सामवेदः/कौथुमीया/षड्विंशब्राह्मणम्/द्वितीयोऽध्यायः

अथ द्वितीयोऽध्यायः

प्रजापतिरकामयत बहुः स्यां प्रजायेयेति स एताँ रेतस्यामृचँ साम्ना प्रच्छन्नामगायत् यदृचमसाम्नीमगास्यदस्थ्यमाँसमजनिष्यत यत्सामानृचं माँसमनस्थिकमजनिष्यत ऋचँ साम्ना प्रच्छन्नां गायति तस्मात्पुरुषः प्रच्छन्नो माँसेन त्वचा लोम्ना जायते ॥१॥ त्रिरुद्गृह्णाति ॥२॥ त्रय इमे लोका एषाँ लोकानामवरुद्ध्यै त्रिभ्यश्च रेतः सिच्यते ॥३॥ न हिं कुर्यात् ॥४॥ वज्ज्रो वै हिङ्कारो बलमिव रेतो यद्धिंकुर्याद्वज्ज्रेण हिङ्कारेण रेतः सिक्तँ विच्छिन्द्यात् ॥५॥ रेतस्या छन्दसा प्राजापत्या देवतया सर्व्वमेतया ध्यायन् गायेत्सर्व्वँ हीदँ रेतः ॥६॥ द्वितीयां गायति ॥७॥ तस्या द्वे अक्षरे सशयनी व्यतिषजति मध्यमस्य च पादस्योत्तममुत्तमस्य च प्रथमम् ॥८॥ व्यतिषक्तौ प्राणापानौ प्रजा दधतः ॥९॥ गायत्री छन्दसाग्ग्नेयी देवतया पृथिवीमेतया ध्यायन्गायेत् ॥१०॥ तृतीयां गायति ॥११॥ तां बलवदिवोरसेव गायति ॥१२॥ तस्या द्वे उत्तमार्द्धेऽक्षरे द्योतयति ॥१३॥ चक्षुरेव तद्युनक्ति तस्माद्युक्तं चक्षुः ॥१४॥ त्रिष्टुप् छन्दसैन्द्रीदेवतयान्तरिक्षमेतया ध्यायन्गायेत् ॥१५॥ चतुर्थीं गायति ॥१६॥ तस्याश्चत्वारि चत्वार्य्यक्षराणि निक्रीडयन्निव गायत्या द्वादशेभ्योऽक्षरेभ्यः ॥१७॥ द्वादशाक्षरपदा जगती पशवो वै जगती पशुष्वेव प्रतितिष्ठति ॥१८॥ तस्याश्चत्वार्युत्तमार्धेऽक्षराणि द्योतयति॥१९॥ श्रोत्रमेव तद्युनक्ति तस्माद्युक्तँ श्रोत्रँ श्रोत्रे द्वे प्रतिश्रवणे द्वे तस्मात्पुरुषः सर्व्वादिशः श्रृणोति अपि पराङ् यन् प्रत्यङ् श्रृणोति ॥२०॥ जगती छन्दसा सौरीदेवतया दिवमेतया ध्यायन्गायेत् ॥२१॥ पञ्चमी गायति ॥२२॥ तां निनर्द्दन्निव गायति ॥२३॥ आह बहुतमात्पुरुषादन्नमत्ति अन्नादो भवति य एवँ वेद ॥२४॥ निरुक्तां चानिरुक्तां गायति ॥२५॥ निरुक्तेन वै वाचो भुञ्जतेऽनिरुक्तमस्या उपजीवन्ति भुङ्क्ते वाचमुपैनां जीवति य एवँ वेद ॥२६॥ अनुष्टुप् छन्दसा प्राजापत्या देवतया सर्व्वमेतया ध्यायन्गायेत्सर्व्वँ हीदं प्राजापत्यम् ॥२७॥ षष्ठीं गायति ॥२८॥ तस्या द्वे द्वे अक्षरे उदासं गायत्या षड्भ्योऽक्षरेभ्यः॥२९॥षड़ृतव ऋतुष्वेव प्रतितिष्ठति ॥३०॥ पङ्क्तिश्छन्दसा सौमीदेवतया दिश एतया ध्यायन् गायेत् ॥३१॥ इहेव च वा एष इहेव च मनसा गच्छति यो गायत्रे प्रातःसवने त्रिष्टुभं गायति जगतीं गायत्यनुष्टुभं गायति पङ्क्तिं गायत्यास्ते ॥३२॥ गायत्रे द्वे गायति ॥३३॥ प्राणमेव तदभ्येति प्राणो हि गायत्रं पन्थानमेव तदभ्येति पन्था हि गायत्रम्॥३४॥ रथन्तरवर्णामुत्तमां गायति ॥३५॥ इयँ वै रथन्तरमस्यामेव प्रतितिष्ठति ॥३६॥ इति प्रथमः खण्डः ॥२/१॥

बहिष्पवमाने धूर्गानम् --
ता वा एता देवलोकाय युज्यन्ते यत्पराच्यः ॥१॥ प्रतीच्यो मनुष्यलोकाय ॥२॥ एष वाव जात एषोऽवलुप्तजरायुरेष आर्त्त्विजीनो यस्य धुरो गीयन्ते यश्चैवँ विद्वान धुरो गायति जातमेवैनमन्नाद्याय परिवृणक्ति उभावन्नमत्त उद्गाता च यजमानश्च ॥३॥ या प्रथमा तामन्नाद्यं ध्यायन् गायेत् ॥४॥ रेतस एव तत्सिक्तायान्नाद्यं प्रतिदधाति॥५॥ न हिं कुर्य्यात्॥६॥ यद्धिङ्कुर्याद्वज्ज्रेण हिङ्कारेण रेतस्सिक्तँ विच्छिन्द्यात् ॥७॥ रेतस्या छन्दो युज्यते मनो धीयते ॥८॥ या द्वितीया तां गायत्रीमागां गायँस्तस्या द्वे अक्षरे सशयनी व्यतिषजति मध्यमस्य च पदस्योत्तममुत्तमस्य च प्रथमँ व्यतिषक्तौ प्राणापानौ प्रजा दधतो गायत्रीछन्दो युज्यते प्राणापानौ धीयेते ॥९॥ या तृतीया तां त्रिष्टुभमागां गायँस्तस्या द्वे उत्तमार्धेऽक्षरे द्योतयति चक्षुरेव तद्युनक्ति तस्माद्विरूपं चक्षुः कृष्णमन्यच्छुक्लमन्यत्त्रिष्टुप्छन्दो युज्यते चक्षुषी धीयेते ॥१०॥ या चतुर्थी तां जगतीमागां गायँस्तस्याश्चत्वार्य्युत्तमार्धेऽक्षराणि द्योतयति श्रोत्रमेव तद्युनक्ति तस्माद्युक्तँ श्रोत्रँ श्रोत्रे द्वे प्रतिश्रवणे द्वे तस्मादपि पराङ् यन् प्रत्यङ् श्रृणोति जगतीछन्दो युज्यते श्रोत्रे धीयेते ॥११॥ या पञ्चमी तामनुष्टुभमागां गायँश्चतुर्धा व्यावृज्य गायेत् चतुर्धा वा इदं पुरुषो वीर्याय विकृतो जायते वीर्यायैवैनां तद्व्यावृज्य गायति उच्चावचामिव गायेदुच्चावचैव हि वाक् संक्ष्णुत्येव गायेत् संक्ष्णुत्येव हि वाचं पुरुषो वदत्यनुष्टुप्छन्दो युज्यते वाग्धीयते ॥१२॥ या षष्ठी तां पङ्क्तिमागां गायँस्तस्या द्वे द्वे अक्षरे उदासं गायत्याषड्भ्योऽक्षरेभ्यः षड़ृतव ऋतुष्वेव प्रतितिष्ठति पङ्क्तिश्छन्दो युज्यते समानोदानौ धीयेते ॥१३॥ सदिति प्रथमाया धुरो निधनँ रेतसो ह्यधि सज्जायते ॥१४॥ समिति द्वितीयायाः रेतसो ह्यधि सम्भवः ॥१५॥ स्वरिति तृतीयायाः प्रस्वर्ग्गँल्लोकं जानाति॥१६॥ इडेति चतुर्थ्याः पशवो वा इडा पशुष्वेव प्रतितिष्ठति ॥१७॥ वागिति पञ्चम्याः सर्व्वा अस्मिन्पुण्या वाचो वदन्ति ॥१८॥ य एवँ वेद ॥१९॥ या प्रथमा तामायच्छन्निव गायेदायत इव ह्ययमवाङ् प्राणः ॥२०॥ या द्वितीया तां घोषिणीमिव गायेद्घोषीव ह्ययमपानः॥२१॥ या तृतीया तामुद्यच्छन्निव गायेदुद्यत इव ह्ययं उदानः॥२२॥ या चतुर्थी तां निक्रीडयन्निव गायेन्निक्रीडित इव ह्ययँ व्यानः ॥२३॥ या पञ्चमी तां निरुक्तामनिरुक्तामिव गायेन्निरुक्तोऽनिरुक्त इव ह्ययं समानः॥२४॥ या षष्ठी तामुदासमिव गायेदुदस्त इव ह्ययमुदानो यच्छृङ्गम् ॥२५॥ रथन्तरवर्णामुत्तमां गायेदियँ वै रथन्तरमस्यामेव प्रतितिष्ठति॥२६॥ इति द्वितीयः खण्डः।।२/२॥

देवाश्च वा असुराश्चैषु लोकेष्वस्पर्धन्त ते देवाः प्रजापतिमुपाधावन् ॥१॥ तेभ्य एतान् धुरः प्राणान् प्रायच्छत् मनः प्रथममथ प्राणमथ चक्षुरथ श्रोत्रमथ वाचम् ॥२॥ ताभ्यः पञ्चभ्यो धूर्भ्यः पुरुषं च पशूँश्च निरमिमीत ॥३॥ तेन पुरुषेणासुरानधूर्व्वन् यदधूर्व्वँस्तद्धुरां धूस्त्वं धूर्व्वति पाप्मानं भ्रातृव्यं य एवं वेद ॥४॥ यो वै धुरां धूस्त्वँ वेद धुरा धुरा भ्रातृव्या द्वसीयान्भवति एतद्वै धुरां धूस्त्वँ यन्नाना वीर्य्या नानारूपा नानाछन्दस्या नानादेवत्याः समानँ हिं कारमभिसम्पद्यन्ते एतद्वै धुरां धूस्त्वं धुरा धुरा भ्रातृव्याद्वसीयान्भवति य एवँ वेद ॥५॥ यो वै धूर्षु महाव्रतँ वेद सर्व्वा अस्मिन् पुण्या वाचो वदन्ति ॥६॥ शिरो गायत्र्युरस्त्रिष्टुप् मध्यं जगती पादावनुष्टुप् सर्वा अस्मिन् पुण्या वाचो वदन्ति य एवँ वेद ॥७॥ यो वा एवं धुरो विद्वानथासां व्रतं चरत्यागमिष्यतोऽस्य पूर्वेद्युः पुण्या कीर्त्तिरागच्छति ॥८॥ सुरभिरेव गन्धो गायत्र्या व्रतं दर्शनीयं त्रिष्टुभः श्रवणीयं जगत्याः यदेव वाचा पुण्यँ वदति तदनुष्टुभस्तदु सर्व्वासाँ व्रतम् ॥९॥ तदु विद्वाँसमाहुरिति नोऽवादीरिति तदनादृत्यम् ॥१०॥ यस्य वै धुरो विगीतास्तस्य सङ्गीताः ॥११॥ यस्य वा एता बहिष्पवमाने विगीयान्तराज्येषु सङ्गायन्ति तस्य वै धुरो विगीतास्तस्य सङ्गीताः ॥१२॥ यः कामयेतैकधा यजमानँ यश ऋच्छेद्यथादिष्टं प्रजाः स्युरिति होतुराज्ये गायेदेकधा यजमानँ यश ऋच्छति यथादिष्टं प्रजा भवन्ति ॥१३॥ यः कामयेत कल्पेरन् प्रजा यथादिष्टँ यजमानः स्यादिति यथाज्यं गायेत्कल्पन्ते प्रजा यथादिष्टँ यजमानो भवति ॥१४॥ यो वा एवं धुरो वेदानपजय्यमात्मने च यजमानाय च लोकं जयत्यति यजमानमात्मानं मृत्युं परँ स्वर्ग्गँल्लोकँ हरति ॥१५॥ इति तृतीयः खण्डः ॥२/३॥

प्राञ्चमग्ग्निमुन्नयन्ति तस्मात् प्राङासीनो होतान्वाह प्राङासीनो यजति प्राङासीनः शँसति ॥१॥ असावादित्यः प्राङपाङ् सञ्चरति तस्मात् अध्वर्युः प्राङपाङ् सञ्चरति ॥२॥ अथैष चन्द्रमा दक्षिणेनैति तस्माद्ब्रह्माणं दक्षिणत आसयन्ति ॥३॥ अथैतस्यामुदीच्यां दिशि भूयिष्ठँ विद्योतते तस्मादेतां दिशमुद्गाता प्रत्युद्गायति ॥४॥ अथैष आकाशो मध्यतो भूतानां सन्नस्तस्मान्मध्ये सदस्यमासयन्ति ॥५॥ उच्चावचा वा आप उतेव गाधा भवन्त्युतेव गम्भीरास्तस्माद्धोत्राशँसिन उतेव पञ्चर्चेन कुर्व्वन्त्युतेव भूयसा ॥६॥ आदित्यस्यैव गतँ रश्मयोऽनुयन्ति तस्मादध्वर्य्योरेव गतं चमसाध्वर्य्िवोऽनुयन्ति ॥७॥ इति चतुर्थःखण्डः॥२/४॥

स प्रातस्सवने सवनमुखीयेष्वाहृतेषूपहवमिच्छते ॥१॥ अग्ग्निर्म्मे होता स मोपह्वयताँ होतरुपमाह्वयस्वेत्युच्चैः ॥२॥ आदित्यो मेऽध्वर्युः स मोपह्वयतामध्वर्य्य उप मा ह्वयस्वेत्युच्चैः ॥३॥ चन्द्रमा मे ब्रह्मा स मोपह्वयतां ब्रह्मन्नुपमाह्वयस्वेत्युच्चैः॥४॥ पर्जन्यो म उद्गाता स मोपह्वयतामुद्गातरुपमाह्वयस्वेत्युच्चैः॥५॥ आकाशो मे सदस्यः स मोपह्वयताँ सदस्योपमाह्वयस्वेत्युच्चैः ॥६॥ आपो मे होत्राशँसिनस्ते मोपह्वयन्ताँ होत्राशँसिन उप मा ह्वयध्वमित्युच्चैः ॥७॥ रश्मयो मे चमसाध्वर्य्यवस्ते मोपह्वयन्तां चमसाध्वर्य्यव उप मा ह्वयध्वमित्युच्चैः॥८॥ ता वा एता देवता ऋत्विजामेव वाग्भिरुपह्वयन्ते ॥९॥ स उपहतो भक्षयति ॥१०॥ प्राणो यजमानोऽथो यत्रैतासां देवतानाँल्लोकस्तदुपहूतो भवति ॥११॥ इति पञ्चमः खण्डः॥२/५||

माध्यन्दिने सवने सवनमुखीयेष्वाहृतेषूपहवमिच्छते ॥१॥ वाङ्मे होता स मोपह्वयताँ होतरुप माह्वयस्वेत्युच्चैः चक्षुर्म्मेऽध्वर्युः स मोपह्वयतामध्वर्य्य उप मा ह्वयस्वेत्युच्चैर्मनो मे ब्रह्मा स मोपह्वयतां ब्रह्मन्नुपमाह्वयस्वेत्युच्चैः श्रोत्रं म उद्गाता स मोपह्वयतामुद्गातरुप मा ह्वयस्वेत्युच्चैः ॥२॥ योऽयमन्तश्चक्षुष्याकाशः स मे सदस्यस्स मोपह्वयताँ सदस्योपमाह्वयस्वेत्युच्चैर्य्या इमा अन्तश्चक्षुष्यापस्ते मे होत्राशँसिनस्ते मोपाह्वयन्ताँ होत्राशँसिन उप मा ह्वयध्वमित्युच्चैरङ्गानि मे चमसाध्वर्य््व स्ते मोपह्वयन्तां चमसाध्वर्य्यव उप मा ह्वयध्वमित्युच्चैः ॥३॥ ता वा एता देवता ऋत्विजामेव वाग्भिरुपह्वयन्ते ॥४॥ स उपहूतो भक्षयति ॥५॥ अपानो यजमानोऽथो यत्रैतासां देवतानाँल्लोकस्तदुपहूतो भवति ॥६॥ इति षष्ठः खण्डः॥२/६॥

स तृतीयसवने सवनमुखीयेष्वाहृतेषूपहवमिच्छते ॥१॥ प्राणो मे होता स मोपह्वयताँ होतरुप मा ह्वयस्वेत्युच्चैरपानो मेऽध्वर्युः स मोपह्वयतामध्वर्य्य उप मा ह्वयस्वेत्युच्चैर्व्व्यानो मे ब्रह्मा स मोपह्वयतां ब्रह्मन्नुप मा ह्वयस्वेत्युच्चैः समानो म उद्गाता स मोपह्वयतामुद्गातरुप मा ह्वयस्वेत्युच्चैः॥२॥ योऽयमन्तः पुरुष आकाशः स मे सदस्यः स मोपह्वयताँ सदस्योप मा ह्वयस्वेत्युच्चैर्य्या इमा अन्तः पुरुष आपस्ते मे होत्राशँसिनस्ते मोपह्वयन्ताँ होत्राशँसिन उप माह्वयध्वमित्युच्चैर्ल्लोमानि मे चमसाध्वर्य्यवस्ते मोपह्वयन्तां चमसाध्वर्यव उप माह्वयध्वमित्युच्चैः ॥३॥ ता वा एता देवता ऋत्विजामेव वाग्भिरुपह्वयन्ते ॥४॥ स उपहूतो भक्षयति ॥५॥ स उदानो यजमानोऽथो यत्रैतासां देवतानाँ ल्लोकस्तदुपहूतो भवति॥६॥सर्व्वेषां वै वषट्कर्ता चमसं भक्षयेत् ॥७॥ देवानाँ वा एतद्यज्ञस्य मुखँ यदुद्गातृचमसं तस्मादुद्गातृचमसं नान्यो भक्षयेत् ॥८॥ एवँविदुषो ह वै यज्ञो न व्यथते एवँविदुषो ह वै यजमानस्य स्वर्ग्ग्यं पुत्र्यं पशव्यमिष्टं भवति एवँ विद्वान् ह वै यजमानो द्विषन्तं भ्रातृव्यमभि भवति अथ वा अतो यज्ञे हीनं कुर्य्यात् ॥९॥ इति सप्तमः खण्डः॥२/७॥

इति द्वितीयोऽध्यायः ।