प्रणिपत्य रविं मूर्ध्ना वराहमिहिरात्मजेन पृथुयशसा ।
प्रश्ने कृतार्थगहना परार्थमुदिश्य सद्यशसा ।। १ ।।
लग्नचतुर्थसप्तमदशानां स्थानानां विचारप्रविभागमाह
च्युतिर्विलग्नाद्धिबुकाच्च वृद्धिर्मध्यात् प्रवासोऽस्तमयान्निवृत्तिः ।
वाच्यं ग्रहैः प्रश्नविलग्नकालाद् गृहं प्रविष्टो हिबुके प्रवासी ।। २ ।।
अधुना तन्वादीनां द्वादशभावानां शुभाशुभज्ञानमाह
यो यो भावः स्वामिदृष्टो युतो वा
     सौम्यैर्वा स्यात्तस्य तस्यास्ति वृद्धिः ।
पापैरेवं तस्य भावस्य हानि-
     र्निर्देष्टव्या पृच्छतां जन्मतो वा ।। ३ ।।
प्रश्नसमये लाभादौ शुभाशुभज्ञानमाह
सौम्ये विलग्ने यदि वाऽस्य वर्गे शीर्षोदये सिद्धिमुपैति कार्यम् ।
सतो विपर्यस्तमसिद्धिहेतुः कृच्छ्रेण संसिद्धिकरं विमिश्रम् ।। ४ ।।
नष्टलाभज्ञानमाह
होरास्थितः पूर्णतनुः शशाङ्को जीवेन दृष्टो यदि वा सितेन ।
क्षिप्रं प्रणष्टस्य करोति लब्धिं लाभोपयातो दलवाञ्छुभश्च ।। ५ ।।
ह्रतनष्टमुष्टिगतचिन्त्तितानां धातुमूलजीवानां परिज्ञानमाह
स्वांशं विलग्ने यदि वा त्रिकोणे
     स्वांशे स्थितः पश्यति धातुचिन्ताम् ।
परांशकस्थश्च करोति जीवं
     मूलं परांशोपगतः परांशम् ।। ६ ।।
प्रकारान्तरेणाह
धातुं मूलं जीवमित्योजराशौ युग्मे विद्यादेतदेव प्रतीपम् ।
लग्ने योंऽशस्तत्क्रमाद् गण्य एवं सङ्क्षेपोऽयं विस्तरात्तत्प्रभेदः ।। ७ ।।