस्मैपदित्वात्

इति भावः । ननु इति । स्थानगुणयोर्वक्ष्यमाणत्वाकथात् तयोर्न विधेयत्वमिति न तद्विधानायात्र परमात्मोव्यत इत्यनयपरमित्यर्थः । परिगरति - तदभि इति । स्फुटम् ।। 15 ।।

ननु च - कं ब्रह्म खं ब्रह्म ... ... मनो ब्रह्म इत्यादिवचनसारूप्यात् ।।

अनन्तरसूत्रशङ्कामाह - ननु च इति । यावता - प्रत्युत इत्यर्थः । वचनसारूप्यात् इति । ब्रह्मशब्दस्य पश्चादुपादानात् ब्रह्म दृष्टि विशेषममित्यर्थः । ब्रह्मशब्देन निगमनाभावाच्चेति भावः।।

तत्राह -

अत एव च स ब्रह्म ।। 1-2-16 ।।

यतस्तत्र यदेव कं तदेव खम् . .. ... तदेव चात्राक्ष्याधारतयाऽभिधीयते इत्यक्ष्याधारः परमात्मा ।। 16 ।। (252-253)

अत एव च स ब्रह्म । निगमनवाक्यानुसारात् सः इति पुल्लिङ्गता । यदेव कम्

इत्यर्थोपादानं, न वाक्योपादानम् । यद्वावकम् इति वाक्यम् । अत्राप्यन्योन्यदृष्टिविधिः स्यात्, कथं च ख शब्दोक्तस्य ब्रह्मत्वमित्यत्नाह - एतदुक्तम् इति । ज्ञातत्वाज्ञातत्वमिति बेषम्यं च कथं, कथं च खस्य सुखविशिष्टत्वमिति शङ्कायां तद्विवरीतुमाह अस्यायम् इति । दृष्टिविधिपरत्वे ज्ञातत्वाज्ञाविभागायोगात् मुमुक्षुं प्रत्युपदेशात् अर्थान्तराज्ञानं प्रति दृष्टिविध्यन्तरस्योत्तरत्वायोगाच्च मिथो व्यवच्छेदकत्वे स्थिते सति वाक्यस्यार्थमाह - ब्रह्मणः इति । अतः - दृष्टिविधित्वायोगेन अनन्तसुखरूपब्रह्मपरोक्रमवाक्यानुगुण्यादुपसंहारवक्यस्येत्यर्थः । यया शङ्कया सूत्रौत्थानं, तस्याः परिहृतत्वमाह - अतः कम् इति । सूत्रार्थं परमप्रकृतेन सङ्गमयति - तदेव च इति ।। 16 ।।

श्रुतोपनिषत्कगत्यभिधानाच्च ।। 1.2.17 ।।

शुतोपनिषत्कस्य - अधिगतपरमपुरुषयाथात्भ्यस्य ... ... ... अतोऽप्ययमक्षिपुरुषः परमात्मा ।। 17 ।।

श्रुतोपनिषत्कगत्वभिधानाच्च । श्रुतोपनिषत्कस्य इति व्यस्य निर्देशो व्याख्यानाय ।। 17 ।।

अनवस्थितेरसंभवाच्च नेतरः ।। 1-2-18 ।।

प्रतिबिभ्बादीनामक्षिणि नियमेनानवस्थानात् ... ... ... तस्मात् अक्षिपुरुषः परमात्मा ।। 18 ।।

अनवस्थितेरसंभवाच्च नेतरः । पदद्वयेनादिमसूत्रद्वयार्थव्यतिरेको धीस्थक्रमेण दर्शितः । रश्मिभिः इति विद्यानिष्ट इतिवत् वशीकारमात्नाभि प्रायः प्रतिष्ठित शब्दः । खट्वदिद्वारकप्रासादशयनवत् सद्वारकतया चक्षुः - संबन्धोपपत्तिरित्यर्थः । अधिकरणार्थणुपसंहरति - तस्मात् इति ।। 18 ।।

इति अन्तराधिकरणम् -3

4.अन्तर्याभ्यधिकरणम् ।

स्वानादिव्यपदेशाच्च इत्यत्न ... ... परमात्मत्वं साधितम् । इदनीं तदेव समर्थयते ।।

अवान्तरसङ्गतिमाह - स्थान इति ।

अन्तर्याभ्यधिदैवाधिलोकादिषु तद्धर्मव्यपदेशात् ।। 1-2-19 ।।

काण्वा माध्यन्दिनाश्च वाजसनेयिनः ... ... नान्योऽतोऽस्ति द्रष्टा इति द्रष्ट्रन्तरनिषेधाच्च इति ।।

अन्तर्यभ्यधिदैवाधिलोकादिषु तद्धर्मव्यपदेशात् । विषयं शोधयति - काण्वा इत्यादिना । वेदयज्ञशब्दौ अभिमानिदेवतापरौ । कथं विश्वचिदचिन्नियन्तरि जीवत्वशङ्का इति शङ्कायां पूर्वपक्षयुक्तिमाह वाक्यशेष इति । ततः किमन्तर्यामिणो जीवत्वस्येत्यत्राह - एवं द्रष्टुः इति । ततः किं रूपादिसाक्षात्कर्तृत्वमर्थं इत्यत्राह - नान्य इति । तन्नान्यत्र निषेध्यम्, जीवेषु तत्संभवात् करणाधीनं तु तदन्यत्र निषेध्यं, परस्मिन् तदयोगादित्यर्थः । यच्छब्दावृत्त्या च बहुत्वम् । स इति जातौ, उपर्कमे यः इति च । आत्मनि स्थित्यादयः स्वारस्येन नेया इति भावः ।।

सिद्धान्तः

एवं प्राप्रेऽभिधीयते - अन्तर्याभ्यधिदैवाधिलोकादिषु ... जीवस्यात्मतयोपदिश्यमानोऽन्तर्यमी न प्रत्यगात्मा भवितुमर्हति ।। 19 ।।

राद्धान्ते पदचिह्निनेषु इति । अधिशब्दसप्रभीपुनरुक्तिप्रसङ्गान्नार्थपरत्वमिति भावः । पदद्वयोक्तिप्रयोजनमाह - काण्व इति । तस्य उत्तरमस्तु, ततः किमित्यत्राह - तदेतत् इति । अन्यस्मिन्नसंभवे श्रुत्यन्तराण्युदाहरति - तथा हि

इति । समानप्रकरणवाक्यमाह - तथा इति। पश्यत्वचक्षुः इति व्याहतमित्यत्राह - न च दर्शन इति । अनुगतनिमित्तमाह - अपि तु इति । अशब्दत्वऽपि व्याप्तिबलात् करणायत्तत्वमित्यत्नाह - स च इति । सोपाधिकमित्यर्थः । परोक्तयुकिं्त प्रतिवक्ति- नान्योऽतः इति । उक्तं विवृणोति यं पृथिवी इति । निन्यत्रन्तरम् इति । अतः शब्दखारस्येन उक्तलक्षणद्रष्टन्तरं निषिध्यते इति नियन्तृरूपद्रष्ट्रन्तरनिषेध इत्यर्थः । व्यतिरेकविभक्तिनिर्देशोऽपि शब्दविशेषात् इति पूर्वोक्तभेदहेतुतया अत्राभिप्रेत इत्याह - एष ते इति ।। 19 ।।

न च स्मार्तमतद्धर्माभिलापाच्छरीरश्च ।। 1-2-10 ।।

स्मार्तं - प्रधानम् ... ... प्रत्यगात्मनि व्यचतिरेकश्च सूत्रद्वयेन दर्शितः ।। 20।।

न च स्मार्तमतद्धर्माभिलापाच्छारीश्चा। अप्रस्तुतस्मार्तनिरासः किमर्थ इत्यत्राह - एतदुक्तम् इति । सूत्रद्वयपोनरुक्त्यं नेत्याह अमिषाम् इति ।। 20 ।।

निरपेक्षं च गेत्वन्तरमाह -

उभयेऽपि हि भेदेनैनमधीयते ।। 1-2-12 ।।

उभये - माध्यन्दिनाः काण्वाश्च ... ... प्रत्यगात्मनो विलक्षणोऽपहतपाप्मा परमात्मा नारायण इति सिद्धम् ।। 21 ।।

उभयेऽपि हि भेदेनैनमधीयते । नियाभ्यतया इति भेदकधर्मोक्त्या भेदसिद्धिरित्यर्थः । अपवादाभावात् व्यतिरेकनिर्देशादिखारस्यसिद्धिः ।। 21 ।।

इति अन्तर्याम्यधिकरणम् - 4

5. अदृश्यत्वादिगुणकाधितकणम् ।।

अदृश्यत्वादिगुणको धर्मोक्तेः ।। 1-2-22 ।.

आर्थर्वणिका अधीयते ... ... अतोऽऽत्राक्षरशब्दो भूतसूक्ष्ममचेतनं ब्रूते ।। 22 ।।

अदृश्यत्वादिगुणको धर्मोक्तेः । अक्षरात् परतः परस्य च सूत्रविवक्षितत्वं पुल्लिङ्गसूचतम् । अदृष्टो द्रष्टा इत्यादाविव इति सङ्गतिः सूचिता । न ह्मत्रादृश्यत्वं द्रष्टृत्ववत् नियन्तृत्वसहचराति प्रधानपरत्वशङ्कया सङ्गतिः। परतोऽक्षरात् इति विभक्तिसाम्येन सामानाधिकरण्यं स्वतः प्राप्तमिति भावः । अदृश्यत्वं साधारणं, दृष्टान्तश्च चेतनपरत्वनुगुण इत्यत्नाह एतदुक्तम् इति । अन्तरङ्गे सति बहिरङ्गं न ग्राह्यमिति भावः । दृष्टान्तानु गुण्यमाह - तदधिष्ठितम् इति ।

राद्धान्ते इदं वाक्यमुक्तविषयं स्यादित्यत्राह - तथा हि इति । अक्षरं न परमात्मा, परत्वक्षवणात् इत्यत्नाह - पश्चात् इति । पञ्चम्यपेक्षास्वारस्यात् अन्वयस्वारस्याच्च वैयधिकरण्यमिति भावः । अर्थविरोधं हेतुमाह तस्य इति । यस्य परधर्मन्वयः श्रुतः, स हि परः । अतः एतत्परकरणस्थ ब्रह्मशब्दयोरिव भिन्नवषयत्वं युक्तमिति भावः ।। 22 ।।

इतश्च न प्रधानपुरुषौ-

विशेषणभेदव्यपदेशाभ्यां च नेतरौ ।। 1-2-13 ।।

विशिनष्टि ... ... महदादिवन्नामान्तराभिलापयोग्यक्षरणाभावाद्वा अक्षरत्वं कथंचिदुपपद्यते ।। 13 ।।

विशेषणभेदव्यपदेशाभ्यां च तेतरौ । कस्मात् किं कार्धर्मैः विशिनष्टीत्यत्राह - प्रधानात् इति । भेदव्यपदेशं विषृणोति - तथा इति । उभयमुपपादयितुमाह - तथा हि इति । विशेषणवाचिशब्दैनापि परविषयत्वसिद्धिमाह - परविद्यैव च इति । ज्ञेये ब्रह्मणि कृत्स्नज्ञेयान्तर्भान्तर्भावात् तद्वेतने कृत्स्नवेदनान्तर्भावात् सर्वविद्याप्रतिष्ठा इत्युक्तम् । विद्ययोर्भिन्नविषयत्वव्युदासाय व्याचष्टै - ब्रह्म प्रेप्सुना इति । विद्ये वेदितव्ये इति तपोऽतप्यत , ओदनपाकं पचति इतिवत् । विषयैक्ये को भेद इत्यत्राह - परोश्च इति । तथात्वे सामग्रीभेदं हेतुमाह - तत्र इति । प्रथमेनैवालमित्यत्राह - तयोः इति । तद्वैयर्थ्यं श्रुतमित्यत्नाह - तच्च इति । किं प्रथमेन इत्यत्राह - तदुपाय इति । साधनसप्तकानुगृहीतम्- सायधनसप्तकसहितम् । उक्तं स्पष्टयितुमाह आह च इति । आगमोत्थपरं तत्र इत्यादिवाक्यमित्याह तत्र इति । किं धर्मशास्त्रादिना, न चात्रागमोत्थं प्रतीतमित्यत्राह - साङ्गस्य इति । अथ इति उक्तम् इत्यन्वयः । तपसा इत्यादिवाक्यं व्याचष्टे ब्रह्मणः इति ।
भोक्तृवर्गस्य इति सत्यशब्दार्थ उक्तः । पौनरुक्त्यशङ्का व्युदासायाह - यः सर्वज्ञः इति । दध्ना

जुहोति इतिवदिति भावः । भोग्यभोक्तृ इति । अद्यतेऽत्ति च इति हि अन्ननिरूक्तिरिति भावः । मन्त्रेषु इत्यादि । चतुर्मुखलोककामपरत्वव्यावृत्तर्थणाह - सार्वज्ञ्य इति । तदैतत् सत्यम् इत्याद्यैकार्थ्यादिति भावः । येषु पुरुषेषु ।।

सौत्रहेत्वोर्द्वितीयं विवृणोति - भेदव्यपदेशोऽपि इति । अश्नुते इति प्रोक्षणीनयोऽभिप्रेतः ।। 23 ।।

रूपोपन्यासाच्च ।। 1-2-24 ।।

अग्निर्मूर्धा चक्षुषी ... ... सर्वभूतान्तात्मनः परमात्मन एव संभवति । अतश्च परमात्मा ।। 24 ।।

रूपोपन्यासाच्च । स्फृटार्थम् । अधिकरणार्थं निगमयति - अतः इति ।। 24 ।।

इति अदृश्यत्वादिगुणकाधिकरणम् - 5

6. वैश्वानराधिकरणम् ।।

वैश्वानरः साधारणशब्दविशेषात् ।। 1-2-25 ।।

इतदमामनन्ति छन्दोगाः - आत्मानमेवेमं वैश्वानरं ... ...वैश्वानरात्मविज्ञानफलं वैश्वानरात्मानं परं ब्रह्मेति ज्ञापयति ।। 25 ।।

वैश्वानरः साधारणशब्दविशेषात् । उपन्यस्तं रूपं परस्मादन्यस्य दृश्यति इति शङ्कया सङ्गतिः । साधारण शब्दस्य सूत्रस्थत्वात् शक्य निर्णय उत न इत संशयः कृतः । अह्नां केतुः - आदित्यः । आत्मब्रह्मशब्दौ कथमित्यत्राह - वाक्य इति ।।

राद्धान्ते विशेष्यत इति न घञ्प्रत्ययार्थः समासान्तर्गतषष्ठ्यर्थः । कर्मणि षष्ठीत्यर्थः । कृदन्तपदयोग कर्मार्थषष्ठीनिमित्तमिति ज्ञापयितुं विशेष पदोपादानम् । यद्वा विशेष्यत इति घञर्थोक्तिः । समासश्च कर्मधारयाः । विशेष्यमाणत्वादिति फलतार्थः, न शाब्दार्थः । के पुनर्धर्मा इत्यत्राह - तथा हि इति । धर्म्येकत्वानेकत्वजिज्ञासया वा पदद्वयविशेषणे तात्पर्याद्वा किंशब्दद्वयम् ।। 25 ।।

इतश्च वैश्वानरः परमात्मा -

स्मर्यमाणमनुमानं स्यादिति ।। 1-2-26 ।।

द्युप्रभूति पृथिव्यन्तमवयवविभागेन ........... परमपुरुषस्यैव रुपमिति वैश्वानरः परमपुरुष एव ।। 26 ।।

स्मर्यमाणमनुमानं स्यादिति । लिङ्गवाचिशब्दश्रवणात् इति शब्दवैयर्थ्यमित्यत्राह - इतिशब्दः इति । मूर्धादीनामुपदेशः संभूय कथं न कृत इत्यत्राह - तथा हि इति । विश्वस्य रूपकत्वात् प्रकाशकत्वात् आदित्यो विश्वरूपः । अन्यत् स्पष्टम् ।। 26 ।।

पुनरप्यनिर्णयमेवाशङ्क्य परिहरति -

शब्दादिभ्योऽन्तः प्रतिष्ठानाश्च नेति चेन्न, तथा

दृष्टूयुपदेशादसंभवात् पुरुषमपि चैनमधीयते ।। 1-2-27 ।।

शब्दादिभ्योऽन्तःप्रतिष्ठानाश्च इत्यादि । त्रेताग्निक्लृप्तिप्राणाहुत्याधारत्वयोः आदि शब्देनोपादानम् एतच्छØतिस्थतया सन्निकृष्टत्वात् । वाजिनाम् इति - विप्रकर्णात् कण्ठोक्तिरिति भावः । उक्तहेत्वनुक्रमेण शंकितमर्थं निगमयति - अतः इति ।।

तन्न इत्यादि । जाठरलिङ्गपरमात्मलिङ्गश्रवणात् विशिष्टोपास्तिपरत्वमित्यर्थः । विशिष्टप्रतिपादनं कथम्, तत्सिद्धौ हि विशिष्टोपास्तिपरत्वमित्यत्राह - अग्निशब्दादिभिः इति

। किं च इति । पुरुषशब्दस्य जीवादिपरत्वं प्रकरणादिवशात्, न तु स्वतः इति भावः ।। 27 ।।

अत एव न देवता भूतश्च ।। 1-2-28 ।।

उक्तेभ्य एव .......... महाभूतस्यापि न वैश्वानरत्वप्रसङ्गः ।। 28 ।।

अत एव न देवता भूतश्च । जाठरवत् परिच्छिननत्वाभावेऽपि नात्मब्रह्मशब्दादिकृत्स्नहेतव उपपन्ना इति भावः ।। 28 ।।

साक्षादप्यविरोधं जैमिनिः ।। 1-2-29 ।।

वैश्वानरसमानाधिकरणस्याग्निशब्दस्य ......... परमात्मासाधारणदर्म विशेषितः परमात्मानमेवाभिधत्त इति ।। 29 ।।

साक्षादप्यविरोधं जैमिनिः । साक्षात् इति व्याख्येयम् ।अव्यवधानेन इति व्यारव्यानम् । वैश्वानर शब्दः केन गुणेन वर्तते ; तद्वत् अग्निशब्दस्य केन गुणेन वृत्तिरित्यत्राह - एतदुक्तम् इति ।। 29 ।।

यस्त्वेतमेवं प्रादेशमात्रभिविमानम् ...

अभिव्यक्तेरित्याश्मरथ्यः ।। 1-2-30 ।।

उपासकाभिव्यक्त्यर्थं ... ... विगतमानस्य ह्यभिव्यक्तेरेव हेतोर्भवति ।। 30 ।।

उत्तरसूत्राशङ्कामाह - यस्तु इति ।।

अभिव्यक्तेरित्याश्मरथ्यः । परिच्छिन्नत्वं भूततृतीयदेवतयो रोवेति शङ्काऽत्र परिहृता । द्युप्रभृति इत्यादिभिः प्रादेशमात्रादि शूब्दाः विवृताः ।। 30 ।। अनन्तरस्य शङ्कामाह भूर्ध इति ।

भूर्धप्रभृत्यवयवविशेषैः पुरुपाविधत्वं ...

अनुस्मृतेर्बागरिः ।। 1-2-31 ।।

तथोपासनार्थमिति बादरिराचार्यो ... ... तन्मुमुक्षुभिस्त्याज्यत्वादिह न गृह्यते ।। 31 ।।

अनुस्मृतेर्बादरिः । पुरुषविधत्वम् उपासार्थम् । सा चमुक्त्यर्थेत्यर्थः।। 31 ।।

यदि परमात्मा वैश्वानरः , कथं तर्हि ...

संपत्तेरिति जौमिनिस्तथा हि दर्शयति ।। 1-2-32 ।।

अस्य परमात्मन एव वैश्वानरस्य ... ... एवं हास्य सर्वे पाप्मानः प्रदूयन्ते इति ।। 32 ।।

संपत्तेरिति जैमिनिस्तथा हि दर्शयति । संपत्तिः - अतस्मिन् तत्कल्पनम् । तथा इत्यादिसूत्रखण्डं व्यचष्टे - तथा हि इति । अग्निहोत्रक्लृप्तेः परमात्माराधनार्थतां फलमेव दर्शयतीत्यर्थः ।। 32 ।।

आमनन्ति चैनमस्मिन् ।। 1-2-33 ।।

एनं परमपुरुषं द्युणूर्धत्वादिविशिष्टं ... .... अतः परमात्मा पुरुषोत्तम एव वैश्वानर इति सिद्धम् ।। 33 ।।

इति वैश्वानराधिकरणम् - 6

इति श्रीभगवद्रामानुजविरचिते शारीकरमीमांसाभाष्ये

प्रथमस्याध्यायस्य द्वितीयः पादः ।।

---

न परस्य द्यप्रभृतिशरीरत्वम्; उपासकाङ्गानां द्युप्रभृतित्वाद्युक्तेरिति शङ्कायामनन्तरसूत्रम् ।।

आमनन्ति चैनमस्मिन् । एनम् इतिगर्मितं विवृण्वन् उक्तं विवृणोति - अयमर्थः। इति । स्पष्टम् । फलं च इति । फलवत्सन्निधौ अफलं तदङ्गमिति भावः । बुद्धिसौकर्याय प्रागुक्तमर्थमेतत्सूत्रार्थेन सङ्गतमाह एवम् इति । अतः । इति ।। 33 ।।

इति वैश्वानरधिकरणम् - 6

इति श्रहरितकुलतिलकवाग्विजयिसूनुना श्रीरङ्गराजदिव्याज्ञालब्ध -

वेदव्यासापरनामधेयेन श्रीमद्वरदाचार्यपादसेवासमधिगत -

श्रीभगवद्रामानुजविरचितशारीकमीमांसाभाष्यहृदयेन

श्रूसुदर्शनसूरिणा विलिखितायां श्रुतप्रदीपिकायां

प्रथमस्याध्यायस्य द्वितीयः पादः ।।



च्र्ण्त्द्धड्ड घ्ठ्ठड्डठ्ठ

प्रथमाध्याये तृतीयः पादः ।।

---

1. द्युभ्वाद्यधिकरणम् ।

द्युभ्वाद्यायतनं स्वशब्दात् ।। 1-3-1 ।।

आथर्वणिका अधीयते - यस्मित् द्यौः ... ... मनःप्रभृति जीवोपकरणाधारत्वं च सर्वाधारस्य परस्यैवोपपद्यते ।। 1 ।।

द्युभ्वाद्यायतनं श्वशब्दात् । पादसङ्गतिः प्रागुक्ता । द्युपृथिव्याद्याधारत्वं परस्मादन्यस्य दृश्यत इति शङ्कयाऽवान्तरसङ्गतिः । स्पष्टजीवलिङ्गकत्वात् अदृश्यत्वाधिकरणे एतदनिरूपणम् । आथर्वणिकाः इत्यादि । स्फुटम् । यथाकथञ्चित् - स्वरूपेण वा कर्मणा वा धारकत्वम् इति भावः ।।

राद्धान्ते - आत्मशब्द इति । गगनदिगादौ प्रयोगाभावात् योगरूढ इति भावः । बहुधा इत्यादिना हेतुफलवैषम्यं जन्मन उक्तम् । विशदयितुमाह - स्मृतिरपि इति ।। 1 ।।

इतश्च परमपुरुषः -

मुक्तोपसृप्यव्यपदेशाच्च ।। 1-3-2।।

अयं द्युपृथिव्याद्यायतनभूतः पुरुषः ... निर्दिष्टो द्युपृथिव्या द्यायतनभूतः पुरुषः परं ब्रह्मैव ।। 2 ।।

मुक्तोपसृप्यव्यपदेशाच्च । न हि वाक्ये मुक्तशब्दः इति शङ्कायां व्याचष्टे संसार इति । प्रलयव्यावृत्त्यर्थं विधूतपुण्यपापत्वम् उक्तम् । निपञ्जन शब्दव्याख्या प्रकृतिसंसर्गरहितैः इति ।। 2 ।।

परब्रह्मासाधारणशब्दादिभिः परमेव ब्रह्म ...

ननुमानमतच्छब्दात् प्राणभृच्च ।। 1-3-3 ।।

यथाऽस्मिन् प्रकरणे प्रधानप्रतिपादकशब्दाभावात् .... .... अर्थाभावे यदव्ययम् इत्यव्ययीभावः ।। 3 ।।

एवमिति अन्वय उक्तः । व्यतिरेको वक्ष्यत इत्यर्थः । नानुमान मतच्छब्दात् प्राणभृच्च । अर्थाभावे यदव्ययम् इति अर्थोपादानम्, न सूत्रोपादानम् ।। 3 ।।

इतश्चायं न प्रत्यगात्मा -

भेदव्यपदेशात् ।। 1-3-4 ।।

समाने वृक्षे पुरुषो निमग्नो ... .... तदा वीतशोको भवति ।। 4 ।।

प्रकरणात् ।। 1-3-5 ।।

प्रकरणं चेदं परस्य ब्रह्मणः ... .... प्रकरणविच्छेदाशङ्कामात्रमत्र पर्यहार्ष्म ।। 5 ।।

प्रकरणात् । तर्हि किमनेनाधिकरणेन इत्यत्राह - नाडी इति ।। 5 ।।

स्थित्यदनाभ्यां च ।। 1-3-6 ।।

द्वा सुपर्ण सयुज सखाया ... ... अतो द्युभ्वाद्यायतनं परमात्मेति सिद्धम् ।। 6 ।।

स्थित्यदनाभ्यां च । अभ्यर्हितत्वादल्पात्वाद्वा स्थितेः प्राथम्यं सूत्रो । भाषयो तु श्रुत्युक्तक्रमेण व्याखातम् । अधिकरणार्थमुपसंहरति - अतः इति ।। 6 ।।

इति द्यभ्वाद्यधिकरणम् -1




2. भूमाधिकरणम् ।।

भूमा संप्रसादादध्युपदेशात् ।। 1-3-7 ।।

इदमामनन्ति छन्दोगाः - यत्र नान्यत् पश्यति ... ... एवं प्रत्यगात्त्वे निश्चिते सति तदनुगुणतया वाक्शेषो नेतव्य इति ।।

भूता संप्रसादादध्युपदेशात् । परप्रकरणाविच्छेदात् तत्परत्वमुक्तम् । तर्हि जीवपकरणाविच्छेदात् जीवपरत्वमिति शङ्कया सङ्गतिः । पठ्यते, न त्वाकृतिगणस्थः । बहोः इति । बहुशब्दस्य भूशब्दादेशः ।प्रत्ययादेरचो लोपश्च इत्यर्थः । अत्र इति । तदल्पम् इति अल्पधर्मि प्रतियोगिपरत्वात् न संख्यापरत्वधर्ममात्रपरत्वे इत्यर्थः । बहवः पुरुषा राजन् , अल्पं वा बहु वा इत्यादौ बहुशब्दस्य संख्यावैपुल्यसाधारण्य दर्शनात् अथं निर्णयः क्रियते । धर्मिवस्त्वन्तरानुक्तिसहितेन धर्मिप्रतियोगित्वेन भूम्नो धर्मित्वनिश्नयः । उपक्रोशतदभावौ सप्राणत्वनिष्प्राणत्वनिबन्धनौ स्याताम् . न तु सजीवत्वाजीवत्वकृतौ इत्यत्राह - अप्राणेषु इति । हिंस्यत्वं परस्मात् पञ्चवृत्तिप्राणाच्च व्यावर्तकमित्यर्थः । प्राणशब्दवाच्यो जीवोऽस्तु, तस्य कथं भूमत्वमित्यत्राह - अयमेव च इति ।।

तु शब्दात् प्रकरणान्तरत्वमाशङ्क्याह - किं च इति । एष तु वा अग्निहोत्री यः सत्यं वदति इतिवत् इति भावः । यदा वै विजानानि इति जीवविषयशस्त्रजन्यज्ञानवानुक्तः । उपक्रमे सशोकत्वं जीवस्य प्रतिपन्नम् , तत् कथं

विपुलसुखत्वमित्यत्राह - अविद्यावियुक्तम् इति । स्वे महिम्नि स्थितत्वादि कथमित्यत्राह - तदनुगुणतया इति ।।

सिद्धान्तः

एवं प्राप्तेऽभिधीयते - भूमा संप्रादादध्युपदेशात् ... ... प्रकान्त आत्मा प्राणशब्दनिर्दिषादन्य इति गम्यते ।।

राद्धान्ते, न हि प्राणशब्दामन्तरं ततोऽधिको भूमाशब्दः श्रुत इत्यत्राह - सत्यशब्दाभिधेयस्य इति । प्रकरणाविच्छेदात् सत्यं भूमेत्यर्थः । सत्यं भूमाऽस्तु, ततः किं तस्य परमात्मत्व इत्यत्राह - सत्य इति । अतिवदति इति सत्यस्याधिकत्वोपदेशेऽपि, आधइक्यस्य प्राणप्रतियोगिकत्वाश्रणात्, सत्यं चान-तं च इत्यादिवत् जीवस्यापि सत्यशब्दवाच्यत्वसंभवाच्च सत्यस्य जीवादर्थान्तरत्वं न सिध्यतीत्मत्राह एतदुक्तम् इति । यद्यपि सत्याधिक्यस्य प्राणः प्रतियोगितया न श्रुतः , तथाऽपि आधिक्यस्य प्रतियोग्यपेक्षायां नामादिवदनन्तरसन्निहितः प्राण एव प्रतियोगी भवितुमर्हतीति तत्प्रतियोगिकाधिक्यवतः परस्य ब्रह्मणः सत्यं ज्ञानम् इत्यादिषु सत्यशब्दनिर्दिष्यस्य ततोऽर्थान्तरत्वं सिद्धममित्यर्थः । ततः किं भूम्नः परमात्मत्व इत्यत्राह - सत्यशब्द इति ।।

अधिकतयोपदेशादर्थान्तरत्वमुक्तम् । अथाधिकतयोपदेश एव कथमिति शङ्कते प्रणशब्द इति । प्रतिवक्ति - स वा इति । व्यावर्तयति अधिकतयेत्यर्थः । प्राङ्निर्दिष्टादुत्तरस्याधिकतयोक्तिपरप्रकरणत्वादिति भावः । नातिवाद्यन्तरप्रतीतिः , पूर्वातिवादिप्रत्यभिज्ञानादित्यत्राह - अत एव इति । अतः - तुशब्दस्वारस्यात् । ततः किमित्यत्राह - अतोऽस्य इति ।

अग्रिहोत्रदृष्टान्तमभिप्रेत्य चोदयति - ननु इति । परिहरति - नैतत् इति । दृष्टान्तवैषम्यं वक्तु तुशब्दात् धर्म्यन्तरप्रतीतिमाह - तुशब्देन इति । वैषम्यमाह - एष तु इति । अग्निहोत्र्यन्तरत्वनिमित्ताग्निहोत्रान्तरत्व हेतुद्रव्यदेवतान्तराप्रतीत्या तुशब्दखारस्यं भग्नम्

। अत्र तु अतिवाद्यन्तरत्वनिमित्तोपारनान्तरत्वहेतूपास्यवस्तुसिद्धेर्न स्वारस्यभङ्ग इति भावः । सत्यशब्दस्योपास्यान्तरपरत्वे तुशब्दस्वारस्यम् ; तत्सिद्धावुपास्यान्तरपरत्वमित्यत्राह सत्यशब्दश्च इति । श्रुतिप्रसिद्ध्या तुशब्दशक्या च नोक्तदोष इत्यर्थः । प्राणनिष्ठस्यासाधारणमतिवादित्वं स्वारस्यभञ्जकमित्यत्राह - अतिवादित्वं हि इति । न ह्ययं शब्दो रूढः , किन्तु यौगिक इत्यर्थः । परब्रह्मवादिन एव इति । अवयवार्थपौष्कल्यादिति भावः । तुशब्दातिशब्दस्वारस्यम् एव कारेणाभिप्रेतम् । अत एव - अतिवादिशब्दस्य यौगिकत्वादेव । आख्यातनिर्देशशिष्यप्रार्थने इति भावः । आचार्यश्च इति । सत्यवदनपरत्वे जिज्ञासितव्यशब्दाखारस्यं चेति भावः । मुखआन्तरेणाधिकतयोपदेशमाह - आत्मनः इति ।।

युदुक्तम् - अस्ति भगवः प्राणाद्भूयः इति प्रश्नस्य ... .... सत्यशब्दाभिधेयस्य ब्रह्मणो भूमेत्युपदेशाद्भूमा परं ब्रह्म ।।

उक्तं च इति । तुशब्दश्रुतिः आत्मोत्पत्तिरूपलिङ्गं चेत्यर्थः । प्रश्नाभावः । किंनिबन्धन इत्यत्राह - अस्ति इति । ब्रह्मसाक्षात्कारोपाय भूतम् इति । यदा वै विजानाति इत्यादिवाक्यस्य यदा साक्षात्करोति तदा सत्यमतिवदतीत्यर्थः । अतिवादस्य प्रकृतत्वादित्यभिप्रायः । सुखरूपता ज्ञानं यादृच्छिकविद्वद्वाक्यैः अनुभूयमाने इति अर्थवशादध्याहृतम् । इह वाक्ये विशिष्टान्यनिषेधः । कथमीशदृष्टावीशितव्यदृष्टिरित्यत्राह - अत ऐश्वर्य इति । गुणशब्दोऽपृथक्स्थितिवाची । आत्मगुणविशेषो हि सुखमित्यत्राह तदेव हि सुखम् इति । उपाधिना दुःखरूपत्वे, संबन्धाज्ञानादननुकूलत्वे दृष्टान्तद्वयम् । अन्यराजानः स्वाराट् इति उपाधितद्विगमौ दर्शितौ । विभूत्यादिविशिष्टस्यानन्द रूपत्वमाह - निरतिशय इति । तगात्मानं स्वयमकुरुत, रसो वै सः इति हि तत्र श्रुतम् । सत्रार्थमुपसंहरति - अतः इति ।। 7 ।।

धर्मोषपत्तेशअच ।। 1-3-8 ।।

अस्य भूम्नो ये धर्मा आम्नायन्ते ... .... तस्मात् बूमविशिष्टः परमात्मेति सिद्धम् ।। 8 ।।

धर्मोपपत्तोश्च । अहङ्ग्रहेण - अहमर्थशब्दयोः परमात्मपर्यन्तत्व बुद्धया । तर्हि अतस्मिन् तद्धीः स्यादित्यत्राह - अहमर्थस्य इति । परस्य सर्वात्मत्वं न

परमान्तर्यामिब्रह्मणादिसिद्धम् , अस्मिन्नपि प्रकरणे तदवगम्यते इत्याह - परमात्मनः इति । परमात्मा इत्यन्तेनार्थोक्तिः । ततो वयोपादानम् । एतदेव इति । विजानतः इति षष्ठ्यन्तम् इत्यर्थः । अधिकरणार्थमुपसंहरति - तस्मात् इति ।। 8 ।।

इति भूमाधिकरणम् - 2 .




3.अक्षराधिकरणम् ।।

अक्षरमम्बरान्तधृतेः ।। 1-3-9 ।।

वाजसनेयिनो गार्गिग्रश्ने समामनन्ति - स होवाचैतद्वै तदक्षरं ... ... अर्थस्वरूपं येन प्रमाणेनावगम्यते, न तत् प्रतिपादन दशायामपेक्षणीयम् ।। 9 ।।

अक्षरमम्बरान्तधृतेः । भूम्नः स्वे महिम्नि स्थितिरुक्ता । सा पात्मादन्यत्रापि दृश्यत इति शङ्कया सङ्गतिः । अहस्वमदीर्धम् इत्यनेनैव वर्णत्वशङ्कानुदयान्न तत्परत्वमिह पूर्वपक्षितम् । प्रमाणान्तर इति । अनुमानात् श्रउतिर्विलम्बिता ; प्रत्यक्षानुमितिसापेक्षत्वात् श्रुतेरिति भावः । श्रुतेः व्युत्पत्तिसापेक्षत्वात् , व्युत्पत्तेः प्रत्यक्षानुमानापेक्षत्वाच्च इति भावः ।।

राद्धान्तं स्पष्टम् । पूर्वपक्षयुकिं्त परिहरति - तन्न इति । शब्दवाच्यतया प्रतिपत्तेर्न मानान्तरापेक्षेत्यर्थः । कथमनपेक्षा, व्युत्पत्त्यादौ अपेक्षितत्वादित्यत्राह - संबन्ध इति ।। 9 ।।

एवं तर्हि अक्षरशब्दनिर्दिष्टो जीवोऽस्तु ... ...

सा च प्रशासनात् ।। 1-3-10 ।।

सा चाम्वरान्तधृतिरस्याक्षरस्य ... ... अतः पुरुषोत्तम एव प्रशासित्रक्षरम् ।। 10 ।।

अनन्तरसूत्रशङ्कामाह - एवं तर्हि इति । सा च प्रशासनात् । जीवस्यापि नियमनलेशसंभवात् तद्व्युदासायाह - प्रकृष्टम् इति । अप्रति हतं शासन म् इत्यर्थः।

।। 10 ।।

अन्यभाव्यावृत्तेश्च ।। 1-3-11 ।।

अन्यभावः - अन्यत्वम् , प्रधानादिभावः । ... ... यद ज्ञानात् संसारप्राप्तिः

यज्ज्ञानाच्च अमृतत्वप्राप्तिः , तदक्षरं परं ब्रह्मैवेति सिद्धम् ।। 11 ।।

अन्यभावव्यावृत्तेश्च । अदृष्टम् - स्वधार्यैरदृष्टम् । तद्धारकतया दृष्टम् । तादृशद्रष्दुः प्रकृतत्वात् । नान्यदतोऽस्ति धार्येण परमात्मना अदृष्टम् , अस्य धारकतया द्रष्ट्ठ नेत्यर्थः । चिदचिद्व्यावृत्तिम् आदि शब्दात् धारकद्रष्ट्रन्तराभावो विवक्षितः ।।

अस्यां योजनायां चिदचिद्व्यावृत्तिकण्ठोक्तिसिद्धिः । तद्व्यावर्तकसकलधर्मवाचिवाक्यविवक्षा च स्यात् । अपरस्यां तु व्यावृत्तिरर्थसिद्धा । धारकद्रष्ट्रन्तरराहित्यमेव कण्ठोक्तं स्यात् । नान्यदस्ति इति विषयवाक्यं सौत्रशब्दैरनुसृतं स्यात् । व्यावर्तयन् इत्यन्तेन सूत्रार्थोक्तिः । ततः परं फलितार्योक्तिः ।।

सौत्रः चशब्दोऽनुक्तसमुच्चयपर इत्यभिप्रयंस्तदर्थमाह - किं च इति ।।

इति अक्षराधिकरणम् - 3

4. ईक्षतिकर्माधिकरणम् ।।

ईक्षतिकर्मव्यपदेशात् सः ।। 1-3-12 ।।

आथर्वणिकाः सत्यकामप्रश्नेऽधीयते - यः पुनरेतं .... .... एवं चतुर्मुखत्वे निश्चिते अजरत्वादयो यथाकथञ्चित् नेतव्याः ।।

ईक्षतिकर्मव्यपदेशात् सः । आकशशब्दवत् अन्तरीक्षब्ह्मलोकशब्दयोर्नान्यथा निर्वाह इति शङ्कया सङ्गतिः । अस्मिन्नधिकरणे ध्यानेक्षणयोर्विषयमेदं पूर्वपक्षीकृत्य तदैक्यं सिद्धान्तयति । परान् प्रतिक्षिपति अत्र इत्यादिना । ध्यान इति स्फुटम् । उभयत्र इति परं पुरुषम् इति । परशब्दविशेषितपुरुषशव्देन निर्दिष्टस्य विषयस्योभयत्रैकत्वेन प्रत्यभिज्ञानात् ; परत्वस्य प्रतियोम्यपेक्षत्वात् , उत्तरत्र जीवधनात् परात् इति निर्दिष्टस्यैव प्रतियोगिनः पूर्वत्राप्यनुषङ्गेण प्रतियोगितयाऽवगमात् प्रतियोम्यन्तरानुक्तेश्च न विषयभेदशङ्का इति परोक्तौ पूर्वपक्षसिद्धान्तौ न युक्तविति भावः । चतुर्मुखस्य समष्टित्वं देवाद्यपेक्षया ।।

सिद्धान्तः

इति प्राप्ते प्रचक्ष्महे - ईक्षतिकर्मव्यपदेशात् सः । ... परमेव ब्रह्म प्रात्यतयोपदिशतीति सर्वं समञ्जसम् । अत ईक्षतिकर्म पारमात्मा ।। 12 ।।

राद्धान्ते परमात्मन एव इति । चतुर्मुखपरत्वे पुल्लिङ्गता स्यादिति भावः ।

चतुर्मुखस्यापि इति । उपदेशजन्यज्ञानप्रसरत्वात् कर्मवश्यता इति भावः । न च इत्यादि । अखारस्यं तुल्यमिति भावः । पूर्वं प्राकृताप्राकृतविभागाभावात् तदानी लोकत्रयोक्त्योगात् प्राकृतलोकद्वयानन्तरोक्तलोकः प्राकृत एवेत्यत्राह - एतद्वै इति । सर्वं समञ्जसम् इति । अन्तरिक्षशब्दस्य प्रदर्शनार्थत्वमेवास्वरसमस्मन्मते । परस्य तु सर्वमखरसमित्यर्थः।।

इति ईक्षतिकर्माकरणम् - 4




5. दहरधिकरणम् ।।

दहर उत्तरेभ्यः ।। 1-3-13 ।।

इदमामनन्ति छन्दोगाः अथ यदिदमस्मिन् ब्रह्मपुरे ... .... तथा सति हृदयावच्छिन्नस्य द्यावापृथिव्यादिसर्वाक्षयत्वं नोपपद्यते ।।

दहर उत्तरेभ्यः । पूर्वं पुरिशयस्य परमात्मत्वमुक्तम् । तस्यापरमात्मत्वमिहोच्यत इति शङ्कया सङ्गतिः।आकाशान्तरिक्षब्दवाच्यादन्यस्य परत्वनिश्चयात् अक्षरेक्षतिकर्माधिकरणयोः साहचर्यम् ; तदभावात् अक्षरदहराधिकरणयोः साहचर्याभावः । परस्मिन्नपि तत्प्रयोगात् तद्व्यावृत्त्यर्थ प्रकर्षशब्दः । अपहतपाप्मत्वादिब्रह्मगुणश्रवणात् दहराकाशो ब्रह्मेत्यत्राह - तस्मिन् इति । एतच्च अथ स्यात् इत्यादिना व्यक्तीभविष्यति ।।

राद्धान्ते - न हि परमात्मधर्माणामुत्तराधरभाव । अत उत्तरत्वं वाक्यद्वारकमित्याह - वाक्यगतेभ्यः इति । हुतु शब्दः चतुर्ध्यन्तत्व शङ्काव्युदासाय ।।

ननु च - दहराकाशस्य परमात्मत्वेऽपि बाह्यकाशोपमेयत्वं न संभवति .. ... अत एतेभ्यो हेतुभ्यो दहराकाशः परमेव ब्रह्म ।।

अथ स्यात् इति । अव्यवहितत्वात् आकाशाधिकरणत्वप्रथमान्त निर्देशरूपप्राधान्यात्
एष इति परामृष्टमन्वेष्टव्यम् । अपहतपाप्मत्वा दयस्तद्गुण इति न दहरकाशगुणा इत्यर्थः । परिहरति - स्यादेतत् इति । गुणिध्याने गुणधीरार्थि, न तु गुणध्याने गुण्यन्तर्भावः । नात्रोभयो पस्थापना विधीयते , उभयोपस्थापकशब्दादर्शनात्। तच्छब्दो हि तदन्तर्वर्तिमात्रविषयः यद्वृत्तनिर्दिष्टविषयत्वात् तच्छब्दस्य इत्यत्राह - अत्र इति

। न तच्छब्दः उभयपरः , यच्छब्दनिर्दिष्टपरामर्शित्वात् तच्छब्दस्य , तस्य च तदन्तर्वर्तिमात्रपरत्वदित्यत्राह - यदिदम् इति । त्यदादीनि सर्वैर्नित्यम् नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम् इत्यादिना एकशेष एकवचनं तेति भावः।।

दहराकाश इत्यादि । उक्तार्थे प्रामाणिके हि क्लिषअटनिर्वाहाक्षयणं युष्यत इत्यर्थः । प्रतिवक्ति - तदवहित इति । यावान् वा इत्यादिवाक्यै र्व्यवहितमन्वेष्टव्यम् न परमृशति एषा आत्मा इत्येतच्छब्दः । किं तु अव्यवहिताकाशापरामर्शित्यर्थः। नास्य जरयैतज्जीर्यति इत्यादैरर्थमाह तस्य इति । अन्यत् स्पष्टम् ।। 13 ।।

गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गं च ।। 1-3-14 ।।

इतश्च दहराकाशः रं ब्रह्म - तद्यथा हिरण्यनिधिं ... ... सर्वासां प्रजानामजानतीनां गतिरस्य परब्रह्मत्वे पर्याप्तं लिङ्गम् ।।

गतिशब्दाभ्यां था हि दृष्टं लिङ्गं च । निषाद इति । अश्रुतविभक्त्यर्थक्लृप्तितः आश्रयान्तरकल्पनात् श्रुतस्यैव साथापत्यसंबन्धोन्याय्य- इत्येवंरूपन्यायादित्यर्थः । गति शब्दमात्रस्यार्थान्तरमाह - अथवा इति । अन्तरात्मत्वेन इति । धर्मौक्यादुक्तम् ।। 14 ।।

इतश्च दहराकाशः परं ब्रह्म -

धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः ।। 1-3-15 ।।

अथ य आत्मा इति प्रकृतं ... ... महिमाऽस्मिन् दहराकाश उपलभ्यते ; अतो दहरकाशः परं ब्रह्म ।। 15 ।।

धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः । धृतिः - विधृतिः , असङ्कीर्णत्वेन धारणम् ।। 15 ।।

प्रसिद्धेश्च ।। 1-3-16 ।।

आकाशशब्दश्च परस्मिन् ब्रह्मणि ... ... प्रसिद्धः भूताकाशप्रसिद्धर्वलीयसीत्यभिप्रायः ।। 16 ।।

प्रसिद्धश्च । प्रसिद्ध्यतिशयो भूताकाश इत्यत्राह - अपहत इति ।।

एवं तावत् दहरकाशस्य भूताकाशत्वम् ... ...

इतरपरपरमर्शात् स इति चेन्नासंभवात् ।। 1-3-17 ।।

युदुक्तं वाक्यशेषवशात् दहराकाशः ... ... न ह्यपहतपाप्मत्वादयो गुणा जीवे संभवन्ति ।। 17 ।।

उक्तं वदन् वक्ष्यमाणमाह - अथ इति । इतरपरामर्शात् स इति चेन्नासंभवात् । साक्षात् इति । अथ य एष इत्येतच्छब्दस्य प्रकृतपरत्वात् प्राक् प्रकृतोऽपि जीव इत्यर्थः । अन्यत् स्पष्टम् ।। 17 ।।

उत्तराच्चेत् आविर्भूतस्वरूपस्तु ।। 1-3-18 ।।

उत्तरात् प्रजापतिवावयात् , जीवस्यैव ... ... जगद्व्यापार वर्जम् इत्यत्रोपपादयिष्यामः।। 18 ।।

उत्तरात् चेत् आविर्भूतस्वरूपस्तु । किं प्रजापतिवाक्यम् ; तच्च परमात्मपरं किं न स्यात् ? जीवपरत्वे च किमायातम् प्रकृतस्येत्यत्राह एतदुक्तम् इति । प्राप्यस्य इति । जीवस्य प्राप्यतया परमपुरुषस्य प्रसङ्गः । न तु प्रकरणप्रतिपाद्यतयेति भावः । इति चेत् इति । एतदुक्तम् इत्यन्वयः । तु शब्दाभिप्रेतमाह - आविर्भूतस्वरूपस्यापि इति ।। 18 ।।

यद्येवं , दहरवाक्ये अथ य एष संप्रसादः ...

अन्यार्थश्च परामर्शः ।। 1-3-19 ।।

दहराकाशस्यैवापहतपात्मत्वजगद्विधरणत्वादिवत् ... प्रजापतिवाक्ये कीर्त्यमानं फलमपि दहरविद्याफलमेव ।। 19 ।।

अन्यार्थश्च परामर्शः । दहरधीरेव मुक्तिदा चेत् , किमर्थ जीबोपास्तिविधिरित्यत्राह - प्रजापतिवाक्ये च इति । अङ्गस्य कथं फलोक्तिरित्यत्राह - सर्वान् इति ।। 19 ।।

अल्पश्रुतेरिति चेत् तदुक्तम् ।। 1-3-10 ।।

दहरोऽस्मिन् इत्यल्पपरिमाणश्रुतिः ... ... आविर्भूतापहतपाप्मत्वादि गुणस्वस्वरूप इति न दहराकाशः ।। 20 ।।

उपसंहाकस्थहेतुः प्रत्युक्तः । अथोपक्रमगतं प्रतिवक्ति । अल्पश्रुतेरिति चेत् तदुक्तम् । उपक्रमप्राहल्यादधिकाशङ्का । महावाक्यस्य ततोऽपि प्राबल्यात् परिहारः। उत्तरसूत्रयोः परमप्रकृतेन सङ्गतिं ज्ञापयितुमाह अतः - इति । ज्ञानादयः

सत्यसङ्कल्पत्वफलिताः ।। 20 ।।

इतश्चैतदेवम् -

अनुकृतेस्तस्य च ।। 1-3-12 ।।

तस्य दहराकाशस्य ... ... अनुकार्यं ब्रह्म दहराकाशः ।। 21 ।।

अनुकूतेस्तस्य च । स्पष्टम् ।। 21 ।।

अपि स्मर्यते ।। 1-3-22 ।।

संसारिणोऽपि मुक्तावस्थायं ... ... परस्य ब्रह्मणो भारूपत्वा वगतेश्च पूर्वपक्षानुत्थानादयुक्तम् । सूत्राक्षरवैरूप्यं च ।। 22 ।।

अपि स्मर्यते । परोक्तमधिकरणान्तरत्वमनूद्य व्युदस्यति - केचित् इति । तेजसः प्राकृतत्वव्युदासायारम्भ इत्यत्राह - ज्योतिश्चरण इति । शङ्काधिक्याभाव उक्तः सूत्राक्षर इति । अनुशब्दोक्तेः इत्यर्थे न युक्तः । इह शास्त्रे शब्दस्वरूपपरत्वस्यापरिभाषितत्वात् । तस्य इति सौत्रपदस्य यदेव विद्ययेति हि इत्यवत् इतशब्दविधुरस्य तस्य भासा इति श्रुत्युपादानपरत्वं च अस्वरसमिति भावः ।। 22 ।।

इति दहराधिकरणम् - 5




6. प्रमिताधिकरणम् ।।

शब्दादेव प्रमितः ।। 1-3-13 ।।

कठवल्लीषु श्रूयते - अङगुष्ठमात्रः पुरुषः ... ... न च भूत भव्यस्य सर्वस्येशितृत्वं कर्मपरवशस्य जीवस्योपपद्यते ।। 23 ।।

शब्दादेव प्रमितः । अल्पश्रुते ; इति परस्य अल्पपरिमाणत्वमुक्तम् । तद्विशेषो जीवस्य श्रूयते इति शङ्कया सङ्गतिः । परस्याप्यल्पपरिमाणत्वमुक्तमित्यत्राह - न च इति । कृत्वा चिन्तेयम् , अन्यत्र परस्य तच्छ्रवणात् । ईशानत्वं कथमित्यत्राह - ईशानत्वम् इति । प्रथमश्रुताङ्गुष्ठमात्रत्वस्वारस्यात् चरमश्रुतेशानत्वारस्यं पूर्वपक्षिणो मतम् ।।

राद्धान्ते - शब्दादेव, न लिङ्गात् । पर्थायशब्दादेवेत्यर्थः ।। 23 ।।

कथं तर्हि परमात्मनोऽङ्गुष्ठमात्रत्वमित्यत्राह -

हृद्यपेक्षया तु मनुष्याधिकारत्वात् ।। 1-3-24 ।।

परमात्मन उपासनार्थम् ... ... स्थितं तावदुत्तरत्र समापयिष्यते ।। 24 ।।

हृद्यपेक्षया तु मनुष्याधिकारत्वात् । जीवस्यापि इति । उभयास्वारस्यात् एकाखारस्यं न्याय्यमित्यर्थः । अङ्गुष्ठमितत्वमननुगतमित्यत्राह मनुष्याणाम् इति । प्रसङ्गिकार्थस्याचिन्त्यत्वं बुद्ध्वाह - स्थितं तावत् इति ।। 24 ।।

7. प्रमिताधिकरणगर्भे देवताधिकरणम् ।।

तदुपर्यपि बादरायणः संभवात् ।। 2-3-25 ।।

परस्य ब्रह्मणोऽङ्गुष्ठप्रमितत्वोपपत्तये ... ... अतः सामर्थ्यार्थित्वयोरभावात् देवादीनामनधिकार इति ।।

तदुपर्यपि वादरायणः संभवात् । प्रसङ्गात् सङ्गतिमाह - परस्य इति । मनुष्यशब्दव्यावर्त्यं किं तर्यङ्मात्रम् , उत देवादयोऽपीति शङ्कया सङ्गतिः इत्यर्थः । सामर्थ्याभावात् इति । अर्थित्वाभावस्याप्युपलक्षणम् । उपसंहारः - अनुष्ठानम् । यद्यपि इति । प्रवृत्तिनिवृत्तिरूपत्वाभावात् ब्रह्मवत् पुरुषार्थरूपत्वाभावाच्च । न विग्रहवत्त्वे तात्पर्यमित्यर्थः । अन्यपरत्वात् - स्तुत्यनुष्ठेयप्रकाशनयोः । कर्मणो द्रव्थदेवतानिरूप्यत्वात् तदपेक्षितत्वात् विग्रहादिसिद्धिरित्यत्राह - कर्मविधयश्च इति । अत एव - शरीरा भावादेव ।।

सिद्धान्तः

एवं प्राप्रे प्रचक्ष्महे - तदुर्यपि बादरायणः ... ... अतो विग्रहादित्त्वाद देवानामप्यधिकारोऽस्त्येव ।। 25 ।।

राद्धान्ते अर्थित्वसामर्थ्ये क्रमादिवृणोति - अर्थित्वम् इत्यादिना । कानि विग्रहवत्त्वाभिधायीनि वचांसि, कथं तैस्तत्प्रतिपादनमित्यत्राह तथा हि इति । नामरूपव्याकरणश्रुत्या श्रुयत्यन्तरतदुपबृंहणस्मृत्यादिसिद्धतच्चातुर्विध्यमभिप्रेतम् । इन्द्रो वरुणः सोमो रुदं#ः इत्यादीन्यपि च सन्ति इति भावः । ततः किमित्यत्राह - देवादि इति ।।

उपासनप्रकरणेऽपि दर्शयति - तथा इति । विधिशेषत्वेन तत्सिद्धिमाह - कर्मविधि इति । न च असता इति । वेदवाक्यानां निरूपकाधइ कारिकतया न बालाद्युपच्छन्दनतुल्यता युक्तेति भावः । आपो वै शान्ताः , आदित्यो यूपः इत्यादिषु प्रमाणआन्तरसिद्धतद्विरुद्धार्थस्याप्युच्यमानत्वान्न सर्वत्र प्रामाण्यमिति शङ्कायामाह - तत्र प्रमाणान्तर इति । विध्यपेक्षिते हि तात्पर्यम् । कथं देवताविग्रहादेः विध्यपेक्षितत्वमित्यत्राह - कर्मविधेः इति । श्रउतहानाश्रुतक्लृप्ती इति भावः ।

व्युत्पत्तिसमयानवगतम् इति । वाच्यापूर्वपक्षे वलृप्तिर्गुर्विति भावः । फलमत इत्यत्र वक्ष्यमाण बुद्धिसौकर्यायेहोक्तम् । स्तुतिप्रकाशनाभ्यां तत्सिद्धिरत्रासाधारणार्थः । सङ्कीर्ण इति । नित्यानुमेयश्रुतिव्युदासः ।। 25 ।।

विरोधः कर्मणीति चेन्नानेकप्रतिपत्ते

र्दर्शनात् ।। 1-3-26 ।।

देवादीनां विग्रहादिमत्त्वाभ्युपगमे ... ... सौभरिप्रभृतीनां शक्तिमतां युगपदनेकशरीरप्रतिपत्तिः ।। 26 ।।

विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात् । न योग्यादृष्टिः विग्रहाणां , मन्त्रोषधादिभिरिव अदृश्यत्वसंभवादिति भावः ।। 26 ।।

शब्द इति चेन्नातः प्रभवात् प्रत्यक्षानुमानाभ्याम् ।। 1-3-27 ।।

विरोध इति वर्तते । मा भूत् कर्मणि ... ... वैदिकशब्दानामानर्थक्यं वैदस्यादिमत्त्वं च न प्रसज्यते ।। 27 ।।

शब्द इति चेन्नातः प्रभवात् प्रत्यक्षानुमानाभ्याम् । अनित्यत्वम् - अनुच्चार्यमाणत्वम् । कथं शब्दार्थजन्म , ततश्च कथं चोद्यपरिहार इत्यत्राह - एतदुक्तम् इति । आकृत्यनित्यत्वेऽपि पशुव्रीह्याद्यनन्यत्व इव प्रवाहनित्यतया परिहारः ।। 27 ।।

अत एव च नित्यत्वम् ।। 1-3-28 ।।

यत एवेन्द्रवसिष्ठादिशब्दानां देवर्षिवाचिनां ... ... अचश्च वेदानां नित्यत्वम् , एषां च मन्त्रकृत्त्वमुपपद्यते ।। 28 ।।

अर्थद्वारकमनित्यत्वं परिहृतम् । शब्दद्वारकमनित्यत्वं परिहरति । अत एव च नित्यत्वम् । कथमित्यपेक्षायाम् , उक्तं विशदयति एभिरेव इति । अनधीत्यैव अस्खलितस्वरवर्णतया दर्शनं मन्त्रकृत्त्वम् ।।

उत्तरसूत्रत्य शङ्कामाह - अथ स्यात् इति ।।

अथ स्पात् - नैमित्तिकप्रलयादिषु इन्द्राद्युत्पत्तौ ... ...

समाननामरूपत्त्वाच्चावृत्तावप्यविरोधो दर्शनात् स्मृतेश्च ।। 1-3-19 ।।

कृत्स्नोपसंहारे जगदुत्पत्त्यावृत्तावपि ... ... अतो देवादीनामपि अर्थित्वसामर्थ्ययोगात् ब्रह्मविद्यायामधिकारोऽस्तीति सिद्धम् ।।

समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात् स्मृतेश्च । पूर्वा क्तादेव इति । तत्तच्छब्देन तत्तदर्थस्मृतिपूर्वकसृष्ट्या समाननामरूपत्वं फलितमिति भावः । तदनुपपन्नम् , शब्दस्मृतिपूर्वकार्थस्मर्तुः अभावादित्यत्राह - तथा हि इति । शक्तिमात्रावशेषम् - भोक्तृत्वादियोग्यताऽस्ति , न चु तत्कार्यकरत्वमिति भावः । सर्वत् इति । नामरूपसाम्यं, वेदनित्यत्वं, सार्थकत्वं च ।।

शब्दस्योत्पत्त्याद्यभ्युपगमे कथं वेदनित्यता इत्यत्राह - एतदेव च इति । वर्णनित्यत्वादैः पौरुषेये व्यभिचारात् नित्यतया विभुतयोपगतवर्णानाम् आनुपूर्वीनिबन्धनोच्चारणानित्यत्वात् , पूर्वक्रमतुल्यक्रमतया उत्तरोत्तरमुच्चार्यमाणत्वं नित्यत्वमित्यर्थः । स्मृत्वोच्चारणे परस्यान्याधीनधीत्वमाशङ्क्याह इत्यान् इति । स्वयमेव अध्यापयितृनिरपेक्षम् । अवधारणद्वयेन अस्मदादेः पाश्चात्यप्राथमिकोच्चारण व्यावृत्तिः । बुहु स्ताम् इति ईदृशोच्चारणस्वस्वातन्याधीनः । उदाहृतश्रुतिस्मृतिषु सर्वासु सृष्ट्युपयोगिनो वेदोपगेशस्यकाचित्कत्वेऽप्यनुक्तत्यान्यतो ग्राह्यत्वात् सर्वासु तत्सिद्धिः ।।

ईश्वरसिद्धौ संप्रदायाविच्छेदसिद्ध्या नित्यत्वे सिद्धे , वेदप्रामाण्यसिद्धावीश्वरसिद्धिरितिं न चक्रकं शङ्कनीयम् , प्रमाण्यस्य स्वतस्त्वात् । अपवादेहेतोर्योग्यानुपलम्भनिरस्तत्वाच्च । कृत्स्त्रवेदप्रामाण्यमिति तक्रकं यथा परिहृतं , तद्वते ।। 29 ।।

इति देवताधकरणम् - 7

8.मध्वधिकरणम् ।।

पूर्वपक्षसूत्रम्

मध्वादिष्वसंभवादनधिकारं जैमिनिः ।। 1-3-30 ।।

ब्रह्मविद्यायां देवादीनामप्यधिकारोऽस्तीति ... वमूनापेवैको भूत्वाषग्रिनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति इत्यादिना ।। 30 ।।

मध्वादिष्वसंभवादनधिकारं जैमिनिः । उपासनसामान्ये देवतासामान्यस्याधिकारो निरूपितः । अथ प्राप्तफलत्वाच्च तद्विशेषाणां स निरूप्यते इति सङ्गति । कर्मकर्तृविरोधात् प्राप्तफलत्वाच्च सामर्थ्यार्थित्वाभावौ । तदुम्यं विशदयति -

मधुविद्यायम् इति उपास्यत्वम् इत्यर्थः ।। 30 ।।

ज्योतिषि भावाञ्च ।। 1-3-31 ।।

तं देवा ज्योतिषां ज्योतिः ... ... अत एषु वस्वादीनामनधिकारः ।। 31 ।।

ज्योतिषि भावाच्च । देवा एत्र इत्युक्तम् , मनुध्यानधिकार प्रसङ्गात् अतो ज्योतिरेवेत्यर्थ इति भावः ।। 31 ।।

सिद्धान्तसूत्रम् -

इति प्राप्तेऽभिधीयते -

भावं तु बादरायणोऽस्ति हि ।। 1-3-32 ।।

आदित्यवास्वादीनामपि तेष्वधिकारभावं ... ... ब्रह्मण एव सर्वत्र निचाय्यपत्वात् इति ।। 32 ।।

भावं तु वादरायणोऽस्ति हि । अक्षरार्थमुक्त्वा पूर्वपक्षयुकिं्त परिहरति ग्रन्थद्वयेन अस्ति हि इत्यादिना । उपास्तिफलयोर्ब्रह्यतत्प्राप्तिपर्यन्तत्वे सिद्धे ह्येवं परिहार इत्यत्राह - अत्र हि इति । उभयावस्थादित्योपासनं प्रतीनं , न तु तच्छरीरकपरविषयं , तत्प्राप्तिफलं चेत्यत्राह न ह वा इति । उपनिषदं वेद - उपास्तिं कुरुते ; आदेनपाकं पचति इतिवत् । उपसंहरति - अतः इति ।।

वस्वादिसमुदायस्योपास्यत्वेन एकैंस्योपासकत्वेन च कर्मकर्तृविरोधपरिहारः । कल्पान्तरे वखादित्वप्राप्तिमात्रस्य फलत्वसंभवश्च परैर्व्याख्यातौ न प्रामाणिकाविति दर्शितौ स्वाभिमतार्थस्य प्रामाणिकत्वेपपादनेन । खमतस्य सांप्रदयिकत्वं वदन् , परमतस्य असांप्रदायिकत्वं च सूचयति तदाह इति ।। 32 ।।

इति मध्वधिकरणम् - 8

---

9. अपशूद्राधिकरणम् ।।

शुगस्य तदनादरश्रवणात् तदाद्रवणात् सूच्यते हि ।। 1-3-33 ।।

ब्रह्मविद्यायां शूद्रस्याप्यधिकारोऽस्ति न वा ... ... अतः शूद्रस्याप्यधिकारःसंभवति ।।

शुगस्य तदनादरश्रवणात् तदावणात् सूच्यते हि । अर्थित्वसामर्थ्ययोःऋ

प्रयोजकत्वे शूद्रादेरप्यधिकारः स्यादिति शङ्कया सङ्गतिः । यज्ञादिकर्मनधिकार एव , न तूपासनानधिकार इत्यर्थः । न्यायसिद्धः कर्मकाण्डे अपशूदाधिकरण न्यायसिद्धः । प्रधानयुक्तिमा - तथा इति ।।

सिद्धान्तः

इति प्राप्त उच्यते न शूद्रस्याधिकारः ... ... प्रारब्धकर्मवशच्चेदृशजन्मयोगिन इति तेषां ब्रह्मनिष्ठत्वम् ।।

राद्धान्ते - ब्रह्मस्वरूपाद्यनवगमलक्षणासामर्थ्यस्य हेतुमाह असामर्थ्यं च इति । उपासनविधइन शूदाधिकारः कल्प्य इत्यत्राह यथैव हि इति । अनुष्ठानाय हि तत्ववृप्तिः रथकारादौ यज्ञादौ त्रैवर्णिकैस्तत्सिद्धः न तत्क्वृप्तिर्न्याय्या । अध्ययनस्यापि प्रयोजकतया गौरवं च स्यात् , एवमुपसनेष्वपीत्यर्थः । इतिहास इति । यथा व्याख्येयं विनाव्याख्यानमात्रान्नार्थपौष्कल्यं तद्वत् इत्यर्थः ।।


क़दृद्वद्धद्यण् घ्ठ्ठड्डठ्ठ

प्रथमाध्याये चतुर्थः पादः ।।




1. आनुमानिकाधिकरणम् ।।

आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च

।। 1-4-1 ।।

उक्तं परमपुरुषार्थलक्षणमोक्षसाधनतया जिज्ञास्यं .... ... एकेषां शाखिनां शाखास्वानुमानिकं प्रधानमपि कारणमाम्नायत इति चेत् ।।

आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च ।।

पादसङ्गतिः प्रागुक्ता तत्तच्छब्दो लिङ्गिपर इति । तृतीयस्यान्त्ये अधिकरणे उक्तं जीववैलक्षण्यमयुक्तम् ; तत परस्य निषेधादित्यवान्तरसङ्गतिः । उक्तम् इत्यादिना इह त्रिपाद्यर्थोक्तिः सूत्रानुरोधात् । आनुमानिकमपि इति अन्ययोगव्यवच्छेदपरत्वं हि दर्शितम् । श्रीभाष्येऽपि ब्रह्मैककारणत्वस्थेम्ने इति एक - स्थेम शब्दाभ्या तत् सूचितम् । तत्तच्छब्दो लिङ्गिपर इति प्रधानपुरुषादिशब्देन व्यञ्जितम् । उच्यते , उत न इति संशयकरणम् अव्यक्तशब्दस्य प्रकृत्यवाचकत्वस्य सिद्धान्त्यभिमतत्वात् । अन्यथा कि ब्रह्मात्मकम् उत न इति संशयितव्यम् । शङ्काया अनुत्सूत्रत्वमाह - तदिदम् इति ।।

सिद्धान्तः

अत्रोत्तरम् - नेति । नाव्यक्तशब्देनाब्रह्मात्मकं ... ... अतः कापिलतन्त्रसिद्धस्य प्रधानस्य प्रसङ्ग एव नास्ति ।।

रूप्यत इति रूपकम् - दृष्टान्तः । रूपकत्वेन विन्यस्तम् - कल्पितमित्यर्थः । कानि कथं रूपितानि इत्यत्राह - आत्म इति । किं रूपकवाक्यम् ; रूपितानामिहोक्तिरिति कथं ज्ञायते ; सा च किमर्था ; तत्र अव्यक्तशब्दस्य शरीरपरत्वं कथमित्यत्राह - एतदुक्तम् इति । सर्वस्य इति । सम्यगध्यवसायस्यापि इत्यर्थः । शरीरस्य वशीकार्यत्वं सात्त्विकाहारपोष्यत्वम् । उपासनोपकरणकोटिनिवेशः परस्य कथमित्यत्राह स खलु इति । पुरुषान्न परम् सा काष्ठा इत्यन्ययोगव्यवच्छित्तिः । अव्यक्त शब्दस्य शरीरपरत्वं परिशेषादित्याह - तदेवम् इति । पसङ्ग एव - प्रधानपरत्वोपगमेन ब्रह्मात्मकत्वमन्यत्रोक्तम् । इह तु न प्रधानवाचित्वमेव इति भावः ।।

न चात्र तन्त्रसिद्धप्रक्रियाप्रत्यभिज्ञा ... ... एवंभूतेन रथिना वैष्णवं पदं

गन्तव्यमित्यर्थः ।। 1 ।।

तन्त्रप्रत्यभिज्ञां दूषयति - न च इति । ग्रहणम् इत्यन्तम् एतदुक्तम् इति पूर्वेणान्वितम् । दर्शयति च इति सूत्रखण्डः । तदेव वशीकार्यत्वे परत्वमेव । छान्दसो दीर्घ इति । अन्यथा वाङ्मनसे इति वक्तव्यम् । न तु वाङ्मनसी इति । अतः छान्दसत्वे तुल्येऽपि प्रकरणानुगुण्यमधिकमिति भावः । आत्मनः परब्रह्मणि नियमनं तत्प्रवणीकरणम् । व्यत्ययेन तत् इत्यत्र तत् इति व्याख्येयं पदम् । सुप्तिङुपग्रह इत्यादेरर्थोऽभिप्रेतः ।। 1।।

अव्यक्तशब्देन कथं व्यक्तस्य शरीरस्याभिधानम् ? तत्राह -

सूक्ष्मं तु तदर्हत्वात् ।। 1-4-2 ।।

भूतसूक्ष्ममव्याकृतं ह्यवस्थाविशेषमापन्नं ... ... रथवत् पुरुषार्थसाधनप्रवृत्त्यर्हत्वात् ।। 2 ।।

अनन्तरसूत्रशङ्कामाह - अव्यक्त इति । सूक्ष्मं तु तदर्हत्वात् । कार्ये कारणोपचार इत्यर्थः । विपरीतं कस्मान्न इत्यत्राह - तदर्हत्वात् इति । अर्थविरोधादित्यर्थः ।। 2 ।।

यदि भूतसूक्ष्ममव्याकृतमभ्युपगम्यते ...

तदधीनत्वादर्थवत् ।। 1-4-3 ।।

परमकारणभूतपरमपुरुषाधीनत्वात् ... ... परमात्मा च सर्वेषामाधारः परमेश्वरः इति च ।। 3 ।।

अनन्तरसूत्रशङ्कामाह - यदि - इति । तदधीनत्वादर्थवत् । प्रधानोपगमानुपगमचोद्यमर्थवत्वोक्त्या कथँ परिहृतमित्यत्राह - एतदुक्तम् इति । स्वरूपस्थिति इति । कार्यकरत्वस्य सत्तास्थितिसापेक्षत्वात् तस्य तादधीन्ये कथिते

तयोस्तादधीन्यमपि सिद्धमिति भावः । महिमवादश्रुतिः - यस्य पृथिवी शरीरम् इत्यादिः ।। 3।।

ज्ञेयत्वावचनाच्च ।। 1-4-4 ।।

यदि तन्त्रसिद्घमिह अव्यक्तम् ... ... अतो न तन्त्रसिद्धस्येह ग्रहणम्

।। 4 ।।

ज्ञेयत्वावचनाच्च । स्पष्टम् ।। 4 ।।

वदतीति चेन्न प्राज्ञो हि प्रकरणात् ।। 1-4-5 ।।

अशब्दमस्पर्शमरूपमव्ययम् ... ... पूर्वप्रकृताज्जीवात्मनः परत्वमेवोच्यते

।। 5।।

वदतीति चेन्न प्राज्ञो हि प्रकरणात् । स्पष्टम् ।। 5 ।।

त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ।। 1-4-6 ।।

अस्मिन् प्रकरणे हि उपायोपेयोपेतॄणां ... ... तस्मान्नेह तान्त्रिकस्याव्य क्तस्य ग्रहणम् ।। 6 ।।

प्राज्ञपरत्वं न प्रधानपरत्वविरोधि ; प्राज्ञैकपरत्वाभावादित्यत्राह - त्रयाणामेव चैवमुपन्यासः प्रश्नश्च । एवमुपन्यासः इति व्याख्येयम् । तत्र एवंपदं व्याचष्टे- ज्ञेयत्वेन इति । मोक्षोपायभूताम् इति । मोक्षोपायत्वमङ्गिद्वारा । येयम् इति । त्रयाणां प्रश्नः , प्रतिवचनप्रकारात् । धर्मः - उपायः । अधर्मः - धर्मादन्य उपेयः । कृताकृतम् वर्तमानम् । तपांसि इति - ज्ञानप्रधाना ब्रह्मपरा इति च उपरिभागाः। यस्य ज्ञानमयं तपः , श्रद्धा तप इत्युपासते इत्यादिषु तपःशब्दस्य ज्ञानपरतया ब्रह्मपरतया च प्रयोगदर्शनात् । पदम् - प्राप्यम् ।। 6 ।।

महद्वच्च ।। 1-4-7 ।।

यथा बुद्धेरात्मा महान् परः इत्यत्र ... ... न कापिलतन्त्रसिद्धं गृह्यत इति स्थितम् ।। 7 ।।

महद्वच्च । स्पष्टम् ।। 7 ।।

इति आनुमानिकाधिकरणम् - 1




2. चमसाधिकरणम् ।।

चमसवदविशेषात् ।। 1-4-8 ।।

अत्रापि तन्त्रसिद्धप्रक्रिया निरस्यते ... ... स्वातन्त्र्येण सरूपाणां बह्वीनां स्रष्ट्ठत्वश्रवणाच्च इति ।।

चमसवदविशेषात् । पूर्वं कारणशब्दस्य कार्यशरीरपरत्वमुक्तम् । इह तु कार्यवाचिशब्दाश्रवणात् कारणं प्रधानमेवोच्यत इति शङ्कया सङ्गतिः। परैः किं प्रधानपरमुत तेजोबन्नपरमिति विचारः कृतः तत्र स्ववाक्यस्वारस्याभावं वक्ष्यन् श्रुत्यन्तरास्वारस्यज्ञापनाय प्रधानविषयं वाक्यजातमुदाहर्तुमाह - अत्रापि इति ।।

अध्यासिता - अधिष्ठिता । तन्यते - समष्टिरूपेण प्रेर्यते व्यष्टिसृष्ट्यर्थम् । अथ तदन्तर्यामिपरवाक्यजातमुदाहर्तुमाह - यदात्मकाः इति । अपरे च इति । इह च वाक्यान्तरैकार्थ्यात् ब्रह्मात्मकत्वसिद्धिरिति भावः । तत्त्वभावात् - तत्वाविर्भावात् । प्रकृत्यादयः । आदि शब्देन महदादिः । विषयमाह - श्वेत इति । स्वातन्त्र्येण इति। सृजमानाम् इति कर्तरि शानच् । स्वतन्त्रः कर्ता इति भावः ।।

एवं प्राप्तेऽभिधीयते - चमसवदविशेषात् । ... .... अतोऽनेन मन्त्रेण नाब्रह्मात्मिका अजा अभिधीयते ।। 8 ।।

राद्धान्ते प्रतिज्ञाऽध्याहर्तव्या । चमसः - चमनसाधनम् । अजात्वमात्रश्रवणं ब्रह्मात्मकस्य प्रामाणिकत्वे तदविरोधीत्यर्थः । न चास्याः इति । निरुपपदत्वान्न स्वातन्त्र्येण सृष्टित्वप्रतीतिरित्यर्थः ।। 8 ।।

ब्रह्मात्मकाजाग्रहण एव विशेषहेतुरस्तीत्याह -

ज्योतिरुपक्रमा तु तथा ह्यधीयत एके ।। 1-4-9 ।।

तु शब्दोऽवधारणार्थः ... ... तस्या एव प्रतीतेर्नास्मिन् मन्त्रे तन्त्रसिद्धस्वतन्त्रप्रकृतिप्रतिपत्तिगन्ध #ः ।। 9 ।।

अनन्तरसूत्रमवतारयति - ब्रह्मात्मक इति । ज्योतिरुपक्रमा तु तथा ह्यधीयत एके । नात्र मन्त्रे उत्पत्तिप्रतीतिरित्यत्राह - सर्वस्य इति । प्रयाजादीनामङ्गत्ववदिति भावः । अन्येन इति न मुक्तकीर्तनम् सृष्टिप्रकरणविच्छेदात् ; किं तु तद्विशेषणत्वेन । यस्माज्जाता न परा नैव किंचनास इति उत्तरत्र सृष्ट्यनुवृत्तेरिति भावः । इयं च कृत्वाचिन्ता इहापि इत्यादिना स्वशाखायामेव ब्रह्मात्मकत्वख्यापनात् ।। 9 ।।

कथं तर्हि ज्योतिरुपक्रमाया ... ...

कल्पनोपदेशाच्च मध्वादिवदविरोधः ।। 1-4-10 ।।

प्रसक्ताशङ्कानिवृत्त्यर्थश्चशब्दः । ... ... संबन्धयोग्यच्छागत्वपरिकल्पन मत्यन्तविरुद्धम् ।। 10 ।।

अनन्तरसूत्रशङ्कामाह -
कथं तर्हि इति । कल्पनोपदेशाच्च मध्वादिवदविरोधः । चः त्वर्थः । ज्योतिःकल्पन शब्दौ वेदनिर्देशानुसारात् संप्रसादात् इतिवत् । सूत्रखण्डं व्याचष्टे - मधु इति । उदयास्तमयमधुत्वक्लृप्तितदभावयोरिव अवस्थाभेदादविरोध इत्यर्थः ।।

सूत्रद्वयस्य परोक्तार्थं दूषयितुं प्रथमस्यैतदुक्तार्थम् अन्ये तु इत्यादिनानूदितं विकल्पयति - किम् इति । अजात्वैकत्वसिद्ध्यर्थं मध्यमशिर उक्तिः। प्रत्येकम् इति न समुदायैकत्वम् । समुदायत्रिकमेवेत्यर्थः । द्वितीयं विकल्पयति - द्वितीय इति । किं तेजोबन्नरूपा अवस्था अजाशब्दोक्ताः , उत स्वरूपमिति विकल्पः । द्वितीयेऽपि इति श्रुत्यस्वारस्यमुक्तम्। सूत्रास्वारस्यमाह - तेजोऽबन्न इति । ज्योतिरुपक्रम शब्दः तेजोबन्नवाचीति हि परैः व्याख्यातम् । प्राथमिकविकल्पेषु तृतीयं दूषयति - तृतीयेऽपि इति ।।

अथ तृतीयसूत्रस्य परोक्तार्थमनूद्य व्युदस्यति - यत् पुनः इत्यादिना । मुख्यार्थे संभवति गौणस्वीकारायोगात् प्रयोजनाभावात् अर्थविरोधात् आत्मानं रथिनम् इतिवत् रूप्यरूपकवाचिशब्दाभावात् गौरनाद्यन्तवती इतिवत् उचितविशेषणाभावात् प्रयोजनसाधनत्वादिमात्रविवक्षायामस्वारस्यात् तस्य च पदान्तरस्वारस्यार्थाभावाच्च छागत्वक्लृप्तिरयुक्तेत्यर्थः । अस्मदुक्तार्थस्तु वैदिकनिर्देशानुसारिणां स्वरस एव

।। 10 ।।

इति चमसाधिकरणम् -2




3. संख्योपसंग्रहाधिकरणम् ।।

न संख्योपसङ्ग्रहादपि नानाभावादतिरेकाच्च ।। 1-4-11 ।।

वाजसनेयिनः समामनन्ति - यस्मिन् पञ्च पञ्चजनाः ... .... पञ्चसंख्याका विशेष्यन्ते , पञ्च पञ्चजना इति , सप्त सप्तर्षय इतिवत् ।। 11 ।।

न संख्योपसङ्ग्रहादपि नानाभावादतिरेकाच्च । प्रकृतेर्ब्रह्मात्मकत्वं साधितम् । तदत्रायुक्तम् । परमात्मपरत्वे संख्याधिक्यादिति शङ्कया सङ्गतिः । पञ्चशब्दद्वयात् दशसंख्या स्यात् । समसंख्यापरशब्दयोः कथं विशेषणविशेष्यभावः , कथं च कापिलतन्त्रार्थसिद्धिरित्यत्राह - एतदुक्तम् इति । आत्माकाशाभ्यां सप्तविंशतिप्रतीतिः सत्त्वरजस्तमसां पृथग्द्रव्यत्वाभ्युपगमात् युक्तेति भावः ।।

राद्धान्ते नानात्वं - पृथक्त्वम् अन्यत्वं विवक्षितं , न तु बहुत्वम् । विना ना हिरुक् पृथक् इति पर्यायपाठात् । कालस्य वस्त्वन्तरविशेषणत्वे षड्र्विशत्वम् ; वस्त्वन्तरविवक्षायां सप्तविंशत्वम् । पञ्चसु इति । एकोपाधिगृहीतत्वं हि समूहत्वम् । तन्नेत्यर्थः । शाब्ददूषणमुक्तम् अन्यथा इति । सत्त्वादीनां द्रव्यत्वमसिद्धम् , गुणत्वात् ।।

11 ।।

के पुनस्ते पञ्चजना इत्यत आह -

प्राणादयो वाक्यशेषात् ।। 1-4-12 ।।

प्राणस्य प्राणमुत चक्षुषश्चक्षुः ... .... प्राणादय एव पञ्च पञ्चजनाः इति विज्ञायन्ते ।। 12 ।।

उत्तरसूत्रशङ्कामाह - के पुनः इति । प्राणादयो वाक्यशेषात् । स्पष्टम्

।। 12 ।।

अथ स्यात् - काण्वानां माध्यन्दिनानां च ...

ज्योतिषैकेषामसत्यन्ने ।। 1-4-13 ।।

एकेषां काण्वानां पाठे ... ... न कापिलतन्त्रसिद्धतत्त्वप्रतीतिरिति स्थितम् ।। 13 ।।

अनन्तरसूत्रशङ्कामाह - अथ स्यात् इति । ज्योतिषैकेषामसत्यन्ने । कथं वाक्यशेषे चतुष्टयोक्तिः इत्यत्राह - तेषाम् इति । ज्योतिषा इत्यस्य कोऽर्थ ? कथं चेन्द्रियावगम इत्यत्राह - एतदुक्तम् इति । ज्योतिषा इति शब्दस्वरूपनिर्देशः । ज्योतिःशब्देन प्रदर्शनायोगात् । अयं सिद्धान्तेऽपि तुल्यः । इन्द्रियप्रकरणं पदत्रयस्वारस्यप्राबल्यं च ज्ञापयितुं चक्षुरादीनां स्वशब्देन व्याख्यानम् । पञ्चत्वं निर्देशापेक्षया । ज्योतिष्ट्वपञ्चत्वमनोयोगपरिशेषैः तन्त्रोपादाननिश्चयः । फलितमाह - तदेवम् इति । द्विधा परिहारोक्तिप्रयोजनं वदन् निगमयति - अतः इति ।। 13 ।।

इति संख्योपसंग्रहाधिकरणम् -3




4. कारणत्वाधिकरणम् ।।

कारणत्वेन चाकाशादिषु यथा व्यपदिष्टोक्तेः ।। 1-4-14 ।।

पुनः प्रधानकारणवादी प्रत्यवतिष्ठते ... ... अतो ब्रह्मैककारणं जगदिति निश्चीयते ।। 14 ।।

प्रधानकारणत्वं निरस्तम् । तदयुक्तमित्युत्थानात् सङ्गतिः । कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः । एकस्मात् - एकरूपात् । ब्रह्मणि इव इति वैधर्म्यदृष्टान्तः ।।

राद्धान्ते -- त्वर्थेन चशब्देन फलितां प्रतिज्ञामाह - सर्वज्ञात् इति । यथा व्यपदिष्टम् इति श्रुतौ व्यपदिष्टत्वव्यावृत्त्यर्थमाह - जन्मादि इति । आकाशादिषु - आकाशादीनाम् ।। 14 ।।

ननु - असद्वा इदमग्र आसीत् ... ...

समाकर्षात् ।। 1-4-15 ।।

असद्वा इदमग्र आसीत् इत्यत्रापि ... ... अतो ब्रह्मैककारणं जगदिति स्थितम् ।। 15 ।।

समाकर्षात् । ब्रह्मणा विपश्चिता इत्यादिवाक्यान्यभिप्रेत्य विपश्चित्त्वा दिकमुक्तम् । स्पष्टम् । प्रधानस्यापि कार्यानुप्रवेशो युक्त इत्यत्राह -
अन्तः प्रविष्ट इति । अन्येन व्याकृतत्वशङ्काव्यावृत्त्यर्थं व्याचष्टे - तदेव अविभक्त इति

।। 15 ।।

इति कारणत्वाधिकरणम् - 4




5. जगद्वाचित्वाधिकरणम् ।।

जगद्वाचित्वात् ।। 1-4-16 ।।

पुनरपि सांख्यः प्रत्यवतिष्ठते - यद्यपि ... ... चेतनधर्मा अस्मिन्नेवोपपद्यन्ते इत्येतदधिष्ठितं प्रधानमेव जगत्कारणम् ।।

जगद्वाचित्वात् । सङ्गतिमाह - यद्यपि इति । न अर्थान्तरम् - न ईश्वर इत्यर्थः । पूर्वाधिकरण ईक्षत्यधिकरणाक्षेपात् इह आनन्दमयाधिकरणाक्षेपः फलितः । तत्तदुत्पत्तिहेतुकर्मवत्वं हि कर्तृत्वम् । अतः पुरुषाणां कर्ता इत्युक्ते यस्य वैतत् कर्म इत्युक्तिवैयर्थ्यं स्यात् । बद्धस्वरूपं च नोपदेश्यमित्यत्राह - तदयमर्थ इति । कृतिमत्त्वं कर्तृत्वम् । शुद्धस्वरूपमविदितम् । कर्मसंबन्धस्तूपलक्षणमित्यर्थः । एतस्मादात्मनः प्राणाः इति । प्राणशब्दः प्रञ्चवृत्तिप्राणपरः पूर्वपक्षे । अस्मिन् प्राणे इति । प्राण शब्दस्य लाक्षणिकत्वव्युदासाय योजनान्तरमाह - अथवा इति । परमात्मपरत्वमाशंक्याह -

प्राणशब्दस्य इति ।।

सिद्धान्तः

इति प्राप्ते प्रचक्ष्महे - जगद्वाचित्वात् । ... प्रसिद्धं परं ब्रह्मैवात्र वेदितव्यतयोपदिश्यते ।। 16 ।।

राद्धान्ते - स्वपक्षे कर्त्रादिशब्दस्वारस्योपपादकविशेषणानि वदन् प्रतिजानीते - अत्र इत्यादिना । अविदितत्वं कर्मसंबन्धरहितस्वरूपस्य भवतीत्यत्राह - पुरुषस्य इति । कर्मसंबन्ध वाचिशब्दस्य तद्रहितस्वरूपपरत्वे लक्षणेत्यर्थः । जगद्वाचित्वे युक्त्यन्तरमाह - यस्य इति । पृथङ्निर्देशप्रयोजनमाह - य एतेषाम् इति । जगदुत्पत्तेः इति । कुलालस्य हि घटकर्तृत्वं न घटविनियोगादृष्टवतः इति भावः । प्रसिद्धम् इति । यच्छब्दनिर्देशात् यतो वा इमानि इतिवत् प्रसिद्धं कारणमनूद्यवेदितव्यत्वविधिरित्यर्थः ।। 16 ।।

जीवमुख्यप्राणलिङ्गान्नेति चेत्

तद्व्याख्यातम् ।। 1-4-17 ।।

अथ यदुक्तम् - जीवलिङ्गात् मुख्यप्राणसङ्कीर्तनाच्च ... ... प्राणशरीरकब्रह्मोपासनार्थं प्राणसङ्कीर्तनं लिङ्गं युज्यते ।। 17 ।।

अथ उपरितनवाक्यगतहेतुमनूद्य प्रतिवक्ति - जीवमुख्यप्राणलिङ्गान्नेति चेत् तव्द्याख्यातम् । प्रतर्दनविद्यायां कथं परिहृतं , तत्रातिदेष्टव्यांशः कः , स च कथं घटत इत्यत्राह - एतदुक्तम् इति । वर्णनीयानि इत्यन्तेन अतिदेष्टव्यांश उक्तः । न तूपासनार्थत्वमत्यतिदेष्टव्यमित्यर्थः । अत एव हि जीवलिङ्गस्य तदर्थत्वानुक्तिः

।। 17 ।।

जीवलिङ्गानां पुनः कथं ब्रह्मपरत्वमित्यत्राह -

अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके ।। 1-4-18 ।।

तु शब्दो जीवसङ्कीर्तनेन वाक्यस्य ... ... कारणत्वं क्वचिदपि वेदान्ते प्रतीयत इति स्थितम् ।। 18 ।।

उत्तरसूत्रस्य शङ्कामाह - जीवलिङ्गानाम् इति । अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके ।।

तुशब्द इत्यादि । न तु मतान्तरेण निर्वाहान्तरपरः । अपि तु पूर्वपक्षात् व्यावृत्त्यर्थः इत्यर्थः । क्वैषः क्व वा इति प्रश्नद्वयं स्वप्नसुषुप्तिस्थानविषयम् । प्राणाः जीवाः । नाडीनाम्

इति । यदा सुप्तः इत्यस्मात् पूर्वभावितया स्वप्नपरे पूर्ववाक्ये नाडीवचनादिति भावः । विज्ञानेन विज्ञानमादाय - मनसा सह ज्ञानमादाय उपरतव्यापारं मनः प्रतीन्द्रियमित्यर्थः । परमात्मगुणतत्सामानाधिकरण्याभावात् जीवश्रुतेः उपासनार्थत्वानुक्तिः । जीवलिङ्गनिर्वाहमुपसंहरति - अतः इति । वेदान्तानां प्रकृतिपुरुषपरत्वासिद्धिमुपसंहरति - तस्मात् इति ।। 18 ।।

इति जगद्वाचित्वाधिकरणम् - 5

6. वाक्यान्वयाधिकरणम् ।।

वाक्यान्वयात् ।। 1-4-19 ।।

अत्रापि कापिलतन्त्रसिद्धपुरुषतत्त्वावेदनपरं ... ... तन्त्रसिद्धं पुरुषमेवाभिदधतीति तदधिष्ठिता प्रकृतिरेव जगदुपादानम् , नेश्वरः इति ।।

वाक्यान्वयात् । कर्मवश्यवाचिपदेन तद्रहितस्वरूपोक्तिः लाक्षणिकीति जीवपरत्वं निरस्तम् । अत्र तु बद्धमुक्तसाधारणात्मशब्दश्रवणात् मुक्तलिङ्गश्रवणाच्च तत्परत्वं युक्तमिति शङ्कया सङ्गतिः । पूर्वमेवात्र न कर्मसंबन्धोऽन्यथा नेयः भोक्तृत्वश्रववणादिति वा शङ्कया सङ्गतिः । विज्ञातारम् इति जीवलिङ्गा नुगृहीतत्वात् विज्ञातृशब्दो जीवपर इति भावः । स्पष्टम् ।।

सिद्धान्तः

एवं प्राप्ते प्रचक्ष्महे - वाक्यान्वयात् इति । सर्वेश्वर एव ... ... गुणाः परमात्मन एव संभवन्ति । अतः स एवात्र प्रतिपाद्यते ।।

राद्धान्ते - समञ्जसः - स्वारसिकः । स्वारस्यं च सजातीय श्रुत्यन्तरैकार्थ्यमित्यभिप्रायेणाह - तमेव इति । प्रजापतिवाक्याद्यैकार्थ्यात् स्वारस्यमित्यत्राह - परमपुरुष इति । प्रधानार्थपरवाक्यैकार्थ्यं स्वारस्यमित्यर्थः . उपक्रमस्वारस्यं दर्शितम् ; उपरितनानां कारणत्वप्रतिज्ञानैक्योपदेशपरवाक्यानां सामञ्जस्यं दर्शयति - तथा इत्यादि । एतत् अयम् इति श्रुतिस्थेदंशब्दस्थाने भाष्ये एतत् शब्दः । जीवस्यैक्योपदेशात् अनुपपतिं्त दर्शयति - न हि इदंशब्दवाच्यम् इत्यादिना ।

स्थूलसूक्ष्मचिदचिच्छरीरत्वाभावान्न कार्येण जगदैक्यसंभव इत्यर्थः । अत एव - सर्वस्य परमात्मकत्वादेव ।।

यत्तूक्तं पतिजायापुत्रवित्तपश्वादिप्रियान्वयिनो ... ... स परमात्मैव द्रष्टव्य

इत्युपदिश्यते ।।

यत् तु इत्यादि । कथमनन्वयः , कथं वा तस्यानिष्टत्वमित्यत्राह आत्मा वा इति । पूर्ववाक्यस्यात्मनो द्रष्टव्यत्वोपयोगित्वं स्वरसतः प्रतीयते इत्यर्थः । जीवपरत्वेऽनन्वयमुपपादयति - आत्मन इति त्यादिना । श्रुतौ प्रिय शब्दो भोगार्हत्वपरः । कामाय - प्रीत्यै । न पत्यादिशेषतया पत्यादीनां प्रयत्वम् इति । पत्यादीनां भोगार्हत्वं न पत्यादिप्रीतिहेतुतया , किन्तु स्वप्रीतिहेतुतया , इत्यर्थः । वाक्यभेदः - महावाक्यभेदः । सोऽयम् इत्यादि। स्वयं निरतिशयानन्दः सन् इति । स्वाश्रितानन्दावहस्य स्वयं निरतिशयानन्दत्वमर्थसिद्धमिति भावः । श्रुत्यन्तरेषु तथा स्पष्टत्वाच्च । उपदिश्यते इत्यन्तेन तात्पर्यार्थ उक्तः ।।

तदयमर्थः - न वा अरे पत्युः कामाय पतिः प्रियो भवति ... ... आत्मा वा अरे द्रष्टव्यः इति पूर्वोक्तप्रक्रिययोभयत्रात्मशब्दावेकविषयौ ।। 19 ।।

कथमस्य शाब्दत्वमित्यत्राह - तदयमर्थः इति । जीवपरत्वेऽप्यन्वयो घटते । स्वप्रीतये स्वातन्त्र्यात् पत्यादीनामुपादानं चेत् नानित्यानन्दपत्याद्यनुभवाय प्रवर्तेत, किं तु नित्यानन्दस्वरूपानुभवाय प्रवर्तेत इति शङ्कायां द्वितीयं निर्वाहमाह - जीवात्मपरत्वेऽपि इति । जीवादप्यतिशयानन्दत्वात् परमात्मप्राप्तौ प्रवर्तेत इत्यर्थ उचिततर इत्यर्थः । तर्हि अयमेव निर्वाहः स्यादिति शङ्कायामाह - अस्मिंस्तु इति । परमात्मन एव अभिधानात् इति वक्ष्यमाणसूत्रप्रकारेणेत्यर्थः । समाधिभेदायोगो हेतुतया विवक्षितः । अत एव प्रथमस्य आत्म शब्दस्य सद्वारकत्वं चास्वरसम् । तस्मादद्वारकब्रह्मविषयौ पूर्वोत्तरवाक्यस्थात्मशब्दौ।।19।।

मतान्तरेणापि जीवशब्देन परमात्माभिधानोपपादनायाह -

प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः ।। 1-4-10 ।।

एकविज्ञानेन सर्वविज्ञानप्रतिज्ञासिद्धेः ... ... अतो जीवशब्देन परमात्माभिधानमिति ।। 20 ।।

अनन्तरसूत्रमवतारयति - मतान्तरेण इति । प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः । प्रतिज्ञोपपादककार्यकारणभावकृतैक्यसिद्धेरित्यर्थः ।। 20 ।।

उत्क्रमिष्यत एवंभावादित्यौडुलोमिः ।। 1-4-21 ।।

यदुक्तं जीवस्य ब्रह्मकार्यतया ब्रह्मणैक्येन ... ... जीवशब्देन

परमात्मनोऽभिधानमित्यौडुलोमिराचार्यो मन्यते स्म ।। 21 ।।

उत्क्रमिष्यत एवंभावादित्यौडुलोमिः । पूर्वाविरुद्धमतोदयायोगात् सूत्राभिप्रेतं प्राक्तनमतदूषणमाह - यदुक्तम् इत्यादिना । स्पष्टम् ।।

अवस्थितेरिति काशकृत्स्नः ।। 1-4-22 ।।

यदुक्तम् - उत्क्रमिष्यतो जीवस्य ब्रह्मभावात् ... ... न पुरुषस्तदधिष्ठिता च प्रकृतिरिति स्थितम् ।। 22 ।।

अवस्थितेरिति काशकृत्स्नः। स्पष्टम् । काशकृत्स्नमतवैषम्यमाह एवम् इति । स्वीकृतवान् इति । एवं वादरायण #ः इति मतान्तराकथनात् अस्य सामञ्जस्याच्च इति भावः ।।

इह प्रकरणे जीववाचिपदं किम् , तेन परस्याभिधानं कथमित्यत्राह अयमत्र इति । प्रोत्साहनाय इति । स्वरूपस्य प्राप्यत्वज्ञानात् प्रवृत्तिरधिका स्यात् इत्यर्थः । एकीकृत्य इति । समित्येकीकारे इति भावः । यत्र हि इत्यादि । तत् केन कम् इति अतदात्मकद्रष्टृदृश्यतत्साधननिषेधः ।।

येन इदम् इति वाक्यं तत्प्रसादादृते तस्य दुरवगमत्वपरम् । विज्ञातारम् इति वाक्यमुक्तोपायादृते तत्प्रसादनस्य दुर्लभत्वपरम् । उपसंहरति - अतः इति ।। 22।।

इति वाक्यान्वयाधिकरणम् -6

7. प्रकृत्यधिकरणम् ।।

प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ।। 1-4-23 ।।

एवं निरीश्वरसांख्ये निरस्ते सति सेश्वरसांख्यः ... ... नोपादानम् । उपादानं तु तदधिष्ठितं प्रधानमेव इति ।।

प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् । सङ्गतिमाह - एवम् इति । श्रुत्यर्थापत्तिमाह - एवमश्रुतेऽपि इति । श्रुतेरनुग्राहकतर्कमाह एवमेव इति । वैजात्येऽपि वृश्चिको गोमयं वा वृश्चिकोपादानं , तथा प्रकृतिर्वा ईश्वरो वा जगदुपादानं स्यात् , एकैकस्य कारणत्वश्रुतेरित्यत्राह कार्यनिष्पत्तिश्च इति । श्रुतिप्रतिपन्नं कथं त्याज्यमित्यत्राह - एवमिति । तर्कानुगृहीतवाक्यमितरस्मात् प्रबलम् । इतरत् तु यूपादित्यैक्यवाक्यवत् इत्यर्थः ।।

सिद्धान्तः

एवं प्राप्तेऽभिधीयते - प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् इति । ... .... विकारजननीमज्ञाम् अजामेकाम् इत्यादिभिरभिधीयते इति ।।

राद्धान्ते प्रधानस्वभावव्यावृत्त्यर्थमुक्तम् - उपादानं च इति । चार्थंवदन् वाक्यार्थमाह - न निमित्त इति । विज्ञातमेव स्यात् इत्यन्तेन हेतुवाचिपदं विवृतम् । वैशेषिकमतेन प्रतिज्ञानुपपत्तिमाशङ्क्य परिहरन् वाक्यार्थमाह - कारणमेव

इति ।।

निमित्तान्तराशङ्कां परिहर्तुं यत्तु इति परोक्तमनूद्य व्युदस्यति तदसत् इति । उपदेशतत्कर्मत्वव्युदासाय प्रकृतिप्रत्ययौ व्याचष्टे प्रशिष्यतेऽनेन इति । अन्यतरास्वारस्यसाम्येऽपि अर्थौचित्यमधिकमाह एतस्य इति । शासितृत्वं ह्यसाधारणम् । अकर्त्रर्थप्रत्ययान्तत्वमाशङ्क्याह साधक इति । विवक्षातः कारकाणि इति न्यायादिति भावः ।।

कारणवाक्येऽपि निमित्तोपादनैक्यं दर्शयति - सदेव इति । प्रकृतिशब्देन - प्रकृतिवाचकशब्देन । अन्वयव्यतिरेकाभ्यां तदात्मकत्वपरं सर्वं खलु यत्र तु इति वाक्यद्वयम् । ब्रह्मव्यतिरिक्तं नास्ति चेत् विकारापुरुषार्थौ ब्रह्मणि स्यातामित्यत्राह - एतदुक्तम् इति । तर्हि कार्यकारणदशयोः को भेद इत्यत्राह - कदाचित् इति । ततः किं प्रकृतस्येत्यत्राह एवं सर्वदा इति ।।

ननु च महानव्यक्ते लीयते अव्यक्तमक्षरे लीयते ... ... अतो ब्रह्मैव जगतो निमित्तमुपादानं च ।। 23 ।।

सूक्ष्मावस्थस्याप्युत्पत्तिमुखेन चोदयति - ननु च इति । अव्यक्तावस्थाया अपि सूक्ष्मावस्थासंभवात् । तदवस्थाचिद्विशिष्टं ब्रह्माव्यक्तकारणमिति । परिहरति नैष इति । तत्र प्रमाणमाह - यदा तमः इति। अत एव - तमःशब्दवाच्याचितस्तदा सद्भावादेव । पृथिवीत्वादिवत् तमस्त्वावस्थाप्रहाणेन परमात्मद्रव्यं भवति चेत् , लयशब्दः श्रूयेत ; न च श्रुतः । अतः तमस्तस्मिन् स्थितमित्यर्थः । वस्तुभेदसद्भावेऽप्यनुद्भूतत्वात् एक शब्दो युक्तः , यथा वह्निगर्भे दारुणि, यथा चान्तर्वत्याम् । इदं तमोभूतम् इत्यनेनावस्थान्तरापत्तिरेव लयः , न तु द्रव्यविनाश इति स्फुटम् अग्न्यवस्थे च सलिले इत्यादिना च ।।

यत् तु इत्यादिना परोक्तस्य सतर्कश्रुतिप्राबल्यस्य परिहार उच्यते । मृदादेः इति । केवलनिमित्तत्वे केवलोपादानत्वे बहुकारकापेक्षत्वे च असार्वज्ञ्यासर्वशक्तित्वासत्यसङ्कल्पत्वाद्युपाधयः इत्यर्थः ।। 23 ।।

अभिध्योपदेशाच्च ।। 1-4-24 ।।

इतश्चोभयं ब्रह्मैव - सोऽकामयत ... ... सङ्कल्पपूर्विका हि सृष्टिरुपदिश्यते ।। 24 ।।

अभिध्योपदेशाच्च । स्फुटम् ।। 24।।

साक्षाच्चोभयाम्नानात् ।। 1-4-25 ।।

न केवलं प्रतिज्ञादृष्टान्ताभिध्योपदेशादिभिः .... ब्रह्मैवोपादानमुपकरणानि चेति परिहृतम् । अतश्चोभयं ब्रह्म ।। 25 ।।

साक्षाच्चोभयाम्नानात् । प्रश्नप्रतिवचनरूपेणोक्तिफलमाह - अत्र हि इति

।। 25 ।।

आत्मकृतेः ।। 1-4-26 ।।

सोऽकामयत बहु स्यां प्रजायेय इति ... स्वयमेवात्मानं तथाऽकुरुत इति निमित्तमुपादानं च ।। 26 ।।

आत्मकृतेः । स्वस्य कर्तृत्वं विरुद्धम् । सिद्धः कर्ता साध्यं कार्यमिति एकस्य

सिद्ध्यसिद्धिविरोधमाशङ्क्याकारभेदेन परिहरति - अविभक्त इति । आकार्यैक्यान्निमित्तोपादानैक्यमाह - स्वयमेव इति ।।

सत्यं ज्ञानमनन्तं ब्रह्म , आनन्दो ब्रह्म ... ...

परिणामात् ।। 1-4-27 ।।

परिणामस्वाभाव्यात् ; नात्रोपदिश्यमानस्य ... ... अनादित्वादुपपद्यते चाप्युपलभ्यते च इति ।।

अनन्तरसूत्रशङ्कामाह - सत्यं ज्ञानम् इति । परिणामात् । परिणामात् इत्युक्ते तस्य विरोधिहेतुत्वमेव इत्याशङ्क्याह परिणामस्वाभाव्यात् इति । स्वभाव एव हि विरोधहेतुरित्यत्राह - नात्र इति । कथमित्यपेक्षायाम् उक्तं विवृणोति - एवमेव हि इति । तत्त्वक्रमसृष्टिवत् तदुपयोगिगुणवच्च अनुक्तं सद्वारकत्वमन्यतो ग्राह्यमिति दर्शयन् प्रधानविषयश्रुतीनां परपर्यन्ततामाह - अशेष इति । स्वशरीरतया अपि इति एक शब्दव्याख्यानम् । उक्तार्थे मानमाह - तथैव इति । आवरणत्वात् तमः अनर्थमूलत्वात् मृत्युः स्वरूपैक्यव्यावृत्त्यर्थमाह - अविभाग इति ।।

एवं स्वस्माद्विभागव्यपदेशानर्हतया परमात्मना ... ... अतो ब्रह्मैव जगतो निमित्तमुपादानं च ।। 27 ।।

उदाहृतश्रुतिसिद्धमर्थमाह - एवं स्वस्मात् इति । ततः किं प्रस्तुतविरोधस्य इति शङ्कायाम् , अविरोधेन पश्चात् व्याख्यातुं विरोधस्फोरकमेतत्प्रकरणस्थवाक्यमादत्ते - सत्यं ज्ञानम् इति । व्याख्येयपदानि व्याचष्टे अत्र इति । तप आलोचने इति धातु #ः ।।

श्रुत्यन्तरानुगृहीते तत्प्रकरणवाक्यानामर्थमाह - तदयमर्थ इति । उदाहृतवाक्येषु घटकवाक्यस्यार्थमाह - तदेव इति । कथं विरोधः परिहृत इत्यत्राह - एवम् इति । कार्यत्वदोषासङ्करं चाह - परमात्मनि इत्यादिना । अवाप्तकामलीलासृष्टौ मानमाह - सर्वाणि इति । पूर्वपक्ष्युपात्तश्रुत्यर्थमाह - अस्मात् इति स्पष्टम् ।

इदं सूत्रं मृषावादिनां विरुद्धम् । भेदाभेदपक्षेऽपि भोग्यांशेन परिणामः । अस्मन्मते तु विशेषणांशेन इति अस्वारस्यं तुल्यम् । श्रुत्यन्तरोपपत्त्यानुगुण्यं त्वधिकमिति वैषम्यम् ।। 27 ।।

योनिश्च हि गीयते ।। 1-4-28 ।।

इतश्च जगतो निमित्तमुपादानं च ब्रह्म ... ... यथोर्णनाभिः सृजते गृह्णते च इति वाक्यशेषादवगम्यते ।। 28 ।।

योनिश्च हि गीयते । स्पष्टम् ।। 28 ।।

इति प्रकृत्यधिकरणम् - 7

8. सर्वव्याख्यानाधिकरणम् ।।

एतेन सर्वे व्याख्याता व्याख्याताः ।। 1-4-29 ।।

एतेन - पादचतुष्टयोक्तन्यायकलापेन ... .... व्याख्याताः इति पदाभ्यासोऽध्यायपरिसमाप्तिद्योतनार्थः ।। 29 ।।

इति सर्वव्याख्यानाधिकरणम् - 8

इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये

प्रथमस्याध्यायस्य चतुर्थः पादः ।।

।। समाप्तश्चाध्यायः ।।

एतेन सर्वे व्याख्याता व्याख्याताः । पूर्वाधिकरणशेषत्व व्युदासायाह - पाद इति ।।

इन्द्रादिसृष्टि हिरण्यगर्भरुद्रादीनां कारणत्वं संभवति इत्यधिकाशङ्का । तेषामपि

परमात्मसृज्यत्वसंहार्यत्वश्रवणाविशेषात् अथर्वशिरःप्रभृतयः तच्छरीरकपरमात्मपराः इति परिहारः पदाभ्यास प्रयोजनमाह - व्याख्याताः इति

।। 29 ।।

इति सर्वव्याख्यानाधिकरणम् -8

इति श्रीहरितकुलतिलकवाग्विजयिसूनुना श्रीरङ्गराजदिव्याज्ञालब्ध

वेदव्यासापरनामधेयेन श्रीमद्वरदाचार्यपादसेवासमधिगत

श्रीभगवद्रामानुजविरचितशारीरकमीमांसाभाष्यहृदयेन

श्रीसुदर्शनसूरिणा विलिखितायां श्रुतप्रदीपिकायां

प्रथमस्याध्यायस्य चतुर्थं#ः पादः ।।

।। समाप्तश्चाध्यायः ।।




च्ड्ढड़दृदड्ड ॠड्डण्न्र्ठ्ठन्र्ठ्ठ

क़त्द्धद्मद्य घ्ठ्ठड्डठ्ठ

द्वितीयाध्याये प्रथमः पादः ।।




1. स्मृत्यधिकरणम् ।।

स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ।। 2-1-1 ।।

प्रथमेऽध्याये प्रत्यक्षादिप्रमाणगोचरात् ... ... तदिदमाशङ्कते - स्मृत्यनवकाशदोषप्रसङ्ग इति चेत् - इति ।।

स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् । सङ्गत्यर्थं प्राथमिकार्थसुग्रहार्थं च प्रथमाध्यायार्थमनुवदति - प्रथम इति । द्वितीयार्थमाह - अनन्तरम् इति । समस्त इति । तत्तत्पादनिरसनीयतर्कर्वैविध्यं विवक्षितम् । अयोगान्ययोगव्यवच्छेदेन ब्रह्मकारणत्वं निरूपितं प्रथमे । द्वितीये तु विरोधः परिह्नियते इत्यर्थः ।।

द्वितीयाद्यप्रतिपाद्यमाह - प्रथमम् इति । उत्थानमाक्षिपति कथम् इति। परिहरति - सत्यम् इति । औदुम्बर्यादिवाक्येषु श्रुतिन्यायानपेक्षं श्रुत्यर्थस्य निश्चित्वात् तद्विरुद्धस्मृस्यनादरो युक्तः । इह तु श्रुतिवैविध्यात् श्रुत्यर्थे संशय्यमाने , तद्विरोघेन स्मृतित्यागायोगात् विचारो युक्त इत्यर्थः ।।

कपिलस्य महर्षित्वे किं मानम् ? सत्यपि तस्मिन् बृहस्पत्याद्युक्तलोकायतादिवत् किं न स्यात् ? उक्तप्राथमिकन्यायतो निर्णीतत्वात् न च स्मृत्यपेक्षेत्यत्राह - एतदुक्तम् इति ।

अभ्युपगच्छता इत्यन्तेन लोकायतादिव्यावृत्तिरुक्ता । ऋषिम् इति मानोक्तिः । स्मृत्युपबृंहणम् स्मृतिरूपोबृंहणम् । अल्पश्रुतैः इत्यादिना तदपेक्षा दर्शिता । न च न्यायत स्मृत्यनपेक्षता , वचनविरोधे न्यायदौर्बल्यादिति भावः । सकलायाः इति मन्वादिस्मृतिव्यावृत्तिः । तासां सावकाशत्वात् । अस्याश्चाप्तप्रणीताया अनवकाशत्वमयुक्तम् । पूर्वपक्षस्यानुत्सूत्रत्वमाह - तदिदम् इति ।।

सिद्धान्तः

तत्रोत्तरम् - नान्यस्मृत्यनवकाशशेषप्रसङ्गात् इति । अन्या हि ...तत्प्रणीतेन लोकायतेन श्रुत्यर्थव्यस्थापनप्रसक्तेः - इति ।। 1 ।।

परिहारखण्डमवतारयति - तत्रोत्तरम् इति । सर्वकर्माराध्यत्वाय कार्यभूतसर्वदेवतात्मत्वसिद्धये परमकारणत्वं वक्तुं सृष्टेः पूर्वत्वात् प्रलयदशा सुबालश्रुत्यनुसारेणोच्यते - आसीत् इति । इदं - जगत् , तमोभूतम् तमोवस्थम् आसीत् ; अग्न्यवस्थे च सलिले इतिवत् । अप्रज्ञातम् प्रकृष्टरूपप्रत्यक्षज्ञानागोचरः । कुतः ? अलक्षणम् ; शब्दस्पर्शरूपादिलक्षणरहितत्वादित्यर्थः । कार्यगुणसिद्ध्यर्थं कारणेनापि विशेषगुणवता भाव्यमित्यत्राह - अप्रतर्क्यम् - तर्कागोचरः । अविज्ञेयम् - विभज्य ज्ञातुमशक्यम् । तम एकीभवति इत्युक्ताविभक्तावस्थमित्यर्थः ।।

स्वरूपैक्यशङ्कां व्युदस्यति प्रसुप्तमिव । सुषुप्ताविव पृथग्व्यवहारा नर्हातिसूक्ष्मावस्थापन्नम् । स्वापाद्वैषम्यमाह - सर्वतः इति । ततः - सर्गकाले प्राप्ते । स्वयंभूः इति कारणान्तरवत्त्वव्युदासः । भगवान् इति । सृष्ट्युपयोगिगुणपौष्कल्यदेवताविशेषोक्तिः योगरूढिभ्याम् । इदं - व्यष्टि कार्यं व्यञ्जयितुम् महाभूतानामादिभूतमहदहङ्कारविषयप्रवृत्तस्वसङ्कल्परूपज्ञानः तदर्थं तमः प्रेरयन् अव्यक्तावस्थप्रकृतिशरीरकः प्रादुरासीत् । अक्षरावस्थाऽप्यर्थसिद्धा ।।

स्वरूपपरिणामनिबन्धननिर्दोषत्वादिविरोधशङ्काव्युदासायाह - शरीरात् स्वात् इति । अप् - शब्दोऽण्डकारणतत्त्वप्रदर्शनार्थः । महाभूतादिवृत्तौजाः इत्युक्तत्वात् । वीर्यम् - त्रिवृत्करणजनितामण्डोत्पादनशकिं्त ;

तदभावे नाशक्नुवन् प्रजाः स्रष्टुम् इति ह्युक्तम् । आसीदिदम् इत्यादिसप्तश्लोक्यनुसन्धेया । अहं कृत्स्नस्य इत्यादि स्फुटम् ।।

मन्वादिस्मृतयः सावकाशाः , कपिलश्चाप्तः । उपबृंहणं चापेक्षितमित्युक्तम् । कथं तत्स्मृतिं हित्वा स्मृत्यन्तरमादीयत इत्यत्राह - अयमर्थ इति । भूतार्थ इति । सिद्धार्थ इत्यर्थः । कार्यरूपार्थ इव विकल्पो दुर्वच इति अन्यतमत्यागोऽवश्यंभावीति भावः । आप्ततम - शब्देन यथावद्दर्शनसहितयथादृष्टवादित्वं विवक्षितम् । कपिलस्य ऋषित्वमेव । अत्र आप्तिमात्रम् । यद्वै मनुरवदत् तद्भेषजम् इत्युभयं मन्वादीनामस्ति इति आप्ततमम् । प्रणीताः बह्व्यः न्यायोपेताश्च इति वैषम्यत्रयमुक्तम् । हेत्वन्तरं चाह - उपबृंहणं च इति ।।

न च इत्यादि स्फुटम् । विद्याङ्गकर्मणां हि भगवदाराधनरूपत्वं , स्वर्गादिफलानां तु तदभावात् आराध्यभूतब्रह्मणि न तात्पर्यमित्यत्राह न चैहिक इति । स्पष्टम् ।।

यदुक्तम् इत्यादि । श्रुतिप्रामाण्याङ्गीकारेऽपि श्रुत्यर्थविरोधस्यानादरणीयत्वे प्रयोजकत्वात् तत् कापिललोकायतमतयोरविशिष्टमिति त्याज्यत्वमित्यर्थः ।। 1 ।।

अथ स्यात् - कपिलस्य स्वयोगमहिम्ना ... ....

इतरेषां चानुपलब्धेः ।। 2-1-2 ।।

चशब्दस्तुशब्दार्थः ..... ... न तया यथोक्तो वेदान्तार्थश्चालयितुं शक्य इति सिद्धम् ।। 2 ।।

उत्तरसूत्रशङ्कामाह - अथ स्यात् इति । मन्वादीनां धर्मप्रवर्तनान्यपरत्वात् न योगावसर इति भावः । इतरेषां चानुपलब्धेः । बहूनामुपलब्धिभिः एकोपलब्धेः भ्रान्तित्वनिश्चयः । धर्मानुष्ठानपरत्वं तु मनोनैर्मल्यहेतुरिति मन्वाद्युपलब्धिप्राबल्यहेतुः । तद्राहित्यं मनोमालिन्यात् भ्रान्तित्वावहमित्यर्थः ।।2 ।।

इति स्मृत्यधिकरणम् -1




2. योगप्रत्युक्त्यधिकरणम् ।।

एतेन योगः प्रत्युक्तः ।। 2-1-3 ।।

एतेन - कापिलस्मृतिनिराकरणेन ... ... न तया वेदान्तोपबृंहणं न्याय्यम् इति ।। 3 ।।

एतेन योगः प्रत्युक्तः । अक्षरार्थमुक्त्वा शङ्कायां तात्पर्यार्थमाह योग इति । अब्रह्मात्मक इति । तत्त्ववैषम्यमुक्तम् । ध्यानात्मकस्य इत्यनुष्ठानवैषम्यम्

।। 3 ।।

इति योगप्रत्युक्त्यधिकरणम् -2




3. विलक्षणत्वाधिकरणम् ।।

न विलक्षणत्वादस्य तथात्वं च शब्दात् ।। 2-1-4 ।।

पुनरपि स्मृतिविरोधवादी तर्कमवलम्बमानः ... नैतदेवम् , यतस्तत्राप्यचेतनांश एव कार्यकारणभावः ।। 4।।

न विलक्षणत्वादस्य तथात्वं च शब्दात् । मन्वादिस्मृतिभिर्वेदानामुपबृंहणं कार्यमित्युक्तम् । तास्तर्कविरुद्धाः । तर्कानुगृहीतसांख्यस्मृत्यैव कार्यमिति प्रत्यवस्थानात् सङ्गतिः । सोत्रं न इति पदं व्याचष्टे यत् इति । अस्य इति व्याख्येयम् । विलक्षणत्वात् इति पदं व्याचष्टे भवदभिमत इति । तथात्वम् इत्यादिसूत्रखण्डं व्याचष्टे न केवलम् इति । ततः किमित्यत्राह - यद्धि इति । शास्त्रेण तर्को बाध्य इत्यत्राह अवश्यं च इति । अनन्यापेक्षस्य - प्रमाणान्तरानपेक्षस्य । न हि तर्को मानम् ; अतोऽङ्गत्वादपेक्षित इत्यर्थः । क्वचित् क्वचित् - स्वतोऽस्पष्टार्थविषयेषु ।।

तर्केंण मानस्य किञ्चित्कारमाह - तर्को हि इति । शास्त्रस्य तु इति तुशब्दः साध्यवैषम्ये । विशेषेण इति साधनवैषम्ये । स्वापे चैतन्यानुपलम्भः , तच्छक्तियोगश्च वेदतदितराभिमतौ । कथं ब्रह्मोपादानतोक्तेः घटादौ धीनिश्चयापेक्षेत्यत्राह - विलक्षणयोर्हि इति । यूपादित्यैक्यवदिति भावः । किं पुनः इत्यादिना वैलक्षण्यासिद्धिराशङ्क्य परिहृता । ननु च इत्यादिना अनैकान्त्यम् ।। 4 ।।

अथ स्यात् - अचेतनत्वेनाभिमतानामपि ... ...

अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ।। 2-1-5 ।।

तु शब्दश्चोदिताशङ्कानिवृत्त्यर्थः ... ... जगतः प्रधानोपादानत्वं वेदान्तैः प्रतिपाद्यते - इति ।। 5 ।।

अनन्तरसूत्रशङ्कामाह - अथ स्यात् इति । अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् । चोदिताशङ्कानिवृत्त्यर्थः , न तु पूर्वपक्षव्युदासार्थ इति भावः । स्फुटम् ।। 5 ।।

सिद्धान्तः

एवं प्राप्तेऽभिधीयते -

दृश्यते तु ।। 2-1-6 ।।

तुशब्दात् पक्षो विपरिवर्तते - ... ... माक्षिकगोमयक्रिमिवृश्चिकादिषु दृश्यते ।। 6 ।।

दृश्यते तु । स्पष्टम् । पराभिमतसालक्षण्यं च सुवचम् । चिदचिद्विशिष्टस्य कारणत्वस्यैव कार्यत्वाच्च । इदानीं तु पराभिमतसालक्षण्यनियमो भग्नः ।। 6 ।।

असदिति चेन्न प्रतिषेधमात्रत्वात् ।। 2-1-7 ।।

यदि कार्यभूतात् जगतः कारणभूतं .... ... सति च वैलक्षण्ये कुण्डलहिरण्ययोरिव द्रव्यैक्यमस्त्येव ।। 7।।

असदिति चेन्न प्रतिषेधमात्रत्वात् । प्रत्यभिज्ञार्हसालक्षण्यनियमनिषिद्धः , न तु द्रव्यैक्यमित्यर्थः ।। 7 ।।

अत्र चोदयति -

अपीतौ तद्वत्प्रसङ्गादसमञ्जसम् ।। 2-1-8 ।।

अपीतावित्यपीतिपूर्वकसृष्ट्यादेः .... .... ब्रह्मकारणवादे वेदान्तवाक्यानामसामञ्जस्यम् - इति ।। 8 ।।

उत्तरसूत्रमवतारयति - अत्र इति । अपीतौ तद्वत्प्रसङ्गादसमञ्जसम् । सृष्ट्यादेः । आदिशब्दात् स्थितिः । सिद्धान्तं शङ्कते अथ इति । चेष्टाश्रयत्वमुक्तम् पञ्चवृत्ति इति । आयतन शब्दः साधनविशेषपरः । अत एव हि भोगसाधनमात्रस्य इत्युक्तम् । सिद्धान्त्यभिमतलक्षणं दूषयति - अथ मतम्
इति । अव्याप्तिमाह - शरीरतया इति । अतिव्याप्तिमाह - साल इति । पक्षैकदेशव्याप्तिमाह - चेतनस्य इति । क्रियादिषु । आदि शब्दात् गुणः ।। 8 ।।

अत्रोत्तरम् -

न तु दृष्टान्तभावात् ।। 2-1-9 ।।

नैवमसामञ्जस्यम् - एकस्यैव ... ... सूत्रद्वयेन इतरव्यपदेशात् इत्यधिकरणसिद्धोऽर्थः स्मारितः।। 9 ।।

न तु दृष्टान्तभावात् । हेयासंभवे को दृष्टान्त इत्यत्राह एतदुक्तम् इति । अमुख्यत्वमाशङ्क्याह - अथ च इति । अपामेव देवत्वादिधर्माः , न पुरुषस्येत्यत्राह - भूतसूक्ष्म इति । सोऽभिध्याय इत्यत्र चिदचितोरस्पष्टत्वादाह - भूतसूक्ष्मात् इति ।

आसीदिदम् इत्यादिना प्रकृतत्वादिति भावः । लोके च इत्यादि । क्रिमिकीटपतङ्गादावनुगतत्वाय हि त्वया चेष्टाश्रयत्वादि लक्षणमुक्तम् ; न तु द्विपात्त्वादि । अनुयायिनि संभवति , अननुगतस्वीकारायोगात् । एवं लौकिकवैदिकसर्वप्रयोगानुगतलक्षणे संभवति , अननुगतस्वीकारेण क्वचित् गौणत्वाश्रयणमयुक्तमिति भावः । अतः - अनुयायिनो लक्षणत्वात् , त्वदुक्तस्य चाननुयायित्वादित्यर्थः ।।

अनुगतलक्षणमाह - यस्य इति । चेष्टाश्रयत्वादिकं त्रितयमननुगतम् ; इदं तु लक्षणत्रयमनुगतम् । यस्य चेतनस्य यत् द्रव्यं सर्वात्मना स्वार्थे नियन्तुं श्क्यं तत् तस्य शरीरम् , यस्य चेतनस्य यत् द्रव्यं सर्वात्मना स्वार्थे धारयितुं शक्यं , तत् तस्य शरीरम् ; यस्य चेतनस्य यत् द्रव्यं शेषतैकस्वरूपं च , तत् तस्य शरीरमिति विभागः । स्वार्थे स्वविषये शक्येऽर्थे । सर्वात्मना - यावद्द्रव्यभावितया । एतत्स्थाने तृतीये एकशब्दः । स्वार्थशक्य शब्दानपेक्षणात् तृतीयस्य पृथगुक्तिः । यस्य इति - पित्रादिवत् देहस्य सप्रतियोगिकवस्तुत्वं दर्शितम् । तावता पित्रादेर्देहत्वं प्रसजेदित्युक्तं नियाम्यम् इति । द्रव्यम् इति क्रियादिव्युदासः । सर्वात्मना इति घटादिव्यावृत्तिः । मनुष्यादीनां गगनगमनादेरशक्यत्वात् असंभवव्यावृत्त्यर्थं स्वार्थे इति । शक्यम् इति रुग्णदेहादौ अव्याप्तिव्युदासः। चेतनस्य इति धर्मभूतज्ञानव्यावृत्तिः । न हि तत् ज्ञानविशिष्टेन नियाम्यम् । द्वितीयतृतीययोः प्रभाव्यावृत्तिश्च । तृतीये तु एक शब्देन गृहादिव्यावृत्तिः . शरीरत्व प्रयुक्तदोषमाशङ्क्याह - उपरितन इति ।। 9 ।।

स्वपक्षदोषाच्च ।। 2-1-10 ।।

न केवलं ब्रह्मकारणवादस्य .... अभ्युपगमेऽप्यर्थाभावात् इत्यादिना प्रपञ्चयिष्यते ।। 10 ।।

स्वपक्षदोषाच्च । अनभ्युपगमात् - नित्यनिर्विकारत्वोपगमादित्यर्थः

।। 10 ।।

तर्काप्रतिष्ठानादपि ।। 2-1-11 ।।

सर्वस्याप्रतिष्ठितत्वादपि ... ... तर्काणामन्योन्यव्याघातात् तर्कस्याप्रतिष्ठितत्वं गम्यते ।। 11 ।।

तर्काप्रतिष्ठानादपि । स्पष्टम् ।। 11 ।।

अन्यथाऽनुमेयमिति चेदेवमप्यनिर्मोक्षप्रसङ्गः ।। 2-1-12 ।।

इदानीं विद्यमानानां शाक्यादीनां ... ... वेदार्थविशदीकरण रूपवेदोपबृंहणतर्कोपादानाय सांख्यस्मृतिर्नादरणीया ।। 12 ।।

अन्यथाऽनुमेयमिति चेदेवमप्यनिर्मोक्षप्रसङ्गः । भूतस्य भूतेनेव भाविनो भाविना तर्कान्तरेण प्रतिहतिः संभवतीत्यर्थः । वेदशास्त्र शब्दवैयधिकरण्येन सांख्यानुमतिशङ्काव्युदासायाह - वेदाख्य इति । वेदश्चक्षुः सनातनम् ... ... वेदशास्त्रमिति स्थितिः इति प्रकरणात् ।। 12 ।।

इति विलक्षणत्वाधिकरणम् - 3




4. शिष्टापरिग्रहाधिकरणम् ।।

एतेन शिष्टापरिग्रहा अपि व्याख्याताः ।। 2-1-13 ।।

शिष्टाः परिशिष्टाः , न विद्यते ... ... विसंवाददर्शनाच्चाप्रतिष्ठितत्वमेवेति परिहारः ।। 13 ।।

एतेन शिष्टापरिग्रहा अपि व्याख्याताः । तृतीयासमासव्युदासाय व्याचष्टे - शिष्टाः इति । कर्मधारयत्वे हि सांख्यस्य शिष्टापरिग्रहत्वसिद्धिः । अनेकान्तत्वसत्यासत्यात्मकत्वादि । आदि शब्दात् चातुर्विध्यैकरूप्ये ।। 13 ।।

इति शिष्टापरिग्रहाधिकरणम् - 4




5. भोक्त्रापत्त्यधिकरणम् ।।

भोक्त्रापत्तेरविभागश्चेत् स्याल्लोकवत् ।। 2-1-14 ।।

पुनरपि सांख्यः प्रत्यवतिष्ठते - यदुक्तं .... ... स्वरूपपरिणामे च ब्रह्मण एव भोक्तृभोग्यत्वापत्तिरिति पुनरप्यसामञ्जस्यमेव ।।

भोक्त्रापत्तेरविभागश्चेत् स्याल्लोकवत् । पूर्वाधिकरणे देहो दृष्टान्तितः । तत्प्रयुक्तभोक्तृत्वशङ्काया उत्थानात् सङ्गतिः । ननु च इत्यादि । अन्यगृह इव कार्यान्तरवशात् त्यन्निधौ भोक्तृत्वमिति पूर्वत्रोक्तम् । इह शरीरस्वामित्वे भोक्तृत्वं न निवार्यते इत्यर्थः । स्थविरत्वादिविकारासंभवेऽपि इति अनेन प्रागुक्तदृष्टान्तपरिहृतांश उक्तः । अपरिहृतांशमाह - शरीर इति । स्यात् लोकवत् इति । सशरीरस्य कारणत्वे दोषः परिहृतः

। केवलब्रह्मणः कारणत्वे दोषमनुपगमेन प्रतिवक्ति मृत्सुवर्ण इति ।।

यत् तु इत्यादिनाऽनूदितं पोक्तार्थं दूषयति - तदयुक्तम् इति । उपाधिश्च इति उपाधिशब्दः शक्त्यविद्योपाधिपरः । वादशब्दवदयंशब्दः । उपाधितदुपहितयोरविभागः शङ्क्यत इत्यत्राह - विलक्षणयोः इति । स्वरूपपरिणामे शङ्कापरिहारौ युक्तावित्यत्राह - स्वरूप इति । कुत इत्यत्राह - न कर्म इति । उपगम्य दूषयति - स्वरूप इति । कालान्तरेण घटशरावादिसङ्करोऽस्तीति चेत् फेनतरङ्गदृष्टान्तेऽपि समानोऽयं दोषः । यस्तु तेन परिह्रियते स्वरूपपरिणामेऽपि परिहार्यः । पूर्वाधिकरणोक्तविकारापुमर्थदोषपरिहारानुपपत्तिमाह - स्वरूप इति ।। 14 ।।

इति भोक्त्रापत्त्यधिकरणम् - 5

---

6. आरम्भणाधिकरणम् ।।

तदनन्यत्वमारम्भणशब्दादिभ्यः ।। 2-1-15 ।।

असदिति चेन्न प्रतिषेधमात्रत्वात् इत्यादिषु ... ... तस्य चानिर्वचनीयत्वं प्रतीतिबाधाभ्यां सिद्धम् ।।

तदनन्यत्वमारम्भणशब्दादिभ्यः । सङ्गतिमाह - - असत् इति । सत्यपि इति । कार्योपयोगितया - उदकाहरणादिकार्योपयोगितया । न च इति । पिण्डे

घटो न चेत् कुलालेन तन्तुरुपादीयेत , तत्र घटासत्त्वाविशेषादित्यर्थः । मत्पिण्डेऽस्ति घटः , न तन्तुषु इति कुतः ? मृत्पिण्ड एव घटसद्भावयोग्य इति चेत् तर्हि तदुत्पादनयोग्यः स एव इत्यभिप्रायेण परिहरति - कारण इति । स्पष्टम् । आहुः - सिद्धान्त्येकदेशिनः इत्यर्थः ।।

वाचारम्भणम् इत्यादेरर्थमभिप्रयन्नाह - अतो यथा इति । विकारेषु इति अनुवर्तमानत्त्वहेतुरभिप्रेतः । एकमेव अद्वितीयम् इत्यस्यार्थमाह - तथा इति । कार्यस्य सदसद्विलक्षणत्वे व्यतिरेकिणमाह - सत इति । सदसदन्यत्वं मिथ्यात्वेऽन्वयिहेतुरित्याह - अनिर्वचनीयं च इति । सपक्षे साधकधर्मं दर्शयति - तस्य च इति ।।

किं च कार्यमुत्पादयन् मृदादि कारणद्रव्यं ... .... जीवेश्वर- बद्धमुक्तशिष्याचार्यज्ञत्वाज्ञत्वादिव्यस्था च न स्यात् ।।

व्यावर्तमानत्वस्य निरुपाधिकत्वाय कार्यदुर्निरूपताम् अनुग्राहकतर्करूपेणाह - किं च इति । सत्यं चेत् सुनिरूपं स्यादित्यर्थः । उक्ततर्कस्य प्रत्यक्षविरोधमाशङ्क्याह - न च इति

। रुचकादि - रूचकाद्यवस्था। समवायिविषया प्रत्यभिज्ञा इत्यत्राह - तदतिरिक्त इति । व्यक्तिद्वयानुपलब्धेरित्यर्थः । पटे तन्तव इव इति पटप्रक्रिययोक्तम् । नापि इति । विशिष्टस्य कार्ये प्रत्यभिज्ञानप्रसङ्गः इत्यर्थः । अतः इति । कारणातिरिक्तानुपलम्भात् नाध्यक्षबाधः इत्यर्थः । तत एव न सोपाधिकत्वं , पक्षेऽपिबाधादिति भावः ।

कृत्स्नं मिथ्या चेत् , कथं मृदादिसत्यतेत्यत्राह - तदिदम् इति । कण्ठोक्तं चेत्याह - ऐतद् इति । यूपादित्यैक्यसाम्यमाशङ्क्याह - न चागम इति । शङ्कितमन्यपरत्वं प्रतीत्यभावात् प्रत्यक्षविरोधाद्वा इति विकल्पं मत्वा प्रथमं व्युदस्यति - यथोक्त इति । द्वितीयं व्युदस्यति प्रत्यक्षस्य च इति । उपगम्याह - विरोधे सत्यपि इति । दोषः - भेदवासना । अपच्छेदमभिप्रेत्याह - चरम इति ।
स्वरूपसद्भावः - ज्ञानोदयः । आदि शब्दात् सामग्र्युत्पत्तिः । प्रमितौ - प्रमितत्वे । अर्थपरिच्छेदकत्वेन हि स्मृतिवत् ज्ञाततयाऽर्थं ज्ञापयतीत्यर्थः ।।

अत्र केचिदद्वितीयत्वं ब्रह्मणोऽभ्युपयन्त एव ... ... जीवानां भ्रमस्य प्रवाहानादित्वान्न तद्धेतुरन्वेषणीयः - इति ।।

ननु इत्याद्युक्त लौकिकवैदिकव्यवस्थासिध्यर्थं जीवाज्ञानपक्षं प्रस्तौति अत्र इति । कस्य - किमाश्रया । अवस्तुभूतायां - मिथ्याभूतायाम् । अनवक्लप्तिः - असिद्धिः । ब्रह्माव्यतिरेकस्वतःशुद्धिभ्यां ब्रह्मण इव जीवस्यापि अविद्यान्वयो न स्यादित्यत्राह - वस्तुतः इति । स्वतः शुद्धस्यापि औपाधिकाशुद्धिसंभवात् अविद्यान्वयोपपत्तेः जन्मजरादीनां काल्पनिकत्वोपपत्तिरित्यर्थः । अशुद्धिः दोषार्हता । तस्या धीनिवर्त्यत्वायाह अशुद्धिरपि इति । अशुद्धिभ्रमात् अविद्यान्वयः , तेनाशुद्धिभ्रमः इत्यन्योन्याश्रयमाशङ्क्याह - जीवानाम् इति ।।

तदेतदविदिताद्वैतयाथात्म्यानां ... .. ब्रह्मैव कल्पकमिति चेत् ब्रह्माज्ञानमेवायातम् ।।

जीवाज्ञानपक्षं दूषयति - तदेतत् इति । किं जीवस्य अकल्पित स्वरूपेणाविद्याश्रयत्वम् , उत कल्पिताकारेण , अथ कल्पिताकारविशिष्टस्वरूपेण इति विकल्पमभिप्रेत्य , प्रथमं शिरो दूषयति- जीवस्य इति । द्वितीयं दूषयति - तदतिरिक्तेन इति । जीवो ह्यविद्याश्रयः तत् कथं जडस्य तदाश्रयत्वमित्यत्राह - न खलु इति । तृतीयं शङ्कते

- कल्पित इति । दूषयति - तन्न इति । कुत इत्यत्राह - स्वरूपस्य इति । ततः किमित्यत्राह - अविद्याश्रयाकार इति । अविद्याश्रयत्वे सति विशिष्टत्वं विशिष्टाकार एव अविद्याश्रय इत्यात्माश्रयणमित्यर्थः ।

अविद्याया एकत्वे दूषणमाह - तत्रैकस्मिन् इति । बहुत्वं शङ्कते प्रति इति। भन्त्स्यते - बद्धो भविष्यति । दूषयति - तन्न इति । अद्वैतहानिप्रसङ्गात् स्वाभाविकत्वानभ्युपगमः । किमस्याः इति । जीवभेदकल्पकाऽविद्या तत्क्लप्तेः प्रागेव नाश्रयितुं क्षमा, जीवासिद्धेरित्यर्थः । बीजाङ्कुरेषु इति । तत्र नोत्पादकस्य उत्पादकतयोत्पाद्यापेक्षेति भिदा । अशकनीयता - साधयितुमशक्यता । कृतनाशादि इति । आदि शब्दात् जीवनित्यत्वादिश्रुतिविरोध उक्तः ।।

जीवाख्यधर्मिक्लृप्तेः प्रवाहानादित्वे कथितं दूषणं जीवत्वधर्मक्लृप्ति- प्रवाहानादित्वेऽप्यतिदिशति - अत एव इति । धर्मक्लृप्तिपक्षस्य निरस्ततां विवृणोति - अविद्याप्रवाहे इति । पक्षद्वयेऽपि दूषणमेकमाह आमोक्षात् इति । जीवस्य - जीवभावविशिष्टस्य ।।

दुर्घटत्वेन परिहारं दूषयति - यच्चोक्तम् इति । शुद्धविद्यास्वरूपत्वात् - शुद्धज्ञप्तिरूपत्वात् । उक्ताभिः - अन्योन्याश्रयादिभिः । अनिर्मोक्षः आविद्यजीवावस्थितेरित्यर्थः ।।

दार्ष्टान्तिकालोचनया दूषितम् । अथ दृष्टान्तालोचनया दूषयति यच्चोक्तम् इति । दोषप्रतिभासानुपपत्त्या दूषयति - किं च इति । अन्यस्य इति शिरोदृष्टान्तानुरोधादुक्तम् ।।

अविद्याकार्यभ्रमाश्रयनिरूपणया दूषयति - किं च इति । कः कल्पकः को भ्रमाश्रयः । आत्माश्रय इति । जीवसिद्धेः स्वविषयभ्रमाश्रयस्वसिद्धिसापेक्षत्वात् आत्माश्रयः इत्यर्थः ।।

किं च ब्रह्माज्ञानानभ्युपगमे , किं ब्रह्म ... ... परमार्थतो ब्रह्मव्यतिरिक्ताभावात् तदनन्यत्वं जगतः इति ।।

किं च इति । स्फुटम् । अत एव - ईक्षापूर्वकसृष्ट्यर्थमस्य जीवदर्शनार्थं चाविद्यान्वयस्य उपगमादित्यर्थः। माया - परभ्रमहेतुः ; स्वभ्रमहेतुः अविद्या
इति तन्मतम् । जीवदार्शित्वम् - अपरमार्थजीवदर्शित्वम् । परमोहनहेतुरेव मोहनीयदर्शनहेतुरिति शङ्कते - अथ इति । तर्हि इत्यादि । स्फुटम् । अपुमर्थदृष्टिहेतुत्वाभावानुगमेनापि दूषयति - तन्निरसने

च इति । दुःखहेतुत्वेऽपि अवस्तुभासनमेव अपुमर्थः निरसनीयत्वात् अतो मायायाश्च तद्धेतुत्वादविद्यात्वमिति भावः । अविद्यामन्तरेण नोपपद्यते इति । मृषात्वादिति भावः । नित्यया - अपुमर्थाभावेनानिरसनीयत्वादिति भावः। आश्रयविभागानुपपत्त्या च दूषयति - मायाश्रयतया इति ।।

यत् तु इत्यादि । अत एव - आश्रयैकत्वेऽपि सर्वव्यवस्थोपपादकहेतुना काल्पनिकत्वेन । कार्यपारमार्थ्ये एव कारणबहुत्वम् , न त्वपारमार्थ्य इत्याह - परमार्थिकी इति । ततः किमित्यत्राह - अपारमार्थिकी तु इति ।।

प्रयोगश्च इति । आद्यौ जीवाज्ञानवादिनं प्रति कथितौ । अन्त्यौ द्वौ तं भेदवादिनं च प्रति । जडत्वादयः एकैकमनपेक्षाः। भिन्नत्वे च इति व्यतिरेकित्रयम् । अभिन्नत्वं साध्यम् । वस्तुपरिच्छेदात् परिच्छेदान्तरद्वयं प्रसञ्जयति - वस्तुतः परिच्छिन्नस्य इत्यादिना । ततःकिमित्यत्राह एवं च इति । उत्पत्ति इति । अविकारश्रुतिविरोधश्चेत्यर्थः। एकाविद्यया सर्वव्यवस्थोपपत्तिमुपसंहरति - अतः इति । ब्रह्माज्ञानवादपक्षमुपसंहरति तस्मात् इति । अनन्यत्वं जगतः इति । परमार्थभूतान्यत्वं न भवति इत्यर्थः। अभावः नञर्थः ।।

अत्रोच्यते - निर्विशेषस्वप्रकाशमात्रं ब्रह्म .... ... अहंत्वमाद्यर्थविलक्षणं चिन्मात्रं ह्यात्मा त्वन्मते ।।

ब्रह्माज्ञानवादिनं वैशेषिकः प्रतिवदति - अत्रोच्यते इति । निरंशस्य इति । तिरोधानेऽपि जडांशः स्थितः इति दुर्वचमिति भावः । स्ववचनविरुद्धम् - नित्यत्वादिसाधकवचनविरुद्धम् । उक्तम् - अस्मिन् प्रबन्धे सिद्धान्तिना इत्यर्थः । मिथ्यात्वानित्यत्वभेदमाह - यद्देश इति । अनित्यत्वे साध्ये सिद्धसाध्यता ; मिथ्यात्वे तु सोपाधिकत्वव्याघातबाधितत्वानैकान्त्यादीनि इति भावः । देशकालादि इति । आदि शब्दात् क्रियादि । देशकालभ्रमेषु देशकालान्तररूपोपाध्यभावात् साध्यसमव्याप्तिर्नेति न वाच्यम् । तत्रापि क्रियादेरुपाधित्वादिति भावः । बाधार्हत्वं साध्यम् ; बाधितत्वं लिङ्गमिति न साध्याविशिष्टता । दाहार्हत्वदाहकार्यत्ववत् । समवहितात् - समन्वितात् । कारणान्तरम् - अदृष्टेश्वरसङ्कल्पादि । एतदायत्तत्वाभावात् - वस्तुमात्रानायत्तत्वात् अविकृतत्वधर्मितया तद्धि प्रकृतम् ।।

अनुग्राह्यमाह - कारणस्य च इति । परोक्ततर्को जात्युक्तिः । कार्यकारणत्वभङ्गवाचिस्ववचनस्य प्रमितिजनकत्वोपगमात् । न चेत् सुतरां न

कार्यकारणत्वभङ्गः । यथोक्तपरिकरः - देशकालादिः । हेमप्रत्यभिज्ञाकथमित्यत्राह - प्राक् इति । यच्चान्यत् इति । आदि शब्दात् विरोधेऽपिशास्त्रबलीयस्त्वम् ।।

यच्चोक्तम् इत्यादि । देहभेदादप्रतिसन्धिरित्यत्राह - सौभरि इति । अन्तः करणभेदादित्यत्राह - न च इति । एकशरीरवर्त्यात्मन एकत्वे सिद्धसाध्यता । अनेकशरीरवर्तिनां चेत् धर्मिग्राहकबाध इत्यर्थः । सर्वशरीराणामविद्याकल्पितत्वाभावात् इति । सपक्षभूतदेहस्यापि अविद्याकल्पितत्वाभावात् दृष्टान्तस्य

साध्यवैकल्यमित्यभिप्रेतम् ।।

यच्च चेतनात् इत्यादिना अहमेव सर्वं चेतनजातं चेतनत्वात् इतीदमर्थतोऽनूदितम् । कालात्यापदेशेन दूषयति -- तदपि इति । उक्तिदूषणमाह - यत् तु इति ।।

किं च निर्विशेषचिन्मात्रातिरेकि सर्वं मिथ्येति वदतो मोक्षार्थश्रवणादिप्रयत्नो निष्फलः ... ... भेदवादिनस्तु सर्वचिदचिद्दस्तुशरीरत्वेन ब्रह्मणः सर्वप्रकारत्वात् स्वतः परतोऽपि परिच्छेदो न विद्यते ।।

प्रतितर्कानाह - किं च इति । अविद्याकार्यत्वादौ निष्फलत्वादिप्रसङ्ग इत्यर्थः । कर्महेतुकत्वात् तद्वदेव त्वन्मतेऽपि निष्फलत्वादिति चेत् , न , श्रुतेस्तुल्यदोषत्वाभावेन तद्बाधेन परिहारस्य सुवचत्वादिति भावः । स च व्यक्तीभविष्यति ।।

द्विधा मृषावादिनां गतिः । ब्रह्म स्वरूपपरवाक्यप्रतिपाद्यमिति , ब्रह्म तु न प्रतिपाद्यं भेदनिषेधपरा वेदान्ताः इति च । तत्र प्रतिपाद्यत्वपक्षेऽनिष्टं प्रसञ्जयति - किं च निर्विशेष इति । अनुमानैः - तर्कैः । ऊहस्तर्कोऽनुमानोक्तिः इति प्रसिद्धेः । निरस्तान् इति । स्वाभिमतार्थसाधकत्वं निरस्तमित्यर्थः । अतादृशस्य - कर्मकर्तृरहितस्य । तादृशस्य इति पाठे सकर्तृकर्मणस्तस्य निर्विशेषत्वेऽभिमते सा न सिध्यतीति ।।

पूर्वमविद्याहेतोः नैष्फल्यमुक्तम् । तन्न ; असत्यात् सत्योत्पत्तेः इत्यत्राह - यः पुनः
इति । परमते तदसिद्धिमाह - सोऽपि इति । स्वमते तदसिद्धिमाह - अस्माभिरपि इति ।।

बाधादृष्टिमुपगम्य दूषयति - दुष्टकारण इति । सा च नेत्याह - किं च इति । माध्यमिकवचो दोषमूलमित्यत्राह - दोषमूलत्वं तु इति । अतः ... न सेत्स्यति इत्यन्वयः । असिद्धिमुपपादयति - लोक इति । ततः किमित्यत्राह - निर्विशेष इति । ज्ञातृत्वसविशेषत्वयोरभावात् आश्रयतया करणतया च न प्रतिभासादिहेतुत्वमित्यर्थः । आदि शब्दात् व्यवहारः ।।

न कश्चिद्विशेषोऽन्यत्र तत्संरंभात् इति । अयमभिप्रायः - अधिष्ठानस्य

मिथ्यात्वेऽधिष्ठानान्तरापेक्षया अनवस्था दोषमृषात्वेऽपि तुल्या । स्वरूपप्रवाहानादित्वाभ्यां दौर्घट्यस्वपरनिर्वाहकाभ्यां च परिहृतिश्च तथा । उपपत्त्यनपेक्षत्वे चातिप्रसङ्गाः प्राक् दर्शिताः । दोषसत्यत्वापेक्षा चापरमार्थत्वप्रयुक्तोपपत्तिरूपेति ।।

यत्तु इत्यादि । आनन्त्यं - सावधिसंख्याराहित्यम् । स्वरूपानन्त्यात् - देशकालाद्युपाधिरहितस्वरूपानन्त्यात् । देशकालादि इति आदि शब्दात् कर्त्रादि । कर्त्रादिनाऽप्यवच्छेददर्शनात् गृहाद्यवच्छिन्नात्मपक्षीकारे सिद्धसाध्यता । अवच्छिन्नघटेषु सपक्षीकृतेषु भिन्नत्वं सोपाधिकम् । अन्यथा दृष्टान्तस्य साध्यवैकल्यम् ।।

यत्तु आत्मनाम् इति बाधितविषयत्वमुक्तम् । यत् तु भिन्नत्वे इति । देशकालपरिच्छेदौ न्यूनाधिकत्वरहितौ , परिच्छेदत्वात् . वस्तुपरिच्छेदवत् इतिवत् वस्तुतः परिच्छिन्नस्य देशकालपरिच्छिन्नत्वम् अबाधितम् इत्यर्थः । वस्तुतः इत्यादि । स्फुटम् ।।

अविद्याब्रह्मभेदानुपगमे दूषणमाह - यदि इति । शुक्तित्वमृषात्वे पुरोवर्ति रजतमेव यथा स्यादिति भावः । प्रतिसंबन्धिन्यविद्या मृषेति चेत् , घटोऽपि मृषेति तद्विलक्षणपटस्येव वस्तुपरिच्छेदतत्प्रयुक्तदोषाः स्युः । अथ सामान्येन भेदानुपगमेन दूषणमाह - भेदतत्त्व इति । स्वपक्षो निर्दोषः , परपक्षः सदोषः इति विभागसत्यत्वे भेदसत्यत्वम् , असत्यत्वे भेदसत्यत्वम् इत्यर्थः । वैशेषिकानन्त्ये स्वाभिमतिप्रकारमाह - आनन्त्य इति । साक्षात्सिद्धान्तिपक्षे तदुपपत्तिमाह - भेदवादिनस्तु इति । स्वतः इति घटादिव्यावृत्तिः । परतः इति धर्मभूतज्ञानव्यावृत्तिः । सर्ववस्तुसामानाधिकरण्यार्हत्वं वस्त्वपरिच्छेदस्वनिष्ठ - वस्त्वन्तराभाव इत्यर्थः । गुणानन्त्यं च यथा षड्वर्णापेक्षया दशवर्णनिष्कस्यापरिच्छेदः । प्रागुक्तोऽप्येतदन्तर्भूतः ।।

तदेवं कारणात् भिन्नस्य कार्यस्य सत्यत्वात् ब्रह्मकार्यं कृत्स्नं जगत् ब्रह्मणोऽन्यदेव ।।

सिद्धान्तः

इति प्राप्ते प्रचक्ष्महे - तदनन्यत्वमारम्भणशब्दादिभ्यः । ... .. . बालो युवा स्थविरः इति वुद्धिशब्दान्तरादयः कार्यविशेषाश्च दृश्यन्ते ।।

अथ वैशेषिकपक्षमुपसंहरन् राद्धान्तमवतारयति - तदेवम् इति । तदनन्यत्वमारम्भणशब्दादिभ्यः । अस्य

कस्मादनन्यत्वमित्यत्राह तस्मात् इति ।

अनन्यत्वम् ऐक्यम् । विरोधो नञर्थः । प्रतिज्ञादृष्टान्तवाक्यद्वयं प्रकृत्यधिकरणविषयः । वैशेषिकनिरासेन कार्यकारणैक्योपपादकत्वादस्य वाक्यस्य एतदधिकरणविषयत्वमित्यभिप्रायेणोक्तं तदुपपादयद्भ्यः इति । ऐकपद्यव्युदासाय वाचादिभ्यः इत्यनुक्तिः । षष्ठीतत्पुरुषव्युदासायाह आरम्भणशब्द इति ।।

उदाहृतवाक्यानां तदनन्यपरत्वमुपपादयति - तथा हि इति । दृष्टान्तवाक्यं व्याचष्टे - यथैक इति । वाचा इत्यादिवाक्यस्य तदुपपादकत्वमाह - अत्र इति । नाम्नो मृदारब्धत्वाभावात् स्पर्शार्थतया व्याख्यातम् । घटेन इति वाचा इत्यजहल्लक्षणेत्यर्थः । सिद्धये इति प्रयोजनतया हेतुत्वमित्यर्थः । तेनेव - पूर्ववाक्यप्रस्तुतेन । स्पर्शशब्दार्थं विवृण्वन् उक्तं संग्रहेणाह उदक इति । बुद्ध्यादिभेदः घटः पटः आस्ते शेते इत्यादौ बुद्धिभेदादवस्थाभेदाच्च दृष्टः । अत्र त्ववस्थाभेदनिबन्धनत्वे किं नियामकमित्यत्राह - अतः इति । एवकारार्थमाह - न तु इति । सामान्येन बुद्ध्यादिभेदानामन्यथासिद्धिमाह - अतः इति । देहक्षणिकत्वेऽपि बालादिशब्दानां चेतनपर्यन्तत्वान्न साध्यविकलता दृष्टान्तस्य , देहस्याबाधितप्रत्यभिज्ञाविषयत्वाच्च ।

यदुक्तम् - सत्यामेव मृदि घटो नष्ट इति व्यवहारात् ... ... तदेवमारम्भ णशब्दादिभ्यो जगतः परमकारणात् परस्मात् ब्रह्मणोऽनन्यत्वमुपपाद्यते ।।

भावाभावविरोधं परिहरति - यदुक्तम् इति । कार्यभेदं परिवक्ति - तत्तत् इति । कारकव्यापारवैयर्थ्यं व्युदस्यति - संस्थानयोग इति । भूतप्रत्ययनिर्देशः प्रथमक्षणापेक्षयेति योगशब्दस्य भावः । अतो नोत्पद्यते इति व्याहारः नात्र शक्त्त्यु त्पन्नव्याहाराभावश्च । तत एव कपालत्वे सति घटस्य निष्ठत्वोक्तिश्च एवं युक्ता ।
संस्थानस्य इत्यादिनोपन्यस्तचोद्यं प्रतिबन्दीमुखेन परिहरति - असत्कार्यवादिनोऽपि इति । यथोत्पत्तेरुत्पत्तिचोदनं नित्यसमजात्युक्तिः तथाऽवस्थाया उत्पत्तिमुखेन चोद्यमपि ; अवस्थाविशेषस्य चोत्पत्तिरूपत्वादित्यर्थः । अस्माकं तु इति । पृथक्स्थितिप्रतीतिकार्यानर्हाणां न पृथगुत्पत्त्याद्यपेक्षा यथोत्पत्तेः ,

किं तु तदर्हाणामेव पृथगुत्पत्याद्यपेक्षेत्यर्थः । संख्याभेदं परिहरति - कपालत्व इति ।।

अथ सौत्रादिशब्दोपात्तेषु वाक्येषु दार्ष्टान्तिकवाक्यस्यार्थमाह तथा इति । सदेव इति एवकारात् कार्यासत्त्वव्युदासः । कथम् असत इत्यादिवाक्यैकार्थ्यात् तथा ...

उपपादितम् इत्यन्वयः ।।

पदानामुक्तार्थपरत्वं द्रढयितुमुपरितनवाक्यानामर्थं वदन् , अनन्यत्वसिद्धिमाह - तथा तदैक्षत इति । बहुत्वेक्षितृत्वशब्दाभ्याम् एक अद्वितीय शब्दार्थं#ः स्फुटीकृतः । व्यष्टिसृष्टिसङ्कल्पवाक्यस्य शङ्कामाह - सच्छब्द इति । सच्छब्दो ब्रह्मपरश्चेदिदं सामानाधिकरण्यमयुक्तम् । जगत्परश्चेदीक्षणाद्ययोग इत्यर्थः ।।

तादात्म्यस्य व्याप्तिहेतुकत्वज्ञापनायोदाहृतवाक्यं विवृणोति - तिस्रः इति । कृत्स्नम् तिस्र इति न्यूनतां व्यावर्तयति । न तु मानान्तरसिद्धमधिकमिति भावः । अचिद्वस्तु - इदंशब्दसमानाधिकरण देवता शब्दो लक्षणयाऽधिष्ठेयाचित्पर इति भावः । वस्तुशब्दो ऽचित्पारमार्थ्यसूचकः । तत्पारमार्थ्यं तु असृजत इति सृज्यत्वोक्तेः ।।

स्वात्मक इति । अनेन जीवेनात्मना इति आत्म शब्दः स्ववाचीति भावः । नामरूपे कस्येत्यत्राह - एतत् इति । सन्निहितमेव नामरूपभागिति भावः । विचित्र इति । देवादिव्यष्टिनामरूपे इत्यर्थः । अनेन तेजःशब्द- तेजस्त्वप्रभृतिसमष्टिनामरूपव्यावृत्तिः । समष्टिनामरूपे हि प्रागेव व्याकृते । स्ववाचकस्य आत्मना इति पदस्य जीवविशेषणशङ्काव्युदासाय जीवेन इति पदस्य आत्मवि शेषणत्वं दर्शयन् , समष्ट्यवस्थजीवानुप्रवेशव्यावृत्त्यर्थमनुप्रवेशं विशिंषन् जीवस्यापि नामरूपभाक्त्वं दर्शयति - अनेन इति । अत्र एतच्छब्दो जीवविशिष्टाचित्परः । आत्मतया - नियन्तृतया । जीवपरयोः स्वरूपैक्यव्युदासाय स्वात्मकत्वं विवृणोति - स्वात्मनः इति । सिहेन मया इतिवदित्यर्थः ।।

श्रुत्यन्तरेणेदं स्पष्टयति तत् - सृष्ट्वा इति । कार्यदशायां ह्ययमनुप्रवेशः , न तु कारणदशायामित्यत्राह - तदेतत् इति । ततः किमित्यत्राह - अनेन इति । सत् इदं शब्दयोः केवलब्रह्मकेवलजगत्परत्वाभावादिति भावः । तरपो मुख्यत्वमर्थः । स्पष्टम् । आदि शब्दोपात्तप्रकरणान्तरवाक्यैरनन्यत्वमाह - तथा इति ।।

अत्रेदं तत्त्वम् - चिदचिद्वस्तुशरीरतया तत्प्रकारं ब्रह्मैव ... ... सदात्मना च सर्वस्य अभिन्नत्वे सर्वज्ञत्वेन

सर्वस्वभावप्रतिसन्धानात् सर्वगुणदोषसङ्करप्रसङ्गश्च पूर्वमेवोक्तः । अतो यथोक्तप्रकारमेव अनन्यत्वम् ।। 15 ।।

विभक्ततमःकार्यं ह्यक्षरादि । तमसः एकीभावश्रवणात् चिदचितोरुत्पत्तिप्रलयश्रवणात् , अग्रे बहुत्वाभावेन शरीरशरीभावान्न स्वभावव्यवस्था युक्ता । भेदव्यपदेशात् तदनन्यत्वम्

इत्यादिसूत्राणां व्याहतिश्चेत्यत्राह अत्रेदम् इति । परमात्मनित्यत्वोपादानत्वजीवनित्यत्वबहुत्ववैषम्यादिपरिहारोचितदेहात्म- भावश्रुत्यन्यथानुपपत्त्या तदानीमपि चिदचिच्छरीरकत्वसिद्धिरिति भावः ।।

अस्य सूत्रस्य मृषावादिभिरुक्तमर्थं दूषयति - ये तु इति । भास्करोक्तं व्युदस्यति - ये च इति । उपाधिसंबन्धात् इत्यन्तेन चिद्गतदोषसङ्ग उक्तः । हेयाकार इत्यचिद्दोषसङ्गः । न स्वरूपे हेयान्वयः , शक्तेरचिद्रूपपरिणामादित्यत्राह - शक्ति इति ।।

यादवप्रकाशोक्तं व्युदस्यति - ये पुनः इत्यादिना । विप्लवः - विकारः । सदैव - कारणदशायामपीति भावः । यः सर्वज्ञः सर्ववित् ... तस्मादेतत् इति हि श्रुतिः । ततः स्वयंभूः इति । भगवच्छब्दः ईश्वरपरः इति भावः । न्यायविरोधमाह - न च इति । सविशेषत्वात् - नियन्तृरूपविशेषवत्त्वात् । न लक्षणा ; शक्तौ प्रत्ययविधानात् इत्यत्राह - न च पाचक इति ।
केषाञ्चिदेव इति । अन्यथा विशेषोपादानवैयर्थ्यमिति भावः । पाचकादिषु शक्त्यर्थत्वं दृष्टमित्यत्राह - पाचक इति ।।

अनुवृत्तं सत्त्वं धर्म इति पक्षे दूषणमाह - न च इति । प्रसङ्गादसत्त्वं शिक्ष यति - विरोधि इति । द्रव्यपक्षे दूषणमाह - द्रव्यमेव इति । द्रव्यसंबन्धः क्रियादेः सत्त्वमित्यत्राह - क्रियादिषु इति । सूत्रार्थमुपसंहरति अतः इति ।। 15 ।।

अथोच्येत - एकस्यैवावस्थान्तरयोगेऽपि ... ....

भावे चोपलब्धेः ।। 2-1-16।।

कुण्डलादिकार्यसद्भावे च कारणभूत ... ... बुद्धिशब्दान्तरादयोऽवस्थाभेदमात्रनिबन्धना इत्यवगम्यते । तस्मात् कारणादनन्यत् कार्यम् ।। 16 ।।

उत्तरसूत्रशङ्कामाह - अथोच्येत इति । भावे चोपलब्धेः । मृत्तिका इत्यादेरर्थ इहोक्तः । सामानाधिकरण्येन प्रत्यभिज्ञविवक्षिता । प्रतिसन्धानानुपपत्तेः । न हि घटस्थेम्भसि घटप्रतिसन्धानमित्यर्थः । चोद्यं शङ्कते - गोमय इति । न तत्रापि इति । समवाय्यनुवृत्तिवादिना त्वयाऽपि आदिकारणप्रतिसन्धिर्वाच्या इति भावः । स्फुटम् ।। 16 ।।

इतश्च

सत्त्वाच्चापरस्य ।। 2-1-17 ।।

अपरस्य कार्यस्य कारणे सत्त्वाच्च ... ... वेदे च सदेव सोम्येदमग्र आसीत् इति

।। 17 ।।

सत्त्वाच्चापरस्य । पूर्वसूत्रे द्रव्यैक्यधीप्रत्यभिज्ञोक्ता ; इह तु तथा व्यपदेशः । व्यपदिश्यते इति हि भाष्यम् । यद्वा अयं स इत्यभिज्ञोच्यते ।।

असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषाद्युक्तेः

शब्दान्तराच्च ।। 2-1-18 ।।

यदुक्तं कारणे कार्यस्य सत्त्वं ... ... तद्धेदं तर्ह्मव्याकृतमासीत् तन्नामरूपाभ्यां व्याक्रियत इति सुस्पष्टमुक्तम् ।। 18 ।।

असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषाद्युक्तेः शब्दान्तराच्च । द्रव्यधर्मावित्युक्तम् इति । व्यवहारयोग्यता हि सत्त्वम् इत्यादिना । अन्तर शब्दार्थमाह - तत्र इति । अश्रुतवाक्यशेषेषु प्रदेशेषु निर्वाहमाह - तदैकार्थ्यात् इति । स्फुटम् ।। 18 ।।

इदानीं कार्यस्य कारणादनन्यत्वे निदर्शनद्वयं ... ...

पटवच्च ।। 2-1-19 ।।

यथा तन्तव एव व्यतिषङ्गविशेषभाजः पट इति नामरूपकार्यान्तरादिकं भजन्ते , तद्वत् ब्रह्मापि ।। 19 ।।

अनन्तरसूत्रद्वयकृत्यमाह - इदानीम् इति । इदानीम् - अनन्यत्वे साधिते । अतो न साध्यविकलतेति भावः । निदर्शनद्वयम् इति । लौकिकं वैदिकं च । पटवच्च । बहूनामेकावस्थत्वं निदर्शितम् ।। 19 ।।

यथा च प्राणादिः ।। 2-1-20 ।।

यथा च वायुरेक एव शरीरे वृत्तिविशेषं ... ... परमकारणात् परस्माद्ब्र ह्मणोऽनन्यत्वं जगतः सिद्धम् ।। 20।।

यथा च प्राणादिः । एकस्य बह्ववस्थत्वं निदर्शितम् । अधिकरणार्थमुपसंहरति - इति इति ।। 20 ।।

इति आरम्भणाधिकरणम् - 6

7. इतरव्यपदेशाधिकरणम् ।।

इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः ।। 2-1-21 ।।

जगतो ब्रह्मानन्यत्वं प्रतिपादयद्भिः ... ... अत इदमसङ्गत ब्रह्मणो जगत्कारणत्वम् ।। 21 ।।

इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः । सङ्गत्यादिकं स्पष्टम् । इत्यादयः इति । आदिशब्दात् सुखदुःखभोक्तृत्वम् ।। 21 ।।

सिद्धान्तः

इति प्राप्तेऽभिधीयते -

अधिकं तु भेदनिर्देशात् ।। 2-1-22 ।।

तुशब्दः पक्षं व्यावर्तयति ; आध्यात्मिकादि ... ... सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः इत्यादिभिः ।।

राद्धान्ते - अधिकं तु भेदनिर्देशात् ।। 22 ।।

अश्मादिवच्च तदनुपपत्तिः ।। 2-1-23 ।।

श्रुतिर्दर्शिता । अथ श्रुत्यर्थापत्तिरुच्यते । अश्मादिवच्च तदनुपपत्तिः । अश्मकाष्ठ इति । सामानाधिकरण्ये तुल्येऽपि ऐक्यासंभवाद्धि अचिद्व्यावृत्त्युपगमः । स चेतनेऽपि तुल्य इति भावः । अवस्थितेः इति सूत्रम् एतदधिकरणशेषम् । आदिशब्दात् न तु दृष्टान्तभावात् उभयेऽपि हि इत्यादि विवक्षितम् ।।

चित्सामानाधिकरण्यनिर्वाहः कृतः , जगत्सामानाधिकरण्यनिर्वाहमाह - अतः सर्वं इति । न व्यवस्थितिः , अविभागोक्तेरित्यत्राह सदेव इति । स कथमित्यत्राह - अविभागस्तु इति ।।

ये पुनः इत्यादि । वियुक्तविषयत्वे दोष उक्तः । संसृष्टविषयत्वे दूषणमाह - न च इति । अकल्पितजिज्ञास्यस्वरूपस्य प्रक्रान्तत्वादित्यर्थः ।।

वैलक्षण्यम् अपीतौ इत्यत्रोक्तमित्यत्राह - अपीतौ इति । अनुवदति - अस्य शेषत्वेन वदति । तर्हि तत्र कोऽर्थः प्रतिपाद्यः इत्यत्राह - तत्र हि इति । न तत्र विलक्षणयोः कार्यकारणसंभव एव प्रतिपाद्यः , असत्कार्यवादनिरासनिदर्शनादित्यत्राह - असद् इति । प्रसङ्गादारम्भणाधिकरणानुवाद इत्यर्थः । इहाभेदश्रुत्यविरोद्येन भेदश्रुतिमुख्यार्थत्वं वर्णितम् । अपीतौ इति न तु दृष्टान्त इति अचिद्गतदोषः , इतरव्यपदेशात् इति चिद्गतदोषश्च परिहृतौ । सामानाधिकरण्यम् अवस्थितेः इति निरूढमिति सूत्रत्रयम् एतदधिकरणशेषम् ।। 23 ।।

इति इतरव्यपदेशाधिकरणम् - 7




8. उपसंहारदर्शनाधिकरणम् ।।

उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि ।। 2-1-24 ।।

परस्य ब्रह्मणः सर्वज्ञस्य सत्यसङ्कल्पस्य ... ... क्षीरादिष्वातञ्चनाद्यपेक्षा न दध्यादिभावाय । अपि तु शौध्र्यार्थं रसविशेषार्थं वा ।। 24 ।।

सत्यसङ्कल्पत्वादिधर्मैर्हि व्यावृत्तिरुक्ता । तत्र सत्यसङ्कल्पत्वस्या सङ्कोचो निरूप्यत इति सङ्गतिः स्फुटम् । क्षीरादिषु इति । रविकरा उत्सर्गंमात्रहेतवः , न तु जलस्य हिमरूपपरिणाम इति भावः ।। 24 ।।

देवादिवदपि लोके ।। 2-1-25 ।।

यथा देवादयः स्वे स्वे लोके ... ... ब्रह्मणो वेदावगतशक्तेः सुखग्रहणायेति प्रतिपत्तव्यम् ।। 25 ।।

देवादिवदपि लोके । स्फुटोऽर्थः ।। 25 ।।

इति उपसंहारदर्शनाधिकरणम् -8




9. कृत्स्नप्रसक्त्यधिकरणम् ।।

कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा ।। 2-1-26 ।।

सदेव सोम्येदमग्र आसीत् .... ... अतो ब्रह्मकारणत्वं नोपपद्यते

।। 26 ।।

कृत्स्नप्रसक्तिः निरवयवत्वशब्दकोपो वा । प्राक् दृष्टान्तितक्षीरवत् सावयवं वा न वेति शङ्कया सङ्गतिः । इति वचनभङ्ग्या एवमुक्तं भवतीत्यर्थः । सत् इति । यावद्वाधं हि सङ्कोचः । इह तदभावादसङ्कुचितमेकपदम् अवयवतोऽपि भेदासहमिति भावः । अवयव शब्दः अंशपरः । तत्तच्चिदचिद्विशिष्टप्रदेशभेदस्वरूपं न संभवतीति हृदयम् । इदं वा इति । पृथिव्याद्यवयवविभागनिषेधान्निरवयवत्वसिद्धिरिति भावः । आदि शब्दात् निष्कलम् इत्यादि गृह्यते । एक शब्दव्याख्यानं निरवयव पदम् । आसीत् इत्यन्तेनोपात्तवाक्यानामर्थ उक्तः ।।

फलितमर्थमाह - कारणावस्थायाम् इति । अविभागमेकं निरवयवम् । एक शब्दवाच्यत्वात् निरवयवम् । अत एव निरस्तचिदचिद्विभागम् इत्यर्थः । यद्यपि इति

। एकशरीरे शरीर्यंशः समाप्त इति नान्यत्र स्यादित्यर्थः ।। 26 ।।

इत्याक्षिप्ते समाधत्ते -

श्रुतेस्तु शब्दमूलत्वात् ।। 2-1-27 ।।

तुशब्द उक्तदोषं व्यावर्तयति । ... ... न सामान्यतो दृष्टं साधनं दूषणं वा अर्हति ब्रह्म ।। 27 ।।

श्रुतेस्तु शब्दमूलत्वात् । श्रुतेस्तु इति धर्मविषयम् । शब्दमूलत्वात् इति धर्मिविषयम् । मानान्तरागोचरे धर्मिणि स्वमानेन धर्म्यन्तरविजातीयतयाऽवगते तद्धर्मविजातीयधर्मान्वयस्यापि स्वमानेनैव अवगतौ न मानविरोध इत्यर्थः । सामान्यतो दृष्टम् - येन केनचिदाकारेण साम्यनिबद्धम् ।। 27 ।।

आत्मनि चैवं विचित्राश्च हि ।। 2-1-28 ।।

किं च - एवं वस्त्वन्तरसंबन्धिनो ... ... चोद्यं सर्ववस्तुविलक्षणे परे ब्रह्मणि नावतरतीत्यर्थः ।। 28 ।।

आत्मनि चैवं विचित्राश्च हि । तदप्रसक्तिश्च इत्यध्याहारेण सूत्रखण्डयोजना । विचित्र शब्दविशेष्या भावाः । स्फुटार्थत्वात् पुराणवचः - प्राथम्यम् । परिचोद्य , यथोक्तम् इत्यन्वयः ।। 28 ।।

इतश्च

स्वपक्षदोषाश्च ।। 2-1-29 ।।

स्वपक्षे - प्रधानादिकारणवादे ... ... संयुज्यमाना अपि न स्थूलकार्यारम्भाय प्रभवेयुः ।। 29 ।.

स्वपक्षदोषाच्च ।
दर्शनानुगुणम् अनुमीयमानस्यैव लोकदृष्टदोषप्रसङ्ग इत्यर्थः ।। 29 ।।

सर्वोपेता च तद्दर्शनात् ।। 2-1-30 ।।

सकलेतरवस्तुविसजातीया परा ... ... सर्वमिदमभ्यात्तोऽवाक्यनादरः इति च ।। 30 ।।

सर्वोपेता च तद्दर्शनात् । निरवयवत्वश्रुतिबलात् धर्मिवैजात्यविलक्षणशक्तियोगौ कल्प्यावित्युक्तम् । इह तत्कण्ठोक्तिरिति भिदा । अपहतपाप्मा इति पाप्मानर्हत्वात्

धर्मिवैजात्यसिद्धिः । मनोमयः इति मलिनमनोग्राह्य धर्मिवैलक्षण्यसत्यसङ्कल्पत्वफलितत्वात् सर्वशक्तियोगं प्रतिपादयन्ति इत्युक्तम्

।। 30 ।।

विकरणत्वान्नेति चेत् तदुक्तम् ।। 2-1-31 ।।

यद्यप्येकमेव ब्रह्म सकलेतरविलक्षणम् .... ... अपाणिपादो जवनो ग्रहीता इत्येवमाद्या ।। 31 ।।

विकरणत्वान्नेति चेत् तदुक्तम् । दण्डचक्राद्यनपेक्षत्वेऽपि देहाद्यपेक्षाऽत्र परिह्रियते । कार्यं - शरीरम् । सूत्रे करण - उक्तिः प्रदर्शनार्था ।। 31 ।।

इति कृत्स्नप्रसक्त्यधिकरणम् - 9




10. प्रयोजनवत्त्वाधिकरणम् ।।

न प्रयोजनवत्त्वात् ।। 2-1-32 ।।

यद्यपीश्वरः प्राक्सृष्टेरेक एव ... ... ब्रह्मणः कारणत्वं नोपपद्यते इति

।। 32 ।।

न प्रयोजनवत्त्वात् । सङ्गत्यादि स्फुटम् ।। 32 ।।

एवं प्राप्ते प्रचक्ष्महे -

लोकवत् तु लीलाकैवल्यम् ।। 2-1-33 ।।

अवाप्तसमस्तकामस्य परिपूर्णस्य ... .. लीलैव प्रयोजनमिति निरवद्यम् ।। 33 ।।

लोकवत्तु लीलाकैवल्यम् । केवल इति पणबन्धव्युदासः ।। 33 ।।

वैषम्यनैर्घृण्ये न सापेक्षत्वात् तथा हि दर्शयति ।। 2-1-34 ।।

यद्यपि परमपुरुषस्य सकलेतर ... ... स्वशक्त्या स्वकर्मणैव देवादिवस्तुताप्राप्तिरिति ।। 34 ।।

वैषम्यनैर्घृण्ये न सापेक्षत्वात् तथा हि दर्शयति । साधारणत्वात् अप्रधानो हेतुर्निमित्तम् यथा क्षित्यादि । प्रधानकारणीभूताः इत्युक्तवात् । असाधारण्यम् प्राधान्यम् , यथा बीजशक्तिः ।। 34 ।।

न कर्माविभागादिति चेन्नानादित्वादुपपद्यते

चाभ्युपलभ्यते च ।। 2-1-35 ।।

प्राक्सृष्टेः क्षेत्रज्ञा नाम न सन्ति । ... ... विचित्रसृष्टियोगात् ब्रह्मैव जगत्कारणम् ।। 35 ।।

न कर्माविभागादिति चेन्नानादित्वादुपपद्यते चाप्युपलभ्यते च । अपि शब्दार्थमाह - तदनादित्वेऽपि इति । च - अर्थमाह - अकृत इति ।।

सर्वधर्मोपपत्तेश्च ।। 2-1-36 ।।

प्रधानपरमाण्वादीनां कारणत्वे ... ... ब्रह्मैव जगत्कारणमिति स्थितम् ।। 36 ।।

इति प्रयोजनवत्त्वाधिकरणम् - 10

इति श्रीभगवद्रामानुजविरचितेशारीरकमीमांसाभाष्ये

द्वितीयस्याध्यायस्य प्रथमः पादः ।।

सर्वधर्मोपपत्तेश्च । एतत्पादसर्वाधिकरण शेषभूतमिदं सूत्रम्

।।इति प्रयोजनवत्त्वाधिकरणम् - 10

इति हरिकुलतिलकवाग्विजयिसूनुना श्रीरङ्गराजदिव्याज्ञालब्धवेदव्यासापर-

नामधेयेन श्रीमद्वरदाचार्यपादसेवासमधिगत श्रीभगवद्रामानुजविरचित -

शारीकमीमांसाभाष्यहृदयेन श्रीसुदर्शनसूरिणा विलिखितायां

श्रुतप्रदीपिकायां द्वितीयाध्यायस्य प्रथमः पादः ।।


च्ड्ढड़दृदड्ड घ्ठ्ठड्डठ्ठ

द्वितीयाध्याये द्वितीयः पादः ।।

1. रचनानुपपत्त्यधिकरणम् ।।

रचनानुपपत्तेश्च नानुमानं प्रवृत्तेश्च ।। 2-2-1 ।।

उक्तं जगज्जन्मादिकारणं परं ब्रह्मेति । ... ... अतस्त्रिगुणं जगत् गुणत्रयसाम्यरूपप्रधानैककारणमिति निश्चीयते ।।

रचनानुपपत्तेश्च नानुमानं प्रवृत्तेश्च । पादपञ्चकार्थमनुवदन् सङ्गतिमाह - उक्तम् इत्यादिना । स्वपक्षे कारणविषयपरोक्तदोषः परिहृतः । परपक्षे कारणविषयदोष उच्यते इति सङ्गति #ः । अनेन तृतीयपादस्य द्वितीयत्वशङ्का व्युदस्ता , तस्य कार्यविषयत्वात् ।।

कापिलनिरासप्राथम्ये हेतुमाह - तत्र इति । आदि शब्दात् चदुर्विंशतितत्त्वाङ्गीकार उच्यते । पौनरुक्त्यमाशङ्क्याह - ईक्षतेः इति । तत्सङ्ग्रहश्लोकं व्याचष्टे - मूलप्रकृतिर्नाम इति । उपष्टम्भनम् - पराभिभवः । येन केनाप्याकारान्तरेण साम्यशङ्काव्युदासायाह - अन्यून इति । निर्धर्मकः - ज्ञातृत्वरहितः निरस्तप्रायः - त न्निरासः फलित इत्यर्थः ।।

ते चैवम् इत्यादिना स्थलशुद्धिः कृता । भेदानाम् इत्यादिश्लोकं व्याचष्टे - अयमर्थः इति । सरूपकारणकत्वमस्तु , कथं प्रधानसिद्धिरिति शङ्कायां समन्वयात् इति पदं व्याचष्टे - सत्त्वरजस्तमोमय इति । जगत् विचित्रसन्निवेशत्वात् कार्यम् ; कार्यत्वात् सरूपकारणकम् इत्यनुमितिः । कार्ये सुखदुःखमोहान्वयात् परिमितस्य कारणत्वेऽनवस्थितेश्च प्रधानं कारणमिति पक्षधर्मताबलसिद्धम् ।।

अत्रोच्यते - रचनानुपपत्तेश्च नानुमानं प्रवृत्तेश्च ... ... कार्यारंभायैव परिमितत्वमवश्याश्रयणीयम् ।। 1 ।।

अत्रोच्यते इत्यादि । अधिष्ठितदार्वादेः चेतनस्य च व्यावर्तकं हेतुपदद्वयम् । प्रत्यनुमानोपयोगिनीं व्याप्तिं शिक्षयति - यदेवम् इति । निमित्तानुमिताविव विशेषविरोधप्रसङ्गोपयोगिनीं वा । दृष्टान्तेऽन्वयव्यतिरेकौ दर्शयन् वाक्यार्थमाह - दार्वादेः इति । चकारात् इति । कार्यान्वितमृदादेरिव सत्त्वादिमयसुखादेः कार्ये अन्वयात् सत्त्वादीनां कारणत्वमिति यत् , तत् शौक्ल्यादावनैकान्तिकतया दृष्टमित्यर्थः । गुणा इति इति । स्वारस्यं चाभग्नमिति भावः ।।

जगत् प्राज्ञानधिष्ठिता चित्कारणकं न भवति , कार्यत्वात् ; यत् कार्यं , तदभिज्ञाधिष्ठिताचित्कारणकं यथा घटः इत्यनुमानम् । प्राज्ञाधिष्ठिताचित्कारणकत्वप्रसङ्गः

इति वा । ननु एवम् ईश्वरानुमितिनिरासो व्याहतः । कार्यत्वादिना चेतने सिद्धे , इन्द्रियादिसृष्टेः प्राक् तदनपेक्षाधिष्टातृतया विशेषसिद्धिरिति । नैवम् । विषमावस्थस्य कार्यारंभकदृष्ट्या समावस्थं कारणमसिद्धम् । सिद्धेऽपि न त्वदीप्सितसिद्धिरिति अभ्युपगमेनोक्तः । अनधिष्ठितस्याचितो दार्वादेरिवानारम्भकत्वाप्रसङ्गः इति वा ।।

यच्च इत्यादि । अत एव - अनेकत्वादेव । अनेकत्वाभ्युपगमं दर्शयति - साम्य इति । ततः किमित्यत्राह - अतः इति । अपरिमितत्वात् व्यवस्था इत्यत्राह - न च इति । कथमित्यत्राह - अपरिमितत्वे हि इति । पृथुकार्यारम्भोऽनेकेषां संयुक्तपार्श्वैः संयोगवत्त्वात् , तच्च परिमितत्वात् , तच्च वैषम्यात् ; मितानां विषमाणां च सकारणकत्वात् , तेषामपि कारणानामीदृशत्वादनवस्थेत्यर्थः ।।

यत्र रथादिषु स्पष्टं चेतनाधिष्ठितत्वं , ... ....

पयोऽम्बुवच्चेत् तत्रापि ।। 2-2-2 ।।

यदुक्तं प्रधानस्य प्राज्ञानधिष्ठितस्य ... ... न प्राज्ञाधिष्ठितत्वं पराकृतम् , योऽप्सु तिष्ठन् इत्यादिश्रुतेः ।। 2 ।।

अनन्तरसूत्रमवतारयति - यत्र इति । क्षीरादिदृष्टान्तेन प्राज्ञानधिष्ठितत्वं साधयसि चेत् , तत् पक्षीकृतमित्याहेत्यर्थः ।।

पयोऽम्बुवच्चेत् तत्रापि । आद्यशब्दात् चक्रभ्रमणव्युदासः । स्पन्दः - अन्यथा भावः , न चु चलनम् । प्रतिप्रति - प्रतिवस्तु गुणोन्मेषविशेषात् । प्रागुक्तेन विरुद्धमिदमित्याशङ्क्याह - उपसंहार इति ।।

व्यतिरेकानवस्थितेश्चानपेक्षत्वात् ।। 2-2-3 ।।

इतश्च सत्यसङ्कल्पेश्वराधिष्ठानानपेक्ष ... ... क्षिपाम्यजस्रमशुभाना सुरीष्वेव योनिषु ।। इति च ।।

व्यतिरेकानवस्थितेश्चानपेक्षत्वात् । अवाप्ता एव कामाः इति अवाप्तसमस्तकामः । अब्भक्ष इतिवत् । अवाप्तव्यं नेत्यर्थः । तत्र हेतुः परिपूर्णत्वम् गुणविभूत्यादिभिः । विभूत्यादेरनुकूलत्वमाह - अनवधिक इति । निरवद्यस्य - अकर्मवश्यस्य । निरञ्जनस्य - सत्त्वादिरहितस्य । अतः इच्छाद्यभावान्न सर्गादिरित्यर्थः । परि इति । परिणामविशेषप्रतीक्षणान्न स्वातन्त्र्यहानिः तस्य स्वसङ्कल्पाधीनत्वात् । यथासङ्कल्पं प्रवृत्तिक्षमत्वं हि स्वातन्त्र्यम् ।।

ननु इत्यादिना कृतं चोद्यं परिहरति - अनभिज्ञ इति । कपिलागमव्यावृत्त्यर्थमाह - शास्त्रं च इति । शास्त्राभिज्ञैरुक्तमित्याह - तथा चाह इति । बिभर्ति - आराधनतया स्वीकरोति । पापस्य तदपचाररूपत्वज्ञापनायाह - तथा च भगवता इति ।।

स भगवान् पुरुषोत्तमोऽवाप्तसमस्तकामः ... ... अतः प्राज्ञानधिष्ठितं प्रधानं न कारणम् ।। 3 ।।

एभिर्वचनैः कथं चोद्यपरिहारः कृतः ? दयालुः कथम हिते प्रवर्तयति ? कर्मसापेक्षनिग्रहानुग्रहत्वे स्वातन्त्र्यहानिः ; स्वतन्त्रश्चेत् जीवानां फलान्वयो न स्यात् , स्वतन्त्रकर्तर्येव फलान्वयस्य युक्तत्वात् इत्यत्राह स भगवान् इ ति । उभयलिङ्गत्वं , तत्कृतवैलक्षण्यं , सापेक्षत्वव्युदासः , फलदानानुगुणज्ञानादिमत्त्वं

च दर्शितं भगवान् इत्यादिपदैः । बह्वायासस्य लीलात्वायोगं व्युदस्यति - स्वमाहात्म्य इति । स्वतन्त्रश्चेत् पुण्यापुण्ये विपर्ययेणकल्पयेदित्यत्राह - एतानि इति। अनादितद्व्यवस्था च अनादितत्स्वातन्त्र्याधीनेत्यर्थः ।।

सर्वप्रवृत्तेः तदिच्छाधीनत्वे जीवानां न फलान्वयः स्यादित्यत्राह - तदुपादान इति । प्रवृत्तस्य प्रवर्तकः अनुमन्ता । परापेक्षा दर्शिता । जीवानां स्वातन्त्र्यावकाशं दर्शयति - क्षेत्रज्ञास्तु इति । स्वयमेव प्रथमप्रवृत्तितदनुगुणेच्छाज्ञानेषु भगवानुपेक्षक इत्यर्थः । ततः किमित्यत्राह - अतः स्वातन्त्र्य इति । आदि शब्दान्निर्दयत्वमुक्तम्। जीवानां फलान्वयायोगश्च । दयास्वरूपं शिक्षयति - दया हि इति । उपजीविनामुपजीव्यदुःखासहिष्णुत्वव्यावृत्त्यर्थमाह - स्वार्थ इति । तस्या अस्थाने दोषमाह - सा च इति । तर्हि साऽनवकाशेत्यत्राह - स्वशासन इति । प्रीतिपूर्वकं ददामि इत्यन्वयः , सततयुक्तानाम् इति क्तस्याशंसार्थत्वात् । न चेत् भजताम् इति पुनरुक्तिः ।

सामान्येन धारकत्वकरणकलेवरप्रदत्वानुमन्तृत्वफलप्रदत्वैरीश्वरापेक्षत्वात् सर्वतादधीन्यम् । प्रवृत्तिविशेषेषु जीवस्य स्वातन्त्र्यात् फलान्वयः । न च कृत्स्नस्य ईश्वराधीनत्वहानिः , तत्स्वातन्त्र्यस्यापि तदधीनत्वात् । न च व्याहतिः । अमात्यादिस्वातन्त्र्यस्य नृपाधीनत्वदृष्टेः । फलान्वयश्चामात्यादेः । ईश्वरः प्रथमप्रवृत्तावुपेक्षकः , ततोऽनुमन्ता । उन्मस्तकप्रीत्यप्रीतिकारिषु प्रयोजयिता च उपेक्षा च स्वातन्त्र्यात् । तच्च न दोषः । धर्मिग्राहकत्वात् । अनुमतिश्च दण्डकल्पा । नृपादिषु दृष्टेः । दया चेन्न गुणः , निग्रहश्चेन्न दोषः अस्थानपातिनोस्तयोः विपरीतरूपत्वदर्शनात् । ततो हेतुरनेकान्तः । राज्ञो

दण्ड्यदण्डनं शास्त्रवश्यत्वात् गुण इति चेत् दयाऽपि तथेत्यशास्त्रवश्ये ईश्वरे यथाशास्त्रं गुण इत्युपेत्यम् । दयावकाशस्तु दर्शित इति न काऽप्यनुपपत्तिः। उपसंहरति - अतः इति । अतः ब्रह्मकारणवादस्य निर्दोषत्वात् तवैव दोषस्थितेरित्यर्थः ।।

अथ स्यात् - यद्यपि प्राज्ञानधिष्ठितायाः ... ...

अन्यत्राभावाच्च न तृणादिवत् ।। 2-2-4 ।।

नैतदुपपद्यते । तृणादेः ... ... अत्र प्रपञ्चितं तत्रैव व्यभिचारप्रदर्शनाय

।। 4 ।।

उत्तरसूत्रशङ्कामाह - अथ स्यात् इति । केवलदार्वादिव्यवच्छेदायचित्सन्निधिरेवालम् , न तु सङ्कल्पविशेषवत्पुरुषावश्यंभावः । गवि सुप्तायामपि तद्भुक्त- तृणादेः क्षीरत्वापत्तिदर्शनात् न च तदपि पक्षीकार्यम् । तावता कार्ये संभवति , अधिकक्लृप्तिरयुक्तेति भावः ।।

अन्यत्राभावाच्च न तृणादिवत् । अनडुदाद्यपयुक्तं प्रहीणं वा इति पदद्वयेन चित्सन्निधिमात्रवतः केवलस्य चाचितः परिणामे दृष्टान्तत्वं दूषितम् । सङ्कल्पविशेषान्वितचेतनविशेषाधिष्ठानं तु परानिष्टमित्यभिप्रेतम् प्राज्ञानधिष्ठितम् इति पदेन प्रपञ्चितम् । केवलदार्वादिव्यवच्छेदकेन सङ्कल्पाद्यशक्तचित्सन्निधिमात्रेण परिणामे दृष्टान्तोऽस्तीत्यधिका शङ्काऽत्र परिहृतेति भावः ।। तत्रैव - पयोदृष्टान्ते एव ।। 4 ।।

पुरुषाश्मवदिति चेत् तथाऽपि ।। 2-2-5 ।।

अथोच्येत - यद्यपि चैतन्यमात्रवपुः ... .. नित्यमुक्तत्वेन बन्धाभावोऽपवर्गाभावश्च ।। 5 ।।

पुरुषाश्मवदिति चेत् तथाऽपि । उपभोग शब्देन दर्शनशब्दो व्याख्यातः । विभुत्वात् समीपगमनानपेक्षा चेत् नित्यसर्गप्रसङ्गः उक्तः ।।

अङ्गित्वानुपपतेश्च ।। 2-2-6 ।।

गुणानामुत्कर्षनिकर्षनिबन्धनाङ्गिभावाद्धि ... ... अतश्च न प्राज्ञानधिष्ठितं प्रधानं कारणम् ।। 6।।

अङ्गित्वानुपपत्तेश्च । एवमन्तेन परोक्तानुमितेर्विशेषविरोध उक्तः ।।

अन्यथाऽनुमितौ च ज्ञशक्तिवियोगात् ।। 2-2-7 ।।

दूषितप्रकारातिरिक्तप्रकारान्तरेण ... ... अतो न कथञ्चिदप्यनुमानेन

प्रधानसिद्धिः ।। 7 ।।

अनुमानान्तरेऽप्युक्तमतिदिशति - अन्यथाऽनुमितौ च ज्ञशक्तिवियोगात् । ज्ञातृत्वे सति हि सङ्कल्पादधिष्ठात्रन्तरानपेक्षप्रवृत्तिसंभवः । तच्च नेति नित्यसर्गप्रसङ्गः इत्यर्थः ।। 7 ।।

अभ्युपगमेऽप्यर्थाभावात् ।। 2-2-8 ।।

अनुमानेन प्रधानसिद्ध्यभ्युपगमेऽपि ... ... प्रकृतिसन्निधानस्य नित्यत्वेन कदाचिदप्वपवर्गो न सेत्स्यति ।। 8 ।।

अभ्युपगमेऽप्यर्थाभावात् । नित्यनिर्विकारस्य भोगापवर्गायोग उक्तः ।। 8 ।।

विप्रतिषेधाच्चासमञ्जसम् ।। 2-2-9 ।।

विप्रतिषिद्धं चेदं सांख्यानां दर्शनम् । .... ... ब्रह्मणोऽयमेव स्वभाव इत्युपाधिसंबन्धाद्यनुपपत्तेरसामञ्जस्यं पूर्वमोवोक्तम् ।। 9 ।।

तथाऽपि तदभ्युपगमशङ्कायामनन्तरसूत्रम् - विप्रतिषेधाच्चासमञ्जसम् । परार्थत्वप्रतियोग्याकारः अधिष्ठातृत्वं - स्वातन्त्र्यम् । साक्षिस्वरूपेण अनुसन्धाता ।
द्रष्टा - इन्द्रियादिभिः । त्रिगुणादिविपर्ययात् त्रिगुणतत्कार्यस्य जडस्य अधिष्ठातृत्वायोगात् । कैवल्यार्थप्रवृत्तेश्च - न हि त्याज्यमेव त्यागकर्ता । उक्तार्थेषु विप्रतिषेधं दर्शयति - साक्षित्व इत्यादिना । स च इति । चेतनधर्म त्वात् न प्रकृतेः विकारत्वान्न पुरुषस्येत्यर्थः । पुरुषस्य स्वात्मदर्शनम् इति । पुरुषकर्तृकदर्शनम् । स्वकर्तृकत्वेन नाध्यस्यति च इत्यर्थः ।।

सांख्यपक्षनिरासो मृषावादिनां स्वकण्ठग्रहीत्याह - येऽपि इति । नित्यनिर्विकारत्वात् अध्यासाद्यनुपपत्तिः । दृश्यत्वबाध्यत्वाभ्युपगमात् इति । अविद्यानुभवतद्बाधकज्ञानरूपविकारौ नोपपद्येते इत्यर्थः । अयमेव निर्विकारत्वनिर्दोषत्वादिरेव । उभयलिङ्गकत्वश्रुतिविरोधोऽभिप्रेतः । यद्वा

उपाधिसंबन्धित्वात् सदुःखम् ; वृहत्त्वात् दुःखप्रतिभटम् इत्येवं विरुद्धोऽयं स्वभावः स्यादिति असामञ्जस्यम् इत्यर्थः ।। 9 ।।

इति रचनानुपपत्त्यधिकरणम् - 1

- -----

2. महद्दीर्घाधिकरणम् ।।

महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम् ।। 2-2-10 ।।

प्रधानकारणवादस्य युक्त्याभासमूलतया ... ... तदभ्युपगतं सर्वमसमञ्जसमित्येव सूत्रार्थः ।। 10 ।।

महद्दीर्घवद्वा हस्वपरिमण्डलाभ्याम् । प्रकृति परमाण्वोरानुमानिकत्वात् तन्निरासो सङ्गतौ । द्व्यणुकत्रयाद्धि त्र्यणुकोत्पत्तिः न तु द्व्यणुकपरमाणुभ्यामित्यत्राह - परमाणुभ्यः इति । अणुह्रस्वस्यापि प्रदर्शनार्थं महद्दी पादानमित्यर्थः , महद्दीर्घाणुहस्वोत्पत्तिवत् इति वक्ष्यमाणत्वात् । सर्षपमहीधरयोरेवासिद्धेः इति । सांशत्वे अवयवानन्त्यात् वैषम्याख्यधर्मासिद्धिः । तत्परिजिहीर्षया निरंशत्वे धर्मिणोरेव सर्षपमहीधरावयविनोः असिद्धिरित्यर्थः । किं कुर्मः ? किं मतमवलम्बनीयमित्यर्थः । वैदिकः - युक्तिबाधागोचरः इति भावः । असङ्गतम् - पादासङ्गतम् । असङ्गतिपुनरुक्ती ग्रन्थद्वयेनोपपादयति - ब्रह्म इत्यादिना ।। 10 ।।

किमत्रान्यदसमञ्जसमित्यत्राह -

उभयधाऽपि न कर्मातस्तदभावः ।। 2-2-11 ।।

परमाणुकारणवादे हि ... ... अतो जगदुत्पत्तेरणुगतकर्मपूर्वकत्वाभावः ।। 11 ।।

अनन्तरसूत्रस्य शङ्कामाह - किमत्र इति । उभयधाऽपि न कर्मातस्तदभावः आत्मगतस्य इति । व्यधिकरणत्वादित्यर्थः । विपाकः - फलार्हदशा ।। 11 ।।

समवायाभ्युपगमाच्च साम्यादनवस्थितेः ।। 2-2-12 ।।

समवायाभ्युपगमाच्चासमञ्जसम् ... ... समवायमभ्युपगम्य तस्यैष स्वभाव इति कल्पयितुं युक्तम् - इति ।। 12 ।।

समवायाभ्युपगमाच्च साम्यादनवस्थितेः । अवयवादीनां कथमुपपादकापेक्षा ? कथमस्य तत्साम्यं स्वपरनिर्वाहकस्येत्यत्राह - एतदुक्तम् - इति ।। 12 ।।

समवायस्य नित्यत्वे अ#िनित्यत्वे च .... ....

नित्यमेव च भावात् ।। 2-2-13 ।।

समवायस्य संबन्धत्वात् ... ... जगतश्च नित्यमेव भावादसमञ्जसम्

।। 13 ।।

नित्यमेव च भावात् । ततश्च नित्यत्वात् कारणभूतपरमाण्वीश्वरक्लृप्तिरयुक्तेति भावः ।। 13 ।।

रूपादिमत्त्वाच्च विपर्ययो दर्शनात् ।। 2-2-14 ।।

परमाणूनां पार्थिवाप्यतैजस ... ... रूपादिमत्त्वं त्वया कल्प्यते । अतोऽप्यसमञ्जसम् ।। 14 ।।

रूपादिमत्त्वाच्च विपर्ययो दर्शनात् । परमाणूनामयं विशेषो यन्नित्यत्वादिना घटादिवैधर्म्यमित्यत्राह - न हि इति ।। 14 ।।

अथैतद्दोषपरिजिहीर्षया परमाणूनां ......

उभयधा च दोषात् ।। 2-2-15 ।।

न केवलं परमाणूनां रूपादिमत्त्वाभ्युपगमृ ... ... पूर्वोक्तदोष इत्युभयधा च दोषादसमञ्जसम् ।। 15 ।।

उभयधा च दोषात् । अन्यथा इत्यनुक्तत्वात् शिरोन्तरं नेति भावः ।। 15 ।।

अपरिग्रहाच्चात्यन्तमनपेक्षा ।। 2-2-16 ।।

कापिलपक्षस्य श्रुतिन्यायविरोध ... ... अत्यन्तमनपेक्षैव निःश्रेयसार्थिभिः कार्या ।। 16 ।।

अपरिग्रहाच्चात्यन्तमनपेक्षा । अत्यन्त शब्दव्यावर्त्यमाह - कापिल इति । श्रुतिविरोधो दूषणतयोक्तः ।। 16 ।।

इति महद्दीर्घाधिकरणम् -2




3. समुदायाधिकरणम् ।।

समुदाय उभयहेतुकेऽपि तदप्राप्तिः ।। 2-2-17 ।।

परमाणुकारणवादिनो वैशेषिकाः ... ... स च ज्ञातैवेति चोपपादितं पुरस्तात् ।। 17 ।।

समुदाय उभयहेतुकेऽपि तदप्राप्तिः ।

परमाणुषु चातुर्विध्यैकान्तत्वोपगमसाम्यात् सङ्गतिः । सौगतेषु परमाणुकारणवादिनो विवेक्तुं तद्विधाभेदं दर्शयति - ते च इति । अणूपगमवतोर्द्वयोः प्रस्तावात् ईतरयोस्तत्साजात्यात् सङ्गतिरिति भावः ।।

चित्त इति । चित्तं - विज्ञानसन्तानः । चैत्तं - रागादिकम् । रूपस्कन्धोऽपि

चित्तविषयत्वात् चित्तचैत्तान्तर्गत इति वाचस्पत्यादयः । रूपस्कन्धव्यतिरिक्तस्कन्धचतुष्टयं चित्तचैत्तान्तर्गतमिति भास्करीये । भूतेन्द्रियविषयो रूपस्कन्धः । अहमिति ग्राहकत्वाभिमानारूढो ज्ञप्तिसन्तानः विज्ञानस्कन्धः । प्रियाप्रियानुभवजनितसुखदुःखस्य चित्तस्य अवस्थाविशेषः - वेदनास्कन्धः । सविकल्पकप्रत्ययः - संज्ञास्कन्धः । रागद्वेषादयः - संस्कारस्कन्धः । तत्प्राप्तिः - समुदायत्वप्राप्तिः । व्याप्रियन्त इति व्यापारः - चलनम् । किं शब्दः क्षेपे । स्पृशति - इन्द्रियेण संबन्धं करोति । कदा - न कदाचित् । तदेवोपपादयति - स्पृष्ट्वा हि इति । ततः किमित्यत्राह - कथम् इति । ज्ञानस्यात्मत्वमयुक्तमित्याह अहमर्थ एव इति । उभयहेतुक पदं न ब्राह्यान्तरहेतुकत्वपरम् । चित्तचैत्तानां

सङ्घातत्वायोगात् । अतोऽर्थान्तरोक्तिः ।। 17 ।।

इतरेतरप्रत्ययत्वादुपपन्नमिति चेन्न सङ्घात भावानिमित्तत्वात् ।। 2-2-18 ।।

अविद्यादीनामितरेतरहेतुत्वेनोपपन्नं ... ... संस्कारानुवृत्तिरपि न शक्या कल्पयितुम् ।। 18 ।।

इतरेतरप्रत्ययत्वादुपपन्नमिति चेन्न सङ्घातभावानिमित्तत्वात् । अयं सम्यक् पाठः । आदि शब्दात् ज्ञानविषयत्वव्यवहारग्रहणम् । अविद्यादयः के , कथं तेषामन्योन्यहेतुत्वं कथं च तेन संघटितभावोपपत्तिः इत्यत्राह एतदुक्तम् इति । एतश्च इति । एतत् - अविद्यादिभिः सङ्घातः , सङ्घातादविद्या इत्युपलभ्यमानं चक्रकम् अविद्यादिहेतुभूतसङ्घातानभ्युपगमे नोपपद्यत इत्यर्थः । शुक्ति इति । न हि शुक्तौ रजतभ्रमः शुक्तिद्वयसंहतिहेतुरित्यर्थः । सूत्राभिप्रेतमाह - किं च इति । संस्कारेणेति चेत् तत्राह - संस्काराश्रयम् इति ।। 18 ।।

उत्तरोत्पादे च पूर्वनिरोधात् ।। 2-2-19 ।।

इतश्च क्षणिकत्वपक्षे जगदुत्पत्तिः ... .... न कस्यचिदर्थस्य ज्ञानविषयत्वं संभवति ।। 19 ।।

उत्तरोत्पादे च पूर्वनिरोधात् । घटक्षणस्तद्देशसन्तानस्थघटक्षणान्तरहेतुरिति चायुक्तम् । देशान्तरनयने घटक्षणादुत्पत्तिप्रसङ्गादिति भावः । उत्पत्तावुक्तो दोषो ज्ञप्तावपि तुल्य इत्याह - किं च इति ।। 19 ।।

असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा ।। 2-2-20 ।।

असत्यपि हेतौ कार्यमुत्पद्यते ... ... इन्द्रियसंप्रयोगज्ञानयोर्यौगपद्यं प्रसज्येत ।। 20 ।।

असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा । क्षणिकत्वं स्थितमेवेति चेत् इति । उत्तरक्षणः पूर्वक्षणवर्तीति चेदित्यर्थः । दूषयति इन्द्रियस्य इति । कार्यकारणभावभङ्गप्रसङ्गः इत्यर्थः । ज्ञानतत्कारणयौगपद्यापादनमर्थेष्वपि घटादिषु प्रदर्शनार्थम् ।।20।।

प्रतिसंख्याप्रतिसंख्यानिरोधाप्राप्ति रविच्छेदात् ।। 2-2-21 ।।

एवं तावदसत उत्पत्तिर्निरस्ता ... ... तत्रापि अवस्थान्तरापत्तिकल्पनस्यैव युक्तत्वात् ।। 21 ।।

प्रतिसंख्याप्रतिसंख्यानिरोधाप्राप्तिरविच्छेदात् । प्रतिपादितः इति । अनुपलब्धिकल्पकान्यथासिद्धिभ्यामित्यर्थः । निश्चिते - अबाधितप्रत्यभिज्ञयेति भावः ।। 21 ।।

उभयधा च दोषात् ।। 2-2-22 ।।

क्षणिकत्ववादिभिरभ्युपेता तुच्छादुत्पत्तिः ... ... न भवदुक्तप्रकारावुत्पत्तिनिरोधौ ।। 22 ।।

उभयधा च दोषात् । न च प्रतीयते , तुच्छतया इति शेषः ।।

आकाशे चाविशेषात् ।। 2-2-23 ।।

बाह्याभ्यन्तरवस्तुनः स्थिरत्व ... ... पञ्चीकरणेन रूपवत्त्वात् चाक्षुषत्वेऽप्यविरोधः ।। 23 ।।

आकाशे चाविशेषात् । क्षणिकत्वनिरासानुपयोगात् प्रसङ्गात् सङ्गति #ः

।। 23 ।।

अनुस्मृतेश्च ।। 2-2-24 ।।

पूर्वप्रस्तुतं वस्तुनः स्थिरत्वमेव ... ... न ह्यन्येनोपक्रान्तमजानद्भिः अन्यैः समापयितुं शक्यम् ।। 24 ।।

अनुस्मृतेश्च । तच्च इति । तर्कानुगृहीतप्रत्यभिज्ञा बलीयसीति भावः । प्रत्यक्षानुमित्योः साधारणं दूषणमुक्तम् । प्रत्यक्षं प्रतिवक्ति किं च इति । व्यावृत्तिर्गमयति इति गम्यगमकत्वनिर्देशो लोकप्रसिद्ध्यनुसारात् । वर्तमानकालयोग एव हि अवर्तमानात् व्यावृत्तिः । पूर्वोत्तरावस्थातो वर्तमानत्वावस्थाभेदश्चेति क्षणिकत्वसाधकतयोच्यते । एकस्य नीलत्वोत्पलत्वयोगवत् कालद्वययोगाविरोधात् न

क्षणिकत्वसाधकता । अभिमतविपरीत इति । विपर्ययेणापि व्याप्तिसंभवात् विरुद्धार्थस्यापि साधकमिति । विरुद्धम् - विपरीतम् । प्रकरणसममित्यर्थः ।।

अर्थक्रियाकारित्वं विरुद्धमेवेत्याह - किं च इति । घटक्षणसत्त्वहेतोः सोपाधिकत्वमाह - तथाऽन्त्य इति ।
पूर्वं इति । न ह्यन्यदवभास्यम् , अन्यो विषयः । अतिप्रसङ्गादित्यर्थः । प्रत्यभिज्ञायाः संस्कारसचिवेन्द्रियं सामग्री । एकस्य कालद्वयसंबन्धो विषयः । तथेदम् इति परार्थानुमित्ययोग उक्तः ।। 24 ।।

नासतो दृष्टत्वात् ।। 2-2-25 ।।

एवं तावत् सौत्रान्तिकवैभाषिकयोः .... .... ज्ञानवैचित्र्यमर्थस्य ज्ञानकालेऽवस्थानादेव भवति ।। 25 ।।

नासतो दृष्टत्वात् । उत्तरोत्पादे इत्यादिसूत्रषट्कं दृष्टानुबन्धिदूषणपरमिति , तदनन्तरं तत्परिहाराय सौत्रान्तिकावसरः । स ए#ूब योगाचारमतमाशङ्क्याह - न च पूर्वं इति । अत्र इत्यादि । प्रतिबिम्बादि इति आदि शब्देन स्फटिके जपाया इव छायापत्तिर्विवक्षिता ।। 25 ।।

पुनरपि साधारणं दूषणमाह -

उदासीनानामपि चैवं सिद्धिः ।। 2-2-26 ।।

एवं क्षणिकत्वासदुत्पत्त्यहेतुक ... .... उदासीनानामप्यैहिकामुष्मिकफलं मोक्षश्च सिद्ध्येत् ।। 26 ।।

उदासीनानामपि चैवं सिद्धिः । प्रसङ्गस्यानिष्टत्वमाह - इष्ट प्राप्तिः इति । संस्कारादिः स्वर्गाय ; विद्यादिः मोक्षाय ।। 26 ।।

इति समुदायाधिकरणम् -3




4. उपलव्ध्यधिकरणम् ।।

नाभाव उपलब्धेः ।। 2-2-27 ।।

विज्ञानमात्रास्तित्ववादिनो योगाचाराः ... ... द्रव्यत्वमविरुद्धमित्युक्तम् । अतो न बाह्यार्थाभावः ।। 27 ।।

नाभाव उपलब्धेः। वैचित्र्यं कथमित्यत्राह - तच्च इति । विजातीयज्ञानोत्पत्तिः कथमित्यत्राह - यद्घटाकार इति । यथा अर्थस्य विजातीयोत्पादकत्वमुपगतम् तद्वदिति भावः । ज्ञानार्थयोः इति । यथा चन्द्रयोरिति भावः ।।

एवं प्राप्ते इति । एवंरूपेण इति । ज्ञानेतरापारमार्थ्यं किमनेन वा ज्ञानान्तरेण वा साध्यते ? प्रथमेऽपरेक्षतया भातत्वाविशेषात् ज्ञानमपि तथा किं न स्यात् । द्वितीयमनुपलब्धिहतमिति भावः ।।

सहधीनियमं परिहरति - यत् तु इति । अभेदहेतुनियमोऽतीव भेदसाधक इत्याह - तत् इति । संबन्धश्च इति । संबन्धः - साक्षात्संबन्धः । द्रव्यस्य कथं नियतप्रकारत्वमित्यत्राह - प्रभा इति ।। 27 ।।

यत् परैः स्वप्नज्ञानदृष्टान्तेन .... ...

वैधर्म्याच्च न स्वप्नादिवत् ।। 2-2-28 ।।

स्वप्नज्ञानवैधर्म्यात् जागरित ... ... ज्ञानत्वस्यानैकान्त्यात् सुतरामर्थशून्यत्वासिद्धिः ।। 28 ।।

अनन्तरसूत्रमवतारयति - यत् परैः इति । वैधर्म्याच्च न स्वप्नादिवत् । स्वाप्नार्थमिथ्यात्वाभ्युपगमेनोक्तम् । तत्सत्यत्वं हि वक्ष्यते सूत्रकारैः ।।

न भावोऽनुपलब्धेः ।। 2-2-29 ।।

न केवलमर्थशून्यस्य ज्ञानस्य .... ... नार्थशून्यत्वमिति ख्यातिनिरूपणे प्रतिपादितम् ।। 29 ।।

न भावोऽनुपलब्धेः । क्वचिदपि इति । सुषुप्तौ धर्मिस्फुरणमेव , न तु धर्मधीस्फुरणमिति भावः ।। 29 ।।

इति उपलब्ध्यधिकरणम् - 4




5. सर्वथानुपपत्त्यधिकरणम् ।।

सर्वथाऽनुपपत्तेश्च ।। 2-2-30 ।।

अत्र सर्वशून्यवादी माध्यमिकः .... ..... सर्वथा सर्वशून्यत्वं चानुपपन्नम् ।। 30 ।।

सर्वथाऽनुपपत्तेश्च । प्रयोजनाभावाच्च इति । स्वसत्ता ह्युत्पत्तेः फलम् । सा प्रागेवास्तीति नोत्पत्तेः फलमित्यर्थः । इति प्राप्ते इति । सत् इति । दृष्टान्तार्थमुक्तम् । घटः स्वापेक्षया सन् , कपालापेक्षया असन् । अतः सदसदात्मकत्वं च युक्तम् । अनुभयात्मकं च घटो हि स्वापेक्षया नासन् ; कपालापेक्षया न सन् अनुभयात्मकं नेति तु

उभयात्मकसदसदिति उक्तं स्यात् इत्यवस्थाविशेषयोगात् तुच्छत्वासिद्धिः । सर्वथा - शब्देन मानकल्पनानुपपत्तिश्चाभिप्रेता इति मन्वान आह - किं च इति । अधिकरणत्रयात्मकः सौगतनिरासः ।। 30 ।।

इति सर्वथाऽनुपपत्त्यधिकरणम् - 5




6. एकस्मिन्नसंभवाधिकरणम् ।।

नैकस्मिन्नसंभवात् ।। 2-2-31 ।।

निरस्ताः सौगताः । जैना अपि ... ... ईश्वरानधिष्ठितपरमाणुकारणवादे पूर्वोक्तदोषास्तथैवावतिष्ठन्ते ।। 31 ।।

नैकस्मिन्नसंभवात् । एकान्तत्वात् चातुर्विध्योपगमसाम्यात् काणादसौगतनिरासयोः सङ्गतत्वात् सौगतानन्तरमार्हतनिराससङ्गतिः । स्थितिहेतुभूतः - स्थावरत्वादिहेतुः अप्रवृत्तिकर इत्यर्थः । तत्प्रयुक्तसुखदुःखोपेक्षा इत्येकराशिः । अन्यथा चतुष्टयायोगात् ।।

राद्धान्ते - आकारभेदादविरोध इत्यत्राह - एतदुक्तम् इति । द्रव्यावस्थयोर्भिन्नत्वपक्षे दूषणमाह - द्रव्यस्य इति । तयोरभेदे नाकारभेदादविरोधसिद्धिः । भेदाभेदे त्वाकारान्तरापेक्षयाऽनवस्थेति प्रागुक्तत्वान्न

कण्ठोक्तम् । प्रस्तुतविरोधः कथमित्यत्राह - तथा हि इति। सत्त्वासत्त्वनित्यत्वानित्यत्वभिन्नत्वाभिन्नत्वविरोधा उपपादिताः । पदार्थविशेषणतयैव इति । सहोपलब्धिनियमाभिप्रायेणोक्तम् , न तु जात्यादिवत् एकाश्रयत्वाभिप्रायेण सर्वपदार्थविशेषणतया कालाणुत्वनिरासः फलितः । एकस्मिन् काले अनेके पदार्थाः सन्तीति कालविशिष्टप्रतीतिः। अनैकान्त्यस्य व्यभिचारमाह - किं च इति ।। 31 ।।

एवं चात्माकार्त्स्न्यम् ।। 2-2-32 ।।

एवं भवदभ्युपगमे सति ... ... अकार्त्स्न्यं प्रसज्यते अपरिपूर्णता प्रसज्यते इत्यर्थः ।। 32 ।।

एवं चात्माकार्त्स्न्यम् । असंख्यातप्रदेशः - एकरूपसंख्याहीनदेशः । अनियतप्रदेश इत्यर्थः ।। 32 ।।

अथ सङ्कोचविकासधर्मतया ... ...

न च पर्यायादप्यविरोधो विकारादिभ्यः ।। 2-2-33 ।।

न च सङ्कोचविकासरूप ... ... दोषप्रसक्तेः घटादितुल्यत्वप्रसङ्गात्

।। 33।।

अनन्तरसूत्रशङ्कामाह - अथ इति । न च पर्यायादप्यविरोधो विकारादिभ्यः । विकारः - उत्पत्त्यादिः । तेन परिमितकालवर्तित्वम् अनित्यत्वम् ।। 33 ।।

अन्त्यावस्थितेश्चोभयनित्यत्वादविशेषः ।। 2-2-34 ।।

जीवस्य यदन्त्यं परिमाणम् ... ... असङ्गतमेवेदमार्हतमतम् ।। 34 ।।

अन्त्यावस्थितेश्चोभयनित्यत्वादविशेषः । यथा स्वरूपं मुक्तिदशास्थायि पूर्वमपि सत् । एवमन्त्यपरिमाणमपि मोक्षस्थायित्वात् पूर्वमपि सदिति न देहपरिमाणत्वसिद्धिरित्यर्थः ।। 34 ।।

इति एकस्मिन्नसंभवाधिकरणम् - 6




7. पशुपत्यधिकरणम् ।।

पत्युरसामञ्जस्यात् ।। 2-2-35 ।।

कपिलकणादसुगतार्हतमतानाम् .... ... कापालं व्रतमास्थाय यतिर्भवति मानवः ।। इति ।।

पत्युरसामञ्जस्यात् वेदविरोधित्वसाम्यात् धीस्थतया सङ्गतिः । प्रधानोपगमसाम्येऽपि सांख्यानन्तर्यमतिलङ्ध्य , आर्हतानन्तरमेतन्निरासोऽस्यात्यन्त बाह्यत्वज्ञापनाय कृतः निमित्त इति तत्त्वविरोधः । तथा इत्यनुष्ठानविरोधश्चोक्तः । मिथो व्याधातमाह - - मुद्रिका इति । मुद्रिकाघारणादयो नानातन्त्रेषूक्ताः न त्वेकत्र ।।

सिद्धान्तः

तत्रेदमुच्यते - पत्युरसामञ्जस्यात् इति । ... ... वेदविरुद्धतत्त्वोपासनानुष्ठानाभिधानात् पशुपतिमतमनादरणीयमेव ।। 35 ।।

तत्रेदम् इत्यादि । वैदिकपक्षस्य तद्वैषम्यमाह - वेदाः खलु इति । एकतां गताः - सर्वशाखाप्रत्ययनयादिति भावः । शम्भुशिवादिशब्दार्थनिष्कर्षायाह - केवल इति । यस्य पर्णमयी इति द्रव्यविशेषनिर्णयपरवाक्यवत् नारायणानुवाको

देवताविशेषनिर्णयपरः । दुह्णा जुहोति होमसाधनत्वविधिपरवाक्यवत् उपासनपरवाक्यानि तदनुगुणार्थानीति भावः ।।

कारणवाक्येषु देवतान्तरप्रतीतिरित्यत्राह - तथा इति । छागपशुन्यायोऽभिप्रेतः । यतो

वा इमानि इति वाक्याभिप्रेतत्वात् जन्मादि इति सूत्रेऽप्यभिप्रेतोऽयमर्थ इति परस्मात् पुंसः इत्यन्तेन सूचितम् ।।

अधिष्ठानानुपपत्तेश्च ।। 2-2-36 ।।

वेदबाह्यानामनुमानाद्धि केवलनिमित्त ... .... शास्त्रयोनित्वात् इत्यत्र दोषस्योक्तत्वात् ।। 36 ।।

अधिष्ठानानुपपत्तेश्च । वक्ष्यमाणदूषणस्य स्वास्पर्शित्वायाह - वेदबाह्यानाम् । इति ।। 36 ।।

करणवच्चेन्न भोगादिभ्यः ।। 2-2-37 ।।

यथा भोक्तुर्जीवस्य करणकलेवर ... .. सर्वं प्रसज्येत । अतो नाधिष्ठानसंभवः ।। 37 ।।

करणवच्चेन्न भोगादिभ्यः । शरीरत्वेन जगदधितिष्ठति चेत् भोगादिः स्यात् । न चेत् , देहान्तरापेक्षा स्यात् । शरीरे तु तदनपेक्षा शरीरत्वस्वपरनिर्वाहकत्वप्रयुक्ता

।। 37 ।।

अन्तवत्त्वमसर्वज्ञता वा ।। 2-2-38 ।।

वाशब्दश्चार्थे । पशुपतेः पुण्यापुण्य ... .... सर्वमसमञ्जसमेवेति असामञ्जस्यात् इत्युक्तम् ।। 38 ।।

अन्तवत्त्वमसर्वज्ञता वा । इवशब्दो विप्रलम्भार्थत्वद्योतकः ।।

इति पशुपत्यधिकरणम् - 7




8.उत्पत्त्यसंभवाधिकरणम् ।।

उत्पत्त्यसंभवात् ।। 2-2-39 ।।

कपिलादितन्त्रसामान्यात् भगवदभिहित ... .... न जायते म्रियते वा विपश्चित् इत्याद्याः ।। 39 ।।

उत्पत्त्यसंभवात् ।
अवान्तरसङ्गतिमाह कपिलादि इति । आशङ्क्य निराक्रियते इति पूर्वपक्षसिद्धान्त सूत्रद्वयद्विकार्थौ । कथमाशङ्का इत्यत्राह - तत्रैवम् इति ।। 39 ।।

न च कर्तुः करणम् ।। 2-2-40 ।।

सङ्कर्षणात् प्रद्युम्नसंज्ञं मनो जायते ... ... अस्यापि तन्त्रस्य प्रामाण्यं प्रतिषिद्ध्यते इति ।। 40 ।।

न च कर्तुः करणम् । कर्ता - जीवः। सङ्कर्षणादि शब्दानां जीवादि विशेषणत्वं पूर्वपक्ष्यभिमतम् । जीवादिशब्दानां सङ्कर्षणादिविशेषणत्वं तु

राद्धान्त्यभिमतम् ।। 40 ।।

एवं प्राप्ते प्रचक्ष्महे -

विज्ञानादिभावे वा तदप्रतिषेधः ।। 2-2-41 ।।

वाशब्दात् पक्षो विपरिवर्तते । ... ... यथा आकाशप्राणादिशब्दैः ब्रह्मणोऽभिधानम् ।। 41 ।।

विज्ञानादिभावे वा तदप्रतिषेधः । सिद्धान्तसूत्रतां दर्शयति - वाशब्दात् इति । अपि वा कर्तृसामान्यात् एकं वा संयोगरूपचोदनाख्याविशेषात् इतिवत् इति भावः । विज्ञानं च इति । चैतन्यस्वरूपिणे , इति परा प्रकृतिः इति च मन्त्राद्यनुसारेण ज्ञानस्वरूपपरमकारणभूतवासुदेवपरो विज्ञानादि शब्द इत्यभिप्रायः । वाक्यार्थमाह -सङ्कर्षण इति ।।

के सङ्कर्षणादयः ? कथं तेषां परब्रह्मत्वम् ? तदा कथं ब्रह्मण उत्पत्तिः ? ततश्च शास्त्रप्रामाण्यम् कथम् ? इत्यत्राह - एतदुक्तम् इति । चातुरात्म्यमुपास्यत इत्यनेन चातुर्विध्यस्य आश्रयणीयतार्थत्वसिद्धिः । स्वसंज्ञामभिः - नमोन्तैः व्यूहनामभिः । तेषां परब्रह्मत्वं कथमित्यत्राह तच्च इति । चातुरात्म्योपास्तिपरशास्त्रस्य वासुदेवाख्यब्रह्मोपासनपरत्वोक्तिः वासुदेवस्यैव चातुर्विध्ये घटते इत्यर्थः । न परं चातुरात्म्योपासनम् , विभवार्चनं चोच्यते । चे किमर्थे ? वासुदेव एव हि मोक्षदः इत्यत्राह - तद्धि इति । विभवादयः के इत्यत्राह - विभवो हि इति । चतुर्व्यूह - चतुर्विभागः । आदिशब्दोपात्तवचनेषु व्यूहविभवार्चनफलादि द्रष्टव्यम् । तेषां परब्रह्मत्वमस्तु , कथमुत्पत्तिसंभव इत्यत्राह -

अतः इति । अजायमानः इति । न परं श्रुतिविरोधाभावः , तदानुगुण्यं चेति भावः । जीवादिसामानाधिकरण्यं निर्वहति - तत्र इति ।। 40 ।।

विप्रतिषेधाच्च ।। 2-2-42 ।।

विप्रतिषिद्धा हि जीवोत्पत्तिः ... ... पञ्चरात्रशास्त्रं स्वयमेव निरमिमीतेति निरवद्यम् ।।

सङ्कर्षणादीनां विशेष्यत्वेऽनुकूललिङ्गमुक्तम् । जीवादीनां विशेष्यत्वे प्रतिकूललिङ्गमुच्यते - विप्रतिषेधाच्च । विशेषेण विविधं वा प्रतिषेधः विप्रतिषेधः , यथा तच्छास्त्रैः विप्रतिषिद्धम् इति । एतत्पादस्थयोः विप्रतिषेध शब्दयोः अर्थवैरूप्यं मुण्डोपनिषदि ब्रह्मशब्दयोरिवार्थवशादुपपद्यते । यद्वा तदुत्वत्तिनिषेधके शास्त्रे तदुत्पत्तिवचनं व्याहतम् । निषेधं दर्शयति - यथोक्तम् इति । उत्पत्तिप्रतिपादनेऽपि , तस्य श्रुतावपि दर्शनादविरोधनिर्वहणस्य च तुल्यन्यायत्वात् न शास्त्रस्य श्रुतिविरुद्धत्वमित्याह - जन्म इति । शरीरसंयोगवियोगकृतज्ञानविकास सङ्कोचरूपतया वक्ष्यते इत्यर्थः । उपसंहरति - अतः इति ।।

जीवोत्पत्त्युक्त्या शास्त्रस्याप्रामाण्यं राद्धान्तयद्भिः शास्त्राविवक्षितार्थं विवक्षितत्वेनारोप्य दूषणमुक्तं स्यादिति मतान्तरमसमीचीनम् । जीवोत्पत्त्यतिरिक्तशङ्काहेतुमनूद्य व्युदस्यति - यश्चैषः इत्यादिना । परोक्तार्थमुपगम्य परिहृतम् । अर्थान्तरं वक्तुं तद्दृष्टान्ते शिक्षयति - अथवा इति । दार्ष्टान्तिकेऽप्याह - एवम् इति । कथमिदमित्यत्राह - पश्चात् इति । वेदार्थविशिदीकरणरूपतां दर्शयति - तथा इति ।।

प्रश्नश्लोकानामुत्तररूपश्लोकः

वेदान्तेषु यथा सारं सङ्गृह्य भगवान् हरिः ।

भक्तानुकम्पया विद्वान् सञ्चिक्षेप यथासुखम् ।। इति ।

यं वाकेष्वनुकेषु निषत्सूपनिषत्सु च ।

गृणन्ति सत्यधर्माणः सत्यं सत्ये च सामसु ।।

महतो वेदवृक्षस्य मूलभूतो महानयम् ।

स्कन्धभूता ऋगाद्यास्ते शाखाभूतास्तथा मुने ।।

इत्यादि चानुसन्धेयम् ।।

वेदार्थोऽत्र विवक्षितश्चेत् वेदा एव प्रवर्तयितव्याः। किं ग्रन्थान्तरनिर्माणेन ? बुद्धागमादिवत् इदं विप्रलिप्सामूलं किं न स्यादित्यत्राह अतः स भगवान् इति ।

वेदैकवेद्यः - पुरुषत्वात् अस्मद्वत् इति तर्को बाधित इति भावः । वेदान्तवेद्यं हि ब्रह्मेत्यत्राह - परब्रह्माभिधान इति । भगवच्छब्दसमाख्यासिद्धमर्थमाह - निखिल इति । विप्रलिप्साद्यभावायाह - अपार इति । भक्तान् इति बुद्धागमादिव्यावृत्तिः ।

दुष्कृतामसुरादीनां विनाशाय हि तत्परणीतिः , न तु नारदशाण्जिल्यादि साधुपरित्राणाय णाय । इदं तु तथेति । ऋग्यजुः इति । वेदानन्त्यात् ग्रन्थान्तर - निर्माणमित्यर्थः ।।

वेदाप्रामाण्याङ्गीकारे किं बहुशस्तदर्थोक्तिः ? तदर्थवैशद्यार्थत्वकण्ठोक्तिः भारतादिषु वेदार्थपरत्वेन प्रतिपादितत्वं साधुपरित्राणाय प्रवृत्तत्व च । एतद्विपर्ययश्चास्य सुगतागमादेश्च वैषम्यम् । नारदादिश्रोतृत्वकथनं विप्रलिप्सयेति चेत् , वेदेऽप्यनाश्वासः । केनापि कृत्वाऽपौरुषेयत्वं ख्यापितमिति कथं न शक्यते ?

यत् तु - परैः सूत्रचतुष्टयं कस्यचिद्विरुद्धांशस्य ... ... यथागमं यथान्यायं निष्ठा नारायणः प्रभुः । इत्यनेनैकार्थ्यात् ।।

इति उत्पत्त्यसंभवाधिकरणम् - 8

इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये द्वितीयस्याध्यायस्य द्वितीयः पादः ।।

अथ परोक्तं सूत्रार्थमनूद्य व्युदस्यति - यत् तु इत्यादिना । अक्षराननुगुणत्वम् - वाशब्द अप्रतिषेध शब्दाननुगुणत्वम् । अभिप्रायविरोधं विवृणोति - तथा हि इति । वेदान्तन्याय इति । नान्यतरेणालम् , प्रयोजनभेदादिति भावः । अधीतशाखार्थस्य विशयविपर्ययापनोदः सूत्रफलम् । अनधीतशाखार्थैः सह तन्निष्कर्ष उपबृंहणफलम् । इदं श्रेयः - इत्यादिसामानाधिकरण्यमौपचारिकम् । एतत्प्रतिपाद्यं स्वर्गादिसाधनम् ब्रह्म प्राप्यम् । हितम्

- मोक्षसाधनम् ।।

भारतप्रशस्तत्वमस्यानैकान्तिकमिति चोदयति - ननु च इति । इदं कार्त्स्न्येन वेदाविरोधात् कृत्स्नप्रामाण्यरूपम् । एकनिष्ठत्वे तत्त्वविशेषबुभुत्सा ; पृथङ्निष्ठत्वे

मानबुभुत्सा । किं ग्रन्थकाराभिप्रायः पृष्टः , उत अर्थतत्त्वमिति विकल्पे प्रथमशिरस्युत्तरं ज्ञानान्येतानि इति । कृत्स्नस्य स्वयम् इति वक्तव्यवक्तृविशेषणद्वयं श्रूयते । एभिः उलितमाह - एवं वदतः इति ।।

न्यायानुगृहीतवस्तुपरामर्शस्वरूपमाह - अब्रह्मात्मकतया इति । ततः किमित्यत्राह - अतो वेदान्त इति । उक्तमर्थं वचनान्तरेण विशदयति - अतस्तत्रैवेदम् इति । एकीभूतानि इति । परस्पराङ्गत्वादार्थमेकत्वमुक्तम् । व्याख्येयस्थम् एकपदं पञ्चरात्रविशेषणम् । किम् अङ्गि , अङ्गानां कथमङ्गत्वम् , कस्मिन्नंशेऽपेक्षा , तत् सर्वं कथं पञ्चरात्रमासीत् इत्यत्राह - एतदुक्तम् इति । तर्हीह कथं निराकरणमित्यत्राह शारीरके च इति । सांख्यादीनां कार्त्स्न्येन प्रामाण्यपरमिव भारतं वचनं व्याचष्टे - अतः इति । सांख्यादीनां कृत्स्नप्रामाण्यं चेदुक्तं ,

तदेव वचनमप्रमाणं स्यात् , वेदविरुद्धांशेऽपि ग्रामाण्याभिधायित्वात् । अविरुद्धांशस्य स्वीकार्यत्वे बुद्धागमादावपि तथा न शङ्कनीयम् । तत्र वेदप्रामाण्यानङ्गीकारात् । अतो यथोक्त एवार्थः ।। 42 ।।

इति उत्पत्त्यसंभवधिकरणम् - 8

इति हरितकुलतिलकवाग्विजयिसूनुना श्रीरङ्गराजदिव्याज्ञालब्धवेदव्यासापर-

नामधेयेन श्रीमद्वरदाचार्यपादसेवासमधिगत श्रीभगवद्रामानुजविरचित -

शारीरकमीसमांसाभाष्यहृदयेन श्रीसुदर्शनसूरिणा विलिखितायां

श्रुतप्रदीपिकायां द्वितीयस्याध्यायस्य द्वितीयः पादः ।।



च्र्ण्त्द्धड्ड घ्ठ्ठड्डठ्ठ

द्वितीयाध्याये तृतीयः पादः ।।

1. वियदधिकरणम् ।।

न वियदश्रुतेः ।। 2-3-1 ।।

सांख्यादिवेदबाह्यतन्त्राणां न्यायाभासमूलतया ....श्रूयमाणा वियदुत्प त्तिः अर्थविरोधाद्वाध्यते - इति ।। 1 ।।

न वियदश्रुतेः । सङ्गतिमाह - सांख्यादि इति । कारणविषये परोक्तदोषपरिहारपरपक्षप्रतिक्षेपौ पादद्वयेन कृतौ । अथ कार्यविषये परोक्तदोषाः परिह्रियन्ते इति सङ्गतिः । आत्मन उत्पत्त्यसंभवः प्रस्तुतः । तद्वन्निरवयवद्रव्यस्य वियतोऽनुत्पत्तिरिति अवान्तरसङ्गतिः । चितोऽचितश्च कार्यत्वं किमेकरूपम्, उत भिन्नरूपमिति संशयः । ऐकरूप्यं पूर्वपक्षीकृत्य वैरूप्यं सिद्धान्तीक्रियते पादद्वयेन ।।

तत्र प्रथमाधिकरणस्य संशयमाह - तत्र इति । कथमश्रुतिः ? अकाशः सभूतः इति 1श्रुतिरस्तीत्यत्राह- संभावितस्य इति । श्रवणम्- शब्दजन्यप्रमितिः। न ह्ययोग्ये 2यूपादित्यतादात्म्यादाविव इति भावः । खपुष्पं दृष्टान्ततयोक्तम् । असंभवं निरवयवद्रव्यत्वेन सर्वगतत्वेन चोपपादयति- न खलु इति । केवलतर्कों बाध्य इत्यत्राह - अतः इति । तेजस्सर्गप्राथम्यं श्रुत्यर्थापत्तिः । तर्कापेतश्रुतेः तद्युक्ता सा बलीयसीति भावः ।। 1 ।।

सिद्धान्तः

एवं प्राप्तेऽभिधीयते-

अस्ति तु ।। 2-3-2।।

अस्ति त्वाकाशस्योत्पत्तिः । अतीन्द्रियार्थ......आत्मनोऽनुत्पत्तिर्न निरवयवत्वप्रयुक्तेति वक्ष्यते ।। 2 ।।

अस्ति तु । न मानान्तरागोचरत्वमयोग्यता, यागादेः स्वर्गसाधनत्वादि- प्रमित्ययोगात् । बाधकं तु न धर्मिणोऽध्यक्षतामात्रेण नागमोक्तधर्मबाधः प्रागुक्तदोषात् किं त्वध्यक्षावगतधर्मविरोधात् अयोग्यता यथा यूपादित्यैक्यस्य । न चेह साऽस्ति । सर्वगतत्वनिरवयवद्रव्यत्वे असिद्धे । दशगुणत्वपञ्जीकरणत्वोक्तेः। 1 चरमं तु महदादावनैकान्तिकं च । 2अ#ुनुमानं चागमबाधितमित्यर्थः । तर्हि कथमात्मनित्यत्वमित्यत्राह- आत्मनोऽपि इति ।। 2 ।।

पुनश्चोदयति-

गौण्यसंभवाच्छब्दाच्च ।। 2-3-3।।

"तस्माद्वा एतस्मादात्मन आकाशः....इति वियतोऽमृतत्वशब्दाच्च ।। 3 ।। उत्तरसूत्रसङ्गतिमाह - पुनः इति । गौण्यसंभवाच्छब्दाच्च । तेजःप्राथम्यात् ततः प्राक् न वियत्सृष्टिसंभवः । पश्चात्तु त्वन्मतेऽपि नेत्यर्थः ।। कथमेकस्य संभूतशब्दस्य आकाशापेक्षया...

स्याच्चैकस्य ब्रह्मशब्दवत् ।। 2-3-4।।

एकस्यैव "तस्माद्वा एतस्मात्... अनुषङ्गे च श्रवणा - वृत्ताविवाभिधानावृत्तिर्विद्यत एव इत्यर्थः ।। 4 ।।

स्याच्चैकस्य ब्रह्मशब्दवत् । तत्र ब्रह्म शब्दो द्विः प्रयुक्तः । इह तु अनुषङ्गादेकस्य कथं मुख्यगौणत्वे इत्यत्राह - अनुषङ्गे च इति । 1 प्रयोगभेदेऽपि वृत्तिभेदक्लृप्तिः अभिधानावृत्त्या । साऽनुषङ्गेऽपि तुल्येति तया तत्क्लृप्तिरविरुद्धा इत्यर्थः । 2 अभिधानावृत्तिः- बोधनव्यापारावृत्तिः।।

परिहरति-

प्रतिज्ञाहानिरव्यतिरेकात् ।। 2-3-5।।

छान्दोग्यश्रुत्यनुसारेणान्यासां....आकाशस्यापि ब्रह्मकार्यत्वेन तदव्यतिरेकादेव भवति ।। 5 ।।

अन्तरस्य राद्धान्तसूत्रतामाह - परिहरति इति । प्रतिज्ञाहानिरव्यतिरेकात् ।

स्फुटम् ।। 5 ।।

शब्देभ्यः ।। 2-3-6 ।।

इतश्च वियदुत्पत्तिः छान्दोग्ये प्रतीयते... श्रुत्यन्तर प्रतिपन्नां वियदुत्पतिं्त न निवारयितुमलम् ।। 6 ।।

शब्देभ्यः । ऐतदात्म्यम् इत्यादिवाक्यं कृत्स्नकार्यस्य 3 कारणब्रह्मात्म- कत्वपरत्वादुपात्तम् । आदि शब्दात् सन्मूलाः इत्यादि गृह्यते । न च इति । न हि घटोत्पत्तिवचनं पटोत्पत्तिवारकमित्यर्थः । प्राथम्यं वारकमित्यत्राह - वियत् इति । श्रुतप्रहाणेन 1अश्रुतप्राथम्यक्लृप्तिरयुक्तेति भावः ।।

यावद्विकारं तु विभागो लोकवत् ।। 2-3-7 ।।

तुशब्दश्चार्थे । ऐतदात्म्यम् ... ... सुराणामिव चिरकाल स्थायित्वाभिप्रायम् ।। 7 ।।

यावद्विकारं तु विभागो लोकवत् । विकारत्त्वम् - कार्यत्वम्। आदि शब्दादेकत्वावधारणादि । एवं च इति । अन्यथा वायोरप्यनुत्पत्तिः स्यादिति भावः ।। 7 ।।

एतेन मातरिश्वा व्याख्यातः ।। 2-3-8।।

अनेनैव हेतुना मातरिश्वनो वायोरपि .... मातरिश्वपरामर्शर्थम् ।।8।।

एतेन मातरिश्वा व्याख्यातः । अतिदेशसूत्रत्वाभावः शङ्काधिक्याभावात्। मातरिश्वनः पृथग्योगमकृत्वा तेजो मातरिश्वनः इत्युत्तरसूत्रं न कृतम् । अतः इत्यादेस्तत ऊर्ध्वमनुवृत्त्यर्थम् । असंभवस्तु इति सूत्रस्य महदादिविषयत्वात् 5 वियत्सूत्रानन्तर्यं मातरिश्वसूत्रस्य ।। 8 ।।

असंभवस्तु सतोऽनुपपत्तेः ।। 2-3-1।।

तुशब्दोऽवधारणार्थः । असंभवः....अवगतकार्यभावस्यानुत्पत्ति- र्नौपपद्यते इति ।। 9 ।।

असंभवस्तु सतोऽनुपपत्तेः । न हि ब्रह्मणोऽनुत्पत्तिर्वाच्या । वियदादिकं विना केषामनुत्पत्त्यसंभवः ? कस्य चानुपपत्तिरित्यत्राह - एतदुक्तम् इति । प्रतिज्ञादिभिः इति आदिश ब्दात् एकत्वावधारणाद्युक्तम् ।।

इति वियदधिकरणम्-1




तेजोधिकरणम् ।।

तेजोऽतस्तथा ह्याह ।। 2-3-10।।

ब्रह्मव्यतिरिक्तस्य कृत्स्नस्य....."वायोरग्निः" इति ह्याह ।। 10 ।।

तेजोऽतस्तथा ह्याह । अवान्तरसङ्गतिमाह - ब्रह्म इति ।। 10।।

आपः ।। 2-3-11 ।।

आपोऽपि, अतः तेजसः...."तदपोऽसृजत" इति ह्याह ।।11।। आपः । अतः इत्याद्यनुषङ्गः ।। 11।।

पृथिवी ।।2-3-12।।

पृथिवी अद्भ्य उत्पद्यते...."ता अन्नमसृजन्त" इति ह्याह ।। 12 ।।

पृथिवी । तथा इहाप्यनुषङ्गः ।। 12 ।।

नन्वन्नशब्देन कथं पृथिव्यभिधीयते ? अत आह-

अधिकाररूपशब्दान्तररेभ्यः ।। 2-3-13।।

महाभूतसृष्ट्यधिकारात् पृथिव्येव .... ब्रह्मणः परम्परया कारणत्वेऽप्युपपद्यन्ते इति ।। 13 ।।

उत्तरसूत्रावतारायाह - ननु इति । अधिकाररूपशब्दन्तरेभ्यः । अधिकारः- प्रस्तावः ।। 13 ।।

सिद्धान्तः

एवं प्राप्ते प्रचक्ष्महे-

तदभिध्यानादेव तु तल्लिङ्गात् सः ।। 2-3-14।।

तुशब्दात् पक्षो व्यावृत्तः..."यस्य बुद्धिः शरीरम्," "यस्याव्यक्तं शरीरम्" इत्यादि ।। 14 ।।

तदभिध्यानादेव तु तल्लिङ्गात् सः । तल्लिङ्गात् - अभिध्यानमेव परलिङ्गम् । सर्वशाखाप्रत्ययनयात् महदादिष्वपि ईक्षासिद्धिमाह - महदहङ्कार इति । न परमीक्षानुपपत्त्या तत्तच्छरीरकस्य कारणत्वम् , श्रौतं च तत्तच्छरीर- कत्वमित्याह- श्रूयते च इति ।। 14 ।।

यच्चोक्तम् "एतस्माज्जायते प्राणो .... ...

विपर्ययेण तु क्रमोऽत उपपद्यत च ।।2-3-15।।

तुशब्दोऽवधारणार्थः । ... ... इत्यादिकमपि सर्वस्य ब्रह्मणः साक्षात्संभवस्योत्तंभनम् ।। 15।।

विपर्ययेण तु क्रमोऽत उपपद्यते च । अतः- शब्दार्थमाह- स च इति । उपरुध्येत इति स्वारस्यहानिरुक्ता । उत्तंभनम् - स्थापकम् ।। 15 ।।

अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात् ।। 2-3-16 ।।

विज्ञानसाधनत्वात् इन्द्रियाणि विज्ञानम् .... तेजः प्रभृतयश्च शब्दास्तदात्मभूतं ब्रह्मैवाभिदधति ।। 16।।

अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात् । व्याख्येयं पदं व्याचष्टे - विज्ञान इति । अत्रापि- न केवलं श्रुत्यन्तरेष्वेव इति भावः। तैः सह पाठलिङ्गात् - अग्र्यप्रायन्यायादिति भावः । कस्याविशेष इत्यत्राह - एतस्मात् इति । एतस्मात् प्राणः, एतस्मान्मनः इति ईदृशो ह्यन्वय इति भावः । दीपे कण्ठोक्ततया व्याख्यातम् । श्रुत्यन्तरसिद्ध इति । वायुविकारस्य प्राणस्य भूतेभ्यः प्रागुत्पत्तिविरोधादिति भावः । व्यवहितकार्याणामपि ब्रह्मण उत्पत्तिश्चेत्, कथं तेजःप्रभृतिशब्दैरभिधानमित्यत्राह - तेजःप्रभृतयः इति ।।

ननु एवं सर्वशब्दानां ब्रह्मवाचित्वे.....

चराचरव्यपाश्रयस्तु स्यात् यद्वयपदेशोऽभाक्तस्तद्भावभावित्वात्

।। 2-3-17।।

तुशब्दः चोदिताशङ्कानिवृत्त्यर्थः । ....नामरूपव्याकरणश्रुत्या हि तथाऽवगतम् ।। 17 ।।

अनन्तरसूत्रशङ्कामाह - ननु इति । चराचरव्यपाश्रयस्तु स्यात् तद्व्ययपदेशोऽभाक्तस्तद्भावभावित्वात् । हेतुखण्डं विवृण्वन् वाक्यार्थमाह समस्त इति । प्रथमयोजनायां व्युत्पत्त्यभावान्यथासिद्धिः कण्ठोक्ता स्यात्। द्वितीयस्यां ब्रह्मपर्यन्तत्वे मानोपन्यासः श्रोतः स्यात् । उभयोः अन्यतरार्थः आर्थः ।।

इति तेजोऽधिकरणम् - 2




3.आत्माधितकरणम् ।।

नात्मा श्रुतेर्नित्यत्वाच्च ताभ्यः ।। 2-3-18।।

वियदादेः कृत्स्नस्य परस्मात् ब्रह्मणः... सेयं स्वरूपान्यथाभावलक्षणोत्पत्तिर्जीवे प्रतिषिध्यते ।।

नात्मा श्रुतेर्नित्यत्वाच्च ताभ्यः । सङ्गतिमाह - वियदादेः इति। एवं स्वानन्तरकारणशरीरकब्रह्मणो

वियदाद्युत्पत्तिरुक्ता । तर्हि तद्वन्निरवयवस्यात्मनोऽपि सेति सङ्गतिः । वियदादिवत् उत्पत्तिरस्ति नास्तीति संशयः । श्रुत्यर्थापत्तिश्रुतिभिः पूर्वपक्षः । प्रजाशब्दश्च संसृष्टजीवपरः।।

राद्धान्ते आत्मनः इति । ताभ्यः सिद्धान्तितत्वात् इति शब्दार्थः । कथम् इति कृतं चोद्यं परिहरति - इत्थम् इति । व्याहर्ति परिहर्तुं कार्यलक्षणमाह - कार्यत्वं हि इति । वैषम्यमाह - इयान् इति ।।

एतदुक्तं भवति - भोग्यभोक्तृनियन्तृन्.... प्रकारभूतचिदचिद्वस्तुगताः अपुरुषार्थाः स्वरूपान्यथाभावाश्चेति सर्वं समञ्जसम् ।। 18 ।।

अचितः कार्यत्वं स्वरूपान्यथात्वरूपम्, चितस्तु धीसङ्कोचविकासरूपमिति कृतो विभागः । परस्य च कार्यत्वं तयोरन्यतरप्रकारेणेति चेतनत्वात् धर्मान्यथाभावरूपकार्यत्वं , तेन च कर्ममूलासार्वज्ञ्यं स्यादित्यत्राह - एतदुक्तम् इति । भोग्यगतम् - न तु स्वासाधारणमिति भावः । उत्पत्त्यादि इति विनाशग्रहणम् । घटकश्रुत्यर्थमाह - सर्वावस्थयोः इति । सदैवं चेत् कथं कार्यकारणभाव इत्यत्राह - तत् कदाचित् इति । कार्यत्वम् अवस्थान्तरापत्तिरूपमिति फलितम् । कार्यत्वावान्तरभिदामुपपादयति - तत्र इति । तथा सति ब्रह्मणः कार्यत्वं कथमित्यपेक्षायां साधारणं कार्यत्वमाह - कारणावस्थाया इति । प्रतिज्ञादृष्टान्तौ कथमित्यत्राह - अत एव इति । अनेकाकारविशिष्टैकवस्तुनोऽवस्थाभेदमात्रे दृष्टान्तः । काठिन्यादिवत् मानविरुद्धाकारस्तु त्याज्य इति भावः । उत्पत्यनुत्पत्त्यादिश्रुतीनां विषयभेदमाह - ईदृश इति। अनिष्ट शब्दः सद्वारकावस्थानियन्तृत्वव्युदासार्थः एकत्वावधारणं निर्वहति - एवम् इति ।।

ये तु इति । सौत्रत्वात स्वोपगमाच्चेत्यर्थः । तर्हि तत्पक्ष एव स्वीकार्य इत्यत्राह - इयान् इति । नियन्त्रंशस्य न भोक्तृत्वमित्यत्राह - नियन्त्रंशस्य इति ।।18।।

इति आत्माधिकरणम्-3




4.ज्ञाधिकरणम् ।।

ज्ञोऽत एव ।। 2-3-19।।

वियदादिवज्जीवो नोत्पद्यत इत्युक्तम्, तत्प्रसङ्गेन जीवस्वरूपं निरूप्यते। .... ... कर्ता विज्ञानात्मा पुरुषः "एवमेवास्य परिद्रष्टुरिमाःषोडशकलाः" इति ।। 19।।

ज्ञोऽत ऐव । सङ्गतिमाह - वियदादिवत् इति । सङ्गतिः प्रासङ्गिकी । कार्यताप्रकारो हि पादनिरूप्यः । स्वात्मानं प्रति ज्ञातृत्वम् स्वस्वान्यभानप्रतिसंबन्धित्वं विवक्षितम् । स्वरूपम् - स्वाभाविकाकारः अकादाचित्कमित्यर्थः । अतः शिरोद्वयप्रतियोगित्वं तृतीयशिरसः । इदमेवात्र निरूप्यम् । तत्र स्वभानप्रतिसंबन्धितया प्रत्यक्त्वम् ; तस्य स्वापोऽपि विद्यमानत्वात् अजडस्वरूपत्वम् । अन्यभानप्रतिसंबन्धितया ज्ञानाश्रयत्वम् । शङ्काविशेषपरिहारार्थमणुत्वमित्येषामर्थानां ज्ञत्वनिरूपणान्तर्भावादैकाधिकरण्यम्

।।

अपरः- काणादादिः । सर्वगतत्वं च इति । ज्ञानादिकं कार्य शब्दार्थः । भोग्यवस्तु चाभिप्रतम् । अणुत्वगत्योर्द्वयोः क्लृप्तेः विभुत्वक्लृप्तिर्वरमिति लाघवमभिप्रेतम् ।।

राद्धान्ते - एतच्छब्दः प्रकृतजातीयपरामर्शीति श्रुतिव्यक्तिभेदाविरोधः ।।19।।

यत्तूक्तं ज्ञातृत्वे स्वाभाविके सति.....

उत्क्रान्तिगत्यागतीनाम् ।। 2-3-20।।

नायं सर्वगतः, अपि त्वणुरेवायमात्मा....विभुत्वे ह्येता उत्क्रान्त्यादयो नोपपद्येरन् ।। 20 ।।

उत्क्रान्तिगत्यागतीनाम् । श्रुत्यर्थापत्तिरुक्ता ।। 20।।

स्वात्मना चोत्तरयोः ।। 2-6-21।।

चशब्दो ऽवधारणे । यद्यपि शरीरवियोगरूपत्वेन .... अतस्ते स्वात्मनैव संपाद्ये ।। 21।।

स्वात्मना चोत्तरयोः । कथञ्चित् इति अस्वारस्यसूचन् । गतेः श्रौतत्वात् अणुत्वमेव कल्प्यमिति न गौरवम् । विभुत्वक्लृप्निस्तु श्रुतिविरुद्धेति भिदेत्यर्थः ।।

नाणुरतच्छुतेरिति चेन्नेतराधिकारात् ।। 2-3-22 ।।

"योऽयं विज्ञानमयः प्राणेषु" इति जीव.....मध्ये परः प्रतिपाद्यत इति तत्संबन्धीदं महत्त्वम् ; न जीवस्य ।। 22 ।।

नाणुरतच्छØतेरिति चेन्नेतराधिकारात् । यस्य - जीवस्य , अनुवित्तः- उपास्यः, प्राप्यो वा । विदेर्ज्ञानलाभार्थत्वात् । ज्ञानार्थत्वे इडनित्यत्वं छान्दसम् । अदृष्टो द्रष्टेतिवत् अर्हार्थीया निष्ठा । प्रतिबुद्धः- प्राज्ञः ।। 22 ।।

स्वशब्दोन्मानाभ्यां च।। 2-3-23।।

साक्षादणुशब्द एव श्रूयते "एषोऽणुरात्मा....अतोऽणुरेवायमात्मा ।।23।।

स्वशब्दोन्मानाभ्यां च । इह श्रुतिर्दर्शिता । अणुत्वं च श्रौतमितिन किञ्चित् कल्प्यम् । स्वशब्दः अणुत्ववाचकः । न त्वाक्षेपकः।।

अथ स्यात्-आत्मनोऽणुत्वे....

अविरोधश्चान्दनवत् ।। 2-3-14।।

यथा हरिचन्दनबिन्दुः .... .... दैहैकदेशवर्ती सकलदेशवर्तिनीं वेदनामनुभवति ।। 24 ।।

शङ्कामाह - अथ इति। वेदना- दुःखानुभवः ;प्रदर्शन वा सुखस्य ।।

अविरोधश्चन्दनवत् । वेदनामनुभवति - दुःखमनुभवतीत्यर्थः ।।

अवस्थितिवैशेष्यादिति चेन्नामभ्युपगमाद्धृदि हि ।। 2-3-25।।

हरिचन्दनबिन्द्वादेर्देहदेशविशेष... चन्दनदृष्टान्तः प्रदर्शितः,न तु चन्दनस्य देशविशेषापेक्षा ।। 25 ।।

अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृदि हि । कार्यकरत्वौपयिकत्वात् तत्रैकशतम् इत्युपात्तम् । न तु इति । न तु हन्मात्रापेक्षा । नासानयनादिमर्मस्थित्या कार्यकरत्वादित्यर्थः ।।

एकदेशवर्तिनः सकलदेहव्यापि...

गुणाद्वाऽऽलोकवत् ।। 2-3-26।।

वाशब्दो मतान्तरव्यावृत्त्यर्थः ; आत्मा...अन्यत्रवृत्तिर्मणिप्रभाव- दुपपद्यत इति प्रथमसूत्रे स्थापितम् ।। 26 ।।

सौभर्यादीनामेकेतरदेहेषु प्रागुक्तदिशा कार्यकरत्वयगान्निर्वाहान्तरोक्तिः ।। गुणादवाऽऽलोकवत् । कथमयुतसिद्धधर्मस्य देशान्तरे वृत्तिरित्यत्राह- ज्ञातुः

प्रभा इति ।। 26 ।।

ननु-उक्तं ज्ञानमात्रमेवात्मेति ।....

व्यतिरेको गन्धवत् तथा च दर्शयति ।। 2-3-27 ।।

यथा पृथिव्याः गन्धस्य गुणत्वेन .... दर्शयति च श्रुतिः "जानात्येवायं पुरुषः" इति ।। 27।।

ननु इति ज्ञानस्वरूपवचनमभिप्रेतम् । तन्निर्वाहाय व्यतिरेके मानं दर्श्यते ।।

व्यतिरेको गन्धवत् तथा च दर्शयति । जानाति इति विशिष्टवाचकशब्दः ।। 27 ।।

पृथगुपदेशात् ।। 2-3-28 ।।

स्वशब्देनैव विज्ञानं विज्ञातुः पृथगुपदिश्यते - न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते इति ।। 28 ।।

पृथगुपदेशात् । विशेषणस्य पदान्तरेण निर्देशो दर्शितः ।। 28 ।।

यत् तु उक्तम् यो विज्ञाने तिष्ठन् .... ....

तद्गुणसारत्वात् तु तद्व्यपदेशः प्राज्ञवत् ।। 2-3-29 ।।

तुशब्दश्चोद्यं व्यावर्तयति । ... ... यः सर्वज्ञः इत्यादिषु प्राज्ञस्य ज्ञानं सारभूतो गुण इति विज्ञायते ।। 29 ।।

व्यतिरेके मानसिद्धे ज्ञानरूपत्ववचनं निर्वोढुं प्रागुक्तशङ्कामुद्धाटयति - यत् तु इति ।।

तद्गुणसारत्वात् तु तद्व्यपदेशः प्राज्ञवत् । तच्छब्दार्थमाह विज्ञान इति । षष्ठीतत्पुरुषशङ्काव्युदासायाह -

विज्ञानमेव इति । गुण शब्दः अप्रधानवाची । गुणः शेषभूतः , तस्य सारत्वं गुणान्तरापेक्षया प्रकृष्टत्वम् । तच्च होमादिगुणभूतदध्यादिव्यावर्तकम् अपृथक्सिद्धत्वम् । तेन गुणिपर्यन्तबोधनस्य मुख्यत्वसिद्धिः । विज्ञानमेव - द्रव्यमेव सदयुतसिद्धमिति भावः । प्राज्ञवत् इत्यंशं व्याचष्टे - यथा इति । दृष्टान्ते धर्मधर्मिभावस्य प्रामणिकत्वं दर्शयति - यदेष इति। स्पष्टम् ।। 29 ।।

यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात् ।। 2-3-30 ।।

विज्ञानस्य यावदात्मभाविधर्मत्वात् ... ... स्वप्रकाशत्वेन विज्ञानमिति

व्यपदेशो न दोष इति समुच्चिनोति ।। 30 ।।

पटः शुक्ल इत्यादौ गुणपदेन गुण्युक्तिः धर्मिसमर्पकपदान्तरसम- भिव्याहारात् । इह तु तदभावान्न गुण्युक्तिर्युक्तेति स्वरूपमेव ज्ञानमुच्यते , न धीधर्मकं स्वरूपमित्यत्राह - यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात् । आत्म शब्दो धर्मिपरः । तद्व्यपदेशः न दोषः । दूष्यत इति दोषः । कर्मणि घञ् । धर्मिवाचिपदान्तराभावस्वरूपदोषदुष्टो न भवतीत्यर्थः । तद्दर्शनात् इत्येतत् व्याचष्टे - तथा इति । कथं शङ्कयाः परिहृतत्वमित्यत्राह - स्वरूप इति । शौक्ल्यस्य पटनिरूपकत्वाभावात् धर्मिवाचिपदान्तरापेक्षा । गोत्वादेस्तु निरूपकत्वात् न गवदिपदानां तदपेक्षा । ज्ञानपदं तद्वदित्यर्थः । ज्ञानमचिदपेक्षया जीवस्य निरूपकम् । परस्य तु स्वतो नित्यासंकुचितं ज्ञानं निरूपकम् । अत्र पूर्वसूत्रोक्तस्यायुतसिद्धत्वस्य हेतोः असिद्धिशङ्का च यावदात्मभावित्वोक्त्याऽर्थान्निरस्ता भवति । अयावदधर्मिभाविनामपि गुणानामयुतसिद्धिरस्ति । किं पुनर्यावद्धर्मिंभाविनामिति ।।

यच्चोक्तम् - सुषुप्त्यादिषु ज्ञानाभावात् ... ...

पुंस्त्वादिवत् त्वस्य सतोऽभिव्यक्तियोगात् ।। 2-3-31 ।।

तुशब्दश्चोदिताशङ्कानिवृत्त्यर्थः । ... ... मनसैतान् कामान् पश्यन् रमते इत्यादिश्रुत्यैकार्थ्यात् ।। 31 ।।

पुंस्त्वादिवत् त्वस्य सतोऽभिव्यक्तियोगात् । न बाल्ये पुंस्त्वमित्यत्राह - सप्तधातु इति । स्वापेऽपि धियः स्वप्रकाशतार्हत्वान्न जडत्वम् । स्वसिद्ध्यहमर्थस्यापि ज्ञानस्यैवोपलभ्यो विषयसंबन्धापेक्ष इत्यत्राह - सुषुप्त्यादिष्वपि इति । अहन्धीवेद्यत्वे जडत्वादीत्यत्राह - एते च इति । नित्योपलब्ध्याद्यप्रसङ्गायाह - स चायम् इति । न प्रेत्य इति । देहात्मधीर्नेत्यर्थः ।। 31 ।।

संप्रति ज्ञानात्मवादे तस्य सर्वगतत्वे दूषणमाह -

नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वाऽन्यथा ।। 2-3-32 ।।

अन्यथा सर्वगतत्वपक्षे तस्य ज्ञानमात्रत्वपक्षे च .... ... करणैः सर्वदा संयुक्तत्वात् अदृष्टादेरप्यनियमादुक्तदोषः समानः ।।

नित्योपलब्ध्यनुलब्धिप्रसङ्गोऽन्यतरनियमो वाऽन्यथा । नित्योपलब्धिः प्रसजतु । कथमनुपलब्धिः ? उभयं च सदा प्रसजेदित्यत्राह एतदुक्तम् इति ।

विकल्पितशिरोऽभिप्रायेणोक्तमित्यर्थः । स्वमते त्वप्रसङ्गमाह - अस्माकम् इति । जडात्मविभुत्वपक्षेऽपि शिरोभेदेन दूषणत्रयसाम्यमाह - करणायत्त इति । अदृष्टादेः इति । देहसाधारण्यात् तत्कृतादृष्टानियम इत्यर्थः ।। 32 ।।

इति ज्ञाधिकरणम् - 4




5. कर्त्रधिकरणम् ।।

कर्ता शास्त्रार्थवत्त्वात् ।। 2-3-33 ।।

अयमात्मा ज्ञाता , स चाणुपरिमाण इत्युक्तम् । इदानीं .... य आत्मानमेव केवलं कर्तारं मन्यते , न स पश्यतीत्यर्थः ।। 33 ।।

कर्ता शास्त्रार्थवत्त्वात् । ज्ञातृत्वसापेक्षत्वात् कर्तृत्वस्य , तदनन्तरं तच्चिन्तासङ्गतिः । हन्तारम् इति । महान्तं विभुम् इति प्रकरणोक्ते परमात्मनि न जायते इत्यचिद्धर्मः , हन्तारम् इति पुण्यपापकर्तृत्वरूपजीवधर्मश्च निषिध्यत इति शङ्काव्युदासायोक्तं जीवस्य इति । अवान्तरप्रकरणे परस्य न प्रसङ्ग इति भावः । प्रकृतौ नित्यायां कर्तृत्वरूपजीवधर्मः नाशित्वं च निषिध्यति इति शङ्काव्युदासायोक्तं सर्वं प्रकृतिधर्मम् इति । कार्त्स्न्येन प्रकृतिधर्मनिषेधपरं प्रकरणमिति भावः

। हन्तुम् इति द्वितीयान्तः , जन्तुम् इतिवत् । हननमात्रे कर्तृत्वनिषेधः , न सर्वक्रियासु इति शङ्काव्युदा सायाह - तथा च इति ।।

राद्धान्ते - शास्रार्थवत्त्वात् इति । प्रयोजनतया हेतुत्वम् । अवयवार्थनिरूपणेन कर्तृत्वमाह - शासनाच्च इति । गुणानामेव कर्तृता इति औपचारिकोक्तिः । गुणसहकृतत्वं स्फुटयति - तथा च इति । आत्मनः कर्तृत्वं भगवद्गीतायामभ्युपगतमित्याह - तथा इति । इदमपि वचनं विशदयितुमाह - अधिष्ठानम् इति । शरीरवाड्मनोभिः इत्यादिरप्यनुसन्धेयः ।। 33 ।।

उपादानाद्विहारोपदेशाच्च ।। 2-3-34 ।।

स यथा महाराजः इति प्रकृत्य ... ... प्राणानामुपादाने विहारे च कर्तृत्वमुपदिश्यते ।। 34 ।।

उपादनाद्विहारोपदेशाच्च । इन्द्रियप्राणदेहप्रेरणकर्तृंत्वमुक्तमित्यर्थः ।।

व्यपदेशाच्च क्रियायां न चेन्निर्देशविपर्ययः ।। 2-3-35 ।।

विज्ञानं यज्ञं तनुते कर्माणि तनुते .... ... बुद्धेः करणत्वात् विज्ञानेनेति करणधिभक्तिनिर्देशः स्यात् ।। 35 ।।

व्यपदेशाच्च क्रियायां न चेन्निर्देशविपर्ययः । विज्ञानेन इति । उपचरितत्वे तदेव दोष इति भावः ।। 35 ।।

उपलब्धिवदनियमः ।। 2-3-36 ।।

आत्मनोऽकर्तृत्वे दोष उच्यते । ... ... अन्तःकरणादीनामपि नियमो नोपपद्यते ; यदायत्ता व्यवस्था स्यात् ।। 36 ।।

उपलब्धिवदनियमः । अन्तःकरणभेदात् व्यवस्थेत्यत्राह - अत एव च इति ।। 36 ।।

शाक्तिविपर्ययात् ।। 2-3-37 ।।

बुद्धेः कर्तृत्वे कर्तुरन्यस्य भोक्तृत्वानुपपत्तेः ... .... पुरुषोऽस्ति भोक्तृभावात् इति हि तेषामभ्युपगमः ।। 37 ।।

शक्तिविपर्ययात् । कथं मानाभाव इत्यत्राह - पुरुषोऽस्ति इति ।।

समाध्यभावाच्च ।। 2-3-38 ।।

बुद्धेः कर्तृत्वे मोक्षसाधनभूतसमाधावपि ... .... प्रकृतिः समाधातुमलम् । अतोऽप्यात्मैव कर्ता ।। 38 ।।

समाध्यभावाच्च । अचेतनत्वात् प्रकृतेन्यथाविषयत्वाच्च समाध्यनुपपत्तिः ।। 38 ।।

यथा च तक्षोभयथा ।। 2-3-39 ।।

वागादिकरणसंपन्नोऽप्यात्मा ... ... भोगवाञ्छादिनियमकारणाभावात् सर्वदा कर्तृत्वमेव स्यात् ।। 39 ।।

यथा च तक्षोभयथा । त्वदुक्तो दोषस्त्वन्मते एवेत्याह - वुद्धस्तु इति

।। 39 ।।

इति कर्त्रधिकरणम् - 5




6. परायत्ताधिकरणम् ।।

परात् तु तच्छØतेः ।। 2-3-40 ।।

इदं जीवस्य कर्तृत्वं किं स्वातन्त्र्येण ? .... ... भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया इति ।। 40 ।।

परात् तु तच्छØतेः । सङ्गतिः स्फुटा ।।

राद्धान्ते -
तत् इति व्याख्येयम् । कर्तृत्वम् इति व्याख्यानम्

।। 40 ।।

नन्वेवं विधिनिषेधशास्त्रानर्थक्यं .... ....

कृतप्रयत्रापेक्षस्तु विहितप्रतिषिद्धावैयर्थ्यादिभ्यः ।। 2-3-41 ।।

सर्वासु क्रियासु पुरुषेण कृतं .... ... क्षिपाभ्यजस्रमशुभानासुरीष्वेव योनिषु इत्युक्तम् ।। 41 ।।

अनन्तरसूत्रशङ्कामाह - ननु इति । कृतप्रयत्रापेक्षस्तु विहितप्रतिषिद्धावैयर्थ्यादिभ्यः । आदि शब्दं व्याचष्टे -

निग्रह इति । भाष्यस्थ - आदि शब्देन फलदानग्रहणम् । प्रवृत्तस्य प्रवर्तकोऽनुमन्ता । अन्यसापेक्षत्वे प्रथमप्रवृत्तस्य च फलान्वये च दृष्टान्तमाह - यथा इति । राजसंश्रयणादिकमुदाहरणम् । अन्यापेक्षत्वेऽपि विधिनिषेधभाक्त्वं रथाकर्षकेषु दृष्टम् । अंशे पारतन्त्र्यात् न फलमिति पूर्वः पक्षः । अंशे स्वातन्त्र्यात् फलमिति सिद्धान्तः ।।

साधारणकारणमीश्वरः करणकलेवरचित्प्रवृत्तिदानादिना । विशेषकर्तृत्वे तु प्रागुपेक्षकः पश्चात् त्वनुमन्ता । अनुमतिश्च फलदानतुल्या । अतः परायत्तत्वम् । प्रथमप्रवृत्तौ स्वातन्त्र्यात् फलान्वयः । दया त्वन्यत्र सावकाशा । अप्रवृत्तप्रवर्तनरूपं प्रयोजयितृत्वं दश्यत इति चोदयति - ननु इति । फलदानकल्पमिति बुद्ध्या परिहरति - उच्यते इति । लोकदृष्ट्याऽनुमन्तृत्वात् दोषापादनं धर्मिग्राहकध्वस्तम् । अनुमन्तुः फलान्वयश्च शास्त्रवश्यत्वे सत्यनुमन्तृत्वात् । न त्वनुमन्तृत्वमात्रात् । अतः सर्वमुपपन्नम् ।।

इति परयत्ताधिकरणम् - 6




7. अंशाधिकरणम् ।।

अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके

।। 2-342 ।।

जीवस्य कर्तृत्वं परमपुरुषायत्तम् ... ... उभयव्यपदेशोपपत्तये जीवोऽयं ब्रह्मणोंऽश इत्यभ्युपेत्यम् ।। 42 ।।

अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके । जीवोऽनुमतिदानात् प्रवृत्तश्चेत् राजभृत्यादिवत् स्पष्टभेदः स्यात् इति शङ्कया सङ्गतिः । ब्रह्मंश इति पक्षे च किं विशेष्यैकदेशतयांशः , उत विशिष्टैकदेशरूपविशेषणतया इति विकल्पो गर्भितः श्रुति इति । वादिविमतेरपि श्रुतिवैविध्यमूलत्वात् इति भावः । ननु इति शङ्कितं पौनरुक्त्यं परिहरति सत्यम् इति । पूर्वं शरीरात्मभावेनाभेदश्रुतिमुख्यत्वमुक्तम् । तच्चात्र शरीरवाचिनामाकृतिनयविषयत्वे स्थापिते सिध्येत् । तच्च प्रभाया इवायुतसिद्धविशेषणतयांशत्वे सिध्यति । विशेषणतयांशत्वात् विलक्षणत्वसिद्धिरिति उभयव्यपदेशमुख्यत्वमिहैव प्रतिष्ठितमित्यर्थः । किं तावत् इत्यादि । विशेष्यैकदेशरूपांशवादिनम् अत्यन्तभेदवादी दूषयति - ब्रह्मर्णोऽशः इति । यद्वा इति । अभेद षङ्विधतात्पर्यलिङ्गसद्भावोऽभिप्रेतः ।।

राद्धान्ते - ततश्च इति । निकृष्टैरपि सामानाधिकरण्यम- भेदस्यौपचारिकत्वविरोधीति भावः । परोक्तान्यथासिद्धि दूषयति - न च इति । अभेदश्रुतिविरोधपरिहारादिकं पूर्ववत् । स्पष्टम् । सत्योपाध्यवच्छिन्नब्रह्यजीवपक्षं दूषयति - उपाध्यवच्छिन्नम् इत्यादिना ।। 42 ।।

मन्त्रवर्णात् ।। 2-3-43 ।।

पादोऽस्य विश्वा भूतानि .... ... असन्ततेश्चाध्यतिकरः इत्यनन्तरमेव चात्मबहुत्वं वक्ष्यति ।। 43 ।।

मन्त्रवर्णात् । कथमंशत्वाप्रतीरित्यत्राह - अंशवाची इति । नित्यो नित्यानाम् इति विशिष्टविधिः । भेदस्य स्वाभाविकत्वमलौकिकम् । भेदकाकाराभावन्मुक्तौ कथं भेदधीरित्यत्राह - एवम् इति । ज्ञानस्वरूपत्वेन इति जीवाद्वैतवचननिर्वाहः सूचितः । प्रत्यक्तया पराक्तया च भेदः ।।

अपि स्मर्यते ।। 2-3-44 ।।

ममैवांशो जीवलोके जीवभूतः ... ... पुरुषोत्तमांशत्वं स्मर्यते । अतश्चायमंशः ।। 44 ।।

अपि स्मर्यते । स्फुटम् ।

अंशत्वेऽपि जीवस्य ब्रह्मैकदेशत्वेन ... ...

प्रकाशादिवत् तु नैवं परः ।। 2-3-45 ।।

तुशब्दश्चोद्यं व्यावर्तयति .... .... जीवशरीरकब्रह्मवाचकत्वे नैकार्थाभिधायित्वादित्ययमर्थः प्रागेव प्रपञ्चितः ।। 45 ।।

शङ्कामाह - अंशत्वेऽपि इति । प्रकाशादिवत् तु नैवं परः । आदि शब्दार्थमाह - यथा गवाश्व इति । कथमंशत्वमित्यत्राह एकवस्तु इति । ततः किं प्रकृतशङ्काया इत्यत्राह - विशेषणविशेष्ययोः इति । बहुलत्वविरलत्वादिस्वभावे वैलक्षण्यम् । अयमर्थः सौत्र इत्याह तदिदम् इति । सूत्रखण्डेऽमुमर्थं दर्शयति - यथाभूतः इति

। वाक्यार्थमाह - यथैव हि इति । तेनोभयव्यपदेशमुख्यत्वसिद्धिमाह - एवम् इति । भानुः भानुमान् इत्यादयः सपक्षाः इति । प्रागेव इति । प्रागुक्तार्थ एतत्सूत्राभिप्रेत इत्यर्थः ।। 45 ।।

स्मरन्ति च ।। 2-3-46 ।।

एवं प्रभाप्रभावद्रूपेण शक्तिशक्तिमद्रूपेण ... .... आत्मशरीर - भावेनांशांशित्वं वदन्ति इत्युच्यते ।। 46 ।।

स्मरन्ति च । अं शत्वे स्मृतिः प्रागुक्ता । विशेषणतयांशत्वे त्वियमुपात्ता । स्मृतौ दृष्टान्तेन वैशद्यात् तत्कण्ठोक्तिः ।। 46 ।।

एवं ब्रह्मणोशत्वे ब्रह्मप्रवर्त्यत्वे ... ...

अनुज्ञापरिहारौ देहसंबन्धाज्ज्योतिरादिवत् ।। 2-3-47 ।।

सर्वेषा ब्रह्मांशत्वज्ञत्वादिनै - करूपत्वे .... .. श्रोत्रियादेरनुज्ञायते । अभिशस्तादेस्तु परिह्रियते ।। 47 ।।

अधिकरणत्रयार्थमनुवदन् अनन्तरसूत्रशङ्कामाह - एवम् इति । अनुज्ञापरिहारौ देहसंबन्धाज्ज्योतिरादिवत् । आदि शब्दार्थमाह - यथा च इति ।। 47 ।।

असन्ततेश्चाव्यतिकरः ।। 2-3-48 ।।

ब्रह्मांशत्वादिनैकरूपत्वे सत्यपि .... ... इत्यभिप्रायेण स्वपक्षे भोगव्यतिकराभाव उक्तः ।। 48 ।।

असन्ततेश्चाव्यतिकरः । समन्तात् ततिः सन्ततिः , तदभावः अणुत्वम् । तात्पर्यमाह - भ्रान्त इति ।। 48 ।।

ननु भ्रान्तब्रह्मजीववादेऽपि ... ...

आभास एव च ।। 2-3-49 ।।

अखण्डैकरसप्रकाशमात्रस्वरूपस्य ... ... एकत्वाभ्युपगमात् भोगव्यतिकरस्तदवस्थ एव ।। 49 ।।

आभास एव च । तिरोधानादिकमेवानुपपन्नम् । उपपन्नेऽपि न व्यवस्थोपपत्तिरित्यर्थः ।। 49 ।।

पारमार्थिकोपाध्युपहितब्रह्मजीववादे .. ....

अदृष्टानियमात् ।। 2-3-50 ।।

उपाधिपरंपराहेतुभूतस्यादृष्टास्यापि .... ... स्वसंबन्धेन ब्रह्मस्वरूपच्छेदासंभवात् ।। 50 ।।

अदृष्टानियमात् प्रदेशभेदान्नियम इत्यत्राह - उपाधिभिः इति ।। 50 ।।

अभिसन्ध्यादिष्वपि चैवम् ।। 2-3-51 ।।

अदृष्टहेतुभूताभिसन्ध्यादिष्वप्युक्तादेव हेतोरनियम एव ।। 51 ।।

अभिसन्ध्यादिष्वपि र्चैवम् । चः अवधारणे । आदि शब्दादुद्योगानुष्ठानादिः । उक्तात् - अच्छेद्यत्वादिकात् ।। 51 ।।

प्रदेशभेदादिति चेन्नान्तर्भावात् ।। 2-3-51 ।।

यद्यप्येकमेव ब्रह्मस्वरूपम् , तच्छेदानर्हम् .... ... सूत्रैर्वेदावलम्बिनामात्मैकत्ववादिनां दोष उच्यते ।। 52 ।।

इति अंशाधिकरणम् - 7

इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये द्वितीयस्याध्यायस्य तृतीयः पादः ।। 3 ।।

प्रदेशभेदादिति चेन्नान्तर्भावात् । उपाधीनाम् इत्यादिग्रन्थद्वये जीवानां मिथ ईश्वरेण च व्यतिकर उक्तः । पुनरुक्तिमाशङ्क्याह - पूर्वत्र इति ।। 52 ।।

इति अंशाधिकरणम् - 7

इति श्रीहरितकुलतिलकवाग्विजयिसूनुना श्रीरङ्गराजदिव्याज्ञालब्धबेदव्यासापर -

नामधयेन श्रीमद्वरदाचार्यपादसेवासमधिगत श्रीभगवद्रामानुजविरचित -

शारीरकमीमांसाभाष्यहृदयेन श्रीसुदर्शनसूरिणा विलिखितायां

श्रुतप्रदीपिकायां द्वितीयस्याध्ययस्य तृतीयः पादः ।।



क़दृद्वद्धद्यण् घ्ठ्ठड्डठ्ठ

द्वितीयाध्याये तृतीयः पादः ।।

1. वियदधिकरणम् ।।

न वियदश्रुतेः ।। 2-3-1 ।।

सांख्यादिवेदबाह्यतन्त्राणां न्यायाभासमूलतया ....श्रूयमाणा वियदुत्प त्तिः अर्थविरोधाद्वाध्यते - इति ।। 1 ।।

न वियदश्रुतेः । सङ्गतिमाह - सांख्यादि इति । कारणविषये परोक्तदोषपरिहारपरपक्षप्रतिक्षेपौ पादद्वयेन कृतौ । अथ कार्यविषये परोक्तदोषाः परिह्रियन्ते इति सङ्गतिः । आत्मन उत्पत्त्यसंभवः प्रस्तुतः । तद्वन्निरवयवद्रव्यस्य वियतोऽनुत्पत्तिरिति अवान्तरसङ्गतिः । चितोऽचितश्च कार्यत्वं किमेकरूपम्, उत भिन्नरूपमिति संशयः । ऐकरूप्यं पूर्वपक्षीकृत्य वैरूप्यं सिद्धान्तीक्रियते पादद्वयेन ।।

तत्र प्रथमाधिकरणस्य संशयमाह - तत्र इति । कथमश्रुतिः ? अकाशः सभूतः इति 1श्रुतिरस्तीत्यत्राह- संभावितस्य इति । श्रवणम्- शब्दजन्यप्रमितिः। न ह्ययोग्ये 2यूपादित्यतादात्म्यादाविव इति भावः । खपुष्पं दृष्टान्ततयोक्तम् । असंभवं निरवयवद्रव्यत्वेन सर्वगतत्वेन चोपपादयति- न खलु इति । केवलतर्कों बाध्य इत्यत्राह - अतः इति । तेजस्सर्गप्राथम्यं श्रुत्यर्थापत्तिः । तर्कापेतश्रुतेः तद्युक्ता सा बलीयसीति भावः ।। 1 ।।

सिद्धान्तः

एवं प्राप्तेऽभिधीयते-

अस्ति तु ।। 2-3-2।।

अस्ति त्वाकाशस्योत्पत्तिः । अतीन्द्रियार्थ......आत्मनोऽनुत्पत्तिर्न निरवयवत्वप्रयुक्तेति वक्ष्यते ।। 2 ।।

अस्ति तु । न मानान्तरागोचरत्वमयोग्यता, यागादेः स्वर्गसाधनत्वादि- प्रमित्ययोगात् । बाधकं तु न धर्मिणोऽध्यक्षतामात्रेण नागमोक्तधर्मबाधः प्रागुक्तदोषात् किं त्वध्यक्षावगतधर्मविरोधात् अयोग्यता यथा यूपादित्यैक्यस्य । न चेह साऽस्ति । सर्वगतत्वनिरवयवद्रव्यत्वे असिद्धे । दशगुणत्वपञ्जीकरणत्वोक्तेः। 1 चरमं तु महदादावनैकान्तिकं च । 2अ#ुनुमानं चागमबाधितमित्यर्थः । तर्हि कथमात्मनित्यत्वमित्यत्राह- आत्मनोऽपि इति ।। 2 ।।

पुनश्चोदयति-

गौण्यसंभवाच्छब्दाच्च ।। 2-3-3।।

"तस्माद्वा एतस्मादात्मन आकाशः....इति वियतोऽमृतत्वशब्दाच्च ।। 3 ।। उत्तरसूत्रसङ्गतिमाह - पुनः इति । गौण्यसंभवाच्छब्दाच्च । तेजःप्राथम्यात् ततः प्राक् न वियत्सृष्टिसंभवः । पश्चात्तु त्वन्मतेऽपि नेत्यर्थः ।। कथमेकस्य संभूतशब्दस्य आकाशापेक्षया...

स्याच्चैकस्य ब्रह्मशब्दवत् ।। 2-3-4।।

एकस्यैव "तस्माद्वा एतस्मात्... अनुषङ्गे च श्रवणा - वृत्ताविवाभिधानावृत्तिर्विद्यत एव इत्यर्थः ।। 4 ।।

स्याच्चैकस्य ब्रह्मशब्दवत् । तत्र ब्रह्म शब्दो द्विः प्रयुक्तः । इह तु अनुषङ्गादेकस्य कथं मुख्यगौणत्वे इत्यत्राह - अनुषङ्गे च इति । 1 प्रयोगभेदेऽपि वृत्तिभेदक्लृप्तिः अभिधानावृत्त्या । साऽनुषङ्गेऽपि तुल्येति तया तत्क्लृप्तिरविरुद्धा इत्यर्थः । 2 अभिधानावृत्तिः- बोधनव्यापारावृत्तिः।।

परिहरति-

प्रतिज्ञाहानिरव्यतिरेकात् ।। 2-3-5।।

छान्दोग्यश्रुत्यनुसारेणान्यासां....आकाशस्यापि ब्रह्मकार्यत्वेन तदव्यतिरेकादेव भवति ।। 5 ।।

अन्तरस्य राद्धान्तसूत्रतामाह - परिहरति इति । प्रतिज्ञाहानिरव्यतिरेकात् ।

स्फुटम् ।। 5 ।।

शब्देभ्यः ।। 2-3-6 ।।

इतश्च वियदुत्पत्तिः छान्दोग्ये प्रतीयते... श्रुत्यन्तर प्रतिपन्नां वियदुत्पतिं्त न निवारयितुमलम् ।। 6 ।।

शब्देभ्यः । ऐतदात्म्यम् इत्यादिवाक्यं कृत्स्नकार्यस्य 3 कारणब्रह्मात्म- कत्वपरत्वादुपात्तम् । आदि शब्दात् सन्मूलाः इत्यादि गृह्यते । न च इति । न हि घटोत्पत्तिवचनं पटोत्पत्तिवारकमित्यर्थः । प्राथम्यं वारकमित्यत्राह - वियत् इति । श्रुतप्रहाणेन 1अश्रुतप्राथम्यक्लृप्तिरयुक्तेति भावः ।।

यावद्विकारं तु विभागो लोकवत् ।। 2-3-7 ।।

तुशब्दश्चार्थे । ऐतदात्म्यम् ... ... सुराणामिव चिरकाल स्थायित्वाभिप्रायम् ।। 7 ।।

यावद्विकारं तु विभागो लोकवत् । विकारत्त्वम् - कार्यत्वम्। आदि शब्दादेकत्वावधारणादि । एवं च इति । अन्यथा वायोरप्यनुत्पत्तिः स्यादिति भावः ।। 7 ।।

एतेन मातरिश्वा व्याख्यातः ।। 2-3-8।।

अनेनैव हेतुना मातरिश्वनो वायोरपि .... मातरिश्वपरामर्शर्थम् ।।8।।

एतेन मातरिश्वा व्याख्यातः । अतिदेशसूत्रत्वाभावः शङ्काधिक्याभावात्। मातरिश्वनः पृथग्योगमकृत्वा तेजो मातरिश्वनः इत्युत्तरसूत्रं न कृतम् । अतः इत्यादेस्तत ऊर्ध्वमनुवृत्त्यर्थम् । असंभवस्तु इति सूत्रस्य महदादिविषयत्वात् 5 वियत्सूत्रानन्तर्यं मातरिश्वसूत्रस्य ।। 8 ।।

असंभवस्तु सतोऽनुपपत्तेः ।। 2-3-1।।

तुशब्दोऽवधारणार्थः । असंभवः....अवगतकार्यभावस्यानुत्पत्ति- र्नौपपद्यते इति ।। 9 ।।

असंभवस्तु सतोऽनुपपत्तेः । न हि ब्रह्मणोऽनुत्पत्तिर्वाच्या । वियदादिकं विना केषामनुत्पत्त्यसंभवः ? कस्य चानुपपत्तिरित्यत्राह - एतदुक्तम् इति । प्रतिज्ञादिभिः इति आदिश ब्दात् एकत्वावधारणाद्युक्तम् ।।

इति वियदधिकरणम्-1




तेजोधिकरणम् ।।

तेजोऽतस्तथा ह्याह ।। 2-3-10।।

ब्रह्मव्यतिरिक्तस्य कृत्स्नस्य....."वायोरग्निः" इति ह्याह ।। 10 ।।

तेजोऽतस्तथा ह्याह । अवान्तरसङ्गतिमाह - ब्रह्म इति ।। 10।।

आपः ।। 2-3-11 ।।

आपोऽपि, अतः तेजसः...."तदपोऽसृजत" इति ह्याह ।।11।। आपः । अतः इत्याद्यनुषङ्गः ।। 11।।

पृथिवी ।।2-3-12।।

पृथिवी अद्भ्य उत्पद्यते...."ता अन्नमसृजन्त" इति ह्याह ।। 12 ।।

पृथिवी । तथा इहाप्यनुषङ्गः ।। 12 ।।

नन्वन्नशब्देन कथं पृथिव्यभिधीयते ? अत आह-

अधिकाररूपशब्दान्तररेभ्यः ।। 2-3-13।।

महाभूतसृष्ट्यधिकारात् पृथिव्येव .... ब्रह्मणः परम्परया कारणत्वेऽप्युपपद्यन्ते इति ।। 13 ।।

उत्तरसूत्रावतारायाह - ननु इति । अधिकाररूपशब्दन्तरेभ्यः । अधिकारः- प्रस्तावः ।। 13 ।।

सिद्धान्तः

एवं प्राप्ते प्रचक्ष्महे-

तदभिध्यानादेव तु तल्लिङ्गात् सः ।। 2-3-14।।

तुशब्दात् पक्षो व्यावृत्तः..."यस्य बुद्धिः शरीरम्," "यस्याव्यक्तं शरीरम्" इत्यादि ।। 14 ।।

तदभिध्यानादेव तु तल्लिङ्गात् सः । तल्लिङ्गात् - अभिध्यानमेव परलिङ्गम् । सर्वशाखाप्रत्ययनयात् महदादिष्वपि ईक्षासिद्धिमाह - महदहङ्कार इति । न परमीक्षानुपपत्त्या तत्तच्छरीरकस्य कारणत्वम् , श्रौतं च तत्तच्छरीर- कत्वमित्याह- श्रूयते च इति ।। 14 ।।

यच्चोक्तम् "एतस्माज्जायते प्राणो .... ...

विपर्ययेण तु क्रमोऽत उपपद्यत च ।।2-3-15।।

तुशब्दोऽवधारणार्थः । ... ... इत्यादिकमपि सर्वस्य ब्रह्मणः साक्षात्संभवस्योत्तंभनम् ।। 15।।

विपर्ययेण तु क्रमोऽत उपपद्यते च । अतः- शब्दार्थमाह- स च इति । उपरुध्येत इति स्वारस्यहानिरुक्ता । उत्तंभनम् - स्थापकम् ।। 15 ।।

अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात् ।। 2-3-16 ।।

विज्ञानसाधनत्वात् इन्द्रियाणि विज्ञानम् .... तेजः प्रभृतयश्च शब्दास्तदात्मभूतं ब्रह्मैवाभिदधति ।। 16।।

अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात् । व्याख्येयं पदं व्याचष्टे - विज्ञान इति । अत्रापि- न केवलं श्रुत्यन्तरेष्वेव इति भावः। तैः सह पाठलिङ्गात् - अग्र्यप्रायन्यायादिति भावः । कस्याविशेष इत्यत्राह - एतस्मात् इति । एतस्मात् प्राणः, एतस्मान्मनः इति ईदृशो ह्यन्वय इति भावः । दीपे कण्ठोक्ततया व्याख्यातम् । श्रुत्यन्तरसिद्ध इति । वायुविकारस्य प्राणस्य भूतेभ्यः प्रागुत्पत्तिविरोधादिति भावः । व्यवहितकार्याणामपि ब्रह्मण उत्पत्तिश्चेत्, कथं तेजःप्रभृतिशब्दैरभिधानमित्यत्राह - तेजःप्रभृतयः इति ।।

ननु एवं सर्वशब्दानां ब्रह्मवाचित्वे.....

चराचरव्यपाश्रयस्तु स्यात् यद्वयपदेशोऽभाक्तस्तद्भावभावित्वात्

।। 2-3-17।।

तुशब्दः चोदिताशङ्कानिवृत्त्यर्थः । ....नामरूपव्याकरणश्रुत्या हि तथाऽवगतम् ।। 17 ।।

अनन्तरसूत्रशङ्कामाह - ननु इति । चराचरव्यपाश्रयस्तु स्यात् तद्व्ययपदेशोऽभाक्तस्तद्भावभावित्वात् । हेतुखण्डं विवृण्वन् वाक्यार्थमाह समस्त इति । प्रथमयोजनायां व्युत्पत्त्यभावान्यथासिद्धिः कण्ठोक्ता स्यात्। द्वितीयस्यां ब्रह्मपर्यन्तत्वे मानोपन्यासः श्रोतः स्यात् । उभयोः अन्यतरार्थः आर्थः ।।

इति तेजोऽधिकरणम् - 2




3.आत्माधितकरणम् ।।

नात्मा श्रुतेर्नित्यत्वाच्च ताभ्यः ।। 2-3-18।।

वियदादेः कृत्स्नस्य परस्मात् ब्रह्मणः... सेयं स्वरूपान्यथाभावलक्षणोत्पत्तिर्जीवे प्रतिषिध्यते ।।

नात्मा श्रुतेर्नित्यत्वाच्च ताभ्यः । सङ्गतिमाह - वियदादेः इति। एवं स्वानन्तरकारणशरीरकब्रह्मणो

वियदाद्युत्पत्तिरुक्ता । तर्हि तद्वन्निरवयवस्यात्मनोऽपि सेति सङ्गतिः । वियदादिवत् उत्पत्तिरस्ति नास्तीति संशयः । श्रुत्यर्थापत्तिश्रुतिभिः पूर्वपक्षः । प्रजाशब्दश्च संसृष्टजीवपरः।।

राद्धान्ते आत्मनः इति । ताभ्यः सिद्धान्तितत्वात् इति शब्दार्थः । कथम् इति कृतं चोद्यं परिहरति - इत्थम् इति । व्याहर्ति परिहर्तुं कार्यलक्षणमाह - कार्यत्वं हि इति । वैषम्यमाह - इयान् इति ।।

एतदुक्तं भवति - भोग्यभोक्तृनियन्तृन्.... प्रकारभूतचिदचिद्वस्तुगताः अपुरुषार्थाः स्वरूपान्यथाभावाश्चेति सर्वं समञ्जसम् ।। 18 ।।

अचितः कार्यत्वं स्वरूपान्यथात्वरूपम्, चितस्तु धीसङ्कोचविकासरूपमिति कृतो विभागः । परस्य च कार्यत्वं तयोरन्यतरप्रकारेणेति चेतनत्वात् धर्मान्यथाभावरूपकार्यत्वं , तेन च कर्ममूलासार्वज्ञ्यं स्यादित्यत्राह - एतदुक्तम् इति । भोग्यगतम् - न तु स्वासाधारणमिति भावः । उत्पत्त्यादि इति विनाशग्रहणम् । घटकश्रुत्यर्थमाह - सर्वावस्थयोः इति । सदैवं चेत् कथं कार्यकारणभाव इत्यत्राह - तत् कदाचित् इति । कार्यत्वम् अवस्थान्तरापत्तिरूपमिति फलितम् । कार्यत्वावान्तरभिदामुपपादयति - तत्र इति । तथा सति ब्रह्मणः कार्यत्वं कथमित्यपेक्षायां साधारणं कार्यत्वमाह - कारणावस्थाया इति । प्रतिज्ञादृष्टान्तौ कथमित्यत्राह - अत एव इति । अनेकाकारविशिष्टैकवस्तुनोऽवस्थाभेदमात्रे दृष्टान्तः । काठिन्यादिवत् मानविरुद्धाकारस्तु त्याज्य इति भावः । उत्पत्यनुत्पत्त्यादिश्रुतीनां विषयभेदमाह - ईदृश इति। अनिष्ट शब्दः सद्वारकावस्थानियन्तृत्वव्युदासार्थः एकत्वावधारणं निर्वहति - एवम् इति ।।

ये तु इति । सौत्रत्वात स्वोपगमाच्चेत्यर्थः । तर्हि तत्पक्ष एव स्वीकार्य इत्यत्राह - इयान् इति । नियन्त्रंशस्य न भोक्तृत्वमित्यत्राह - नियन्त्रंशस्य इति ।।18।।

इति आत्माधिकरणम्-3




4.ज्ञाधिकरणम् ।।

ज्ञोऽत एव ।। 2-3-19।।

वियदादिवज्जीवो नोत्पद्यत इत्युक्तम्, तत्प्रसङ्गेन जीवस्वरूपं निरूप्यते। .... ... कर्ता विज्ञानात्मा पुरुषः "एवमेवास्य परिद्रष्टुरिमाःषोडशकलाः" इति ।। 19।।

ज्ञोऽत ऐव । सङ्गतिमाह - वियदादिवत् इति । सङ्गतिः प्रासङ्गिकी । कार्यताप्रकारो हि पादनिरूप्यः । स्वात्मानं प्रति ज्ञातृत्वम् स्वस्वान्यभानप्रतिसंबन्धित्वं विवक्षितम् । स्वरूपम् - स्वाभाविकाकारः अकादाचित्कमित्यर्थः । अतः शिरोद्वयप्रतियोगित्वं तृतीयशिरसः । इदमेवात्र निरूप्यम् । तत्र स्वभानप्रतिसंबन्धितया प्रत्यक्त्वम् ; तस्य स्वापोऽपि विद्यमानत्वात् अजडस्वरूपत्वम् । अन्यभानप्रतिसंबन्धितया ज्ञानाश्रयत्वम् । शङ्काविशेषपरिहारार्थमणुत्वमित्येषामर्थानां ज्ञत्वनिरूपणान्तर्भावादैकाधिकरण्यम्

।।

अपरः- काणादादिः । सर्वगतत्वं च इति । ज्ञानादिकं कार्य शब्दार्थः । भोग्यवस्तु चाभिप्रतम् । अणुत्वगत्योर्द्वयोः क्लृप्तेः विभुत्वक्लृप्तिर्वरमिति लाघवमभिप्रेतम् ।।

राद्धान्ते - एतच्छब्दः प्रकृतजातीयपरामर्शीति श्रुतिव्यक्तिभेदाविरोधः ।।19।।

यत्तूक्तं ज्ञातृत्वे स्वाभाविके सति.....

उत्क्रान्तिगत्यागतीनाम् ।। 2-3-20।।

नायं सर्वगतः, अपि त्वणुरेवायमात्मा....विभुत्वे ह्येता उत्क्रान्त्यादयो नोपपद्येरन् ।। 20 ।।

उत्क्रान्तिगत्यागतीनाम् । श्रुत्यर्थापत्तिरुक्ता ।। 20।।

स्वात्मना चोत्तरयोः ।। 2-6-21।।

चशब्दो ऽवधारणे । यद्यपि शरीरवियोगरूपत्वेन .... अतस्ते स्वात्मनैव संपाद्ये ।। 21।।

स्वात्मना चोत्तरयोः । कथञ्चित् इति अस्वारस्यसूचन् । गतेः श्रौतत्वात् अणुत्वमेव कल्प्यमिति न गौरवम् । विभुत्वक्लृप्निस्तु श्रुतिविरुद्धेति भिदेत्यर्थः ।।

नाणुरतच्छुतेरिति चेन्नेतराधिकारात् ।। 2-3-22 ।।

"योऽयं विज्ञानमयः प्राणेषु" इति जीव.....मध्ये परः प्रतिपाद्यत इति तत्संबन्धीदं महत्त्वम् ; न जीवस्य ।। 22 ।।

नाणुरतच्छØतेरिति चेन्नेतराधिकारात् । यस्य - जीवस्य , अनुवित्तः- उपास्यः, प्राप्यो वा । विदेर्ज्ञानलाभार्थत्वात् । ज्ञानार्थत्वे इडनित्यत्वं छान्दसम् । अदृष्टो द्रष्टेतिवत् अर्हार्थीया निष्ठा । प्रतिबुद्धः- प्राज्ञः ।। 22 ।।

स्वशब्दोन्मानाभ्यां च।। 2-3-23।।

साक्षादणुशब्द एव श्रूयते "एषोऽणुरात्मा....अतोऽणुरेवायमात्मा ।।23।।

स्वशब्दोन्मानाभ्यां च । इह श्रुतिर्दर्शिता । अणुत्वं च श्रौतमितिन किञ्चित् कल्प्यम् । स्वशब्दः अणुत्ववाचकः । न त्वाक्षेपकः।।

अथ स्यात्-आत्मनोऽणुत्वे....

अविरोधश्चान्दनवत् ।। 2-3-14।।

यथा हरिचन्दनबिन्दुः .... .... दैहैकदेशवर्ती सकलदेशवर्तिनीं वेदनामनुभवति ।। 24 ।।

शङ्कामाह - अथ इति। वेदना- दुःखानुभवः ;प्रदर्शन वा सुखस्य ।।

अविरोधश्चन्दनवत् । वेदनामनुभवति - दुःखमनुभवतीत्यर्थः ।।

अवस्थितिवैशेष्यादिति चेन्नामभ्युपगमाद्धृदि हि ।। 2-3-25।।

हरिचन्दनबिन्द्वादेर्देहदेशविशेष... चन्दनदृष्टान्तः प्रदर्शितः,न तु चन्दनस्य देशविशेषापेक्षा ।। 25 ।।

अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृदि हि । कार्यकरत्वौपयिकत्वात् तत्रैकशतम् इत्युपात्तम् । न तु इति । न तु हन्मात्रापेक्षा । नासानयनादिमर्मस्थित्या कार्यकरत्वादित्यर्थः ।।

एकदेशवर्तिनः सकलदेहव्यापि...

गुणाद्वाऽऽलोकवत् ।। 2-3-26।।

वाशब्दो मतान्तरव्यावृत्त्यर्थः ; आत्मा...अन्यत्रवृत्तिर्मणिप्रभाव- दुपपद्यत इति प्रथमसूत्रे स्थापितम् ।। 26 ।।

सौभर्यादीनामेकेतरदेहेषु प्रागुक्तदिशा कार्यकरत्वयगान्निर्वाहान्तरोक्तिः ।। गुणादवाऽऽलोकवत् । कथमयुतसिद्धधर्मस्य देशान्तरे वृत्तिरित्यत्राह- ज्ञातुः

प्रभा इति ।। 26 ।।

ननु-उक्तं ज्ञानमात्रमेवात्मेति ।....

व्यतिरेको गन्धवत् तथा च दर्शयति ।। 2-3-27 ।।

यथा पृथिव्याः गन्धस्य गुणत्वेन .... दर्शयति च श्रुतिः "जानात्येवायं पुरुषः" इति ।। 27।।

ननु इति ज्ञानस्वरूपवचनमभिप्रेतम् । तन्निर्वाहाय व्यतिरेके मानं दर्श्यते ।।

व्यतिरेको गन्धवत् तथा च दर्शयति । जानाति इति विशिष्टवाचकशब्दः ।। 27 ।।

पृथगुपदेशात् ।। 2-3-28 ।।

स्वशब्देनैव विज्ञानं विज्ञातुः पृथगुपदिश्यते - न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते इति ।। 28 ।।

पृथगुपदेशात् । विशेषणस्य पदान्तरेण निर्देशो दर्शितः ।। 28 ।।

यत् तु उक्तम् यो विज्ञाने तिष्ठन् .... ....

तद्गुणसारत्वात् तु तद्व्यपदेशः प्राज्ञवत् ।। 2-3-29 ।।

तुशब्दश्चोद्यं व्यावर्तयति । ... ... यः सर्वज्ञः इत्यादिषु प्राज्ञस्य ज्ञानं सारभूतो गुण इति विज्ञायते ।। 29 ।।

व्यतिरेके मानसिद्धे ज्ञानरूपत्ववचनं निर्वोढुं प्रागुक्तशङ्कामुद्धाटयति - यत् तु इति ।।

तद्गुणसारत्वात् तु तद्व्यपदेशः प्राज्ञवत् । तच्छब्दार्थमाह विज्ञान इति । षष्ठीतत्पुरुषशङ्काव्युदासायाह -

विज्ञानमेव इति । गुण शब्दः अप्रधानवाची । गुणः शेषभूतः , तस्य सारत्वं गुणान्तरापेक्षया प्रकृष्टत्वम् । तच्च होमादिगुणभूतदध्यादिव्यावर्तकम् अपृथक्सिद्धत्वम् । तेन गुणिपर्यन्तबोधनस्य मुख्यत्वसिद्धिः । विज्ञानमेव - द्रव्यमेव सदयुतसिद्धमिति भावः । प्राज्ञवत् इत्यंशं व्याचष्टे - यथा इति । दृष्टान्ते धर्मधर्मिभावस्य प्रामणिकत्वं दर्शयति - यदेष इति। स्पष्टम् ।। 29 ।।

यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात् ।। 2-3-30 ।।

विज्ञानस्य यावदात्मभाविधर्मत्वात् ... ... स्वप्रकाशत्वेन विज्ञानमिति

व्यपदेशो न दोष इति समुच्चिनोति ।। 30 ।।

पटः शुक्ल इत्यादौ गुणपदेन गुण्युक्तिः धर्मिसमर्पकपदान्तरसम- भिव्याहारात् । इह तु तदभावान्न गुण्युक्तिर्युक्तेति स्वरूपमेव ज्ञानमुच्यते , न धीधर्मकं स्वरूपमित्यत्राह - यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात् । आत्म शब्दो धर्मिपरः । तद्व्यपदेशः न दोषः । दूष्यत इति दोषः । कर्मणि घञ् । धर्मिवाचिपदान्तराभावस्वरूपदोषदुष्टो न भवतीत्यर्थः । तद्दर्शनात् इत्येतत् व्याचष्टे - तथा इति । कथं शङ्कयाः परिहृतत्वमित्यत्राह - स्वरूप इति । शौक्ल्यस्य पटनिरूपकत्वाभावात् धर्मिवाचिपदान्तरापेक्षा । गोत्वादेस्तु निरूपकत्वात् न गवदिपदानां तदपेक्षा । ज्ञानपदं तद्वदित्यर्थः । ज्ञानमचिदपेक्षया जीवस्य निरूपकम् । परस्य तु स्वतो नित्यासंकुचितं ज्ञानं निरूपकम् । अत्र पूर्वसूत्रोक्तस्यायुतसिद्धत्वस्य हेतोः असिद्धिशङ्का च यावदात्मभावित्वोक्त्याऽर्थान्निरस्ता भवति । अयावदधर्मिभाविनामपि गुणानामयुतसिद्धिरस्ति । किं पुनर्यावद्धर्मिंभाविनामिति ।।

यच्चोक्तम् - सुषुप्त्यादिषु ज्ञानाभावात् ... ...

पुंस्त्वादिवत् त्वस्य सतोऽभिव्यक्तियोगात् ।। 2-3-31 ।।

तुशब्दश्चोदिताशङ्कानिवृत्त्यर्थः । ... ... मनसैतान् कामान् पश्यन् रमते इत्यादिश्रुत्यैकार्थ्यात् ।। 31 ।।

पुंस्त्वादिवत् त्वस्य सतोऽभिव्यक्तियोगात् । न बाल्ये पुंस्त्वमित्यत्राह - सप्तधातु इति । स्वापेऽपि धियः स्वप्रकाशतार्हत्वान्न जडत्वम् । स्वसिद्ध्यहमर्थस्यापि ज्ञानस्यैवोपलभ्यो विषयसंबन्धापेक्ष इत्यत्राह - सुषुप्त्यादिष्वपि इति । अहन्धीवेद्यत्वे जडत्वादीत्यत्राह - एते च इति । नित्योपलब्ध्याद्यप्रसङ्गायाह - स चायम् इति । न प्रेत्य इति । देहात्मधीर्नेत्यर्थः ।। 31 ।।

संप्रति ज्ञानात्मवादे तस्य सर्वगतत्वे दूषणमाह -

नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वाऽन्यथा ।। 2-3-32 ।।

अन्यथा सर्वगतत्वपक्षे तस्य ज्ञानमात्रत्वपक्षे च .... ... करणैः सर्वदा संयुक्तत्वात् अदृष्टादेरप्यनियमादुक्तदोषः समानः ।।

नित्योपलब्ध्यनुलब्धिप्रसङ्गोऽन्यतरनियमो वाऽन्यथा । नित्योपलब्धिः प्रसजतु । कथमनुपलब्धिः ? उभयं च सदा प्रसजेदित्यत्राह एतदुक्तम् इति ।

विकल्पितशिरोऽभिप्रायेणोक्तमित्यर्थः । स्वमते त्वप्रसङ्गमाह - अस्माकम् इति । जडात्मविभुत्वपक्षेऽपि शिरोभेदेन दूषणत्रयसाम्यमाह - करणायत्त इति । अदृष्टादेः इति । देहसाधारण्यात् तत्कृतादृष्टानियम इत्यर्थः ।। 32 ।।

इति ज्ञाधिकरणम् - 4




5. कर्त्रधिकरणम् ।।

कर्ता शास्त्रार्थवत्त्वात् ।। 2-3-33 ।।

अयमात्मा ज्ञाता , स चाणुपरिमाण इत्युक्तम् । इदानीं .... य आत्मानमेव केवलं कर्तारं मन्यते , न स पश्यतीत्यर्थः ।। 33 ।।

कर्ता शास्त्रार्थवत्त्वात् । ज्ञातृत्वसापेक्षत्वात् कर्तृत्वस्य , तदनन्तरं तच्चिन्तासङ्गतिः । हन्तारम् इति । महान्तं विभुम् इति प्रकरणोक्ते परमात्मनि न जायते इत्यचिद्धर्मः , हन्तारम् इति पुण्यपापकर्तृत्वरूपजीवधर्मश्च निषिध्यत इति शङ्काव्युदासायोक्तं जीवस्य इति । अवान्तरप्रकरणे परस्य न प्रसङ्ग इति भावः । प्रकृतौ नित्यायां कर्तृत्वरूपजीवधर्मः नाशित्वं च निषिध्यति इति शङ्काव्युदासायोक्तं सर्वं प्रकृतिधर्मम् इति । कार्त्स्न्येन प्रकृतिधर्मनिषेधपरं प्रकरणमिति भावः

। हन्तुम् इति द्वितीयान्तः , जन्तुम् इतिवत् । हननमात्रे कर्तृत्वनिषेधः , न सर्वक्रियासु इति शङ्काव्युदा सायाह - तथा च इति ।।

राद्धान्ते - शास्रार्थवत्त्वात् इति । प्रयोजनतया हेतुत्वम् । अवयवार्थनिरूपणेन कर्तृत्वमाह - शासनाच्च इति । गुणानामेव कर्तृता इति औपचारिकोक्तिः । गुणसहकृतत्वं स्फुटयति - तथा च इति । आत्मनः कर्तृत्वं भगवद्गीतायामभ्युपगतमित्याह - तथा इति । इदमपि वचनं विशदयितुमाह - अधिष्ठानम् इति । शरीरवाड्मनोभिः इत्यादिरप्यनुसन्धेयः ।। 33 ।।

उपादानाद्विहारोपदेशाच्च ।। 2-3-34 ।।

स यथा महाराजः इति प्रकृत्य ... ... प्राणानामुपादाने विहारे च कर्तृत्वमुपदिश्यते ।। 34 ।।

उपादनाद्विहारोपदेशाच्च । इन्द्रियप्राणदेहप्रेरणकर्तृंत्वमुक्तमित्यर्थः ।।

व्यपदेशाच्च क्रियायां न चेन्निर्देशविपर्ययः ।। 2-3-35 ।।

विज्ञानं यज्ञं तनुते कर्माणि तनुते .... ... बुद्धेः करणत्वात् विज्ञानेनेति करणधिभक्तिनिर्देशः स्यात् ।। 35 ।।

व्यपदेशाच्च क्रियायां न चेन्निर्देशविपर्ययः । विज्ञानेन इति । उपचरितत्वे तदेव दोष इति भावः ।। 35 ।।

उपलब्धिवदनियमः ।। 2-3-36 ।।

आत्मनोऽकर्तृत्वे दोष उच्यते । ... ... अन्तःकरणादीनामपि नियमो नोपपद्यते ; यदायत्ता व्यवस्था स्यात् ।। 36 ।।

उपलब्धिवदनियमः । अन्तःकरणभेदात् व्यवस्थेत्यत्राह - अत एव च इति ।। 36 ।।

शाक्तिविपर्ययात् ।। 2-3-37 ।।

बुद्धेः कर्तृत्वे कर्तुरन्यस्य भोक्तृत्वानुपपत्तेः ... .... पुरुषोऽस्ति भोक्तृभावात् इति हि तेषामभ्युपगमः ।। 37 ।।

शक्तिविपर्ययात् । कथं मानाभाव इत्यत्राह - पुरुषोऽस्ति इति ।।

समाध्यभावाच्च ।। 2-3-38 ।।

बुद्धेः कर्तृत्वे मोक्षसाधनभूतसमाधावपि ... .... प्रकृतिः समाधातुमलम् । अतोऽप्यात्मैव कर्ता ।। 38 ।।

समाध्यभावाच्च । अचेतनत्वात् प्रकृतेन्यथाविषयत्वाच्च समाध्यनुपपत्तिः ।। 38 ।।

यथा च तक्षोभयथा ।। 2-3-39 ।।

वागादिकरणसंपन्नोऽप्यात्मा ... ... भोगवाञ्छादिनियमकारणाभावात् सर्वदा कर्तृत्वमेव स्यात् ।। 39 ।।

यथा च तक्षोभयथा । त्वदुक्तो दोषस्त्वन्मते एवेत्याह - वुद्धस्तु इति

।। 39 ।।

इति कर्त्रधिकरणम् - 5




6. परायत्ताधिकरणम् ।।

परात् तु तच्छØतेः ।। 2-3-40 ।।

इदं जीवस्य कर्तृत्वं किं स्वातन्त्र्येण ? .... ... भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया इति ।। 40 ।।

परात् तु तच्छØतेः । सङ्गतिः स्फुटा ।।

राद्धान्ते -
तत् इति व्याख्येयम् । कर्तृत्वम् इति व्याख्यानम्

।। 40 ।।

नन्वेवं विधिनिषेधशास्त्रानर्थक्यं .... ....

कृतप्रयत्रापेक्षस्तु विहितप्रतिषिद्धावैयर्थ्यादिभ्यः ।। 2-3-41 ।।

सर्वासु क्रियासु पुरुषेण कृतं .... ... क्षिपाभ्यजस्रमशुभानासुरीष्वेव योनिषु इत्युक्तम् ।। 41 ।।

अनन्तरसूत्रशङ्कामाह - ननु इति । कृतप्रयत्रापेक्षस्तु विहितप्रतिषिद्धावैयर्थ्यादिभ्यः । आदि शब्दं व्याचष्टे -

निग्रह इति । भाष्यस्थ - आदि शब्देन फलदानग्रहणम् । प्रवृत्तस्य प्रवर्तकोऽनुमन्ता । अन्यसापेक्षत्वे प्रथमप्रवृत्तस्य च फलान्वये च दृष्टान्तमाह - यथा इति । राजसंश्रयणादिकमुदाहरणम् । अन्यापेक्षत्वेऽपि विधिनिषेधभाक्त्वं रथाकर्षकेषु दृष्टम् । अंशे पारतन्त्र्यात् न फलमिति पूर्वः पक्षः । अंशे स्वातन्त्र्यात् फलमिति सिद्धान्तः ।।

साधारणकारणमीश्वरः करणकलेवरचित्प्रवृत्तिदानादिना । विशेषकर्तृत्वे तु प्रागुपेक्षकः पश्चात् त्वनुमन्ता । अनुमतिश्च फलदानतुल्या । अतः परायत्तत्वम् । प्रथमप्रवृत्तौ स्वातन्त्र्यात् फलान्वयः । दया त्वन्यत्र सावकाशा । अप्रवृत्तप्रवर्तनरूपं प्रयोजयितृत्वं दश्यत इति चोदयति - ननु इति । फलदानकल्पमिति बुद्ध्या परिहरति - उच्यते इति । लोकदृष्ट्याऽनुमन्तृत्वात् दोषापादनं धर्मिग्राहकध्वस्तम् । अनुमन्तुः फलान्वयश्च शास्त्रवश्यत्वे सत्यनुमन्तृत्वात् । न त्वनुमन्तृत्वमात्रात् । अतः सर्वमुपपन्नम् ।।

इति परयत्ताधिकरणम् - 6




7. अंशाधिकरणम् ।।

अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके

।। 2-342 ।।

जीवस्य कर्तृत्वं परमपुरुषायत्तम् ... ... उभयव्यपदेशोपपत्तये जीवोऽयं ब्रह्मणोंऽश इत्यभ्युपेत्यम् ।। 42 ।।

अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके । जीवोऽनुमतिदानात् प्रवृत्तश्चेत् राजभृत्यादिवत् स्पष्टभेदः स्यात् इति शङ्कया सङ्गतिः । ब्रह्मंश इति पक्षे च किं विशेष्यैकदेशतयांशः , उत विशिष्टैकदेशरूपविशेषणतया इति विकल्पो गर्भितः श्रुति इति । वादिविमतेरपि श्रुतिवैविध्यमूलत्वात् इति भावः । ननु इति शङ्कितं पौनरुक्त्यं परिहरति सत्यम् इति । पूर्वं शरीरात्मभावेनाभेदश्रुतिमुख्यत्वमुक्तम् । तच्चात्र शरीरवाचिनामाकृतिनयविषयत्वे स्थापिते सिध्येत् । तच्च प्रभाया इवायुतसिद्धविशेषणतयांशत्वे सिध्यति । विशेषणतयांशत्वात् विलक्षणत्वसिद्धिरिति उभयव्यपदेशमुख्यत्वमिहैव प्रतिष्ठितमित्यर्थः । किं तावत् इत्यादि । विशेष्यैकदेशरूपांशवादिनम् अत्यन्तभेदवादी दूषयति - ब्रह्मर्णोऽशः इति । यद्वा इति । अभेद षङ्विधतात्पर्यलिङ्गसद्भावोऽभिप्रेतः ।।

राद्धान्ते - ततश्च इति । निकृष्टैरपि सामानाधिकरण्यम- भेदस्यौपचारिकत्वविरोधीति भावः । परोक्तान्यथासिद्धि दूषयति - न च इति । अभेदश्रुतिविरोधपरिहारादिकं पूर्ववत् । स्पष्टम् । सत्योपाध्यवच्छिन्नब्रह्यजीवपक्षं दूषयति - उपाध्यवच्छिन्नम् इत्यादिना ।। 42 ।।

मन्त्रवर्णात् ।। 2-3-43 ।।

पादोऽस्य विश्वा भूतानि .... ... असन्ततेश्चाध्यतिकरः इत्यनन्तरमेव चात्मबहुत्वं वक्ष्यति ।। 43 ।।

मन्त्रवर्णात् । कथमंशत्वाप्रतीरित्यत्राह - अंशवाची इति । नित्यो नित्यानाम् इति विशिष्टविधिः । भेदस्य स्वाभाविकत्वमलौकिकम् । भेदकाकाराभावन्मुक्तौ कथं भेदधीरित्यत्राह - एवम् इति । ज्ञानस्वरूपत्वेन इति जीवाद्वैतवचननिर्वाहः सूचितः । प्रत्यक्तया पराक्तया च भेदः ।।

अपि स्मर्यते ।। 2-3-44 ।।

ममैवांशो जीवलोके जीवभूतः ... ... पुरुषोत्तमांशत्वं स्मर्यते । अतश्चायमंशः ।। 44 ।।

अपि स्मर्यते । स्फुटम् ।

अंशत्वेऽपि जीवस्य ब्रह्मैकदेशत्वेन ... ...

प्रकाशादिवत् तु नैवं परः ।। 2-3-45 ।।

तुशब्दश्चोद्यं व्यावर्तयति .... .... जीवशरीरकब्रह्मवाचकत्वे नैकार्थाभिधायित्वादित्ययमर्थः प्रागेव प्रपञ्चितः ।। 45 ।।

शङ्कामाह - अंशत्वेऽपि इति । प्रकाशादिवत् तु नैवं परः । आदि शब्दार्थमाह - यथा गवाश्व इति । कथमंशत्वमित्यत्राह एकवस्तु इति । ततः किं प्रकृतशङ्काया इत्यत्राह - विशेषणविशेष्ययोः इति । बहुलत्वविरलत्वादिस्वभावे वैलक्षण्यम् । अयमर्थः सौत्र इत्याह तदिदम् इति । सूत्रखण्डेऽमुमर्थं दर्शयति - यथाभूतः इति

। वाक्यार्थमाह - यथैव हि इति । तेनोभयव्यपदेशमुख्यत्वसिद्धिमाह - एवम् इति । भानुः भानुमान् इत्यादयः सपक्षाः इति । प्रागेव इति । प्रागुक्तार्थ एतत्सूत्राभिप्रेत इत्यर्थः ।। 45 ।।

स्मरन्ति च ।। 2-3-46 ।।

एवं प्रभाप्रभावद्रूपेण शक्तिशक्तिमद्रूपेण ... .... आत्मशरीर - भावेनांशांशित्वं वदन्ति इत्युच्यते ।। 46 ।।

स्मरन्ति च । अं शत्वे स्मृतिः प्रागुक्ता । विशेषणतयांशत्वे त्वियमुपात्ता । स्मृतौ दृष्टान्तेन वैशद्यात् तत्कण्ठोक्तिः ।। 46 ।।

एवं ब्रह्मणोशत्वे ब्रह्मप्रवर्त्यत्वे ... ...

अनुज्ञापरिहारौ देहसंबन्धाज्ज्योतिरादिवत् ।। 2-3-47 ।।

सर्वेषा ब्रह्मांशत्वज्ञत्वादिनै - करूपत्वे .... .. श्रोत्रियादेरनुज्ञायते । अभिशस्तादेस्तु परिह्रियते ।। 47 ।।

अधिकरणत्रयार्थमनुवदन् अनन्तरसूत्रशङ्कामाह - एवम् इति । अनुज्ञापरिहारौ देहसंबन्धाज्ज्योतिरादिवत् । आदि शब्दार्थमाह - यथा च इति ।। 47 ।।

असन्ततेश्चाव्यतिकरः ।। 2-3-48 ।।

ब्रह्मांशत्वादिनैकरूपत्वे सत्यपि .... ... इत्यभिप्रायेण स्वपक्षे भोगव्यतिकराभाव उक्तः ।। 48 ।।

असन्ततेश्चाव्यतिकरः । समन्तात् ततिः सन्ततिः , तदभावः अणुत्वम् । तात्पर्यमाह - भ्रान्त इति ।। 48 ।।

ननु भ्रान्तब्रह्मजीववादेऽपि ... ...

आभास एव च ।। 2-3-49 ।।

अखण्डैकरसप्रकाशमात्रस्वरूपस्य ... ... एकत्वाभ्युपगमात् भोगव्यतिकरस्तदवस्थ एव ।। 49 ।।

आभास एव च । तिरोधानादिकमेवानुपपन्नम् । उपपन्नेऽपि न व्यवस्थोपपत्तिरित्यर्थः ।। 49 ।।

पारमार्थिकोपाध्युपहितब्रह्मजीववादे .. ....

अदृष्टानियमात् ।। 2-3-50 ।।

उपाधिपरंपराहेतुभूतस्यादृष्टास्यापि .... ... स्वसंबन्धेन ब्रह्मस्वरूपच्छेदासंभवात् ।। 50 ।।

अदृष्टानियमात् प्रदेशभेदान्नियम इत्यत्राह - उपाधिभिः इति ।। 50 ।।

अभिसन्ध्यादिष्वपि चैवम् ।। 2-3-51 ।।

अदृष्टहेतुभूताभिसन्ध्यादिष्वप्युक्तादेव हेतोरनियम एव ।। 51 ।।

अभिसन्ध्यादिष्वपि र्चैवम् । चः अवधारणे । आदि शब्दादुद्योगानुष्ठानादिः । उक्तात् - अच्छेद्यत्वादिकात् ।। 51 ।।

प्रदेशभेदादिति चेन्नान्तर्भावात् ।। 2-3-51 ।।

यद्यप्येकमेव ब्रह्मस्वरूपम् , तच्छेदानर्हम् .... ... सूत्रैर्वेदावलम्बिनामात्मैकत्ववादिनां दोष उच्यते ।। 52 ।।

इति अंशाधिकरणम् - 7

इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये द्वितीयस्याध्यायस्य तृतीयः पादः ।। 3 ।।

प्रदेशभेदादिति चेन्नान्तर्भावात् । उपाधीनाम् इत्यादिग्रन्थद्वये जीवानां मिथ ईश्वरेण च व्यतिकर उक्तः । पुनरुक्तिमाशङ्क्याह - पूर्वत्र इति ।। 52 ।।

इति अंशाधिकरणम् - 7

इति श्रीहरितकुलतिलकवाग्विजयिसूनुना श्रीरङ्गराजदिव्याज्ञालब्धबेदव्यासापर -

नामधयेन श्रीमद्वरदाचार्यपादसेवासमधिगत श्रीभगवद्रामानुजविरचित -

शारीरकमीमांसाभाष्यहृदयेन श्रीसुदर्शनसूरिणा विलिखितायां

श्रुतप्रदीपिकायां द्वितीयस्याध्ययस्य तृतीयः पादः ।।



च्र्ण्त्द्धड्ड ॠड्डण्न्र्ठ्ठन्र्ठ्ठ

क़त्द्धद्मद्य घ्ठ्ठड्डठ्ठ

तृतीयाध्याये प्रथमः पादः ।।




1. तदन्तरप्रतिपत्त्यधिकरणम् ।।

तदन्तरप्रातिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाभ्याम् ।। 3-1-1 ।।

अतिक्रान्ताध्यायद्वयेन निखिलजगदेककारणम् .... ... अत एवं प्रश्नप्रतिवचनाभ्यां देहहेतुभूतैः भूतसूक्ष्मैः सह तत्र तत्र यातीति गम्यते

।। 1 ।।

तदन्तरप्रतिपत्तौ रंहति संपरिष्क्तः प्रश्ननिरूपणाभ्याम । उत्तरद्विकसङ्गत्यर्थं पूर्वद्विकार्थमाह - अतिक्रान्त इति । अयमर्थः इत्यन्तेन प्रथमाध्यायार्थ उक्तः । स्मृतिइत्यादिना द्वितीयस्य । द्वयोरनुगतार्थमाह - अतः इति । द्वितीयद्विकार्थमाह - उत्तरेण इति । सिद्धविषयचिन्ताबृता ; साध्यविषयचिन्ता वर्तिष्यत इत्यर्थः । तृतीयस्यार्थमाह - तत्र इति । कथं प्रथमद्वितीययोरुपासनोक्तिरित्यत्राह - उपासन इति । तत्र इति । जागरे दोषाः फलिताः स्युरति भावः ।।

प्रश्नानन्तरं भूतसूक्ष्मपरिष्वङ्गोक्त्यदर्शनात् अर्थान्तरव्यवधान शङ्काव्युदासाय अनेकप्रश्नतत्प्रतिवचनरूपतां प्रकरणस्य दर्शयति - पञ्चाग्नि इत्यादिना । व्यावर्तने - व्यावर्तकाकारौ । श्रद्धा - भूतसूक्ष्मावस्थाविशेषः । सोमराज - अमृतमयदेवशरीरम् । अभिलप्याः - समासावगतसंबन्धो वाच्यवाचकभावरूपविशेष इति भावः । ततः किं भूतसूक्ष्मान्वयसिद्धेरित्यत्राह - एवमुक्ते इति प्रश्नप्रतिवचनवाक्ययो र्द्वयोरपि आहुतौ इति निर्देशेन होतव्यद्रव्याकांक्षायां स्ववाक्यस्थतया अपाम् एव होतव्यत्वोपपत्तेः । पञ्चस्वाहुतिषु ताः अनुवृत्ता इति तासां पुरुषवचस्त्वमित्यर्थः । ततः किमित्यत्राह - अतः इति ।। 1 ।।

ननु आप पुरुवचसः इन्युक्तेः .... ...

त्र्यात्मकत्वात् तु भूयस्त्वात् ।। 3-1-2 ।।

तुशब्दश्चोद्यं व्यावर्तयति ... ... देहे च लोहितादिभूयस्त्वे नारंभकेषु अपां भूयस्त्वं गम्यते ।। 2 ।।

अनन्तरसूत्रङ्कामाह - ननु इति । त्र्यात्मकत्वात् तु भूयस्त्वात् । ननु एकैकं

त्रिवृत्कृतानि सर्वाणि भूतानि देहे सन्ति । तत् कथं त्रिवृत्करणं सर्वभूतसद्भावे हेतुरुक्तः ? उच्यते - त्रिवृत्करणश्रुतेः प्रत्येकं त्रिवृत्कृतभूत समुदायस्यैव व्यष्टिदेहारंभकताप्रतिपादनपरत्वादिति । व्यष्टिसृष्ट्यर्थमनुप्रवेष्टव्यतया श्रुतानां तासां देवतानामेकैकस्य न हि त्रिवृत्करणमुच्यते तिस्रो देवता अनुप्रविश्य तासां त्रिवृतं त्रिवृतमेकैकाम् इति । अतः त्रिवृत्कृतसमुदाय एव देहारंभकः । अतो देहे च इति । त्रिवृत्कृतात् भूतान्तरात् त्रिवृत्कृतानामपां देहे भूयस्त्वमित्यर्थः ।। 2 ।।

प्रणगतेश्च ।। 3-1-3 ।।

इतश्च भूतसूक्ष्मपरिष्वक्तस्य गमनमिति गम्यते । .... ... तदाश्रयभूतानां भूतसूक्ष्माणामपि गतिरभ्युपगन्तव्या ।। 3 ।।

प्राणगतेश्च ।

स्मर्यते च ।।

सूत्रद्वयं स्फुटम् ।। 33 ।।

अग्न्यादिश्रुतेरिति चेन्न भाक्तत्वात् ।। 3-1-4 ।।

यत्रास्य पुरुषस्य मृतस्याÐग्न वागप्येति ... ... अतः चक्षुराद्यप्ययश्रुतिरधिष्ठातृदेवतापक्रमणद्वारा ।। 4 ।।

अग्न्यादिश्रुतेरिति चेन्न भाक्तत्वात् । अनपियद्भिः - अप्ययरहितैः । केशाद्यप्ययश्रुतिवत् वागाद्यप्ययश्रुतिस्तत्तद्देवतापक्रमणद्वारा । वागभिमानिदेवता अग्निमष्येति - वागभिमानित्वं विहाय केवलमग्निरूपेण तिष्ठतीत्यर्थः ।। 4 ।।

प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्तेः ।। 3-1-5 ।।

यदुक्तम् - अद्भिः सूक्ष्माभिः भूतान्तरसंसृष्टाभिः ... .... अतो भूतान्तरसंसृष्टाभिरद्भिः संपरिष्वक्तो जीवो रंहतीत्युपपन्नम् ।।

प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्तेः । श्रद्धा इति । प्रश्नगतप्रकारस्य प्रतिवचनान्ते निगमनात् मध्येऽपि तत्प्रकार एवोक्त इति श्रद्धा - आपः इत्यर्थः । अपामेव , न तु मनोवृत्तिविशेषस्य ।। 5।।

अश्रुतत्वादिति चेन्नेष्टादिकारिणां प्रतीतेः ।। 3-1-6 ।।

यत् पुनरुक्तम् - अद्भिः संपरिष्वक्तो जीवो यातीति ... .. विशेष्ये जीव एव पर्यवस्यति । अतः संपरिष्वक्तो जीवो यातीत्युपपद्यते ।। 6 ।।

अश्रुतत्वादिति चेन्नेष्टादिकारिणां प्रतीतेः । अस्मिन्नेव वाक्ये महावाक्ये इत्यर्थः । तद्भूय इति । तद्योगी भवतीत्यर्थः । स्फुटजीववाक्यैकार्थ्यात् अस्फुटार्थस्य

वाक्यस्य तत्परत्वमित्यर्थः । श्रद्धा - शब्देन तद्विशिष्टकथनं लाक्षणिकमित्यत्राह - देहस्य इति ।। 6 ।।

ननु च तं देवा भक्षयन्ति इति .... ...

भाक्तं वाऽनात्मवित्त्वात् तथा हि

दर्शयति ।। 3-1-7 ।।

वाशब्दश्चोद्यं व्यावर्तयति । ... .... तस्मात् भूतसूक्ष्मैः संपरिष्वक्तो जीवो रंहतीति सिद्धम् ।। 7 ।।

अनन्तरसूत्रस्याकांक्षां चोद्यमुखेन दर्शयति - ननु इति । भाक्तं वाऽनात्मत्त्वात् तथा हि दर्शयति । इहामुत्र चोपकरणत्वं विवृणोति - इह इति । अन्नत्वेन - भोग्यत्वेन । भक्षणस्यान्नविनाशरूपव्यावृत्तिः । अधिकरणार्थमुपसंरति - तस्मात् इति ।। 7 ।।

इति तदन्तरप्रतिपत्त्यधिकरणम् - 1

1. कृतात्ययाधिकरणम् ।।

कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्यां यथेतमनेवं च ।। 3-1-8 ।।

केवलेष्टापूर्तदत्तकारिणाम् , धूमादिना .... ... तत्राकाशावरोहणाद्यथेतम् ; वाय्वादिप्राप्तेः पितृलोकाद्यप्राप्तेश्चानेवम्

।। 8 ।।

कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्यां यथेतमनेवं च । यावत्संसारं प्रकृत्यसंबन्धो निषिद्धः । अथ तद्धेतुभूतकर्मसंबन्ध उच्यते इति सङ्गतिः । अभ्याशः - अभ्यागन्तारः । अभुक्त इति श्रुत्यर्थापत्तिकथनम् । यथेतम् - यथागतम् ।। 8 ।।

चरणादिति चेन्न तदुपलक्षणार्थेति कार्ष्णाजिनि #ः ।। 3-1-9 ।।

रमणीयचरणाः कपूयचरणाः इति .... ... सुखदुःखप्राप्त्यसंभवात् । सुखदुःखे हि पुण्यपापरूपकर्मफले ।। 9 ।।

चरणादिति चेन्न तदुपलक्षणार्थेति कार्ष्णाजिनिः अनवद्यानिकर्माणि इति यज्ञादीनि ; अस्माकं सुचरितानि इति आचार इति पूर्वपक्षिणो भावः पुण्य शब्देन

यज्ञादि उच्येते ।। 9 ।।

आनर्थक्यमिति चेन्न तदपेक्षत्वात् ।। 3-1-10 ।।

एवं तर्हि अफलत्वादाचारस्य .... ... कर्मोपलक्षणार्थेति कार्ष्णाजिनेरभिप्रायः ।। 10 ।।

आनर्थक्यमिति चेन्न तदपेक्षत्वात् । स्फुटम् ।। 10 ।।

सुकृतदुष्कृते एवेति तु बादरिः ।। 3-1-11 ।।

पुण्यं कर्माचरति पापं कर्माचरति ... ... फलमिति तु स्वीकृतम् । अतः सानुशया एव प्रत्यवरोहन्ति ।। 11 ।।

सुकृतदुष्कृते एवेति बादरिः । पृथक् इति । अनवद्यानिकर्माणि इति प्रत्यक्षश्रुतिसिद्ध कर्मोक्तिः । गोबलीवर्द इति । लाक्षणिकार्थस्वीकारादपि मुख्यार्यापरित्यागेन विषयसङ्कोचो युक्त इति भावः । अधिकरणार्थमुपसंहरति - अतः इति ।। 11 ।।

इति कृतात्ययाधिकरणम् - 2




3. अनिष्टादिकार्यधिकरणम् ।।

अनिष्टादिकारिणामपि च श्रुतम् ।। 3-1-12 ।।

केवलेष्टापूर्तदत्तकारिणः ... ... तै सर्वे गच्छन्ति इत्यविशेषेण सर्वेषामेव गतिश्रवणात् ।। 12 ।।

अनिष्टादिकारिणामपि च श्रुतम् । कर्मसंबन्धनियम उक्तः । तत्रापि साधुकर्मसंबर्न्धे नियमो नेत्युच्यते इति सङ्गतिः । देहारंभः पञ्चमाहुत्यपेक्ष इति श्रुत्यर्थापत्तिश्चाभिप्रेता ।। 12 ।।

एवं तर्हि सुकृतदुष्कृतकारिणोः ... ....

संयमने त्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनात् ।। 3-1-13 ।।

तुशब्दः शङ्कां व्यावर्तयति ... ... वैवस्वतं सङ्गमनं जनानां यमं राजानम् इत्यादिषु ।। 13 ।।

संयमने त्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनात् । संयमने इति

निमित्तसप्तमी । अयं लोको नास्ति इति । नात्र सुखमित्यर्थः ।। 13 ।।

स्मरन्ति च ।। 3-1-14 ।।

स्मरन्ति च सर्वेषां ... ... वशं यान्ति यमस्य भगवन् किल इत्यादिषु ।। 14 ।।

अपि सप्त ।।3-1-15 ।।

पापकर्मणां गन्तव्यत्वेन रौरवादीन् सप्त नरकानपिस्मरन्ति ।।

ननु सप्तसु लोकेषु गच्छतां ... ...

तत्रापि तद्व्यापारादविरोधः ।। 3-1-16 ।।

तेष्वपि सप्तसु यमाज्ञयैव ... ... पश्चाच्चन्द्रारोहावरोहौ स्तः ।।

स्मरन्ति च ।। 14 ।।

अपि सप्त ।। 15 ।।

तत्रापि तद्व्यापारादविरोधः । त्रितयं स्फुटम् । इति पूर्वपक्षसूत्राणि ।।

सिद्धान्तः

इति प्राप्त उच्यते -

विद्याकर्मणोरिति तु प्रकृतत्वात् ।। 3-1-17 ।।

तु शब्दः पक्षव्यावृत्त्यर्थः । ... .... य इष्टादिकारिणः ते सर्वे इति परिणेयम् ।। 17 ।।

विद्याकर्मणोरिति तु प्रकृतत्वात् । इति शब्दस्य हेत्वर्थता दर्शिता फलभोगार्थत्वात् इति । विद्याप्रसङ्गः किमर्थः इत्यत्राह - एतदुक्तम् इति । विद्याविषयत्वम् इति । विषय शब्दः फलपरः । परिणेयम् - निर्वाह्यम्

।। 17 ।।

ननु पापकर्मणां चन्द्रगमनाभावे .. ...

न तृतीथे तथोपलब्धेः ।। 3-1-18 ।।

तृतीयस्थानस्य शरीरारंभाव ... ... पुरुषवचस्त्वहेतुत्वमात्रं प्रतिपादयति , नान्यन्निवारयति , अवधारणाश्रवणात् ।। 18 ।।

न तृतीथे तथोपलब्धेः । जायस्व म्रियस्व इति । जायन्ते म्रियन्ते इत्यर्थः ।

वेदस्वातन्त्र्यादीश्वरशासनं वा । फलानुभवाश्रयतया स्थानत्वम् । पञ्चम्याम् इति । न त्वन्ययोगव्यच्छेद इत्यर्थः ।। 18 ।।

स्मर्यतेऽपि च लोके ।। 3-1-19 ।।

पुण्यकर्मणामपि केषाञ्चित् ... ... लोके स्मर्यते द्रौपदीधृष्टद्युम्नप्रभृतीनाम् ।। 19 ।।

स्मर्यतेऽपि च लोके । स्फुटम् ।। 19 ।।

दर्शनाच्च ।। 3-1-20 ।।

श्रुतावपि दृश्यते केषाञ्चित् ... ... भूतयोः पञ्चमाहुतिमन्तरेणोत्पतिं्तर्दृश्यते ।। 20 ।।

दर्शनाच्च । अण्डजम् इति । कार्यत्रैविध्यात् त्रीणि बीजानि इत्यर्थः

।। 20 ।।

ननु स्वेदजानामत्र सङ्कीर्तनं ... ...

तृतीयशब्दावरोधः संशोकजस्य ।। 3-1-21 ।।

संशोकजस्य - स्वेदजस्यापि ... ... अतः केवलपापकर्मणां चन्द्रप्राप्तिर्न संभवति ।। 21 ।।

तृतीयशब्दावरोधः संशोकजस्य । उद्भिज्जस्यायोनिजत्वसाम्यात् तृतीयशब्देन सङ्ग्रहः ।। 21 ।।

इति अनिष्टादिकार्यधिकरणम् - 3




4. तत्स्वाभाव्यपत्त्यधिकरणम् ।।

तत्स्वाभाव्यापत्तिरूपपत्तेः ।। 3-1-22 ।।

इष्टादिकारिणो भूतसूक्ष्मपरिष्वक्ताः ... ... तदापत्तिवचनं तत्संसर्गकृततत्सादृश्यापत्त्याभिप्रायम् ।। 22 ।।

तत्स्वाभाव्यापत्तिरुपपत्तेः। सङ्गिर्तिं दर्शंयति - इष्ठादि इति । आकाशादिभावः - आकाशादिशरीरकत्वम् । अविशेषात् - प्रकरणस्थत्वाविशेषात् । तत्संसर्गकृततत्सादृश्यापत्त्यभिप्रायम् इति । तत्संसर्गकृतभेदकस्थूलाकारराहित्यमुक्तमित्यर्थः ।। 22 ।।

इति तत्स्वाभाव्यापत्त्यधिकरणम् - 4




5. नातिचिराधिकरणम् ।।

नातिचिरेण विशेषात् ।। 3-1-23 ।।

आकाशप्राप्तिप्रभृति यावद्व्रीह्यादिप्राप्ति .... ... दुर्निष्प्रपततरं - दुःखनिष्क्रमणतरमित्यर्थः ।। 23 ।।

नातिचिरेण विशेषात् । अधिकरणान्तरम् । आकाशादौ किञ्जिद्विलम्बो व्रीह्यादावतिविलम्बश्च नातिचिर शब्दसूचितौ ।। 23 ।।

इति नातिचिराधिकरणम् - 5 ।।




6. अन्याधिष्ठिताधिकरणम् ।।

अन्याधिष्ठिते पूर्ववदभिलापात् ।। 3-1-24 ।।

अवरोहन्तो जीवा व्रीह्यादिभावेन ... ... अत आकाशादिभाववचनवत् व्रीह्यादिभावेन जन्मवचनमौपचारिकम् ।। 24 ।।

अन्याधिष्ठिते पूर्ववदभिलापात् । अधिकरणान्तरम् । केवल - शब्दाभिप्रेतमाह - यत्र हि इति । व्रीह्यादिश्लेषेऽपि नियाम्यत्वमस्तीति देहत्वं भूतसूक्ष्माणाम् । धीसङ्कोचान्नियमनप्रतिबन्धः ।। 24 ।।

अशुद्धमिति चेन्न शब्दात् ।। 3-1-25 ।।

नैतदस्ति - यदन्याधिष्ठिते व्रीह्यादिशरीरे ... ... तादात्वि- काल्पदुःखकारिणमपि रक्षकमेव वदन्ति , पूजयन्ति च तज्ज्ञाः ।।

अशुद्धमिति चेन्न शब्दात् । भाट्टोक्तपरिहारं सांख्योऽनूद्य दूषयति न च इत्यादिना क्षीरं पित्तोपहतस्य पथ्यं , न तु प्रमेहग्रस्तस्य इतिवन्न विरोधः इत्यर्थः । शङ्कते - अथोच्येत इति । अथ गुरूक्तं दूषयति - नैवम् इति । लौकिकवैदिकहिंसयोः को भेद इत्यत्राह - लौकिक्यामपि इति । रागोत्थानकमानवैषम्यात् व्यवस्था चेत् , श्येनस्यापि अधर्मत्वं न स्यादिति भावः । संवत्सरपश्वालम्भनाद्यभिप्रायेणाह - तथा इति । प्रत्यवायपरिहारफलत्वेऽपि रागात् प्रवृत्तिरिति हृदयम् ।।

परिहरति - तन्न इति । दुःखहेतुत्वं चास्तीति हिंसात्वमित्यत्राह - अतिशयति इति । न वा उ त्वे इति । न परं स्वर्गलाभादहिंसात्वक्लृप्तिः । किं तु तत्कण्ठोक्तं चेति भावः । परानर्थोदर्कतया श्येनयागस्य हिंसात्वमिति वैषम्यं फलितम् ।। 25 ।।

रेतस्सिग्योगोऽथ ।। 3-1-26 ।।

इतश्चौपचारिकं व्रीह्यादिजन्मवचनम् .... ... यथा तद्योगमात्रं प्रतिपादयति , तद्वत् व्रीह्यादिभावोऽपीत्यर्थः ।। 26 ।।

रेतस्मिग्योगोऽथ । औपचारिकतद्भावोक्तिप्रकरणमविच्छिन्नमिति भावः ।। 26 ।।

योनेः शरीरम् ।। 3-1-27 ।।

योनिप्राप्तेः पश्चादेवानुयायिनां .. ... ततः प्रागाशादिप्राप्तिप्रभृति तद्योगमात्रमेवेत्यर्थः ।। 27 ।।

इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये

तृतीयस्याध्यायस्य प्रथमः पादः ।।

योनेः शरीरम् । योनिः - योषिद्योनिः । संसरतः शरीरं चेत् भोगार्थम् । न चेत् तन्न संसारिशरीरमित्यभिप्रायः ।। 27 ।।

इति अन्याधिष्ठिताधिकरणम् - 6

श्रीहरितकुलतिलकवाग्विजयिसूनुना श्रीरङ्गराजदिव्याज्ञालब्धवेदव्यासापर -

नामधेयेन श्रीमद्वरदाचार्यपादसेवासमधिगतभगवद्रामानुजविरचित -

शारीरकमीमांसाभाष्यहृदयेन श्रिसुदर्शनसूरिणा विरचितायां

श्रुतप्रदीपिकायां तृतीयस्याध्यायस्य प्रथमः पादः ।।


च्ड्ढड़दृदड्ड घ्ठ्ठड्डठ्ठ

तृतीयाध्याये द्वितीयः पादः ।।




1. सन्ध्याधिकरणम् ।।

सन्ध्ये सृष्टिराह हि ।। 3-2-1 ।।

एवं कर्मानुरूपगमनागमनजन्मादियोगेन ... ... स हि कर्ता इत्याह हि । स्वप्नदृक् जीव एव तत्र प्रतीयते ।। 1 ।।

सन्ध्ये सृष्टिराह हि । पादसङ्गतिमाह - एवम् इति । जन्मादि इति आदि शब्देन सुखाद्यनुभवोक्तिः । दुःखित्वं रव्यापितम् इति । स्वर्गेऽपि पातभयादिति भावः ।। 1 ।।

निर्मातारं चैके पुत्रादयश्च ।। 3-2-2 ।।

किञ्च एनं जीवं स्वप्ने कामानां निर्मातारम् .... .. अत उपकरणाद्यभावेऽपि सृष्टिः उपपद्यते ।। 2।।

निर्मातारं चैके पुत्रादयश्च । पुत्रादयश्च इति लिङ्गं दर्शितम् । कथं परिकरस्य सृष्टित्वम् इत्यत्राह - जीवस्य च इति ।। 2 ।।

सिद्धान्तः

इति प्राप्तेऽभिधीयते -

मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् ।। 3-2-3 ।।

तु शब्दः पक्षं व्यावर्तयति । स्वप्ने ... ... तथा श्रुत्यैकार्थ्यात् परमपुरुषमेव कर्तारमाह ।। 3 ।।

राद्धान्ते - मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वपरूपत्वात् । मात्रचा प्यनाश्चर्यत्वव्युदासः । तुशब्दलब्धार्थमाह - परमपुरुष इति । मिथ्याव्यावृत्त्यर्थं व्याचष्टे - माया इति । न भवन्ति इति मिथ्यात्वमुक्तमित्यत्राह - अत्रापि इति । सृजत्यानुगुण्यात् इति भावः ।। 3 ।।

स्वाभाविकं चेज्जीवस्यापहतपाप्मत्वादिकं .... ....

पराभिध्यानात् तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ।। 3-2-4 ।।

तुशब्दः शङ्काव्यावृत्त्यर्थः । ... .... एष ह्येवानन्दयाति भीषाऽस्माद्वात्#ः

पवते इत्यादिषु ।। 4 ।।

पराभिध्यानात् तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ । ततः इति व्याख्येयम् । तत्सङ्कल्पात् इति व्याख्यानम् । बन्धस्य तादधीन्यात् तदन्तर्गतस्य तिरोधेस्तादधीन्यसिद्धिरिति भावः ।। 4 ।।

देहयोगाद्वा सोऽपि ।। 3-1-5 ।।

सोऽपि तिरोभावो देहयोगद्वारेणः ... .... तावन्मात्रकालावसानान् तदेकानुभाव्यानर्थानुत्पादयति ।। 5।।

कर्म प्रकृतिश्च हि तिरोधायकमित्यत्राह - देहयोगाद्वा सोऽपि इति । शक्तिः - अपृथग्विशेषणम् । वाशब्दो व्यवस्थितविकल्पवाचीत्यभिप्रयन्नाह - सृष्टिकाल इति ।।

अनयोः सूत्रयोरवान्तरार्थोपपादनपरत्वान्निगमयति - अतोऽनभिव्यक्त इति । जीववत् परस्यायोग्यत्वाकारव्युदासाय प्राक् संक्षिप्तं विस्तरेणाह - तस्मिन् लोकाः इति । अस्थिरत्वादिहेतुमाह - अतः इति ।। 5 ।।

सूचकश्च हि श्रुतेराचक्षते च तद्विदः ।। 3-2-6 ।।

इचश्च स्वाप्ना अर्था न जीवसङ्कल्पपूर्वकाः ... ... शुभस्य सूचकमेव सृष्ट्वा पश्येत् । अतः स्वप्ने सृष्टिरीश्वरेणैव कृता ।। 6।।

अनन्तरसूत्रं प्रथमापादार्थोपपादकम् । सूचकश्च हि श्रुतेराचक्षते च तद्विदः । इह स्वाप्नसृष्टूयुक्तसत्यसङ्कल्पत्वाविर्भावक्लृप्तिव्युदालः . स्वाप्नाध्यायविदः - स्वप्नपरवेदवाक्यविदः ।। 6 ।।

इति सन्ध्याधिकरणम् - 1




1. तदभावाधिकरणम् ।।

तदभावो नाडीषु तच्छØतेरात्मनि च ।। 3-2-7 ।।

इदानिं सुषुप्तिस्थानं परीक्ष्यते ... ... ब्रह्म तु पर्यङ्कस्थानीयम् । अतो ब्रह्मैव साक्षात् सुषुप्तिस्थानम् ।। 7 ।।

तदभावो नाडीषु तच्छØतेरात्मनि च । सङ्गतिः स्फुटा । वृत्त्यभावः । अणुत्वात् । राद्धान्ते - कथं कार्यभेद इत्यत्राह - संभवति च इति । हृदयान्नाड्या निष्क्रम्य पुरीतति शयनम् , प्रत्यवसृप्य इति श्रुतेः ।। 7 ।।

अतः प्रबोधोऽस्मात् ।। 3-2-8 ।।

यतो ब्रह्मैव साक्षात् सुषुप्तिस्थानम् ... ... न विदुः सत आगच्छामहे इत्यादिषु ।। 8 ।।

अतः प्रबोधोऽस्मात् । अतः अस्मात् इति पदद्वयं व्याख्येयम् । यो यतो ब्रह्मैव , ब्रह्मणः इति व्याख्यानम् ।। 8 ।।

इति तदभावाधिकरणम् - 2




3. कर्मानुस्मृतिशब्दविध्यधिकरणम् ।।

स एव तु कर्मानुस्मृतिशब्दविधिभ्यः ।। 3-2-9 ।।

किं सुषुप्त एव प्रबोधसमये उत्तिष्ठति ... ... परमात्मान- मुपसंपद्याश्वस्तः पुनभागायोत्तिष्ठति ।। 9 ।।

स एव तु कर्मानुस्मृतिशब्दविधिभ्यः । सङ्गतिः स्फुटा । न कञ्चन पाप्मान स्पृशति इत्यस्यार्थमाह - सकलोपाधिविनिर्मुक्तस्य इति । न चासौ इति । सर्वप्रवृत्तिज्ञानशून्यः सुषुप्तः । मुक्तस्तु न तथा इति वैषम्यमुक्तम् । न कञ्चन इति श्रुतेरर्थमाह - अतः इति । आदि शब्दोक्तम् अनुष्ठानम् । इयं श्रुतिरनुष्ठानाद्यशक्तिपरा । अस्य सुखाद्यनुभवकर्मानुष्ठानविरह एव , न तु सर्वोपाधिनिर्मोक्षः । सति संपत्तिः नाम देहाद्यधिष्ठातृत्वविरहेण ब्रह्मणि स्थिति , सदा ध्येयत्वादस्य ।। 9 ।।

इति कर्मानुस्मृतिशब्दविध्यधिकरणम् -3

4. मुग्धाधिकरणम् ।।

मुग्धेऽर्धसंपत्तिः परिशेषात् ।। 3-2-10 ।।

मुग्धमधिकृत्य चिन्त्यते - किमियं मूर्छा ... ... मरणं हि सर्वप्राणदेहसंबन्धोपरितिः , सूक्ष्मप्राणदेहसंवन्धावस्थितिर्मूर्छा ।। 10 ।।

मुग्धेऽर्धसंपत्तिः परिशेषात् । सङ्गतिः स्फुटा । प्रसिद्ध्युपपत्तेः - ज्ञानलोपाविशेषादिति भावः । अभिघातादि इति आदि शब्दादनिष्टश्रवणम् । निमित्ताकारवैरूप्ये क्रमात सुषुप्तिमरण व्यावर्तके । सुषुप्तौ प्राणो भूयानुपलभ्यते ; मूर्छायामल्पः ; मृतौ न कश्चित् ।। 10 ।।

इति मुग्धाधिकरणम् - 4




5. उभयलिङ्गाधिकरणम् ।।

न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ।। 3-2-11 ।।

दोषदर्शनाद्वैराग्योदयाय जीवस्यावस्थाविशेषाः .... .. इत्यादिश्रुतिस्मृतिभ्यः उभयलक्षणं हि ब्रह्मावगतम् ।। 11 ।।

न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि । सङ्गतिमाह - दोष इति । ब्रह्मणो हेयप्रत्यनीकत्वं कल्याणगुणाकरत्वं च पादार्थः । स्वाप्नार्थस्रष्ट्वत्वसुषुप्तिस्थानत्वयोरपि कल्याणगुणरूपत्वादिह सङ्गतिः । मूर्छा तु सुषुप्तिसापेक्षत्वादिह चिन्तिता ।।

स्थानेषु - अवस्थासु । तत्तदवस्थशरीरे - जागारदिहेतुत्वावस्थशरीरे । अनुत्थानशङ्कां परिहरति - इत्थम् इति । राजकोपद्वारभूतखड्गप्रहारस्येव द्वारहेतोः साक्षादपुरुषार्थहेतुत्वात् स्वेच्छाधीनत्वेऽपि तथात्वानपगमात् पूर्वपक्षोत्थानमित्यर्थः । पृथिव्यात्मादि इति । तत्संसर्गौ च पञ्चम इति नयादात्मनि स्थिता नाशुद्धिरित्यात्मोपादानम् ।। 12 ।।

भेदादिति चेन्न प्रत्येकमतद्वचनात् ।। 3-2-12 ।।

यथा जीवस्य प्रजापतिवाक्यावगतापहतपाप्मत्वा ... .. स एव संबन्धः तत्तद्विचित्रनियमनरूपलीलारसायैव स्यात् ।। 12 ।।

भेदादिति चेन्न प्रत्येकमतद्वचनात् । जीवस्योभयलसिङ्गकत्वेऽपि तत्तद्देहयोगरूपावस्थाभेदेन ह्यपुमर्थं #ः , तथा परस्यापीत्यर्थः । परिहरति तन्न इति । आवृत्तत्वात् क्षित्यादिसंबन्धस्य जीवस्य नित्यत्वेनाशङ्कनीयस्य व्यावर्त्यत्वायोगाच्च अमृत शब्दो न नित्यत्वपरः । किं तु तत्तद्दोषराहित्यपरः । जीवस्य तिरोधानादिश्रुतिवशादुभयलिङ्गत्व श्रुतिसङ्कोच , न तु परस्येत्यर्थः । न हि इति । वस्तुस्वभावायत्तत्वाभावान्नापुमर्थत्वमित्यर्थः । तादूप्ये - सुखदुःखहेतुत्वे । न ह्येकस्य विरुद्धमाकारद्वयं स्वभाव इति भावः । न परमुपपत्त्या कर्मनिबन्धनत्वं क्लृप्तम् , कण्ठोक्तं चेत्याह - तथा च इति । पुरुषभेदेन सुखदुःखकरत्वमाह - नरकस्वर्ग इति । कालभेदेनैकस्यैकं प्रति तद्धेतुत्वमाह - तदेव इति ।। 12 ।।

अपि चैवमेके ।। 3-2-13 ।।

अपि च एके शाखिनः एकस्मिन्नेव देहसंयोगे ... .. तयोरन्यः पिप्पलं

स्वाद्वत्त्यनश्नन्नन्योऽभिचाकशीति इति ।। 13 ।।

अपि चैवमेके । स्फुटम् ।। 13 ।।

अथ स्यात् -अनेन जीवेनात्मना .... ....

अरूपवदेव हि तत्प्रधानत्वात् ।। 3-1-14 ।।

देवादिशरीरानुप्रवेशे तेन तेन रूपेण .... ... ब्रह्म निरस्तनिखिलदोषत्वकव्याणगुणाकरत्वरूपोभयलिङ्गमेव ।। 14 ।।

अनन्तरसूत्रशङ्कामाह - अथ स्यात् इति । अरूपवदेव हि तत्प्रधानत्वात् । केनाकारेणारूपतुल्यत्वमित्यत्राह - जीववत् इति । ननु इति । कथं कार्यानन्वयः , नियमनादिकार्यान्वयात् धीशब्दपर्यवसानेन कर्मवश्यत्वान्वयाच्चेत्यर्थः । परिहगति - इत्थम् इति । सुखदुःखकार्यविशेषास्पर्शो विवक्षितः , न तु नियमनाद्यस्पर्शः । धीशब्दपर्यवसायिकं कर्मान्वयं परिहरति - विधि इति । निष्कर्षकशब्दवत् ब्राह्मणादिशब्दाः जीवपर्यन्ताः स्युः । परपर्यन्तत्वेऽपि गौरो ब्राह्मण इति गौरत्ववत् विशेषणभूतजीवद्वारकं वा कर्मवश्यत्वं स्यादित्यर्थः ।। 14 ।।

ननु च - सत्यं ज्ञानमनन्तं ब्रह्म .... ...

प्रकाशवच्चावैयर्थ्यात् ।। 3-2-15 ।।

यथा सत्यं ज्ञानमनन्तं ब्रह्म इत्यादि ... ... निरस्तनिखिलाविद्यादिदोषत्वाद्यभिधायिवाक्यावैयर्थ्यादुभयलिङ्गभेव ब्रह्म

।। 15 ।।

अनन्तरसूत्रमवतारयति - ननु च इति । आर्थश्रौतनिषेधौ दर्शितौ ।
प्रकाशवच्चावैयर्थ्यात् । व्याप्त्या चेत् , धीः कस्यचिदेव । श्रुतिबलात् न चेत् , सगुणत्वमपि । न च व्याप्तिविरोधः , धर्मभूतज्ञानस्यैव ज्ञानानाश्रयत्वादिति भावः ।। 15 ।।

आह च तन्मात्रम् ।। 3-2-16 ।।

किं च सत्यं ज्ञानमनन्तम् इत्यादि ... ... नेति नेति इति च निषेधस्य विषयोऽनन्तरमेव वक्ष्यते । । 16 ।।

आह च तन्मात्रम् । सूत्राभ्यां विरोधाभ्युपगमेन तदभावेन चार्थगुणनिषेधः प्रत्युक्तः । अथ श्रौतं परिहरन्नार्थस्य च परिहारोषयोगि मानं दर्शयति ।। 16 ।।

दर्शयति चाथो अपि स्मर्यते ।। 3-2-17 ।।

दर्शयति च वेदान्तगणः ... ... ब्रह्मण उभयलिङ्गत्वात् तत्स्थानप्रयुक्ता दोषा न परं ब्रह्म स्पृशन्ति ।। 17 ।।

दर्शयति चाथा अपि स्मर्यते । प्रथमे सूत्रे स्वपक्षमूलतया मानं दर्शितम् । इह तु दूषणपरिहाराय । वेदान्तगण इति । अथो शब्दः प्रमाणकार्त्स्न्यपर इति भावः । दर्शयति स्मर्यते इति सौत्रशब्दविवरणम् । निर्दोषत्वं दर्शयति - निष्कलं ... ... निरवद्यम् इत्यादिना । सामान्यविशेषगोबलीवर्दनयावभिप्रेतौ ।। 17 ।।

अत एव चोपमा सूर्यकादिवत् ।। 3-2-18 ।।

यतो नानाविधेषु स्थानेषु स्थितस्यापि ... ... एकधा बहुधा चैव दृश्यते जलचन्द्रवत् । इत्यादिषु ।। 18 ।।

अत एव चोपमा सूर्यकादिवत् । तथात्मैकः इति । एकस्वभाव इत्यर्थः ।। 18 ।।

अत्र चोदयति -

अम्बुवदग्रहणात् तु न तथात्वम् ।। 3-2-19 ।।

तुशब्दश्चोद्यं द्योतयति । अभ्बुवदिति ... ... अतो न तथात्वम् - दार्ष्टान्तिकस्य न दृष्टान्ततुल्यत्वमित्यर्थः ।। 19 ।।

अम्बुवदग्रहणात् तु न तथात्वम् । दृष्टान्तावैघट्याय दार्ष्टान्तिकस्य पृथिव्यादौ स्थितेः मिथ्यात्वमुपेत्यमिति भावः ।। 19 ।।

परिहरति -

वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवं दर्शनाच्च ।। 3-2-20 ।।

पृथव्यादिस्थानान्तर्भावात् स्थानिनः ... .. समस्तकल्याणगुणाकरस्य पृथिव्यादिस्थानतोऽपि न दोषसंभवः ।। 20 ।।

वृद्धिहासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवं दर्शनाच्च । समञ्जंसं भवति । इत्यन्तेन भाष्येण एवम् इत्यन्तसूत्रांशो व्याख्यातः । स्मृतिवचोऽर्थमाह - घट इति । दृष्टान्तद्वयं किमर्थं दोषास्पर्शस्यानुगतहेतुः क इत्यत्राह - एतदुक्तम् इति। देशत इव स्वभावतो विप्रकर्षस्यापि दोषास्पर्शहेतुताज्ञापनमुभयदृष्टान्तत्फलम्। सन्निकर्षत्रयसमुदायो दोषस्पर्शहेतुः

। अन्यतमविप्रकर्षोऽप्यस्पर्शहेतुरित्यर्थः । दर्शनाच्च इति सूत्रांशः ।। 20 ।।

अथ स्यात् - द्वे वाव ब्रह्मणो रूपे ... ....

प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ।। 3-2-21 ।।

नैतदुपपद्यते यह्ब्रह्मणः प्रकृतविशेषवत्त्वं ... ... अपि तु पूर्वप्रकृतेयत्तामात्रम् । अत उभयलिङ्गमेव परं ब्रह्म ।। 21 ।।

अनन्तरसूत्रशङ्कामाह - अथ स्यात् इति । महारजनं - कुसुम्भः । प्रकृतैतावत्वं हि प्रतिषेधति ततो ब्रवीति च भूयः । अनूद्य निषेधतीति न भ्रान्तजल्पकल्पता इत्यत्राह - न हि इति । नोपपद्यते इत्यन्तेन हि शब्दाभिप्रायो विवृतः । सात्र इति इति । इतिः प्रकारार्थः । इयत्ता च प्रकार इत्यर्थः । प्रकारनिषेधपरत्वे त्वान्तत्वं न घटते इत्यर्थः ।।

अनन्तरम् इति ततः शब्ददार्थ उक्तः न ह्येतस्मात् इति निषेधः प्रतीतः , न तु गुणः , स्वरूपमेव सत्यं प्रतीतमित्यत्राह - अयमर्थः इति ।।

ब्रह्मणः प्रमाणान्तरागोचरत्वेन ... ...

तदव्यक्तमाह हि ।। 3-2-22 ।।

तत् - ब्रह्म प्रमाणान्तरेण न व्यज्यते .... .. न चक्षुषागृह्यते नापि वाचा इत्यादि ।। 22 ।।

अनन्तरसूत्रसङ्गतिमाह - ब्रह्मणः इति । प्रत्यक्षस्य सन्मात्रग्राहित्वेन ब्रह्मणः प्रमाणान्तरगोचरत्वमाशङ्क्य तन्निराकरणमुखेन तस्य मानान्तरागोचरत्वं द्रढयतीत्यर्थः । एतच्च दीपसारयोः स्पष्टीकृतम् । तदव्यक्तमाह हि । स्फुटम्

।। 22 ।।

हेत्वन्तरं चाह -

अपि संराधने प्रत्यक्षानुमानाभ्याम् ।। 3-2-23 ।।

अपि च संराधने - सम्यक् प्रीणने ... .. ब्रह्मणो मूर्तामूर्तरूपद्वयादिविशिष्टतां प्रागसिद्धां नानुवदितुं क्षमम् ।। 23 ।।

अपि संराधने प्रत्यक्षानुमानाभ्याम् । ध्यानगम्योऽस्तु , ततः किं संराधनेन साक्षात्कारस्येत्यत्राह - भक्तिरूप इति ।। 26 ।।

प्रकाशादिवच्चावैशेष्यं प्रकाशश्च कर्मण्यभ्यासात् ।। 3-2-24 ।।

इतश्च प्रकृतैतावत्त्वमेव प्रतिषेधति ... ... तेषां मूर्तामूर्तादिविशिष्टत्वमप्यविशेषेण प्रतीयते - इत्यर्थः ।। 24 ।।

प्रकाशादिवच्चावैशेष्यं प्रकाशश्च कर्मण्यभ्यासात् । मूर्तामूर्तादिप्रपञ्चविशिष्टताया उपासनार्थमारोपितत्वशङ्काऽत्र निरस्यते । तेषामपि मूर्तामूर्तादिप्रपञ्चविशिष्टप्रतीतिः भ्रान्तिरिति शङ्कायामुत्तरखण्डं व्याचष्टे - ब्रह्मस्वरूपभूत इति । उपासनेन साक्षात्कृतत्वात् प्रकाशानन्दादेरिव प्रपञ्चविशिष्टतायाः परमार्थत्वमित्यर्थः ।। 24 ।।

उक्तं ब्रह्मण उभयलिङ्गत्वुपसंहरति -

अतोऽनन्तेन तथा हि लिङ्गम् ।। 3-2-25 ।।

अतः उक्तैर्हेतुभिः ब्रह्मणः ... ... तथा हि सत्युभयसिङ्गं ब्रह्मोपपन्नं भवति ।। 25 ।।

अतोऽनन्तेन तथा हि लिङ्गम् । नेति नेत्यस्यावधिनिषेधपरत्वात् निरवधिकेन कल्याणगुणजातेन विशिष्टत्वं ब्रह्मणः सिद्धमित्यर्थः । उभयलिङ्गत्वं पूर्वपक्षीकुर्वतामुपसंहारसूत्रं न घटते , तत्समर्थनेनोपसंहारात् ।।

इति उभयलिङ्गाधिकरणम् - 5




6. अहिकुण्डलाधिकरणम् ।।

उभयव्यपदेशात् त्वहिकुण्डलवत् ।। 3-2-26 ।।

मूर्तामूर्तात्मकस्याचित्प्रपञ्चस्य ... ... तस्यैव ब्रह्मणः संस्थानविशेषा एवाचिद्वस्तूनि ।। 26 ।।

उभयव्यपदेशात् त्वहिरूकुण्डलवत् । सङ्गतिमाह - मूर्त इति । अचित्प्रसङ्गात् सङ्गतिः। प्रधान इति । पतित्वादिकथनात् शरीरत्वं विवृतं भवति । अहिकुण्डलन्यायेन - एकद्रव्यावस्थाविशेषेण एकजाति योगस्य खण्डादिदृष्टान्ते सत्यपि प्रभातद्वदुपादानं गुणप्रधानभावसद्भावात् । जीवस्येव इति । अंशो नाना इत्यस्मादस्य विभागो द्योतितः । तज्जीवब्रह्मैक्यविषयम् । इदं चाचिद्ब्रह्मविषयम् । पौनरुक्त्यमाशङ्क्याह - इ ह इति । स्फुटम् ।। 26 ।।

प्रकाशाश्रयवद्वा तेजस्तत्वात् ।। 3-2-27 ।।

वाशब्दः पक्षव्यावृत्त्यर्थः । ब्रह्मस्वरूपस्यैव ... ... एव मचित्प्रपञ्चस्य ब्रह्मणो रूपत्वमित्यर्थः ।। 27 ।।

प्रकाशाश्रयवद्वा तेजस्त्वात् । अहिकुण्डलवत् इति अचिद्ब्रह्मणोः कार्यकारणभावेन भेदाभेदोक्तिः। प्रकाशाश्रयवत् इति । व्यक्त्यात्मना जात्यात्मना च भेदाभेदोक्तिरिति भावः ।। 27 ।।

पूर्ववद्वा ।। 3-2-28 ।।

वाशब्दः प्रक्षद्वयव्यावृत्त्यर्थः । ... ... तथेह जीवस्याचिद्वस्तुनश्च ब्रह्म प्रत्यंशत्वम् ।। 28 ।।

पूर्ववद्वा । प्रथमपक्षपरिगृहीतव्यावृत्त्यर्थं पक्षद्वयशब्दः । उक्तदोषात् - निर्विकारत्वनिर्दोषत्वबाधात् । सकलश्रुतिस्मृति इति । ब्रह्मत्वं जातिश्चेत् खण्डो मुण्ड इतिवदीश्वरादिशब्दैः जगच्छब्दसामानाधिकरण्यं न स्यात् । ब्रह्मैव जातिश्चेन् सार्वज्ञ्यादिगुणाश्रयत्वानुपपत्तिरिति भावः । किमपृथक्सिद्धधर्मतयाऽशत्वं दृष्टमित्यत्राह - तदेवम् इति ।। 28 ।।

प्रतिषेधाच्च ।। 3-2-29 ।।

स वा एष महानज आत्मा ... .... ब्रह्मणो निर्दोषत्वेन कल्याणगुणाकरत्वेन चोभयलिङ्गत्वमपि सिद्धम् ।। 29 ।।

प्रतिषेधाच्च । कथं कार्यकारणानन्यत्वादीत्यत्राह - अतः सूक्ष्म इति । इत्यादि इति आदि शब्दात् सामानाधिकरण्यं विवक्षितम् ।। 29 ।।

इति अहिकुण्डलाधिकरणम् - 6




7. पराधिकरणम् ।।

परमतस्सेतून्मानसंबन्धभेदव्यपदेशेभ्यः ।। 3-2-30 ।।

इदानीमस्मात् परस्माज्जगन्निमित्तोपादन ... ... परस्माम् ब्रह्मणः परमपि किञ्चिदस्तीति गम्यते इति ।। 30 ।।

परमतस्सेतून्मानसंबन्धभेदव्यपदेशेभ्यः । परस्मात् इति प्राप्यतालक्षणं परत्वमुक्तम् । परब्रह्मणः इति तु स्वकार्यापेक्षया परत्वम् । स्थेम्ने - प्राप्यत्वोपयोगिगुणवैकल्ये हि नोभयलिङ्गत्वपौष्कल्यम् । पूर्वत्र निर्दोषत्वं स्थापितम् । इह

तु कल्याणगुणात्मकत्वमिति सङ्गतिः । असङ्करकृत्वव्यावृत्त्यर्थमाह - एतम् इति । तथा इति ।केवलः षष्ठ्यन्तसहितश्चेति भिदा

।। 30 ।।

सिद्धान्तः

एवं प्राप्तेऽभिधीयते -

सामान्यात् तु ।। 3-2-31 ।।

तु शब्दः पक्षं व्यावर्तयति ... ... तरतिश्च प्राप्तिवचनः । यथा वेदान्तं तरति इति ।। 31 ।।

सामन्यात् तु । तरतेरर्थमाह - एतम् इति ।। 31 ।।

बुद्ध्यर्थः पादवत् ।। 3-2-32 ।।

योऽयं चतुष्पात् ब्रह्म षोडशकलम् ... ... ब्रह्मणो वागादिपादव्यपदेशः उपासनार्थः एवमयमपि ।। 32 ।।

बुद्ध्यर्थः पादवत् । आनन्त्यात् न कारणविषयमित्यत्राह - जगत्कारणत्वम् इति । अतो यथा इति । निखिलकारणस्य वागाद्यवच्छेदासंभवात् तस्योपासर्थत्वं सिद्धमिति भावः ।। 32 ।।

स्वयमनुन्मितस्य कथमुपासनार्थतया ... ...

स्थानविशेषात् प्रकाशादिवत् ।। 3-2-33 ।।

प्रतिपन्नवागादिस्थानविशेषरूपोपाधि ... ... घटादिस्थानभेदैः परिच्छिद्यानुसन्धानसंभव इत्यर्थः ।। 33 ।।

स्थानविशेषात् प्रकाशादिवत् । सूत्रमिदं दृष्टान्तविषयम् ।। 33 ।।

उपपत्तेश्च ।। 3-2-34 ।।

यदुक्तम् अमृतस्यैष सेतुः इति .... ... तस्यैष आत्माविवृणुते त नूं स्वाम् इत्यनन्योपायत्वश्रवणात् ।। 34 ।।

उपपत्तेश्च । अनन्योपायत्वम् - प्राप्यस्यैवोपायत्वम् । वृणुते विवृणुते इति तदुभयसिद्धः ।। 34 ।।

तथाऽन्यप्रतिषेधात् ।। 3-2-35 ।।

यत् पुनरुक्तं ततो यदुत्तरतरम् ... ... स एवेहापि परात् परः इति

समष्टिपुरुषात् परत्वेनोच्यते ।। 35 ।।

तथाऽन्यप्रतिषेधात् । यस्मात् परम् इति पञ्चम्याः परशब्दान्वये समनिषेधो न सिध्येत् । ततश्च तद्वेदनस्यैव मुक्त्त्युपायता न सिध्येत् । सा हि प्रतिज्ञाता तमेव विदित्वा इति । अपर शब्दवैयर्थ्यं च । न तत्समः इति विरोधश्चेति भावः । न च अपरशब्दसङ्कोचः , सङ्कोचान्यथासिद्धेः । ततो यदुत्तरतरम् इत्यत्र ततः शब्दस्य हेत्वर्थता हि वक्ष्यते । अतो न गोबलीवर्दनयः अपरपर्यायस्य अन्य
शब्दस्याव्यवहितान्वयं दर्शयति - तथा इति । श्रुत्यन्तराविरोधमाह - तथा न इति । तद्वाक्यं न कारणविषयमित्यत्राह - तद्धि इति ।।

हिरण्यगर्भशब्दस्य शिवशब्दवत् साधारण्याभावात् , शंभुः स्वयंभूर्द्रुहिणः इति प्रसिद्ध्या शंभ्वादिशब्दोपपत्तेः वाक्यान्तरे धातृशब्दाच्च चतुर्मुखः परमकारणमित्यत्राह - अद्भ्यः इति । विद्युद्वर्णत्वार्णवशायित्व- समानवाक्योक्तलक्ष्मीपतिवैः अवगतपरमपुरुषभावकारणप्रकरणसामर्थ्यान्नेत्यर्थः । परोक्तश्रुतेरर्थमाह - ततः इति । हेत्वर्थत्वे सत्यन्वयं दर्शयति - यदुत्तरतरम् इति । तेनेदं पूर्णं पुरुषेण महान् प्रभुर्वै पुरुषः इति पूर्वापरैकार्थ्यात् सर्वाननशिसोग्रीवादिना पुंसूक्तनारायणानुवाकप्रत्यभिज्ञानाच्च मध्यस्थ शिव शब्दः शाश्वतशिवपरः अन्यथा इति । नान्यः पन्था #ः यस्मात् परम् इति च विरोधौ स्यातामितित्यर्थः ।। 35 ।।

अनेन सर्वगतत्वमायामशब्ददिभ्यः ।। 3-2-36 ।।

अनेन - ब्रह्मणा , सर्वगतत्वं - सर्वस्य जगतो व्याप्तत्वं ... .... अतः इदं परं ब्रह्मैव सर्वस्मात् परम् ।। 36 ।।

अनेन सर्वगतत्वमायामशब्दादिभ्यः । इदं स्वपक्षे प्रमाणपरं सूत्रम् । नित्यं विभुम् इति श्रुतिः परमपुरुषविषया परात् परं पुरुषम् इति प्रकरणस्थत्वात् । विभुं - प्रभुम् । आदि शब्दात् धारणनियमन पूर्वकव्याप्तिपरं समानाधिकरणं च वाक्यजातं गृहीतम् । पुंसूक्ताद्युक्तत्रिविधापरिच्छेदः समाधिकनिषेधः ब्रह्मशिवकर्मकसर्गसंहारा ह्यन्यथा नोपपद्यन्ते ।।

इति पराधिकरणम् - 7




8. फलाधिकरणम् ।।

फलमत उपपत्तेः ।। 3-2-37 ।।

उक्तमुपासिसिषोपजननार्थं जीवस्य ... ... न ह्यचेतनं कर्म क्षणध्वंसि कालान्तरभाविफलसाधनं भवितुमर्हति ।। 37 ।।

फलमत उपपत्तेः । सिद्धान्तोपक्रममिदम् । फलत्वमुक्तम् ; फलदत्वं विरूप्यते इति सङ्गतिः । तच्च कल्याणगुण इति पादान्तर्भावः । साधारणफलशब्दोक्तिफलमाह - तुल्य इति । पूर्वकाण्डे द्वारमात्रं चिन्तितम् । इह तु तद्विशेष इति भिदा । इतरस्यायोग्यत्वमाह - न हि इति ।।

श्रुतत्वाच्च ।। 3-2-38 ।।

स वा एष महानज आत्मा ... .. भोगापवर्गरूपं फलमयमेव ददातीति हि श्रूयते ।। 38 ।।

श्रुतत्वाच् । अन्नादः - अन्नदः । न परं योग्यत्वायोग्यत्वाभ्यामस्य फलदत्वं कल्प्यम् । श्रुतं च इत्यर्थः ।। 38 ।।

संप्रति पूर्वपक्षमाह -

धर्मं जैमिनिरत एव ।। 3-2-39 ।।

अत एव - उपपत्तेः शास्त्राच्च ... ... अपूर्वद्वारेण फलसाधनत्वमवगमयति ।। 39 ।।

धर्मं जैमिनिरत एव । उपपत्तिमाह - लोके इति । श्रुतिमाह - तथा इति । साधनत्वं श्रुतम् । सद्वारकत्वं कल्प्यमिति न विरोधः ।। 39 ।।

पूर्वं तु बादरायणो हेतुव्यपदेशात् ।। 3-2-40 ।।

तुशब्दः पक्षव्यावृत्त्यर्थः । पूर्वोक्तं ... .... परस्मात् पुरुषात् भोगापवर्गरूपं फलं च , वदन्तीति सर्वं समञ्जसम् ।। 40 ।।

इति फलाधिकरणम् - 8

इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये

तृतीयस्याध्यास्यय द्वितीयः पादः ।।

सिद्धान्तमाह - पूर्वं तु बादरायणो हेतुव्यपदेशात् । मन्त्रार्थंवादयोरन्यपरत्वमाशङ्कायाह - कामिनः इति । रात्रिसत्रप्रतिष्ठापगोरणशतयातनासाध्यसाधनत्वशर्कराञ्जनद्रव्यपशुविशेषादिवत्

मन्त्रार्थवादोक्तः स्वीकार्यं इति भावः देवता फलदाऽस्तु , अपूर्वमपि स्वीक्रियेतेत्यत्राह एवम् इति । श्रुतहानाश्रुतक्लृप्ती अन्याय्ये इत्यर्थः । वाच्यापूर्वपक्षे न दोष इत्यत्राह - लिङादयः इति । लिङ्वाच्यत्वमपि कल्प्यमिति क्लृप्तिद्वयमित्यर्थः । ततः किमित्यत्राह - तदेवम् इति . ततः किं भगवतः फलदत्वे इत्यत्राह - वाय्वादि इति । संभवं दर्शयति - लोके च इति । तर्कविरोधः कालात्ययापदेशहत इत्यभिप्रयन्नाह - वेदान्तास्तु इति । उपबृंहणसिद्धत्वात् स्तुत्यादि उक्तम् । सर्वं - विध्यर्थवादमन्त्रजातमित्यर्थः ।। 40 ।।

इति फलाधिकरणम् - 8

इति श्रीहरितकुलतिलकवाग्विजयिसूनुना श्रीरङ्गराजदिव्याज्ञालब्धवेदव्यासापर-

नामधेयेन श्रीमद्वरदाचार्यपादसेवासमधिगत श्रीभगवद्रामानुजविरचित -

शारीरकमीमांसाभाष्यहृदयेन श्रीसुदर्शनसूरिणा विरचितायां

श्रुतप्रदीपिकायां तृतीयस्याध्यायस्य द्वितीयः पादः ।।


च्र्ण्त्द्धड्ड घ्ठ्ठड्डठ्ठ

तृतीयाध्याये तृतीयः पादः ।।




1. सर्ववेदान्तप्रत्ययाधिकरणम् ।।

सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ।। 3-3-1 ।।

उक्तं ब्रह्मोपासिसिषोपजननाय वक्तव्यं ... .... अतः एभिः प्रत्यभिज्ञानात् शाखान्तरेऽपि विद्यैक्यम् ।। 1 ।।

सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् । पासङ्गतिमाह - उक्तम् इति । अन्यत्रोक्तस्यान्यत्र स्वीकारः उपसंहारः । तत्रैवोपयोगः विकल्पः । अभेदे उपसंहारः । भेदे विकल्पः । प्रथमाधिकरणकृत्यमाह - प्रथमम् इति । अनेक इति । एकरूपसंज्ञाफलकत्वेन श्रूयमाणायाः इत्यर्थः । शाखान्तराधिकरणोक्तन्योऽत्र प्रवर्तते , न वेति विचारः । नेति पूर्वः पक्षः । तत्र युक्तिमाह - अविशेष इति । अग्निहोत्रं जुहोति , दध्ना जुहोति इत्येतद्व्यावृत्त्यर्थम् अविशेष शब्दः । भेदकत्वात् - इडो यजति बर्हिर्यजति इत्यादाविवेत्यभिप्रायः । पूर्वकाण्डोक्तसिद्धान्तयुक्त्त्यैवालमिति शङ्कायामधिकां युकिं्त दर्शयति - अत एव इति । अत एव - विद्याभेदादेव । कथमन्यथा

नियमानुपपत्तिरित्यत्राह - विद्यैक्ये हि इति ।।

राद्धान्ते कर्मकाण्डसूत्रात् एकम् इत्यनुषक्तम् । संयोगात् इत्यनुक्तिः चोदनाप्राधान्यात् । कर्मोपास्तिसाधारण्याय कर्मव्यावृत्तोपासनवाचिधात्वभिप्रायेण धात्वर्थविशेष इत्युक्तम् । क्वचिद्विदे क्वचिदुपासेश्च श्रवणेऽप्यैक्यसिध्यर्थं विदिपर्यायस्य इत्युक्तम् । कर्मणो द्रव्यदेवते इव विद्याया उपास्यं रूपम् , तस्याः तन्निरूप्यत्वात् ।। 1।।

यत् तूक्तम् अविशेषपुनःश्रवणात् ... ...

भेदान्नेति चेदेकस्यामपि ।। 3-3-2 ।।

अविशेषपुनःश्रुत्या प्रकरणान्तराच्च ... ... पुनःश्रुन्युपपत्तेस्तत्र न विधेयान्तरसंभवः ।। 2 ।।

अनन्तरसूत्रमवतारयति - यत् तु इति । भेदान्नेति चेदकस्यामपि । पूर्वत्र सिद्धान्तसाधको हेतुः संक्षिप्तः । इह तु पूर्वपक्षपरिहारहेतुः संक्षिप्यते । विधेयम् - सामान्यम् ; तद्विशेष उपासनम् । अन्यथानुपपत्त्या इति । अविशेषपुनः श्रुतिप्रकरणभेदयोः वेयर्थ्यरूपानुपपत्त्या इत्यर्थः ।। 2 ।।

यच्चोक्तं शिरोव्रतवताम् ... ...

स्वाध्यायस्य तथात्वे हि समाचारेऽधिकाराच्च

सववच्च तन्नियमः ।। 3-3-3 ।।

नैतदस्ति - शिरोव्रतोपदेश ... ... आथर्वणिकैकाग्निसंबन्धिनः तत्रैव भवन्ति ,न त्रेताग्निषु ।। 3 ।।

अनन्तरसूत्रमवतारयति - यच्चोक्तम् इति । स्वाध्यायस्य तथात्वे हि समाचारेऽधिकाराच्च सववच्च तन्नियमः । विद्यैक्येऽपि न सर्वशाखिनां शिरोव्रतप्राप्तिः । तस्य विद्याङ्गत्वाभावादित्यर्थः । वेदव्रतेन - शिरोव्रतेन , इदं - व्रनतान्तरं , व्याख्यातम् इत्यतिदेशः । वेदव्रत शब्दोक्तत्वात् वेदाध्ययनाङ्गत्वावगम इत्यर्थः । तेषामेव इति वाक्यस्यार्थमाह - तेषाम् इति अध्ययनाङ्गस्य कथं नियम् इत्यत्राह - सववच्च इति । कस्यचित् कर्मविशेषस्य शाखाविशेषवतामसाधारणत्वं युक्तमित्यर्थः । सप्तसूर्याः - आरोगादिसप्तसूर्यदेवत्याः ।। 3 ।।

दर्शयति ।। 3-3-4 ।।

दर्शयति च श्रुतिरूपासनस्य ... ... तदुभयत्र विद्यैकत्वेन गुणोपसंहारादेवोपपद्यते ।। 4 ।।

दर्शयति च । तैत्तिरीयकवाक्यस्यापूर्णोपदेशत्वात् छान्दोग्योपजीवनं विद्यैक्यद्योतकमित्यर्थः ।। 4 ।।

तदेवं शाखान्तराधिकरणन्यायसिद्धं ... ...

उपसंहारोऽर्थाभेदाद्विधिशेषवत् समाने च ।। 3-3-5 ।।

एवं सर्ववेदान्तेषु समाने सत्युपासने ... ... तदुपसंहारा विशेषादुपसंहर्तव्य इत्यर्थः । चशब्दोऽवधारणे ।। 5।।

अनन्तरसूत्रमवतारयति - तदेवम् इति । उपसंहारोऽर्थाभेदाद्विधिशेषवत् समाने च । उपासने एकसंज्ञाफलके

गुण शब्दः अङ्गपरः ।।

इति सर्ववेदान्तप्रत्ययाधिकरणम् - 1




2. अन्यथात्वाधिकरणम् ।।

अन्यथात्वं शब्दादिति चेन्नाविशेषात् ।। 3-3-6 ।।

एवं चोदनाद्यविशेषात् विद्यैकत्वम् ... .... अन्यथोपक्रमगत उद्गीथशब्दः कर्तरि लाक्षणिकः स्यात् ; अतो विद्यैक्यम् ।। 6 ।।

अन्यथात्वं शब्दादिति चेन्नाविशेषात् । सामान्येन विद्यासु सर्वशाखाप्रत्ययनयावतार उक्तः । तद्विशेषेषु भेदाभेदहेतुभावाभावौ निरूप्येते इति सङ्गतिः । द्वयाः - द्विविधाः । अत्ययाम - जयाम । आसन्यम् - आसन्नम् ; मुख्यम् । पराभवति इत्यन्वयः । संयेतिरे - युद्धं चक्रुः । आखणम् - मृत्पिण्डः ऋत्वा - प्राप्य । न विधिः श्रुतः इत्यत्राह - वेदनविषय इति । आर्थवादिके फले न तात्पर्यमित्यत्राह - उद्गीथ इति ।।

विषयः शोधितः । संशयमाह - तत्र इति । सूत्रमवतारयति - अत्र इति । उदगायत् - उद्गातरि प्राणदृष्टिं कृतवन्त इत्यर्थः । एवं वेद , एवंविदि इति एवं शब्दः कर्तृकर्मणोः प्राणदृष्टिपरः । केवल इति । चोदनाद्यविशेषसमुदायादैक्यम् । शब्दान्तरादिष्वन्यतमेन भेद इत्यर्थः । तन्न इति । उपक्रमानुगुण्यात् कर्तृत्वमुपचरितमित्यर्थः ।। 6 ।।

सिद्धान्तः

इति प्राप्ते प्रचक्ष्महे -

न वा प्रकरणभेदात् परोवरीयस्त्वादिवत् ।। 3-3-7 ।।

न वेति पक्षं व्यावर्तयति ; न चैतदस्ति .. ... हिरण्मयपुरुषदृष्टिविधानात् परोवरीयस्त्वादिगुणविशिष्टदृष्टिविधानमर्थान्तरभूतम् ।।

राद्धान्ते . न वा प्रकरणभेदात् परोवरीयस्त्वादिवत् । प्रणवस्य स्वरविशेषलाभाय #ः उद्गीथ - शब्देनोक्तिः । वाजिनः इति । अपवादकाभावात् कृत्स्नविषयः उद्गीथ शब्दः। विधेय इति । विधेयभेदे रूपभेदः फलित इत्यर्थः। न इत्युक्तेऽपि व्यावृत्तिसिद्धौ वाशब्दोक्तितात्पर्यमाह - किं च इति । न च इति । उपक्रमनयो नाधिकस्वीकारविरोधी , किं त्ववगतभङ्गविरोधी । न चात्र तद्भङ्गः इत्यर्थः । यथा इति । उपास्यैक्ये दृष्टिविशेषणैक्येऽपि दृष्टिविशेषणविशेषभेदात् विद्या भिद्यन्ते , किमुतोपास्यभेदादित्यर्थः।। 7 ।।

संज्ञातश्चेत् तदुक्तमस्ति तु तदपि ।। 3-3-8 ।।

उद्गीथविद्येति संज्ञैक्यात् तत् ... ... यथा चोद्गीथविद्येति छान्दोग्ये प्रथमप्रपाठकोदितासु वह्वीषु विद्यासु ।। 8 ।।

संज्ञातश्चेत् तदुक्तमस्ति तु तदपि । स्फुटम् । उद्गीथशब्देनावयवोक्तिः प्रागेव समाप्ता । इह तु कृत्स्नोक्तिरिति शङ्का व्युदस्यते ।। 8 ।।

व्याप्तेश्च समञ्जसम् ।। 3-3-9 ।।

छान्दोग्ये प्रथमप्रपाठके उत्तरास्वपि ... ... कर्तोद्गाता प्राणदृष्ट्योपास्य इति विद्यानानात्वं सिद्धम् ।। 9 ।।

व्याप्तेश्च समञ्जसम् । कथमवयवे समुदायशब्दोक्तिरित्यत्राह - अवयवे च इति । निगमयति - अतः इति ।। 9 ।।

इति अन्यथात्वाधिकरणम् - 2




3. सर्वभेदाधिकरणम् ।।

सर्वाभेदादन्यत्रेमे ।। 3-3-10 ।।

छान्दोग्यवाजसनेयकयोः प्राणविद्या ... ... वसिष्ठत्वादिगुणयोगात् प्राणोज्येष्ठ प्रतिपन्न इति नास्ति

विद्याभेदः ।। 10 ।।

सर्वाभेदादन्यत्रेमे । पूर्वत्र दृष्टिविशेषणतया प्राणः प्रस्तुतः । इह तु तद्विषयस्वतन्त्रोपासनं निरूप्यते इति सङ्गतिः । विषयः शोध्यते छान्दोग्य इति । ज्यैष्ठ्यम् - वृद्धत्वम् । श्रैष्ठ्यम् - प्रशस्यत्वम् । प्रशस्यस्य श्रः ज्य च वृद्धस्य च इत्यनुशासनात् । वसिष्ठादि शब्दाः वागादीनां स्वस्वकार्यसामर्थ्यविषयाः । व्यूदिरे - विवादं चक्रुः ।
विवदमानाः इति वाजिपाठः । त्वं तद्धसिष्ठोऽसि - मम कार्यसामर्थ्यस्य त्वदधीनत्वात् सामर्थ्यं तवैवेत्यर्थः ।। 10 ।।

इति सर्वाभेदाधिकरणम् - 3




4. आनन्दाद्यिकरणम् ।।

प्राणविद्याङ्गविषयमन्यदपि निरूपणम् ... ...

आनन्दादयः प्रधानस्य ।। 3-3-11 ।।

अत्र ब्रह्मस्वरूपगुणानां सर्वासु परविद्यासु .. ... सर्वत्रानन्दादयस्तद्गुणा उपसंहर्तव्याः ।। 11 ।।

मध्ये सङ्गतिवशात् प्रस्तुतमर्थान्तरमवतारयितुं प्राणविद्याङ्गविषय चिन्तान्तरस्य करिष्यमाणत्वमाह - प्राणविद्याङ्ग इति । सङ्गतिमाह - यथा इति । अनुक्तानाम् यदहम् इत्यादिवचनभङ्गया अनुक्तानाम् ।।

आनन्दादयः प्रधानस्य । स्वरूपगुणानाम् - स्वरूपप्रतिषत्त्यनुबन्धिगुणानाम् । अभेदात् इति । अथ शब्दानुशासनम् , केषां शब्दानाम् इतिवत् समस्तैकदेशानुषङ्गः । आनन्दादयः - आनन्दत्वादयः । द्व्येकयोः इतिवत् ।। 11 ।।

एवं तर्हि गुण्यपृथग्भावादेव ... ...

प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे ।। 3-3 12।।

ब्रह्मस्वरूपगुणानां प्राप्तावुच्यमानायां ... ... सत्यं ज्ञानमनन्तं ब्रह्म इत्यादि विरुध्यते ।। 12 ।।

प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे । उपचयापचयौ - पीनत्वकृशत्वे । आदि शब्दात् अस्थूलमनणु इति वाक्यं गृह्यते ।।

नन्वेवमेव ब्रह्मसंबन्धिनामेव ... .....

इतरे त्वर्थसामान्यात् ।। 3-3-13 ।।

तुशब्दश्चोद्यं व्यावर्तयति ... ... ये यत्र श्रुताः , ते तत्रोपसंहार्याः इति

निरवद्यम् ।। 13 ।।

इतरे त्वर्थसामान्यात् । अर्थः - धर्मी । प्रतीतिविषयत्वनियमः साम्यम् । सत्यत्वादीनां तत्प्रतीत्यनुबन्धित्वं दर्शयति - यतो वा इति । उपलक्षितम् इति । विशेष्यांशे उपास्ये कारणत्वमुपलक्षणम् । ज्ञाप्यानन्तर्भावादिति भावः। विशिष्टं कारणवाक्यावगतम् । विशेष्यांशस्तु सत्यत्वादिनिरूप्य इत्यर्थः ।। 13 ।।

यदि उपचयापचयप्रसङ्गात् प्रियशिरस्त्वादयः ... ...

आध्यानाय प्रयोजनाभावात् ।। 3-3-14 ।।

प्रयोजनान्तराभावादाध्यानायायं ... ... प्रियशिरस्त्वादीनां न सर्वदा आनन्दमयप्रतीतावनुवर्तन्ते ।। 14 ।।

अनन्तरसूत्रावतारायाह - यदि इति । आध्यानाय प्रयोजनाभावात् । प्रतिपत्त्यर्थम् इति । ध्यानोपयोगिशास्त्रजन्यज्ञानसिद्ध्यर्थमित्यर्थः । न सर्वदा - न उपास्तावपि इत्यर्थः ।। 14 ।।

आत्मशब्दाच्च ।। 3-3-15 ।।

अन्योऽन्तर आत्माऽऽनन्दमयः ... ... तस्य सुखप्रतिपत्त्यर्थं रूपणमात्रमिति गम्यते ।। 15 ।।

आत्मशब्दाच्च । स्फुटम् ।। 15 ।।

ननु - अन्योऽन्तर आत्मा प्राणमयः ... ...

आत्मगृहीतिरितरवदुत्तरात् ।। 3-3-16 ।।

अन्योऽन्तर आत्माऽऽनन्दमयः ... ... बहु स्यां प्रजायेय इत्यानन्दमयविषयादुत्तरवाक्यात् ।। 16 ।।

आत्मगृहीतिरितरवदुत्तरात् । उत्तरात् आत्मगृहीतित्वनिश्चयो दृष्टान्तेऽपि तुल्यः ।। 16 ।।

अन्वयादिति चेत् स्यादवधारणात् ।। 3-3-17 ।।

पूर्वत्र प्राणमयादिष्वनात्मस्वात्मशब्दान्वय ... ... अपरमात्मनि परमात्मबुद्ध्या आत्मशब्दान्वय इति निरवद्यम् ।। 17 ।।

अन्वयादिति चेत् स्यादवधारणात् । नोत्तरात् इति । उपक्रमो हि प्रबल इति भावः । कुतः इति । उपक्रमस्यापि तथात्वात् न तेनोत्तरबाध इत्यर्थः । तर्हि मध्ये कथं

परमात्मनि प्रयोग इत्यत्राह - अन्नमयात् इति । न तत्राप्यपरमात्मबुद्ध्योपचरितः प्रयोगः । किं तु पूर्वस्मादन्तरत्वमात्रेण परमात्मबुद्धयैव प्रयोगः । ततोऽप्यन्तरदर्शनात् तत्र तद्बुद्धिर्ज्ञाता । पूर्वत्र तु निवृत्ता । पूर्वत्रापि परबुद्ध्या प्रयुक्त इति नोपक्रमबाध इत्यर्थः ।। 17 ।।

इति आनन्दाद्यधिकरणम् -4




5. कार्याख्यानाधिकरणम् ।

कार्याख्यानादपूर्वम् ।। 3-3-18 ।।

पूर्वप्रस्तुतप्राणविद्याशेषभूतम् ... ... अद्भिः परिदधति इत्यद्भिः परिधानमेवोक्तम् । नाचमनम् ।। 18 ।।

कार्याख्यानादरपूर्वम् । अवान्तरसङ्गतिमाह - पूर्व इति । लम्भुको ह वासो भवति - वासो लब्धवान् भवति । अनम् - प्राणम् । स्तुत्यर्थतया - न तु उपासार्थतया ।।

राद्धान्ते - अप्राप्तं विधीयते अप्राप्राख्यानात् इति साध्याविशिष्टत्वमित्यत्राह -
अप्राप्त इति । अप्राप्त्यविशेषेऽपि विधिप्रत्ययात् आचमनान्तरविधिरित्यत्राह - एतदुक्तम् इति । प्रतिपन्नस्यैवाप्राप्तत्वे सति , अर्थान्तरक्लृप्त्ययोगात् उपक्रमोपसंहारात शाखाद्वयानुगतत्वाच्च वासस्त्वधीर्विधेया । न तु आचमनान्तरम् , उक्तविपर्यादित्यर्थः ।। 18 ।।

इति कार्याख्यानाधिकरणम् - 5




6. समानाधिकरणम् ।।

समान एवं चाभेदात् ।। 3-3-19 ।।

वाजसनेयके अग्निरहस्ये शण्डिल्यविद्या .. .....सत्यसङ्कल्पत्वगुणाभेदान्न रूपभेदः अतो । विद्यैक्यम् ।। 19 ।।

समान एवं चाभेदात् । पूर्वाधिकरणं प्राणविद्याप्रसङ्गात् कृतम् । तत्पूर्वेणास्य सङ्गतिः । स्वरूपप्रतीत्यन्तर्भूतगुणानामिव सत्यसङ्कल्पत्वान्तर्गत - वशित्वादीनामुपसंहार्यत्वमिति कूचित् अधिकस्य सत्यसङ्कल्पत्वस्य क्वचित् अधिकस्य वशिषित्वादेश्चार्थान्तरत्वाभावात् , न रूपभेद इत्यर्थः ।। 19 ।।

इति समानाधिकरणम - 6




7. संबन्धाधिकरणम् ।।

संबन्धादेवमन्यत्रापि ।। 3-3-20 ।।

बृहदारण्यके श्रूयते - सत्यं ब्रह्म ... .... ब्रह्मणः सत्यस्यैकत्वेन विद्यैक्यादुभयोरुभयत्रोपसंहारः ।। 20 ।।

संबन्धादेवमन्यत्रापि । एवं शब्देन सङ्गतिः स्फुटा । उपनिषत् शब्दव्याख्यानं रहस्यनामनी इति । सूत्रार्थमाह - यथा इति ।। 20 ।।

सिद्धान्तः

एवं प्राप्ते प्रचक्ष्महे -

न वा विशेषात् ।। 3-3-21 ।।

न वैतदस्ति - यद्विद्यैक्यात् .... ... उभयत्र हृदयाधारत्वेनो - पास्यत्वात् । अतो व्यवस्थिते ।। 21 ।।

दर्शयति च ।। 3-3-22 ।।

दर्शयति चाक्ष्याधारादित्याधारयोः ... स्वतो ह्यप्राप्तावतिदेशेन प्राप्त्यपेक्षा ।। 22 ।।

न वा विशेषात् । दर्शयति च । स्पष्टं सूत्रद्वयम् । स्थानस्योपा स्यान्तर्गत्यनन्तर्गतिकृतभेदाभेदाभ्यां नाम्नो व्यवस्थित्यव्यवस्थिती इति पूर्वपक्ष राद्धान्तौ ।। 21, 22 ।।

इति संबन्धाधिकरणम् - 7




8. संभृत्यधिकरणम् ।।

संभृतिद्युव्याप्त्यपि चातः ।। 3-3-23 ।।

तैत्तिरीयके नारायणीयानां खिलेषु च ... .... मनोमयत्वा - पहतपाप्मत्वादिविशिष्टस्योपास्यस्य माहात्म्यप्रतिपादनपराः ।। 23 ।।

संभृतिद्युव्याप्त्यपि चातः नाम्नोरिव संभृत्यादीनामपि व्यवस्थेति सङ्गतिः । अनारभ्य - अप्रस्तुत्य । द्विवचनेन भाव्यमित्यत्राह - समाहार इति । तर्हि

कथमर्भकौकसो ज्यायस्त्वाद्युक्तिरित्यत्राह - शाण्डिल्य इति ।।

ननु एवं तर्हि सर्वासु आनन्त्यानुगमविरोधः । नैवम् , स्वाभाविकौपाधिकभेदेनाविरोधात् । औपाधिकाल्पत्ववतः तत्रैव स्थाने औपाधिकमहत्त्वं विरुद्धम् । स्वतोऽनन्तमपि अनुग्रहात् - अल्पस्थानस्थमिति धीरविरुद्धा । माहात्म्यप्रतिपादनपराः - न तु तद्विद्यास्वसाधारणो - पास्याकारपराः इत्यर्थः ।। 23 ।।

इति संभृत्यधिकरणम् - 8




9. पुरुषविद्याधिकरणम् ।।

पुरुषविद्यायामपि चेतरेषामनाम्नानात् ।। 3-3-24 ।।

तैत्तिरीयके पुरुषविद्याऽऽम्नायते ... ... विद्याभेद इति एकत्राम्नातानां गुणानामितरत्रानुपसंहारः ।। 24 ।।

पुरुषविद्यायामपि चेतरेषामनाम्नानात् । द्युव्याप्तिसन्निध्युक्तसंभृत्यादेरिव ब्रह्मविद्यासन्निधिस्थपुरुषविद्यायास्तच्छेषत्वमिति सङ्गतिः । फलसंयोगाश्रवणात् इति पुरुषविद्यामात्रस्य ब्रह्मविद्यात्वाभावात् उत्तरत्रोक्तं फलमतदर्हम् । पूर्वत्राहीननयादन्वेतीति भावः । छान्दोग्ये श्रुतस्यैव इति । विरोधिफलोक्तिरेव भेदिका । न तु फलानुक्तिरिति भावः ।।

राद्धान्ते - अफलं तदङ्गम् इति । अफलत्वं पूर्वमुक्तम् । न चास्या अफलत्वे फलश्रुतिपौनरुक्त्यम् । पूर्वमधिकारिविशेषणतयोक्त्वा , पश्चात् अङ्गमभिधाय फलस्य निगमितत्वात् ।। 24 ।।

इति पुरुषविद्याधिकरणम् - 9




10. वेधाद्यधिकरणम् ।।

वेधाद्यर्थभेदात् ।। 3-3-25 ।।

आथर्वणिका उपनिषदारंभे शुक्रं प्रविध्य ... ... इह पाठो दिवाकीर्त्यत्वारण्येनुवाक्यत्वकृतः ।। 25 ।।

वेधाद्यर्थभेदात् । सन्निधिस्थपुरुषविद्याया इव तादृशां शं नो मित्रादि मन्त्राणां

ब्रह्मविद्याङ्गत्वमिति शङ्कया सङ्गतिः । प्रवर्ग्यादीनि इति । आदि शब्दात् महाव्रतादि ।।

राद्धान्ते - आदि शब्दात् ऋतवदनादि । अनङ्गत्वे स्फुटेऽपि कथं वेधादेः सौत्रत्वमित्यत्राह - एतदुक्तम् इति । मन्त्रसामर्थ्यात् - मन्त्रावगतवस्तुसामर्थ्यात् । तर्हि कथमुपनिषत्सु पाठः इत्यत्राह - शुक्रम् इति ।। 25 ।।

इति वेधाद्यधिकरणम् - 10




11. हान्यधिकरणम् ।।

हानौ तूपायनशब्दशेषत्वात् कुशाच्छन्द सस्तुत्युपगानवत् तदुक्तम्

।। 3-3-26 ।।

छन्दोगा आमनन्ति - अश्व इव रोमाणि ... .... कौषीतकिनामुभयाम्नानमविशेषपुनःश्रवणत्वेन

प्रतिपत्तृभेदादविरुद्धम् ।।

हानौ तूपायनशब्दशेषत्वात् कुशाच्छन्दस्स्तुत्युपगानवत् तदुक्तम् । सन्निधिमतामप्यतदङ्गत्वमुक्तम् । तथा सन्निहितत्वात् हानादिचिन्ता वर्तते इति सङ्गतिः। उपायनम् - अन्यत्र प्रेवशः । उतयन्ति इति हि श्रुतिः ।।

राद्धान्ते - उपायनशब्दंप्रिति अन्यस्य शेषत्वव्युदासायाह - उपायनशब्दस्य इति । उपायन शब्दः शेष इत्यर्थः । विपरीतं किं न स्यादित्यत्राह - उपायनवाक्यस्य इति । तदुपपादयति - विदुषा इति । विदुषः प्राधान्येनापेक्षितं हि प्रहाणम् । उपायनं तदुपयोगित्वात् तच्छेषमित्यर्थः । हान्युपायनवचसोः प्रधानशेषभावे दृष्टान्तत्वव्युदासायाह - प्रदेशान्तर इति । कुशाः - पात्रविशेषाः । तथा इति । देवशब्दस्य अल्पाच्तरत्वेन पूर्वत्वसंभवात् क्रमो वाक्यान्तरापेक्ष इति भावः । समया विषिते समया उदिते । उपाकरोति - प्रिस्तौति । शेषत्वानुपगमेऽनिष्टमाह एवम् इति । न युज्यते - पाक्षिकबाधगर्भत्वादिति भावः।।

तदुक्तम् इति सूत्रखण्डः । तं पूरयति - पूर्व इति । एकवाक्यत्वात् इति । अन्योन्यशेषशेषिभावेन अन्वयादेकवाक्यत्वम् । केवलस्य इति । अभावात् - अप्रामाणिकत्वात् । कौषीतकिनाम् इति । अन्यतरोक्तावप्यन्यतरस्यार्थसिद्धत्वात् सर्वत्रोभयमुक्तमिति उभयोक्तिः अविशेषपुनः श्रुतिः इति अध्येतृभेदादविरोध इत्यर्थः ।। 26 ।।

इति हान्यधिकरणम् - 11




12. सांपरायाधिकरणम् ।।

सांपराये तर्तव्याभावात् तथा ह्यन्ये ।। 3-3-27 ।।

सृकृतदुष्कुतयोर्हानमुपायनं च ... ... तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ संपत्स्ये इति ।। 7 ।।

सांपराये तर्तव्याभावात् तथा ह्यन्ये । सङ्गतिर्गता । ताण्डिनः - छन्दोगाः । राद्धान्ते - तर्तव्य इति । तरतिः प्राप्तिवाची ।। 27 ।।

छन्दत उभयाविरोधात् ।। 3-3-28 ।।

एवमर्थस्वाभाव्यात् सुकृतदुष्कृत ... ... प्रथमश्रुतावयवात् प्रागनुगमयितव्य इत्यर्थः ।। 28 ।।

छन्दत उभयाविरोधात् । पदनाम् - महावाक्यापेक्षया पदस्थानीयानां वाक्यावयवानाम् । कुत्र केषामन्वय इत्यत्राह कौषीतकी इति । अग्निहोत्रं जुहोति 1 / यवागूं पचति इतिवत् ।। 28 ।।

अत्र पूर्वपक्षी प्रत्यवतिष्ठते -

गतेरर्थवत्त्वमुभयथाऽन्यथा हि विरोधः ।। 3-3-29।।

सुकृतदुष्कृतयोरेकदेशस्य ... .... अत उत्क्रान्तिसमये विदुषो निश्शेषकर्मक्षयो नोपपन्नः ।। 29 ।।

गतेरर्थवत्त्वमुभयथाऽन्यथा हि विरोधः । अणुत्वेऽपि सत्यसङ्कल्पानाविर्भावात् देहविरहाच्च गत्यशक्तिः ।। 29 ।।

अत्रोत्तरम् -

उपपन्नस्तल्लक्षणार्थोपलब्धेर्लोकवत् ।। 3-3-30 ।।

उपपन्न एवोक्रान्तिकाले सर्वकर्मक्षयः .... ... तदेव तटाकादिकमशिथिलं कुर्वन्तस्तत्र पानीयपानादि कुर्वन्ति , तद्वत् ।। 30 ।।

उपपन्नस्तल्लक्षणार्थोपलब्धेर्लोकवत् देहत्वाकारेण सजातीयार्थोपलब्धिः । न तु कर्मकृतैतद्देह एवेत्यभिप्रायेण तल्लक्षण इत्युक्तम् , न तु तदुपलब्धेः इति । विद्यामाहात्म्यं

विवृणोति - विद्या हि इति । स्वफलाप्तिहेतुदेहस्थितिकरत्वं पुण्यपापयोरिव युक्तमिति भावः । यथा इति । अन्यहेतूत्पन्नस्य हेत्वभावेऽपि कार्यान्तरार्थस्थितौ दृष्टान्तः ।। 30 ।।

अथ स्यात् - ज्ञानिनां साक्षात्कृतपरतत्त्वानां .. .....

यावदधिकारमवस्थितिराधिकारिकाणाम् ।। 3-3-31 ।।

नास्माभिः सर्वेषां ज्ञानिनां देहपातसमये .. ... अतस्तषां न देहपातादनन्तरमर्चिरादिगतिप्राप्तिः।। 31 ।।

अनन्तरसूत्रमवतारयति - अथ स्यात् इति । यावदधिकारमवस्थितिराधिकारिकाणाम् । अधिकारः - पदम् । देहपातानन्तरप्राप्तार्चिरादिगतीनामेव तत्समकालपुण्यपापक्षय इति परिहारः

।। 31 ।।

इति सापरायाधिकरणम् - 12 ।।




13. अनियमाधिकरणम् ।।

अ#िनियमः सर्वेषामविरोधः शब्दानुमानाभ्याम् ।। 3-3-32।।

उपकोसलादिषु येषूपासनेषु .. ... एवं सर्वविद्यासाधारणी इयं गतिः प्राप्तैवोपकोसलविद्यादावनूद्यते ।। 32 ।।

अनियमः सर्वेषामविरोधः शब्दानुमानाभ्याम् । गतिः प्रस्तुता । अथ तन्नियमानियमचिन्तेति सङ्गतिः । सिद्धान्तबीजमाशङ्क्याह - ये चेमे इति । उपासते इति । इति वाक्यस्येत्यर्थः । प्रमाणाभावात् - सत्यतप शब्दयोः न ब्रह्मवाचित्वे मानमिति भावः ।।

राद्धान्ते - उपात्तवाक्ये सर्वब्रह्मविदुकिं्त दर्शयति - इत्थं विदुः इति । तपः शब्दस्य इति । परमं यो महत् तपः इत्याद्यभिप्रेतम् । अन्यत्र इति । तयो #ः ब्रह्मपरत्वेऽपि इह तथात्वं न स्यादिति न वाच्यम् , ब्रह्म गमयति इत्युक्तत्वात् फलस्य यथोपासनत्वाच्च । स्मृतिरपि इति । ब्रह्मविदः इति ह्युच्यते इत्यर्थः

।। 32 ।।

इति अनियमाधिकरणम् - 13




14. अक्षरध्यधिकरणम् ।।

अक्षराधियां त्ववरोधः सामान्यतद्भावाभ्यामौपसदवत् तदुक्तम्

।। 3-3-33 ।।

बृहदारण्यके श्रूयते - एतद्वै तदक्षरं .. ... गुणमुख्य व्यतिक्रमे तदर्थत्वान्मुख्येन वेदसंयोगः इति ।। 33 ।।

अक्षरधियां त्ववरोधः सामान्यतद्भावाभ्यामौपसदवत् तदुक्तम् । अर्चिरादेः सर्वविद्यासाधारण्यमुक्तम् । तथा अस्थूलत्वादेरपि तन्निरूप्यते इति सङ्गतिः । प्रपञ्चत्यनीकतारूपः इति । प्रपञ्चप्रत्यनीकं ब्रह्म । प्रपञ्चप्रत्यनीकत्वं नाम प्रपञ्चस्वभावविरुद्ध स्वभावत्वम् अस्थूलत्वादि । अस्थूलम् इत्यादिपदानि हि विषयवाक्यस्थानि । अस्थूलम् - स्थूलादन्यम् । अनेन भिन्नाश्रयत्वलक्षणविरोधः फलित इति भावः। निर्दोषत्वविशेषरूप - मशनायाद्यतीतत्वादि तत्तद्विद्याव्यवस्थितम् । सामान्येन सर्वहेयप्रत्यनीकत्वं सर्वविद्याङ्गमित्यभिप्रायवान् प्रपञ्चप्रत्यनीक शब्दः । निरवद्यमित्यादिश्रुतेः सत्यत्वमपीहान्तर्भूतम् । अस्थूलत्वादि तु निषेधरूपमिति भिदा । अतः पृथक् चिन्तनम् । प्रमाणाभावात् - हेत्वभावात् । वस्तुसामर्थ्यं हेतुरित्यत्राह - स्वरूप इति ।।

राद्धान्ते - सामान्यतद्भावौ समुच्चित्य हतुः । प्रतीतौ भावात् - विषयत्वेन भावात् । धर्मान्तरनिषेधस्य धर्मिप्रतीतिपूर्वकत्वात् न प्रतिषेधरूपाणां तत्प्रतीत्यनुबन्धिगुणत्वमित्यत्राह - एतदुक्तम् इति । असाधाराणाकारेण - असाधारणस्वरूपेण । तृतीयानिर्दिश औपचारिकः । असाधारणस्वरूपग्रहणमित्यर्थः। अन्यथोत्तरग्रन्थो न घटते । आकारः - स्वरूपम्। प्रत्यगात्मनोऽपि हेयविरहात् नासाधारण्यमित्यत्राह - प्रत्यगात्मनस्तु इति । विपरीतम् असाधारणं , रूपम् इति तत्तत्साजात्यशङ्का व्युदासकधर्मत्वमात्रं विवक्षितम् ; न तु सजातीयविजातीयेष्वविद्यमानत्वमात्रम् । अविकारत्वेऽभिहितेऽपि ; जडत्वशङ्का नापैति। अजडत्वोक्तावपि स्थूलत्वाणुत्वादिशङ्कां नापैति । व्यापकजडत्वादिनिवृत्त्या स्थूलत्वादिशङ्का नेति चेत् , व्यापकजडत्वादिनिवृत्त्या व्याप्यवस्युत्वनिवृत्तिः किं न शङ्क्येत ? शास्त्रैकगम्यस्य वस्तुनो व्याप्त्यविषयत्वादिति चेत् , स्थूलत्वादिशङ्कायामपि तुल्यम् । ततश्च स्थूलस्य कस्यचिद्वस्तुविशेषस्याजडत्वादि संभवतीति स्थूलत्वादि

तत्तद्वस्तुसाजात्यशङ्कानापैति । अतः स्थूलत्वादिसर्वहेयप्रत्यनीकतयैव तत्तज्जातीयत्वशङ्का शाम्यतीति अस्थूलत्वादिकं तत्तत्साजात्यशङ्कानिवारकत्वादसाधारणं रूपम् ।।

विशेषित शब्द उपेतपरः । दृष्टान्तोपजीव्यांशमाह - गुणानाम् इति । जामदग्न्यम् - जमदग्निना अनुष्ठितम् । पुरोडाशी - पुरोडाशद्रव्यकम् । उपांशुत्वेन - उपांशु यजुषा इति वचनात् याजुर्वैदिकोपसदङ्गत्वात् उपांशुता । अन्यथा हि उच्चैः साम्ना इति उच्चैर्गानं स्यात् ।। 33 ।।

नन्वेवं सर्वासु ब्रह्मविद्यासु .... ...

इयदामननात् ।। 3-3-34 ।।

आमननम् - आभिमुख्येन मननम् ... ... प्रधानानुवर्तिनोऽपि चिन्तनीयत्वेन प्रतिविद्यं व्यवस्थिताः ।। 34 ।।

अनन्तरसूत्रस्य शङ्कामाह - नन्वेवम् इति । इयदामननात् । अक्षरार्थमाह - आमननम् इति । तात्पर्यमाह - येन इति ।। 34 ।।

इति अक्षरध्यधिकरणम् - 14 ।।




15. अन्तरत्वाधिकरणम् ।।

अन्तरा भूतग्रामवत् स्वात्मनोऽन्यथा भेदानुपपत्तिरिति चेन्नोपदेशवत्

।। 3-3-35 ।।

बृहदारण्यके उषस्तप्रश्न एवमाम्नायते ... ... ब्रह्मणः कृत्स्नप्राणिप्राणनहेतुत्वाशनायाद्यतीतत्वप्रतिपादनेन रूपैक्याद्विद्यैक्यम् ।।

अन्तरा भूतग्रामवत् स्वात्मनोऽन्यथा भेदानुपपत्तिरिति चेन्नोपदेशवत् । हेयप्रत्यनीकत्वं परस्यासाधारणं चेत् अशनायाद्यतीतं ब्रह्म स्यात् प्राणितृत्वाद्युपेतो जीवः स्यादिति शङ्कया सङ्गतिः । उषस्तप्रश्न शब्देन प्रकरणं लक्ष्यते । न रूपभेदः , प्रश्नैकरूप्यादित्यत्राह - प्रतिवचन इति । सर्वान्तरत्वं कथमित्यत्राह - भूतग्रामवतश्च इति । अस्वारस्यमाशङ्कयाह - तथापि इति । तदिदम् इत्यादि । अन्तरा इत्यादिन्य सूत्रव्याख्यानम् ।।

अत्रोत्तरम् इत्यादि । निरुपाधिक शब्देन जीवव्यावृत्तिः । दृष्टेर्द्रष्टारम् इति ओदनपाकं पचति इतिवत् । उत्तरे अपि प्रश्नप्रतिवचने इत्यर्थः । एवं धर्मिभेदाद्विद्यायभेदः प्रत्युक्तः ।। 35 ।।

अथ स्यात् - यद्यप्युभे प्रश्नप्रतिवचने ... ....

व्यतिहारो विशिंन्ति हीतरवत् ।। 3-3-36 ।।

नात्र विद्याभेदः , प्रश्नप्रतिवचनाभ्याम् ... ... गुणात्गुणान्तर- विशिष्टतयोपास्यं प्रतिपाद्यते , तद्वत् ।। 36 ।।

अनन्तरस्य शङ्कामाह - अथ स्यात् इति । धर्मेभेदात् रूपभेद उक्तः । प्रष्टृभेदात् विद्याभेदसंभवहेतुः । प्रष्ट्रैक्ये तदैक्यं संभवेत् । विद्यान्तरनैरपेक्ष्यादिति । व्यतिहारोविर्शिषन्ति हीतरवत् । व्यतिहारं विवृणोति - उषस्तस्य इति । तत्फलमाह - एवम् इति । तदेव वदन् विर्शिषन्ति इति पदं व्याचष्टे - एनं सर्व इति । गुणैक्यात् रूपभेदः प्रत्युक्तः । प्रष्टृभेदो वैश्वानरविद्यादौ व्यभिचारीति भावः । ननु इति । सर्वप्राणयितृत्वाशनायाद्यतीतत्वयोरन्यतरेणालं व्यावृत्तधियः इत्यर्थः । तदुच्यते इति । व्यावृत्तबुद्ध्यतिशयजननार्थमिति परिहारः ।। 36 ।।

तत्रापि प्रश्नप्रतिवचनभेदे .... ....

सैव हि सत्यादयः ।। 3-3- 37 ।।

सैव हि सच्छब्दाभिहिता परमकारण ... .... सत्यादयः सर्वेषु पर्यायेषूपपाद्योपसंहियन्ते ।।

दृष्टान्त विद्यैक्यस्थापनाय उत्तरसूत्रमवतारयति - तत्रापि इति । सैव हि सत्यादयः । परमकारणत्वम् उपास्यगुणः । तदुपयोगिसत्यत्वात्मत्वादीनां प्रतिपर्यायमावृत्तेरित्यर्थः ।।

केचितु - व्यतिहारो विर्शिषन्ति ... ... इतरेतराश्रयत्वमित्येवमादिभिः यथोक्तप्रकारमेव सूत्रद्वयम् ।। 37 ।।

मतान्तरमनूद्य व्युदस्यति - केचित् तु इति । सोऽपि सूत्रे वक्तव्य इत्यत्राह - तत् तु इति । सर्वत्र प्रसिद्धोपदेशात्

आत्मेति इति सूत्रद्वयमचिज्जीवतादात्म्यपरम् । इह जीवपरयोरन्योन्यभावारोपणमित्यत्राह - न च इति । तथ्यं न इति । ताक्र्ष्यध्यानवदसदारोपो न मोक्षायेति भावः । उत्तरेण च इत्यादि । ततः किमित्यत्राह - न च इति । द्वयोः - वाक्ययोर्मध्ये । जहाति च - शरीरमित्यर्थः । द्वयोः - उत्तरवाक्योक्तयोरुपासनयोः ।

गुणफलम् - अङ्गफलम् । प्रमाणाभावात् - हेत्वभावात् । उत्तरयोः - पापहतिदेहहानयोः । संयोगभेदाभावात् - प्रधानफलैक्यादित्यर्थः । आदि शब्दात् स्वमतोपपत्तयः उक्ताः ।। 37 ।।

इति अन्तरत्वाधिकरणम् - 15




16. कामाद्यधिकरणम् ।।

कामादीतरत्र तत्र चायतनादिभ्यः ।। 3-3-38 ।।

छान्दोग्ये श्रूयते - अथ यदिदम् .... ... आकाशस्याभिधायकत्वमवगम्यते । अतो विद्यैक्यम् ।। 38 ।।

कामादीतरत्र तत्र चायतनादिभ्यः। प्राणयितृत्वाशनायाद्यतीतत्वयोर्धर्मिभेदाभावात् विद्यैक्यमुक्तम् । अत्र तु गुणाष्टकस्य वशित्वादेश्च धर्मिभेद इति शङ्काया सङ्गतिः । अत्र व्योमातीतव्युदासः फलितत्वात् । गुणाष्टकम् , वशित्वादि च इति धर्मभेदः । आकाशः , तत्र शयानश्चेति धर्मिभेद उक्तः ।।

राद्धान्ते - धर्ममात्रस्योपास्यत्वशङ्कां व्युदस्यन् इतरत्र इति पदं च व्याचष्टे - वाजसनेयके इति । आकाश इत्यादि । स्वतः प्राप्तमाकाशशब्दस्य - भूताकाशपरत्वं छान्दोग्ये परमात्मधर्मश्रवणापोदितम् । वाजसनेयके तु नापवादः आकाशे शयानस्य परमात्मधर्मश्रवणात् स एव परमात्मेत्यर्थः।।

अथ स्यात् - यदुक्तं वाजसनेयके ... ...

आदरादलोपः ।। 3-3-39 ।।

ब्रह्मगुणत्वेन प्रमाणान्तराप्राप्तानां ... .... ब्रह्मणः प्रतिपाद्यतस्मिन् सत्यकामत्वादयो विधीयन्ते ।। 39 ।।

अनन्तरसूत्रशङ्कामाह -
अथ इति । छान्दोग्यदहरविद्या सगुणविषया । इयं तु निर्गुणविषया विद्या । अतो नैक्यमित्यर्थः ।।

आदरादलोपः । अप्राप्तानाम् इति निषेधार्थानुवादशङ्का निरस्ता । अपूर्वत्वं तात्पर्यलिङ्गं चोक्तम् । विहितस्य निषेधायोग उपपत्तिः । तद्य इहात्मानम् इत्यादिना फलमुक्तम् । तत्रैवाभ्यसः सिद्धिः । न च इत्यादि । गुणोक्तिर्न विप्रलिप्सामूला ,

नैर्गुण्योक्तावपि प्रसङ्गात् । न चार्वाचीनफलोपासनार्था , मोक्षप्रकरणस्थत्वात् सत्यश्रुतेश्चेति भावः । नेह नानाषऽस्ति इत्यादेरर्थमाह - नेह इति । गोबलीवर्दनयात् ब्रह्मप्रकारतया भेदो विहित इति अब्रह्मात्मकभेदविषयो निषेधः । एकधा इति तु ब्रह्मात्मकतया ऐकरूप्यमुक्तम् । स एष न इति प्रपञ्चवैरूप्यम् , प्रकरणानुगुण्यात् । नास्य इति । अस्य - प्रपञ्चस्य ।। 39 ।।

नन्वेवमपि तद्य इहात्मानम् .... ....

उपस्थितेऽतस्तद्वचनात् ।। 3-3-40 ।।

उपस्थितिः - उपस्थानम् ब्रह्मोपसंपन्ने .. ..... मुमुक्षोः सत्यकामत्वादयो गुणा उपसंहार्याः ।। 40 ।।

अनन्तरसूत्रमवतारयंश्वोदयति - ननु इति । उपस्थितेऽतस्तद्वचनात् । अत एव इति . अनन्तरोक्त्या हेतुत्वमार्थमिति भावः । कथं ब्रह्मानुभवतोऽन्यापेक्षा इत्यत्राह - तदेतत् इति ।। 40 ।।

इति कामाद्यधिकरणम् - 16




17. तन्निर्धारणानियमाधिकरणम् ।।

तन्निर्धारणानियमस्तद्दृष्टेः पृथग्ध्यप्रतिबन्धः फलम् ।। 3-3-41 ।।

ओमित्येतदक्षरमुदीथमुपासीत ... ... गोदोहनादिवत् कर्मसूद्गीथाद्युपासनानामनियमेनोपसंहारः ।। 41 ।।

तन्निर्धारणानियमस्तद्दृष्टेः पृथग्ध्यप्रतिबन्धः फलम् । सत्यकामत्वादीनामुपसंहार्यत्वमक्तम् । एवमुद्गीथादिधियां नियमेनोपसंहार इति शङ्काया सङ्गतिः । शाखान्तरोक्तस्य शाखान्तराधीतक्रत्वङ्गद्वारा कर्मशेषत्वाय प्रोक्षणादौ सत्यपि

पर्णता दृष्टान्तिता । कथमफलदत्वेऽनुष्ठानं , फलदत्वे कथमङ्गत्वमित्यत्राह - कर्माङ्गत्वेन इति । तच्छØतमित्यत्राह - यदेव इति । फलश्रुतिरर्थवाद इत्यर्थः। न च गोदोहनवाक्य इव फलं सन्निकृष्टम् , वाक्यान्तरस्थत्वादिति चाभिप्रेतम् ।।

राद्धान्ते - आर्थवादिकफलस्य स्वीकार्यत्वाय रात्रिसत्रनय उक्तः । प्रतिष्ठा ह्यार्थवादिकी स्वीक्रियते ।। 41 ।।

इति तन्निर्धारणानियमाधिकरणम् - 17




18. प्रदानाधिकरणम् ।

प्रदानवदेव तदुक्तम् ।। 3-3-42 ।।

दहरविद्यायां तद्य इहात्मानम् ... .... तदुक्तं नाना वा देवता पृथक्त्वात् इति ।। 42 ।।

प्रदानवदेव तदुक्तम् । पूर्वं प्रासङ्गिकम् । अतस्तत्पूर्वं चिन्तितदहरविद्याविषयचिन्तान्तरम् इति सङ्गतिः । केवलगुणिचिन्तनम् - आनन्दत्वादिविशिष्टस्वरूपचिन्तनम् । गुणचिन्तनम - गुणाष्टकचिन्तनम् । सकृदेव - तन्त्रेण ।।

राद्धान्ते - गुणविशिष्टाकारः - गुणसंबन्धिरूपम् , गुणगुणिरूपसमुदायः । स च स्वरूपमात्रात् भिन्नः । अपहत इति । अपहतपाप्मादिशब्दानां धर्मिपर्यंन्तत्वात् सत्यान् कामान् इत्यत्रापि तदुपास्तिर्विहितेत्यर्थः ।।

इति प्रदानाधिकरणम् - 18




19. लिङ्गभूयस्त्वाधिकरणम् ।।

लिङ्गभूयस्त्वात् तद्धि बलीयस्तदपि ।। 3-3-43 ।।

तैत्तिरीया दहरविद्यानन्तरमधीयते ... .. इति निर्णियमानत्वाच्च प्रथमार्थे द्वितीयेति निश्चियते ।। 43 ।।

लिङ्गभूयस्त्वात् तद्धि बलीयस्तदपि । पूर्वप्रकृत इति सङ्गतिर्ज्ञापिता । परविद्या इति दृष्टिधीव्युदासः । आत्मा दुहायाम् आत्मानारायणः इति चात्मशब्दैक्यमार्थम् ।।

राद्धान्ते - चिह्न इति । श्रुत्यनन्तरलिङ्गव्युदासः । पद्मकोश इति । ऐदात्म्यमिदं सर्वम् तत्त्वमसि इतिवत् सामान्योक्तस्य विशेषनिष्ठतया उक्तिरिति भावः । न च इति । येनाऽऽवृतं खं च दिवम् इतिवत् द्वितीयान्तानुगुणं प्रथमान्तवचो नीयतामित्यत्राह - अन्तर्बहिश्च इति । विद्यात् इत्यादिविधिपदरहितवाक्यप्रतिपन्नार्थस्वभावविरोधादित्यर्थः । पूर्वशेषत्वे विध्यध्याहारः , प्रथमान्तास्वारस्यमर्थविरोधः ; इह तु द्वितीयान्तास्वारस्यमिति । नारायण परम् इति न

पञ्चमीलोपः । विभक्त्यर्थलक्षणानुपपत्तेः । समासेऽपि निषादस्थपतिनयप्राप्तेः महोपनिषदैकार्थ्यात् पूर्वापरश्रुत्थन्तरविरोधात् सुपां सुलुक् विधानाच्चेति भावः । आत्म शब्दस्तु आत्मा वा इदम् आत्मा वा अरे इत्यादिष्वपि नारायणप्रत्यभिज्ञापरः ।। 43 ।।

इति लिङ्गभूयस्त्वाधिकरणम् - 19




20. पूर्वविकल्पाधिकरणम् ।।

पूर्वविकल्पः प्रकरणात् स्यात् क्रिया मानसवत् ।। 3-3-44 ।।

वाजसनेयकेऽग्निरहस्ये मनश्चितादयः ... .... विद्यारूपस्यापि क्रियामयक्रत्वङ्गतया क्रियारूपत्वम् तथेहापि ।। 44 ।।

पूर्वविकल्पः प्रकरणात् स्यात् क्रिया मानसवत् । नारायणानुवाके इव प्रकरणस्य वाक्यादिना बाधाभावात् मनश्चितादयः क्रियामयक्रत्वनुप्रवेशिनः इति सङ्कया सङ्गतिः । सौत्रनिर्देशानुरोधेन क्रियारूपाः विद्यारूपाः इति निर्दिष्टम् । तद्विवरणम् - क्रियामयक्रत्वनुप्रवेशेन विद्यामयक्रत्वनुप्रवेशेन इति च । मनश्चितादीनां स्वरूपस्य विद्यारूपत्वे न विप्रतिपत्तिः । अङ्गिद्वारा विद्यारुपत्वे तु विप्रतिपत्तिः । अतः सूत्रे क्रिया शब्दो लाक्षणिकः । क्रियामयक्रत्वङ्गतया तत्संबन्धीत्यर्थः ।।

होमस्थानत्वात् अग्नित्वम् । नाग्निमात्रस्य कत्वपेक्षेति शङ्काव्युदासाय चित्य शब्दः । संपादितानाम् - अनुसंहितानाम् । सन्निधानम् - बुद्धिस्थत्वम्। इष्टकचितेन नैरपेक्ष्यमित्यत्राह - विकल्प्यमानाः इति । अविवाक्ये - विविधाक्यरहिते । यद्वा , विवाक्ये - विगतवाक्ये । स्वरूपेणासतोऽपि ग्रहस्य मानसत्वं मनोजन्योपयोगित्वात् ।। 44 ।।

अतिदेशाच्च ।। 3-3-45 ।।

इतश्चेष्टकचितेनाग्निना ... .. (क्रियामयक्रत्वनुप्रवेशेन) क्रियारूपा एवेति ।। 45 ।।

अतिदेशाच्च । वीर्यं - कार्यकरत्वसामर्थ्यम् । उपकारं दर्शयति - ततश्च इति ।। 45 ।।

एवं प्राप्ते प्रचक्ष्महे -

विद्यैव तु निर्धारणाद्दर्शनाच्च ।। 3-3-46 ।।

तुशब्दः पक्षं व्यावर्तयति । .... ... क्रतुरपि विद्यामयोऽत्र प्रतीयते ।। 46 ।।

राद्धान्ते - विद्यैव तु निर्धारणादृर्शनाच्च । दर्शनात् इत्यंशं व्याच्ष्टे - दृश्यते च इति । एषु - मनश्चितादिषु । । यत् किं च यज्ञे कर्म इति प्रधानभूतकर्मोक्तम् । यज्ञीयम् इति अङ्गभूतम् ।। 46 ।।

ननु - अत्र विधिपदाश्रवणात् ... ...

श्रुत्यादिबलीयस्त्वाच्च न बाधः ।। 3-3-47 ।।

श्रुतिलिङ्गवाक्यानां प्रकरणात् ... ... क्रत्वनुप्रवेशसंभवमलभमानं विद्यामयक्रत्वनुप्रवेशे लिङ्गं भवति ।। 47 ।।

अनन्तरस्य शङ्कामाह - ननु इति । विधिः कल्प्येतेत्यत्राह - फलसंबन्ध इति । श्रुत्यादिबलीयस्त्वाच्च न बाधः । विद्यया इति । प्रयोजनतया हेतुत्वम् । वाक्यप्रतिपन्नमर्थमाह - एवंवित् इति । लिङ्गमुपपादयति - सर्व इति ।। 47 ।।

यच्चेदमुक्तं विधिप्रत्ययाश्रवणात् ... ...

अनुबन्धादिभ्यः प्रज्ञान्तरपृथक्त्ववत् दृष्टश्च तदुक्तम् ।। 3-3-48 ।।

इष्टकचितान्वयिनः क्रियामयात् ... ... मनश्चितादीनामपि स्वक्रतुद्वारेण फलमित्यवगम्यते ।। 48 ।।

अनन्तरावताराय प्रागुक्तशङ्कायामपरिहृतांशमाह - यच्चेदम् इति । अनुबन्धादिभ्यः प्रज्ञान्तरपृथक्त्ववत् दृष्टश्च तदुक्तम् । दृष्टश्च इति । फलसंबन्धेऽपि श्रुतहानप्रसङ्गाय हि विधिक्लृप्तिः । साऽपि प्राप्ता सानुबन्धश्रुत्यादिभिः विद्यामयक्रत्ववगमादित्यर्थः । फलं च श्रुतमित्याह - फलं च इति ।। 48 ।।

यत्पुनरतिदेशेन तुल्यकार्यत्व ... ....

न सामान्यादप्युपलब्धेर्मृत्युवन्न हि लोकापत्तिः ।। 3-3-49 ।।

नावश्यमतिदेशादवान्तर व्यापारस्यापि ... .... विद्यामयक्रतुद्वारेण फलमित्यतिदेशादवगभ्यते ।। 49 ।।

न सामान्यादप्युपलब्धेर्मृत्युवन्न हि लोकापत्तिः । अवान्तरव्यापारस्य - क्रियामयक्रत्वन्वयस्य । देशरूप इति । देशः - आश्रयः । अङ्गाश्रयोऽङ्गी

।। 49 ।।

परेण च शब्दास्य ताद्विध्यं भूयस्त्वात् त्वनुबन्धः।। 3-3-50 ।।

परेण च ब्राह्मणेन अस्यापि ... .... अग्न्यङ्गानां भूयस्त्वात् तत्सन्निधाविहानुबन्धः कृतः ।। 50 ।।

परेण च शब्दस्य ताद्विध्यं भूयस्त्वात् त्वनुबन्धः। न परं श्रुत्यादिभिः , प्रकरणेन च विद्यामयक्रत्वङ्गता उच्यते । पृणानां पूरयन्तीम् भुवम् । पॄ पालनपूरणयोः । एतत् इति लिङ्गव्यत्ययः । एतमÐग्न यो वेदः इत्यर्थः ।। 50 ।।

इति पूर्वर्विकल्पाधिकरणम् - 20




21 . शरीरे भावाधिकरणम् ।।

एक आत्मनः शरीरे भावात् ।। 3-3-51 ।।

सर्वासु परविद्यासूपास्योपासन ... ... नैवम् तं यथा यथोपासते इत्युपास्यविषयत्वात् तस्य ।। 51 ।।

एक आत्मनः शरीरे भावात् ।
पूर्वं प्रासङ्गिकम् । तत्पूर्वस्मिन् भगवत एव सर्वविद्योपास्यत्वमुक्तम् । तथा प्रत्यगात्मनश्चेति इममुपास्योपासकोपासनपरं दीपे व्याख्यातम् । तद्दीपोपजीव्यमुपास्यकोटिनिवेशं वक्ष्यन् तदुपयोगादाह - वक्ष्यति च इति । ततः किमित्यत्राह - तावता इति ।।

सिद्धान्तः

एवं प्राप्ते प्रचक्ष्महे -

व्यतिरेकस्तद्भावभावित्वान्न तूपलब्धिवत् ।। 3-3-52।।

न त्वेतदस्ति - यत् ज्ञातृत्वाद्याकार ... ... तावन्मात्रमेव तत्रापेक्षितमिति न किञ्चिदपहीनम् ।। 52 ।।

राद्धान्ते - व्यतिरेकस्तद्भावभावित्वान्न तूपलब्धिवत् । व्यतिरेकधर्ममात्रस्य चिन्त्यत्वव्युदासायाह - अस्य मोक्ष इति । फलितमाह अतः इति तं यथा इति तच्छब्दो विशिष्टविषयः इति भावः । अत एव - प्राप्याकारस्यानुसन्धेयत्वादेव हि

प्राप्यचिन्तनोक्तिरित्यर्थः। पूर्वपक्षोक्तदृष्टान्तस्य वैषम्यमाह - कर्मसु इति । वैधत्वावैंधत्वे वैषम्यमित्यर्थः ।। 52 ।।

इति शरीरे भावाधिकरणम् - 21




22. अङ्गावबद्धाधिकरणम् ।।

अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् ।। 3-3-53 ।।

ओमित्येतदक्षरमुद्गीथमुपासीत .... .... नैकस्य सन्निधिविशेषोऽस्तीति न व्यवस्था ।। 53 ।।

अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् । यत्र यत्र ब्रह्मोपास्यं , तत्र तत्र शुद्धात्मन उपास्यत्वमुक्तम् । एव यत्र यत्र उद्गीथानुप्रवेशः तत्र तत्र तदुपास्तिरस्ति न वेति शङ्कया सङ्गतिः । सर्व इति । सर्वशाखाप्रत्यनयेनोद्गीथैक्यादाक्षेपः । भेदकधर्मैः भिन्नत्वात् समाधिः। तस्मिन्नेव इति । गामानय इत्यादौ विशेषपर्यवसानदृष्टेरिति भावः।।

राद्धान्ते - सन्निहिता - धीस्था धीस्थत्वं हि सन्निधिः । स च शब्दशक्त्या दर्शितः । गामानय इत्यादिषु अयोग्यत्वं व्यवस्थापकम् । न त्वसन्निधिरति भावः। अर्थतोऽपि सन्निधिमाह - सर्वशाखा इति । अङ्गिसन्निधेरङ्गसन्निधिरित्यर्थः

।। 53 ।।

मन्त्रादिवद्वाऽविरोधः ।। 3-3-54 ।।

वाशब्दश्चार्थे । आदिशब्देन ... .... सर्वासु शाखासुविनियोगो न विरूध्यते । तद्वदिहाप्यविरोधः ।। 54 ।।

मन्त्रादिवद्वाऽविरोधः । सर्वशाखासूद्गीथानुवृत्ते (तौ) दृष्टान्तः मन्त्रादिः। ततश्च सर्वशाखिनामुपासनेऽधिकारः ।। 54 ।।

इति अङ्गावबद्धाधिकरणम् - 22




23. भूमज्यायस्त्वाधिकरणम् ।।

भूम्नः क्रतुवज्जयायस्त्वं तथा हि दर्शयति ।। 3-3-55 ।।

प्राचीनशाल औपमन्यवः इत्यारभ्य ... ..... भूमविद्यास्तुत्यनुपपत्तेः अतः समस्तोपासनमेव न्याय्यम् ।। 55 ।।

भूम्नः क्रतुवज्ज्यायस्त्वं तथा हि दर्शयति । पूर्वप्रकृतसामावयवभूतोद्गीथस्य समस्तस्य व्यस्तस्य चोपस्यत्वं श्रुतम् । एवं किं वैश्वानरविद्यायां समस्तस्य व्यस्तस्य वोभयस्य वोपास्यत्वमिति शङ्कया सङ्गतिः। अत्त्यन्नम् - अन्नमत्ति । वैश्वानरोपास्तिरुपक्रान्ता , तत् कथं मूर्धमात्रो पास्तिरित्यत्राह - वैश्वानरत्वं चाह - इति । वैश्वानरे उक्तस्य - वैश्वानरविषयतयोक्तस्य । वाक्यभेदः - महावाक्यभेदः । यथै भूम इति । प्रासङ्गिकार्थबहुत्वं प्रधानप्रतिपाद्यैक्याविरोधीत्यर्थः। व्यस्तोपासनं प्रासङ्गिकमिति न विरोधः ।।

राद्धान्ते - अनुवादमात्रम् - समुदायोपासनतत्फले विवक्षिते । तदेकदेशकथनम् अनुवाद इत्यर्थः । स च फ्रलविशेषाणां समस्तोपासनफलान्तर्गतत्वज्ञापनार्थः । अन्यथा वाक्यभेदात् प्रत्यवायकथनाच्च । अत इदम् इत्यादि । अनर्थाश्रवणं वैषम्यमुक्तम् । आधिक्यप्रतियोगित्वेनोपयोगित्वं च वैषम्यमाह - नामादि इति । अतिशयितफलत्वं श्रूयते , ततः किं महावाक्यैक्यस्येत्यत्राह - तत एव इति। अन्यथा इति । अविवक्षित्वे ।। 55 ।।

इति भूमज्यायस्त्वाधिकरणम् - 23

24. शब्दादिभेदाधिकरणम् ।।

नाना शब्दादिभेदात् ।। 3-3-56 ।।

इह ब्रह्मविद्याः सर्वाः ब्रह्मप्राप्तिरूप .... ... बेदान्तवाक्यानि अविधेयज्ञानपराणीत्रि कुद्दष्टिनिरसनाय । अतो विद्याभेद इति स्थितम्

।। 56 ।।

नाना शब्दादिभेदात् । पूर्वं विद्याविशेषचिन्ता प्रवृन्ता ; अथ सर्वविद्याविषयवचिन्तेति सङ्गतिः । आदि शब्देन परमं गुह्यमभिप्रेतम् । उत्तराधिकरणे च पुनरुकिं्त परिहरति - अत्रेव इति । अविशेषपुनः श्रुतिप्रकरणान्तरयोः सामान्येन विद्याभेदकत्वे सिद्धे हि , विद्याविशेषाणां भेदाभेदचिन्ताप्राप्तिरित्यर्थः । रूपफलैक्ये पूर्वपक्षबीजम् ।।

राद्धान्ते - विधेयम् - साङ्गं प्रधानं कर्म । अनुबन्धाः - अवयवाः ।
तद्भेदहेतवः शब्दादयः । तैः अनुबन्धभेदात् विधेयभेदः । धात्वर्थभेदात्

रूपभेदव्युदासायाह - प्रत्ययावृत्ति इति । भिन्दन्ति - अर्थेन हि धियां विशेषः इति भावः । ब्रह्म इति प्रकरणभेद उक्तः । इहोक्तेः फलमाह - अस्मिन् इति

।। 56 ।।

इति शब्दादिभेदाधिकरणम् - 24




25. विकल्पाधिकरणम् ।।

विकल्पोऽविशिष्टाफलत्वात् । 3-3-57 ।।

ब्रह्मप्राप्तिफलानां सद्विद्यादहरविद्यादीनां .... ... ब्रह्मप्राप्तिफला इत्यविशिष्टफलत्वात् सर्वासां विकल्प एव ।। 57 ।।

विकल्पोऽविशिष्टफलत्वात् । भेदे सिद्धे हि विकल्पसमुचियच्चिन्ता इति सङ्गतिः ।।

राद्धान्ते - साम्य श्रुत्युपादानात् निरवधिकानन्दब्रह्मसाम्यापन्नः स्यात् । अन्यनैरपेक्ष्यार्थं स्वस्य इति । अनवधिकातिशयानन्दम् इति बहुव्रीहिः । आनन्द - जननमित्यर्थः । काश्चित् अनिष्टनिवृत्त्यर्थाः , काश्चित् ब्रह्मावाप्त्यर्था इति समुच्चय इत्यत्राह - सर्वाश्च । इति ।। 57 ।।

ब्रह्मप्राप्तिव्यतिरिक्तफलास्तु .... ....

काम्यास्तु यथाकामं समुच्चीयेरन् न वा पूर्वहेत्वभावात् ।। 3-3-48 ।।

अपरिमितफलत्वाभावादित्यर्थः ।। 58 ।।

उत्तरसूत्रं पूर्वेण घटयन् तदर्थमाह - ब्रह्मप्राप्तिव्यतिरिक्त इति । काम्यसमुच्चयविकल्पयोः इच्छा नियामिकेति यथाकाम शब्दार्थ इति भावः ।।

काम्यास्तु यथाकामं समुच्चीयेरन् न वा पूर्वहेत्वभावात् । हेतुपदं व्याचष्टे अपरि इति ।। 58 ।।

इति विकल्पाधिकरणम् - 25




26. यथाश्रयभावाधिकरणम् ।।

अङ्गेषु यथाश्रयभावः ।। 3-3-59 ।।

उद्गीथादिक्रत्वङ्गेष्वाश्रिताः ... .... .... उपासनास्तन्मुखेन क्रत्वङ्गभूता इति नियमेनोपादेया एव ।। 59 ।।

अङ्गेषु यथाश्रयभावः यथाकामं काम्यानां समुच्चयविकल्पावुक्तौ । एवमुद्गीथादिविद्याश्च यथाकामम् उपादेया वेति सङ्गतिः । ननु इति । पुनरुकिं्त परिहर्तुं पूर्वमुक्तांशमाह - तत्र हि इति । न हि इति । फलस्य स्ववाक्यस्यत्वाभावात् विलम्बः गोदोहनवावयाद्वैषम्यम् । अङ्गत्वविरोध्यभाव उक्तः । अनुकूलहेतुमाह - उद्गीथ इति । व्रीहीन् इतिवत् द्वितीया - श्रुत्या शेषत्वमिति भावः । फलस्य वाक्यान्तरस्थतां दर्शयति - यदेव इति । ततः किमित्यत्राह - स्ववाक्येन इति । फलस्य स्ववाक्यस्थत्वाभावे सति अव्यभिचरितक्रतुसंबन्धिजुहूसंबन्धात् पर्णताया अङ्गत्वे सिद्धे

वाक्यान्तरस्थापापश्लोकश्रवणादिफलश्रुतिरर्थवाद इत्यर्थः । ततः किमित्यत्राह - अतः इति । प्रयोगविधिः - अनुष्ठापकत्वदशापन्नविधिः न तु ज्ञापकावस्थः ।। 59 ।।

शिष्टेश्च ।। 3-3-60 ।।

शिष्टिः शासनम् , विधानमित्यर्थः ... .... उद्गीथाङ्गभाव एव हि विधेय इति गम्यते ।। 60 ।।

शिष्टेश्च । युक्तिरुक्ता । लिङ्गान्युच्यन्ते । गोदोहनवैषम्यमाह - गोदोहन इति ।। 60 ।।

समाहारात् ।। 3-3-61 ।।

होतृषदनाद्धैवापि दुरुद्गीथम् ... .... वेदनहानावन्येन समाधानं ब्रुवत् तस्य नियमेनोपादानं दर्शयति ।। 61 ।।

समाहारात् । समाहारः - समाधानम् ।। 61 ।।

गुणसाधारण्यश्रुतेश्च ।। 3-3-62 ।।

उ#ापासनगुणस्य उपासनाश्रयस्य ... ... उद्गीथाद्युपासना- नामुद्गीथादिवन्नियमेनोपादानम् ।। 62 ।।

गुणसाधारण्यश्रुतेश्च । उपासनार्थत्वविवक्षया तदाश्रयस्य गुण शब्देनोक्तिः। समाहारः - अनुवृत्तिः । तदुपपादयति - तेन इति ।।

सिद्धान्तः

इति प्राप्त उच्यते -

न वा तत्सहभावाश्रुतेः ।। 3-3-63 ।।

न चैतदस्ति यदुद्गीथाद्युपासनानां ... .... तत्र फलश्रुतिरर्थवादमात्रं स्यात् ।। 63 ।।

राद्धान्ते -
न वा तत्सहभावाश्रुतेः । सहभावमात्रान्न अङ्गत्वमित्यत्राह - अङ्गभावे हि इति । नियमो विवक्षितः इत्यर्थः । अङ्गत्वविरोधितत्पृथक्फलसाधनत्वभिप्रेतम् । तदुपपादयति - यद्यपि इति । साधनभावः प्रतिपाद्यते इति । गोदोहनवाक्ये साधनत्वं कल्यमिति एकविलम्बः। इह तु तन्न कल्प्यम् । कर्ममात्रस्य विद्यासाध्यत्वाभावात् । वीर्यवत्तरत्वविशिष्टस्यैतत्साध्यत्वाम् इति साधनभावस्य शाब्दात्वात् । प्रणयनमात्रस्यैव गोदोहनसाध्यताप्रतीतिः । न तु पशुसाधनताविशिष्टस्य , साधनवाचकत्वाभावात् । फलं तु वाक्यान्तरस्थमित्येको विलम्बः इति एकविलम्बवत्त्वसाम्यमभिप्रेतम् ।।

तेन फलसाधनतयैव विधिरित्यत्राह - तेन इति । ततः किमित्यत्राह - क्रतुफलात् इति । तर्हिं कथं द्वितीयाश्रुत्या शेषत्वमित्यत्राह - अत उपासनस्य इति । मात्रचा शेषित्वव्युदासः । गोदोहनं किंसंबन्धि पशुसाधनमितिवत् उपासनं किंविषयं फलसाधनमित्यपेक्षायां सन्निहितोद्गीथसंबन्धित्वे सति गोदोहनं प्रति प्रणयनमात्रस्येव उपासनं प्रत्युद्गीथस्य न शेषित्वमित्यर्थः । पृथवक्यलत्वे अधिकार्यन्तरेणानुष्ठेयमित्यत्राह - उद्गीथश्च इति । यथा क्रत्वधिकृतस्थैव गोदोहने पशुकामना - निमित्तमधिकारान्तरं तद्वदित्यर्थः ।।

वीर्यवत्तरत्वस्य पृथक्फलतामाह - वीर्य इति । पर्णतार्वैषम्यमाह - पर्णतादीनां तु इति । पर्णताफलं वाक्यान्तरस्थतया साधनभावस्य कल्प्यतया च विलम्बद्वयोपहतमिति अङ्गत्वमित्यर्थः । फलस्य वाक्यान्तरस्थत्वात् विलम्बानुक्तिः स्पष्टत्वात् । जुह्वा जुहोति इत्युक्ते द्रव्यविशेषाकांक्षाऽस्ति , नैवमुद्गीथस्योपासनं प्रत्याकांक्षा इति अर्थसिद्धम् ।। 63 ।।

दर्शनाच्च ।। 3-3-64 ।।

दर्शयति च श्रुतिरुपासनोपादाननियमम् .... ... समाहारादिलिङ्गानां प्रायिकत्वमवगम्यते । अतोऽनियम एवेति स्थितम् ।।

इति यथाश्रयभावाधिकरणम् - 26

इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये तृतीयस्याध्यायस्य तृतीयः पादः ।।

दर्शनाच्च । युक्तिः परिहृता । लिङ्गानि निरस्यन्ते । अभिरक्षणम् क्रतुफलाप्रतिबन्धकरणादि । प्रायिकत्वम् इति । समाधानं सति सङ्कल्पे स्यात्। गुणसाधारण्यमपि तथा । यद्वा तेन इति पदं प्रणवमात्रपरम् , न तु सोपासनतत्परम् । शिष्टश्च उद्गीथसंबन्धितया , न तु शेषतयेति भावः ।

इति यथाश्रयभावाधिकरणम् - 26

इति श्रीहरितकुलतिलकवाग्विजयिसूनुना श्रीरङ्गराजदिव्याज्ञालव्धवेदव्यासापर -

नामधेयेन श्रीमद्वरदाचार्यपादसेवासमधिगत श्रीभगवद्रामानुजविरचित -

शारीरकमीमांसाभाष्यहृदयेन श्रीसुदर्शनसूरिणा विरचितायां

श्रुतप्रदीपिकायां तृतीयस्याध्यायस्य तृतीयः पादः ।।



क़दृद्वद्धद्यण् घ्ठ्ठड्डठ्ठ

तृतीयाध्याये चतुर्थः पादः ।।




1. पुरुषार्थाधिकरणम् ।

पुरुषार्थोऽतः शब्दादिति बादरायणः ।। 3-4-1 ।।

गुणोपसंहारानुपसंहारफला ... .... तथा विद्वान् नामरूपाद्विमुक्तः परात् परं पुरुषमुपैति दिव्यम् इत्यादि ।।1 ।।

पुरुषार्थोऽतःशब्दादिति बादरायणः । अङ्गिचिन्तानन्तरमङ्गचिन्तेति पादसङ्गतिः । विद्यायाः अङ्गित्वे सति हि तदङ्गस्य चिन्त्यता । अतः तस्या अङ्गित्वं प्रथमं निरूप्यते ।। 1 ।।

अत्र पूर्वपक्षी प्रत्यवतिष्ठते -

शेषत्वात् पुरुषार्थंवादो यथाऽन्येष्विति जैमिनिः ।। 3-4-2 ।।

नैतदेवं यद्विद्यातः पुरुषार्थावाप्तिः ... ... अतः विद्यायाः क्रतुशेषत्वान्नातः पुरुषार्थः ।। 2 ।।

द्वितीयमवतारयति - अत्र इति । शेषत्वात् पुरुषार्थवादो यथाऽन्येष्विति जैमिनिः । कर्मसु इति । अधीत्य इति ज्ञानं कर्मशेषमिति आत्मज्ञानमपि तच्छेषम् । क्रतुशेषप्रोक्षणादिद्वारभूतव्रीह्यादेरिव ज्ञातव्यात्मनश्च कर्मशेषतया तत्स्वरूपोक्तिपरत्वादित्यर्थः । ऐतदात्म्यमिदं सर्वम् सर्वं खलु इति अचितेव चिताऽप्यैक्यायोग इति भावः । वेदान्तवाक्येष्वेव - विलक्षणपरतया त्वदुक्तेष्वेवेति भावः । लिङ्गैः - ज्ञापकैः । कर्तु र्जुह्वा इवाव्यभिचरितक्रतुसंबन्धित्वाभावात् न तद्धीः पर्णतावत् क्रत्वङ्गमिति चोदयति - ननु च इति । परिहरति - नैवम् इति ।। 2 ।।

कानि पुनस्तानि लिङ्गानि , यदुषबृंहित ... .....

आचारदर्शनात् ।। 3-4-3 ।।

ब्रह्मविदां प्राधान्येन कर्मस्वेव .... ... कर्मङ्गत्वमेवेति न विद्यातः पुरुषार्थः ।। 3 ।।

अनन्तरसूत्रावतारायाह - कानि इति । आचारदर्शनात् । गुणमुख्यव्यतिक्रमे मुख्यस्य हि अनुरोद्धव्यता । अतः कर्मप्राधान्यमिति भावः ।। 3 ।।

लिङ्गमिदम् , प्राप्तिरुच्यतामित्यत्राह -

तच्छØतेः ।। 3-4-4 ।।

श्रुतिरेव हि विद्यायाः कर्मङ्गत्वमाह ... ... विद्यया करोति इति विद्यामात्रविषया हीयं श्रुतिः ।। 4 ।।

लिङ्गम् - अनुग्राहकम् । प्राप्तिः - मानत सिद्धिः । तच्छØतेः । तृतीयाश्रुत्या अङ्गत्वावगमः ।। 4 ।।

समन्वारंभणात् ।। 3-4-5 ।।

तं विद्याकर्मणी समन्वारेभेते ... .... न्यायेन विद्यायाः कर्मङ्गत्वे सत्येव भवति ।। 5 ।।

समन्वारंभणात् । विपर्ययेऽपि साहित्यं संभवतीत्यत्राह - उक्तेन इति । न्यायेन - आत्मनः कर्मशेषत्वादिना ।। 5 ।।

तद्वतो विधानात् ।। 3-4-6 ।।

विद्यावतः कर्मविधानात् विद्या .... ..... कर्मसु विनियुक्तेति न पृथक्फलायावकल्पते ।। 6 ।।

तद्वतो विधानात् । अधीत्य इति । स्नात्वा जुहोति इतिवदिति भावः । ततः किमित्यत्राह - अर्थावबोध इति । अर्थधीपर्यन्तता कथमित्यत्राह - - अर्थ इति । श्रुतेरविवक्षितार्थत्वादिदोषपरिहारर्थमित्यर्थः ।। 6 ।।

नियमात् ।। 3-4-7 ।।

इचश्च न विद्यातः पुरुषार्थः । ... .... कर्मण एव फलमित्यवगम्यते। विद्या तु कर्माङ्गमिति ।। 7 ।।

नियमात् । कृत्स्नायुषः क्रतुशेषत्वात् , मध्यगतं सर्वं तच्छेषमित्यर्थः

।। 7 ।।

सिद्धान्तः

एवं प्राप्ते प्रचक्ष्महे -

आधिकोपदेशात् तु बादरायणस्यैवं तद्दर्शनात् ।। 3-4-8 ।।

तुशब्दात् पक्षो व्यावृत्तः ... .... श्रूयमाणं फलमिति विद्यातः पुरुषार्थ इति सुष्ठूक्तम् ।। 8 ।।

राद्धान्ते - अधिकोपदेशात् तु बादरायणस्यैवं तद्दर्शनात् । लिङ्गेषु सत्सु कथं विद्यातः फलमित्यत्राह - लिङ्गानि इति । उपासनवाक्यानां स्वरूपपरवाक्योक्तगुणसापेक्षत्वात् वेदनोपदेशवाक्येषु इत्युक्तम् । जुहूवत् कर्तुः प्रत्यभिज्ञाभावात् न तद्द्वारा तद्धियः कर्माङ्गत्वमिति फलश्रुतिः नार्थवाद इत्यर्थः

।। 8 ।।

लिङ्गान्यपि निरस्यन्ते -

तुल्यं तु दर्शनम् ।। 30-4-9 ।।

यदुक्तं ब्रह्मविदां कर्मनुष्ठानदर्शनात् ... ... विद्यायाः कर्माङ्गत्वे कर्मत्यागः कथमपि नोपपद्यते ।। 9 ।।

तुल्यं तु दर्शनम् । अननुष्ठानेऽपि दर्शनं तुल्यम् इति शब्दार्थः। अनैकान्तिकम् इति फलितोक्तिः । अनैकान्तिकम् - अनियतम् । अनुष्ठानस्यैव दर्शनमिति न नियतमित्यर्थः । अनुष्ठानाननुष्ठानव्याहतिस्त्वन्मत एव । ब्रह्मविद्याफलानामर्थवादत्वात् मोक्षार्थत्वत्रिवर्गार्थत्वविभागानुपपत्तेरित्यभिपयन्नाह - विद्यायाः इति ।। 9 ।।

यदुक्तं - श्रुत्यैव विद्यायाः ... ...

असार्वत्रिकी ।। 3-4-10 ।।

न सर्वविद्याविषयेयं श्रुतिः ... ... यच्छब्देन निर्दिश्य तस्य हि वीर्यवत्तरत्वमुच्यते ।। 10 ।।

असार्वत्रीकी । प्रकरणात् श्रुतिर्बलीयसीत्यत्राह - न हि इति । यत् करोति तद्विद्यया इति नान्बयः , क्लिष्टत्वात् । यद्विद्यया करोति तद्वीर्यवत्तरमित्यन्वये सति विद्यया कार्यमनुवदतो वचसः प्रापकापेक्षायां , तत्प्रापकं प्रकरणं विद्याशब्दं सङ्कोवयति । अतः अनुवादतयाऽन्यसापेक्षस्य विद्ययेति पदस्य स्वतो निश्चयासामर्थ्यात् एकपदसामर्थ्यरूपा श्रुतिर्नेत्यर्थः ।।

यच्चेदमुक्तं , तं विद्याकर्मणी ... ...

विभागः शतवत् ।। 3-4-11 ।।

तं विद्याकर्मणी समन्वारभेते ... .... रत्नार्थ शतमिति विभागः प्रतीयते ; तथेहापि ।। 11 ।।

विभागः शतवत् । समन्वारंमणश्रुतेर्मोक्षार्थविद्याकर्मविषयत्वे अयमर्थः - प्रारब्धावसाने मोक्षं दातुं विद्याऽन्वेति ; जन्मान्तरेषऽपि विद्यां जनयितुं कर्मान्वेति इति

।। 11 ।।

अध्ययनमात्रवतः ।। 3-4-12 ।।

यदुक्तं - विद्यावतः कर्मविधानात् ... ... पुरुषार्थसाधन भूताविद्येति न तस्याः कर्मसंबन्धगन्धो विद्यते ।। 21 ।।

अध्ययनमात्रवतः । आधानवत् इति शब्दस्वारस्यं दर्शितम् । प्रवर्तकाभावात् अनारंभणीयत्वाद्यर्थानुपपतिं्त परिहरति - गृहीतस्य इति । अत्र वक्तव्यं सर्वं प्रथमसूत्रेऽभिहितम् । अर्थधीपर्यन्तत्वमुपगम्याह - यद्यपि इति । विद्याया अध्ययनशब्दवाच्यातिरिक्तत्वादित्यर्थः । यथा इति । अनुष्ठानं प्रति स्वरूपज्ञावत् विद्यां प्रति शास्त्रजन्यं ज्ञानं शेषमित्यर्थः ।।

नाविशेषात् ।। 3-4-13 ।।

यच्चोक्तं कुर्वन्नेवेह कर्माणि ... .... विदुषस्त्वाप्रयाणादुपासनस्यानुवर्तमानत्वात् ।। 13 ।।

नाविशेषात् । प्रधानानुवृत्त्याऽङ्गानुवृत्तिरुपपन्नेत्याह - विदुषस्तु इति

।। 13 ।।

एवमर्थस्वाभाव्येन चोद्यं परिहृत्य ... ...

स्तुतयेऽनुमतिर्वा ।। 3-4-14 ।।

वाशब्दोऽवधारणार्थः .... .... न कर्म लिप्यते नरे इति । अतो न कर्माङ्गं विद्या ।। 14 ।।

अर्थस्वाभाव्यम् - अर्थज्ञानादन्यत्वम् ; कर्माङ्गत्वं च । स्तुतयेऽनुमतिर्वा । ईशावास्यम् इति । ईट्शब्दे

तृतीया । ईशेनाऽऽवास्यमिति भावः । न रमते इति नरः । निस्सङ्गे त्वयि न कर्म लिप्यते इति , इतोऽन्यथा नास्ति इदं तत्तवमित्यर्थः ।। 14 ।।

कामकारेण चैके ।। 3-4-15 ।।

अपि चैवमेके शाखिनः ... .... गार्हस्थ्यत्यागो न संभवति । अतो न विद्या कर्माङ्गम् ।। 15 ।।

कामकारेण चैके । कामात् यथाभिमताश्रमधर्मानुष्ठानं कामकारः । गार्हस्थ्य इत्याद्यध्याहृतम् । नाङ्गावलम्बेनाङ्गिनस्त्याग इत्यर्थः ।। 15 ।।

उपमर्दं च ।। 3-4-6 ।।

पुण्यापुण्यरूपस्य समस्त ... ... तद्विद्यायाः कर्माङ्गत्वे न सङ्गच्छते

।। 16 ।।

उपमर्दं च । न ह्यङ्गेन अङ्गिन उपमर्द इत्यर्थः ।। 16 ।।

ऊर्ध्वरेतस्तु च शब्दे हि ।। 3-4-17 ।।

ऊर्ध्वरेतस्स्वाश्रमेषु ब्रह्मविद्या ... .... यावज्जीवश्रुतिस्त्वविरक्तविषया

।। 17 ।।

ऊर्ध्वेरेतस्सु च शब्दे हि । स्मृतिषु प्रतीयन्ते इत्यत्राह - श्रुति इति । धर्मस्कन्धाः - धर्माश्रयाः ।। 17 ।।

परामर्शं जैमिनिरचोदनाच्चापवदति हि ।। 3-4-18 ।।

यदिदं त्रयो धर्मस्कन्धाः ... ... आश्रमा न सन्तीति जैमिनिराचार्यो मन्यते ।। 18 ।।

परामर्शं जैमिनिरचोदनाच्चापवदति हि । स्फुटम् ।। 18 ।।

अनुष्ठेयं बादरायणः साम्यश्रुतेः ।। 3-4-19 ।।

गृहस्थाश्रमवदाश्रमान्तरमप्यनुष्ठेयं .... ...देवयानविधानस्य तत्रापि तत्प्राप्तिरङ्गीकरणीया ।। 19 ।।

अनुष्ठेयं बादरायणः साम्यश्रुतेः न साम्यं वाच्यम् , आश्रमान्तरकीर्तनस्यैवाभावादिति शङ्कते - न च इति । व्याख्यानान्तररव्यावृत्त्यर्थमाह - अतो यज्ञः इति । यौगिकः इति । प्रोक्षणीनयाच्चतुर्थाश्रमपरत्वायोगोऽभिप्रेतः । अर्थनुपपत्त्या अपि तदयोगमाह - तच्च सर्वेषाम् इति । तत्र पुण्यलोकभाजः इत्यस्यार्थमाह - ब्रह्मनिष्ठाविकलाः इति ।। 19 ।।

परामर्शपक्षे विधानपक्षे च .... ...

विधिर्वा धारणवत् ।। 3-4-20 ।।

वाशब्दोऽवधारणार्थः । .... .... अत ऊर्ध्वरेतस्सु च ब्रह्म- विद्याविधानात् विद्यातः पुरुषार्थ इति सिद्धम् ।। 20 ।।

विधिर्वा धारणवत् । ऋणश्रुतिं#ः - त्रिभिः ऋणवा जायते इत्यादिका। अपवादश्रुतिः - वीरहा इत्यादि #ः । स्वस्वाश्रमधर्मविषयाः इति । तत्तदाश्रमिणां

तत्तद्धर्मानुवृत्तिपराः । न त्वाश्रमान्तराणां विद्याङ्गत्वविरोधिन्यः इत्यर्थः । अधिकरणार्थमुपसंहरति - अतः इति ।।

इति पुरुषार्थाधिकरणम् - 1




1. स्तुतिमात्राधिकरणम् ।।

स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् ।। 3-4-21 ।।

इदमिदानीं चिन्त्यते - स एष रसानां ... .. उद्गीथादिषु रसतमादिदृष्टिविधानमेव न्याय्यम् ।। 21 ।।

स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् । ब्रह्मसंस्थश्रुतिप्रसङ्गात् रसतमत्वादिपरवाक्यानि स्तुत्यर्थानि नेति शङ्का जायेतेति प्रसङ्गात् सङ्गतिः । पूर्वोक्तपप्तरसापेक्षया अष्टमत्वम् । हेतुं विवृणोति - क्रत्वङ्ग इति । ततः किमित्यत्राह - यथा इति । क्रत्वङ्गोपादानपूर्वकत्वेपि न पर्णतायाः स्तुत्यर्थता , उपादातुं शक्यात्वात् । स्वर्लोकत्वादिकं त्वशक्यमिति भावः ।।

राद्धान्ते - जुह्वादेः पृथिवीत्वादिकमप्यप्राप्तमित्यत्राह - न च इति । न च रसतमत्वादेः

पृथिवीत्वादेरिवोपादातुमशक्यत्वम् , उत्पत्तिरूपेणाशक्यत्वेऽपि ज्ञप्तिरूपेण शक्यत्वात् । पृथिवीत्वादेः ज्ञप्तिरूपेणोपादातुं शक्यत्वेऽपि एकवाक्यत्वप्रतीति बलात् न दृष्टिविध्यर्थतेति भावः । यया कया च इति । रसतमत्वादेरप्राप्तत्वात् न तदनुवादेन स्तुतिः । अयोग्यत्वात् नाप्राप्तविधानेन स्तुनतिः । क्रतुमन्निध्यभावेन एकवाक्यत्वप्रतीत्यभावात् नामुख्यगुणान्वयेन स्तुतिः। अतो दृष्टिविधिरित्यभिप्रायः ।। 21 ।।

भावशब्दाच्च ।। 3-4-22 ।।

उपासीत इत्यादिभावशब्दाच्च ... .... तस्मादुपासनविधानार्था एताः श्रुतयः ।। 22 ।।

पूर्वपक्षयुक्तिः परिहृता । स्वपक्षे हेतुरुच्यते - भावशब्दाच्च । भावः - क्रिया ।। 22 ।।

इति स्तुतिमात्राधिकरणम् -2




3. पारिप्लवार्थाधिकरणम् ।।

पारिप्लवार्था इति चेन्न विशेषितत्वात् ।। 3-4-23 ।।

प्रतर्दनो ह वै दैवोदासिः ..... ... आख्यानश्रुतयः पारिप्लवप्रयोगार्थाः , अपि तु विद्याविध्यर्थाः ।। 23 ।।

पारिप्लवार्था इति चेन्न विशेषितत्वात् । इदं च प्रासङ्गिकम् । रसतमत्वादेः स्तुत्यर्थत्वं पूर्वपक्षीकृतम् । एवं प्रातर्दनाद्याख्यानानि किं स्तुत्यर्थानि न वेति सङ्गतिः । पारिप्लवाः - आख्यानानि ; तच्छंसनार्था इत्यर्थः । प्रतिपादनार्थानि - स्तावकत्वेन प्रतिपादनार्थानि । विद्याविध्यर्थाः - स्तावकतया शेषभूताः तेषामेव। अन्यथा आख्यानानन्त्यात् अशक्यत्वमिति भावः ।। 23 ।।

तथा चैकवाक्योपबन्धात् ।। 3-4-24 ।।

आत्मा वा अरे द्रष्टव्यः .... ... इत्येवमादेः कर्मविध्यर्थत्वम् ; न पारिप्लवार्थत्वम् ।। 24 ।।

तथा चैकवाक्योपबन्धात् । उपबन्धः - अन्वयः ।। 24 ।।

इति पारिप्लवार्थाधिकरणम् - 3




4. अग्नीन्धनाद्यधिकरणम् ।।

अत एव चाग्नीन्धनाद्यनपेक्षा ।। 3-4-25 ।।

स्तुतिप्रसङ्गादवान्तरसङ्गतिविशेषेण ... ... कर्मानपेक्षा तेषु विद्या । केवलस्वाश्रमविहितकर्मापेक्षेत्यर्थः ।। 25 ।।

अत एव चाग्नीन्धनाद्यनपेक्षा । पूर्वयोः प्रासङ्गिकत्वात् प्रथमाधिकरणेन सङ्गतिमाह - स्तुति इत्यादिना । स्पष्टम् ।। 25 ।।

इति अग्नीन्धनाद्यधिकरणम् - 4




5. सर्वापेक्षाधिकरणम् ।।

सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ।। 3-4-26 ।।

यदि विद्या यज्ञाद्यानपेक्षैव .... ... स्वकर्मणा तमभ्यर्च्य सिदिं्ध विन्दति मानवः इति ।। 26 ।।

सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् । सङ्गतिः स्फुटा । यज्ञादिश्रुतिरपि इति । इच्छासाधन्वमाहेति भावः ।।

राद्धान्ते - सत्येव इति । इच्छासाधनत्वे अन्योन्याश्रयत्वादिरभिप्रेतः । न यज्ञापेक्षा , वाक्यादेव तदुत्पत्तेरित्यत्राह - ज्ञानं च इति । आप्रयाणात् इति । अङ्गिनोऽनुवृत्त्याऽङ्गानुवृत्तिरिति भावः । प्रवृत्तिरूपयज्ञादिः मनोव्याकुलायेत्यत्राह - एवंरूपं च इति । अदृष्टद्वारा इति परिहारः ।। 26 ।।

इति सर्वापेक्षाधिकरणम् - 5




6. शमदमाद्यधीकरणम् ।।

शमदमाद्युपेतः स्यात् तथापि तु तद्विधेस्तदङ्गतया तेषामप्यवश्यानुष्ठेयत्वात् ।। 3-4-27 ।।

गृहस्थस्य शमदमादीन्यपि ... .... अतो गृहस्थस्य शमदमादयोऽप्यनुष्ठेयाः ।। 27 ।।

शमदमाद्युपेतः स्यात् तथापि तु तद्विधेस्तदङ्गतया तेषामप्यवश्यानुष्ठेयत्वात् । सङ्गतिः पूर्वपक्षे सफुटा । लत्वशनादिव्यावृत्त्यर्थं प्रयोजनशून्येषु इत्युक्तम् । काम्यं च मुमुक्षाः प्रयोजनशून्यम् । अविहितं- विहितादन्यत् ; अविहिताप्रतिषिद्धं निषिद्धं च ।। 27 ।।

इति शमदमाद्यधिकरणम् -6




7. सर्वान्नानुमत्यधिकरणम् ।।

सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् ।। 3-4-28 ।।

वाजिनां छन्दोगानां च प्राणविद्यायां ... ... प्राणविदः सर्वन्नीनत्वं प्राणात्ययापत्तावेवेति निश्चीयते ।। 28 ।।

सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् । शमाद्यनुष्ठानमुक्तम् ।

शमविशेषरूपभोजननियतिः चिन्त्यते इति सङ्गतिः । प्राणविदोऽपि सर्वान्नानुमतिरस्ति किमुत ब्रह्मविद इत्याद्याभिप्रायिकम् । न तु सूत्रे कण्ठोक्तम् ।।

राद्धान्ते - मटची - अश्मवृष्टिः । इभ्यम् - हस्तिपम् ।।

अबाधाच्च ।। 3-4-29 ।।

आहाराशुद्धौ सत्त्वशुद्धिः ... ... प्राणविदोऽल्पशक्तेः सर्वान्नानुमतिरापद्विषयैव ।। 29 ।।

अबाधाच्च । स्पष्टम् ।। 29 ।।

अपि स्मर्यते ।। 3-4-30 ।।

अपि च आपद्विषयमेव सर्वान्नीनत्वं .... .... लिप्यते न स पापेन पद्मपत्रमिवांभसा इति ।। 30 ।।

अपि स्मर्यते । न परं सर्वान्नीनत्वस्य आपद्विषयत्वं प्राणविदः कल्प्यम ; सर्वेषां कण्ठोक्तं चेत्यर्थः ।। 30 ।।

शब्दश्चातोऽकामकारे ।। 3-4-31 ।।

यतो बह्मविदामन्येषां च .... ... इति मत्वा ब्राह्मणः सुरां न पिबतीत्यर्थः ।। 31 ।।

शब्दश्चातोऽकामकारे । ब्राह्मण शब्दः असङ्कोचात् ब्रह्मविदमप्याहेति भावः ।। 31 ।।

इति सर्वान्नानुमत्यधिकरणम् - 7




8. विहितत्वाधिकरणम् ।।

विहितत्वाच्चाश्रमकर्मापि ।। 3-4-32 ।।

यज्ञादिकर्माङ्गिका ब्रह्मविद्या .... .... जीवननिमित्ततया नित्यवद्विहितत्वादित्यर्थः ।। 32 ।।

विहितत्वाच्चाश्रमकर्मापि । परमप्रकृतेनावान्तरसङ्गतिमाह - यज्ञादि इति। नित्यानित्य इति । यावज्जीवमनुष्ठानं मुमुक्षानुगुणमनुष्ठानं च विरुद्धमित्यर्थः ।।

आश्रमि इति पाठे केवल शब्दः अ#ुमुमुक्षुपरः । अनुष्ठेयानि इति । कर्माणि

इत्यध्याहारः ।। 32 ।।

तथा विद्याङ्गतया च , तमेतं ... ...

सहकारित्वेन च ।। 3-4-33 ।।

विद्योत्पत्तिद्वारेण विद्यासहकारितया .... ... विनियोगपृथक्त्वेनोभयार्थत्वं न विरुध्यते इत्यर्थः ।। 33 ।।

सहकारित्वेन च । विद्योत्पत्ति इति समुच्चयव्युदासः । नित्यानित्यसंयोगविरोध इत्यत्राह - अग्निहोत्र इति । विनियोगः - शेषत्वज्ञापकविधिः ।। 33 ।।

तद्वदेव कर्मान्तरत्वमपि नास्तीत्याह -

सर्वथाऽपि त एवोभयलिङ्गात् ।। 3-4-34 ।।

सर्वथा - विद्यार्थत्वे आश्रमार्थत्वेऽपि ... ... विनियोगात् कर्मस्वरूपभेदे प्रमाणाभावाच्च ।। 34 ।।

सर्वथाऽपि त एवोभयलिङ्गात् । शब्दैक्येऽपि कुण्डपायिनामयनाग्निहोत्रे भेदो दृश्यते इत्यत्राह - - कर्मस्वरूप इति । आवृत्तेरङ्गान्तरस्य च नैरपेक्ष्यं त एव इति निर्णयफलम् ।। 34 ।।

अनभिभवं च दर्शयति ।। 3-4-35 ।।

धर्मेण पापमपनुदति इत्यादिभिश्च ... ... प्रत्यहं प्रकृष्यमाणा विद्योत्पत्तये । अतस्त एव उभयत्र यज्ञादयः ।। 35 ।।

अनभिभवं च दर्शयति । आदि शब्दो यज्ञादिवाक्यपरः । अङ्गत्वं तत्कृतकिञ्चित्कारं च वद्द्वाक्यम् यज्ञादिशब्देन तत्तुल्यशब्देन वा निर्दिशतीत्यर्थः ।। 35 ।।

इति विहितत्वाधिकरणम् - 8




9. विधुराधिकरणम् ।।

अन्तरा चापि तु तद्दृष्टेः ।।। 3-4-36 ।।

चतुर्णामाश्रमिणां ब्रह्मविद्यायाम् .... .... देवताराधनादिभिः विद्यानुग्रहः शक्यते कर्तुम् ।। 36 ।।

अन्तरा चापि तु तद्दृष्टेः । सङ्गतिमाह - चतुर्णाम् इति । आदि शब्दात्

अकृतदारः । वर्णधर्मैः अनुग्रहः इत्यर्थः । अनैकान्तिकानाम् - अनियतानाम् ।। 36 ।।

अपि स्मर्यते ।। 3-4-37 ।।

अपि च अनाश्रमिणामपि ... ... जपाद्यनुगृहीतया विद्यया सिद्धो भवतीत्यर्थः ।। 37 ।।

अपि स्मर्यते । ब्राह्मणः - तदधीते , तद्वेद इत्यर्थः । कथं जपादिभिरनुग्रहोपगम इत्यत्राह - जपादि इति ।। 37 ।।

विशेषानुग्रहश्च ।। 3-4-38 ।।

न केवलं न्यायस्मृतिभ्यामयमर्थः .... ... विद्ययाऽऽत्मानमन्विष्येत् इति ।। 38 ।।

विशेषानुग्रहश्च । स्फुटम् ।। 38 ।।

अतस्त्वितरज्ज्यायो लिङ्गाच्च ।। 3-4-39 ।।

तुशब्दोऽवधारणे । अतः - अनाश्रमित्वात् .... .... मृतभार्यस्य चावैराग्ये सति दारालाभ आपत् ।। 39 ।।

तर्हि शक्तैरप्याश्रमा उपेक्ष्या इत्यत्राह - अतस्त्वितरज्ज्यायो लिङ्गाच्च । अतुल्यकार्यत्वात् - शक्तं प्रति इत्यर्थः । आपदं शिक्षयति - निवृत्त इति । ब्रह्मनिष्ठेष्वनुगतं वैराग्यं कालान्तरादिभोग्यनैरपेक्ष्यं गार्हस्थ्यधर्मलिप्सा चेत्यविरोधः ।। 39 ।।

इति विधुराधिकरणम् -9




10. तद्भूताधिकरणम् ।।

तद्भूतस्य तु नातद्भावो जैमिनेरपि नियमात् तद्रूपाभावेभ्यः

।। 3-4-40 ।।

नैष्ठिकवैखानसपरिव्राजकाश्रमेभ्यः ..... जैमिनेरपि - इत्यविगानं दर्शन्नुक्तं स्वाभिमतं द्रढयति ।। 40 ।।

तद्भूतस्य तु नातद्भावो जैमिनेरपि नियमात् तदूपाभावेभ्यः । विधुरादेरिव

अनाश्रमित्वसाम्यात् प्रच्युतानामपि विद्याधिकारोऽस्ति नेति शङ्काया सङ्गतिः । वैखानसः - वानप्रस्थः । ब्रह्मचारी इत्यादिश्रुतिः नैष्ठिकविषया

।। 40 ।।

अथ स्यात् नैष्टिकादीनां ... ...

न चाधिकारिकमपि पतनानुमानात् तदयोगात् ।। 3-4-41 ।।

अधिकारलक्षणोक्तमपि प्रायश्चित्तं ... ... अतोऽधिकारलक्षणोक्तं प्रायश्चित्तमितरब्रह्म चारिविषयम् ।। 41

।।

अनन्तरस्य शङ्कामाह - अथ स्यात् इति । अधिकारलक्षणम् षष्ठम्। अवकीर्णिपशुः - गर्दभः । उपकुर्वाणब्रह्म वारी भ्रष्टः अवकीर्णी । न चाधिकारिकमपि पतनानुमानात् तदयोगात् । तर्हि तत्प्रायश्चितं किं विषयमित्यत्राह - अतः इति ।। 41 ।।

उपपूर्वमपीत्येके भावमशनवत् तदुक्तम् ।। 3-4-42 ।।

नैष्ठिकादीनां ब्रह्मचर्यप्रच्यवनं ... ... प्रायश्चित्तसंभवात् ब्रह्मविद्यायोग्यताऽप्यस्ति ।। 42 ।।

उपपूर्वमपीत्येके भावमशनवत् तदुक्तम् । उपकुर्वाणस्य ब्रह्मचर्यभ्रंशस्य उपपातकस्य प्रायश्चितं नैष्ठिकादिष्वतिदिष्टमिति विद्यायोग्यता इत्यर्थः । स्त्रीसंसर्गादिप्रायश्चित्तादेः गृहस्थादावप्रसङ्गात् स्वाश्रमाविरोधि शब्दः ।। 42 ।।

बहिस्तूभयथाऽपि स्मृतेराचाराच्च ।। 3-4-43 ।।

तुशब्दो मतान्तरव्यावृत्त्यर्थः । ... ... अतस्येषां नास्ति ब्रह्मविद्यायामधिकारः ।। 43 ।।

बहिस्तूभयथाऽपि स्मृतेराचाराच्च । यद्यपि इति । पतनतत्प्रायश्चित्तवचनविरोधे सति पतनस्मृतिः पापकर्मणो वैदिककर्मानधिकारापादकशक्तिनाशकप्रायश्चित्ताभावविषया । प्रायश्चित्तवचनं प्रत्यवायसजातीयरुचिजननशक्तिविनाशकविषयमिति व्यवस्था कार्येत्यर्थः । वर्जनफलमाह - नोपदिशन्ति इति ।। 43 ।।

इति तद्भूताधिकरणम् - 10




11. स्वाम्यधिकरणम् ।।

स्वामिनः फलश्रुतेरित्यात्रेयः ।। 3-4-44 ।।

कर्माङ्गाश्रयाण्युद्गीथाद्युपासनानि ... .... रसतमत्वानुसन्धानं यजमनेनैव कर्तुं शक्यते ।। 44 ।।

स्वामिनः फलश्रुतेरित्यात्रेयः । उपासनानुष्ठातृविभागचिन्तान्तरम् उद्गीथाद्युपासनस्यापि तच्चिन्तनं क्रियते इति प्रसङ्गात् सङ्गतिः । स्फुटम् ।।

सिद्धान्तः

इति प्राप्तेऽभिधीयते -

आÐत्वज्यमित्यौडुलोमिस्तस्मै हि परिक्रीयते ।। 3-4-45 ।।

आÐत्वज्यं - ऋत्विजः कर्म .... ... शास्त्रफलं प्रयोक्तरि इति न्यायाच्च फलिकर्तृकत्वमेव ।। 45 ।।

राद्धान्ते - आÐत्वज्यमित्यौडुलोमिस्तस्मै हि परिक्रीयते । तच्छब्दार्थः फलसाधन इति व्याख्यातः । प्रयोजनाय इति चतुर्थ्यर्थ उक्तः । परिक्रीयते इत्यस्यार्थमाह - कर्मविधिषु इति । ततः किमित्यत्राह - तदन्तर्गतानि इति । अङ्गत्वे सति हि ऋत्विक्कर्तृकत्वमित्यत्राह - यद्यपि इत्यादि । क्रत्वधिकृत इति । अग्र्यप्रायनय उक्तः । ऋत्विक्कर्तृककर्मणो वीर्यवत्तरत्वसाधनविद्यायास्तत्कर्तृकत्वम् अन्तरङ्गनयाच्च स्यात् । तदुनुगृहीतं विद्यया करोति इति वाक्यस्वारस्यं च । दहरादिधियां 3मतथात्वे किं वैषम्यमित्राह - दहरादिषु इति ।। 45 ।।

इति स्वाम्यधिकरणम् - 11




12. सहकार्यन्तरविध्यधिकरणम् ।।

सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् ।। 3-4-46 ।।

तस्माद्ब्राह्मणः पाण्डित्यं .... .... पाण्डित्यादिकं मौनतृतीयं विद्यायाः सहकार्यन्तरं विधीयते ।। 46 ।।

सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् । पूर्वं यज्ञादिः

शमादिश्च सहकारी निरूपितः । तद्वत् सहकार्यन्तरं निरूप्यते इति सङ्गतिः । मौन शब्दो हि मननार्थः । अत उक्तम् ज्ञानार्थत्वात् इति । विधीयते इति । पदार्था उक्ताः । वाक्यार्थमाह - एतदुक्तम् इति । ज्ञानार्थत्वात् अनुवाद इत्यत्राह - मौनं च इति । पक्षेण इति व्याख्येयम् । अनुवादस्य नैरर्थ्यात् पाक्षिकौऽप्यर्थो विधित्वानुगुणः स्वीकार्य इत्यर्थः ।।

पाण्डित्यबाल्यमौनब्राह्मण शब्दार्थः कः ? तस्मात् ब्राह्मणः , अथ ब्राह्मणः इत्यत्र ब्राह्मणस्य पाण्डित्यादिकं ,

पाण्डित्यादिकेन च ब्राह्मण्यम् इति व्याहतिरित्यत्राह - तदेवम् इति । प्रथमब्राह्मणशब्दो विद्वम्नात्रविषयः । द्वितीयस्तु विद्याकाष्टाप्राप्तिविषयः । परिपूर्तिः कल्याणगुणैः । उभयलिङ्गत्वमुक्तं पदाभ्याम् । अप्राप्तं वेदनम् इति निर्दोषत्वकल्याणगुणयोः काष्ठाज्ञानम् । तदुपदेशैकलम्यम्। तत् पाण्डित्यम् । अमौनं पाण्डित्यबाल्ययज्ञादिकम् ।। 46 ।।

अथ स्यात् - यदि सर्वेष्वाश्रमेषु ... ...

कृत्स्नभावात् तु गृहिणोपसंहारः ।। 3-4-47 ।।

तुशब्दश्चोद्यं व्यावर्तयति । ... ... सर्वाश्रमधर्मप्रदर्शनार्थो गृहिणोपसंहार इत्यभिप्रायः ।। 47 ।।

अनन्तरमवतारयति - अथ स्यात् इति । कृत्स्नभावात् तु गृहिणोपसंहारः । छान्दोग्ये ब्रह्मविदो गार्हस्थ्येन स्थितिवचनं प्रदर्शनार्थम् । बृहदारण्यकविरोधादित्यर्थः ।। 47 ।।

तथा एतस्मिन्नपि वाक्ये .... ....

मौनवदिनरेषामप्युपदेशात् ।। 3-4-48 ।।

सर्वेषणाविनिर्मुक्तस्य भिक्षाचरण .... ... मौनतृतीयः पाण्डित्यादिः विद्यासहकारित्वेन विधीयते इति ।। 48 ।।

सङ्गत्यर्थमिममर्थं संक्षिपन् अनन्तरसूत्रमवतारयति - तथा इति । मौनवदितरेषामप्युपदेशात् । एवंविध शब्दः ईषणात्यागादिपूर्वकत्वपरः । अधिकरणार्थं निगमयति - अतः इति ।। 48 ।।

इति सहकार्यन्तरविध्यधिकरणम् - 12




13. अनाविष्काराधिकरणम् ।।

अनाविष्कुर्वन्नन्वयात् ।। 3-4-49 ।।

तस्मात् ब्राह्मणः पाण्डित्यं ... ... आहारशुद्धौ सत्त्वशुद्धिः इत्यादिषु ।। 49 ।।

अनाविष्कुर्वन्नन्वयात् । सङ्गतिः स्फुटा । बाध्यन्ते - अब्रह्मविद्धिषयाणीत्यर्थः ।।

राद्धान्ते - नियमशास्त्रविषयविभागाः नियमविरोधीत्यर्थः ।। 49 ।।

इति अनाविष्काराधिकरणम् - 13




14. ऐहिकाधिकरणम् ।।

ऐहिकमप्रस्तुतप्रतिबन्धे तद्दर्शनात् ।। 3-4-50 ।।

द्विविधा विद्या - अभ्युदयफला ... ... उद्गीथविद्यायुक्तस्य कर्मणः फलाप्रतिबन्धश्रवणात् ।। 50 ।।

ऐहिकमप्रस्तुतप्रतिबन्धे तद्दर्शनात् । अङ्गचिन्ता कृता । अङ्गिनिष्ठासिद्धिसमयश्चिन्त्यते इति सङ्गतिः । उद्गीथादिविधुरकर्मांगकविद्यासिद्धौ विचारः इह उत्तरसूत्रे च क्रियते । विद्यायाः सुकृतसाध्यत्वे सति ह्ययं विचार इत्यत्राह - यथोक्तम् इति ।। 50 ।।

इति ऐहिकाधिकरणम् - 14




15. मुक्तिफलाधिकरणम् ।।

एवं मुक्तिफलानियमस्तदवस्थावधृतेः तदवस्थावधृतेः ।। 3-4-51 ।।

मुक्तिफलस्याप्युपासनस्य .... ... द्विरुक्तिरध्यायपरिसमाप्तिं द्योतयति ।। 51 ।।

इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये तृतीयस्याध्यायस्य चतुर्थः पादः ।।

।। समाप्तश्चाध्यायः ।।

एवं मुक्तिफलानियमस्तदवस्थावधृतेः तदवस्थावधृतेः अधिकरणान्तरम्।

संगतिः स्फुटा । तस्य - पूर्वसूत्रोक्तस्य । सर्वेभ्यः इत्यादि । प्रबलत्वम् भगवत्प्रीत्यतिशयावहत्वकृतम् । अप्रीत्यतिशयाधायको ब्रह्मविदपचारः प्रतिबन्धकः इति परिहारः ।। 51 ।।

इति मुक्तिफलाधिकरणम् - 15

इति श्रीहरितकुलतिलकवाग्विजयिसूनुना श्रीरङ्गराजदिव्याज्ञालब्धवेदव्यासापर-

नामधेयेन श्रीपद्वरदाचार्यपादसेबासमधिगत श्रीभगवद्रामानुजविरचित -

शारीरकमीमांसाभाष्यहृदयेन श्रीसुदर्शनसूरिणा विरचितायां

श्रुतप्रदीपिकायां तृतीयस्याध्यायस्य चतुर्थ #ः पादः ।।

।। समाप्तश्चाध्यायः ।।


क़दृद्वद्धद्यण् ॠड्डण्न्र्ठ्ठन्र्ठ्ठ

क़त्द्धद्मद्य घ्ठ्ठड्डठ्ठ

चतुर्थाध्याये प्रथमः पादः ।।




1. आवृत्त्यधिकरणम् ।।

आवृत्तिरसकृदुपदेशात् ।। 4-1-1 ।।

तृतीयेऽध्याये साधनैः सह विद्या ... ... वेदनादिशब्दैरभिधीयते इति निश्चीयते ।। 1 ।।

आवृत्तिरसकृदुपदेशात् । अध्यायसङ्गतिमाह - तृतीये इति । स्वोपयोग्यर्यैः सह विद्या चिन्तिता । अथ फलचिन्तेति सङ्गतिः । विद्याविषये प्रागनिरूपितांशः प्रथमं निरूप्यते साध्यसाधनभावसंबन्धज्ञापनार्थं प्रीतिरूपत्वात् फलरूपताज्ञापनार्थं च । अश्रुताऽप्यावृत्तिः क्कचित् क्रियते इत्यत्राह - न च इति ।।

राद्धान्ते - एकैकोपनिषदि प्रयोगो दर्शितः पर्यायत्वं च इत्यादिना । बहूपनिषत्सु प्रयोगं दर्शयति - तथा इति । अत्र छागपशुनयोऽभिप्रेतः । ततः किमित्यत्राह - ध्यानं च इति ।। 1 ।।

लिङ्गाच्च ।। 4-1-2 ।।

लिङ्गं - स्मृतिः । स्मृतेश्चायमर्थो ... ... तस्मादसकृदावृत्तमेव वेदनं शास्त्रार्थः ।। 2 ।।

लिङ्गाच्च स्पष्टम् ।। 2 ।।

इति आवृत्त्यधिकरणम् - 1




2. आत्मत्वोपासनाधिकरणम् ।।

आत्मेति तूपगच्छन्ति ग्राहयन्ति च ।। 4-1-3 ।।

इदमिदानीं चिन्त्यते - किमुपास्यं ... ... अत उपासितुरात्मत्वेन ब्रह्मोपास्यमिति स्थितम् ।। 3 ।।

आत्मेति तूपगच्छन्ति ग्राहयन्ति च । उक्तोपासनकर्मभूतं ब्रह्म किमयुतसिद्धिरूपसंबन्धविरहेण उपास्यम् , उत उपासितृशरीरकत्वेन इति शङ्कया सङ्गतिः । यथा पुरुषार्थ्योऽत इत्यधिकरणस्य श्रुत्यर्थाक्षेपेणोत्थानं , तथाऽस्याप्यभेदश्रुत्यर्थाक्षेपेणोत्थानम् । अन्य शब्दः शरीरात्मभावरूपसंबन्ध- रहितवाची । नायमस्मदीयः , अपि त्वन्यः इति संबन्धविशेषरहिते प्रयोगात् । उपासितुरात्मत्वे उपासितारं प्रति शरीरित्वेन उपास्योपासकभावेन जीवेश्वरयोः भूत्यराजतुल्यत्वावगमात् , पृथक्त्वधियो मोक्षोपायत्वाच्च भेदस्तात्त्विक इति उपायपरवाक्यबलात् अमेदश्रुत्याक्षेपोऽभिप्रेतः ।।

अयथाभूता स्यात् इति संसारित्वप्राप्तिरित्यर्थः ।।

राद्धान्ते - आत्म शब्दं विवृणोति - उ#ेपासिता इति । उपगच्छन्ति - गत्यर्थाः बुद्ध्यर्थाः । उपासते इत्यर्थः । उपासनविधिष्वेवाभेददर्शनात् उपसितृशरीरकत्वेनोपास्यमित्यर्थः । तर्हि भेदोपासनविधिविरोध इत्यभिप्रायतयोक्तम् - कथमभ्युपगच्छन्ति इति । सन्मूलाः इत्यादिभिरुपेतस्य य आत्मनि इत्यस्यार्थमाह - सर्वस्य इति । युक्तमिति उपपादयन्ति इत्यन्वयः ।।

एकत्वपृथक्त्वश्रुत्योरविरोधमाह - एवं च इति । तद्विशदयति - अहम् इति । तदुपपादयति - अधिकस्य इति । एषः इति पदं जीवपरम् , पुल्लिङ्गत्वात्; परस्य च देवता शब्दोक्तवात् । विशेषणमात्रमपूर्णम् ; विशिष्ट एव पूर्ण इत्यर्थः ।। 3 ।।

इचि आत्मत्वोपासनाधिकरणम् - 2




3. प्रतीकाधिकरणम् ।।

न प्रतीके न हि सः ।। 4-1-4 ।।

मनो ब्रह्मेत्युपासीत .... ... प्रतीकस्योपासितुरात्मत्वाभावान्न तथाऽनुसन्धेयम् ।। 4 ।।

न प्रतीके न हि सः । उक्तमात्मतया उपासनम् । प्रतीकेष्वपि तथा कार्यं न वेति सङ्गतिः । ब्रह्म शब्दनिर्देशात् तदेवोपास्यम् । मनः - आदि तु दृष्टिविशेषणमिति पूर्वपक्षः ।।

राद्धान्ते - उपास्यं हि ब्रह्मेत्यत्राह - प्रतीकोपासनेषु इति । ब्रह्म शब्दः कथमित्यत्राह - ब्रह्म तु इति ।। 4 ।।

ननु अत्रापि ब्रह्मैवोपास्यम् ... ...

ब्रह्मदृष्टिरुत्कर्षात् ।। 4-1-5 ।।

मनआदिषु ब्रह्मदृष्टिरेव युक्ता .... ... भृत्ये तु राजदृष्टिरभ्युदयाय

।। 5।।

अनन्तरस्यावतारायाह - ननु इति । ब्रह्मदृष्टिरुत्कर्षात् । न मन आद्यचिनमात्रमुपास्यं , किं तु अभिमानिदेवतेति न विरोधः ।। 5 ।।

इति प्रतीकाधिकरणम् -3




4. आदित्यादिमत्यधिकरणम् ।।

आदित्यादिमतयश्चागं उपपत्तेः ।। 4-1-6 ।।

य एवासौ तपति तमुद्गीथम् ... ... कर्मणामपि फलसाधनत्वम् ; अतः तद्दृष्टिरुद्गीथाद्यङ्गेः ।। 6 ।।

आदित्यादिमतयश्चाङ्ग उपपत्तेः । इहापि दृष्टिविशेषचिन्ता इति सङ्गतिः । उद्गीथस्य ब्रह्मवत् चारम्यं च पूर्वपक्षयुक्तिरार्थम् । अफलेभ्याः - अफलसाधनेभ्यः ।।

राद्धन्ते - मन आदौ ब्रह्मणो दृष्टिविशेषणत्वम् इति करणात् , न तु चारम्यात् । इह तु उपासिशब्देन अव्यवहितमुद्गीयपदं प्रथमाकांक्षितोपास्यापरम् । व्यवहितं तु आदित्यादिपदम् पाश्चात्यविशेषणाकांक्षा पूरकम् ।।

इति आदित्यादिमत्यधिकरणम् -4




5. आसीनाधिकरणम् ।।

आसीनः संभावत् ।। 4-1-7 ।।

मोक्षसाधनतया वेनान्तशास्त्रैः .... ... प्रतत्रनिवृत्तये सापाश्रये आसीनः कृर्यात् ।। 7 ।।

आसीनः संभवात् । अनन्तरयोः प्रासङ्गिकत्वात् ततः पूर्वेण सङ्गतिमाह - मोक्ष इति । आसिकावचनं मनोनुकूलताभिप्रायमिति पूर्वपक्षः । तदवश्यंभावात् तत्परिहारः ।। 7 ।।

ध्यानाच्च ।। 4-1-8 ।।

निदिध्यासितव्यः इति ध्यान ... ... विजातीय प्रत्ययान्तराव्यवहितमेकचिन्तनमित्युक्तम् ।। 8 ।।

ध्यानाच्च । ध्यान शब्दो भावप्रधानः ।। 8 ।।

अचलत्वं चापेक्ष्य ।। 4-1-9 ।।

निश्चलत्वं चापेक्ष्य पृथिव्यन्तरिक्ष ... ... निश्चलत्व मुपासकस्य आसीनस्यैव संभवेत् ।। 9 ।।

अचलत्वं चापेक्ष्य । आपः - तटाकादिजलम् । ऐकाग्र्यकार्यनिश्चलतया साम्यम् ।। 9 ।।

स्मरन्ति च ।। 4-1-10 ।।

स्मरन्ति चासीनस्यैव ध्यानं ... ... उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये इति ।। 10 ।।

स्मरन्ति च । स्पष्टम् ।। 10 ।।

यत्रैकाग्रता तत्राविशेषात् ।। 4-1-11।।

एकाग्रतातिरिक्तदेशकाल ... ... मनोऽनुकूले इति वाक्यशेषात्

।। 11 ।।

यत्रैकाग्रता तत्राविशेषात् । कालः इति । तिथ्यादिनियमो नेत्यर्थः

।। 11 ।।

इति आसीनधिकरणम् - 5




6. आप्रयाणाधिकरणम् ।।

आप्रयाणात् तत्रापि हि दृष्टम् ।। 4-1-12 ।।

तदिदमपवर्गसाधनमुक्तलक्षणम् .... ... यावदायुषं ब्रह्मलोकमभिसंपद्यते इति ।। 12 ।।

आप्रयाणात् तत्रापि हि दृष्टम् । सङ्गत्यादि स्फुटम् ।। 12 ।।

इति आप्रयाणाधिकरणम् - 6




7. तदधिगमाधिकरणम् ।।

तदधिगम उत्तरपूर्वाघयोरश्लोषविनाशौ तद्व्यपदेशात् ।। 4-1-13 ।।

एवं विद्यास्वरूपं विशोध्य ... .. विद्यायाः दुश्चरितिविरति निष्पाद्यत्वावगमात् ।। 13 ।।

तदधिगम उत्तरपूर्वाघयोरश्लोषविनाशौ तद्व्यपदेशात् । विद्याप्राप्तौ इति। उपासनप्रारम्भ इत्यनुक्तिः अतद्रूपविद्यानिप्पत्तेरपि सौत्रत्वाभिप्रायनिबन्धना । अश्लोषविनाशयोः उत्तरपूर्वाघ विषयत्वं यगोयताधीनम् । न हि संश्लिष्टस्य अश्लोषो युक्तः । अतस्तस्य नाश एव । उत्तरत्याश्लोषः । अननुमवेऽपि नाशो दृष्ट इत्यत्राह - न च इति ।।

राद्धान्ते - विषयभेदादविरोधं निदर्शयति - यथा इति । अश्लेषविनाशौ विवृणोति - अघस्य इति । उक्तस्योपपन्नत्वमाह - तदेवम् इति । स्वर्गादिस्वरूपेण साध्यमिति न तद्धेतुकर्मणः पापनिवर्तकत्वम् । अत्र तु प्रतिबन्धनिवृत्तिरेव साध्येति विद्या प्रायश्चित्ततुल्या । प्रारब्धोपासनस्य तत्समाप्तौ सर्वमहं क्षमिष्यामि इति सङ्कल्पः । अतो न सांपरायाधिकरणविरोधः । क्षान्तम् इति तदा सङ्कल्पः ।। 13 ।।

इति तदधिगमाधिकरणम - 7




8. इतराधिकरणम्

इतरस्याप्येवमसंश्लेषः पाते तु ।। 4-1-14 ।।

उत्तरपूर्वाघयोर्विद्यया अश्लेषविनाशौ ... .... विद्यानुगुण दृष्टफलानि सुकृतानि नश्यन्तीत्यर्थः ।। 14 ।।

इतरस्याप्येवमसंश्लेषः पाते तु । सङ्गत्यादि स्पष्टम् । अधिकशङ्कामाह - सृकृतस्य इति। सौत्रखण्डान्तरमवतारयति - ननु इति । नश्यन्ति इति । प्रतिबन्धफलानि चेत् नश्यन्ति इत्यर्थः ।। 14 ।।

इति इतराधिकरणम् - 8




9. अनारब्धकार्याधिकरणम् ।।

अनारब्धकार्ये एव तु पूर्वे तदवधेः ।। 4-1-15 ।।

ब्रह्मविद्योत्पत्तेः पूर्वोत्तरभाविनोः ... .... शरीरस्थिति हेतुभूतसंस्कारसद्भावे प्रमाणमस्ति ।। 15 ।।

अनारब्धकार्ये एव तु पूर्वे तदवधेः । सङ्गतिमाह - ब्रह्म इति । ततः ब्रह्मविद्योत्पत्तेः ।।

राद्धान्ते - संस्कारवशात् देहस्थितिं प्रतिवक्ति - न च इति ।। 15 ।।

इति अनारब्धकार्याधिकरणम् -9




10. अग्निहोत्राद्यधिकरणम् ।।

अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् ।। 4-1-16 ।।

इतरस्याप्येवमसंश्लेषः इति ... ... दूषितान्तःकरणस्य विद्योत्पत्तिरेव न स्यात् ।। 16 ।।

अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् । सङ्गतिमाह - इतरस्य इति । पूर्वत्र ऊर्ध्वरेतस्स्वदर्शनात् नित्यानित्यसंयोगविरोधात् , इह सुकृत फलाश्लेषाच्च अननुष्ठेयत्वं परिहृतमिति न पुनरुक्तिः ।।

राद्धन्ते - तर्हि सकृदनुष्ठेयमित्यत्राह - विद्यायाश्च इति ।। 16 ।।

यदि अग्निहोत्रादिसाधुकृत्या .... ....

अतोऽन्यापि ह्येकेषामुभयोः ।। 4-1-17 ।।

अतः अग्निहोत्रादिसाधुकृत्यायाः ... ... विद्यया अश्लेषविनाशश्रुतिश्च तद्विषया ।। 17 ।।

अनन्तरस्य शङ्कामाह - यद्यग्निहोत्रादि इति । द्विषन्तः इत्यादेर्विषयो मृग्यः । उत्तराघस्याभुक्तत्वात् अनारब्धफलत्वाच्च बिशयत्वोपपत्तेः अतः सुहृदः इत्युपात्तम् ।।

अतोऽन्यापि ह्येकेषामुभयोः । प्राक्कृतं वृष्ट्यन्नदिहेतोः पश्चात्कृतं च प्रतिबद्धफलं पुण्यं विषय इत्यर्थः ।। 17 ।।

अनुष्ठितस्यापि कर्मणः फलप्रतिबन्ध .....

यदेव विद्ययेति हि ।। 4-1-18 ।।

यदेव विद्यया करोति तदेव ... ... सुहृदः साधुकृत्याम् इति शाट्यायनकम् ।। 18 ।।

अनन्तरसूत्रसङ्गतिमाह - अनुष्ठितस्यापि इति । पूर्वोक्तम् - पृथग्घ्यप्रतिबन्धः फलम् इत्युक्तम् ।।

यदेव विद्ययेति हि । स्फुटम् ।।

इति अग्निहोत्राद्यधिकरणम् - 10




11. इतरक्षपणाधिकरणम् ।।

भोगेन त्वितरे क्षपयित्वाऽथ संपद्यते ।। 4-1-19 ।।

ययोः पुण्यपापयोः अश्लेषविनाशावुक्तौ ... .. सुहृदोगह्णन्ति , पापं च द्विषन्त इति निरवद्यम् ।। 19 ।।

इति इतरक्षपणाधिकरणम् - 11




इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये

चतुर्थस्याध्यायस्य प्रथम्#ः पादः ।।

भोगेन त्वितरे क्षपयित्यवाऽथ संपद्यते । सङ्गतिः स्फुटा । राद्धन्ते - पूर्वपक्षबीजं परिहरति - तस्य तावत् इति । अत्र देहतदवधी म श्रुतौ । धूत्वा इत्यत्र देहः श्रुतः , न त्ववधिः । एकवचनं जात्यभिप्रायम् यथा विधूय पापम् इत्यभिप्रेत्य अवधिनियमाश्रवणात् इत्युक्तम् ।।

पूर्वाधिकरणेषूक्तमर्थं सुग्रहत्वाय संक्षिपति - तदेवम् इति ।। 19 ।।

इति इतरक्षपणाधिकरणम् - 11




इति श्रीहरितकुलतिलकवाग्विजयिसूनुना श्रीरङ्गराजदिव्याज्ञालब्धवेदव्यासापर -

नामधेनेन श्रीमद्वरदाचार्यपादसेवासमधिगत श्रीभगवद्रामानुजविरचित -

शारीरकमीमांसाभाष्यहृदयेन श्रीसुदर्शनसूरिणा विलिखितायां

श्रुतप्रदीपिकायां चतुर्थस्याध्यायस्य प्रथमः पादः ।।



च्ड्ढड़दृदड्ड घ्ठ्ठड्डठ्ठ

चतुर्थाध्याये द्वितीयः पादः




1. वागधिकरणम् ।

वाङ्मनसि दर्शनाच्छब्दाच्च ।। 4-2-1 ।।

इदानीं विदुषो गतिप्रकारं चिन्तीयितुम् ... ... मनसा वाक् संयुज्यते , न तु तत्र लीयते , इति परिहर्तव्यम् ।। 1 ।।

वाङ्मनसि दर्शनाच्छब्दाच्च । देहस्थितौ विद्याफलमुक्तम् । अथ गत्युपक्रमरूपोत्क्रान्तिश्चिन्त्यते इति 1पादसङ्गतिः । कथञ्चित् - वाक्प्रवृत्ति - हेतुत्वरूपावस्थालक्षणयेति भावः ।।

राद्धान्ते - दृश्यते हि इति । प्रवृतस्वकार्ये दारुणि निवृत्तस्वकार्यस्याग्नेरिव वाचो मनस्यन्तर्भाव इति भावः । यदुक्तम् इति । वाक्संपत्ति शब्दयोर्द्वयोरप्यमुख्यत्वात् परमसंपत्तिशब्दास्वारस्यमित्यर्थः । न च तत्राप्यत्यन्तास्वारस्यम् । दर्शनशब्दौ समुच्चित्यहेतू ।। 1 ।।

अत एव सर्वाण्यनु ।। 4-2-2 ।।

यतो वाचो मनसा संयोगमात्रं .... ... अपुनर्भवमिन्द्रियैर्मनसि संपद्यमानैः इति ।। 2 ।।

अत एव सर्वाण्यनु । अनु - पश्चात् ।। 2 ।।

इति वागधिकरणम् - 1




2. मनोऽधिकरणम् ।

तन्मनः प्राण उत्तराम् ।। 4-2-3 ।।

तत् - सर्वेन्द्रियसंयुक्तं , मनः ... .. प्राणशब्देनापां लक्षणा च स्यात् - इति ।। 3 ।।

तन्मनः प्राण उत्तरात् । परंपरया - स्वकारणपृथिवीद्वारा इत्यर्थः

।। 3 ।।

इति मनोऽधिकरणम् -2




3. अध्यक्षाधिकरणम् ।।

सोऽध्यक्षे तदुपगमादिभ्यः ।। 4-2-4 ।।

यथा वाङ्मनसि संपद्यते ... .... यमुना सागरं गच्छति इति वचो न विरुध्यते तद्वत् ।। 4 ।।

सोऽध्यक्षे तदुपगमादिभ्यः। सङ्गति स्फुटा आदि शब्दः उत्क्रान्तिप्रतिष्ठापरः। अर्थान्तरेण संयुज्य अर्थान्तरगमनेऽपि अन्यतरवाचिशब्देन निर्देशे दृष्टान्तमाह - यथा इति ।। 4 ।।

इति अध्यक्षाधिकरणम् - 3




4. भूताधिकरणम् ।।

भूतेषु तच्छØतेः ।। 4-2-5 ।।

प्राणस्तेजसि इति जीवसंयुक्तस्य ... .... जीवस्य सञ्चरतः सर्वभूतमयत्वश्रुतेः ।। 5 ।।

भूतषु तच्छØतेः । स्पष्टा सङ्गतिः ।। 5 ।।

ननु तेजःप्रभृतिषु एकैकस्मिन् ... ....

नैकस्मिन् दर्शयतो हि ।। 4-2-6 ।।

नैकस्मिन् , एकैकस्य ... ... तेजोऽभिधीयते । अतो भूतेष्वेव संपत्तिः ।। 6 ।।

अन्तन्तरमवतारयति - ननु इति । नैकस्मिन् दर्शयतो हि । तिस्रो देवता अनुप्रविश्य तासां त्रिवृतं त्रिवृतमेकैकाम् इति सृष्ट्यर्थमनुप्रवेष्टव्यतत्त्वेषु एकैकस्य त्रिवृ

त्करणोपदेशात् प्रत्यकं त्रिवृत्कृतभूतत्रयस्य कार्यकरत्वं प्रतीयते इति, अत्रिवृत्कृतेष्वेकेन देहारंभायोगात् भूतसूक्ष्म सहंतिः स्वूकार्या इति भावः

।। 6 ।।

इति भूताधिकरणम् - 7




5. आसृत्युपक्रमाधिकरणम् ।।

समाना चासृत्युपक्रमादमृतत्वं चानुपोष्य ।। 4-2-7 ।।

इयमुत्क्रान्तिः किं विद्वदविदुषोः ... .... यो ब्रह्मानुभवः तद्विषयमित्यभिप्रायः ।। 7 ।।

समाना चासृत्युपक्रमादमृतत्वं चानुपोष्य । भाव्यधिकरणार्थद्वयस्य विद्वदविदुषोः समानत्वे सत्यपि , अस्याधिकरणस्य तदीर्ध्वभावित्वा भावः तदर्थस्य बिदूत्स्वविगीतत्वात् । अतो विगीतांशस्य समानत्वमुपपाद्यते इति सङ्गतिः ।।

राद्धान्ते -उत्क्रान्तौ सत्यां हि समानत्वमित्यत्राह - विदुषोऽपि हि इति । अथ समानत्वमुपपादयति - सा च इति ।। 7 ।।

तदापीतेः संसारव्यपदेशात् ।। 4-2-8 ।।

अवश्यं च तत् - अमृतत्वम् ... .... अकृतं कृतात्म ब्रह्मलोकमभिसंभवानि इति च ।। 8 ।।

तदापीतेः संसारव्यपदेशात् । चरमदेहावधि विलग्बश्रुत्या जीवन्मुक्त्त्ययोग उक्तः ।। 8 ।।

सूक्ष्मं प्रमाणतश्च तथोपलब्धेः ।। 4-2-9 ।।

इतश्च विदुषोऽपि बन्धः ... ... सूक्ष्मशरीरमनुवर्तते । अतश्च बन्धो न दग्धः ।। 9 ।।

सूक्ष्मं प्रमाणतश्च तथोपसलब्धेः । इह सूक्ष्म देहस्थित्या तदयोग उक्तः।।

नोपसर्देनातः ।। 4-2-10 ।।

अतः यदा सर्वे प्रमुच्यन्ते ... ... वचनं न बन्धोपमर्देनामृत्वं वदति ।। 10 ।।

नोपमर्देनातः । अत्र उपासनध्रुवानुस्मृतित्व दर्शनरूपत्वप्रीतिरूपत्वाप्रयाणानुवृ

त्तिसुदुष्कर्म धूनननाडीविशेषनिष्क्रमणमार्गविशेष सूक्ष्मदेहस्थित्यादिविषयबहुश्रुतिभिः तदयोगोऽभिप्रेतः । प्रधानयुक्त्त्यनन्तरं पूर्वसूत्रेण निगमनं कृतम् । तथाऽभ्युच्चययुक्तिरुच्यते ।। 10 ।।

अस्यैव चोपपत्तेरूष्मा ।। 4-2-11 ।।

अस्य - सूक्ष्मशरीरस्य क्वचित् ... ... आसृत्युपक्रमात् समानोत्क्रान्तिरिति सुष्ठूक्तम् ।। 11 ।।

अस्यैव चोपपत्तेरूष्मा । सन्तापयति इत्याद्युक्तस्य भष्मणः सार्वत्रिकत्वात् , इह काचित्कोप्मोपलम्भः सूक्ष्मदेहस्य काचित्कस्योत्क्रन्तिमत्त्वादित्यर्थः । परमप्रकृतं निदमयति - तस्मात् इति ।। 11 ।।

पुनरपि विदुष उत्क्रान्तिः न .... ....

प्रतिषेधादिति चेन्न शारीरात् स्पष्टो ह्योकेषाम् ।। 4-2-12 ।।

यदुक्तं विदुषोऽप्युत्क्रान्तिः ... .... भूतसूक्ष्मवज्जीवं परिष्वज्यगच्छन्ति - इति प्रतिपादयतीति निरवद्यम् ।। 12 ।।

प्रतिषेधादिति चेन्न शरीरात् स्पष्टो ह्येकेषाम् । तैजोमात्राः - भूतसूक्ष्मांशान् । हृदयम् - हृदयादपक्रामतीत्यर्थः । अकामयमानादि पदत्रयम् एषणात्रयराहित्यपरम् ।।

राद्धान्ते - तस्य इत्यादि । षष्ठ्यन्ततच्छब्दनिर्दिष्टः शारीरोऽस्तु , तत्संबन्धिनां प्राणानामुत्क्रान्त्यपादानं शरीरमेवेत्यर्थः । षष्ठ्याः करणतद्वत्तालक्षणसंबन्धपरत्वमभ्युपगम्य परिहरति - न इति । अप्रस्तुतधर्मिणोऽपादानत्वस्य च क्लृप्तेः वरं प्रस्तुतस्यैंवापादानताक्लृप्तिरित्यर्थः । षष्ठ्या एवापादानतापरत्वं वैयर्थ्यशक्तिभ्यामुपपादयति - किं च इति । प्रसङ्गस्या निष्टत्वे सति हि निषेध्यत्वमित्यत्राह - ततश्च इति । ग्रहः - रज्जुः । मृत्युम् - अग्निपपजयतीत्यर्थः । तर्हि कथं प्राणानुत्क्रान्तिरित्यत्राह - अविदुपस्तु इति

।। 12 ।।

स्मर्यते च ।।4-2-13 ।।

स्मर्यते च विदुषोऽपि मूर्धन्यनाड्या ... .... ब्रह्मलोकमतिक्रम्य तेन यति परां गतिम् ।। 13 ।।

स्मर्यते च । स्पष्टम् ।। 13 ।।

इति आसृत्युपक्रमाधिकरणम् - 5

---

6. परसंपत्त्यधिकरणम् ।।

तानि परे तथा ह्याह ।। 4-2-14 ।।

सकरणग्रामः सप्राणः करणाध्यक्षः ... .... परमात्मसंपत्त्या सुखदुःखोपभोगायासविश्रमः , तद्वदिहापि ।। 14 ।।

तानि परे तथा ह्याह । सैषा इति । इयत्यंशे विमतिरिति सा परिहृतेत्यर्थः इति सङ्गतिरुक्ता । अन्यत् स्पष्टम् ।। 14 ।।

इति परसंपत्त्यधिकरणम् - 6




7. अविभागाधिकरणम् ।।

अविभागो वचनात् ।। 4-2-15 ।।

सेयं परमात्मनि संपत्तिः ... ... पुनस्तत्राव्यक्तादिसृष्ट्यवचनाच्च

।। 15 ।।

अविभागो वचनात् । सङ्गतिः स्पष्टा । तेजः शब्दस्य जीवामात्रपरत्वे लक्षणा , संपत्तिशब्दार्थवैरूप्यं च । अतः सुषुप्ताविव न विशेष्यांशस्य लयः । नापि विशिष्टस्य , सूक्ष्मदेहशैथिल्येन विशेषणभूत भूतसूक्ष्माणां तत्समष्टौ लयायोगात् , तत एव तमसि लयायोगात् । सूक्ष्मदेहारंभाय पुनः अव्यक्तादिसृष्ट्यवचनात्, तदनारंभे गत्यनुपपत्तेश्च संपत्तिः संसर्गमात्रमित्यर्थः । अव्यक्तादिसृष्ट्यवचनाच्च इति कल्पकाभावश्चोक्तः ।।

इति अविभागाधिकरणम् - 7




8. तदोकोधिकरणम् ।।

तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात् तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीनः शताधिकया ।। 4-2-16 ।।

एवं गत्युपक्रमावधि विद्वदविदुषोः ... ... विद्वान् तां नाडीं विजानातीति तया विदुषो गतिरुपपद्यते ।। 16 ।।

तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात् तच्छेषगत्यनुस्मृतियो

गाच्च हार्दानुगृहीतः शताधिकया ।।

सङ्गतिमाह - एवम् इति । स्पष्टम् ।। 16 ।।

इति तदोकोऽधिकरणम् - 8




9. रश्म्यनुसाराधिकरणम् ।।

श्शम्यनुसारी ।। 4-2-17 ।।

विदुषो हृदयाच्छताधिकया ... .... विदुषां रश्भ्यनुसारेणैव ब्रह्मप्राप्तिरस्त्येव ।। 17 ।।

रश्भ्यनुसारी । स्फुटं सङ्गत्यादिकम् ।। 17 ।।

इति रश्म्यनुसाराधिकरणम् - 9




10. निशाधिकरणम् ।।

निशि नेति चेन्न संबन्धस्य यावद्देहभावित्वात् दर्शयति च ।। 4-2-18 ।।

इदमिदानीं चिन्त्यते - विदुषो .... .... दिवा च शुक्लपक्षश्च इत्यादिवचनमविद्वद्विषयम् ।। 18 ।।

निशि नेति चेन्न संबन्धस्य यावद्देहभावित्वात् दर्शयति च । सङ्गतिर्गता। राद्धान्ते - अ#ेनेकदेहभोग्यस्य

प्रारब्धस्य कथं यावद्देहभावित्वम् ? तथाऽपि अयुक्तं कर्मान्तरं संभवति । कथं निन्दोक्तिः परिहृता स्यात् ? तस्याश्चावैयर्थ्यं कथमित्यत्राह -
एतदुक्तम् इति ।। 18 ।।

इति निशाधिकरणम् - 10




11. दक्षिणायनाधिकरणम् ।।

अचश्चायनेऽपि दक्षिणे ।। 4-2-19 ।।

निशि मृतस्यापि विदुषो ब्रह्मप्राप्तौ ... ... धर्प्रवर्तनाय उत्तरायणप्राशस्त्यप्रदर्शनार्थः तथाविधाचारः ।। 19 ।।

अचश्चायनेऽपि दक्षिणे । सङ्गत्यादि स्पष्टम् । निशि दक्षिणणायने च मृतस्य देहस्य चरमत्वं न स्यात् । तथा सति हि बन्धककर्माभाव इति चेन्न - दक्षिणायने मृत

स्यापि वाक्यशेषे ब्रह्मणो महिमानमाप्नोति इति ब्रह्मप्राप्तिश्रवणादिति भावः ।।

न च अथ यो दक्षिणे इत्यधिकार्यन्तरविषयम् , अप्रस्तुतत्वात् ; महिमानावभिजयति इत्यैक्यप्रतीतेश्च । न च महिमानौ विद्वान् इत्यन्वयः ; विद्वच्छब्दस्य तस्यैवं विदुषः इति प्रकृताधिकारिपरत्वात् जयतेः सकर्मकत्वस्य स्वतः प्राप्तत्वात् लोकमभिजयति इत्यादि श्रौतप्रयोगाच्च ।। 19 ।।

ननु च विदुषो मुमूर्षून् प्रति ... ....

योगिनः प्रति स्मर्येते स्मार्ते चैते ।। 4-2-20 ।।

नात्र मुमूर्षून् प्रति ... ... विद्यानिष्ठान् प्रति विधीयते , न मुमूर्षून् प्रति मरणकालविशेषः ।। 20 ।।

इति दक्षिणायनाधिकरणम् - 11




इति श्रीभगवद्रामानुजविरचिते श्रीशारीरकमीमांसाभाष्ये चतुर्थस्याध्यायस्य द्वितीयः पादः ।।

अनन्तरसूत्रमवतारयति - ननु च इति । योगिनः प्रति स्मर्येते स्मार्ते चैते । स्मार्त पदार्थमाह - स्मृति इति । स्मर्तव्यतयेत्यर्थः । स्मर्तुम् इति तत् स्फुटीकृतम् । उपक्रमाख्यावयवात् महावाक्यस्वारस्यप्राबल्यमभिप्रयता अन्ते मध्ये च मार्गपरत्वं दर्शतम् ।। 20 ।।

इति दक्षिणायनाधिकरणम् - 11




इति श्रिहरितकुलतिलकवाग्विजयिसूनुना श्रीरङ्गराजदिव्याज्ञालब्धवेदेव्यासापर -

नामधेयेन श्रीमद्वरदाचार्यपादसेवासमधिगत श्रीभगवद्रामानुजविरचित -

शारीरकमीमांसाभाष्यहृदयेन श्रीसुदर्शनसूरिणा विरचितायां

श्रुतप्रदीपिकायां चतुर्थस्याध्यायस्य द्वितीयः पादः ।।




च्र्ण्त्द्धड्ड घ्ठ्ठड्डठ्ठ

चतुर्थध्याये तृतीयः पादः ।।




1. अर्चिंराद्यधिकरणम् ।।

अर्चिरादिना तत्प्रथितेः ।। 4-3-1 ।।

विदुष उत्क्रान्तस्य नाडीविशेषेण ... .. अन्यत्रापि सर्वत्राग्न्यादित्यादयः प्रत्यभिज्ञायन्ते ।। 1 ।।

अर्चिरादिना तत्प्रथितेः । पादसङ्गतिमाह - विदुषः इति । ब्रह्मवित्संबन्धज्ञापनाय यथा इत्याद्युपात्तम् । शव्यम् - शवार्हम् । अनेकरूपत्वात् - क्रमभेदात् क्रमिभेदाच्चेति भावः ।।

राद्धान्ते - अल्पान्तरम् - संवत्सर स्थाने देवलोक श्रुतेरिति भावः । य एवमेतद्विदुः , ये चेमे अरण्ये श्रद्धां सत्यप्तुपासते इति श्रुतिर्मार्गैक्ये प्रमाणम् । प्रत्यभिज्ञानम् अनुग्राहकम् ।।

नेयं श्रुतिरनुपदिष्टमार्गविशेषोपासनविषया । मार्गभेदे सङ्कोचः , सङ्कोचान्मार्गभेदः इत्यन्योन्यश्रयणात् । ऐक्यं

तु प्रत्यभिज्ञसिद्धम् । अथैतयोः पथोः इति देवयानपितृयानमार्गद्वित्वश्रुतिस्वारस्याच्च मार्गौकत्वं सिद्धम् । एषां भाष्येऽनुक्तिः भाष्यान्तरोक्तत्वात् । सर्वपरविद्यासु ब्रह्मतत्प्रप्तिरूपफले प्रत्यभिज्ञातेऽपि गुणानन्त्यादुपसंहाराशक्तेः विद्यैक्यानुपगमः ; मार्गे तु द्वादशपदार्थानतिरेकेण चिन्तायोग्यत्वात् प्रत्यभिज्ञया ऐक्योपगमो युक्तः ।।

इति अर्चिराद्यधिकरणम् -1




1. वाय्वधिकरणम् ।।

वायुमब्दादविशेषविशेषाभ्याम् ।। 4-3-2 ।।

अर्चिरादिनैव गच्छन्ति विद्वांसः .... ... योऽयं पवत एष देवानां गृहाः इति ।। 2 ।।

वायुमब्दादविशेषविशेषाभ्याम् । सङ्गितिः स्फुटा । संशयं वक्त्तुं स्थलं शोधयति - तत्र इत्यादिना । मासानन्तरं संवत्सरदेवलोकयोः क्रमं निश्चित्य देवलोकवाय्वोः संशयः । विशेषाभावाच्च इति । अब्ददेवलोकयोः पञ्चम्युक्तक्रमसाम्येऽपि , अब्दस्य मासानन्तरत्वे न्यूनकालानन्तरमधिककाल निवेशरूपो विशेषः प्रागुक्तः इह तु न तथेत्यर्थः ।।

राद्धान्ते - देवलोक शब्दः सामान्यशब्दः । लोकपरत्वव्यावृत्त्यर्थमाह - वायुश्चासौ इति ।। 2 ।।

इति वाय्वधिकरणम् - 2




3. वरुणाधिकरणम् ।।

तटितोऽधि वरुणः संबन्धात् ।। 4-3-3 ।।

कोषीतिकिनां , स एतं देवयानं ... .... वरुणादुपरीन्द्रादीर्निवेशयितव्य इति ।। 3 ।।

तटितोऽधि वरुणः संबन्धात् । निरूपितनिरूपणीयांश ज्ञापनार्थं पूर्वोक्तक्रमेषु कौषीतकिवाक्याविगानम् , विगीतांशे तस्य दौर्बल्यं चाह - कैषीतकिनाम् इत्यादिना । उपदेंशावैयर्थ्याय इति । क्रमिबाधात् क्रमबाधो न्याय्य इति भावः । इन्द्रप्रजापती अपि इति । क्रमद्वयभङ्गात् एकक्रमभङ्गो वरमिति भावः ।।

राद्धान्ते - सलिसादधो विद्युत , तस्याः स्फुटदृश्यत्वात् । तयोरिव तदभिमानिदेवतयोः संबन्ध इत्यर्थः । मेघोदरे तटिदन्वयोऽस्तु ; कथं तेन पाठक्रमं बाधित्वा तटिदुपरि वरुणनिवेशः ? कथं वा इन्द्रप्रजापत्योस्तत्रावकाश इत्यत्राह - एतदुक्तम् इति । अर्थक्रमस्य पाठक्रमाद्बलीयस्तया तटिदुपरि वरुणः । कौषीतकिपाठानुरोधात् आगन्तूनामन्ते निवेशनयात् तदुपरि इन्द्रप्रजापती इत्यर्थः ।। 3 ।।

इति वरुणाधिकरणम् - 3




4. आतिवाहिकाधिकरणम् ।।

आतिवाहिकास्तल्लिङ्गात् ।। 4-3-4 ।।

इदमिदानीं चिन्त्यते - किमर्चिंरादयः .... .. अर्चिराद्यात्मूतान् अभिमानिदेवताविशेषात् । तं पृथिव्यब्रवीय् इतिवत् ।। 4 ।।

आतिवाहिकास्तल्लिङ्गात् भोगभूमेरप्यवाचकाः इत्यत्राह - एते एव इति । लोका अहरादिसंज्ञा इति पूर्वपक्षिणो हृदम् । विपरीतं कस्मान्नेत्यत्राह - अत एव इति । विजिहीते इत्यपि लोकलिङ्गमिति भावः ।।

राद्धान्ते - अर्चिरादिशब्दाः कथं देवतावाचिनः इत्यत्राह - वदन्ति च इति ।।

4 ।।

यद्येवं तत्पुरुषोऽमानवः स ... ...

वैद्युतेनैव ततस्तच्छØतेः ।। 4-3-5 ।।

ततः विद्युतः उपरि, वैद्युतेन ... .... तेषामप्यातिवाहिकत्वेनान्वयो विद्यते एव ।। 5 ।।

अनन्तरमवतारयति - यद्येवम् इति । वैद्युतेनैव ततस्तच्छØतेः ।। स्पष्टम् ।। 5 ।।

इति आतिवाहिकाधिकरणम् - 4 ।।




5. कार्याधिकरणम् ।।

कार्यं बादरिरस्य गत्युपपत्तेः ।। 4-3-6 ।।

अर्चिरादिनैव गच्छति विद्वात् ... .... अतोऽर्चिरादिराति वाहिकगणस्तमेव नयति ।। 6 ।।

कार्यं बादरिरस्य गत्युपपत्तेः । सङ्गतिमाह - अर्चिरादिनैव इति । उपास्तिनयत्योः कर्म चतुर्मुखः । सर्वगतत्वात् सार्वज्ञ्यादिगुणपूर्तेः संबन्धस्य च क्वाचित्कत्बाभावात् न गत्यपेक्षा इति परिपूर्णादि पदाभिप्रायः उपास्तिवैयर्थ्यं - परिहपति - नित्यप्राप्त इति ।। 6 ।।

विशेषितत्वाच्च ।। 4-3-7 ।।

पुरुषोऽमानव एत्य ब्रह्मलोकान् ... .... हिरण्यगर्भस्य समीपगमनमर्चिरादिना गतः प्रत्यभिसन्धत्ते ।। 7 ।।

विशेषितत्वाच्च । 1 एतं ब्रह्मलोकम् इत्यत्र स्वीकृतकर्मधारय व्यावृत्यर्थमाह - बहुवचनेन च इति ।। 7 ।।

नन्वेवं तत्पुरुषोऽमानवः स एनान् ... ....

सामीप्यात् तु तद्व्यपदेशः ।। 4-3-8 ।।

यो ब्रह्माणं विदधाति इति हिरण्यगर्भस्य ... .... गत्यनुपपत्तिविशेषणादिभिः उक्तैर्हेतुमिः निश्चीयते इत्यर्थः ।। 8 ।।

सामीप्यात् तु तद्व्यपदेशः । विशेषणादिभिः इति आदि शब्देन गत्युपपत्तिः ।।

8 ।।

अथ स्यात् अर्चिरादिना हिरण्यगर्भप्राप्तौ .... ...

कार्यात्यये तदध्यक्षेण सहात परमभिधानात् ।। 4-3-9 ।।

कार्यस्य - ब्रह्मलोकस्य अत्यये ... ... परामृतात् परिमुच्यन्ति सर्वे इति वचनाच्चावगम्यते ।। 9 ।।

कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् । अयमर्थः किंमानक इत्यत्राह - ते ब्रह्म इति । परामृतात् - परामृतं प्राप्य । ल्यब्लोपे पञ्चमी

।। 9 ।।

स्मृतेश्च ।। 4-3-10 ।।

स्मृतेश्चायमर्थोऽवगम्यते .. ... कार्यमुपासीनमेवार्चिरादिको गणो नयतीति बादरेर्मतम् ।। 10 ।।

स्मृतेश्च । परस्य - ब्रह्मायुषः ।। 10 ।।

अत्र जैमिनिः पक्षान्तरपरिग्रहेण प्रत्यवतिष्ठते -

परं जैमिनिर्मुख्यत्वात् ।। 4-3-11 ।।

परं ब्रह्मोपासीनानर्चिरादिर्नयति ... ... अप्राकृताश्च लोका नात्यन्ताय न सन्ति , श्रुतिस्मृतीतिहासपुराणप्रामाण्यात् ।। 11 ।।

पक्षान्तरपरिग्रहेण - पूर्वपक्षादन्येन , न तु कृत्स्नसिद्धान्तेनेत्यर्थः । परं जैमिनिर्मुख्यत्वात् । निश्शेष इति । विद्यानिष्पत्तिः - विद्यायाः कार्यकरत्वदशापत्तिः । नितरां विकासो वा । नित्यत्वेऽपि काल विशेषापेक्षावत् सर्वगतत्वेऽपि देशविशेषापेक्षा युक्तेति भावः । उत्क्रान्त्यनुपपत्त्या न गतिरित्यत्राह - विदुषः इति . स्वेच्छापरिकल्पिताः - नित्येच्छापरिकल्पिताः । नात्यन्ताय इति न न सन्ति - न सन्ति इति न ; सन्त्येव अत्यन्तं सन्त्येवेत्र्यर्थः । तदक्षरे परमे व्योमन् इत्यादिमानदार्ढ्यं विवक्षितम् ।। 11 ।।

दर्शनाच्च ।। 4-3-12 ।।

दर्शयति श्रुतिः मूर्धन्यनाड्या ... .... परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते इति ।। 12 ।।

दर्शनाच्च । उत्थाय इति । देवयानेन गतिसिद्धिः ।। 12 ।।

यदुक्तं प्रजापतेः समां वेश्म प्रपद्ये ... ....

न च कार्ये प्रत्यभिसन्धिः ।। 4-3-13 ।।

न याचं प्रत्यभिसन्धिः ... ... परमेव ब्रह्मोपासीनमर्चिरादिरातिवाहिको गणो नयतीति जैमिनेर्मतम् ।। 13 ।।

न च कार्ये प्रत्यभिसान्धिः । स्फुटम् ।। 13 ।।

इदानीं बादरायणस्तु भगवात् स्वमतेन सिद्धान्तमाह -

अप्रतीकालम्बनान् नयतीति बादरायणः

उभयथा च दोषात् तत्क्रतुश्च ।। 4-3-14 ।।

अप्रतीकालम्बनान - प्रतीकालम्बनव्यतिरिक्तान् ... ... अचिन्मिश्रोपासने तत्क्रतुन्यायाच्चार्चिरादिना गतिर्ब्रह्मप्राप्तिश्च न विद्यते

।। 14 ।।

अप्रतीकालम्बनात् नयतीति बादरायणः उभयथा च दोषात् तत्क्रतुश्च। जैमिनिमतात् को भेद इत्यत्राह - एतदुक्तम् इति । न च इत्यत्र प्रतीकालम्बन शब्दो गोबलीवर्दनयात् दृष्टयुपासकपरः , कार्यमुपासीनान् इति पृथगुक्तेः । तदेतदाह - इति । कार्यमुपासीनस्य कार्यमेव प्राप्यम् , न परं ब्रह्म ; तत्क्रतु नयात् । अतः परप्रापकोऽर्चिरादिर्न तस्येत्यर्थः ।।

अप्रतीकालम्बनान् नयति इति प्रतिज्ञ व्याहन्येन । तद्य इत्थम् इत्यस्य प्रतीका लम्बनविषयत्वात् इत्यत्राह - पञ्चाग्नि इति । ये च इत्युक्तयोर्द्वयोरपि अप्रतीकालम्बनत्वसाधनाय तत्क्रतुश्च इति सूत्रखण्डः । फलस्य यथोपासनत्वात् ब्रह्मप्राप्तिफलोपास्तिनिष्ठः पञ्चाग्निविदपि ब्रह्मोपासननिष्ठः । अतो ब्रह्मप्राप्त्यानुगुणयात् पृथङ्निर्देशवैयर्थ्योच्च यथोक्त एव तयोर्विभागाः । के पुनः प्रतीकालम्बना इत्यत्राह - नामादि इति ।। 14 ।।

तमिमं विशेषं श्रुतिरेव दर्शयतीत्याह -

विशेषं च दर्शयति ।। 4-3-15 ।।

यावन्नाम्नो गतं तत्रास्य यथाकामचारः ... ... प्रकृतिवियुक्तं ब्रह्मात्मकमुपासीनानातिवाहिको गणो नयतीति सिद्धम् ।। 15 ।।

इति कार्याधिकरणम् - 5




इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये

चतुर्थस्याध्यायस्य तृतीयः पादः ।।

विशेषं च दर्शयति । नाम्नो गतम् - देवादिनामगोचरः । उपसंहरति - तस्मात् इति ।।

ब्रह्मणा सह इति स्मृतिः न अर्चिरादिगतपुरुषविषया । किं तु चतुर्मखलोकस्थयोगिविषया । ते ब्रह्म इत्यस्य च निषादस्थपतिनयात् ब्रह्माख्यलोके वर्तमानाः चरमदेहान्ते परामृतात् प्रसन्नात् ब्रह्मण एव हेतोः परिमुच्यन्ते इत्यर्थः । कर्मधारयस्य हेतौ पञ्चम्याश्च स्वारस्यात् ।। 15 ।।

इति कार्याधिकरणम् - 5




इति हरितकुलतिलकवाग्विजयिसूनुना श्रीरङ्गराजदिव्याज्ञाब्धवेदव्यासापर -

नामधेयेन श्रीमद्वारदाचार्यपादसेवासमधिगत श्रीमगवद्रामानुजविरचित -

शारीरकमीमांसाभाष्यहृदयेन श्रीसुदर्शनसूरिणा विलिखितायां

श्रुतप्रदीपिकाथां चतुर्थाध्यायस्य तृतीयः पादः ।।


क़दृद्वद्धद्यण् घ्ठ्ठड्डठ्ठ

चतिर्थाध्याये चतुर्थः पादः ।।




1. संपद्याविर्भावाधिकरणम् ।।

संपद्याविर्भावः स्वेन शब्दात् ।। 4-4-1 ।।

परं ब्रह्मोपासीनानामात्मानं च प्रकृतिवियुक्तं .... ... स्वेनरूपेण इति विशेषणमनर्थकं स्यात् , अविशेषणेऽपि तस्य स्वकीयरूपत्वसिद्धेः

।। 1 ।।

संपद्याविर्भावः स्वेन शब्दात् । पादसङ्गतिमाह - परम् इति । रूपेण - आकारेण । न च दुःख इति । दुःखनिवृत्तिरिष्टा सुखनिवृत्तिरनिष्टा इति तदुभयान्वयात् मोक्षस्य पुमर्थापुमर्थमिश्रत्वप्रसङ्गः इति भावः । अनर्थकं स्यात् इति । अभिनिष्पत्तिशब्दानर्थक्यम् इत्यर्थः ।।

स्वेन शब्दः कथमित्यत्रा - स्वेन इति । स्व शब्दोऽसाधारणपरः ; न त्वसाध्यत्वपरः अभिनिष्पत्तिवचनात् । रूपेण अभिनिष्पद्यते - रूपविशिष्टतया साध्यते ; रूपं साध्यमित्यर्थः ।।

राद्धान्ते - अनर्थकं स्यात् इति । न ह्यन्यस्य रूपेणान्योऽभिनिष्पद्यते इति असाधारण्यस्यार्थसिद्धत्वात् स्वेन शब्दानर्थक्यमित्यर्थः ।। 1 ।।

यत् तु - उक्तं स्वरूपस्य नित्यप्राप्तत्वात् ... ...

मुक्तः प्रतिज्ञानात् ।। 4-4-2 ।।

कर्मसंबन्धतत्कृतदेहादिविनिर्मुक्तः ... .... युक्त्त्याऽयमर्थो निष्पद्यते इत्यादिषु ।। 2 ।।

अनन्तरसूत्रमवतारयति - यत तु उक्तम् इति । मुक्तः प्रतिज्ञानात् । मुक्त इति प्रतिज्ञापदं व्याचष्टे - कर्म इति । ततः किमित्यत्राह - अतः इति । प्रागसिद्धतिरोधिनिवृत्तिवाचित्वात् नाभिनिष्पत्ति शब्दवैयर्थ्यमित्यर्थः । सा हि इति।

सा - तरोधिनिवृत्तिः । प्रतिज्ञाता निवृत्ततिरोधानं स्वरूपं प्रतिज्ञातमित्यर्थः । तद्विवरीतुमाह - कुत इति । य आत्मा इत्यादि । एतम् इति पदस्य गुणाष्टकविशिष्टप्रकृतपरत्वात् , गुणाष्टकस्य जगरादौ तिरोहितत्वात् , प्रतिपर्यायम एतम् इत्युक्तिः अकर्मतिरोहितस्वाभाविकरूपाभिप्राया । श्रोतुराशयपरीक्षार्थं जागरादिकथनमित्यर्थः । ततः किमित्यत्राह - अतः इति । शब्दस्य वाचकत्वमाह - स्वरूपाविर्भावेऽपि इति । इदमेकं मुनिष्पन्नम् इत्यादि द्रष्टव्यम् ।।

यच्चोक्तम् - आत्मस्वरूपस्य मुषुप्तौ ... ....

आत्मा प्रकरणात् ।। 4-4-3 ।।

अनन्तरमवतारयति - यच्चोक्तम् इति । आत्मा प्रकरणात् । परविषयत्व शङ्कायामाह - इदं च इति । आनन्दस्य हेत्वपेक्षा न आनन्दत्वकृता ; किं तु स्वाभाविकानन्दस्य तिरोहितत्वात् संसारदशायां तदपेक्षा। मुक्तौ स्वतः सिद्धस्य आविर्भाव एवेति न तस्योपाध्यपेक्षा । अतो न मोक्षशास्त्रस्यापुमर्थपर्यवसायित्वमित्यर्थः ।। 3 ।।

इति संपद्याविर्भावाधिकरणम् - 1




2. अविभागेन दृष्टत्वाधिकरणम् ।।

अविभागेन दृष्टत्वात् ।। 4-4-4 ।।

किमयं परं ज्योतिरुपसन्नः सर्वबन्धविनिर्मुक्तः ... ... अधिकं तु भेदनिर्देशात् अधिकोपदेशात् इत्यादि च ।। 4 ।।

अविभागेन दृष्टत्वात् । सङ्गतिः स्पष्टा । साम्यसाधर्म्य शब्दौ वचनस्थत्वादुपात्तौ , नार्थभेदात् । सह श्रुत् साम्यसार्ध्मो क्त्त्या च श्रीरोदनयोरिव रक्तयोरिव च मुक्तो स्वनिष्ठत्वावगमात् मुक्तदशावस्थितरूपस्य तात्त्विकलत्वात् उपायपरवाक्यादीनां तद्वरुद्धार्थपरत्वायोगात् स्वात्मकत्वेन ब्रह्मनुभवो न युक्त इति अभेदश्रुत्यर्थाक्षेपेण उत्थानम् ।।

राद्धान्ते - दृष्टत्वमस्तु ; ततः किमित्यत्राह - स्वात्मानः इति । सह इति। 4 ब्रह्मपर्यन्तत्वेनानुभवः सहश्रुतेः भोग्यसाहित्यपरत्वादुपपद्यते इत्यर्थः । मुक्तिविषयवाक्येष्वेव अभेददर्शनात् तस्य घटकश्रुतिनिर्वाहितभेदश्रुत्यविरोधित्वात् स्वात्मशरीरकब्रह्मनुभव इति सिद्धान्तः । व्याख्यात्रन्तरमते पूर्वपरवैघटयमाह - ब्रह्मप्रकारतया इति ।। 4 ।।

इति अविभागेन दृष्टत्वाधिकरणम् -2




3. ब्राह्माधिकरणम् ।

ब्राह्मेण जैमिनिरुपन्यासादिभ्यः ।। 4-4-5 ।।

प्रत्यगात्मनः परं ज्योतिरुपसंपद्य ... .... विज्ञानमात्रस्वरूपत्त्वं न संभवतीति जैमिनेर्मतम् ।। 5 ।।

ब्राह्येण जैमिनिरुपन्यासादिभ्यः प्रथमाधिकरणेनास्य सङ्गतिमाह - प्रत्यगात्मनः इति । ब्राह्मत्वं कथमित्यत्राह - अपहतपात्मत्वादयो हि इति । ज्ञानत्वे ज्ञानाद्यश्रयत्वायोगगात् स्वरूपं जडमिति जैमिनेर्मतम् ।। 5 ।।

चिति तन्मात्रेण तदात्मकत्वादित्यौडुलोमिः ।। 4-4-6 ।।

चैतन्यमात्रमेवास्य स्वरूपमिति ... ..... चिति तन्मात्ररूपेणाविर्भाव इत्यौडुलोमेर्मतम् ।। 6 ।।

चिति तन्मात्रेण तदात्मकत्वादित्यौडुलोमिः । तृतीयानिर्देश औपचारिकः । विकारसुख इति । आदि शब्दात् उपेक्षा। सत्यकामत्वम् कादाचात्कसुखराहित्यम् । सत्यसङ्कल्पत्वम् - उपेक्षाराहित्यम् । न ह्युपेक्षकः सत्यसङ्कल्पः इति पूर्वपक्षिणो

भावः ।। 6 ।।

संप्रति भगवात् बादरायणः स्वमतेन सिद्धान्तमाह -

एवमप्युपन्यासात् पूर्वभावादविरोधं बादरायणः ।। 4-4-7 ।।

एवमपि - विज्ञानमात्रस्वरूपत्वप्रतिपादने सत्यपि .... ... सर्वत्र विज्ञानस्वरूपत्वम् ; स्वप्रकाशस्वरूपत्वमित्यर्थः ।। 7 ।।

एवमप्युपन्यासात् पूर्वभावादविरोधं बादरायणः । गुणाष्टकवाक्ये सत्यपि हि तत्पूर्वपक्षितमिति शङ्कायां तात्पर्यमाह - तुल्य इति । एव कारो वाक्यशेषः , न स्वतन्तरः ; अवधारणस्य अवद्यारणीयविशेष साकांक्षत्वात् । तेन बहूनां शिषिणां वाक्यानां न भङ्गो न्याय्यः । अतः एव कारभङ्गेन वाक्यद्वयार्थाविरोधो नेय इत्यर्थः । वस्तुविरोधः - ज्ञानस्य ज्ञानाद्याश्रयत्वायोगः । सः पूर्वमेव परिहतः । अशवयस्य - बाघितु मशक्यस्य ।।

एवमपि इत्यादिवाक्यादेव सुव्यक्तत्वं तदेकदेशदृष्टन्तवाक्येनोपपादयति - स यथा इति । दार्ष्टान्तिकेऽप्यविरोधमाह - न चैवम् इति । दृष्टान्तवाक्येऽप्यविरोधः कथमित्यत्राह - यथा इति । दृष्टान्तवाक्यगतावधारणस्य कोऽर्थः , कस्तत्रोपजीव्यांश इत्यत्राह - इदमत्र वाक्य इति । विज्ञानस्वरूपत्वं विवृणोति - स्वप्रकाश इति ।। 7 ।।

इति ब्राह्माधिकरणम् - 3




4. सङ्कल्पाधिकरणम् ।।

सङ्कल्पादेव तच्छØतेः ।। 4-4-8 ।।

मुक्तः परं ब्रह्मोपसंपद्य ... .... विज्ञानघन एव इतिवत् व्यवस्थापनं क्रियते ।। 8 ।।

सङ्कल्पादेव तच्छØतेः । सङ्गतिमाह - मुक्त इति । प्रयत्र शब्द सङ्कल्पव्यतिरिक्तव्यापारपरः । एव कारः अयोगव्यवच्छेदकः इति पूर्वपक्षः ।

राद्धान्ते - सङ्कोचकाभावात् अन्ययोगमपि व्यवच्छिनत्ति इत्यभिप्रायः ।।

अत एव चानन्याधिपतिः ।। 4-4-9 ।।

यतो मुक्तः सत्यसङ्कल्पः , अत एव .... .... अत एव स स्वराट् भवति इत्युच्यते ।। 9 ।।

अत एव चानन्याधिपतिः । सत्यसङ्कल्पहेतुकं गुणान्तरमिहोक्तम् । अनन्याधिपतिः - परमात्मव्यतिरिक्तं प्रति न परतन्त्र इति भावः , अन्यथा अनन्य शब्दवैयर्थ्यात् । अर्थणाह - अत एव इति ।।

इति सङ्कल्पाधिकरणम् - 4




5. अभावाधिकरणम् ।।

अभावं बादरिराह ह्येवम् ।। 4-4-10 ।।

किं मुक्तस्य देहेन्द्रियाणि न सन्ति ... .... इति मुक्तस्या शरीरत्वं ह्याह श्रुतिः ।। 10 ।।

अभावं बादरिराह ह्योवम् । सङ्गतिर्विचारेण स्फुटा ।। 10 ।।

भावं जैमिनिर्विकल्पामननात् ।। 4-4-11 ।।

मुक्तस्य शरीरेन्द्रियभावं जैमिनिः ..... .... तदेव हि शरीरं प्रियाप्रयहेतुः ।। 11 ।।

भावं जैमिनिर्विकल्पामननात् । अशरीरत्वेऽपि प्रियाप्रिययोः कर्ममूलत्वात् कर्मारब्धदेहनिषेध इत्यर्थः ।। 11 ।।

भगवांस्तु बादरायणः स्वमतेन सिद्धान्तमाह -

द्वारशाहवदुभयविधं बादरायणोऽतः ।। 4-4-12 ।।

सङ्कल्पादेव इत्येतदतःशब्देन ... .... उपैतियजतिचोदनाभ्यां सङ्कल्पभेदेन सत्रमहीनं च भवति ।। 12 ।।

द्वादशाहवदुभयविधं बादरायणोऽतः उपैर्तियजतिचोदनाभ्याम् । यजमानबहुत्वैकत्वाभ्यां च सत्रमहीनं च द्वादशाहं तद्वदित्यर्थः ।। 12 ।।

यदा शरीराद्युपकरणवत्त्वम् ... ....

तन्वभावे सन्ध्यवदुपपत्तेः ।। 4-4-13 ।।

स्वेनैंव सृष्टतनुप्रभृत्युपकरणाभावे ... ... लीलाप्रवृत्तेनेश्वरेण सृष्टैः पितृलोकादिभिर्लिलारसं भुङ्क्ते ।। 13 ।।

अनन्तरसूत्रं सङ्गमयति - यदा इति । तन्वभावे सन्ध्यवदुपपत्तेः । परमपुरुषसृष्टैः - अद्वारकसृष्टैः ।। 13 ।।

भावो जाग्रद्वत् ।। 4-4-14 ।।

स्वसङ्कल्पादेव सृष्टतनुप्रभृति .... .... स्वपितृलोकादिकं स्वयमेव सृजन्तीति सर्वमुपपन्नम् ।। 14 ।।

भावे जाग्रद्वत् । मुक्तस्य पित्रादिसर्गेण , ब्रह्मणि भोग्यतावैकल्यम् , अस्यान्यपरत्वं , पित्रादीच्छायाः कर्महेतुकत्वं च परिहान् सद्वारकाद्वारकपित्रादिसृष्टेः तल्लीलान्तर्गतत्वमाह - परमपुरुषोऽपि इति ।। 14 ।।

ननु - आत्मा अमुपरिमाण इत्युक्तम् ... ....

प्रदीपवदावेशस्तथा हि दर्शयति ।। 4-4-15 ।।

यथा प्रदीपस्यैकस्यैकस्मिन् देशे .... .... अमुक्तस्य कर्मं नियामकम्। मुक्तस्य तु स्वेच्छेति विशेषः ।। 15 ।।

अनन्तरसूत्रशङ्कामाह - ननु इति । प्रदीपवदावेशस्तथा हि दर्शयति । तर्हि ज्ञानेन वस्त्वन्तराण्यप्यधितिष्ठेदित्यत्राह - इत्यान् इति । आत्माभिमानानुगुण्यम् - प्रवर्तकत्वशक्तिवैशिष्ट्यम् । शरीरं प्रेर्यम् । इदमिति ग्रहणानुगुणत्वम् - प्रकाशकत्वशक्तिमात्रान्वितत्वम् । धर्मेण अ#ेनेकत्रव्याप्तिविषया श्रुतिः । सौभर्यादिभ्यो मुक्तस्य को भेदः ? अनेकदेहाधिष्ठानक्षमश्चेत् पूर्वावस्थायामपि करोतु इत्यत्राह - अमुक्तस्य इति

।। 15 ।।

ननु - परं ब्रह्म प्राप्तस्यान्तरबाह्यज्ञानलोपं .... .....

स्वाप्ययसंपत्त्योरन्यतरापेक्षमाविष्कृतं हि ।। 4-4-16 ।।

नेदं वचनं मुक्तविषयम् .... .... वचनं स्वाप्ययसंपत्त्योरन्य तरापेक्षम् ।। 16 ।।

अनन्तरस्य शङ्कामाह - ननु इति । स्वाप्ययसंपत्त्योरन्यतरापेक्षमाविष्कृतं हि । सता सोम्य इति ब्रह्मसंपत्तेः प्रसिद्धत्वात् , उत्क्रान्तौ ब्रह्मसंपत्तिवाक्यं दर्शितम् - तेज #ः परस्याम् इति । अस्य मृतिविषयत्वं वाङ्मनसि इत्यादिना ज्ञापितम् । इति

वचनात् विद्येते इत्यन्वयः ।।

सूत्रखडान्तरं व्याचष्टे - सुषुप्ति इति । सता सोम्य तेजः परस्माम् इत्युभयमिहानुसन्धेयम् ।। 16 ।।

इति अभावाधिकरणम् - 5




6. जगद्व्यापारवर्जाधिकरणम् ।।

जगद्व्यापारवर्जं प्रकरणादसन्निहितत्वाच्च ।। 4-4-17 ।।

किं मुक्तस्यैश्वर्यं जगत्सृष्ट्यादि परमपुरुषासाधारणं ... ... मुक्तस्य सन्निधानमस्ति , येन जगद्व्यापारस्तस्यापि स्यात् ।। 17 ।।

जगद्व्यापारवर्जं प्रकरणादसन्निहितत्वाच्च । जगत्सृष्ट्यादि सर्वेश्वरत्वम् इति । ईश्वरत्वप्रकारो हि सृष्ट्यादिः । अत एवमुक्तम् । सत्यसङ्कल्पताविचाररूपत्वात् सङ्गतिः ।।

राद्धान्ते - निर्व्याज शब्दो यथावस्थितपरः । कन्या मनः , प्रकाशकत्वात् । कनतिर्हि दीप्त्यर्थः । सौत्रहेतुद्वयेन ब्रह्मलक्षणस्य कारणत्वस्य अव्याप्त्यतिव्याप्तिव्युदासः ।। 17 ।।

प्रत्यक्षोपदेशान्नेति चेन्नाऽऽधिकारिकमण्डलस्थोक्तेः ।। 4-4-18 ।।

स स्वराड् भवति तस्य सर्वेषु लेकेषु ... .... ... अनुभवतीत्यनेन वाक्येनोच्यते ; न जगद्व्यापारः ।। 18 ।।

परप्रकरणे जगद्व्यापारोक्तिर्मुक्तस्य मा भूत् , स्वप्रकरणे त्वस्तीत्यत्राह - प्रत्यक्षोपदेशान्नेति चेन्नाऽऽधिकारिकमण्डलस्थोक्तेः । अकर्मवश्यस्व कथं ब्रह्मानुभवव्यतिरिक्तापेक्षेत्यत्राह - अकर्मप्रतिहत इति । सूत्रार्यं निगमयति - तदेवम् इति ।। 18 ।।

यदि संसारिवत् मुक्तोऽपि ... ...

विकारावर्ति च तथा हि स्थितिमाह - ।। 4-4-19 ।।

विकारे - जन्मादिके न वर्तते इति ... ... कामचारः इत्यादिनोच्यते ; न मुक्तस्य जगद्व्यापारः ।। 19 ।।

अनन्तरसूत्रमवतारयति - यदि इति । अनित्यभोगत्वशङ्का परिह्नियते -

विकारावर्ति च तथा हि स्थितिमाह - विकारवर्ति । विकाराः . स्पष्टम् । अनुभवतु , ततः किमित्यत्राह - तद्विभूति इति । तथा हि इति व्याख्येयम् । तद्व्याख्यानमुखेन ब्रह्मानुभवितृत्वे मानं दर्शितम् । विभूतेस्तदन्तर्भावे मानं दर्शयति - तस्मिन् इति । फलितमाह - अतः इति ।। 19 ।।

दर्शयतश्चैवं प्रत्यक्षानुमाने ।। 4-4-20 ।।

अस्य प्रत्यगात्मनो मुक्तस्य ... ... सत्यसङ्कल्पत्वं परमपुरुषसाम्यं च जगद्व्यापारवर्जम् ।। 20 ।।

परविषयाणि नियन्तृत्वादिपरवाक्यान्यपि भोगपराणि स्युः । न चेत् जीवविषयाण्यपि नियन्तृत्वादिपराणि स्युरित्यत्राह - - दर्शयतश्चैवं प्रत्यक्षानुमाने। भीषाऽस्मात् इत्यादि । जीवविषयवाक्यानामिव अन्यनिर्वाहो न शक्यते इति भावः । एष सर्वेश्वरः इत्यादि । असङ्कोचात् मुक्तस्य च नियाम्यत्वसिद्धिरिति भावः । मुक्तस्य विशेषतो नियाम्यत्वं दर्शयति - तथा इति।
ब्रह्म - जीवः । अमृतं - मोक्षः । शाश्वत धर्मः - ज्ञानम् । सुखम् - आनन्दः ।।

अन्याधीनत्वनित्यत्वविरोधमाशङ्क्य परिहरति - यद्यपि इत्यादिना । तस्य - अपहतपात्मत्वादे #ः , तथाविधत्वम् - स्वाभाविकत्वम् । तस्य - प्रत्यगात्मनः तदायत्तताम् उपपादयतिं - परमपुरुषस्य इति । न परं मुक्तस्वरूपादि ; अन्यदपि नित्यं वस्तु तदधीनस्वरूपाधिकमित्याह - एवम् इति।।

निरुपाधिकपरशेषं स्वमपरोक्षयतो मुक्तस्य आत्माभिमानाननुगुणत्वात् नियन्तृत्वं प्रतिकूलमिति नियन्तृत्वाभावो नानान्दवैकल्यावहः ; अपि तु तत्पौष्कल्यावहः । आत्माभिमानानुगुणत्वेन भोग्यव्यवस्था नृपश्वादिषु दृष्टा

।। 20 ।।

भोगमात्रसाम्यलिङ्गाच्च ।। 4-4-21 ।।

ब्रह्मयाथात्म्यानुभवरूपभोगमात्रे मुक्तस्य ... .... श्रुत्यानुगुण्येन वर्णनीयमिति जगद्व्यापारवर्जमेव मुक्तैश्वर्यम् ।। 21 ।।

भोगमात्रसाभ्यलिङ्गाच्च । पूर्वसूत्रे आनन्दयाति सर्वमिदं प्रशास्ति इत्यनन्यथासिद्धवचनविरोधात् उपादनतानुपपत्त्यादियुक्तिविरोधाच्च साम्यसत्यसङ्कल्पत्वश्रुत्योः सङ्कोचयितव्यत्वुमुक्तं गोबलीवर्दनयात् । इह तु सामान्यतोऽवगतं साम्यं छागपशुनयात् वाक्यान्तरदृष्टभोगलक्षणसाम्ये पर्यवस्येत्

नियाम्यत्वादिश्रुत्यानुगुण्याच्चेत्युक्तम् । अधिकरणार्थमुपसंहरति अतः इति

।। 21 ।।

यदि परमपुरुषायत्ते मुक्तैश्वर्यं ... ....

अनावृत्तिः शब्दादनावृत्तिः शब्दात् ।। 4-4-22 ।।

यथा निखिलहेयप्रत्यनीककल्याणैकतानो ... ... वासुदेवः सर्वमिति स महात्मा सुर्दुर्लभः इति । सूत्राभ्यासः शास्त्रपरिसमाप्तिं द्योतयति । इति सर्वं समञ्जसम् ।। 22 ।।

इति जगद्व्यापारवर्जाधिकरणम् - 6




इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये

चतुर्थस्याध्यायस्य चतुर्थः पादः ।।

।। समाप्तश्चाध्यायः ।।

शास्त्रं च परिसमाप्तम् ।।




अनन्तरसूत्रशङ्कामवतारयति - यदि इति । अनावृत्तिः शब्दादनावृत्तिः शब्दात् । भगवता मुक्तस्यापरित्याज्यत्वोपपादकतया तस्य ब्रह्मानुभवजिहासानुदयज्ञापकतया मानसिद्धत्वे दृष्टान्ततया बेयप्रत्यनीकत्वा दिगुणोक्तिः । ऐच्छपितृलोकादिव्यावृत्त्यर्थं दुःखालयम् इत्याद्युपात्तम् । अतः कर्मकृतावृत्तिः निषिद्ध्यते; न पुनः इमान् लोकान् इत्युपनिषदवगत सञ्चारः ।।

फदाहृतमानस्य अनुग्राहकमाह - न च इत्यादिना । पुरुषान्तरेण वा स्वेच्छया वा कर्मणा वा भगवता वा निवृत्तिः । तत्र प्रथमः कल्पः समाभ्यधिकराहित्यादीश्वरस्य निरस्तः । न चोच्छिन्न इत्यादिना द्वितीय तृतीयशिरसी प्रत्युक्ते; चेतनस्य निरवधिकानन्दजिहासानुपपत्तेः , कर्मणः स्वासनस्यापुनरङ्कुरविनष्टत्वाच्च । चतुर्थं प्रतिक्षिपति - न च परमरुपुषः इति । ज्ञानिनोऽत्यर्थप्रियत्वहेतुकस्य नावर्तयामीति सङ्कप्लस्य असत्यत्व प्रसङ्गाच्च न भगवदिच्छया निवृत्तिशङ्केत्यर्थः ।।

इति सर्वं समञ्जसम् । सर्व शब्देन भेदश्रुत्यभेदश्रुतिघटकश्रुतिरूपगुणादि विधिनिषेधकवाक्यप्रत्यक्षादिप्रमाणानुदाहृतश्रुतिस्मृतीतिहासपुराणवचन -

तदनुग्राहकतर्कजातं विवक्षितम् । इति शब्दः अखिलभुवन इत्याद्युक्ताशेषार्थपरामर्शी । तेषां सर्वेषामनया दिशा सामञ्जस्यं द्रष्टव्यम् । एतद्विरुद्धमान तर्कपरिहारश्वोक्तया दिशा नेयः । मितगम्भीरे भाष्ये सर्वं गर्भितमनुसन्धेयम् । तदवगाहमानैः स्वपक्षस्थापनपरपक्षप्रतितक्षेपौ सुकरौ इत्येतदभिप्रायेण इति सर्वं समञ्जसम् इत्युक्तम् ।। 22 । ।

इति श्रीहरितकुलतिलकवाग्विजयिसूनुना श्रीरङ्गराजदिव्याज्ञालब्धवेदव्यासापर -

नामधेयेन श्रीमद्वरदराजार्यपादसेवासमधिगत श्रीभगवद्रामानुजविरचित -

शारीरकमीमांसाभाष्यहृदयेन श्रीसुदर्शनसूरिणा विलिखितायां

श्रुतप्रदीपिकायां चतुर्थस्याध्यायस्य चतुर्थः पादः ।।

3समाप्तश्चाधयायः । शास्त्रं च समाप्तम् ।।

हरिः ओ ।।

"https://sa.wikisource.org/w/index.php?title=श्रुतप्रदीपिका&oldid=402841" इत्यस्माद् प्रतिप्राप्तम्