प्रमुखा विकल्पसूचिः उद्घाट्यताम्

[व्]
इत्युक्तवति भीष्मे तु तूष्णी भूते युधिष्ठिरः।
पप्रच्छावसरं गत्वा भ्रातॄन्विदुर पञ्चमान्॥१॥

धर्मे चार्थे च कामे च लोकवृत्तिः समाहिता।
तेषां गरीयान्कतमो मध्यमः को लघुश्च कः॥२॥

कस्मिंश्चात्मा नियन्तव्यस्त्रिवर्गविजयाय वै।
सन्तुष्टा नैष्ठिकं वाक्यं यथावद्वक्तुमर्हथ॥३॥

ततोऽर्थगतितत्त्वज्ञः प्रथमं प्रतिभानवान्।
जगाद विरुदो वाक्यं धर्मशास्त्रमनुस्मरन्॥४॥

बाहुश्रुत्यं तपस्त्यागः श्रद्धा यज्ञक्रिया क्षमा।
भावशुद्धिर्दया सत्यं संयमश्चात्मसम्पदः॥५॥

एतदेवाभिपद्यस्व मा ते भूच्चलितं मनः।
एतन्मूलौ हि धर्मार्थावेतदेकपदं हितम्॥६॥

धर्मेणैवर्षयस्तीर्णा धर्मे लोकाः प्रतिष्ठिताः।
धर्मेण देवा दिविगा धर्मे चार्थः समाहितः॥७॥

धर्मो राजन्गुणश्रेष्ठो मध्यमो ह्यर्थ उच्यते।
कामो यवीयानिति च प्रवदन्ति मनीषिणः।
तस्माद्धर्मप्रधानेन भवितव्यं यतात्मना॥८॥

समाप्तवचने तस्मिन्नर्थशास्त्रविशारदः।
पार्थो वाक्यार्थतत्त्वज्ञो जगौ वाक्यमतन्द्रितः॥९॥

कर्मभूमिरियं राजन्निह वार्ता प्रशस्यते।
कृषिवाणिज्य गोरक्ष्यं शिल्पानि विविधानि च॥१०॥

अर्थ इत्येव सर्वेषां कर्मणामव्यतिक्रमः।
न ऋतेऽर्थेन वर्तेते धर्मकामाविति श्रुतिः॥११॥

विजयी ह्यर्थवान्धर्ममाराधयितुमुत्तमम्।
कामं च चरितुं शक्तो दुष्प्रापमकृतात्मभिः॥१२॥

अर्थस्यावयवावेतौ धर्मकामाविति श्रुतिः।
अर्थसिद्ध्या हि निर्वृत्तावुभावेतौ भविष्यतः॥१३॥

उद्भूतार्थं हि पुरुषं विशिष्टतर योनयः।
ब्रह्माणमिव भूतानि सततं पर्युपासते॥१४॥

जटाजिनधरा दान्ताः पङ्कदिग्धा जितेन्द्रियाः।
मुण्डा निस्तन्तवश्चापि वसन्त्यर्थार्थिनः पृथक्॥१५॥

काषायवसनाश्चान्ये श्मश्रुला ह्रीसुसंवृताः।
विद्वांसश्चैव शान्ताश्च मुक्ताः सर्वपरिग्रहैः॥१६॥

अर्थार्थिनः सन्ति के चिदपरे स्वर्गकाङ्क्षिणः।
कुलप्रत्यागमाश्चैके स्वं स्वं मार्गमनुष्ठिताः॥१७॥

आस्तिका नास्तिकाश्चैव नियताः संयमे परे।
अप्रज्ञानं तमो भूतं प्रज्ञानं तु प्रकाशता॥१८॥

भृत्यान्भोगैर्द्विषो दण्डैर्यो योजयति सोऽर्थवान्।
एतन्मतिमतां श्रेष्ठ मतं मम यथातथम्।
अनयोस्तु निबोध त्वं वचनं वाक्यकण्ठयोः॥१९॥

ततो धर्मार्थकुशलौ माद्रीपुत्रावनन्तरम्।
नकुलः सहदेवश्च वाक्यं जगदतुः परम्॥२०॥

आसीनश्च शयानश्च विचरन्नपि च स्थितः।
अर्थयोगं दृढं कुर्याद्योगैरुच्चावचैरपि॥२१॥

अस्मिंस्तु वै सुसंवृत्ते दुर्लभे परमप्रिय।
इह कामानवाप्नोति प्रत्यक्षं नात्र संशयः॥२२॥

योऽर्थो धर्मेण संयुक्तो धर्मो यश्चार्थसंयुतः।
मध्विवामृत संयुक्तं तस्मादेतौ मताविह॥२३॥

अनर्थस्य न कामोऽस्ति तथार्थोऽधर्मिणः कुतः।
तस्मादुद्विजते लोको धर्मार्थाद्यो बहिष्कृतः॥२४॥

तस्माद्धर्मप्रधानेन साध्योऽर्थः संयतात्मना।
विश्वस्तेषु च भूतेषु कल्पते सर्व एव हि॥२५॥

धर्मं समाचरेत्पूर्वं तथार्थं धर्मसंयुतम्।
ततः कामं चरेत्पश्चात्सिद्धार्थस्य हि तत्फलम्॥२६॥

विरेमतुस्तु तद्वाक्यमुक्त्वा तावश्विनोः सुतौ।
भीमसेनस्तदा वाक्यमिदं वक्तुं प्रचक्रमे॥२७॥

नाकामः कामयत्यर्थं नाकामो धर्ममिच्छति।
नाकामः कामयानोऽस्ति तस्मात्कामो विशिष्यते॥२८॥

कामेन युक्ता ऋषयस्तपस्येव समाहिताः।
पलाशफलमूलाशा वायुभक्षाः सुसंयताः॥२९॥

वेदोपवादेष्वपरे युक्ताः स्वाध्यायपारगाः।
श्राद्धयज्ञक्रियायां च तथा दानप्रतिग्रहे॥३०॥

वणिजः कर्षका गोपाः कारवः शिल्पिनस्तथा।
दैवकर्म कृतश्चैव युक्ताः कामेन कर्मसु॥३१॥

समुद्रं चाविशन्त्यन्ये नराः कामेन संयुताः।
कामो हि विविधाकारः सर्वं कामेन सन्ततम्॥३२॥

नास्ति नासीन्नाभविष्यद्भूतं कामात्मकात्परम्।
एतत्सारं महाराज धर्मार्थावत्र संश्रितौ॥३३॥

नव नीतं यथा दध्नस्तथा कामोऽर्थधर्मतः।
श्रेयस्तैलं च पिण्याकाद्धृतं श्रेय उदश्वितः॥३४॥

श्रेयः पुष्पफलं काष्ठात्कामो धर्मार्थयोर्वरः।
पुष्पितो मध्विव रसः कामात्सञ्जायते सुखम्॥३५॥

सुचारु वेषाभिरलङ्कृताभिर् मदोत्कटाभिः प्रियवादिनीभिः।
रमस्व योषाभिरुपेत्य कामं कामो हि राजंस्तरसाभिपाती॥३६॥

बुद्धिर्ममैषा परिषत्स्थितस्य मा भूद्विचारस्तव धर्मपुत्र।
स्यात्संहितं सद्भिरफल्गुसारं समेत्य वाक्यं परमानृशंस्यम्॥३७॥

धर्मार्थकामाः सममेव सेव्या यस्त्वेकसेवी स नरो जघन्यः।
द्वयोस्तु दक्षं प्रवदन्ति मध्यं स उत्तमो यो निरतिस्त्रिवर्गे॥३८॥

प्राज्ञः सुहृच्चन्दनसारलिप्तो विचित्रमाल्याभरणैरुपेतः।
ततो वचः सङ्ग्रहविग्रहेण प्रोक्त्वा यवीयान्विरराम भीमः॥३९॥

ततो मुहूर्तादथ धर्मराजो वाक्यानि तेषाम् अनुचिन्त्य सम्यक्।
उवाच वाचावितथं स्मयन्वै बहुश्रुतो धर्मभृतां वरिष्ठः॥४०॥

निःसंशयं निश्चित धर्मशास्त्राः सर्वे भवन्तो विदितप्रमाणाः।
विज्ञातु कामस्य ममेह वाक्यम् उक्तं यद्वै नैष्ठिकं तच्छ्रुतं मे।
इह त्ववश्यं गदतो ममापि वाक्यं निबोधध्वमनन्यभावाः॥४१॥

यो वै न पापे निरतो न पुण्ये नार्थे न धर्मे मनुजो न कामे।
विमुक्तदोषः समलोष्ट काञ्चनः स मुच्यते दुःखसुखार्थ सिद्धेः॥४२॥

भूतानि जाती मरणान्वितानि जरा विकारैश्च समन्वितानि।
भूयश्च तैस्तैः प्रतिबोधितानि मोक्षं प्रशंसन्ति न तं च विद्मः॥४३॥

स्नेहे न बुद्धस्य न सन्ति तानीत्य् एवं स्वयम्भूर्भगवानुवाच।
बुधाश्च निर्वाणपरा वदन्ति तस्मान्न कुर्यात्प्रियमप्रियं च॥४४॥

एतत्प्रधानं न तु कामकारो यथा नियुक्तोऽस्मि तथा चरामि।
भूतानि सर्वाणि विधिर्नियुङ्क्ते विधिर्बलीयानिति वित्तसर्वे॥४५॥

न कर्मणाप्नोत्यनवाप्यमर्थं यद्भावि सर्वं भवतीति वित्त।
त्रिवर्गहीनोऽपि हि विन्दतेऽर्थं तस्मादिदं लोकहिताय गुह्यम्॥४६॥

ततस्तदग्र्यं वचनं मनोऽनुगं समस्तमाज्ञाय ततोऽतिहेतुमत्।
तदा प्रणेदुश्च जहर्षिरे च ते कुरुप्रवीराय च चक्रुरञ्जलीन्॥४७॥

सुचारु वर्णाक्षर शब्दभूषितां मनोऽनुगां निर्धुत वाक्यकण्टकाम्।
निशम्य तां पार्थिव पार्थ भाषितां गिरं नरेन्द्राः प्रशशंसुरेव ते।
पुनश्च पप्रच्छ सरिद्वरासुतं ततः परं धर्ममहीन सत्त्वः॥४८॥

॥[इति षड्जगीता समाप्ता॥

"https://sa.wikisource.org/w/index.php?title=षड्जगीता&oldid=57508" इत्यस्माद् पुनः प्राप्तिः