षड्विंशब्राह्मणम्/तृतीयोऽध्यायः

अथ तृतीयोऽध्यायः

यद्धोता जहाति वाग्घ तद्यजमानं जहाति स यत्तत्करोति स्वाँ वाचँ यजमाने दधाति स विष्वङ् वाचामुष्मिँल्लोके सम्भवति ॥१॥ यदध्वर्युर्जहाति चक्षुर्ह तद्यजमानं जहाति स यत्तत् करोति स्वं चक्षुर्य्यजमाने दधाति स विष्वङ्चक्षुषामुष्मिँल्लोके सम्भवति ॥२॥ यदब्रह्मा जहाति मनो ह तद्यजमानं जहाति स यत्तत् करोति स्वं मनो यजमाने दधाति स विष्वङ् मनसामुष्मिँल्लोके सम्भवति॥३॥ यदुद्गाता जहाति श्रोत्रँ ह तद्यजमानं जहाति स यत्तत्करोति स्वँ श्रोत्रँ यजमाने दधाति स विष्वङ् श्रोत्रेणामुष्मिँल्लोके सम्भवति ॥४॥ यत्सदस्यो जहात्यात्मा ह तद्यजमानं जहाति स यत्तत्करोति स्वमात्मानँ यजमाने दधाति स विष्वङ्ङात्मनामुष्मिँल्लोके सम्भवति ॥५॥ यद्धोत्राशँसिनो जहत्यङ्गानि ह तद्यजमानं जहति ते यत्तत्कुर्वन्ति स्वान्यङ्गानि यजमाने दधति ते विश्वञ्चोऽङ्गैरमुष्मिँल्लोके सम्भवन्ति ॥६॥ यच्चमसाध्वर्य्यवो जहति लोमानि ह तद्यजमानं जहति ते यत्तत्कुर्वन्ति स्वानि लोमानि यजमाने दधति ते विष्वञ्चो लोमभिरमुष्मिँल्लोके सम्भवन्ति॥७॥ तस्मादेवँ विद्यज्ञे हीनं न कुर्य्यात् ॥८॥ अथ वा अत ऋत्विजामेव विज्ञानम् ॥९॥ पशवो हाध्वर्य्युमनुकीर्तिर्होतारँ योगक्षेमो ब्रह्माणमात्मा च प्रजा चोद्गातारम्॥१०॥ इति प्रथमः खण्डः॥३/१॥

स यदि पशुतो व्याधीयेताध्वर्युर्म इदमकरिति विद्यादथ यद्येनं पापिका कीर्त्तिरनूदियाद्धोता म इदमकरिति विद्यादथ यद्यस्य योगक्षेमो व्यथेत ब्रह्मा म इदमकरिति विद्यादथ यद्यात्मना वा प्रजया वा व्याधीयेतोद्गाता म इदमकरिति विद्यात॥१॥ प्राणदेवत्यो वै ब्रह्मा वाग्देवत्या इतर ऋत्विजस्स यदि मन्येत ब्रह्मा स इदमकरिति हरितँ हिरण्यं दर्भानाड्या प्रबध्य स्रुच्यवधाय चतुर्गृहीतमाज्यं गृहीत्वा जुहुयान्नमः प्राणाय वाचस्पतये स्वाहेति यद्यु वा इतरे नमो वाचे प्राणपत्न्यै स्वाहेति यदीतरो यदिवेतरे सर्व्वेष्वेवानुपर्य्यायं जुहुयान्नमः प्राणाय वाचस्पतये स्वाहा नमो वाचे प्राणपत्न्यै स्वाहेति ॥२॥ अथ तद्धिरण्यं ब्रह्मणे दद्यात् ॥३॥ अथ यदाह यज्ञ वाव यज्ञस्य प्रायश्चित्तिरिति पुनर्य्यज्ञ एव स एते उ ह त्वेवाहुती यज्ञविभ्रष्टस्य प्रायश्चित्तिरिति॥४॥ इति द्वितीयः खण्डः॥३/२॥

ते वा ऋत्विजः स यजमानो दैवा वा अन्य ऋत्विजो मानुषा अन्ये यं दैवा याजयन्ति देवलोकमेव स तैरवरुन्धे न मनुष्यलोकमथ यं मानुषा याजयन्ति मनुष्यलोकमेव स तैरवरुन्धे न देवलोकमथ यमुभये याजयन्ति देवलोकं चैव स तैरवरुन्धे मनुष्यलोकं च ॥१॥ स एतान्दैवानृत्विजो वृणीताग्ग्निर्म्मे होतादित्यो मेऽध्वर्युश्चन्द्रमा मे ब्रह्मा पर्ज्जन्यो म उद्गाताकाशो मे सदस्य आपो मे होत्राशँसिनो रश्मयो मे चमसाध्वर्य्यवः ॥२॥ स एतान्दैवानृत्विजो वृत्वाथैतान् मानुषान् वृणीत य एनमभिराधयेयुः ॥३॥ अथ क्षत्रियं देवयजनँ याचेत् ॥४॥ स चेत्तस्मै दद्याद्देवयजनवान् भूया इत्येनं ब्रूयात् ॥५॥ न चेत्तस्मै दद्याद्यदहं देवयजनँ वेद तस्मिँस्त्वावृश्चानीत्येनं ब्रूयात्॥६॥ अग्ग्निर्वां व तद्देवयजनं भूमिर्व्वाव तद्देवयजनमापो वाव तद्देवयजनँ श्रद्धा वाव तद्देवयजनमेतेषु ह वा एनं देवयजनेष्वावृश्चत्यथो हार्त्तिमेवापौरुषेयीन्नेति ॥७॥ अथ तत एत्यर्त्त्विजो देवयजनँ याचेत् ॥८॥ अग्ग्निर्मेयी होता स मे देवयजनं ददातु होतर्द्देवयजनम्मे देहीत्युच्चैरादित्यो मेऽध्वर्य्युस्स मे देवयजनं ददात्वध्वर्य्यो देवयजनम्मे देहीत्युच्चैश्चन्द्रमा मे ब्रह्मा स मे देवयजनं ददातु ब्रह्मन् देवयजनम्मे देहीत्युच्चैः पर्ज्जन्यो म उद्गाता स मे देवयजनं ददातूद्गातर्द्देवयजनम्मे देहीत्युच्चैराकाशो मे सदस्यस्स मे देवयजनं ददातु सदस्य देवयजनम्मे देहीत्युच्चैरापो मे होत्राशँसिनस्ते मे देवयजनं ददतु होत्राशँसिनो देवयजनम्मे दत्तेत्युच्चैः रश्मयो मे चमसाध्वर्य्यवस्ते मे देवयजनं ददतु चमसाध्वर्य्यवो देवयजनम्मे दत्तेत्युच्चैः ॥९॥ ता वा एता देवता ऋत्विजामेव वाग्भिर्द्देवयजनं ददति स दत्ते यजते ॥१०॥ यदुन्नतं भूम्या अनूषरँ यत्र बहुला ओषधयश्चात्वालसारिण्यो यत्रापः स्युः ॥११॥ तस्य न पुरस्ताद्देवयजनमात्रमतिशिष्याद्यावाञ्छम्याप्रासः ॥१२॥ अवरपुरुषा हास्माच्छ्रेयाँसो भवन्ति यस्यैवमतिरेचयन्ति ॥१३॥ कामं दक्षिणत आगामुका हैनं दक्षिणा भवन्ति ॥१४॥ कामं पश्चादवरपुरुषा हास्माच्छ्रेयाँसो भवन्ति ॥१५॥ काममुत्तरत उत्तरा हैनं देवयज्योपनामुका भवत्युत्तरोत्तरणी हास्य श्रीर्भवति ॥१६॥ यस्य पुरस्तात् त्रीणि ज्योतीँषि दृश्येरन्नग्ग्निरापआदित्यस्तद्देवयजनं तत्त्रिशुक्रियम् ॥१७॥ पुरस्ताच्चित्रं देवयजनम् ॥१८॥ पश्चाच्चित्रँ श्मशानकरणम् ॥१९॥ प्रागुदक्प्रवणं देवयजनम् ॥२०॥ पश्चाद्दक्षिणाप्रवणँ श्मशानकरणम् ॥२१॥ यथा वै दक्षिणः पाणिरेवं देवयजनम् ॥२२॥ यथा सव्यस्तथा श्मशानकरणम् ॥२३॥ यथा श्मशानकरणं तथाभिचरणीयानां देवयजनम ॥२४॥ अप्यु हैक आहुर्यस्मिन्नेव कस्मिंश्चिद्देशे श्रद्दधानो यजत ऋध्नोत्येवेति ॥२५॥ इति तृतीयः खण्डः ॥३/३॥

यावान् यज्ञे रसो भवति तेनात एव प्राचीनं प्रचरन्त्यथैतद्यातयाम परिशिष्यतर्ज्जीषन्तन्नाह तस्मै यदवृथैवापास्येयुर्नो तस्मै यदग्ग्नावनु प्रहरेयुस्तेनाप एवाभ्यवयन्ति ॥१॥ आपो वै सर्व्वस्य शान्तिः प्रतिष्ठा ॥२॥ पाप्मानँ हैष हन्ति यो यजते तमिमं पाप्मानँ हतमपो हराणीति ॥३॥ तेनान्तरेण प्रतिपद्यन्ते चात्वालं चोत्करञ्च ॥४॥ एतद्वै देवानां तीर्थम् ॥५॥ तदेतदृषिराहात्मानं तीर्थं क इह प्रवोचद्येन देवाः पथा प्रपिबन्ते सुतस्येति ॥६॥ एतद्वै देवानां तीर्थमतीर्थँ ह्येव यज्ञस्यातोऽन्यत् ॥७॥ तस्मादेतेनैव प्रसृते प्रपद्येतैतेन विष्क्रामेत् ॥८॥ तान् प्रच्युतान् देवयजनादप्राप्तानप एतस्मिन्नवकाशे रक्षाँस्यजिघाँसन्त्स एतदग्ग्नी रक्षोहा सामापश्यत्तान्येतेनापाहत तान्यमुर्ह्यपहतानि सन्तीति देवा अकुर्व्वनित्येवैतद्रक्षाँस्यपसेधति ॥९॥ तस्याहावोऽहाव इति स्तोभान्त्स्तोभत्यहावोस्त्वहावोऽस्त्वित्येवैतद्रक्षाँस्यपसेधति ॥१०॥ अग्ग्निष्टपति प्रतिदहतीत्याह रक्षाँस्येव तत्प्रतिदहति ॥११॥ पादाय पादाय स्तोभा अनुवर्त्तन्ते रक्षसामपहत्यै ॥१२॥ विश्वँ समत्रिणं दह विश्वँ समत्रिणं दहेत्यत्रिणो वै रक्षाँसि पाप्मानोऽत्रिणोऽत्रिण एवैतद्रक्षाँसि पाप्मानमपसेधति ॥१३॥ तस्य त्रिर्निधनमाहुः ॥१४॥ यँ वै सुहतं घ्नन्ति न स पुनरुद्रिङ्क्ते यथाह पुनः पुनरादाय सुहतँ हन्यात्तादृगेतत् ॥१५॥ तद्वा अतिच्छन्दस्सु भवति ॥१६॥ वारणमिव वा एतच्छन्दो यदतिच्छन्दो वारणानीव रक्षाँस्यरण्यायतनानि तद्यथा स्वमरण्यमभयेनातिक्रामेत्तादृगेतत् ॥१७॥ तद्वै सप्तपदासु भवति ॥१८॥ सप्त वै छन्दाँसि चतुरुत्तराणि तद्यथा सर्वैश्छन्दोभिरभयेनातिक्रामेत्तादृगेतत् ॥१९॥ तस्य त्रिर्व्सचन एकविँशतिः पदानि त्रिः सामाह तच्चतुर्विँशतिः ॥२०॥ चतुर्व्विँशतिरर्धमासाः सँवत्सरस्सँवत्सरः साम ॥२१॥ तस्य ह वा एतस्य सँवत्सरस्य साम्नोऽहोरात्राणि हिङ्कारोऽर्धमासाः प्रस्तावो मासा आदिर्ऋतव उद्गीथः पौर्णमास्यः प्रतिहारोऽष्टका उपद्रवोऽमावास्या निधनम् ॥२२॥ तस्य ह वा एतस्य सँवत्सरस्य साम्नो वसन्तो हिङ्कारो ग्रीष्मः प्रस्तावो वर्षा उद्गीथः शरत्प्रतिहारो हेमन्तो निधनम ॥२३॥तस्माद्धेमन्तं प्रजा निधनकृता इवासते निधनरूपमेवैतर्हि ॥२४॥ तदाहुः कां दिशमवभृथमभ्यवेयुरिति ॥२५॥ प्राञ्चोऽभ्यवेयुर्द्देवानाँ वा एषा दिग्यत्प्राची या देवानां दिक्तां नोऽनु यज्ञः सन्तिष्ठाता इति ॥२६॥ दक्षिणाभ्यवेयुः पाप्मानँ हैष हन्ति यो यजते तमिमं पाप्मानँ हतं दक्षिणाहराणीति पितॄणाँ वा एषा दिग्यद्दक्षिणा या पितॄणां दिक्तां नोऽनु यज्ञः सन्तिष्ठाता इति ॥२७॥ प्रत्यञ्चोऽभ्यवेयुर्मनुष्याणाँ वा एषा दिग्यत्प्रतीची या मनुष्याणां दिक्तां नोऽनु यज्ञः सन्तिष्ठाता इति ॥२८॥ उदञ्चोऽभ्यवेयुर्न्नक्षत्राणाँ वा एषा दिग्यदुदीची या नक्षत्राणां दिक्तां नोऽनु यज्ञः सन्तिष्ठाता इति ॥२९॥ अतो वाव यतमथैव कतमथा चापः स्युस्तदभ्यवेयुः ॥३०॥ यद्वै विद्वान्कर्म्म करोत्यस्मादिदमिति वसीयानेव तेन भवति ॥३१॥ तदाहुः स्रवन्तीष्वभ्यवेयू३ स्थावरासू३ इति ॥३२॥ स्रवन्तीष्वभ्यवेयुः पाप्मानँ हैष हन्ति यो यजते तमिमं पाप्मानँ हतमपः प्रवहतामिति॥३३॥ स्थावरा याः शीपल्यास्तास्वभ्यवेयुरितो मा यज्ञो विक्षुब्धः प्रत्युपतिष्ठाता इति ॥३४॥ अतो वाव यतरथैव कतरथा चापाः स्युस्तदभ्यवेयुः ॥३५॥ यद्वै विद्वान्कर्म्म करोत्यस्मादिदमिति वसीयानेव तेन भवति ॥३६॥ इति चतुर्थः खण्डः ॥३/४॥

एकस्यै हिङ्करोति स प्रथमया तिसृभ्यो हिङ्करोति स मध्यमया पञ्चभ्यो हिङ्करोति स उत्तमया एकस्यै हिङ्करोति स प्रथमया तिसृभ्यो हिङ्करोति स पराचीभिः पञ्चभ्यो हिङ्करोति स एकया स एकया स तिसृभिरिषुस्त्रिवृतो विष्टुतिः ॥१॥ अभिचरन्त्स्तुवीत ॥२॥ अनीकं प्रथमा इषुर्धनुर्ज्ज्या यत्तिस्रस्सन्दधाति व्येव पञ्चभिः सृजते ॥३॥ स्तृणुते भ्रातृव्यँ वसीयानात्मना भवति य एतया स्तुते ॥४॥ इति पञ्चमः खण्डः ॥३/५॥

तिसृभ्यो हिङ्करोति स पराचीभिस्तिसृभ्यो हिङ्करोति स पराचीभिर्न्नवभ्यो हिङ्करोति स तिसृभिस्स तिसृभिस्स तिसृभिः ॥१॥ अभिचरन्त्स्तुवीत ॥२॥ वज्ज्रो वै त्रिवृद्वज्ज्रस्त्रिणवो यत्त्रिवृत्त्रिणवाभ्यां पञ्चदशँ विदधाति वज्ज्रमेव तत्सम्यक् सन्दधाति ॥३॥ एवमिव वै वज्ज्रः साधुर्य्यदारम्भणतोऽणीयान् प्रहरणतः स्थवीयान्॥४॥ तेन पाप्मानं भ्रातृव्यँ स्तृणुते वसीयानात्मना भवति य एतया स्तुते ॥५॥ इति षष्ठः खण्डः।।३/६॥ ॥

एतयैवाभिचरन्त्स्तुवीत ॥१॥ वज्ज्रो वै त्रिवृद्वज्ज्रः पञ्चदशो वज्रस्त्रिणवो यत्त्रिवृत्पञ्चदशत्रिणवैः सप्तदशँ विदधाति वज्ज्रमेव तत्सम्यक् सन्दधाति ॥२॥ एवमिव वै वज्ज्रस्साधुर्य्यदारम्भणतोऽणीयान् प्रहरणतः स्थवीयान् ॥३॥ तेन पाप्मानं भ्रातृव्यँ स्तृणुते वसीयानात्मना भवति य एतया स्तुते ॥४॥ इति सप्तमः खण्डः ॥३/७॥

तिसृभ्यो हिङ्करोति स पराचीभिर्न्नवभ्यो हिङ्करोति स तिसृभिस्स तिसृभिस्स तिसृभिर्न्नवभ्यो हिङ्करोति स तिसृभिस्स तिसृभिस्स तिसृभिरभिचरन्त्स्तुवीत ॥१॥ वज्ज्रो वै त्रिवृद्वज्ज्रस्त्रिणवो यत्त्रिवृत्त्रिणवाभ्यामेकविँशँ विदधाति वज्ज्रमेव तत्सम्यक् सन्दधाति ॥२॥ एवमिव वै वज्ज्रस्साधुर्य्यदारम्भणतोऽणीयान्प्रहरणतस्स्थवीयाँस्तेन पाप्मानं भ्रातृव्यँ स्तृणुते वसीयानात्मना भवति य एतया स्तुते ॥३॥ इत्यष्टमः खण्डः॥३/८॥
 
नवभ्यो हिङ्करोति स तिसृभिस्स तिसृभिस्स तिसृभिर्न्नवभ्यो हिङ्करोति स तिसृभिस्स तिसृभिस्स तिसृभिर्न्नवभ्यो हिङ्करोति स तिसृभिस्स तिसृभिस्स तिसृभिरभिचरन्त्स्तुवीत ॥१॥ वज्ज्रो वै त्रिणवो वज्ज्रमेव तत्पराञ्चं प्रवर्त्तयति स्तृत्यै तेन पाप्मानं भ्रातृव्यँ स्तृणुते वसीयानात्मना भवति य एतया स्तुते ॥२॥ इति नवमः खण्डः ॥३/९॥

इति तृतीयोऽध्यायः