श्र्यङ्ककाव्यम्
कृष्णकौरमिश्रः
१९३५

श्रयङ्कम् ।

प्रथमः सर्गः।

अमृतसरोवर्णनम् ।

श्रीमन्नानकमङ्गदं ह्यमरदासं रामदासार्जुनौ
गोविन्दं हरिपूर्वकं हरि च रायं श्रीहरिकृष्णकम् ।
तेगादिं च बहादरं नमत भो गोविन्दसिंहं भुवि
जातान् भक्तहितान् महोदययुतान् खक्ष्मावतारान् कलौ ॥१॥
पुण्यस्थानविशेषकारणतया श्रीरामदासेन यद्
ज्ञातं सन्निरमायि सेवकजनस्वान्तैकशुद्धिप्रदम् ।
तीर्थं दर्शनतः पुमर्थमखिलं सेवानुरूपं दद-
न्नाम्ना ख्यातमिहामृतं सर इति प्रोत्फुल्लपुण्याम्बुजम् ।। २ ।।
यत्तीरे प्रमुखं स्थलं विजयतेऽकालैकनिष्ठावतां
नित्यं कीर्तनरागपुस्तकवचो गोविन्दचर्चायुतम् ।
निःश्यानं जलदैकलेखनपरं यत्रौत्तरे दिक्तटे
पूर्वे कल्पमहीरुहोपवनकं यत्साधुसङ्घान्वितम् ॥ ३ ॥
यद्दचे रणशूरयोधसमुदायस्थानशोभावहं
तारासिंहसुजानसिंहवसतिस्त्रीतीर्थभूषायुतम् ।

यद्भूमिहिमपर्वतेन्दुशरदाभास्वच्छकीर्तिः स्थिरा
सोपानं मणिकट्टियोज्वलचमत्कारकशोमाकरम् ॥ ४ ॥
वेदीज्ञानिशहीदनागविमलाकालीयमल्लात्पजैः (१)
पप्रैरष्टभिरन्वितं सरसिजे श्रीमत्सुधाख्यं सरः ।
मध्ये कर्णिकमुज्वलं विजयते सद्ग्रन्थजीशोभितम्
श्रीमन्नानकरामदासगुरुगोविन्दप्रतिष्ठापितम् ॥ ५ ॥
जस्सासिंहसुभागसिंहजयसिंहाकालसिंहः स्फुरन्
भण्डासिंहगुलाबसिंहकहकीकत्सिंहवाधेश्वरः ।
तारासिंहखुशालसिंहकबघेलासिंहसप्रेमसिंहः
सिंहो गुरुवपश एष चढतः सिंहो महासिंहयुक्तः ॥ ६ ॥
एष्वेवामरसिंह इत्थममलैः पत्रैः परीवारयुक्
षड्भुसंख्यकया युतैहिरितो दिकोणगैर्दैवतैः ।
पूजायंत्रमिवैश्वरं सुकलितं वामेक्षणासुन्दरम्
लोके वै कलिकालभीतिहरणं सद्भक्तिसेवावताम् ।। ७ ।।
यबीरं सुविलोकितं बहुजतुःकालुष्पहृत् पुएपदं
स्पृष्टं चित्तविशोधनं निजमतेः स्वच्छत्वसत्व
स्नातं सक्किरं स्वचिदशः करमरकर शुभम्

लोकानां मिषतश्चतुर्धरतया कृत्वा स्थिरान् स्वात्मनो
ज्ञातान् लोमतया गुरुः परमविच्छ्रीरामदासः प्रभुः ॥१०॥

गङ्गाद्वारसमं समस्तभुवनस्थानं चतुर्भिर्युतं
द्वारैः पूर्वयमाम्बुपोत्तरगतैः सन्तोषशीलान्वितैः ।
श्रीमद्भक्तिदयादिसाधनयुतैः सोपानपङ्क्युज्ज्वलैः
स्वर्गं द्वारमिवामरावतिकया पुर्या समालिङ्गितम् ॥ ११ ॥

तेषां ब्रह्म सनातनं सुविमलं शुद्धं सुसूक्ष्मं परं
तत्सर्वत्र विभात्यपीह रहिताः शान्त्यादिभिः साधनैः ।
ये नित्यं कलिकालमध्यजनितास्तत्कीर्तने तत्परा
दानाधीतिशुभेष्टिपूर्तरहिता अप्यत्र वासाहताः ॥ १२ ॥

तुम्बीवेणुमृदङ्गझमरझणझाङ्कारवीणारवैः
संयुक्ता निपुणाः कवित्वकरणे ये गानरताः सदा ।
द्युम्नाश्चारणसूतमागधवरा ग्रन्थाग्रतो गानतः
पूज्यत्वं गमिता अहोऽतिमहिमा कस्तं न सेवेत् सुधीः ॥१३॥

स्त्रीहूणान्ध्रपुलिन्दझीवरनटम्लेच्छादयो जातितो
नीचा अप्यनुरागभक्तिवशतः सिद्धिद्वयीं प्रापिताः ।
हे सन्तः शृणुत प्रभोर्गुणगणनामं सदा गायत
वेदान्तोपनिषत्पुराणपठितं श्रीनानकाद्यैः पुनः ॥ १४ ॥

एषा श्लोकचतुर्दशीविरचिता गोविन्दसिंहाग्रतः
कृत्वोपायनमेतदेव विदुषा कोरेण संरक्षिता ।
भारद्वाजसगोत्रभिङणकुले जातेन सम्प्रेरिते-
नोमादेवंतया हृदिस्थपदया सुप्रीतया मानसे ॥ १५ ॥

श्रीरामादिकदासजीसुहृदयाभिप्रायमेवं मया

संलक्ष्य अतिभूमिमात्रकमिता ज्ञेयेत्थकं पण्डितैः ।
एषा पञ्चदशी सदा भगवती वर्वर्ति सर्वोपरि
मीमांसादिकमत्र धर्मसहितं विद्यास्थलं भासते ॥ १६ ॥

इति श्रीकृष्णकौरमिश्र कृते श्रवद्वे काव्ये अमृत-

सरोवर्णनं नाम प्रथमः सर्गः ॥ १ ॥

द्वितीयः सर्गः।

रामदासपुरवर्णनम्।

यत्पूर्वे खलु पाशनाशनविधौ दक्षा विपाशा नदी
यस्यरावतिका लवाभिधपुरीभूपा नदी पश्चिमे ।
यदक्षे तरणान्ततारणतलं कुष्ठादिरुङ्नाशनं
कौर्वेश्या शुभदेविकासुरनदीतुल्या महैनोपहा ॥ १ ॥

यत्पार्श्वे ननु रामदासनगरं तन्नामतः शोभितं
यत्सामन्ततया विभान्त्यवसथा भूपैः कृताः सर्वतः ।
आदौ रामगढो हरीहरिपुरं झण्डापुरं लोहपू-
र्वार्धशोलहणेशगुज्जरपुरं शोभेशपू राजितम् ॥ २ ॥

 जयसिंहहकीकतभागपुरं
 चढतार्धमृगाधिपकर्मपुरम् ।
 अतिभूमिपुरीपरिवारयुतं
 विजयेत सदा शुभलोकधरम् ॥३॥

सालोधर्मदयालुकाटुनयुता शाहीटुणीयादिका
धर्मस्थापनशालिका अतिथिलोकाभ्यागतानां हिताः ।


  • पुराणन्यायमीमांसा धर्मशास्त्राङ्गमिश्रिताः।
वेदाः स्थानानि विद्याया धर्मस्य च चतुर्दश ॥

ईदृश्यो बहवो विभान्ति खलु वस्तीरामसद्भाविता
यस्मिन् वै सुथरेप्रभृत्यवधृताः सर्वा जगद्रक्षकाः ॥४॥

श्रीनारायणकल्पितं मृतिजितो लिङ्गं शिवोपासनां
हार्दान्धत्वहरं सुशीतलकरं श्रीशीतलामन्दिरम् ।
यस्मिन् दुर्गतडागमन्दिरवृतं लाक्षालयालङ्कृतं
पुंस्त्रीवालकपामरादिषु फलं सेवानुरूपं ददत् ।।५।।

यस्मिन् पश्चसरोऽस्ति मुख्यममृतं तद्वद्विवेक सरः
सन्तोषं कमलाभिधं तदपरं रामाभिधानं सरः ।
सालोटुण्डकलक्ष्मणप्रियतमश्रीपञ्चतीर्थीलखा-
भाईत्यादिककल्पितानि बहुशस्तीर्थानि भान्ति क्षितौ ॥६॥

नित्यं भाति सुदर्शनीयममलं सद्गोपुरं राजते
ह्यट्टालादिगणं विमानसदृशं रथ्याशतैरन्वितम् ।
लोकानां सदनानि चित्रिततराण्यालक्ष्यचित्तं स्फुर-
न्नाकेऽपीदृशमेव देवरचितं कौतूहलं सौख्यदम् ।।७।।

वीणावादनतत्पराः क्व च नरागानैकसक्काः क्वचित्
षडादिस्वरसप्तकं पृथुतया विन्यासयन्तो बलात् ।
मार्दङ्गध्वनिकांसतालमुरजं संस्तानयन्तो रवैः
श्रीरामस्य पदारविन्दविमलं धन्याः स्तुवन्त्यत्र हि ॥ ८ ॥

यत्र ज्ञानविरागभक्तिविमलं ग्रन्थैकसन्दर्भित
भाषासंस्कृतिसत्कवित्वरचितं संगुप्तभावार्थकम् ।
गायन्त्येव दिवानिशं मुहुरहो ध्यानकनिष्ठारता-
स्ते धन्याः कलिवालपाशहरणाः सन्तारयन्ता जनान् ॥ ६॥

मद्यद्यूतपलादिवारवनितासेवकमूर्छाकुला
दुस्सङ्गे निरताः स्वजन्मविमलं सम्मोषयन्तो हठात् ।

अम्वद्रव्यविलासिनीतिपरद्रोहे रताः पामरा
जन्मज्ञातिकुलाभिमानमुचितं सन्धृलयन्तः क्वचित् ।। १० ॥

आपूर्वोत्तरदक्षवारुणदिशं विक्रेतुकामा नराः
पट्टनाममहाधिकाम्बरगणं नीलं मणीन मौनिकम् ।
पर्यायान्त्यमृतं सरोऽभिलपितं लाभं समायान्ति त
ईदृक् पट्टनमनदेव रचितं सर्वोपरि भ्राजते ॥ ११ ॥

गैखीयुक्तसहस्रगोशकटचक्रीवन्त आयान्ति ये
गैरीसैन्धवसूतचन्दनहरिद्रापूरिताः प्रेरिताः ।
अबायानवणिग्जनधनविवृद्धप्सायुतस्ते सदा
तद्व्यव्यतिहारतः पुनरिमे गच्छन्ति काष्ठां खकाम् ।। १२ ।।

ये पूर्वं खलु दीनतामुपगता गुर्वाश्रयात् सङ्गता
अवस्था महनीयभावविधृताः नित्यां लभन्ते जनाः।
लक्षाधीशपरम्परामुपसृता द्रव्ययर्विक्रयै-
र्हुण्डीलेखनतो धनाभिगमनै माधुपायैस्तु ते ॥ १३ ॥

नित्यं वैष्णवविप्रपूजनरताः क्षीरादिभिर्भोजनः
द्राक्षाखण्डघृतप्लुतंच हवनर्ये कोशिकीपूजकाः ।
देवाराधनरुद्रपूजनहनूमड्डुपिढपूजारता-
स्ते धान्यैर्वसुभिर्भूता बहु यथा माङ्गल्ययुक्ताः सदा ॥ १४ ॥

 गोधूममेदोघृतखण्डतुल्यैः
 सुपाचितं चापि कटाहमध्ये ।
 मिष्टान्नमेतद्धि कडाहसंक्षं
 सर्वार्थसिद्धिप्रदमेव पूज्यम् ।। १५ ।।

शिप्याह्वानपुरःसरं करयुगं सम्मेलयित्वा पुनः
कृत्वा ग्रन्धवचः श्रुति च नमनं समिलित्वा पुनः ।

सर्वेभ्यः प्रतिपादयन्ति समतारीत्या प्रसादाङ्कितः
श्रीब्रह्मादिपिपीलिकान्ततनवस्तृप्तास्तु यद्भोजने ॥ १६ ॥

इति श्रीकृष्णकौरमिश्रकृते श्रयङ्के काव्ये

रामदासपुरवर्णनं नाम द्वितीयः सर्गः।

तृतीयः सर्गः।
वसन्तऋतुहोलिकावर्णनम्।

वज्रेशीभवने घृतप्लवनकं देव्या जनैः कार्यते
तद्वै मण्डलमाज्यकं कुसुमसन्माल्यादिपूजायुतम् ।
यद्दृष्ट्वा बहुपुण्यलाभ ऋतुषटु वै लभेत् सम्पदो
नानाकार्यकरं प्रसादजननं देव्या इदं भूषणम् ॥ १ ॥

माघे श्रुक्लशरे दिने भगवती प्रादुर्बभूवाग्रतो
लोके मङ्गलमातनोति दिवसं तत्पुण्यमुत्साहदम् ।
कृष्णेन व्रजभूषु गोपवनितायुक्तेन रासो महा-
नारब्धः श्रवणेन यस्य कलुषं नश्येद्धि तद्वर्ण्यते ॥ २॥

श्रीमद्रासाभिलाषी ब्रजयुवतिजनो मञ्जुलत्तौ वसन्ते
तस्यादौ माघशुक्ले शुभमदनशरोद्दीपितायां तिथौ वै ।
मन्दं क्रीडां प्रचक्रे मृदुमुरजस्वैर्घोषितां मण्डलीका-
मन्योन्यालापशब्दाचकितखगगति वासुदेवेन सार्धम् ॥ ३॥

यत्र भ्राजिष्णुचूर्णानवरतगतिभिश्छन्नभूम्यन्तरिक्षं
सन्ध्याम्भोदावलीभावदरुणरुचिभिः कौतुकं दर्शनीयम् ।
ब्रह्माद्यैः सगृहीतं ब्रजभुवनगतीपबालैः सुरक्लै-
रान्दोलद्भिर्जलौघैः सुरभिरसयुतैरार्द्रिताशेषलोकम् ॥ ४ ॥

उत्फुल्लत्सर्षपालीवसनरुचिमनङ्गास्पदं कामनीनां
शीर्षे सारिपिच्छे मृगमदतिलकं पूरयन्तं सुधाभिः ।
वंशीरन्ध्रात् व्रजस्त्रीकरगतजलयन्त्रादिभिः सिच्यमानं
गायन्तं पञ्चमं रागममलमघहं ब्रह्मरूपं नतोऽसि ॥५॥

श्रोताभिरामशब्दैर्मुरजमुखभर्तितः स्त्रीकदम्बो
मित्रेण ब्रह्मणानुग्रथितकुसुममालोऽपि पूज्येन देवैः ।
स्त्रीभावनात्तगवस्त्वरितविरहितः स्वामिना चेन्द्रियाणां
वृन्दारण्ये सुकूले तपनदुहितजे ब्रीडितः सम्मुमोह ।। ६ ।।

चक्षुःश्रोत्रोन्ववोचन्मम जननमभूभृमिरन्ध्र धिगेतत्
स्वर्गाधीशं स्वरूपेऽप्यवतरणपरेऽनेकमन्युर्बभूव ।
भूमीसंस्थो जनोऽयं मम जनिसफलत्वं जगादेति हृष्टो
दृष्ट्वा श्रीकृष्णरासं ब्रजभुविरचितं गोपिकागोपवृन्दैः ॥ ७ ॥

अस्तं याते विवस्वत्यरुणपनपटाच्छादिते शैशिरत्तों
पूर्वाशां प्रोद्यतीन्दौ सजलजलदसङ्घावृते स्पष्टतारे ।
सन्ध्याकाले समीरे लघु लघु नुदति प्रेयसी वा प्रियार्थे
कस्या नोच्छृङ्खलो वै भवति तरलितश्चित्तमातङ्गराजः ॥८॥

राधाया याहि गेहं मननविनतिभिः सान्त्वयस्व प्रियां तां
त्वद्वेशी गीतशब्दाद्विवशितधिषणायाः स्खलन्त्या गृहान्ते ।
नो चेत् क्रुद्धा भवेत् सा क्व तत्सुखततिश्चेति दूत्या स उक्तः
श्रीकृष्णः शीघ्रगामी व्रजसखिसहितः क्रीडनार्थं जगाम ॥६॥

खेखेलैः सञ्चरन् वै शशिमृगशिशुकः स्यन्दनाग्रे निबद्धो
गन्तुं शक्नो न चासीत् क्वणितपदरखाहूतचित्तोऽङ्गनानाम् ।
रासन्तीनां प्रियाश्लिष्टसुभगभुजलतानां लसत्पटीनां
तस्मिन् श्रोतुं प्रवृत्तेष्ट(स )ति शतदिवसा यामिनी सम्बभूव ॥१०॥

काचिद्भर्त्रा निरुद्धा क्षणमपि विरहाद्रुद्धवाता वनान्तम्
गेहाद्याति स्म कृष्णस्मरणवशतया प्राप्तसिद्धयष्टका वै।
तत्रान्दोलत्सखीभिः प्रियहृदयभुजाश्लिष्टकराठी सुकण्ठी
साफल्यं प्राप सेत्थं मधुरिपुमहिमा भो भजध्वं तमीशम् ॥११॥

तन्वी सुप्तप्रबुद्धा श्रुतिगतमधुरा रावसम्मीलिताक्षी
तल्पादुत्थाय गन्तुं कृतनियतमना विस्मृतात्मीयवर्गा ।
श्वश्र्वा सम्यक् निषिद्धा सुतललनमिषेणैव याता क्नान्तं
दृष्ट्वा श्रीकृष्णचन्द्र प्रमुदितहृदयाह्लादिनी सम्प्रवृत्ता ॥ १२ ॥

एवं लोके सुखात्याः सुरभिरसयुतै)लिकायां प्रविष्टा
भैरव्या लिङ्गगुह्यप्रकथननिरता मोहकामैकसक्ताः ।
हम्मीराद्यैः सुगन्धैः क्षितिजलदसमारब्धभोगैर्वृणाना
रौप्यस्वर्णारचौरचितभुवनयन्त्रा निषिक्ता जलौघैः ॥ १३ ॥

वेश्याभ्रकुंशनृत्यप्रमुदितमनसः कुङ्कुमारकवस्त्रा-
स्ताले नृत्ये च वाद्ये बहुतरनिपुणा मद्यपानादिसक्ताः ।
गायन्तो गापयन्तो विषयविवलिता हास्यलीलानुपक्ता
जातप्रीतौ धनानां वितरणचतुरा घुम्नभट्टादिकानाम् ॥१४॥

लोके माङ्गल्ययुक्ता शुभभवनगता मित्रवृन्दोपविष्टाः
कर्पूरोशीरसान्द्रमिजलमिलितैरम्बुयन्त्रैयषिञ्चन् ।
अन्योन्यास्येषु चूर्णैर्वहुसुभगतया मर्दयन्तो हमीरं
ढक्काभेरीमृदङ्गध्वनियुतनटनैर्नर्त्तनैलासयन्तः ।। १५ ।।

पूर्व येऽत्यन्तहीना धनरहिततया सङ्गताः श्रीगुरूणां
पादाम्भोज निविष्टा भ्रमरगण इव प्राप्तमाधुर्यरासाः ।

  • प्रीतौ जातायां सत्याम् ।

ते लोके कीर्तिमन्तो धननिकरयुताः प्राप्तमाहात्म्ययोगा
दातृख्यात्येकनिष्ठा इह परभवने प्रापितानन्दयूगाः ॥ १६ ॥

इति श्रीकृष्णकौरमिश्रकृते श्रय काव्ये वसन्तऋतुहोलिकावर्णनं नाम

सर्गस्तृतीयः समाप्तः ॥ ३॥

चतुर्थः सर्गः।
ग्रीष्मादिऋतुषट्कवर्णनम् ।

गीष्मर्त्तौ तापतप्ता अमृतसरसिगाः खेलयन्तो जलौघैः
तापान् सम्मार्जयन्तो व्यजनकुसुमवातैः सुशीतैबहिष्ठाः ।
तक्रैर्दुग्धैः सिताक्तैः सवनमुपगतैः सेवितैः शान्तचित्ता
धन्यास्ते सम्पदाढ्याः समरिचविजयासेवनाद्यैः प्रसन्नाः॥१॥

ज्येष्ठे घट्यम्बुदानैर्ऋतविधिविहितैः शर्करापानसक्ताः
देवान् पित्रादियुक्ताँस्तनुहिमजलैस्तर्पयन्तः सुतृप्ताः ।
एकादश्यां फलादीन् मधुररसयुतान् भक्षयन्तः प्रदाय
द्वादश्यां विप्रसाधून् मधुरघृतपयोभोजिनः कुर्वते च ॥२॥

आषाढे शरदालये वसनतो धर्मातपो वार्यते
नित्यं व्याकुलतामुपैति हृदयं पुंसां विना येन वै ।
तद्दुःखं भजनानुरागवशगैः किञ्चिन्न विज्ञायते
वाचा कीर्तनकारकैः करयुगैः सत्पादसेवादरैः ॥ ३ ॥

वर्षर्त्तौ घनगर्जनं निपतनं वृष्टेमहामङ्गलं
मार्गाणां परिरोधनं सुबहुशो निम्नोन्नतत्त्वापहम् ।
एकत्रीकरणं सतां बहुतिथं तत्सत्रिणां सत्रदं
विद्युद्रोहितकार्मुकादिकरकः सम्पादने जायते ॥ ४ ॥

शालीनां नवरोपणं विकसनं शक्रेण गुप्तस्य हि
खद्योतालिपरम्पराविजननं खद्योतनच्छादनम् ।
कामानामनुसारतो हरिशिवां वा पूजनं कार्यते
विप्राणां प्रतिपूजनं च नियतं यन्मुक्तिमुक्तिप्रदम् ॥ ५ ॥

यं दृष्ट्वा बहुचिन्तयन्ति रहिता योषा रुदन्त्यो वणिग्
लोकानामतिगर्जने न भयदं विद्युत् समालिङ्गितम् ।
तासां भर्तृसमागमं रचयते मेधः स एवार्थितः
तच्चित्तं करुणार्द्रतामुपनयस्तस्मात् परो नोदयी ॥ ६ ॥

ब्रीहीणां परिपाकता शरदृतौ पुंसं गतो योषितो
गर्मिण्यः खलु राजयन्ति नृपतीच्छारातिविध्वंसने ।
स्वं स्थानं पथिका जलैबहुतरै रुद्धा जिगांसन्ति यच्
चन्द्रस्य प्रतिभेदृशीं मुररिपू रासक्रियां वाञ्च्छति ॥ ७ ॥

सानन्दं बहुपार्षदा विदधतींशक्रीडने ताण्डवे
वादित्रध्वनितुम्बुरध्वनिमृदङ्गावादने तत्पराः।
साहाय्यं प्रतिबिभ्यती भगवती साश्चर्यमालिङ्गति
लोकानां प्रलयेऽतिशङ्कितमना नृत्यत्पति रुन्धति ।। ८ ।।

यत्रादैवतमानुषाटविचरं हृष्यन्ति सर्वे मुहुः
पूजान्नादिपशव्यलाभसुखिताः श्राद्धादिदानादृताः।
लक्ष्मीजागरणं व्रतादिकरणं यत्कार्तिके पुण्यदं
माहात्म्यश्रवणं फलादिबहुलं जागर्ति यन्माधवः ॥ ९॥

शिष्या सिंहजना उदासिविमला गोविन्दसिंहस्य वै
प्रीत्यै भक्तिरताः सुशब्दनिरता गाने तथा श्रावणे ।
सद्ग्रन्थस्य विचारणे विवरणे पाठे महेच्छायुता
धन्यास्ते कलिनिग्रहेऽति निपुणा दानेऽतिथेः पूजने ॥ १० ॥

 हेमन्ते हिमपतनेन पीडितोष्ठा:
 पत्याख्या रजनिमहाविलासतृप्ताः ।
 रात्र्यन्ते विषधरवैरिनादतप्ता
 योषास्तद्विरहभयेन पीडितास्ताः ॥ ११ ॥

राज्यन्ते श्रुतसारिकाशुकरवा वैतालिकद्युम्नगी-
भेर्यादिध्वनिकर्णनेन चकिता गुर्वादिसद्वन्दनम् ।
कुर्वत्या बहुदासिका अपि पतीन् वन्दन्त एवाङ्गना
गार्हस्थ्ये सुखसंयुता इति महापुण्यद्रुमोत्थं फलम् ॥ १२ ॥

माघे पाश्चात्यभागेऽमृतसरसि सदा सम्प्लुता शीततोये
ग्रन्थश्रावैकयुक्ता गुरुकथितपदध्यानगाने रताश्च ।
द्रव्यत्यागेन तुष्टाः सदमरभजनानन्दतृप्ता जना यत्
कारुण्यात् श्रीगुरूणामभयवरदयादानशोभाकराणाम् ॥ १३ ॥

भैरव्या वेशयुक्ताः पटहडमरुकावादिनश्चन्द्रचूर्णै-
लिम्पन्त्योऽन्योन्यमास्ये भडउभडउवादेन सन्तुष्टचित्ताः ।
सन्ध्यानेहस्यतृप्ता बहुतणदहने होलिका दाहयन्तः
सर्वेषां रीतिरेवं प्रतिशरदमहो सर्वलोकाः सुखाड्याः ॥१४॥

सत्याहिंसावादम्भगुरुभजनशौचादिकाभ्यासयुक्ताः
सिंहाः शिष्याः सशस्त्रा रणकृतिनिरता नीचहिंसानुरक्ताः ।
पुत्रस्त्रीभ्रातृदासाननवरतमहो पालयन्ति स्वधान्यै-
रित्थं ये वर्तयन्ते त इह परगताः सौख्यकीर्तीष्टभाजः ॥१५॥

वासन्तीपुष्पमालाचमरविधुवनैर्गन्धधूपप्रदीपै-
रान्दोलन्तं वसन्ते रथकशिपुगतं पूजितं साधुवृन्दैः ।

श्रीगोविन्दं दयालं नयनविषयगं कुर्वते ये जनौघा-
स्ते सर्वे मुक्तिभाजः श्रतऋतुमहिमा पुत्रवखभ्युपेताः ॥१६॥

इति श्रीकृष्णकौरमिश्रकृत श्रयङ्के काव्ये ग्रीष्मादिऋतुषट्कवर्णनं नाम

चतुर्थः सर्गः समाप्तः ॥

पञ्चमः सर्गः।
अमृतसरआह्निककृत्यवर्णनम् ।

स्नात्वा समागत्य नरा नमन्ति
 कुर्वन्ति सव्येन गतिं शुभां च ।
प्रविश्य पश्चाद्भवनं विलोक्य
 स्तुवन्ति साधून् श्रवणप्रवृत्तान् ॥ १॥

परस्परं वाहगुरू ततश्च
 जी दी फते वाक्यमुदाहरन्ति ।
स्थित्वा च तस्मिन् श्रवणं करन्ति (१)
 श्रीग्रन्थजीवाक्समुदायकस्य ॥ २ ॥

वित्तानुसारेण कपर्दिकादि-
 लक्षान्तपूजां दधते सभाग्याः ।
तेषां फलं प्रीतिविशेषभाजां
 मनोनुकूलं भवतीति निष्ठा ।। ३ ।।

कुर्वन्ति दानं च नमन्ति साधून
 पठन्ति वाक्यं गुरुभक्तिनिष्ठम् ।
कलिं विशीर्यन्ति मतिं नयन्ति
 शुभां भजन्ते बहु मानयन्ति ॥ ४ ॥

स्थले स्थले ज्ञानविरागभक्ति-
 श्रद्धादयाकीर्तनसंयुतानाम् ।
नित्यं समाजो बहुधा नराणां
 लोकोपकारैकपरायणानाम् ॥५॥

क्वचिद्बोधनिष्ठा क्वचिद्दाननिष्ठा
 क्वचिद्भक्तिनिष्ठा समाध्येकनिष्ठा ।
क्वचिल्लोकवारतानां विवादो
 गुरोः सृष्टिरेषा विधातुर्नवेव ॥ ६॥

गुरुग्रन्थपाठे श्रुतौ व्याकृतौ च
 रतानामिहायुः शुभं नीयते वै ।
इयं ग्रन्थवृत्तिः प्रवृत्ता जनेषु
 त्रिमार्गेव गङ्गा पुनाति त्रिलोकम् ॥ ७ ॥

कवित्वमग्नाः पठने सुलग्नाः
 केचित् कथाख्यानविधौ प्रपन्नाः ।
ह्रस्वप्लुतोदात्तविचारसक्ता
 गान्धर्वविद्याभ्यसनानुरक्ताः ॥ ८ ॥

मृदङ्गतुम्बीरवकाहलोच्च-
 स्वरैः सुसन्नादितदिक्तटानाम् ।
गीतिक्रियारागविचक्षणानां
 कर्तुः स्तुतिः कः प्रसहेत लोके ॥ ९ ॥

उष्णीषसत्कञ्चुकपट्टवस्त्रा
 नीलाम्बराः खड्गभुशुण्डियुक्ताः।
पश्चास्य शिष्या गुरुभक्तिनम्रा
 अत्र स्थिता वैरविरोधहीनाः ॥१०॥

सदा गुरूणां कृपयाप्तराज्याः
 पदातिहस्त्यश्वरथाग्रशोभाः ।
ग्रामाटवीपर्वतराजधानी-
 भोगैः सुखाया धनमानयुक्ताः ॥ ११ ॥

वणिग्जना अत्र निवासिनो ये
 स्नातुं समायान्त्यतिपुण्यभाजः ।
मनोमिलापादधिकं लभन्ते
 पुत्रवधान्यादिपरत्र सौख्यम् ।। १२ ।।

सन्माल्यवस्नकटकाङ्गदनपुराढ्या
 नीवीनिवन्धनिरता नयनानुरागाः।
स्नातुं गमागमरताः शुभपुत्रयुक्ता
 अत्राङ्गनाः परमहर्षकरा जनानाम् ।। १३ ।।

स्नात्वा धनान्नवसनानि फलानि पुष्पा-
 ण्यादाय लम्बितकरा द्विजतीर्थसत्सु ।
एवं विहारसहिताः अतिकुण्डलाक्ता
 नार्यो भवन्ति धनिनामिव देवदाराः ॥१४॥

यैः पूर्वं बहुदानमानभजनानुष्ठानसेवापरै-
 विप्राः साध्वतिथिप्रवासिशमिभिर्युक्ता सदा पूजकाः ।
गत्वा वर्गमनर्गलं च विधृतं तैः पुण्यशेषेऽधुना
 प्राप्तैरत्र मनोरथादिरचना सम्भुज्यते स्वेच्छया ।। १५ ॥

श्रीकान्तिहृष्टिमतिसन्नतिभूतितुष्टि-
 पुष्टयादिमातृगणपूजितसर्वकामाः ।
श्रीमन्त एव परकीयनिजीयवर्ग-
 रक्षाकरा इह विभान्ति रवीन्दुतुल्याः ॥१६॥

इति श्रीकृष्णकौरमिविरचिते श्रयङ्के काव्ये अमृतसर आह्निककृत्यवर्णनं
नाम सर्गः पञ्चमः समाप्तः ॥

षष्ठः सर्गः।

श्रीनानकाद्यर्जुनान्तानांराज्यादिव्यवहारनिरूपणम्

जातो भोजनराधिपोऽस्ति सुमहान् रायादिकस्तत्पुरं
चातुर्वर्ण्यहितास्पदं च तिलवण्डीनामकं राजते ।
तद्वासी धनधान्यवान् भुजजनिर्वेदी प्रतिष्ठां गतः
कालूनामधरस्तु यस्य सुभगः सूनुः शुभो नानकः ॥१॥

राजर्षेरवतारतामुपगतः पृथ्वीमहामङ्गलो
योगीवाष्टविभूतिमान् प्रकटताहीनः परोक्षप्रियः ।
यः शिष्ये फणिवारितातपकरश्छायानिरोधी तरो-
र्लोकज्ञातमहाविभूतिरपि तत्पित्रा न वै सम्मतः ॥ २ ॥

वाणिज्ये च नियोजितो वसुकरे दत्वोपदिष्टः स्वयं
पित्रैतद्धनमर्जितं शुभकृतो योज्यं त्वया बुद्धितः ।
श्रुत्वैतद्वचनं प्रदृश्य च सतां तन्मण्डलं दत्तवान्
क्रीत्वा धान्यघृतान्नचूर्णममलं कृत्ये शुभे युक्तवान् ॥ ३ ॥

पित्रोक्तः पशुपो भव स्वमहिपीरसञ्चारयन्नाशय-
स्तत्क्षेत्रान्नकणं प्रदर्श्य च पुनः सम्पूरितं पूर्ववत् ।
आश्चर्यं जनयन् स वासकजनं पित्रे पुनः प्रोदितः
सवैराश्रमवासिभिस्तव सुतो योगी महायुद्धिमान् ॥ ४ ॥

पित्रा व्यूढ इतो गृहाश्रममतः पुत्रद्वयं लब्धवान्
श्रीचन्द्रः प्रथमो गुणैरनवमः श्रीमाञ्छशीबाईभाक।
लक्ष्मीदास इति द्वितीय उपमाहीनः सुतोऽभून्महान्
वैराग्यं परमं गर्ती जगति सन्मिथ्याविवेकान्विती ।। ५ ॥

आयुर्वपमिति द्विसप्त रचितं मासेषु सप्ताहकं
कृत्वा राज्यमसण्डितं भुवि जनानुद्वारयन् स्वाश्रयान् ।

श्रीमद्ब्रह्मपराक्रमो हि महलेति ख्यापयन् भक्तितो
ज्ञानं भक्तिविरागयुक्तममलं सम्भाषते भापया ॥ ६ ॥

जातो वै बिहुणेतिजातिविमले क्षात्रे कुले सोऽङ्गदो
भूत्वा राज्यमखण्डितं च शरदां तवादशं मासपट् ।
घस्राणां नवकं चकार सुभगे क्षात्रे कुले लब्धवा-
नुद्वाहं सुतयोर्द्वयं जनितवान् दासू च दातू प्रथम् ॥ ७ ॥

शान्तर्णः पितृदैवतर्पिभजनानन्दं समादर्शयन्
भक्तांस्तारयति स्म सम्प्रचलितः काष्ठां परां भूतले ।
भाषाबन्धनकारकस्तु भगवान् माहात्म्यसंसूचको
मन्दानामधिकारिणां सुगहनं श्रीमत्पदं प्रापयन् ।। ८ ॥

भल्लासंज्ञकवाहुजो हमरदासो वासरग्राम के
वासी राज्यमबाप सो भुवितले श्रीगोंदवाले वसन्।
द्वाविंशं शरदां क्षितिक्षितिमिताहासकं पञ्चक
भक्तान् भक्त्युपदेशतश्च बिमलान् सन्तारयन् भूतले ॥ ९ ॥

क्षत्रज्ञातिकुले विवाहमकरोत् सन्तानसिद्धथै प्रभुः
तस्मात् पुत्रयुगं सुतायुतमभूत्तन्मोहरीमोहनम् ।
भानीसंज्ञकमाशुभूमिसुखदं पित्र्यणसम्मोक्षदं
विप्रज्ञात्यतिथीशपूजनरतः शिक्षन् जनान् सेवकान् ॥१०॥

सोढीजातिरनुत्तमः प्रियहितः श्रीरामदासोऽभवत्
सोऽयं तीर्थमिदं सुधासर इति प्रावयद् भूतले ।
षड्वर्षैकदशाख्यमासदिवसाष्टैकं च राज्यं महत्
कुर्वन्नुद्वहनं सुतत्रयमवापार्जुन्यपृथ्वीश्वरौ ॥ ११ ॥

संसारऋणमोचकं किल महादेवं तृतीयं सुतं
साक्षाच्छम्भुवदेव शोभितमहो कारुण्यपूर्णं पृथुम् ।

लोकानां परदेशनिष्ठितवतां ध्यानात् पुमर्थं ददत्
सोऽयं भाति महीतले पृथुयशाः श्रीरामवत्सुन्दरः ॥ १२ ॥

मर्यादाकरणं जगद्धितकरो भिक्षागृहीतावनिः
पर्यन्तावनिनायकेभ्य इव वै विष्णुर्बलैर्वामनः ।
ग्रामे वासयिता चतुर्जनसमाज सौख्यभाजं सदा
कुर्वन् शिष्यजनस्य भाति हृदये कारुण्यवारां निधिः ॥ १३ ॥

तस्माद्राज्यपदं स्थितं स्वकगणे सोढीजनुर्धारिणि
दत्तं श्रीगुरुणा स्वभक्तिनिरतः स्त्रीणां गणैर्युक्तितः ।
सम्यक् प्रार्थनबोधितेन हि सदा संराजते भूरिशो
यूयं भो नमतेदृशं कुलहितं राजन्यशोभाधरम् ।। १४ ॥

आभात्यर्जुनसंज्ञकः क्षितिपतिः पञ्चस्थलेऽधिष्ठित
एकाहो नवमासिकं जिनशरद्राज्यं चकारातः ।
पुत्रं प्राप महोदयं च हरिगोविन्दाभिधानं सुधी-
र्यस्मिन् वाहगुरूमनुप्रकटितो नाम्नि स्थितस्तं नुमः ।। १५ ॥

साहस्रं भुजमण्डलं न वहति स्वीयं तथा कार्यक-
तेजो बाहुसहस्रकस्य वहिता यः सव्यसाचिद्युतिः ।
शस्त्रास्त्रव्यवहृत्यनन्तचतुरः श्रीमच्छिवाराधको
यन्नामग्रहणेन सिद्धिरखिला सत्सेवके सोऽर्जुनः ॥ १६ ॥

इति श्रीकृष्णकौरमिश्रविरचिते श्रयङ्के काव्ये
श्रीनानकाद्यर्जुनान्तानां राज्यादिव्यवहारनिरूपणं नाम

षष्ठः सर्गः समाप्तः ॥ ६॥

सप्तमः सर्गः ।
हरिगोविन्दादिखालसान्तवर्णनम्

सोऽयं राज्ये स्थितोऽभूत् सपदि हरिगोविन्दनामा जितारिः
क्षात्रं कृत्वा विवाहं शरसुतयुगतोऽटल्लरायश्चतुर्थः ।
द्विःस्थाने सूर्यमल्लः प्रथमजं गुरुदित्तस्त्र्यणीरायनामा
कीयोपध्यालवालो दशदलविदितस्तेगबाहादराख्यः ॥१॥

तस्याग्रे हरिरायबाहुजबरः सोऽयं पदव्यां स्थितो
राज्यस्य द्वयपुत्रवान् स हरिकृष्णो रामरायान्वितः ।
पण्मासं दिनभूतकं व्यधिकविंशं वर्पसंख्यान्वित
राज्यं यश्चकृवान् हरेश्च पदभाग् मौनी सदा योगवान् ॥ २॥

तत्सनुहरिकृष्ण एव वसुसंख्याकं पदं भुक्तवान्
द्वौ वर्षाविधुमासकं नवधराघसं सुखस्यास्पदम् ।
शिष्यभ्रातृसुताङ्गनासुखयुतं शिष्योधसन्तारकं
लब्ध्वा राज्यमिदं बभाज सुभगं श्रीकृष्णरूपं हरिम् ॥३॥

षष्ठे राज्यपदे स्थितस्य हरिगोविन्दस्य सूनुर्लघुर्यो
वै श्रेष्ठगुणैर्गुरुस्त्वभिधया यस्तेगबाहादरः ।
सोऽयं नव्यपदं नवाभिधमहो लेभे महल्लाख्यक
श्रीगोविन्दहरि सुतं स्म भव (ज?) ते शक्रो जयन्तं यथा ॥४॥

स्वैकं वर्पमितिस्तु मासतुरगं घलकविंशं तथा
राज्यं चान्वभवत् सुताय च परं श्रेष्ठं स्वयं दत्तवान् ।
श्रीगोविन्दपदान्तसिंहललितायारातिनाशाय च
माषोवालनिवासिने जनसुखायानन्दपूर्वासिने ॥५॥

विद्याचातुर्यशाली धनुरवनपरो धारयन् वै निषङ्गी
भक्तोद्धारी महिष्ठो हतरिपुनिवहो भाति सङ्ग्रामशाली ।

आपूर्वं पश्चिमान्तं हिमपटलधरद्विन्ध्यमध्ये यशोधा
वाजिप्रेमा वदान्यो वितरणनिरतो धान्यवासो मणीनाम् ॥६॥

द्वात्रिंशद्वर्षमासैकदशमितनृपत्वं चकारैकलीलः
क्षत्रज्ञातौ विवाहत्रयमितगृहधर्मा चतुःसूनुशाली ।
सुन्दर्य्या देविकायामजितमृगपतिं पूर्वमुत्पाद्य सूनुं
जीतोजीअङ्गनायां त्रयसुतमुपवीतादियुक्तं चकार ॥७॥

स्नुवय्या झुझारो मृगपतिसहितस्तज्जुरावसिंह-
स्तुर्यः सिंहः फतेपूर्व इति जगति चै विश्रुतं यस्य नाम ।
तान् पुत्रान् वन्दनीयानभव (ज?) त सुखदान ये न संसारसौख्य
प्राप्तो गोविन्दसिंहो रिपुमिषवशतस्तद्विनष्टिं च सेहे ॥८॥

दुष्टम्लेच्छैर्विषण्णः प्रतिकृतिकृतयेऽनेकमन्युर्वभूव
क्रोधाग्नेर्विस्फुलिङ्गैः प्रतिदिशपतितैः सर्ववर्णे समुत्थैः ।
जातः श्रीखालसाख्यः खयामिव बहुधा शक्तिसम्पन्नचेष्टः
शुम्भादीन् हन्तुकामा प्रकटयति यथा कौशिकीकालिकाख्या ॥९ ॥

तच्छत्रुक्रन्दनादौ निपुणतरमतिः प्रत्यहं वर्धनोत्को
देशान् देशान् लुठन् वै वसु किमपि बलिं तत्प्रजाभ्यः प्रगृह्णन्
रक्षांचक्रे दयालुर्व्यवहृतवणिजः प्रापयन् सौख्ययुक्तान्
ग्रामानित्थं स्वकीयान विरचयितुमनाः क्षत्रविप्राधिमानी ॥१०॥

पाश्चात्येशं जिघांसुः स्वबलपुरुषतां प्रापयन् सिंहराट्सु
तस्थानीकं विलुण्ठंश्चढतहरिजसासिंहकादिष्धनन्ताम् ।
सेनामध्येऽश्ववारानसिशरधनुपोद्धारकान् दर्शयित्वा
तेषां भीत्या पलायां गृहधनमहिला: कुर्वतां लुण्ठति स ॥११॥

इन्द्रप्रस्थं यियासुर्लघुतरपृतनः प्रेरयामास सिंहान्
जस्सासिंह खुशालं जयहरिचढतासिंहतारामृगेन्द्रम् ।

श्रुत्वा तेषां प्रयाणं व्यथितजनमनाः पयामास दूतं
मर्यादापङ्क्तिमिच्छुर्धनचयसहितं लेख्यपत्रं दिलीशः ॥१२॥

सेनामध्ये पुमान् यो न हि न हि करणीयं जगादेति कश्चित्
स्वस्मिंश्चक्रे विरुद्ध्य प्रतिगमनमतिं सर्व एव प्रचक्रुः ।
नो तस्याप्युत्तरं वै प्रतिनियततया दत्तवन्तः प्रतीप-
माजग्मुस्ते मृगेन्द्रा व्यवहतिगणना नास्ति येषां समूह ॥१३॥

झण्डासिंहः समीपेऽमृतसरस इयेप स्थलं वस्तुकामो
श्रुत्वा गढं ये सकलनगरगा मानुपा आगताश्च ।
लोका व्यापारवन्तः कृतयुगनियति कौतुकं दृष्टवन्तः
सौख्यं प्रापुः समृद्धिं धनयमणियन्त्रादिकानां सुशीघ्रम् ॥१४॥

एवं सर्वैस्तु सिंहरभिलपितमिदं पत्तनानि प्रचक्रु-
स्तेऽन्योन्यं बद्धवराः प्रतिदिनममितं योद्धुकामाः पृथक्त्वात् ।
सर्वे श्रीखालसेन प्रहतमतितया योजिता नैकनिष्ठा
एवं वै खालसन्द्रः सकलनृपमनःक्षोभको भाति लोके ॥१५॥

बह्वायुः खालसेशः प्रथितजनवचाः प्रस्वलन् बालकत्वा-
च्छत्रूणां नाशकश्च प्रततगुणयशाः सर्वदिग्राजभागी।
विप्राणां सजनानां प्रणयहितकरो दानमानादिशील
एवं वर्धिप्यते श्रीमृगपतिपु गुरोः सबकेषु प्रवृत्तः ॥१६॥

इति श्रीकृष्णकोरमियविरचितेश्र्यङ्के काव्ये
हरिगोविन्दादिखालसान्तवर्णनं नाम

सप्तमः सर्गः समाप्तः ॥ ७ ॥

अष्टमः सर्गः।
मन्त्रसाधनखड्गाविर्भावतन्माहात्म्यमङ्गलनिरूपणम्

श्रीकालीसिद्धिकामः स कुसुरसमुदायं समाहूय पृच्छं-
स्तरुक्तः काशिकायामिति वसति महाभट्टजीपूर्णनामा ।
यन्त्रज्ञो मन्त्र विद्यागमनिगमसमूहस्य विज्ञानशाली
द्रव्यं सम्प्रेप्य भक्त्या वशय सुचतुरं तेन सिद्धिर्भवित्री ॥१॥

पाद्यार्घ्यादीन् स दत्वा वदति कुशलतापूर्वकं स्म प्रणम्य
कञ्चिन् मन्त्रं सदेवं कथयतु भगवान् येन देवी प्रसिद्धा ।
शत्रून् सम्मर्द्दयन्ती दिशतु महाभाग्यवत्तामतीय
सेवाकारी सदाहं चरणयुगलयोः श्रीमतां भक्तिपूर्वम् ।।२।।

वाढं प्रोवाच भो भो कठिनतरमिदं तिष्यकाले नराणां
प्रोक्तान्येतानि देव्यै पितृवनचितयोः साधनादीनि सद्यः ।
शर्वेणेति त्वदर्थं धनतरनिपुणे नैव भावेन यत्तः
काली संसाधयिष्ये बहुतरसमयेनैव साध्या हि देवाः ॥३॥

श्रुत्वैवं चैध्यकामः पुनरपि स बदस्तेन काल्या नियुक्तः
पूजायां केशधारी नियतमसिधरो नीलवासा भव त्वम् ।
धैर्यं चालम्ब्य दाात् पशुबलिविधिना ध्यानजापैकसक्त
एवं वै मण्डलान्ते फलमपि भविता साधनेनोत्तरेण ॥४॥

आकर्योत्थं जजाप प्रबलमनुवरं कालिकाया भवान्या-
स्तोर्ण्क्षाद्दीक्षाविहीनो ह्यनतगणपतिः शत्रुहिंसैकचित्तः ।
यं यं भावं स्मरेद्यः स दृढमतितया तं तमेवैति लोकः
प्रादुर्भृतस्ततोऽसिः शतशतहदा तेजसाक्रान्तदृष्टिः ॥५॥

चित्ते भ्रान्ति चकार स्वयमपि वहितस्यासनात् प्रोत्थितस्य
तसात्तच्छत्रुघाती प्रचुरतरगतिश्चण्डिकाखड्ग एव ।

कार्य संसाधयत्येव हृदिजनिरुषा विस्फुलिङ्गैः स एव
जातः श्रीखालसाख्यो मृगपतिविभवः शत्रुहन्ता बहुभ्यः ॥६॥

योऽष्टौ नामानि चित्ते स्मरति स विजयी श्रीयुतो धर्मपालो
दुर्धर्षतीक्ष्णवेगोऽरिविशसनपरः क्षेपकः खड्गवत् स्यात् ।
खड्गोऽसिस्तीक्ष्णधारो विशसनविजयश्रीयुतो धर्मपालो
दुर्धषश्चेति नामानि विधिमुखभवानि प्रथमागतानि ॥ ७ ॥

राज्यं दातारिहन्ता वृजिनविशसिता तीक्ष्णधाराविधा
लोकश्रीगर्भकर्ता विजय इव दुराधर्पिता धर्मपाता ।
दुष्टान् खड्गेन हन्ता दुरितचयचमूः प्रासिता भक्तभर्त्ता
स्थाता दुर्गाकराब्जे द्रुहिणहरविधून् शत्रुनाशे प्रयोक्ता ॥८॥

काल्याद्या येन दैत्यान् मधुमहिपनिशुम्भास्रवीजान्निजघ्नः
खड्गेनानेन तेन प्रसृतवलमहातेजसा खालसेन ।
सर्वैश्वर्यैरुपेताः क्षितिमणिवसनद्रव्यवन्तो विभान्ति
सिंहा आविष्टवर्मा भजनजपपरान् मानयन्तः पृथिव्याम् ॥२॥

विश्वातसुपालनैकचतुराः श्रीचण्डिकापूजका
वासन्ते शरदि प्रपूजनरता होमादिविप्रार्चनैः ।
कूष्माण्डाजवलिं विधाय सुभगाकन्याकुमारार्चकाः
पुत्रभ्रातृसुदारधान्यधनयुक् सौख्याश्चिरञ्जीविनः ॥१०॥

केचित्प्राक्तनजं बलं विदधतः शास्त्रादिनिन्दारताः
पौर्वापर्यविचारहीनमतयो गोविन्दसिंहस्य यत् ।
तेनैवाददते मतं सुविपुलं स्वाचारसम्मर्दका-
स्तैः साकं किमु वेदशास्त्रगुरुवाक्याज्ञासमुल्लचिभिः ॥११॥

उत्थाय क्षणदावशेषसमये स्नाता रता वाचने
ग्रन्थस्य श्रवणे निरुक्तिकरणे गाने तथा वादने ।

प्रीताः प्रीतिमथार्पयन्ति सुजनानां शृण्वतां मानसे
ते धन्याः शुभमानसाः कलियुगे सत्कीर्तने तत्पराः ॥१२॥

पञ्चब्रह्ममृगाधिपासनगता वाक्कामशक्तिस्थिरा
विद्याक्षाभयदानवाञ्छितकरा मन्त्रैर्मुनीशैर्नुता ।
वासोरक्तवृता शिरोविधुयुता श्रीवालिकाहृद्गता
पायान्माखिलविघ्नराशिहरिणी भद्रा प्रसन्ना सदा ॥१३॥

भद्रा भागवती भुजङ्गबलिता भाग्येश्वरी भोगदा
भोक्त्री भक्तवशा भुजाम्बुधिपरा भोगैकनिष्ठा भगा।
भर्गेशी भृगुवन्दिता भगवती भूपावभूषिता
भूयाद्भद्रकरी भवाङ्गभजनानन्दा भवानी भुवि ॥१४॥

पञ्चाशद्वरवर्णपङ्क्तिरचिताङ्गा वैखरी देवता
नाभीहद्गलभास्वती पुरहुतिः पश्यन्तिका मध्यमा ।
स्थानान्धौ रहिरन्तरप्रचलिता हुत्साक्षिणी कुण्डली
सर्वप्राणनजीविनी न हि विना तां चित् कलां किञ्चन ॥१५||

ग्रन्थादौ ग्रन्थमध्ये तदवसितिविधौ कुर्वते मङ्गलं ये
तपां देवीप्रसादो भवति हि सततं चायुरारोग्यवृद्धिः ।
लक्ष्मीधान्याभिवृद्धि श्रियमतुलमहामण्डनां प्रामुयुस्ते
वक्तश्रोत्रोहितेच्छुःपुरुषफलचतुष्कं च दद्याद् भवानी ॥१६॥

इति श्रीकृष्णकौरमिश्रविरचिते श्रयङ्के काव्ये
मन्त्रलाधनखङ्गाविर्भावतन्माहात्म्यमङ्गलनिरूपणं नाम

सर्गोऽष्टमः समाप्तः ॥८॥


नवमः सर्गः।
मङ्गलाचरणसिद्धाविर्भावपूर्वकसरोविरचनम्


ब्रह्माद्याः पञ्च यस्याः पदकमलयुगोद्वाहिपीठे निषेदु-
र्नित्यं यत्सन्निधित्वादलपरिभवतः प्रेतभावं वहन्तः ।
तत्रस्था वालिका सा मनुमुनिनिकरैः पूजिता नम्रशीः
भक्तानां कार्यसिद्ध्या अभयवरकरी माऽवतात् साक्षविद्या ॥१॥

पादद्वन्द्वं नमामि स्वरुनिकरवमत् स्वर्णमञ्जीरशोभि
लाक्षारागस्रवेण प्लुतसकलमहीं ध्यायतां ते शुभंयु ।
ब्रह्मादीनां शिरःसु स्वरवनिरुहजस्रक्पतद्रेणुरूक्षं
भीमांसान्यायंविद्यागमनिगमतुरङ्गास्यसङ्गीतकीर्ति ॥२॥

नीलाम्भोदावलीरुक्तपनशिशिररुग्धव्यवाड्लोचनाया
दंष्ट्रावल्यावलीढा सुररुधिरचमत्तातिभीष्मस्वरूपा ।
वैयाघ्रच्छन्नदेहा जयति हि जगतां शम्भवित्री स्वनाम्ना
शीर्षाणं मालिकाभिर्भुजगगणयुताभिर्युता कण्ठदेशे ॥३॥

धन्यास्ते बीतदोषा हरमहिषि नरा ये शुभां त्वां भजन्ते
मूलाधारात् प्रयान्ती कमलवनमहारुद्रपीठं भुजङ्गीम् ।
तत्राखाद्यामृतालीमवतरणपरां साधकानां हृदब्जे
ब्रह्माणं दं(सं ?)दधानामकरणविषयां वै मृणालातिसूक्ष्माम् ॥४॥

चतुःश्लोकीमेतां भवति भवदीयस्तुतिपरां
नरो यो लोकेऽस्मिन् पठति कवितायां स उशना ।
अलेके (?) भूपानां मणिरिव प्रभाभासितककु-
प्तिरस्कर्त्ता कान्त्या मदनमहिमानं स मनुजः ॥ ५॥

इत्थं देव्याः स्तुतिमविकलां यः शृणोति प्रसन्नः
सर्वश्रेष्ठां हृदयरुचिरां चन्दनीयो भवेत् सः।

दारिद्र्यापच्छमलदमनं तस्य पुंसः स्वसिद्धं
पुण्योत्कर्षादपि करगतं पुत्रपौत्राभिवृद्धिः ॥ ६ ॥

त्वद्वासागारकस्याजिरमुपसमितः कृष्णकौरो द्विजोऽहं
दृष्टं सत्कर्मवेगात् परमगुरुकृपापूरिताच्छोभमानम् ।
स्वीयायाः पादुकायाः स्ववशकृतगतायातकृत्यैर्महेशि-
स्पर्शः कार्यो मदङ्गे भवतु मम महाभाग्यवत्ता यतो हि ।। ७॥

आदिगुरुःकमलाधिपतिर्यशसा प्रथितो भुवि दानरती
राधिकया युत एव वने व्रजवासिजनैर्मुदितः सुमतिः ।
श्रीवज्रराजिविराजितमन्दगतिब्रजवालसमाजरतिः
तैः शुभभक्तिविरागविवेचनवद्भिरूपासितपादततिः ॥ ८॥

इमं कृष्णं नत्वा गणपतिभवानीशसहित
पुरावन्माहात्म्यं रचयितुमलं प्रेरितमनाः ।
गुणग्रामैर्वर्त्ते पुरुमहिमभाजामनवधि
नखस्यान्तं तार्क्ष्यो गमयति यथा वेगचलितः ॥९॥

अथैकस्मिन् काले विरचयितुकामस्तु स सरो
गुरु रामो दासः क्षितिखननमेवारभत हि ।
पुरो नाचैः खातादमररचितं स्थानमुदभू-
ततः सिद्धो दृष्टो दृढतरसमाध्येकनिलयः॥१०॥

शिरोमध्येऽभ्यङ्गाद् धृतरससमाविश्य बहितः
पुरो नेत्रोन्मीलन् कलिनरसमाजेन चकितः ।
उवाचोच्चैर्भूयो गृहमिव पुरामुं स्थगयत
नतो भूयो भक्त्या गुरुप्रभृतिलोकेन मुदितः ॥ ११ ॥

स तैः पृष्टः कस्त्वं किमवधिककालेन निरतः
समाधौतेनोक्तं कृतयुगनृपेक्ष्वाकुवसतौ ।

स्थितो यत्तोऽहं वै त्वमपि तदपत्येषु कतम
इति श्रुत्वा तेन स्थगितमिदमेवं हि गुरुणा ।। १२ ।।

ततो लोके ज्ञातं नृपकुलसमुत्थेन प्रभुणा
स्वभूमावारब्धं सर इति समीपक्षितिधरैः ।
धरा दत्ता तेन खयमपि पुरी विस्तरवती
महापुण्यैः पूर्णा बहुसरसशोभागुणवती ॥ १३ ॥

तस्मात्तीर्थमिदं पुराणमहिमं यत्सिद्धवाक्सङ्गतं
शुद्धान्तःकरणैर्जनैरवहितैर्यत्सेवितं मोक्षदम् ।
त्रैवर्ग्यस्य फलं स्खचित्तवशतः कल्पद्रुमाभासितं
लब्धं पुण्यगणैः पुराभवभवैर्यदुर्लभं हस्तगम् ॥ १४ ॥

दूराद्ये समुपागताः श्रुतमहाशोभा अहो पश्यत
दृष्ट्वा भक्तिवलेन पूरितमहाकामास्त एवं ध्रुवम् ।
लक्ष्मीराज्यविभूतिकीर्तिमहिताः सम्यक् प्रतिष्ठां गताः
लोके चै कलिकालविक्रमपरिक्रान्तेन सङ्क्रामिताः ॥ १५ ॥

श्रीमद्भक्त्येकनिष्ठागतहृदयतया सर्व एवं विचत्र-
राधागोविन्दसिंहावधिसममतयो ग्रन्थसद्ग्रन्थनार्दाः ।
लोके तत्पाठयुक्ता जपभजनरताः सिद्धिमन्तो बभूवु-
वश्याकर्षादिदीनोद्धरणमतिपराः श्रीसुखप्रेमरक्ताः ॥ १६ ॥

इति श्रीकृष्णकौरमिश्रविरचिते श्रयङ्के काव्ये
मङ्गलाचरणसिद्धाविर्भावपूर्वकसनविरचनं नाम

नवमः सर्गः समाप्तः ॥९॥

दशमः सर्गः।
वावानानकाङ्गदयोर्गुणगणमाहात्म्यकथनम्

गोरक्षादिकसिद्धमण्डलगतस्तानको भापित-
स्त्वं शिष्यो बद कस्य चेन्न भवसि श्रीसिद्धयेऽस्मत्पथे ।
आगच्छ अतिखण्डनात् परमिदं मुद्रादिकं धारय
तत्र श्रीगुरुनानकः स वदति प्राज्ञाः शृणुध्वं सुखम् ।। १ ।।

सर्वेषां स गुरुश्चिदात्मकतया योऽखण्डितोऽन्तर्गतो
बुद्धिप्राणमनःश्रुतिश्च वहितो यो मूलमन्त्रप्रदः ।
तं भक्त्या ह्यजपाजपेन नियतं सर्वत्र सम्भावये
हृत्स्थं शक्तिमतां वरं परगुरुं यद्दीक्षितोऽहं सुखी ॥२॥

ढब्बूपञ्चकनालिकेरतिलकं स्वं मस्तकं नामयन्
उक्तं श्रीगुरुपद्धतौ निविश भो मद्वाक्यमङ्गीकुरु ।
तस्मादङ्गादनाम ते च भविता सर्वे हि ते जानतः
लोके ख्यातिमुपैष्यति प्रगदितः श्रीवासुदेवाभिधाम् ॥ ३ ॥

दृष्ट्वेदं पुनरङ्गदेन गदितं यत्त्वं नतो मत्पुर-
स्तस्मान्मद्वपुपीन्द्रवज्रपतनं वा कुष्टता जायताम् ।
तेनोक्तं तव वाक्यमेव फलिताथो कुष्टभागङ्गदो
वर्षद्वादशकं वभावमरदासेनासेवितः सर्वदा ।। ४ ।।

एकेद्युः सदनं जगाम सहसा वालाभिधः सजनः
तं प्रष्टुं भवतेतिनानकगुरुः कीदृक्तयाराधितः ।
तत्रोचे मनसा विचार्य सुजनं मित्र ! क्षणं श्रयता
किश्चिद्वाक्यनिवन्धनेन कथये तां प्रस्तुति नानकीम् ॥५॥

रात्रौ तद्भवनं जगाम भजनोत्कोऽहं स मां पृष्टवान्
गत्वा सद्मवहिर्विलोकय कियात्रिर्गता सज्जन ।

एवं चान्यजनानपि खकमनश्चातुर्यतः प्रोचिरे
रात्रेरेव विनिर्णयं प्रहरकालादि दृष्ट्या वहिः ॥ ६ ॥

बुड्ढा नाम जगाद सार्धनयनं यामं गता यामिनी ।
पूर्वेस्मिन्नरघट्ट एव समयेऽस्माभिः सदा चाल्यते ।।
एवं सर्वजनैरभापि च निशापाश्चात्यभागो ह्ययम् ।
योगस्यापि हरेः स्मृतेरवसरो मैत्रक्रियापूर्वकम् ।। ७ ।।

पृष्टोऽहं पुनरवयं हि सकलो लोकस्तवाधीन्यभाक्
तत्सर्वं विदितं तवैव मनसीत्थं कस्तव स्वाशये ।
विज्ञातुं विदितुं क्षमः पुनरसौ तान् पृष्टवान् पूर्ववत्
पृष्टोऽहं सकलं पुरेव कथयामासेति स प्रीतवान् ।। ८॥

तेनोक्तं वसनानि भो वहिरितो गत्वा मम क्षालय
श्रुत्वेत्थं जगमाहमेव दिवसे जाते समक्षालयम् ।
भूयोऽहं वसनानि तस्य पुरतो धृत्वा निशां पूर्ववत्
ज्ञात्वाश्चर्य्यमबाप संननम भो ज्ञप्तः सशिश्य तथा ॥ ९॥

एकेद्युः पुनरेव पङ्कजलधौ क्षिप्त्वाम्बुपात्रं करात्
पार्श्वे पुत्रयुगं स मामवदकच्चोक्तं तु ताभ्यामिति ।
लङ्घित्वा गहनं विधाय वसति प्रेष्यान् गृहीत्वा वहून्
गत्वा कं च निवेश्य भाजनमतो लब्ध्वा समानीयते ।। १० ।।

तेनान्तःकथितं प्रहस्य मम नो वृत्तं बहिर्दर्शिनी
जानीतः सहितावुभौ मम सुतौ जानात्ययं चाङ्गदः ।
तस्मान्मत्पदभाग्यवेदयमहो अङ्गं मदर्थे दद-
दन्तर्यामिणमे हीरं गदति वाण्या चित्ततो ज्ञातवान् ॥ ११ ॥

ज्ञप्तोऽहं वसनैर्युतः परिकरं बद्ध्वा दृढं मजितः
पात्रं तज्जगृहे निवेद्य मलिनं स्वच्छं पुरो दृष्टवा ।

वस्त्रं स्वीयमपि स्वतो धवलितं ज्ञात्वा ननामैव त-
मित्थं शेमुपिकां ममातिधवलां कुर्वन् रराजैव यः ॥ १२ ॥
 
एकस्मिन् समये भ्रमन् वनमतश्चोदासिरूपं दधन्
मर्दानेन युतोग्ररागचतुरेणैकान्तशीलोऽभवत् ।
तत्रानन्तसहस्रेसेवकजनैः पूजायुतैर्वेष्टित
उद्विग्नोऽपि फलान्नभक्तदधिकरभ्यागतान् पालयन् ॥ १३ ॥

उद्याने बहुधान्यराशिरहिते पीडायुतान् मानवान्
दृष्ट्वा तानवदत् प्रकम्पयत भो बब्बूलमेतं तरुम् ।
आरुह्येनमिहैव भक्तदधिगव्यान्नादिकं लभ्यतां
तैनॊरीकृतमित्थमित्यगणयन् मामब्रवीद् गृह्यताम् ।। १४ ॥

श्रुत्वेत्थं वचनं बबूलतरुमारुह्य स्वयं लब्धवान्
सर्वं यत् कथितं स्वयं च गुरुणा तेनातितृप्तः सुखी ।
जातोऽहं शुभबुद्धिरागतपरज्ञानो न सेवेत तं
को जिज्ञासुरिहव यत्नरहितः सर्वं लभेत् पौरुषम् ॥ १५ ॥

चाण्डालो हरिकीर्तनैकरसिकः सर्वाधिकः कीर्त्यते
श्रद्धाहोमतपः समाधिजपतो यच्चित्तगर्वोऽसताम् ।
मानेर्ष्यादि विहाय कीर्तनकरस्तस्माद्धृदि श्रीहरि
सम्प्रामोति परत्र चेह सुखभाक् शुद्धः सदानन्दभाक् ॥१६॥

इति श्रीकृष्णकौरमिश्रविरचिते घड़े काव्ये
बाबानानकाङ्गदयोर्गुणगणमाहात्म्यकथनं नाम

सर्गो दशमः समाप्तः ॥१०॥

एकादशः सर्गः।
श्रीबाबानानकाङ्गदअमरदासरामदासार्जनगुणगणमाहात्म्यकथनम् ।

तस्मिन्नेव वने वनेचरवपुर्युक्तः शुनीभिः श्वभिः
सीसीरूपमलौकिकं च भयदं कृत्वा जनौघस्य च ।
हस्ते कार्मुककाण्डभीषितमृगः स्पर्शेऽपि लजां ददत्
तादृग्गानकरो हरेर्गुणगणं वैराग्यपूर्व वदत् ॥ १ ॥

मुखेन निन्दां कथयन् परस्य
कामक्रुधौ लोभविमोहपुञ्जम् ।
चाण्डालराशिं हृदि पक्कणे वहन्
शुचिः कथं स्यां हरिकीर्तनं विना ॥ २ ॥

एवं शब्दं च गायन् भ्रमति बहु तथा मत्समेतास्त्रयोन्ये
पश्चाद्भागदेशे दरदलितमनो वाक्यपादास्तथा सन् ।
भ्राम्यन्तस्तेन हूता यदि न विसृजथास्माकवाक्यं कुरुध्वं
वासश्छन्नं शवमविकलं पादतश्चात्त यूयम् ॥ ३ ॥

एवं श्रुत्वा त्रिभिरपि जनैर्नॊररीकृत्य भग्न-
माज्ञप्तोहं पदकमलतस्तद्भुजौ सम्प्रवृत्तः ।
तज्जातं पायसधृतमधुप्पायनं देहबुद्धयो-
भुक्त्वा पूर्णस्तदखिलमहं भाजनं प्रेमराशेः ॥ ४ ॥

भूयः प्रोक्तं स्वजननिगमे या विलम्ब कुरुध्वं
स्वस्या मातुः स्तनमपिबकं नानकायोक्तमेतत् ।
तेनोक्तं ते मम हृदिगतो भाव आवेदितस्तत्
प्रीतोऽहं ते मम हृदि लग त्वं ममैव स्वरूपः ॥ ५ ॥

यस्त्वामाराधयति सममाराधकः 'प्रोज्ज्वलास्यो
मुक्तो लोके परभवनगो ब्रह्मसायुज्यमेति ।
त्वं वै पूर्वं विदितलहणानामकः साम्प्रतं ते
श्रीमत्पूज्योङ्गद इति भुवि ख्यातनामैव भूयात् ॥ ६ ॥

इत्थं श्रीगुरुनानकस्य महिमा सम्यङ् मयाऽऽलोकित-
स्तेनाहं कृतकृत्यतामुपगतो निश्चिन्त एव स्थितः ।
त्वत् प्रश्नोत्तरमेव ये निगदितं भो बाल कच्चिच्छ्रुतं
भाईवाल उवाच ते निगदितं श्रुत्वा कृतार्थोऽस्म्यहम् ।। ७ ॥

गोद्स्थानामरदासकस्य बहवः शिष्याः समाजग्मकु:
तेषां भोजनसिद्धय रसवती पाकाधिकारान् बहून् ।
युक्त्वा तत्कृतये जलाय च परान् सम्प्रेरयन् श्रीगुरुः
तत्कुम्भान् क्षितिगोलकैश्च प्रहरन्तो म्लेच्छबालाः सुताः ||८||

शेषाख्या हि वभञ्जुरितरं संविद्रते श्रीगुरुं
तानूचे दृतिपात्रमैव कुरुतां ते तान्यभैत्सुः शरैः ।
भूयस्तान् गुरुराह पित्तलमयं पात्रं तथा ताम्रक
भूयो भैत्सुरपीह शैलपतनं ते तं तथोचुर्गुरुम् ॥ ९ ॥

तैः शिष्यैः पृष्ट एव प्रवदति स गुरुः स्मेति कुर्वन्ति पापं
ये सजनैस्ते सुरगणनिहताः प्रापिता मूलनाशम् ।
बन्धान्ते मृत्युमापुः क्रधितनृपवशाद्धस्वदीर्घाश्च सर्वे
शिष्यराज्ञागृहीता परमसुखयुता यैरिहामुत्र लोके ॥ १० ॥

एकेद्युर्गुरुरामदासभवनं श्रीचन्द्र आगत्य भो-
स्तं पप्रच्छे किमर्थमेमं मुखकूर्च विवर्धितं सद्धृतम् ।
तेनोक्तं भवदीयपादयुगलपोञ्छाय मे कूर्चकं
तच्छ्रुत्वा कथितं प्रसिद्धपदवी प्राप्ता त्वयेदृक्तया ॥ ११ ॥

अर्जुनो वदति स्माहं, गुरूपायनकारकः ।
वाणीं रचित्वा मधुरां, कबीराय निवेदये ॥ १२ ॥

आश्चर्यं दृढमीदृगास सकलं दृष्टं मया सञ्जना
दघ्नो भ्रान्तिवशेन नीरलुठनं कुर्वन्ति भ्रान्ता जनाः ।
अङ्करं हरितं चरत्यहह रावं गर्दभः सङ्कलन
मत्तो माहिषकोऽप्रयोजनतया कूर्दनधो याति च ॥ १३ ।।

आवेयी पिबति स्वयं ह्यविसुतं सम्भ्रान्तलीलायुतं
कामार्ताः खलु वुद्धयो विमुखता देहात्मनिष्ठां गताः ।
दुःखानित्यकपूयकात्मरहितं देहादिकं भ्रान्तितो
सौख्यं नित्यपवित्रमात्मनियतं जानन्त्यबुद्धथा हताः ॥ १४ ॥

गुरुप्रसादतो मया समस्तवाविचारिता
भजन् गृणन् हरिं सदा कलौ कृतार्थतामियात् ॥ १५ ॥

श्रीनारायणभजनं कुर्वन् श्वपचोऽपि निःकपटः।
नयहुतितपःसमाधिजफलं कवीरो हि समलभत ॥ १६ ॥

इति श्रीकृष्णकौरमिश्रविरचित श्रधङ्के श्रीवायानानकाङ्गद-
अमरदासरामदासार्जनगुणगणमाहात्म्यकथनं नाम

सर्ग एकादशः समाप्तः ॥ ११ ॥

द्वादशः सर्गः।
हरिगोविन्दहरिरायहरिकृष्णगुणगणमाहात्म्यकथनम् ।

षष्ठो हरिगोविन्दो राजति गुर्वासने तिष्ठन् ।
तत्पार्श्वे मन्त्रिजनो म्लेच्छपतेरेकदा प्राप्तः ॥१॥

कार्यव्यग्रतया तं नातवान् स्वेच्छया गुरुः प्रकटः।
स क्रुद्धो विमतिरयं चिन्तितवान् हन्मि खड्गतश्चैनम् ॥ २ ॥

ज्ञात्वा तेन स चोक्तो रणविमुखेनेह किं क्रियते ।
भवता बहिर्मुखेन पापजनाचरितमाचारि ॥ ३ ॥

मन्त्री नत्वोवाच क्षम्यं मम कर्म दुरिताढ्यम् ।
तन्नमनं च विलोक्य प्रोचे सन्मार्गमुपदिष्टम् ॥ ४ ॥

हरिरायो जनस्वामी विदितः सप्तमासने ।
तद्गेहं बाहुजः कश्चिन्मृतपुत्रः समागतः ॥५॥

तं दुःखिनं गुरुः प्रोचे भज त्वं परमेश्वरम् ।
सर्वदुःखविनाशाय परलोकाभयाय च ॥ ६ ॥

तेनोक्तं मम भवने पञ्चजनाः सन्ति मत्पाल्याः ।
पुत्रद्वयं च कन्या नारी भृत्यश्च धनहीनाः॥७॥

विधिरेव ददाति नापरो गुरुणोक्तं न हि मन्यते स्म सः ।
मम पत्रमिदं मदीयशिष्येऽपय योग्यं गुरुरित्युदैरयत ॥ ८॥

पत्रीमध्ये लिलेख प्रवरतरगुरुः पत्रिका वाचयित्वा
बध्यैनं रक्ष गेहे सुखिनमुपगतं मञ्चकादीन् सुमृष्टम् ।
षण्मासान्ते पुनर्वं मम निकटमुपायात्विहेत्थं कृपालु-
स्तत्पत्रीं वाचयित्वा तदनुकृतमिदं गुर्वनुज्ञानुसारम् ॥९॥

तत्रस्थः सोऽप्यवादीन्मम गृहे मनुजा मद्विहीना म्रियेरन्
श्रुत्वाप्येचं तमेनं न हि गुरुवचनान्मोचयामासुरेते ।
तत्पुत्राश्चैकवारं छुपवसनगतास्तत्समीपस्थलोकैः
श्रुत्वा ज्ञात्वा च वार्ता स्वगृहत उरुपात्राणि गोधूमचूर्णैः ॥१०॥

पूर्त्वा दत्तानि तेभ्यो बहुमुजिरुचिता तद्दिनेऽभूत्तदीया
तैः पुत्रावेकहट्टे वणिज उपसमासादितौ कृत्ययुक्तौ ।
सूचीकृत्ये नियुक्ता बहुनिपुणमतिः कन्यका तस्य लौकै-
स्तन्निर्वाहस्तुं सम्यक् स्म चलति स जनः षष्ठमासान्त आयात् ॥११॥

दृष्ट्वा यात्रानिरूढिं प्रणतिमुपगतः श्रीगुरोरग्रतश्च
प्रोक्तं तेनास्मि तीर्णो निरयगणभयं सत्प्रभावाद् गुरूणाम् ।
नित्यं तत्सेवनादौ नियतमुपसृतः पापहीनः कृतार्थो
योगक्षेमश्च तेषां स्वयमिव भवति प्रार्थना चिन्तयो नः ॥१२॥

अष्टासनस्थहरिकृष्ण उदारवुद्धिः
सर्वस्य सेवकजनस्य कृतार्थकारी ।
हिन्दुस्थलाधिपतिनाधिकृतो हि मन्त्री
पृष्टोऽधुनास्य हरिरायवरस्य लोके ॥ १३ ॥

कुत्र स्थितिः स मृत इत्यवदत् स मन्त्री
तस्याज्ञयाधिकृत एव स सप्तवर्षः।
राज्ये स्थितश्च हरिकृष्ण इति प्रथावान्
सत्याधिपः सकललोकजनप्रसिद्धः॥ १४ ॥

 ॥ युग्मम् ॥

प्रोवाच मन्त्रिणमहं स्वयमेव गत्वा
पश्यामि शक्तिमपि तस्य जनप्रसिद्धाम् ।
क्षात्रेण मन्त्रिप्रवरेण स ईश उक्तो
गवाहमानय इहैव विलोकयस्व ॥ १५ ॥

श्रीमान् स मन्त्री रथघोटकोष्ट्रान्
संगृह्य सेनासमुदाययुक्तः।
गत्वा गृहं तस्य ननाम वार्तां
तां श्रावयामास रहस्यथोच्चैः ॥१६॥

इति श्रीकृष्णकौरामिश्रविरचिते श्रयङ्के
हरिगोविन्दहरिरायहरिकृष्णगुणगणमाहात्म्यकथनं नाम

द्वादशः सर्गः समातः ॥ १२॥

त्रयोदशः सर्गः।
हरिकृष्णतेगवहादरगुणगणवर्णनम् ।

दिल्लीपुरिं तत्पतिमीक्षयेयं
तं देशमाप्येति जगाद हृष्टः।
मात्रा समेतः शिविकां रुरोह
दिल्लीं प्रविष्टः कतिभिर्दिनैश्च ॥ १ ॥

तद्द्वारं किं निविष्टः स च मनसि तया पूर्वसन्तर्कितश्च
साङ्कारूढं च दृष्ट्वा मननविनतिभिर्द्रव्यपूरैरनन्तैः ।
पूजां चक्रे प्रसन्ना स च वसति गृहे तत्प्रसादाभिलाषी
किश्चित्काले व्यतीते रुगवसितशरीरोऽतिखिन्नः स लोके ॥२॥

शिष्यैः समिलित्वा कथितमिति गुरो देहरक्षा च कार्या
लोके वार्ता विलोक्या जगति हितकरी संस्थितिः सजनानाम् ।
तैरुक्तं म्लेच्छलोको न हि न हि नयनैर्गोचरीकार्य एव
चक्षुः सम्मील्य गम्यं वपुरिह सततं शीतलाछद्महेयम् ॥३॥

भूयः पृष्टं च शिष्यैर्वयमिह शरणं कस्य यामः समस्ता
उद्धारो येन नः स्याजगति समुदितं तेन वा चाबकाले ।
ग्रामे स्थायीभवत्सुप्रकटितमहिमः शीघ्रमाविर्भविष्यन्
गत्वा लोके परीक्ष्यं वदति गुरुरिति स्तब्धमुष्टिं स्म कुर्वन् ॥४॥

मन्त्री प्रोचे दिलीशो यदि वदति तदा किं तदने प्रवाच्यं
तद् ज्ञात्वोद्धर्तुकामः सकलजनहितो रागहीनं जगाद ।
आदौ सेवी गुरूणां शमदमनिरतः द्धितो वै तितिक्षु-
र्वैराग्यं बोधयुक्तं दधदुपरतवान् वेदशीर्षाधिकारी ॥ ५ ॥

पट्टाद्यानर्घ्यवासो मणिगणकनकप्रावृतौ शोभनं किं
किं भुक्तौ मांसमेदोघृतगुडमधुरान्नाज्यसच्छष्कुलीनास ।

किं रत्या कोमलानां मृदुमधुररवाहूतचित्ताङ्गनानां
सौख्यं स्वात्मानुरागाद्धृदयगतपरानन्दभोगे जनानाम् ॥६॥

किं रत्या नवनीतकोमलवपुः श्यामाङ्गनानां सुखं
हस्त्यश्वाश्वतरीरथोष्ट्रकलभारोहोद्भवं किं सुखम् ।
कि सेनासमुदायशोभितमहाराज्याधिकारस्थिता-
वेकं तद्भजने मनो यदि लगेत् सा सर्वलब्धिर्जनौ ।। ७ ॥

इत्थं वाक्यं श्रुतीनां परमगुरुतरं मातुरके निषण्ण
उच्चैरुचारयन् सन् विलयमुपगतः प्राणवृत्त्या विहीनः ।
माता तद्वाक्यविज्ञा हृदयगतमहामोहजाला विशोका
किश्चिच्छोकाकुला सद्वपुरुचितजनैहियामास काष्ठैः ॥ ८ ॥

गङ्गायामस्थिजालं धनवसनयुतं प्रेषयित्वा चचाल
स्वं देशं शिष्ययुक्ता हरिभजनपरा तत्प्रविष्टा गृहं खम् ।
लोकैरागम्य पृष्टाकथयत गुरुवार्ता बकाले तन्मृत्यु
शुश्रुवान्यः सकलजनगणः सोऽपि हा हा चकार।। ९ ।।

नवममहलवार्ता यैः श्रुता तेऽपि सर्वे
गुरुजनलमनार्थं प्रोद्यता बाह्यवृत्त्या ।
अलभत सकल: सोढीजनो नैव वार्ता
गुरुपदविमुखैः किं तत्पदं लभ्यते भोः ॥ १० ॥

गत्वा सर्वे बकालं शयनतलकृतावुद्यताः पोडशाधि
प्रोचुस्ते गर्वयुक्ता वयमिह गुरवोऽन्योन्यमीालवाख्याः ।
तद्ग्रामे तेगबाहादर इति विदितो नानकीमातृसूनुः
स्थाता कोष्ठे च कसिन्नविदितमहिमो लोकसङ्गेऽनपेक्षः ।।११।।

शिष्यैः सर्वैमिलित्वा गुरुलभनपरैर्ग्रन्थजीवाक्यनिष्ठः
प्रोक्तं ग्रन्थैकविज्ञाः कथयत गुरुनामास्मदीयं विलोक्य ।

ग्रन्धस्यालीः पठित्वा कथितमिति च तेगाभिधा श्रीगुरूणां
पृष्टा माता जनैः सा वदति मम सुतः स्मैष तेगाभिधानः ।।१२।।

स्वादे पाने विरक्तोऽवधुतजनसखो निस्पृहो वै तपस्वी
लोकैरुक्तं तदेवास्मदपचितिहरो खेप योग्यो गुरुनः ।
अन्धे कोष्ठे स्थितस्यावगमपररतस्य स्वरूपस्य विष्णोः
साक्षात्कारकरक्ताः परमसुखयुतास्तस्य दृष्ट्या जनास्ते ॥ १३ ॥

मात्रा गत्वा समीपं गदितमिति शृणुष्पाञ्चलं ते जनान् वै
सम्यक् भो ग्राहितं श्रीसहितहरिकृष्णेनावितव्यान् सुशिष्यान् ।
तस्मात् सिंहासनस्थः सकलजनहितः पालयख स्वकीर्ति
मर्यादापालनं सजनसहजगतीरक्षणं यत्स्वकानाम् ॥ १४ ॥

प्रोचे स्वां मातरं धूर्वहनमतिदुरन्तं न शक्यं विरक्त-
र्मादृग्भिनिःस्पृहां तैर्जनसकलमनोरञ्जनं कर्मभिः कैः ।
सर्वैः शिष्यैरथोक्तं जनहितकरणं सजनानां हि धर्मः
शेपः पृथ्वी विभर्ति क्लमयति किमु किं पीडमानो विभाति ।।१५।।

पूणेन्दुमिहिकाधनैः परिवृतो नो वीक्षते किं भुवि
श्रुत्वैवं जनसङ्कथा स्वमनसा सम्मत्य संस्नाय च ।
दिव्यं वस्त्रयुगं विधाय नमयन् श्रीमानकापादुका-
रूढः परमासनं जननुतः पुष्पैश्च दिव्यैर्वृतः ॥ १६ ॥

 युग्मम्

इति श्रीकृष्णकौरमिश्रविरचिते श्रयङ्केमहाकाव्ये
हरिकृष्णतेगबहादरगुणगणवर्णनं नाम

त्रयोदशः सर्गः समाप्तः ॥ १३ ॥

चतुर्दशः सर्गः
तेगबहादरगोविन्दसिंहगुणगणवर्णनम् ।

शिष्योऽभून्मष्षणाख्यो गुरुजनभजनरतो ज्ञातिशस्तो लवाणा
आयातः स्वीयगेहाद्बहुवसुषु बरो रौप्यमुद्रासहस्रः ।
भूत्वार्थं श्रीगुरूणां विनत इह ततः पोडशासीनशय्या-
द्वै मुद्रोपायनेन प्रतिशयनमुपायत्पुनस्तेगवाहम् ।। १ ।।

तत्रापीत्थं सुपूजावलिददनपरस्तेन वाचा प्रयुक्तो
मत्साहस्रकमुद्रा किमु धरसि नहि प्रान्ततः कि दिदृक्षुः ।
तेन ज्ञातो गुरुर्वै जगति सुविदितस्तत्पराभावकश्व
तेगो बाहादराख्यो विरतिपर उदारो महान् दानशाली ॥ २ ॥

पञ्चाश्वस्तेगवाहादर उपवनगश्चार्गलावाह्यदेशे
खिन्नो वै दूरयानाद्बहुतृषिततया पीडितोऽतिक्षुधातः ।
संगृह्याखेटवृत्तिं बहुभ्रमणरतः कञ्चिदेवागतं च
दत्त्वा सौवर्णमुद्रामभिलपति जनं मिष्टमन्नादिकं स ॥३॥

प्रेक्षाकर्त्रा च केन भ्रमणपरवशेनात्त इत्थं स पृष्टः
कस्मान्मुद्रा गृहीता क च वसति सना तेन संदर्शितः सः ।
आत्तः कोटाधिपेन क्रमत इह नुरङ्गाख्यशाहं समेतो
वन्द्यां दत्तः स तेनासुखित इह चतुर्भिः स्वशिष्यैरुपेतः ॥४॥

शिष्यत्रय्या स उक्तो वयमिह गलितास्तान् पुनः प्रत्युवाच
भोः सर्वे वन्धहीना मम वचनवलाद्गच्छत खं समाजम् ।
तुर्येणोक्तं सदेहोऽहमुपगमनभाक् श्रीमतां सद्गुरूणां
कञ्चित्कालं विलम्ब्याकथयदिति पुनः खङ्गतो मां जहि त्वम् ।।५।।

देहं मे शीर्षहीनं कुरु मम वचनान्नैव ते पापलेशो
म्लेच्छैद्धमहानि क्रियत इति मया देहहानिस्तु कार्या ।

नो चेत्ते पापयोगोऽस्त्विति गुरुकथनात्तेन तत्सत्कृतं
श्रुत्वेत्थं बादशाहो मनसि धिगिति यत्प्रोक्तवान्मां दुरीहम् ।।६॥

श्रुत्वा तन्मृत्युवार्तामकथयत गुरुः कश्चिदद्यैव यातु
शीर्षं देहं छलेनानयतु मम हितं जायते तत्कृतं हि ।
श्रुत्वा चाण्डाल एकः पुरमगमदहो पातशाहस्य तस्य
गन्त्रीं घासेन पूर्णा पटनमुपगतस्तां च विक्रेतुकामः ॥ ७॥

घासे निक्षिप्तशीर्पोऽविदित उपगतो मापवालं निवासं
दृष्टो गोविन्दसिंहैः सुत इति कथितो रंघडेटोऽस्मदीयः।
तद्दग्ध्वा तत्स्थलं सोरचयत पुनराश्वेव शिष्यैश्च देहो
दिल्ली प्राप्तश्च दग्धो रचितवरतलः पूजितः सर्वलोकैः ॥ ८॥

शोकानों वाक्प्रवन्धं व्यरचत समुपालम्भजालं विलिख्य
पत्रे राजानमुाः प्रतिप्रहितनरस्तत्करे दत्तपत्रः ।
प्रायात्स्वीयालयं सोऽकथयत पुरुषैः शीघ्रता बह्वकारि
भाव्यं यत्खालसं वै शतशरदपरं प्रोदपादि स्वकामात् ॥ ९॥

लोकैर्यत्पीडनीयं तदिह सुजनितं सोऽपि सम्प्राप्तदुःखो
हूत्वा विप्रं महर्पि तदनुगुणतया कालिकाराधनोत्कः ।
केशान् धृत्वा धृतासिर्जपहवनरतः शीघ्रताव्यस्तचेष्टः
खड्गं दृष्ट्वोत्थितः सन्मनसिगतमहाहिंसया नष्टशत्रुः ॥१०॥

यद्राज्ञः पार्वतीयान् प्रति लिखितमिदं देशराजेन देशान
सोऽयं निस्सारणीयः प्रहितपृतनया मेलयित्वा भवद्भिः।
एवं ते सत्क्रिया) निजमरणभयात् क्षिप्त एवच्छलेन
प्रायान्मंचाधिरूढः स्थलवसतिमसौ मौलवीरूपधारी ॥ ११ ॥

तेनाश्वानां च घासादिकमपि नियतं पेयमन्त्रादिकं च
रुद्धं विप्लाविता साधनभरिततरिः पूरमध्ये च नद्याः।

पश्चाद्दक्षाशिकायां भुजगपुरगतः शिष्यलोकैर्नतश्च
तत्रैव त्यक्तदेहो बहुसमयगते प्राप्तसन्मात्रमूर्तिः ॥ १२ ।।

पश्चात् पञ्चाम्बुमध्ये विदितगुणगणः खालसा प्रादुरासी-
तस्यैवेच्छावशेन प्रतिदिनहननं म्लेच्छजातेः प्रजानाम् ।
देशानां लुण्ठनं वै समजनि हिसिनंदादिकानां बलेन
लोकराभाणि किञ्चितस्वलितपदगतिः खालसो वर्त्स्यनीह ॥१३||

ब्रह्मण्यः सत्यसंधः प्रतिदिनममराणां भुवः पूजनान्का
काश्यां गन्तुमहर्पेर्नियतविधिनी क्रोधविक्षिप्तबुद्धः ।
सम्मानार्थं नमाम स्म वदानि च गुरो नैव रोषो विधेयो
जानीत प्राममवाशनबसनधनं नदी सर्वदेयम् ।। १४ ।।

सत्र क्षत्रं सुराज्यं नमुनधनामुग्न युग्मदीयग्रमादान्
सम्पन्नं शत्रुद्दीनं गजरथमदनाढ्यं यशस्विनरागमम् ।
देवा नन्त्राश्च नर्वे मजनविधिवना विप्रमन्दर्शिनाचा
नो चे ऋद्धा मंत्रयुननिहननपग वैदिकीयुन्निपा ॥ १५ ॥

सङ्कल्पो युष्मदीयः फलति बन नया दानमिन्धं सदैव
भूयो भक्तिर्मदीये मनसि नित्रयां श्रद्धया युष्मदीया ।

इति श्रीकृष्णकौरामिश्रविरचिते श्रयङ्के
तेगबहादरगोविन्दसिंहगुणगणवर्णनं नाम

चतुर्दशः सर्गः समाप्तः

पञ्चदशः सर्गः।
श्रीगुरुगोविन्दाभिलाषितामृतसरसि पण्डितब्राह्मणवासवर्णनं।


अमृतसरसि वासिनो द्विजाग्र्य्या
 हरिनारायणतो निरूपिताः ।
लंवपुरत इहागताः स्थिता ये
 विबुधा ज्योतिपवैद्यकाप्तशोभाः ॥ १ ॥

चम्पाकृष्णो हरिभजनको मित्रसेनादिकास्ते
माणाजस्साद्विजजनवरा वंशमध्ये तिवारी ।
श्रीमन्नारायण इति हरिः शब्द एवाऽस्तिपूर्व
यस्याभिख्या जगति मधुरज्ञातिरेव प्रसिद्धाः ॥२॥

श्रीशा भान्ति जयादिसिंहगुरवो यत्कीर्तनान्मादृश
आनन्दं भजते प्रभुः प्रभवतां दौहित्रपुत्रः सुखी ।
यत्सेवानिरतः पुमर्थमखिलं लभ्यं शुभा बुद्धयः
काव्यालंकृतितर्कवेदशिरसां व्याख्याविहारेषुपाः ॥३॥

हीरानन्दो विभाति प्रथितगुणगणो विद्यया भूषिताङ्गो
गोपीकाशीबजेशक्षितिरघुसृजयो नाथयुक्ताः समस्ताः ।
पुत्राः पौत्रा इमे यस्य विदितमहिमा दीर्घजीवित्वयुक्ताः
सोऽयं भाष्यान्तविद्यापठनवितरणे वाक्यतिर्जीवताद्वै ॥४॥

चिरञ्जीवी भाति प्रथितमहिमो भूषणशिव-
पुरो रामौ भातो जगति विदिते शस्त्र य इमे ।
सुता यस्या भान्तीशनयनतयार्केन्दुशुचिषो
यथा विद्याशोभाकमलवसनावान् स जयतु ॥ ५॥

वंशीधरो जगति भातु महानुभावो
 मिश्रः शजाद इति यस्य सुता सुतश्च ।
विद्वान् भवेत् सुतयुतः सुतदीर्घजीवी
 वाणीः मुखे जलधिजा भवने च यस्य ॥६॥

रामो भाति सवायपूर्वक इह श्रीविद्वदग्रेसरो
ज्योतिर्विद्गणिते महामतिरसौ साहित्यहोराप्रवित् ।
काव्यालंकृतितर्कशाब्दनिपुणः श्रीलक्ष्मणेनान्वितो
भार्यापुत्रयुजा महेशकृपया लक्ष्म्या कुबेरोपमः ॥ ७ ॥

ज्योतिः शास्त्रविचारसारनिपुणो लक्ष्म्यालयो बुद्धिभाक्
भाति श्रीगणपप्रसादजनितानन्दो गणेशाभिधः।
दौहित्रेण सदा सुखीं शिवमहेलावाप्तसूनुर्भवे-
द्विप्राशीर्गणमण्डितांकहृदयः स्वच्छो महेच्छोदयी ॥ ८॥

यस्य वाक्सरसि भाति शारदा
 सङ्गतो जयति राययोजितः ।
तत्सुतौ शिवदयालुनाथकौ
 ज्योतिषो विधिवरस्य मेलकौ ॥९॥

जस्सामिश्रो ज्योतिषाग्रेसरो यः
 पुत्रैः पौत्रैः संयुतः श्रीधनाढ्यः ।
शुक्रो जीवो बोधनो दूरदृष्ट्या
 लोकैः पूज्यत्वान्मतेः सूक्ष्मतायाः ॥ १० ॥

श्रीकण्ठः शिव एव पण्डितवरः सत्पुत्रपौत्रान्वितो
वैराग्यात्तु शमादिसाधनरतो लोकेषु मिथ्याशिः ।
भाति श्रीरमणेशब्रह्मसदृशो मुद्रां मनोनिग्रहे
युञ्जानो हरिचिन्तने सुललितां प्रत्यूहविध्वंसिनीम् ॥ ११ ॥

रामान्तो मनमादिनाथसहितो बालादिरानन्दक:
पौत्रः पुत्र इति क्षितिप्रभुवरौ राजाधिमान्यौ शुभौ ।
यस्य स्वर्प्पतिजतुरन्वयधरौ सत्पुत्रपौत्रान्वितो
शास्त्रश्रौतविचारभूपितमती वाणी रमामण्डिती ॥ १२ ॥

सिंहः सुलतानपूर्वः प्रथितगुणयशा विद्यया भूपिताङ्गो
दाने माने सतां वै व्यवहृतिनिपुणः सत्समाजे विभाति ।
राजन्यानां सुपूज्यः सुतधनमहिला शोभितो मातृभक्तो
भैपज्ये पारसीके प्रचुरमतियुतः शस्त्रशास्त्र प्रवीणः ।। १३

साई दासायभूवन्द्रियजितिविदितस्तस्य सूनुशिवादि-
दत्तान्ता राययुक्तः क्षितिविदितगुणस्तस्य मूनुयं च !
विद्याचातुर्यशाली लवपुरवसतिः सन्महादेवनामा
शोभारामो द्वितीयो ग्रहगणितविधी सूर्यसिद्धान्तवेत्ता ॥१४॥

एकः पुत्राऽस्ति कृष्णः कवरपदयुतः श्रीमहादेवनाम्नः
पुत्रैः पौत्रैः प्रपौत्रैः प्रवरगुणगणैः संयुतो भाति लोके ।
कृष्णो विष्णुः सहायाव सति पदयुतश्चाश्चिनाभावुभौ स्तः
शोभारामस्य सून जगति गुणगणी सर्व विद्याप्रवीणों ।। १५ ॥
श्रीदव्या हृत्स्थया वै प्रहितमतिमना कृष्णकारो द्विजोऽहं
व्याख्याचातुर्यशाली ह्यमृतसरसिगं काव्यमेतत्करोमि ।
यस्मिन्नीशावतारा दश कलिविदिता वर्णिताः स्वीयबुद्धया
श्रीगोविन्दस्य सिंहस्य गुणगणयशो गातुकामः प्रवृत्तः ॥१६॥

इति श्रीमिश्रकृष्णकारविरचिते श्रयङ्के महाकाव्ये
श्रीगुरुगोविन्दाभिलपितामृतसरसि पण्डितब्राह्मणवासवर्णनं नाम
पञ्चदशः सर्गः समाप्तः ॥१५॥


शोडशः सर्गः।
श्रीबाबानानकवर्णनपुरःसरं मङ्गलप्रार्थनम् ।

श्रीवाबानानकस्य प्रथमवयसतो मोक्षवार्तारतस्य
श्रीमद्गोविन्दसिंहस्य वचनविदिता मोक्षवार्ता प्रवृत्ता।
वासिष्टोक्तप्रबन्धैरमृतसरसि ये निर्मलाः साधुवादा-
स्तेषामिष्टा प्रवृत्तिस्तदनु जगति वै भाषया सुप्रणीता ॥ १ ॥

लवपुरवासी विद्वान् महान् कृपाराम इति विदितः
प्रतिदिनवासिष्ठकथागृहमध्ये वाच्यते तैस्तु ॥२॥

तच्छ्रोतृृणां प्रशस्तो भुजजनिविदितस्तेषु पन्ना प्रतिष्ठो
नाम्ना दीवानचन्दः प्रथितसदवनिस्तेन वासिष्ठभाषा ।
भूमौ संलिख्य बद्धा प्रतिदिनमवला शूद्रसाधुप्रतीता'
ब्रह्मा द्वैतैकनिष्ठा वदनपरवशाः सर्व एव प्रवृत्ताः ॥३॥

तस्माद्ब्रह्मविचार एव सफलो योऽशीतिकृछ्रप्रदः
श्रद्धापूर्वकशान्तिदान्तिनिरतैर्यच्छोत्रिभिः प्राप्यते ।
भक्त्या चित्तवशेन हूत इव य स्फूतॊ भवेन्मानसे
तब्रह्माहमजन्निरञ्जनवपुः शुद्धं पवित्रं परम् ।। ४ ।।

भक्तोद्धारणदक्षमातिहरणं जिज्ञासिनो ज्ञानद-
मर्थिभ्योऽर्थदमात्मरूपमनघं यत् ज्ञानिनां नित्यदा ।
श्रीकृष्णादिकविग्रहं धरति यद्गोविप्रभूम्यर्थित
सर्वेषामभिवांच्छितं खहृदये ब्रह्माद्वयं नौम्यहम् ॥ ५॥

मायातीतं परं यद्बहुभवनतयानेकरूपो विभाति
पूर्वं ब्रह्मा च विष्णुः शिव इति जगदुत्पत्तिरक्षादिकारी ।
जाग्रत्वमं सुषुप्तिः प्रकटितविभवः सर्वसाक्षीः निराशी:
सच्चितसौख्यस्वरूपो बृहदुपनिषदां सारभूतो विभाति ॥ ६ ॥

तस्यैव लीलया सोऽयं वैत्तप्रकटितविभवः स्वेच्छया राममूर्ति-
र्भूत्वा वैराग्ययुक्तः शमदमनिरतः श्रीगुरुं पृच्छति स्म ।
द्वात्रिंशच्छ्लोकसंघ प्रकरणगुरुकं श्रीवसिष्ठोऽनवीच
श्रीमद्गङ्गाधरेन्द्र्रतिविवृतममुं सर्वलोकाः पिवन्ति ॥ ७ ॥

सर्वोद्धारैकदक्षः कलियुगसमये नानको ग्रंथकारी
यच्छ्रुत्वा धर्मपूर्व लभति फलगणं किं पुनश्चाभ्यसन्वै ।
बुद्धावेतद्विचाहिमपि लघुमतिस्तस्य खक्ष्मावतारान्
पट्क्षित्यध्यायरूपाद्विवरणमिषतो बुद्धिशुद्धिं करोमि ॥ ८॥

श्रीमद्विद्याप्रशस्ता सकलजनहिता पोडशी हेतुभूता
ब्रह्मादिस्थावरान्तप्रतततनुगणे प्राणशक्तिविभाति ।
सर्गः श्लोकैः पौडशैः पदकलनयुतैः सर्गसर्गे च तद्वत्
तेनेयं काव्यरूपा जगति जनहिता भाति देवी भवानी ॥९॥

संवित्स्वानन्दरूपा दुरितभयहरी बुद्धिसम्पद्विधात्री
ब्रह्माद्यैर्वन्धमाना गणपगुहरता विघ्नराशीन् विहन्त्री।
अंतर्बाह्ये विविक्ता भजनरतजनान् मोचयित्री भुजगत्तः
सेयं माता त्रिलोक्या जपनविधिनता भक्तमांगल्यकीं ॥१०॥

कूटत्रयी षोडशवर्णरूपा नानामनूनां जननी प्रकाशिका ।
श्वामादिबालादितनूधराया सा देवता मङ्गलदा प्रभूयात् ॥११॥

ब्रह्माद्या यस्य तेजः सहनविधिपरा नैव शेकुः प्रसोढुं
मूषारूढं बलाढ्यं मितरहितपरानन्तशक्तिं भवान्याः ।
शम्भोश्चानन्दपात्रं जनहितकरणं नाम संस्मृत्युपायात्
विघ्नानां राशिनाशे परमुभयतले धर्मकामान्ददानम् ॥ १२ ॥

विघ्नान्हन्तैकदन्तो विकटइभमुखो धूम्रकेतुर्गणेशो
भाले चन्द्रश्च लम्बोदर उत विकटा सुन्दरास्यो विनता ।

नामान्योतानि पद्मिश्रुतिरिति कथयन्द्वादशेत्थं प्रयाणे
विद्यारम्भे विवाहे सकलशुभविधौ मङ्गलं प्राप्नुवीत ॥ १३ ॥

आदौ श्रीनानकाख्यो रचितदशवपुलॊकमुद्धर्तुकामः
पश्चाच्छीखालसोऽयं जनजनहृदये सम्प्रवृत्तो हठेन ।
भूमौ स्वीयान् सुभक्तान् धनभवनमहाराज्ययुक्तान् प्रकुर्वन्
वैशेष्यात् सौधयुक्ते सरसि विलसति ध्वंसयन् विघ्नपूगान् ॥१४॥

आपातश्चानिशीथं भजनपठनक रागमार्ग वितन्व-
स्तुम्बीवीणामृदङ्गध्वनिविलयततं बुद्धिमत्सजनेषु ।
श्रोतृश्रोत्रप्रवाहेऽमृतरसवितति चारयन् भाति लोके
सोऽयं कल्याणकारी जनहितकरणं साधु भूयात् पृथिव्याम् ॥१५॥

शन्नो मित्रोर्यमा शं भवतु च वरुणःशं न इन्द्रो गुरुः शं
विष्णुः शं नस्विपाद्भिस्त्रिभुवनमुरुधा क्रान्तवान् सं विधाता ।
नीचैरूवं च वामे शमु भवतु बहिर्दक्षिणेऽन्तःशरीरे
देवी बाला भवानी शमवहितगतिः श्रीकरा साधकानाम् ॥१६॥

इति श्रीमिश्रकृष्णकौरविरचिते श्रयङ्के महाकाव्ये
श्रीबाबानानकवर्णनपुरःसरं मङ्गलप्रार्थन
नाम शोडशः सर्गः समाप्तः ॥ १६ ॥

॥ शुभमस्तु ॥

अष्टेष्वष्टैकवर्षे भृगुशिवसहिते ज्येष्ठ शुक्ले निशायां
ग्रन्थः श्रीयुक्त एष प्रथितगुणगणो लिख्यते पूरयित्वा ।
कौरेण ब्राह्मणेन त्रिपुरजननिपादान एवोपनीतः
पूजावल्यर्थमाला त्वभिमतफलदो मङ्गलश्रीविधाता ॥ १ ॥










हिन्दी प्रेस रेलवे रोड लाहौर में छपी ।



नाम सूची

नाम पृष्ठ लोक अकालसिंह २ to oc w to not २८ यझेद " २९ अटल्लरीय अणीराय १६ अमरदास २४ (३२ श्रमरसिंह २ अर्जुन the अस्रबीज अर्धमृगाधिपपुर ३ कर्मपुर कल्पमहीरुह कवीर कालू काशीनाथ १६ २ कृपाराम क्षितिनाथ ४२ | २. (२० खुशालसिंह ६ १२. ४६ ४३ २ गङ्गाधर गणेश गुजरपुर गुरुदित्त गुरुवपशसिह १ २ २ गुलाब सिंह गोपीनाथ ४२ १ २ २० गोबिन्दसिंह ८ ४० २ ३ गांदवाल चढतापुर २ सिंह ११,१२ २० ४२ चम्पाकृष्ण जयन्त २ ६ १२ जयसिंह २० (४२ जयसिंहपुर ३ ४२ जस्सा जस्सामिश्र (२ (२० २० ७ जस्सासिंह जीतोजी जुरावरसिंह ज्वालानन्द झण्डापुर झण्डासिंह १,२ { २ (२१ २० ५ झुझार टुण्ड तरणतारण तारासिंह २ २० १ तारासिंहवसतिः तिलवण्डी १ तेगबहादर २ (३९ निहुण दाम् १ og mor son o o on २ 2, १६ २८ नानक ५ ३२ ४५ ।७४ ६ श्रीकण्ठ ४३ ११ श्रीचन्द्र ४३ १ 1500१४ २० सजतराय सवायराम साईदास सालसर सुजानसिंहवसतिः सुथरा सुन्दरी सुभागसिंह सुलतानसिंह सूत सूर्यमल्ल सुजिनाथ हकीकसिंह हकीकतपुर हरनारायण २ ४४ ६ १३ १ १६ ४२ ४ ६ ३ १ १ ४२ २ हरिकृष्ण १ १५ हरिगोविन्द १८ १६ १ २० ४२ हरिजसासिंह हरिनारायण हरिभजन ७ १ १ हरिराय २ (३४ ५ २० १२ हरिसिंह हरीहरिपुर हीरानन्द २ ४२ Published by The D. A.-V. COLLEGE RESEARCH DEPARTMENT, LAHORE. First Impression, 500 Copies. Price Re. I per copy. Printed at the HINDI PRESS LAHORE; And the title by, SHRI KRISHNA DIKSHITA BOMBAY MACRINE PRESS, LAHORE.

"https://sa.wikisource.org/w/index.php?title=श्र्यङ्ककाव्यम्&oldid=309250" इत्यस्माद् प्रतिप्राप्तम्