षड्‌दर्शनसमुच्चयः
[[लेखकः :|]]


।। श्रीः ।।
परमार्हतहरिभद्रसूरिप्रणीतः
षड्‌दर्शनसमुच्चयः
मणिभद्रकृत`लघुवृत्ति'संवलितः
`सुधा'-संस्कृतव्याख्यासहित`भाषाप्रकाश'-

सद्दर्शनं जिनं नत्वा वीरं स्याद्वाददेशकम्।
सर्वदर्शनवाच्योऽर्थः संक्षेपेण निगद्यते ।। 1 ।।
*लघुवृत्ति*
सज्ज्ञानदर्पणतले विमलेऽत्र यस्य
ये केचिदर्थनिवहाः प्रकटीबभूवुः।
तेऽद्यापि भान्ति कलिकालजदोषभस्म-
प्रोद्दीपिता इव शिवाय स मेऽस्तु वीरः।।
जैनं यदेकमपि बोधविधायवाक्य-
मेवं श्रुतिः फलवती भुवि येन चक्रे।
चारित्रमाप्य वचनेन महत्तरायाः
श्रीमान्स नन्दतु चिरं हरिभद्रसूरिः।।
सन्निधेहि तथा वाणि! षड्‌दर्शनाङ्कषड्‌भूजे।
यथा षड्‌दर्शनव्यक्तिस्पष्टने प्रथवाम्यहम्।।
व्यासं विहाय संक्षेपरुचिसत्त्वानुकम्पया।
टीका विधीयते स्पष्टा ष़ड्‌दर्शनसमुच्चये।।
इह हि श्रीजिनशासनप्रभावनाविभावकप्रभोदयभूरियशश्चतुर्दशशतप्रकरणकरणोपकृतजिनधर्मो भगवान् श्रीहरिभद्रसूरिः षड्‌दर्शनप्रमाणपरिभाषास्वरूपजिज्ञासुशिष्यहितहेतवे प्रकरणमारिप्समानो निर्विघ्नशास्त्रपरिसमाप्त्यर्थं स्वपरश्रेयोऽर्थं च समुचितेष्टदेवतानमस्कारपूर्वकमभिधेयमाह--सद्‌दर्शनमिति।
अर्थो निगद्यतेऽभिधीयत इति सम्बन्धः, अर्थशब्दोऽत्राभिधेयवाचको ग्राह्यः। `अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु' इत्यनेकार्थवचनाद्, मयेत्यनुक्तस्यापि गतार्थत्वात्। किंविशिष्टोऽर्थः? सर्वदर्शनवाच्य इति। सर्वाणि च तानि दर्शनानि बौद्धनैयायिकजैनवैशेषिकसांख्यजैमिनीयादीनि समस्तमतानि वक्ष्यमाणानि तेषु वाच्यः कथनीयः। किं कृत्वा? जिनं नत्वा। सामान्यमुक्त्वा विशेषमाह--कं जिनं? वीरं वर्द्धमानस्वामिनम्, वीरमिति साभिप्रायम्, प्रमाणवक्तव्यस्य परपक्षोच्छेदादिसुभटवृत्तित्वाद् भगवतश्च दुःखसम्पादिविषमोपसर्गसहिष्णुत्वेन सुभटरूपत्वात्। तथा चोक्तम्-
विदारणात्कर्मततेर्विराजनात्तपःश्रिया विक्रमतस्तथाऽद्‌भुतात्।
भवत्प्रमोदः किल नाकिनायकश्चकार ते वीर इति स्फुटाभिधाम्।।
इति युक्तियुक्तं ग्रन्थारम्भे वीरजिननमस्करणं प्रकरणकृतः, यद्वाऽऽसन्नोपकारित्वेन युक्ततरमेव श्रीवर्द्धमानतीर्थकृतो नमस्करणम्, तमेव विशिनष्टि--किंभूतं? सद्दर्शनं सत् शोभमानं दर्शनं शासनं समान्यावबोधलक्षणं ज्ञानं सम्यक्त्वं वा यस्य स तमिति।
ननु दर्शनचारित्रयोरपि मुक्त्यङ्गत्वात् किमर्थं सद्दर्शनमित्येकमेव विशेषणमाविष्कृतम्? न-दर्शनस्यैव प्राधान्याद्। यत्सूत्रम्-
भठ्ठेण चरित्ताउ दंसणमिह दिढयरं गहेयव्वं।
सिज्झंति चरणरहिया दंसणरहिया न सिज्झंति।।
[भ्रष्टेन चरित्राद् दर्शनमिह दृढतरं ग्रहीतव्यम्।
सिध्यन्ति चरणरहिता दर्शनरहिता न सिध्यन्ति।।]
इति तद्विशेषणमेव युक्तम्, पुन किंभूतं? स्याद्वाददेशकम्, स्याद्विकल्पितो वादः स्याद्वादः सदसन्नित्यानित्याभिलाप्यानभिलाप्यसामान्यविशेषात्मकस्तं दिशति भावकेभ्य उपदिशति यस्तम्। अत्रादिमार्द्धे भगवतोऽतिशयचतुष्टयमाक्षिप्तम्, सद्दर्शनमिति दर्शनज्ञानयोः सहचारित्वाज्ज्ञानातिशयः, जिनं वीरमिति रागादिजेतृत्वादष्टकर्माद्यपायनिराकर्तृत्वाच्चापायापगमातिशयः, स्याद्वाददेशकमिति वचनातिशयः ईदृग्विधस्य निरन्तरभक्तिभरनिर्भरसुरासुरनिकायनिषेव्यत्वमानुषङ्गिकमिति पूजाऽतिशयः ।। 1 ।।

दर्शनानि षडेवात्र मूलभेदव्यपेक्षया।
देवतातत्त्वभेदेन ज्ञातव्यानि मनीषिभिः ।। 2 ।।
कानि तानि दर्शनानीति? व्यक्तितस्तत्सङ्ख्यामाह--दर्शनानीति।
अत्र जगति प्रसद्धानि षडेव दर्शनानि, एवशब्दोऽवधा?रणे, यद्यपि भेदप्रभेदतयाबहूनी दर्शनानि प्रसिद्धानि। यदुक्तं सूत्रे--
असियसयं किरियाणं अकिरियवाईण हुंति चुलसीई।
अन्नणियं सत्तठ्ठी वेणइआणं च वत्तीसं।।
[अशीतिशतं क्रियाणामक्रियावादिनो भवन्ति चतुरशीतिः।
आत्मवादिनः सप्तषष्टिर्विनयवादिनां च द्वात्रिंशद्।।]
इति त्रिषष्ट्यधिका त्रिशती पाषण्डिकानाम्, बौद्धानां चाष्टादश निकायभेदाः, वैभाषिकसौत्रान्तिकयोगाचारमाध्यमिकादयो भेदाः, जैमिनेश्च शिष्यकृता बहवो भेदाः--
उत्पलः(1) कारिकां वेत्ति तन्त्रं प्रभाकरः।
वामनस्तूभयं वेत्ति न किञ्चिदपि रेवणः ।।
अपरेऽपि बहूदककुटीचरहंसपरमहंसभाट्टप्राभाकरादयो बहवोऽन्तर्भेदाः।
अपरेषामपि दर्शनानां तत्त्वदेवताप्रमाणादिभिन्नतया बहुभेदाः प्रादुर्भवन्ति; तथाऽपि परमार्थतस्तेषामेतेष्वेवान्तर्भावात्षडेवेति सावधारणं पदम्।
ननु संघटमानानियतो भेदानुपेक्ष्य किमर्थं षडेव? इत्याह--मूलभेदव्यपेक्षयेति। मूलभेदास्तावत्षडेव षट्‌संख्यास्तेषांव्यपेक्षया तानाश्रित्येत्यर्थः, तानि दर्शनानि मनीषिभिः पण्डितैर्ज्ञातव्यानि बोद्धव्यानि। केन प्रकारेणेति? देवतातत्त्वभेदेन देवता दर्शनाधिष्ठायिकाः, तत्त्वानि च मोक्षसाधकानि रहस्यानि, तेषां भेदस्तेन पृथक् पृथग् दर्शनदेवता दर्शनतत्त्वानि च ज्ञेयानीत्यर्थः ।। 2 ।।

बौद्धं नैयायिकं सांख्यं जैनं वैशेषिकं तथा।
जैमिनीयं च नामानि दर्शनानाममून्यहो ।। 3 ।।
तेषामेव दर्शनानां नामान्याह--बौद्धमिति।
अहो इति इष्टामन्त्रणे, दर्शनानां मतानाममूनि नामानीति संग्रहः, ज्ञेयानीति क्रियाऽस्तिभवत्यादिवदनुक्ताऽप्यवगन्तव्या। तत्र बौद्धमिति बुद्धो देवताऽस्येति बौद्धं सौगतदर्शनम्, नैयायिकं (2)पाशुपतदर्शनम्, तत्र न्यायः प्रमाणमार्गस्तस्मादनपेतं नैयायिकमिति (3)व्युत्पत्तिः सांख्यमिति कापिलदर्शनम् अदिपुरुषनिमित्तेयं संज्ञा, जैनमिति जिनो देवताऽस्येति जैनमार्हतम्, वैशेषिकं काणाददर्शनम्, दर्शनदेवताऽऽदिसाम्येऽपि नैयायिकेभ्यो द्रव्यगुणादिसामग्र्या विशिष्टमिति(4) वैशेषिकम्, जैमिनीयं जैमिनिऋषिमतं भाट्टदर्शनम्, चः समुच्चयस्य दर्शकः, एवं तावत् ष़ढ्‌दर्शननामानि ज्ञेयानि शिष्येणेत्यवसेयम् ।। 3 ।।
{1. ओबेकः (उम्बेकः) इति पाठान्तरम्।
2. असमञ्जसेयमुक्तिः, न्यायदर्शनस्य पाशुपतत्वेनाप्रसिद्धेः पाशुपतदर्शनस्य न्यायप्रस्थानारूढत्वं प्रायेणेत्यन्यदेतत्। --दामोदरलाल गोस्वामी।
3. इदं चिन्त्यम्, इत्थं हि न्याय्यमिति स्याद्, नैयायिकेतिपदं तूक्थादिगणघटकन्यायशब्दादध्येतृवेदित्रन्यतरार्थकठका निष्पद्यते। --दामोदरलाल गोस्वामी।
4. आपातरुचिरेयमुक्तिः, वस्तुतस्तु परानुपज्ञस्य विशेषात्मकस्य पञ्चमपदार्थस्य वेत्तृत्वादित्थं ख्यातिः। --दामोदरलाल गोस्वामी।}

[बौद्धमतम्]
तत्र बौद्धमते तावद्‌देवता सुगतः किल।
चतुर्णामार्यसत्यानां(1) दुःखादीनां प्ररूपकः ।। 4 ।।
अथ द्वारश्लोके प्रथममुपन्यस्तत्वाद्बौद्धमतमेवादावाचष्टे--तत्रेति।
तत्र तस्मिन् बौद्धमते सौगतशासने, तावदिति प्रक्रमे सुगतो देवता बुद्धो देवता बुद्धभट्टारको दर्शनादिकरः। किलेत्याप्तप्रवादे। तमेव विशिनिष्टि--कथंभूतस्तत्त्वनिरूपकत्वेन प्ररूपको दर्शकः कथयितेति यावत्। केषामित्याह--आर्यसत्यानाम्, आर्यसत्यनामधेयानां तत्त्वानाम्। कतिसंख्यानामिति? चतुर्णां चतूरूपाणाम्। किंरूपाणाम्? इत्याह--दुःखादीनां दुःखसमुदयमार्गनिरोधलक्षणानाम्, आदिशब्दोऽवयवार्थोऽत्र। यदुक्तम्--
`सामर्थ्येऽथ(2) व्यवस्थायां प्रकारेऽवयवे तथा।
चतुर्ष्वर्थेषु मेधावी ह्यादिशब्दं तु लक्षयेत्।।
इति, एवंविधः सुगतो बौद्धमते देवता ज्ञेय इत्यर्थः ।। 4 ।।
{1. आराद् दूराद् याताः सर्वहेयधर्मेभ्य इत्यार्थाः। पृषोदरादित्वाद्रूपनिष्पत्तिः। सतां साधूनां पदार्थानां वा यथासम्भवं मुक्तिप्रापकत्वेनय थावस्थितवस्तुरूपरूपचिन्तनेन च हितानि सत्यानि। अथवा सद्भ्यो हितानि सत्यानि, आर्याणां सत्यानि आर्यसत्यानि, तेषामार्यसत्यानाम्। --गुणरत्नटीका।
2. सामीप्ये चेति पाठान्तरम्।}

दुःखं संसारिणः स्कन्धास्ते च पञ्च प्रकीर्तिताः।
विज्ञानं वेदना संज्ञा संस्कारो रूपमेव च ।। 5 ।।
आदिममेव तत्त्वं विवृण्वन्नाह--दुःखमिति।
दुःखं किमुच्यते? इत्याशङ्कायां संसारिणः स्कन्धाः, संसरन्तीति संसारिणो विस्तरणशीलाः स्कन्धाः प्रचयविशेषाः, संसारेऽमीचयापचयरूपा भवन्तीत्यर्थः। ते च स्कन्धाः पञ्च प्रकीर्तीताः पञ्चसंख्याः कथिताः। के ते? इत्याह--
विज्ञानं वेदना संज्ञा संस्कारो रूपमेव च। इति
तत्र विज्ञानमिति विशिष्टं ज्ञानं सर्वक्षणिकत्वम्। यदुक्तम्--
यत् सत्तत् क्षणिकं यथा जलधरः सन्तश्च भावा इमे
सत्ताशक्तिरिहार्थकर्मणि मितेः सिद्धेषु सिद्धा च सा।
नाप्येकैव विधाऽन्यदाऽपि परकृन्नैव क्रिया वा भवेद्
द्वेधाऽपि क्षणभङ्गसङ्गतिरतः साध्ये च विश्राम्यति।। इति।
विज्ञानं वेदनेति। वेद्यत इति वेदना पूर्वभवपुण्यपापपरिणामबद्धाः सुखदुःखानुभवरूपाः। भिक्षुर्भिक्षामटंश्चरणकण्रटके लग्ने प्राह--
इत एकनवतेः कल्पे शक्त्या मे पुरुषो हतः।
तेन कर्मविपाकेन पादे विद्धोऽस्ति भिक्षवः! ।।
इत्यादि। संज्ञेति संज्ञानामकोऽर्थः सर्वमिदं सांसारिकं सचेतनाचेतनस्वरूपव्यवहरणं संज्ञामात्रं नाममात्रम्, नात्र कलत्रपुत्रमित्रभ्रात्रादिसम्बन्धो घटपटादिपदार्थसार्थो वा पारमार्थिकः। तथा च तत्सूत्रम्--
`तानीमानि भिक्षवः संज्ञामात्रं व्यवहारमात्रं कल्पनामात्रं संवृतिमात्रमतीतोऽध्वाऽनागतोऽध्वा सहेतुको विनाश आकाशं पुद्‌गला' इति। संस्कार इति। इह परभवविषयसंतानपदार्थनिरीक्षणप्रबुद्धपूर्वभावानुरूपसंस्कारस्य प्रमातुः स एवायं देवदत्तः सैवेयं दीपकलिकेत्याद्याकारेण ज्ञानोत्पत्तिः संस्कारः। यदाह--
यस्मिन्नेव हि सन्तान आहिता कर्मवासना।
फलं तत्रैव सन्धत्ते कार्पाशे रक्तता यथा ।। इति।
रूपमिति। रगरगायमाणपरमाणुप्रचयः, बौद्धमते हि स्थूलरूपस्य जगति विवर्तमानपदार्थजातस्य तद्दर्शनोपपत्तिभिर्निराक्रियमाणत्वात् परमाणव एव तात्त्विकाः, चः पुनरर्थः, एवेति पूरणार्थः ।। 5 ।।

समुदेति यतो लोके रागादीनां गणोऽखिलः।
आत्मात्मीयस्वभावाख्यः समुदयः स संमतः ।। 6 ।।
दुःखनामधेयमार्यसत्यं पञ्चभेदतया निरूप्यार्थसमुदायतत्त्वरूपमाह--समुदेतीति।
यतो यस्माल्लोके रागादीनां रागद्वेषमोहानामखिलः समस्तो गणः समुदेत्युद्भवति, कीदृगे? इत्याह--आत्मात्मीयस्वभावाख्यः, अयमात्माऽयञ्चात्मीयः, पदसमुदायोपचारादयं परोऽयञ्च परकीय इत्यादिभावो रागद्वेषनिबन्धनं, तदाख्यस्तन्मूलो रागादीनां गणः आत्मात्मीयरूपेण रागरूपः परकीयपरिणामेन द्वेषरूपो यतः समुदेति स समुदयः समुदयो नाम तत्त्वं सम्मतो बौद्धदर्शनेऽभिमत इति ।। 6 ।।

क्षणिकाः सर्वसंस्कारा इत्येवं वासना तु या।
स मार्ग इति विज्ञेयो निरोधो मोक्ष उच्यते ।। 7 ।।
अथ तृतीयचतुर्थतत्त्वे प्रपञ्चयन्नाह--क्षणिका इति।
सर्वसंस्काराः क्षणिकाः, सर्वेषां विश्वत्रयविवरविवर्तमानानां घटपटस्तम्भाम्भोरुहादीनां द्वितीयादिक्षणेषु स एवायं स एवायमित्याद्युल्लेखेन ये संस्कारा ज्ञानसन्ताना उत्पद्यन्ते ते विचारगोचरगताः क्षणिकाः। यत्प्रमाणयन्ति। सर्वं सत् क्षणिकमक्षणिके क्रमयौगपद्याभ्यामर्थक्रियाविरोधादिति वादस्थलमप्यूह्यं क्षणिकत्वाविशेषकम्, विशेषोपपत्तिश्च समग्रं तावदौत्पत्तिकं पदार्थकदम्बकं घटपटादिकं मुद्गरादिसामग्रीसाकल्ये विनश्वरमाकलय्यते, तत्र योऽस्य प्रान्तावस्तायां विनाशस्वभावः स पदार्थोत्पत्तिसमये विद्यते न वा? अथ विद्यते चेदापतितं तदुत्पत्तिसमयानन्तरमेव विनश्वरत्वम्, अथेदृश एव स्वभावो यत्कियन्तमपि कालं स्थित्वा विनष्टव्यम्, एवञ्चेन्मुद्गरादिसंनिधानेऽप्येष एव तस्य स्वभाव इति भूयोऽपि तावत्कालं स्थेयम्।
एवं मुद्गरादिघातशतपातेऽपि न विनाशो जातं कल्पानत्स्थायित्वं घटस्य, तथा च जगद्‌व्यवहारव्यवस्थालोपपातकपङ्किलतेत्यभ्युपेयमनिच्छताऽपि क्षणक्षयित्वं पदार्थानाम्।
प्रयोगस्त्वेवम्--वस्तु उत्पत्तिसमयेऽपि विनश्वररूपं, विनश्वरस्वभावत्वाद्, यद्विनश्वरं तदुत्पत्तिसमयेऽपि तत्स्वरूपं यथाऽन्त्यक्षणवर्त्तिघटस्य स्वरूपं, विनश्वरस्वभावं च रूपरसादिकमुदयत एवारभ्येति स्वभावहेतुः।
ननु यदि क्षणक्षयिणो भावाः, कथं तर्हि स एवायमिति वासनाज्ञानम्? उच्यते--निरन्तरसदृशापरापरक्षणमिरीक्षणचैतन्योदयाद्, विद्याऽनुबन्धाच्च पूर्वक्षणप्रलयकाल एव दीपकलिकायामिव सैवेयं दीपकलिकेति संस्कारमुत्पाद्य तत्सदृशमपरक्षणान्तरमुदयते, तेन समानाकारज्ञानपरम्परापरिचयचिरतरपरिणामान्निरन्तरोदयाच्च पूर्वक्षणानामत्यन्तोच्छेदेऽपि स एवायमित्यध्यवसायः प्रसभं प्रादुर्भवति, दृश्यते चावलूनपुनरुत्पन्नेषु नखकेशकलापादिषु स एवायमिति प्रतीतिः, तथेहापि किं न सम्भाव्यते सुजनेन, तस्मात्सिद्धं साधनमिदं `यत्सत्तत् क्षणिकमि'ति युक्तियुक्तञ्च `क्षणिकाः सर्वसंस्कारा इत्येवं वासने'ति।
प्रस्तुतार्थमाह--एवं या वासना स मार्गो नामार्यसत्यम् इह बौद्धमते विज्ञेयोऽवगन्तव्यः, तुशब्दः पाश्चात्त्यार्थसंग्रहः पूर्वसमुच्चयार्थे, चतुर्थमार्थसत्यमाह--निरोधः किम्? इत्याशङ्कायां मोक्ष उच्यते, मोक्षोऽपवर्गः, सर्वक्षणिकत्वसर्वनैरात्म्यवासनारूपो निरोधो नानार्यसत्यमभिधीयत इत्यर्थः ।। 7 ।।

पञ्चेन्द्रियाणि शब्दाद्या विषयाः पञ्च मानसम्।
(1)धर्मायतनमेतानि द्वादशायतनानि च ।। 8 ।।
अथ तत्त्वानि व्याख्याय तत्संलग्नान्येवायतनान्याह--पञ्चेन्द्रियाणीति।
पञ्चसंख्यानीन्द्रियाणि स्पर्शनरसनघ्राणचक्षुःश्रोत्ररूपाणि, शब्दाद्या विषयाः पञ्च शब्दरूपरसस्पर्शगन्धरूपाः पञ्च विषया इन्द्रियव्यापारा इत्यर्थः। मानसं चित्तं, धर्मायतनमिति धर्मप्रधानमायतनं चैत्यस्थानमिति। एतानि द्वादशसंख्यानि ज्ञातव्यानि, न केवलमेतानि द्वादशायतनानि जातिजरामरणभवोपादानतृष्णावेदनास्पर्शनामरूपविज्ञानसंस्कारा अविद्यारूपाणि द्वादशायतनानि। चः समुच्चये, अमी सर्वेऽपि संस्काराः क्षणिकाः, शेषं तदेवेति ।। 8 ।।
{1. धर्माः सुखदुःखादयस्तेषामायतनं गृहं शरीरभित्यर्थः।--गुणरत्नटीका।}

प्रमाणे द्वे च विज्ञेये तथा सौगतदर्शने।
प्रत्यक्षमनुमानं च सम्यग्ज्ञानं द्विधा यतः ।। 9 ।।
तत्त्वानि व्याख्यायाधुना प्रमाणमाह--प्रमाण इति।
तथेति प्रस्तुतानुसन्धाने, सौगतदर्शने बौद्धमते, द्वे प्रमाणे विज्ञेये, चशब्दः पुनरर्थे, तदेवाह--प्रत्यक्षमनुमानं च, अक्षमक्षं प्रति गतं प्रत्यक्षमैन्द्रियिकमित्यर्थः। अनुमीयत इत्यनुमानं लङ्गिकमित्यर्थः। यतः सम्यग् ज्ञानं निश्चितावबोधो द्विधा द्विप्रकारः, सम्यग्ग्रहणं मिथ्याज्ञाननिराकरणार्थम्, प्रत्यक्षानुमानाभ्यामेवेत्यर्थः ।। 9 ।।

प्रत्यक्षं कल्पनाऽपोढ़मभ्रान्तं तत्र बुध्यताम्।
त्रिरूपाल्लिङ्गतो लिङ्गिज्ञानं त्वनुमानसंज्ञितम् ।। 10 ।।
पृथक्पृथग्दर्शनापेक्षलक्षणसाङ्कर्यभीरु कीदृक् प्रत्यक्षमत्र ग्राह्यमित्याशङ्कायामाह--प्रत्यक्षमिति।
तत्र प्रमाणोभय्यां प्रत्यक्षं बुद्ध्यतां ज्ञायतां शिष्येणेति। किंभूतं? कल्पनाऽपोढ़ं, शब्दसंसर्गवती प्रतीतिः कल्पना, तयाऽपोढ़ं रहितं निर्विकल्पकमित्यर्थः। अन्यच्चाभ्रान्तं भ्रान्तिरहितं रगरगायमाणपरमाणुलक्षणं स्वलक्षणं हि प्रत्यक्षं निर्विकल्पकमभ्रान्तञ्च तद्, घटपटादिबाह्यस्थूलपदार्थप्रतिबद्धं च ज्ञानं सविकल्पकम्, तच्च बाह्यस्थूलार्थानां तत्तन्मतानुमानोपपत्तिभिर्निराकरिष्यमाणत्वाद्, नीलाकारपरमाणुस्वरूपस्यैव तात्त्विकत्वात्।
ननु यदि बाह्यार्था न सन्ति, किंविषयस्तर्ह्ययं घटपटशकटादिबाह्यस्थूलप्रतिभास इति चेद्? निरालम्बन एवायमनादिवितथवासनाप्रवर्त्तितो व्यवहाराभासौ निर्विषयत्वादाकाशकेशवत्स्वप्नज्ञानवद्वेति, यदुक्तं--
नान्योऽनुभाव्यो बुद्ध्याऽस्ति तस्या नानुभवोऽपरः।
ग्राह्यग्राहकवैधुर्यात्स्वयं सैव प्रकाशते ।। इति।।
बाह्योन विद्यते ह्यर्थो यथा बालैर्विकल्प्यते।
वासनोल्लुठितं चित्तमर्थाभासे प्रवर्तते ।। इति।।
तदुक्तं--`निर्विकल्पकमभ्रान्तं च प्रत्यक्षमि'ति।
अनुमानलक्षणमाह--तु पुनः त्रिरूपात्पक्षधर्मत्वसपक्षसत्त्वविपक्षव्यावृत्तिरूपाल्लिङ्गतो धूमादेरुपलक्षणाद् यल्लिङ्गिनो वैश्वानरादेर्ज्ञानं तदनुमानसंज्ञितमनुमानप्रमाणमित्यर्थः। सूत्रे लक्षणं नान्वेषणीयमिति चरमपदस्य नवाक्षरत्वेऽपि न दोष इति ।। 10 ।।

रूपाणि पक्षधर्मत्वं सपक्षे विद्यमानता।
विपक्षे नास्तिता हेतोरेवं त्रीणि विभाव्यन्ताम् ।। 11 ।।
रूपत्रयमेवाह--रूपाणीति।
हेतोरनुमानस्य त्रीणि रूपाणि विभाव्यन्तामिति सम्बन्धः। तत्र पक्षधर्मत्वमिति साध्यधर्मविशिष्टो धर्मी पक्षः, यथा पर्वतोऽयं वह्निमान् धूमवत्त्वादत्र पर्वतः पक्षः, तत्र धर्मो धूमवत्त्वं वह्निमत्त्वेन व्याप्तं धूमोऽग्निं न व्यभिचरतीत्यर्थः। सपक्षे सत्त्वं यो यो धूमवान् स स वह्निमान् यथा महानसप्रदेशः। अत्र धमवत्त्वेन हेतुना सपक्षे महानसे सत्त्वं वह्निमत्त्वमस्तीत्यर्थः। विपक्षे नास्तितेति यत्र वह्निर्नास्ति तत्र धूमोऽपि नास्ति यथा जलाशये। जलाशये हि वह्निमत्त्वं व्यावर्तमानं व्याप्यं धूमवत्त्वमादाय व्यावर्तते। एवं प्रकारेण हेतोस्त्रीणि रूपाणि ज्ञायन्तामित्यर्थः ।। 11 ।।

बौद्धराद्धान्तवाच्यस्य संक्षेपोऽयं निवेदितः।
नैयायिकमतस्येतः कथ्यमानो निशम्यताम् ।। 12 ।।
उपसंहरन्नाह--बौद्धराद्धान्तेति।
अयं संक्षेपो निवेदितः कथितः निष्ठां नीतः, कस्य बौद्धराद्धान्तवाच्यस्य; बौद्धानां राद्धान्तः सिद्धान्तस्तत्र वाच्योऽभिधातव्योऽर्थस्तस्य।
इतोऽनन्तरं नैयायिकमतस्य शिवशासनस्य `कथ्यमानो निशम्यतां' संक्षेपः कथ्यमानः श्रूयतामित्यर्थः ।। 12 ।।

[नैयायिकमतम्]
आक्षपादमते देवः सृष्टिसंहारकृच्छिवः।
विभुर्नित्यैकसर्वज्ञो नित्यबुद्धिसमाश्रयः ।। 13 ।।
तदेवाह--आक्षपादेति।
आक्षपादा नैयायिकास्तेषां मते शासने देवो दर्शनाधिष्ठायकः शिवो महेश्वरः। स कथंभूतः? सृष्टिसंहारकृत् सृष्टिः प्राणिनामुत्पत्तिः, संहारस्तद्विनाशः, सृष्टिश्च संहारश्चेति द्वन्द्वः, तौ करोतीति क्विपि तोऽन्तः तथा हि--अस्य प्रत्यक्षोपलक्ष्यमाणचराचरस्वरूपस्य जगतः कश्चिदनिर्वचनीयमाहात्म्यः पुरुषः स्रष्टा ज्ञेयः, केवलसृष्टौ च निरन्तरोत्पद्यमानापारप्राणिगणस्य भुवनत्रयेऽप्यमातृत्वमिति संहारकर्ताऽपि कश्चिदभ्युपगन्तव्यः, यत् प्रमाणं--सर्वं धरणिधरणीधरतरुपुरप्राकारादिकं बुद्धिमत्पूर्वकं, कार्यत्वात्। यद्यत् कार्यं तत्तद् बुद्धिमत्पूर्वकं, यथा घटः। कार्यं चेदं, तस्माद् बुद्धिमत्पूर्वक मिति प्रयोगः, स भगवानीश्वर एवेत्यर्थः। व्यतिरेके गगनं न चायमसिद्धो हेतुः? भूभूधरादीनां स्वकारणकलापजन्यत्वेनावयवितया वा कार्यत्वस्य जगत्प्रसिद्धत्वात्। नापि विरुद्धानैकान्तिकदोषौ विपक्षादत्यन्तव्यावृत्तत्वाद्, कालात्ययापदिष्टः प्रत्यक्षानुमानोपमानागमाबाध्यमानधर्मधर्मित्वाद्, नापि प्रकरणसमः, तत्परिपन्थिपदार्थस्वरूपसमर्थनप्रथितं प्रत्यनुमानोदयाभावात्।
अथ निर्वृतात्मवदशरीरत्वादेव न सम्भवति सृष्टिसंहारकर्तेश्वर इति प्रत्यनुमानोदयात्कथं प्रकरणसमदूषणाभाव इति चेद्?
उच्यते--अत्र साध्यमान ईश्वररूपो धर्मी प्रतीतोऽप्रतीतो वाऽनुमन्यते सुहृदा? अप्रतीतश्चेद्भवत्परिकल्पितहेतोरेवाश्रयासिद्धिदोषप्रसङ्गः, प्रतीतश्चेत्तर्हि येनैव प्रमाणेन प्रतीतस्तेनैव स्वयमुद्भावितस्वतनुरपि किमर्थं नाभ्युपगम्यत इति कथमशरीरत्वमतो न दुष्टो हेतुरिति साधूक्तं सृष्टिसंहारकृच्छिवः, तथा विभुः सर्वव्यापकः, एकनियतस्थानवृत्तित्वे ह्यनियतप्रदेशनिष्ठितानां पदार्थानां प्रतिनियतयथावन्निर्माणानुपपत्तेः, न ह्येकस्थानस्थितः कुम्भकारोऽपि दूरदूरतरघटघटनायां व्याप्रियते, तस्माद्विभुर्भगवान्, तथा नित्यैकः नित्यश्चासावेकश्चेति, यतो नित्योऽत एवैकोऽप्रच्युतानुत्पन्नस्थिरैकरूपं नित्यम्, भगवतो ह्यनित्यत्वे पराधीनोत्पत्तिसव्यपेक्षतया कृतकत्वप्राप्तिः, स्वोत्पत्तावपेक्षितपरव्यापारो हि भावः कृतक इष्यत इति।
अथ चेत्कश्चिज्जगत्कर्तारमपरमभिदधाति स एवानुयुज्यते, सोऽपि नित्योऽनित्यो वा? नित्यश्चेदधिकृतेश्वरेण किमपराद्धम्, अनित्यश्चेत्तस्याप्यन्येनोत्पादकान्तरेण भाव्यमनित्यत्वादेव तस्याप्यन्येनेति नित्यानित्यवादविकल्पशिल्पशतस्वीकारे कल्पान्तेऽपि न जल्पसमाप्तिः, तस्मान्नित्य एव भगवान्, अन्यच्चैकोऽद्वितीयो, बहूनां हि जगत्कर्तृत्वस्वीकारे परस्परं पृथक् पृथगन्योन्यमसदृशमतिव्यापारतयैकैकपदार्थस्य विसदृशनिर्माणे सर्वमसमञ्जसमापद्येतेति भगवानेक एवेति युक्तियुक्तं नित्यैकेति विशेषणम् तथा सर्वज्ञ इति सर्वपदार्थानां सर्वविशेषज्ञाता, सर्वज्ञत्वाभावे हि विधित्सितपदार्थोपयोगयोग्यजगत्प्रसृमरविप्रकीर्णपरमाणुकणप्रचयसम्यक्सामग्रीमेलनाक्षमतया याथातथ्येन पदार्थनिर्माणरचना दुर्घटा, सर्वज्ञश्च सन् सकलप्राणिनां सम्मिलितसमुचितकारणकलापानुरूपपारिमाण्डल्यानुसारेण कार्यवस्तु निर्मिमाणः स्वार्जितपुण्यपापानुमानेन च स्वर्गनरकयोः सुखदुःखोपभोगं ददानः केषां नाभिमतः। तथा चोक्तम्--
ईश्वरप्रेरितो गच्छेत्स्वर्गं वा श्वभ्रमेव वा।
अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः ।। इति।।
भूयोऽपि विशेषयन्नाह `नित्यबुद्धिसमाश्रय' इति शाश्वतबुद्धिस्थानं, क्षणिकबुद्धिमतो हि पराधीनकार्यापेक्षितया मुख्यकर्तृत्त्वाभावादनीश्वरत्वप्रसक्तिरिति, ईदृग्गुणविशिष्टः शिवो नैयायिकमतेऽभ्युपगन्तव्यः ।। 13 ।।

तत्त्वानि षोडशामुत्र प्रमाणादीनि तद्यथा।
प्रमाणं च प्रमेयं च संशयश्च प्रयोजनम् ।। 14 ।।
दृष्टान्तोऽप्यथ सिद्धान्तोऽवयवस्तर्कनिर्णयौ।
वादो जल्पो वितण्डा च हेत्वाभासाश्छलानि च ।। 15 ।।
जातयो निग्रहस्थानान्येषामेवं प्ररूपणा।
अर्थोपलब्धिहेतुः स्यात्प्रमाणं तच्चतुर्विधम् ।। 16 ।।
अथ तत्त्वानि प्ररूपयन्नाह--तत्त्वानीत्यादिना।
त्रिभिर्विशेषकम्
अमुत्रास्मिन् प्रस्तुते नैयायिकमते षोडश तत्त्वानि प्रमाणादीनि प्रमाणप्रभृतीनि, तद्यथेति। बालावबोधाय नामान्यप्याह प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानां तत्त्वज्ञानान्निश्रेयस्सिद्धिरिति षोडश, एषामेवं प्ररूपणेति, तत्त्वानाममुना प्रकारेण प्ररूपणा नाममात्रप्रकटनमित्यर्थः। अथैकैकस्वरूपमाह--तत्रादौ प्रमाणस्वरूपं प्रकटयन्नाह--अर्थोपलब्धिहेतुः प्रमाणं स्यात्। अर्थस्य पदार्थस्योपलब्धिर्ज्ञानं तस्य हेतुः कारणं प्रमाणंस्यादिति। परापरदर्शनापेक्षया प्रमाणानामनियतत्वात्संदिहानस्य सङ्ख्यामुपदिशन्नाह--तच्चतुर्विधमिति। तत्प्रमाणं चतुर्विधं ज्ञेयमिति ।। 14-16 ।।

प्रत्यक्षमनुमानं चोपमानं शाब्दिकं तथा।
त्तरेन्द्रियार्थसन्निकर्षोत्पन्नमव्यभिचारिकम् ।। 17 ।।
व्यवसायात्मकं ज्ञानं व्यपदेशविवर्जितम्।
प्रत्यक्षमितरन्मानन्तत्पूर्वं(1) त्रिविधं भवेत् ।। 18 ।।
अत्र प्रमाणचातुर्विध्ये प्रत्यक्षं कीदृगिति सम्बन्धः; विशेषणान्याह--इन्द्रियार्थसन्निकर्षोत्पन्नमिति। इन्द्रियं चार्थश्चेति द्वन्द्वः, तयो- सन्निकर्षात्संयोगादुत्पन्नं जातम्, इन्द्रियं हि नैकट्यात्पदार्थे संयुज्यते, इन्द्रियार्थ संयोगाज्ज्ञानमुत्पद्यते। यदुक्तम्--
आत्मा सहैति मनसा, मन इन्द्रियेण,
स्वार्थेन चेन्द्रियमिति क्रम एष शीघ्रम्।
योगोऽयमेव मनसः किमगम्यमस्ति
यस्मिन्मनो व्रजति तत्र गतोऽयमात्मा।।
तत्राव्यभिचारिकं ज्ञानान्तरेण नान्यथाभावि, शुक्तिशकले कलधौतबोधो हीन्द्रियार्थसन्निकर्षोत्पन्नोऽपि व्यभिचारी दृष्टोऽतोऽव्यभिचारिकं ग्राह्यम्, तथा व्यवसायात्मकं व्यवहारसाधकम्, सजलधरणितले हि बहलशाद्वलवृक्षावल्यामिन्द्रियार्थसान्निध्योद्‌गतमपि जलज्ञानं तत्प्रदेशसङ्गमेऽपि स्नानपानादिव्यवहारासाधकत्वादप्रमाणम्, अतः सफलं व्यवसायात्मकमिति विशेषणम्।
तथा व्यपदेशविवर्जितमिति। व्यपदेशो विपर्ययस्तेन रहितं, तथा ह्याजन्मकाचकामलादिदोषदूषितचक्षुषः पुरुषस्य धवलशङ्खे पीतज्ञानमुदेति तद्यद्यपि सकलकालं तन्नेत्रदोषाविरामादिन्द्रियार्धसन्निकर्षोत्पन्नमस्ति तथाऽप्यन्यवस्तुनोऽन्यथाबोधान्न तद्यथोक्तलक्षणं प्रत्यक्षमिति प्रत्यक्षसाधकं विशेषणचतुष्टयमुक्तम्। साम्प्रतमनुमानमाह--इतरदन्यन्मानमनुमानमुपदिशति, तदनुमानं पूर्वं प्रथमं त्रिविधं त्रिप्रकारकं भवेज्जायेत्। पूर्वमितिपदेनानुमानान्तरभेदानन्त्यमाह--तत्पूर्वं प्रत्यक्षपूर्वं चेति श्लोकद्वयार्थः ।। 17-18 ।।
{1. तत्पूर्वकं त्रिविधमनुमानं पूर्ववत्, शेषवत् सामान्यतोदृष्टं च।--न्यायमूत्र 1-1-5।।}

पूर्ववच्छेषवच्चैव दृष्टं सामान्यतस्तथा।
तत्राद्यं कारणात्कार्यमनुमानमिह गीयते ।। 19 ।।
अनुमानत्रैविध्यमाह--पूर्ववदिति।
पूर्ववत्, शेषवत्, सामान्यतो दृष्टं चेत्यनुमानत्रयम्। चः समुच्चये, एवेति पूरणार्थे, तथेति उपदर्शने। तत्र त्रिषु मध्ये, आद्यमनुमानमिह--शास्त्रे कारणात्कार्यमनुमानमुदितं कारणान्मेघात्कार्यं वृष्टिलक्षणं यतो ज्ञायते तत्कारणकार्यनामानुमानं कथितमित्यर्थः ।। 19 ।।

पूर्ववत् अनूद्यानम्---
रोलम्बगवलव्यालतमालमलिनत्विषः।
वृष्टिं व्यभिचरन्तीह नैवंप्रायाः पयोमुचः ।। 20 ।।
निदर्शनेन तमेवार्थं द्रढयन्नाह--रोलम्बेति।
यथेति दृष्टान्तकथनारम्भे, रोलम्बाः, गवलं=माहिषं शृङ्गम्(1), व्यालाः=गजाः सर्पा वा, तमालाः=वृक्षविशेषाः, सर्वेऽप्यमी कृष्णाः पदार्थाः स्वभावतो ज्ञेयाः। द्वन्द्वसमासो बहुव्रीहिश्च। एवंप्रायाः=एवंविधाः पयोमुचो=मेघा वृष्टिं न व्यभिचरन्तीति। एवंप्राया इत्युपलक्षणेन परेऽपि वृष्टिहेतवोऽभ्युन्नत्यादिविशेषा ज्ञेयाः। यदुक्तम्--
गम्भीरगर्जितारम्भनिर्भिन्नगिरिगह्वराः।
तुङ्गत्तडिल्लतासङ्गपिशङ्गोत्तुङ्गविग्रहाः।।
इत्यादयोऽपि वृष्टिं न व्यभिचरन्ति ।। 20 ।।
{1. `गवला अरण्यजातिमहिषाः, व्याला दुष्टगजा सर्पाश्च'--गुणरत्नटीका।।}

शेषानुमानम्---
कार्यात्कारणानुमानं यच्च तच्छेषवन्मतम्।
तथाविधनदीपूरान्मेघो वृष्टो यथोपरि ।। 21 ।।
शेषवन्नामधेयं द्वितीयमनुमानभेदमाह - कार्यादिति।
यत्कार्यात्फलात्कारणानुमानं फलोत्पत्तिहेतुपदार्थावगमनं तच्छेषवदनुमानं मतं कथितं नैयायिकशासने, यथा तथाविधनधीपूरादुपरि मेघो वृष्टस्तथाविधप्रवहत्सलिलसम्भारभरितो यो नदीपूरः सरित्प्रवाहस्तस्मादुपरि शिखरिशिखरोपरि जलधराभिवर्षणज्ञानं तच्छेषवत्। अत्र कार्यं नदीपूरः कारणं च पर्वतोपरि मेघो वृष्ट इति। उक्तं च नैयायिकैः---
आवर्तवर्तनाशालिविशालकलुषोदकः।
कल्लोलविकटास्फालस्फुटफेनच्छटाऽङ्कितः।।
वहद्‌बहुलशैवालफलशाद्वलसंकुलः।
नदीपूरविशेषोऽपि शक्यते न निवेदितुम् ।।इति।। 21 ।।

सामान्यदृष्टम्---
यच्च सामान्यतोदृष्टं तदेवं गतिपूर्विका।
पुंसि देशान्तरप्राप्तिर्यथा सूर्येऽपि सा तथा ।। 22 ।।
तृतीयानुमानमाह--यच्चेति।
चः पुनरर्थे, यत् सामान्यतोदृष्टमनुमानं तदेवममुना प्रकारेण, यथा पुंसिपुरुषेदेवदत्तादौ देशान्तरप्राप्तिर्गतिपूर्विका, एकस्माद्‌देशाद्‌देशान्त रगमनं गमनपूर्वकमित्यर्थः। यछोज्जयिन्याः प्रस्थितो देवदत्तो माहिष्मतीं पुरीं प्राप्तः, सूर्येऽपि सा तथेति, यथा पुंसि तथा सूर्येऽपि सा गतिरभ्युपगम्यते। यद्यपि गगने संचरतः सूर्यस्य नेत्रावलोकप्रसरणाभावेन गतिर्नोपलभ्यते, तथाऽप्युदयाचलात् सायमस्ताचलचूकाऽवलम्बनं गतिं सूचयति।
एवं सामान्यतोदृष्टमनुमानं ज्ञेयमित्यर्थः ।। 22 ।।

प्रसिद्धवस्तुसाधर्म्यादप्रसिद्धस्य साधनम्।
उपमानं समाख्यातं यथा गौर्गवयस्तथा ।। 23 ।।
अथ क्रमायातमपि शब्दप्रमाणं स्वल्पव्यक्तत्वादुपेक्ष्यादावुपमानलक्षणमाह--प्रसिद्धिति।
तदुच्यमानमुपमानमाख्यातं कथितं, यत्तदोर्नित्यसम्बन्धात्, यत्किम्? अप्रसिद्धस्य साधनम् अज्ञायमानस्यार्थस्य ज्ञापनं क्रियते। प्रसिद्धधर्मसाधर्म्यादिति। आवालगोपालाङ्गनाविदितो योऽसौ धर्मोऽसाधारणलक्षणं तस्य साधर्म्यं समानधर्मत्वं तस्मादित्युपमानसाख्यातम्। दृष्टान्तमाह--यथा गौर्गवयस्तथेति। यथा कश्चिदरण्यवासी नागरिकेण कीदृग्गवयः? इति पृष्टः स च परिचितगोगवयलक्षणो नागरिकं प्राह--यथा गस्तथा गवयः, खुरककुदलांगूलसास्नाऽऽदिमान् यादृशो गौस्तथा जन्मसिद्धो गवयोऽपि ज्ञेय इत्यर्थः। अत्र प्रसिद्धो गौस्तत्साधर्म्यादप्रसिद्धस्य गवयस्य साधनमिति ।। 23 ।।

शाब्दमाप्तोपदेशस्तु मानमेवं चतुर्विधम्।
प्रमेयं त्वात्मदेहार्थबुद्धीन्द्रियमुखादि च ।। 24 ।।
उपमानं व्यावर्ण्य शब्दप्रमाणमाह--शाब्दमिति।
तु पुनराप्तोपदेशः शाब्दम्, अवितथवादी हितश्चाप्तः प्रत्ययितजनस्तस्य य उपदेश आदेशवाक्यं तच्छाब्दम् आगमप्रमाणं ज्ञेयमिति। एवमुक्तभङ्ग्या मानं प्रमाणं चतुर्विधं चतुष्प्रकारं निष्ठितमित्यर्थः।
अथ प्रमेयलक्षणमाह--प्रमेयं त्वात्मदेहार्थबुद्धीन्द्रियसुखादि चेति। प्रमाणग्राह्योऽर्थः प्रमेयं, तु पुनरर्थे, आत्मा च देहश्चेति द्वन्द्वः। आदिशब्देन शेषाणामपि षण्णां प्रमेयार्थानां संग्रहः। तच्च नैयायिकसूत्र(1) आत्मशरीरेन्द्रियार्थबुद्धिमनः प्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गभेदेन द्वादशविधं, तत्र सचेतनत्वकर्तृत्वसर्वगतत्वादिधर्मैरात्मा प्रमीयते, एवं देहादयोऽपि प्रमेयतया ज्ञेयाः, अत्र तु ग्रन्थविस्तारभयान्न प्रपञ्चिताः, इतरग्रन्थेभ्योऽपि सुज्ञेयत्वाच्चेति ।। 24 ।।
{1. आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयम्। --न्यायसूत्र 1-1-9 ।।}

किमेतदिति सन्दिग्धः प्रत्ययः संशयो मतः।
प्रवर्तते यदर्शित्वात्तत्तु साध्यं प्रयोजनम् ।। 25 ।।
संशयादिस्वरूपमाह--किमेतदित्यादिना।
दूरावलोकनेन पदार्थपरिच्छेदकधर्मेषु संशयानः प्राह-किमेतदिति। एतत्किं स्थाणुर्वा पुरुषो वेति? यः सन्दिग्धः प्रत्ययः स संशयो नाम तत्त्वविशेषो मतः सम्मतः तच्छासन इति।
प्रयोजनमाह--तत्तु यत्पुनः प्रयोजनं नाम तत्त्वं तत्किमित्याह--अर्थित्वात्प्राणी साध्यं कार्यं प्रति प्रवर्तते प्रतीत्यध्याहार्यम्, न हि निष्फलकार्यारम्भ इत्यर्थित्वादुक्तम्, एवं यत्प्रवर्तनं तत्प्रयोजनमित्यर्थः ।। 25 ।।

दृष्टान्तस्तु भवेदेष विवादविषयो न यः।
सिद्धान्तस्तु चतुर्भेदः सर्वतन्त्रादिभेदतः ।। 26 ।।
तु पुनरेष दृष्टान्तो नाम तत्त्वं भवेत्, यत्किमिति? विवादविषयो न, यस्मिन्नुपन्यस्ते वचने वादगोचरो न भवति, इदमित्थं भवति न वेति विवादो न भवतीत्यर्थः, तावच्चान्वयव्यतिरेकयुक्तोऽर्थः। स्खलति यावन्न स्पष्टं दृष्टान्तोपष्टम्भः। उक्तं च--
तावदेव चलत्यर्थो मन्तुर्गोचरमागतः।
यावन्नोत्तम्भवेनैव दृष्टान्तेनावलम्ब्यते।।
एष दृष्टान्तो ज्ञेयः।
सिद्धान्तः पुनश्चतुर्भेदो भवेत्, कथमित्याह--सर्वतन्त्रादिभेदत इति। सर्वतन्त्रसिद्धान्त इति प्रथमो भेदः। आदिशब्दाद्भेदत्रयमिदं ज्ञेयम्, यथा प्रतितन्त्रसिद्धान्तोऽधिकरणसिद्धान्तोऽभ्युपगमसिद्धान्तश्चेति, अमी चत्वारः सिद्धान्तभेदाः, नाममात्रकथनमिदं, विस्तृतग्रन्थेभ्यस्तु विशेषो ज्ञेयः ।। 26 ।।

प्रतिज्ञाहेतुदृष्टान्तोपनया निगमस्तथा।
अवयवाः पञ्च तर्कः संशयोपरमो भवेत् ।। 27 ।।
यथा काकादिसम्पातात् स्थाणुना भ्व्यमत्र हि।
ऊर्ध्वं सन्देहतर्काभ्यां प्रत्ययो निर्णयो मतः ।। 28 ।।
अवयवादितत्त्वत्रयस्वरूपमाह--प्रतिज्ञेत्यादिना।
अवयवाः पञ्चेति सम्बन्धः, पूर्वार्द्धमाह--प्रतिज्ञाहेतुदृष्टान्तोपनया निगमनं चेति (1)पञ्चावयवाः, तत्रप्रतिज्ञा--साध्यविशिष्टः पक्षः सानुमानयं कृशानुमानित्यादि, हेतुर्लिङ्गवचनम्, धूमवत्त्वादित्यादि, दृष्टान्त उदाहरणवचनं, यो यो धूमवान् स स वह्निमान् यथा महानसप्रदेशा इत्यादि, उपनयो हेतोरुपसंहारकं वचनं धूमवांश्चायमित्यादि, निगमनं हेत्वपदेशेन पुनः साध्यधर्मोपसंहरणं, तस्माद्वह्निमानित्यादि, इति पञ्चावयवस्वरूपनिरूपणम् अवयवतत्त्वं ज्ञेयमिति।
तर्कः संशयोपरमो भवेद्, यथा काकेत्यादि। दूराद् दृग्गोचरे स्पष्टप्रतिभासाभावात् किमयं स्थाणुर्वा पुरुषो वेति? संशयस्तस्योपरमेऽभावे सति तर्को भवेत् तर्को नाम तत्त्वं स्यात्, कथमित्याह-यथेति। दूरादूर्ध्वस्थं पदार्थं विलोक्य स्थाणुपुरुषयोः संदिहानोऽवहितीभूय विमृशति, काकादिसम्पातादादिशब्दाद्वल्युत्सर्पणादयः स्थाणुधर्मा ग्राह्याः, वायसप्रभृतिसम्बन्धादत्र स्थाणुना भाव्यं, कीलकेन भवितव्यम्, पुरुषे हि शिरःकम्पनहस्तचालनादिभिः काकपातानुपपत्तेः, एवं संशयाभावे तर्कतत्त्वं ज्ञेयमिति।
ऊर्ध्वमित्यादि पूर्वोक्तलक्षणाभ्यां सन्देहतर्काभ्यामूर्ध्वमुत्तरं य प्रत्ययः स्थाणुरेवायं पुरुष एवायमिति प्रतीतिविषयः, स निर्णयः निर्णयनामा तत्त्वविशेषो ज्ञेयः, यत्तदावर्थसम्बन्धादनुक्तावपि ज्ञेयौ ।। 27-28 ।।
{1. `प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः'--न्याoसूo 1-1-32।}

आचार्यशिष्ययोः पक्षप्रतिपक्षपरिग्रहात्।
यः कथाऽभ्यासहेतुः स्यादसौ वाद उदाहृतः ।। 29 ।।
वादतत्त्वमाह--आचार्यशिष्ययोरित्यादिना।
असौ वाद उदाहृतः कथितस्तज्ज्ञैरित्यर्थः, यः कः? इत्याह--कथाऽब्यासहेतुरित। कथा प्रामाणिकी तस्या अभ्यासः कारणम्, कयोराचार्यशिष्ययोः, आचार्य्यो गुरुरध्यापकः, शिष्यश्चाध्येता विज्ञेय इति, कस्मात् पक्षप्रतिपक्षपरिग्रहात्, पक्ष पूर्वपक्षः शिष्यश्चाध्येता विज्ञेय इति, कस्मात् पक्षप्रतिपक्षपरिग्रहात्, पक्षः पूर्वपक्षः प्रतिज्ञाऽऽदिपरिग्रहः, प्रतिपक्षः उत्तरपक्षः पूर्वपक्षवादिप्रयुक्तप्रतिज्ञाऽऽदिप्रतिपञ्चकोपन्यासप्रौढिः तयोः परिग्रहात्संग्रहादित्यर्थः। आचार्यः पूर्वपक्षमङ्गीकृत्याचष्टे, शिष्यश्चोत्तरपक्षमुररीकृत्य पूर्वपक्षं खण्डयति, एवं निग्राहकजयपराजयच्छलजात्यादिनिरपेक्षतयाऽभ्यासनिमित्तम्, पक्षप्रतिपक्षपरिग्रहेण यत्र गुरुशिष्यौ गोष्ठीं कुरुतः स वादो ज्ञेयः ।। 29 ।।

विजिगीषुकथा या तु च्छलजात्यादिदूषणा।
स जल्पः, सा वितण्डा तु या प्रतिपक्षवर्जिता ।। 30 ।।
अथ तद्विशेषमाह--विजिगीषुकथेति।
स जल्प इति सम्बन्धः, यद् विजिगीषुकथायां विजयाभिलाषिवादिप्रतिवादिप्रारब्धप्रमाणोपन्यासगोष्ठ्यां सत्यां छलजात्यादिदूषणम्, छलं त्रिप्रकारम्--वाक्छलं, सामान्यच्छलम्, उपचारच्छलं चेति। जातयश्चतुर्विंशतिभेदाः, आदिशब्दान्निग्रहस्थानादिपरिग्रहः, एतैः कृत्वा दषणं परोपन्यस्तपक्षादेर्दूषणजालमुत्पाद्यनिराकरणम्, अभिमतं च स्वपक्षस्थापनेन सन्मार्गप्रतिपत्तिनिमित्ततया छलजात्याद्युपन्यासैः परप्रयोगस्य दूषणोत्पादनम्, तथा चोक्तम्--
दुःशिक्षितकुतर्कांशलेशवाचालिताननाः।
शक्याः किमन्यथा जेतुं वितण्डादोषमण्डिताः।।
गतानुगतिको लोकः कुमार्गं तत्प्रतारितः।
मा गादिति च्छलादीनि प्राह कारुणिको मुनिः ।। इति।।
संकटे प्रस्तावे च सति च्छलादिभिरपि स्वपक्षस्थापनमनुमतम्, परविजये हि धर्मध्वंसादिदोषसम्भवस्तस्माद्वरं छलादिभिरपि जयः।
प्रतिपक्षस्तेन विवर्जितो रहित इति प्रतिपक्षसाधनविहीनो वितण्डावादः, वैतण्डिको हि स्वाभ्युपगतपक्षमस्थापयन् यत्किञ्चिद्वादेन परोक्तं दूषयतीत्यर्थः ।। 30 ।।

हेत्वाभासा असिद्धाद्याश्छलं कूपो नवोदकः।
जातयो दूषणाभासाः पक्षादिर्दूष्यते न यैः ।। 31 ।।
हेत्वाभासा ज्ञेया इति। के ते? इत्याह--असिद्धाद्याः, असिद्धविरुद्धानैकान्तिककालात्ययापदिष्टप्रकारणसमाः पञ्च हेत्वाभासा ज्ञेयाः। तत्र पक्षे धर्मत्वं यस्य नास्ति सोऽसिद्धः, विपक्षे सन् सपक्षे चासन् विरुद्धः, पक्षत्रयवृत्तिरनैकान्तिकः, प्रत्यक्षानुमानागमविरुद्धपक्षवृत्तिः कालात्ययापदिष्टः, विशेषाग्रहणेहेतुत्वेन प्रयुज्यमानः प्रकरणसमः, उदाहरणानि स्वयमभ्यूह्यानि।
छलं कूपो नवोदक इति, परोपन्यस्तवादे स्वाभिमतार्थाग्तरकल्पनया वचनविघातश्छलम्, कथमित्याह--वादिना कूपो नवोदक इति कथायां प्रत्यग्रार्थवाचकतया नवशब्दप्रयोगे छलवादी नवसंख्यामारोप्य दूषयति, कुत एक एव कूपो नवसंख्योदक इति वाक्‌छलम्, प्रस्तावागतत्वेन शेषच्छलद्वयमप्याह--सम्भावनयाऽतिप्रसङ्गिनोऽपि सामान्यस्य हेतुत्वारोपणेन तन्निषेधः सामान्यच्छलम्, यथा अहो नु खल्वसौ ब्राह्मणो विद्याचरणसम्पन्न इति ब्राह्मणस्तुतिप्रसङ्गे कश्छिद्वदति सम्भवति ब्राह्मणे विद्याचरणसम्पदिति, तच्छलवादी ब्राह्मणत्वस्य हेतुत्वमारोष्य निराकुर्वन्नभियुङ्‌क्ते, यदि ब्राह्मणे विद्याचरणसम्पद्भवति, व्रात्येऽपि सा भवेद्, व्रात्योऽपि ब्राह्मण एवेति। औपचारिके प्रयोगे मुख्यप्रतिषेधेन प्रत्यवस्थानम् उपचारच्छलं, यथा मञ्चाः क्रोशन्तीत्युक्ते परः प्रत्यवतिष्ठते कथमचेतना मञ्चाः क्रोशन्तीति छलत्रयस्वरूपं ज्ञेयमिति।
जातय इत्यादि। दूषणाभासा जातयः, अदूषणान्यपि दूषणवदाभासन्त इति दूषणाभासाः, यैः पक्षादिर्न दूष्यते, आभासमात्रत्वान्न पक्षदोषः समुद्भावयितुं शक्यते, केवलं सम्यग्हेतौ हेत्वाभासे वा वादिना प्रयुक्ते झटिति तद्दोषत्वाप्रतिभासे हेतुप्रतिबिम्बनप्रायं प्रत्यवस्थानं जातिः, सा चतुर्विशतिभेदा साधर्म्यादिप्रत्यवस्थानभेदेन।
तत्र साधर्म्येण प्रत्यवस्थानं साधर्म्यसमा जातिः।
अनित्यः शब्दः कृतकत्वाद् घटवदिति प्रयोगे कृते साधर्म्येण प्रत्यवस्थानं--यद्यनित्यघटसाधर्म्यात्कृतकत्वादनित्यः शब्दः तर्हि नित्याकाशसाधर्म्यादमूर्त्तत्वान्नित्यः स्यादिति।
वैधर्म्येण प्रत्यवस्थानं वैधर्म्यसमा जातिः।
पूर्वस्मिन्नेव प्रयोगे वैधर्म्येणैवोक्ते वैधर्म्येण प्रत्यवस्थानं, नित्यः शब्दोऽमूर्त्तत्वाद्, अनित्यं हि मूर्त्तं यथा घटादि।
यदि हि नित्याकाशवैधर्म्यात्कृतकत्त्वादनित्यः शब्दस्तर्हि घटाद्यनित्यवैधर्म्यादमूर्त्तत्वान्नित्यः स्याद्, विशेषाभावादिति।
उत्कर्षापकर्षाभ्यां प्रत्यवस्थानमुत्कर्षापकर्षसमे जाती भवतः, तत्रैव प्रयोगे दृष्टान्तधर्मं कञ्चित् साध्यधर्मिण्यापादयन्नुत्कर्षसमां जातिं प्रयुङ्‌क्ते, यदि घटवत्कृतकत्वादनित्यः शब्दो घटवदेव मूर्तोऽपि भवेद्, न चेन्मूर्तो घटवदनित्योऽपि मा भूदिति शब्दो धर्मान्तरोत्कर्षमापादयति, अपकर्षस्तु--घटः कृतकः सन्नश्रावणो दृष्ट एवं शब्दोऽपि भवेद्, नो चेद् घटवदनित्योऽपि मा भूदिति शब्दे श्रावणत्वधर्ममपकर्षति।
वर्ण्यावर्ण्याभ्यां प्रत्यवस्थानं वर्ण्यावर्ण्यसमे जाती भवतः। ख्यापनीयो वर्ण्य स्तद्विपरीतोऽवर्ण्यस्तावेतौ वर्ण्यावर्ण्यौ साध्यदृष्टान्तधर्मौ विपर्यस्यन् वर्ण्यावर्ण्यसमे जाती प्रयुङ्‌क्ते, यथाविधः शब्दधर्मः कृतकत्वादिर्न तादृग् घटधर्मो, यादृक् च घटधर्मो न तादृक् शब्दधर्म इति साध्यधर्मदृष्टान्तधर्मौ हि तुल्यौ कर्तव्यौ, अत्र तु विपर्यासः यतो यादृग्घटधर्मः कृतकत्वादिर्न तादृक् शब्दधर्मः, घटस्य ह्यन्यादृशं कुम्भकारादिजन्यं कृतकत्वम्, शब्दस्य हि ताल्वोष्ठादिव्यापारजमिति।
धर्मान्तरविकल्पेन प्रत्यवस्थानं विकल्पसमा जातिः, यथा कृतकं किञ्चिन्मृदु दृष्टं राङ्कवशय्याऽऽदि, किञ्चित्कठोरं कुठारादि, एवं कृतकं किञ्चिदनित्यं भविष्यति घटादिकं, किञ्चिन्नित्यं शब्दादीति।
साध्यसाम्यापादनेन प्रत्यवस्थानं साध्यसमा जातिः, यथा घटः तथा शब्दः प्राप्तस्तर्हि यथा शब्दस्तथा घट इति, शब्दश्च साध्य इति घटोऽपि साध्यो भवेत्, ततश्च न शाध्यः साध्यस्य दृष्टान्तो, विरुद्धलक्षणत्वान्न दृष्टान्तः स्यात्, न चेदेवं तथाऽपि वैलक्षण्यात्सुतरामदृष्टान्त इति।
प्राप्त्यप्राप्तिविकल्पाभ्यां प्रत्यवस्थानं प्राप्त्यप्राप्तिसमे जाती, यथा यदेतत्कृतकत्वं त्वया साधनमुपन्यस्तं तत्किं प्राप्य साध्यं साधयत्यप्राप्य वा, प्राप्यं चेद् तर्हि द्वयोर्विद्यमानयोरेवप्राप्तिर्भवति न सदसतोरिति, द्वयोश्च सत्त्वात्किं कस्य साध्यं साधनं वा, अप्राप्य तु साधनमयुक्तमतिप्रसह्गादिति।
प्रसङ्गापादनेन प्रत्यवस्थानं प्रसह्गसमा जातिः, यथाऽनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् घटवदित्युक्ते जातिवाद्याह यद्यनित्यत्वे कृतकत्वं साधनं, कृतकत्वमिदानीं किं साधनं तत्साधने किं साधनम्? इति।
प्रतिदृष्टान्तेन प्रत्यवस्थानं प्रतिदृष्टान्तसमा जातिः, यथाऽनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् घटवदित्युक्ते जातिवाद्याह--यथा घटः प्रयत्नानन्तरीयकोऽनित्यो दृष्ट एवं प्रतिदृष्टान्त आकाशं नित्यमपि प्रयत्नानन्तरीयकं दृष्टं कूपखननप्रयत्नानन्तरमुपलम्भादिति, न चेदमनैकान्तिकत्वोद्भावनं, भङ्ग्यन्तरेण प्रत्यवस्थानात्।
अनुत्पत्त्या प्रत्यवस्थानम् अनुत्पत्तिसमाजातिः, यथाऽनुत्पन्ने शब्दाख्ये धर्मिणि कृतकत्वं धर्मः क्व वर्तते, तदेव हेत्वभावादसिद्धिरनित्यस्येति।
साधर्म्यसमा वैधर्म्यसमा वा या जातिर्यथा पूर्वमुदाहृता सैव संशयेनोपसंह्रियमाणा संशयसमा जातिर्भवति, यथा किं घटसाधर्म्यात्कृतकत्वादनित्यः शब्दः, किं वा तद्वैधर्म्येणाकाशसाम्यान्निरवयवत्वान्नित्य इति।
द्वितीयपक्षोत्थापनबुद्ध्या प्रयुज्यमाना सैव साधर्म्यसमा वैधर्म्यसमा वा जातिः प्रकरणसमा भवति, तत्रैवानित्यः शब्दः कृतकत्वाद् घटवदिति प्रयोगे, नित्यः शब्दः श्रावणत्वात् शब्दत्ववदिति, उद्‌भावनप्रकारभेदमात्रे सति नानात्वं द्रष्टव्यम्।
त्रैकाल्यानुपपत्त्या हेतोः प्रत्यवस्थापनमहेतुसमा जातिः, यथा हेतुः साधनं तत्साध्यात्पूर्वं पश्चाद्वा सह वा भवेद् यदि पूर्वमसत् साध्यं तत्कस्य साधनम्, अथ पश्चात्साधनं पूर्वं तर्हि साध्यं तस्मिंश्च पूर्वसिद्धे किं साधनेन, अथ युगपत्साध्यसाधने तर्हि तयोः सव्येतरगोविषाणयोरिव साध्यसाधनभाव एव न भवेदिति।
अर्थापत्त्या प्रत्यवस्थानम् अर्थापत्तिमा जातिः, यद्यनित्यसाधर्म्यात्कृतकत्वादनित्यः शब्दोऽर्थादापद्यते, नित्यसाधर्म्यान्नित्य इति अस्ति चास्य नित्येनाकाशेन साधर्म्यं निरवयवत्वमित्युद्भावनप्रकारभेद एवायमिति।
अविशेषापादनेन प्रत्यवस्थानमविशेषसमा जातिः, यथा यदि शब्दघटयोरेको धर्मः कृतकत्वमिष्यते तर्हि समानधर्मयोगात्तयोरविशेषः, तद्वदेव सर्वपदार्थानामविशेषः प्रसज्यत इति।
उपपत्त्या प्रत्यवस्थानमुपपत्तिसमा जातिः, यथा यदि कृतकत्वोपपत्त्या शब्दस्यानित्यत्वं, निरवयवत्वोपपत्त्या नित्यत्वमपि कस्मान्न भवति पक्षद्वयोपपत्त्याऽनध्यवसायपर्यवसानत्वं विवक्षितमित्युद्भावनप्रकारभेद एवायम्।
उपलब्धेन प्रत्यवस्थानमुपलब्धिसमा जातिः, यथाऽनित्यः शब्दः प्रयत्नानन्तरीयकत्वादिति प्रयुक्ते प्रत्यवतिष्ठते न खलु प्रयत्नानन्तरीयकत्वमनित्यत्वे साधनं, साधनं तदुच्यते येन विना न साध्यमुपलभ्यते, उपलभ्यते च प्रयत्नानन्तरीयकत्वेन विनाऽपि विद्युदादावनित्यत्वं, शब्देऽपि क्वचिद् वायुवेगभज्यमानवनस्पत्यादिजन्ये तथेति।
अनुपलब्धिप्रत्यवस्थानादनुपलब्धिसमा जातिः यथा तत्रैव प्रयत्नानन्तरीयकत्वहेतावुपन्यस्ते, स प्राह जातिवादी न प्रयत्नकार्यः शब्दः प्रागुच्चारणादस्त्येवासावावरणयोगात्तु नोपलभ्यते, आवरणानुपलम्भेऽप्यनुपलम्भान्नास्त्येव शब्द इति चेद्? न, आवरणानुपलम्भेऽप्यनुपलम्भसद्‌भावादावरणानुपलब्धेश्चानुपलम्भादभावः, तदभावे चावरणोपलब्धेर्भावो भवति, ततस्छ तदन्तरितमूलकीलोदकादिवदावरणोपलब्धिकृतमेव शब्दस्य प्रागुच्चारणादग्रहणमिति प्रयत्नकार्याभावान्नित्यः शब्द इति।
साध्यधर्मनित्यानित्यत्वविकल्पेन शब्दनित्यताऽऽपादनं नित्यसमा जातिः, यथाऽनित्यः शब्द इति प्रतिज्ञाते, जातिवादी विकल्पयति--येयमनित्यता शब्दस्योच्यते सा किमनित्या नित्या वेति, यद्यनित्या तदियमवश्यमपायिनीत्यनित्यताया अभावान्नित्यः शब्दः, अथ नित्यैवेति तथाऽपि धर्मस्य नित्यत्वात्तस्य च निराश्रितस्यानुपपत्तेः तदाश्रयभूतः शब्दोऽपि नित्य एव स इति चेत्? न, तदनित्यत्वे तद्धर्मनित्यत्वायोगादित्युभयथा नित्यः शब्द इति।
एवं सर्वभावानित्यत्वोपपादनेन प्रत्यवस्थानमनित्यसमा जातिः, यथा घटसाधर्म्यमनित्यत्वेन शब्दस्यास्तीति, तस्यानित्यत्वं यदि प्रतिपाद्यते तद्‌घटेन सर्वपदार्थानामस्त्येव किमपि साधर्म्यमिति तेषामप्यनित्यत्वं स्याद्, अथ पदार्थान्तराणां तथा भावेऽपि नानित्यत्वं तर्हि शब्दस्यापि तन्मा भूदित्यनित्यत्वमात्रापादनपूर्वकविशेषोद्‌भावनाच्चाविशेषसमातो भिन्नेयं जातिः।
प्रयत्नाकार्यनानात्वोपन्यासेन प्रत्यवस्थानं कार्यसमा जातिः। यथाऽनित्यः शब्दः प्रयत्नानन्तरीयकत्वादित्युक्ते जातिवाद्याह--प्रयत्नस्य द्वैरूप्यं दृष्टं किञ्चिदसदेव तेन जन्यते यथा घटादिकं, किञ्चित्सदेवावरणव्युदासादिना व्यज्यते यथा मृदन्तरितमूलकीलादि।
एवं प्रयत्नकार्यनानात्वादेषु प्रयत्नेन शब्दो व्यज्यते जन्यते वेति संशय इति संशयापादानप्रकारभेदाच्च संशयसमातः कार्यसमा जातिर्भिद्यते।
तदेवमुद्‌भावनविषयविकल्पभेदेन जातीनामानन्त्ये संकीर्णोदाहरणविवक्षया चतुर्विंशतिजातिभेदा एते दर्शिता इति ।। 31 ।।

निग्रहस्थानमाख्यातं परो येन निगृह्यते।
प्रतिज्ञाहानिसंन्यासविरोधादिविभेदवत् ।। 32 ।।
दूषणाभासानुक्त्वा निग्रहस्थानमाह--निग्रहस्थानमित्यादिना।
येन केनचिद् रूपेण परो विपक्षो निगृह्यते परवादी वचननिग्रहे पात्यते तन्निग्रहस्थानमाख्यातं कथितमिति, कतिचिद्‌भेदान् नामतो निर्दिशन्नाह-प्रतिज्ञाहानिसंन्यासविरोधादिविभेदवद्। हानिसंन्यासविरोधाः प्रतिज्ञाशब्देन सम्बध्यन्ते, आदिशब्देन शेषानपि भेदान् परामृशति, एतद्‌दूषणजालमुत्पाद्यते येन तन्निग्रहस्थानम्।
यदुक्तं--`विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहश्तानम्'; तत्र विप्रतिपत्तिः साधनाभासे साधनबुद्धिः, दूषणाभासे च दूषणबुद्धिरिति, अप्रतिपत्तिः साधनस्यादूषणं, दूषणस्य चानुद्धरणम्, तद्धि निग्रहस्थानं द्वाविंशतिभेदम्, तद्यथा--प्रतिज्ञाहानिः, प्रतिज्ञाऽन्तरं, प्रतिज्ञाविरोधः, प्रतिज्ञासंन्यासः, हेत्वन्तरम्, अर्थान्तरं, निरर्थकम्, अविज्ञातार्थम्, अपार्थकम्, अप्राप्तकालं, न्यूनम्, अधिकं, पुनरुक्तम्, अननुभाषणम्, अज्ञानम्, अप्रतिभा, विक्षेपो, मतानुज्ञा, पर्यनुयोज्योपेक्षणं, निरनुयोज्यानुयोगः, अपसिद्धान्तः, हेत्वाभासः।
तत्र हेतावनैकान्तिकीकृते प्रतिदृष्टान्तधर्मं स्वदृष्टान्तेऽभ्युपगतवतः प्रतिज्ञाहानिर्नाम निग्रहस्थानं भवति, यथा अनित्यः शब्द, ऐन्द्रियिकत्वाद् घटवदिति प्रतिज्ञासाधनाय वादी वदन् परेण सामान्यमैन्द्रियिकमपि नित्यं दृष्टमिति हेतावनैकान्तिकीकृते, यद्येवं ब्रूयात् सामान्यवद्धटोऽपि नित्यो भवति स एवं ब्रुवाणः शब्दनित्यत्वप्रतिज्ञां जह्यात्।
प्रतिज्ञातार्थप्रतिषेधे परेण कृते ततैव धर्मिणी धर्मान्तरसाधनमभिदधतः प्रतिज्ञाऽन्तरनाम निग्रहस्थां भवति, अनित्यः शब्द, ऐन्द्रियिकत्वादित्युक्ते तथैव सामान्येनैव व्यभिचारेणोदिते यदि ब्रूयाद् युक्तं सामान्यमैन्द्रियिकं नित्यं तद्धिसर्वगतमसर्वगतस्तु शब्द इति, सोऽयमनित्यः शब्द इति पूर्वप्रतिज्ञातः प्रतिज्ञाऽन्तरमसर्वगतः शब्द इति प्रतिज्ञाऽन्तरेण निगृहीतो भवति।
प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञाविरोधनाम निग्रहस्थानं भवति, गुणव्यतिरिक्तं द्रव्यं रूपादिभ्योऽर्थान्तरस्यानुपलब्धेरिति, सोऽयं प्रतिज्ञाहेर्त्वोर्विरोधो यदि गुणव्यतिरिक्तं द्रव्यं कथं रूपादिभ्योऽर्थान्तरस्यानुपलब्धिः, अथ रूपादिभ्योऽर्थान्तरस्यानुपलब्धिः, कथं गुणव्यतिरिक्तं द्रव्यमिति तदयं प्रतिज्ञाहेत्वोर्विरुद्धाभिधानात्पराजीयते।
पक्षसाधने परेण दूषिते तदुद्धरणासक्त्या प्रतिज्ञामेव निह्नु नवानस्य प्रतिसंन्यासनाम निग्रहस्थानं भवति यथा--अनित्यः शब्द ऐन्द्रियिकत्वादित्युक्ते तथैव सामान्येनानैकान्तिकतायामुद्भावितायां यदि ब्रूयात् क एवमाह नित्यः शब्द इति प्रतिज्ञासंन्यासात् पराजितो भवतीति।
अविशेषाभिहिते हेतौ प्रतिषिद्धे तद्विशेषणमभिदधतो हेत्वन्तरनाम निग्रहस्थानं भवति, तस्मिन्नेव प्रयोगे तथैव सामान्येऽस्य व्यभिचारेण दूषितजातिमत्त्वे सतीत्यादिविशेषणमुपाददानोहेत्वन्तरेण निगृहीतो भवति।
प्रकृतादर्थान्तरं तदौपयिकमभिदधतोऽर्थान्तरनाम निग्रहस्थानं भवति, नित्यः शब्दः कृतकत्वादिति हेतुः, हेतुर्हिनोतेर्धातोस्तुप्रत्यये कृदन्तं पदम्। पदं च नाम तद्धितनिपातोपसर्गो इति प्रस्तुत्य नामादीनि व्याचक्षाणोऽर्थान्तरेण निगृह्यत इति।
अभिधेयरहितवर्णानुपूर्वीप्रयोगमात्रं निरर्थकनाम निग्रहस्थानं भवति, यथा नित्यः शब्दः कचटतपानां गजडदबत्त्वाद् घझढधभवदित्येतदपि सर्वथाऽर्थशून्यत्वान्निग्रहणाय कल्पेत साध्यानुपयोगाद्वा।
यत्साधनवाक्यं दूषणवाक्यं वा त्रिवारमभिहितमपि पर्षत्प्रतिवादिभ्यां बोद्धुं न शक्यते तदाऽविज्ञातार्थनाम निग्रहस्थानं भवति।
पूर्वापरासङ्गतपदसमूहप्रयोगादप्रतिष्ठितवाक्यार्थमपार्थकनाम निग्रहस्थानं भवति, दश दाडिमानि षडपूपा इति।
प्रतिज्ञाहेतूदाहरणोपनयनिगमनबचनक्रममुल्लङ्‌घ्यावयवविपर्यासेन प्रयुज्यमानमनुमानवाक्यमप्राप्तकालनाम निग्रहस्थानं भवति, स्वप्रतिपत्तिवत् परप्रतिपत्तेर्जनने परार्थानुमानक्रमस्यापगमात्, पञ्चावयवे वाक्ये प्रयोक्तव्ये तदेकतमेनानुमानावयवेन हीनं न्यूननाम निग्रहस्थानं भवति, साधनाभावे साध्यसिद्धेरभावात् प्रतिज्ञाऽऽदीनां पञ्चानामपि साधनत्वात्।
एकेनैब हेतुनोदाहरणेन वा प्रतिपादितेऽर्थे हेत्वन्तरमुदाहरणान्तरं वा वदतोऽधिकनाम निग्रहस्थानं भवति।
शब्दार्थयोः पुनर्वचनं पुनरुक्तनाम निग्रहस्थानं भवति, अन्यत्रामुवादात् शब्दपुनरुक्तं नाम यत्र स एव शब्दः पुनरुच्चार्यते, यथा-नित्यः शब्दो नित्यः शब्द इति, अर्थपुनरुक्तं तु यत्र सोऽर्थः प्रथममन्येन शब्देनोच्चार्यते
पनः पर्यायान्तरेणोच्यते यथा अनित्य शब्दो, विनाशी ध्वनिरिति, अनुवादे तु पनरुक्त्यमदोष यथा हेतूपदेशात् प्रतिज्ञायाः पुनर्वचनं निगमनमिति।
पर्षदावेदितस्य वादिभिरभिहितस्यापि यदप्रत्युच्चारणं तदननुभाषणनाम निग्रहस्थानं भवति।
पर्षदा विज्ञातस्यापि वादिवाक्यार्थस्य प्रतिवादिनो यदज्ञानं तदज्ञाननाम निग्रहस्थानं भवति, अविदितोत्तरविषयो हि किमुत्तरं ब्रूयात्, न चाननुभाषणमेवेदं, ज्ञातेऽपि वस्तुन्यनुभाषणासामर्थ्यदर्शनात्।
परपक्षे गृहीतेऽप्यनुभाषितेऽपि तस्मिन्नुत्तराप्रतिपत्तिरप्रतिभानाम निग्रहस्थानं भवति।
कार्यव्यासङ्गात्कथाविच्छेदो विक्षेपनाम निग्रहस्थानं भवति, सिषाधमिषितस्यार्थस्याशक्यसाधनतामवसाय कथां विच्छिनत्तीदं मम करणीयं परिहीयते, पीनसेन कण्ठ उपरुद्ध इत्याद्यभिधाय कथां विच्छिन्दन् विक्षेपेण पराजीयते।
स्वपक्षे परापादितदोषमनुद्‌धृत्य तमेव परपक्षे प्रतीतिमापादयो मतानुज्ञानाम निग्रहस्थां भवति, चौरो भवान् पुरुषत्वात् प्रसिद्धचौरवदित्युक्ते, भवानपि चौरः पुरुषत्वादिति ब्रुवन्नात्मनः परापादितचौरत्वदोषमभ्युपगतवान् भवतीति मतानुज्ञया निगृह्यते।
निग्रहप्राप्तस्यानिग्रहः पर्यनुयोज्योपेक्षणनाम निग्रहस्थानं भवति, पर्यनुयोज्यो नाम निग्रहोपपत्त्याऽवश्यं नोदनीयः, `इदन्ते निग्रहस्थानमुपनतमतो निगृहीतोऽसि' इत्येवं वचनीयस्तमुपेक्ष्य न निगृह्णाति यः स पर्यनुयोज्योपेक्षणेन निगृह्यते।
अनिग्रहस्थाने निग्रहस्थानानुयोगान्निरनुयोज्यानुयोगनाम निग्रहस्थानं भवति, उपपन्नवादिनमप्रमादिननिग्रहार्हमपि `निगृहीतोऽसी'ति यो ब्रूयात्स एवाभूतदोषोद्‌भावनान्निगृह्यत इति।
सिद्धान्तमभ्युपेत्य नियमात्कथाप्रसङ्गोऽपसिद्धान्तनाम निग्रहस्थानम्, यः प्रथमं कञ्चित्सिद्धान्तमभ्युपगम्य कथामुपाक्रमत, तत्र च सिषाधयिषितार्थसाधनाय परोपालम्भो यथा सिद्धान्तविरुद्धमभिधत्ते सोऽपिसिद्धान्तेन निगृह्यते।
हेत्वाभासाश्च यथोक्ता असिद्धविरुद्धादयो निग्रहस्थनम् इति, भेदान्तरानन्त्येऽपि निग्रहस्थानानां द्वाविंशतिर्मूलभेदा निवेदिता इति ।। 32 ।।

नैयायिकमतस्यैवं समासः कथितोऽधुना।
साङ्ख्याभिमतभावानामिदानीमयमुच्यते ।। 33 ।।
अथोपसंहरन्नाह--नैयायिकमतस्यैवमित्यादिना।
एवम् इत्थं प्रकारतया नैयायिकमतस्य शिवशासनस्य समासः संक्षेपोऽधुना कथितो निवेदितः साम्प्रतमेव निष्ठित इत्यर्थः।
इदानीं पुनरयं समासः सांख्याभिमतभावानाम् उच्यते। सांख्याः कापिला इत्यर्थः। तदभिमता तदभीष्टा ये भावाः पञ्चविंशतितत्त्वादयस्तेषां संक्षेपोऽतः परं कथ्यत इत्यर्थः ।। 33 ।।

सांख्या निरीश्वराः केचित्केचिदीश्वरदेवताः।
सर्वेषामपि तेषां स्यात्तत्त्वानां पञ्चविंशतिः ।। 34 ।।
दर्शनस्वरूपमाह-साङ्ख्या इत्यादिना।
केचित्सांख्या निरीश्वरा ईश्वरं देवतया न न्यन्ते केवलाध्यात्मवेदिनः, केचित्पुनरीश्वरदेवता महेश्वरं स्वशासनाधिष्ठातारमाहुः--सर्वेषामिति। तेषां केवलनित्यात्मवादिनामीश्वरदेवतानां च सर्वेषां सांख्यमतानुसारिणां शासने तत्त्वानां पञ्चविंशतिः स्यात्, तत्त्वं ह्यपवर्गसाधकं बीजमिति सर्ववादिसंवादः। यदुक्तम्--
प़ञ्चविंशतितत्त्वज्ञो यत्र तत्राश्रमे रतः।
जटी मुण्रडी शिखी वाऽपि मुच्यते नात्र संशयः ।।
तन्मते पञ्चविंशतिस्तत्त्वानीत्यर्थः ।। 34 ।।

सत्त्वं रजस्तमश्चेति ज्ञेयं तावद् गुणत्रयम्।
प्रसादतोषदैन्यादिकार्यलिङ्गं क्रमेण तत् ।। 35 ।।
गुणत्रयमाह-सत्त्वमित्यादिना।
तावदिति प्रक्रमे, सत्त्वरजस्तमश्चेति गुणत्रयं ज्ञेयम्, तद् गुणत्रयं क्रमेण परिपाट्या, प्रसादतोषदैन्यादिकार्यलिङ्गं गुणत्रयेणेदं लिङ्गत्रयं क्रमेण जन्यते, सत्त्वगुणेन प्रसादकार्यं लिङ्गं--वदननयनादिप्रसन्नता सत्त्वगुणेन स्यादित्यर्थः। रजोगुणेन तोषः, स चानन्दपर्यायः, तल्लिङ्गानि स्फूर्त्त्यादीनि रजोगुणेनाभिव्यज्यन्त इत्यर्थः। तमोगुणेन च दैन्यं जन्यते, हा दैव! नष्टोऽस्मि वञ्चितोऽस्मीत्त्यादिवदनविच्छायतानेत्रसङ्कोचादिव्यङ्ग्यं दैन्यं तमोगुणलिङ्गमिति। दैन्यादीत्यादिशब्देन दुःखत्रयमाक्षिप्यते, तद्यथाऽऽध्यात्मिकम्, आधिभौतिकम्, आधिदैविकं चेति।
तत्राध्यात्मिकं द्विविधं--शरीरं मानसं च, शारीरं वातपित्तश्लेष्मणां वैषम्यनिमित्तम्, मानसं कामक्रोधलोभमोहेर्ष्याविषयादर्शननिबन्धनं, सर्वं चैतदान्तरोपायसाध्यत्वादाध्यात्मिकं दुःखम्।
बाह्योपायसाध्यं दुःखं द्वेधा--आधिभौतिकम् आधिदैविकं चेति। तत्राधिभौतिकं मानुषपशुमृगपक्षिसरीसृपस्थावरनिमित्तम्, आधिदैविकं यक्षराक्षसग्रहाद्यावेशहेतुकमिति ।। 35 ।।
एतेषां या समावस्था सा प्रकृतिः किलोच्यते।
प्रधानाव्यक्तशब्दाभ्यां वाच्या नित्यस्वरूपिका ।। 36 ।।
तदेवाह--एतेषामित्यादिना।
एतेषां सांख्यानां प्रकृतिः प्रीत्यप्रीतिविषादात्मकानां लाघवोपष्टम्भगौरवधर्माणां सत्त्वरजस्तमसां त्रयाणामपि गुणानां या साम्यावस्था समतयाऽवस्थितिः सा किल प्रकृतिरुच्यते। किलेत्याप्तप्रवादे, सा प्रकृतिः कथ्यते, अन्यच्च सा प्रधानाव्यक्तशब्दाभ्यां वाच्या प्रधानाव्यक्तशब्देन च प्रकृतिराख्यायते। शास्त्रे प्रकृतिः प्रधानमव्यक्तं चेति पर्याया न तत्त्वान्तरमित्यर्थः। तथा नित्यस्वरूपिका शाश्वतभावनतया प्रसिद्धेत्यर्थः, उच्यते च नित्या नानापुरुषाश्रया च तद्‌दर्शनेन प्रकृतिर्यदाह--
तस्मान्न बध्यतेऽद्धा न मुच्यते नापि संसरति कश्चित्।
संसरति बध्यते मुच्यते च नानाऽऽश्रया प्रकृति ।। 36 ।। इति

ततः सञ्जायते बुद्धिर्महानिति यकोच्यते।
अहङ्कारस्ततोऽपि स्यात्तस्मात्षोडशको गणः ।। 37 ।।
अनेन दुःखत्रयेणाभिहतस्य प्राणिनस्त्वजिज्ञासोत्पद्यतेऽतस्तान्येव तत्त्वान्याह--तत इत्यादिना।
ततो गुणत्रयाद् बुद्धिः संजायते यका बुद्धिर्महानित्युच्यते महानितिशब्देन कीर्त्यत इत्यर्थः। एवमेतन्नान्यथा, गौरयं नाश्वः, स्याणुरेष नायं पुरुष इत्येवं निश्चयस्तेन पदार्थप्रतिपत्तिहेतुर्योऽध्यवसायःसा बुद्धिरिति, तस्यास्त्वष्टौ रूपाणि तद्‌दर्शनविश्रुतानि, यदाह--धर्मज्ञानवैराग्यैश्वर्यरूपाणि चत्वारि सात्त्विकानि, अधर्मादीनि तु तत्प्रतिपक्षभूतानि चत्वारि तामसानीत्यष्टौ, ततो बुद्धेरहंकारः; स चाभिमानात्मको यथा अहं शब्दे, अहं रूपे, अहं रसे, अहं स्पर्शे, अहं गन्धे, अहं स्वामी, अहम् ईश्वरः, असौ मया हतः, अहं त्वा हनिष्यामीत्यादिप्रत्ययरूपस्तस्मादहंकारात्षोडशको गणो `जायत' इत्यध्याहारोऽस्तिभवतीत्यादिवत्, पञ्च बुद्धीन्द्रियाणि, पञ्च कर्मेन्द्रियाणि, एकादशं मनः, पञ्च भूतानि, षोडशको गणः। तथाऽऽह ईश्वरकृष्णः--
मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त।
षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः ।। 37 ।। इति

स्पर्शनं रसनं घ्राणं चक्षुः श्रोत्रं च पञ्चमम्।
पञ्च बुद्धीन्द्रियाण्याहुस्तथा कर्मेन्द्रियाणि च ।। 38 ।।
पायूपस्थवचः पाणिपादाख्यानि मनस्तथा।
अन्यानि पञ्चरूपाणि तन्मात्राणीति षोडश ।। 39 ।।
षोडशकगणमेवाह--स्पर्शनमित्यादिना।
पञ्च बुद्धीन्द्रियाणीति सम्बन्धः, स्पर्शनं त्वगिन्द्रियं, रसनं जिह्वा, घ्राणं नासिका, चक्षुर्नेत्रं, पञ्चमं श्रोत्रं कर्ण इति, एतानि पञ्च बुद्धिप्रधानानि बुद्धिसहचराण्येव ज्ञानं जनयन्तीति कृत्वा बुद्धीन्द्रियाण्याहुः कथयन्ति तन्मतीया इति। तथा कर्मेन्द्रियाणि चेति। तथा पूर्वोद्दिष्टपञ्चसंख्यामात्रमपि परामृशति, तान्येवाह--पायूपस्थवचःपाणिपादाख्यानीति। पायुरपानम्, उपस्थः प्रजननं, वचो वाक्यं, पाणिर्हस्तः, पादश्चरणः, तदाख्यानि पञ्च कर्मेन्द्रियाणि, कर्म कार्यव्यापारस्तस्य साधनानीन्द्रियाणीति कर्मेन्द्रियाणि; तथा मन एकादशमिन्द्रियमित्यर्थः, पञ्चरूपाणि तन्मात्राणि चेति, शब्दस्पर्शरूपरसगन्धाख्यानि तन्मात्राणीति षोडश ज्ञेयाः ।। 38-39 ।।
रूपात्तेजो रसादापो गन्धाद् भूमिः स्वरान्नभः।
स्पर्शाद्वायुस्तथैवं च पञ्चभ्यो भूतपञ्चकम् ।। 40 ।।
पञ्चतन्मात्रेभ्यः पञ्चभूतोत्पत्तिमाह - रूपात्तेज इत्यादिना।
पञ्चभ्य इति। पञ्चतन्मात्रेभ्यः पच्छभूतकमिति सम्बन्धः, रूपतन्मात्रात्तेजः, रसतन्मात्रादापः, गन्धतन्मात्राद् भूमिः, स्वरतन्मात्रादाकाशं, स्पर्शतन्मात्राद्वायुः, एवं पञ्चतन्मात्रेभ्यः पञ्च भूतान्युत्पद्यन्ते, असाधारणैकैकगुणकथनमिदम्, उत्पत्तिश्च शब्दतन्मात्रादाकाशं शब्दगुणं शब्दो ह्यम्बरगुण इति, शब्दतन्मात्रसहितात्स्पर्शतन्मात्राद् वायुः शब्दस्पर्शगुण इति, शब्दस्पर्शतन्मात्रसहिताद्रूपतन्मात्रात्तेजः शब्दस्पर्शरूपगुणमिति, शब्दस्पर्शरूपतन्मात्रसहिताद्रसतन्मात्रादापः शब्दस्पर्शरूपरसगुणा इति, शब्दस्पर्शरूपतन्मात्रसहिताद्रसतन्मात्रादापः शब्दस्पर्शरूपरसगुणा इति, शब्दस्पर्शरूपरसतन्मात्रसहिताद् गन्धतन्मात्रात् शब्दस्पर्शरूपरसगन्धगुणा पृथिवी जायत इति, पञ्चभ्यः पञ्चभूतकमित्यर्थः ।। 40 ।।

एवं चतुर्विंशतितत्त्वरूपं निवेदितं सांख्यमते प्रधानम्।
अन्यस्त्वकर्ता विगुणस्तु भोक्ता तत्त्वं पुमान्नित्यचिदभ्युपेतः ।। 41 ।।
प्रकृतिविस्तरमेवोपसंहरन्नाह--एवमित्यादिना।
एवं पूर्वोक्तप्रकारेण सांख्यमते चतुर्विंशतितत्त्वरूपं प्रधानं निवेदितम्। प्रकृतिर्महानहङ्कारश्चेति त्रयम्, पञ्च बुद्धीन्द्रियाणि, पञ्च कर्मेन्द्रियाणि, मनस्त्वेकं, पञ्च तन्मात्राणि, पञ्च भूतानिःरूपं यस्येत्येवंविधा प्रकृतिः कथितेत्यर्थः। पञ्चविंशतितमं तत्त्वमाह--अन्यस्त्विति। अन्योऽकर्ता पुरुषः, प्रकृतेरेव संसरणादिधर्मत्वाद्, यदुक्तं--प्रकृतिः करोति प्रकृतिर्बध्यते, प्रकृतिर्मुच्यते, पुरुषोऽबद्धः पुरुषो मुक्तः पुरुषस्तु--
अमूर्तश्चेतनो भोगी नित्यः सर्वगतोऽक्रियः।
अकर्ता निर्गुणः सूक्ष्म आत्मा कापिलदर्शने ।।
पुरुषगुणानाह--विगुण इति। सत्त्वरजस्तमोरूपगुणत्रयविकलः, तथा भोक्ता भोगी, एवंप्रकारः पुमान् तत्त्वं पञ्चविंशतितमं तत्त्वमित्यर्थः। तथा नित्यचिदभ्युपेतः, नित्या चासौ चिच्चैतन्यशक्तिस्तयाऽभ्युपेतः सहितः, आत्मा हि स्वं बुद्धेरव्यतिरिक्तमभिमन्यते, सुखदुःखादयश्च विषया इन्द्रियद्वारेण बुद्धौ संक्रामन्ति, बुद्धिश्चोभयमुखदर्पणाकारा, ततस्तस्यां चैतन्यशक्तिः प्रतिबिम्बते, ततः सुख्यहं दुःख्यहमित्युपचर्यते, आह च पातञ्जले--`शुद्धोऽपि पुरुषः प्रत्ययं बौद्धमनुपश्यति तमनुपश्यन्नतदात्माऽपि तदात्मक इब प्रतिभासत' (योo सूo ।2।20।। व्यासभाष्यम्) इति। मुख्यतस्तु चिच्छक्तिर्विषयपरिच्छेदशून्या, बुद्धेरेव विषयपरिच्छेदस्वभावत्वात् चिच्छक्तिसन्निधानाच्चाचेतनाऽपि बुद्धिश्चेतना वतीवावभासते, वादमहार्णवोऽप्याह--
बुद्धिदर्पणसंक्रान्तमर्थविप्रतिबिम्बकम्।
द्वतीयदर्पणकल्पं पुरुषे ह्यधिरोहति।।
तदेव भोक्तृत्वमस्य न तु विकारोत्पत्तिरिति। तथा चासुरिः--
विविक्ते दृक्परिणतौ बुद्धौ भोगोऽस्य कथ्यते।
प्रतिबिम्बोदयः स्वच्छो यथा चन्द्रमसोऽम्भसि।।
विन्ध्यवासी त्वेवं भोगमाचष्टे--
पुरुषोऽविकृतात्मैव स्वनिर्भासमचेतनम्।
मनः करोति सान्निध्यादुपाधेः स्फटिको यथा।।
इति नित्यचिज्ज्ञानयुक्तः।
बन्धमोक्षसंसाराश्च नित्येऽप्यात्मनि भृत्यगतयोर्जयपराजययोरिव तत्फलकोशलाभादिसम्बन्धे नस्वामिन्युपचारवदत्राप्युपचर्यन्त इत्यदोषः ।। 41 ।।

पञ्चविंशतितत्त्वानि सांख्यस्यैवं भवति च।
प्रधाननरयोश्चात्र वृत्तिः पङ्‌ग्वन्धयोरिव ।। 42 ।।
तत्त्वोपसंहारमाह-पञ्चविंशतितत्त्व नीत्यादिना।
पूर्वार्धं निगदसिद्धम्, अत्र सांख्यमते प्रधाननरयोः प्रकृतिपुरुषयोर्वृत्तिर्वर्तनं पंग्वन्धयोरिव पङ्ग्वगुश्चरणविकलः, अन्धश्च नेत्रविकलः, यथा पङ्‌ग्वन्धौ संयुक्तावेव कार्यसाधनाय प्रभवतो न पृथग्भूतौ प्रकृतिपुरुषयोरपि तथैव कार्यकर्तृत्वम्, प्रकृत्युपात्तं पुरुषो भुङ्क्त इत्यर्थः ।। 42 ।।

प्रकृतिवियोगो मोक्षः पुरुषस्यैवान्तरज्ञानात्।
मानत्रितयं च भवेत् प्रत्यक्षं लैङ्गिकं शाब्दम् ।। 43 ।।
मोक्षप्रमाणं चाह--प्रकृतिवियोग इत्यादिना।र
मोक्षः किमुच्यत इत्याह - पुरुषस्यात्मन आन्तरज्ञानाद्विविधबन्धविच्छेदात्प्रकृतिवियोगो यः स मोक्षः प्रकृत्या सह वियोगे विरहे सति पुरुषस्यापवर्ग इति, आन्तरज्ञानं च बन्धविच्छेदाद्भवति, बन्धश्च प्राकृतिकवैकृतिकदाक्षिणभेदात्त्रिविधः। तद्यथा--प्रकृतावात्मज्ञानाद् ये प्रकृतिमुपासते तेषां प्राकृतिको बन्धः, ये विकारानेव भूतेन्द्रियाहङ्कारबुद्धीः पुरुषबुद्ध्योपासते तेषां वैकारिकः, इष्टापूर्ते दाक्षिणः, इष्टापूर्तं जनभोजनदानादिकं तस्मिन् पुरुषतत्त्वानभिज्ञो हीष्टकारी कामोपहतमना बध्यत इति।
इष्टापूर्तं मन्यमाना वरिष्ठं नान्यत् श्रेयो येऽभिनन्दन्ति मूढाः।
नाकस्य पृष्ठे ते सुकृतेन भूत्वा इमं लोकं हीनतरं वा विशन्ति।।
इति वचनाद्। मुण्डकोमo ।1।2।10।।
इति त्रिविधबन्धविच्छेदात्पुरुषानुभवस्ततः प्रकृतिवियोगः पुरुषस्य, प्रकृतिपुरुषविवेकदर्शनाच्च निवृत्तायां च भवेत् स्यात् प्रत्यक्षं लैङ्गिकं शाब्दं, चकारः सर्वत्र सम्बध्यते। प्रत्यक्षमिन्द्रियोपलभ्यं, लैङ्गिकमनुमानगम्यं, शाब्दं चागमस्वरूपमिति प्रमाणत्रयम् ।। 43 ।।

[जैनमतम्]
एवं सांख्यमतस्यापि समासः कथितोऽधुना।र
जैनदर्शनसंक्षेपः कथ्यते सुविचारवान् ।। 44 ।।
अथोपसंहरन्नाह-एवमिति।
पूर्वोक्तप्रकारेण सांख्यमतस्यापि समासः संक्षेपः कथितः, अपि समुच्चयार्थे, न केवलं बौद्धनैयायिकयोः संक्षेप उक्तः, सांख्यमतस्याप्यधुना कथित इति, सांख्य इति पुरुषनिमित्तेयं संज्ञा, संख्यस्य इमे सांख्याः, तालव्यो वा शकारः, शङ्खनामाऽऽदिपुरुषः।
अथ क्रमायातं जैनमतोद्देशमाह--अधुनेत्युत्तरार्द्धेन सम्बध्यते। अधुना इदानीं जानदर्शनसंक्षेपः कथ्यते--कथंभूत इति ? सुविचारवान्, सुष्ठु शोभनो विचारोऽर्थोऽस्यास्तीत्यर्थे मतुप्। सुविचारवानिति साभिप्रायं पदम्। अपरदर्शनानि हि--
पुराणं मानवो धर्मः साङ्गो वेदश्चिकित्सितम्।
आज्ञासिद्धानि चत्वारि न हन्तव्यानि हेतुभिः।।
इत्याद्युक्त्या न विचारपदवीमाद्रियन्ते। जैनस्त्वाह--
अस्ति वक्तव्यता काचित्तेनेदं न विचार्यते।
निर्दोषं काञ्चनं चेत्स्यात्परीक्षाया विभेति किम्।।
इति युक्तियुक्तविचारपरम्परापरिचयपथपथिकत्वेन जैनो युक्तिमार्गमेवावगाहते, न च पारम्पर्यादिपक्षपातेन युक्तिमुल्लङ्घयति परमार्हतः, उक्तञ्च---
पक्षपातो न मे वीरे न द्वेषः कपिलादिषु।
युक्तिमद्वचनं यस्य तस्य कार्यः परिग्रहः।।
इत्यादिहेतुहेतिशतनिरस्तविपक्षप्रसरत्वेन `सुविचारवान्' इत्यसाधारणविशेषणप्रसरणं ज्ञेयमिति ।। 44 ।।

जिनेन्द्रो देवता तत्र रागद्वेषविवर्जितः।
हतमोहमहामल्लः केवलज्ञानदर्शनः ।। 45 ।।
सुरासुरेन्द्रसम्पूज्यः सद्‌भूतार्थोपदेशकः।
कृत्स्नकर्मक्षयं कृत्वा सम्प्राप्तः परमं पदम् ।। 46 ।।
तदेवाह-जिनेन्द्रो देवतेत्यादिना।
तत्र तस्मिन् जैनमते जिनेन्द्रो देवता कृत्स्नकर्मक्षयं कृत्वा परमं पदं सम्प्राप्त इति सम्बन्धः, जैनेन्द्र इति जयन्ति रागादीनिति जिनाः सामान्यकेवलिनस्तेषामिन्द्रः स्वामी तादृशासदृशचतुस्त्रिंशदतिशयसम्पत्सहितो जिनेन्द्रो देवता दर्शनप्रवर्तक आदिपुरुष, एष कीदृक् शिवं सम्प्राप्त इति परासाधारणानि विशेषणान्याह--रागद्वेषविवर्जित इति। रागः सांसारिकस्नेहोऽनुग्रहलक्षणः, द्वेषो वैराग्याद्यनुबन्धान्निग्रहलक्षणः, ताभ्यां विवर्जितो रहितः। एतावेव दुर्जयौ दुरन्तभवसम्पातहेतुतया च मुक्तिप्रतिरोधकौ समये प्रसिद्धौ, यदाह--
को दुःखं पाविज्जा कस्स न सुक्खेहिं विम्हहो हुज्जा।
को अ न लभेज्ज मुक्खं रागद्‌दोसा जइ न हुज्जा।।
(को दुःखं प्रानुयात् कस्य न सौख्यैर्विस्मयो भवेत्।
कश्च न लभेत मोक्षं रागद्वेषौ यदि न भवेताम्।।)
तथा हतमहामोहमल्लः मोहनीयक्कर्मोदयाच्च हिंसाऽऽत्मकशास्त्रेभ्योऽपि मुक्तिकाङ्क्षणादिव्यामोहो मोहः स एव दुर्ज्जेयत्वान्महामल्ल इव महामल्लः, हतो मोहो महामल्लो येनेति स तथा, रागद्वेषमोहसद्भावादेव न चान्यतीर्थाधिष्ठातारो मुक्त्यङ्गतया प्रतिभासन्ते, तत्सद्भावश्च तेषु सुज्ञेय एव। यदुक्तम्--
रागोऽङ्गनासङ्गमनानुमेयो द्वेषो द्विषां दारणहेतिगम्यः।
मोहः कुवृत्तागमदोषसाध्यो नो यस्य देवस्य स चैवमर्हन्।।
इति रागद्वेषमोहरहितो भगवान्, तथा केवलज्ञानदर्शनः, धवखदिरपलाशादिव्यक्तिविशेषावबोधो ज्ञानम्, वनमिति सामान्यावबोधो दर्शनम्, केवलशब्दश्चोभयत्र सम्बध्यते, केवलमिन्द्रियादिज्ञानानपेक्षं ज्ञानं दर्शनञ्च यस्येति, केवलज्ञानकेवलदर्शनात्मको हि भगवान् करतलकलितविमलमुक्ताफलवद् द्रव्यपर्यायविशुद्धमखिलमिदमनवरतं जगत्स्वरूपं पश्यतीति केवलज्ञानदर्शन इति पदं साभिप्रायम्, अन्यस्य हि प्रथमं दर्शनमुत्पद्यते, ततो ज्ञानं, केवलिनस्त्वादौ ज्ञानं ततो दर्शनमिति।
सुरासुरेन्द्रसम्पूज्यः सेवाविधानसावधाननिरन्तरढौकमानदासायमानदेवदानववन्दनीयः; तादृशैरपि पूज्यस्य मानवतिर्यक्‌खेचरकिन्नरनिकरसंसेव्यत्वमानुषङ्गिकमिति।
तथा सद्भूतार्थोपदेशकः सद्भूतार्थान् द्रव्यपर्यायरूपान् नित्यानित्यसामान्यविशेषसदसदभिलाप्याद्यनन्तधर्मात्मकान् पदार्थानुपदिशति, तथा हि-वस्तुनस्तावदर्थक्रियाकारित्वं लक्षणं, तच्च नित्यैकान्ते न घटते, अप्रच्युः तानुत्पन्नस्थिरैकरूपो हि नित्यः स च क्रमेणार्थक्रियां कुर्वीताक्रमेण वा, अन्योन्यव्यतिरिक्तधर्माणामर्थानां प्रकारान्तरेणोत्पादाभावात्, तत्र न क्रमेण स हि कालान्तराविनीः क्रियाः प्रथमक्रियाकाल एव प्रसह्य कुर्यात् समर्थस्य कालक्षेपायोगात्, कालक्षेपिणो वा सामर्थ्याप्राप्तेः, समर्थो हि तत्सहकारिसमवधानेन तमर्थं करोतीति चेद्?
न, तस्य सामर्थ्यमपरसहकारिसापेक्षवृत्तित्वात् `सापेक्षमसमर्थमि'ति न्यायात्, न तेन सहकारिणोऽपेक्ष्यन्ते, अपि तु कार्यमेव सहकारिष्वसत्स्वभवत्तमपेक्षत इति चेत्?
तत्किं स भावोऽसमर्थः समर्थो वा, समर्थश्चेत्किं सहकारिप्रेक्षणादीनि तान्यपेक्षते न पुनर्झटिति घटयति।
ननु समर्थमपि बीजमिलाजलानिलादिसहकारिसहितमेवाङ्कुरं करोति नान्यथा, तत्किं बीजस्य सहकारिभिः किञ्चिदुपक्रियते न वा, यदि नोपक्रियते तदा सहकारिसन्निधानात्प्रागिव किं न सोऽर्थक्रियायामुदास्ते, उपक्रियते चेत्स, तर्हि तैरुपकारो भिन्नोऽभिन्नो वा क्रियत इति वाच्यम्, अभेदे स एव क्रियत इति लाभमिच्छतो मूलक्षतिरायाता, कृतकत्वेन तस्यानित्यत्वापत्तेः, भेदे सति कथं तस्योपकारः, किं न सह्यविन्ध्यादेरपि।
तत्सम्बन्धात्तस्यायमिति चेत्? उपकार्योपकारकयोः कः सम्बन्धः, न तावत्संयोगो द्रव्ययोरेव तस्य भावात्, अत्र तूपकार्यं द्रव्यमुपकारश्च क्रियेति न संयोगो, नापि समवायः, तस्यैकत्वाद् व्यापकत्वाच्च प्रत्यासत्तिविप्रकर्षाभावेन सर्वत्र तुल्यत्वाद् न नियतैः सम्बन्धिभिः सम्बन्धो युक्तः, नियतसम्बन्धिसम्बन्धे चाङ्गीक्रियमाणे तत्कृतोपकारोऽस्य समवायस्याभ्युपगन्तव्यः, तथा च सत्युपकारस्य भेदाभेदकल्पना तदवस्थैव।
उपकारस्य समवायादभेदे समवाय एव कृतः स्यात्, भेदे पुनरपि समवायस्य न नियतसम्बन्धे सम्बन्धत्वं, तन्नैकान्तनित्यो भावः क्रमेणार्थक्रियां कुरुते नाप्यक्रमेण, न ह्येको भावः सकलकालभाविनीर्युगपत्सर्वाः क्रियाः करोतीति प्रातीतिकं, कुरुतां वा तथाऽपि स द्वतीयक्षणे किं कुर्यात्, करणे वा क्रमपक्षभावी दोषः; अकरणे त्वर्थक्रियाकारित्वाभावादवस्तुत्वप्रसङ्ग इत्येकान्तनित्या क्रमाक्रमाभ्यां व्याप्ताऽर्थक्रिया व्यापकानुपलब्धिबलाद् व्यापकनिवृत्तौ निवर्तमाना व्याप्यमर्थक्रियाकारित्वं निवर्तयति, अर्थक्रियाकारित्वञ्च निवर्तमानं स्वव्याप्यसत्त्वं निवर्त्तयतीति नैकान्तनित्यपक्षो युक्तिक्षमः।
एकान्तानित्यपक्षोऽपि न कक्षीकरणार्हः, अनित्यो हि प्रतिक्षणविनाशी, स च न क्रमेणार्थक्रियासमर्थो देशकृतस्य कालकृतस्य च क्रमस्यैवाभावात्, क्रमो हि पौर्वापर्यं, तत्क्षणिकस्यासम्भवि, अवस्थितस्यैव हि नानादेशकालव्याप्तिर्देशक्रमः कालक्रमश्चाभिधीयते, न चैतस्मिन् विनाशिनी साऽस्ति। यदाहुः--
यो यत्रैव स तत्रैव यो यदैव तदैव सः।
न देशकालयोर्व्याप्तिर्भावानामिह विद्यते ।।
न च सन्तानापेक्षया पूर्वोत्तरक्षणानां क्रमः सम्भवति, सन्तानस्यावस्तुत्वात्, वस्तुत्वेऽपि तस्य यदि क्षणिकत्वं न तर्हि क्षणेभ्यः कश्चिद्विशेषः, अथाक्षणिकत्वं तर्हि समाप्तः क्षणभङ्गवादः, नाप्यक्रमेणार्थक्रिया क्षणिके सम्भवति, स ह्येको बीजपूरादिरूपादिक्षणो युगपदनेकान् रसादिक्षणान् जनयन्नेकेन स्वभावेन जनयेद् नानास्वभावैर्वा, यद्येकेन तदा तेषां रसादिक्षणानामेकत्वं स्वादैकस्वभावानन्यत्वात्।
अथ नानास्वभावैर्जनयति किञ्चिद्रूपादिकमुपादानभावेन किञ्चिद्रसादिकं सहकारित्वेनेति, ते तर्हि स्वभावास्तस्यात्मभूता अनात्मभूता वा, अनात्मभूताश्चेत्स्वभावत्वहानिः, यद्यात्मभूतास्तहिं तस्यानेकत्वमनेकस्वभावत्वात्, स्वभावानां वैकत्वं प्रसज्येत, तदव्यतिरिक्तत्वात्तेषां तस्य चैकत्वाद्।
अथ य एवैकत्रोपादानभावः स एवान्यत्र सहकारिभाव इति न स्वभावभेद इष्यते? तर्हि नित्यस्यैकरूपस्य क्रमेण नानाकार्यकारिणः स्वभावभेदः कार्यसाङ्कर्यं च कथमिष्यते क्षणिकवादिना।
अथ नित्यमेकस्वरूपत्वादक्रमम्, अक्रमाच्च क्रमिणां नानाकार्याणां कथमुत्पत्तिरिति चेद्? अहो स्वपक्षपाती देवानाम्प्रियः, यः खलु स्वयमेकस्मान्निरंशाद्रूपादिक्षणलक्षणात्कारणाद्युगपदनेककारणसाध्यान्यनेककार्याण्यङ्गीकुर्वाणोऽपि, परपक्षे नित्येऽपि वस्तुनि क्रमेण नानाकार्यकरणेऽपि विरोधमुद्भावयति तस्मात्क्षणिकस्यापि भावस्याक्रमेणार्थक्रिया दुर्घटा इत्यनित्यैकान्तादपि क्रमाक्रमयोर्निवृत्त्यैव व्याप्याऽर्थक्रिया व्यावर्तते, तद्व्यावृत्तौ च सत्त्वमपि व्यापकानुपलम्भबलेनैव निवर्तत इत्येकान्तानित्यवादो न रमणीयः।
स्याद्वादे तु पूर्वोत्तराकारपरिहारस्वीकारस्थितिलक्षणपरिणामेन भावानामर्थक्रियोपपत्तिरविरुद्धा।
न चैकत्र वस्तुनि परस्परविरुद्धधर्माध्यासयोगादसन् स्याद्वाद इति वाच्यम्? नित्यपक्षानित्यपक्षविलक्षणस्य कथञ्चित्सदसदात्मकस्य पक्षान्तरस्याङ्गीक्रियमाणत्वात् तथैव च सर्वैरनुवादिति। तथा च पठन्ति--
भागे सिंहो नरो भागे योऽर्थो भागद्वयात्मकः।
तमभागं विभागेन नरसिंहं प्रचक्षत ।। इति।।
तया सामान्यैकान्तं, विशेषैकान्तं, भिन्नौ सामान्यविशेषौ, चेत्थं निराचष्टे, तथा हि--विशेषाः सामान्याद्भिन्ना अभिन्ना वा, भिन्नाश्चेन्मण्डूकजटाभारानुकाराः, अभिन्नाश्चेत्तदेव तत्स्वरूपवदिति सामान्यैकान्तः।
सामान्यैकान्तवादिनस्तु द्रव्यास्तिकनयानुपातिनो मीमांसकभेदा अद्वैतवादिनः सांख्याश्च।
पर्यायनयान्वयिनो भाषन्ते विविक्ताः क्षणक्षयिणो विशेषा एव परमार्थस्ततो विष्वग्भूतस्य सामान्यस्याप्रतीयमानत्वाद्।
न हि गवादिव्यक्त्यनुगमकाले वर्णस्थानात्मकं व्यक्तिरूपमवहायान्यत्किञ्चिदेकमनुयायि प्रत्यक्षे प्रतिभासते तादृशस्यानुभवाभावात्। तथा च पठन्ति--
एतासु पञ्चस्ववभासिनीषु प्रत्यक्षबोधे स्फुटमङ्गुलीषु।
साधारणं रूपमवेक्षते यः शृङ्गं शिरस्यात्मन ईक्षते सः।।
एकाकारपरामर्शप्रत्ययस्तु स्वहेतुदत्तशक्तिभ्यो व्यक्तिभ्य एवोत्पद्यत इति न तेन सामान्यसाधनं न्याय्यम्।
किञ्च यदिदं सामान्यं परिकल्प्यते तदेकमनेकं वा, एकमपि सर्वगतमसर्वगतं च, सर्वगतं चेत्किं न व्यक्त्यन्तरालेष्वपि लभ्यते, सर्वगतैकत्वाभ्युपगमे वा तस्य यथा गोत्वसामान्यं गोव्यक्तीः क्रोडीकरोति, एवं किं न घटपटादिव्यक्तीरप्यविशेषात्, असर्वगतं चेद्विशेषरूपापत्तिरभ्युपगमबाधश्च।
अथानेकं गोत्वाश्वत्वघटत्वादिभेदभिन्नत्वात्, तर्हि विशेषा एव स्वीकृता अन्योन्यव्यावृत्तिहेतुत्वाद्, न हि यद् गोत्वं तदश्वत्वात्मकमिति, अर्थक्रियाकारित्वं च वस्तुनो लक्षणं, तच्च विशेषेष्वेव स्फुटं लक्ष्यते, न हि सामान्येन काचिदर्थक्रिया क्रियते तस्य निष्क्रियत्वात्, वाहदोहादिष्वर्थक्रियासुविशेषाणामेवोपयोगात्, तदिदं सामान्यं विशेषेभ्यो भिन्नमभिन्नं वा, भिन्नं चेदवस्तु, विशेषविश्लेषार्थक्रियाकारित्वाभावाद्, अभिन्नं चेद्विशेषा एव तत्स्वरूपवदिति विशेषैकान्तवादः।
नैगमनयानुगामिनस्त्वाहुः---स्वतन्त्रौ सामान्यविशेषौ, तथैव प्रमाणेन प्रतीतत्वात्, तथा हि सामान्यविशेषावत्यन्तं भिन्नौ, विरुद्धधर्माध्यासितत्वाद्, यावेवं तावेवं यथा पाथःपावकौ, तथा चैतौ, तस्मात्तथा, सामान्यं हि गोत्वादि सर्वगतं, तद्विपरीताश्च शबलशाबलेयादयो विशेषाः, ततः कथमेषामैक्यं युक्तं, न सामान्यात् पृथग् विशेषस्योपलम्भ इति चेत्? कथं तर्हि तस्योपलम्भ इति वाच्यम्?
सामान्यव्याप्तस्येति चेद्? न, तर्हि स विशेषोपलम्भः, सामान्यस्यापि तेन ग्रहणात्, ततश्च तेन बोधेन विविक्तविशेषग्रहणाभावात् तद्वाचकं ध्वनिं तत्साध्यं च व्यवहारं न प्रवर्तयेत् प्रमाता, न चैतदस्ति विशेषाभिधानव्यवहारयोः प्रवृत्तिदर्शनात्, तस्माद्विशेषमभिलषता तत्र व्यवहारं प्रवर्तयता तद्‌ग्राहको बोधोऽभ्युपगन्तव्यः।
एवं सामान्यस्थाने विशेषशब्दं विशेषस्थाने च सामान्यशब्दं प्रयुञ्जानेन सामान्येऽपि तद्‌ग्राहको बोधो विविक्तोऽङ्गीकर्तव्यः।
तस्मात्स्वस्वग्राहिणि ज्ञाने पृथक् प्रतिभासमानत्वाद् द्वावपीतरेतरविशकलितौ, ततो न सामान्यविशेषात्मकत्वं वस्तुनो घटत इति स्वतन्त्रः सामान्यविशेषवादः, स्वतन्त्रसामान्यविशेषदेशका नैगमनयानुरोधिनः काणादा आक्षपादाश्च।
तदेतत्पक्षत्रयमपि क्षोदं न क्षमते, प्रमाणबाधितत्वात्। सामान्यविशेषोभयात्मकस्यैव वस्तुनो निर्विगानमनुभूयमानत्वाद् वस्तुनो हि लक्षणमर्थंक्रियाकारित्वं, तच्चानेकान्तवाद एवाविकलं कलयन्ति परीक्षकाः। तथा हिगौरित्युक्ते खुरककुदलाङ्गूलसास्नाविषाणाद्यवयवसम्पन्नं वस्तुरूपं सर्वव्यक्त्यनुयायि प्रतीयते तदा महिष्यादिव्यावृत्तिरपि प्रतीयते, यत्रापि च शबला गौरित्युच्यते, तत्रापि च यथा विशेषप्रतिभासस्तथा गोत्वप्रतिभासोऽपि स्फुट एव, शबलेति केवलविशेषोच्चारणेऽप्यर्थात्प्रकरणाद्वा गोत्वमनुवर्तते; अपि च शबलत्वमपि नानारूपं तथा दर्शनात् ततो वक्त्रा शबलेत्युक्ते क्रोडीकृतशबलसामान्यं विवक्षितगोव्यक्तिगतमेव शबलत्वं व्यवस्थाप्यते; तदेवमाबालगोपालं प्रतीतप्रसिद्धेऽपि वस्तुनः सामान्यविशेषात्मकत्वे तदुभयैकान्तवादः प्रलापमात्रं, न हि क्वचित् कदाचित् केनचित् किञ्चित्सामान्यं विशेषविनाकृतमनुभूयते, विशेषा वा तद्विनाकृताः। यदाहुः--
द्रव्यं पर्यायवियुतं पर्याया द्रव्यवर्जिताः।
क्व कदा केन किंरूपा दृष्टा मानेन केन चि ।। इति।।
केवलं दुर्णयबलप्रभावितप्रबलमतिव्यामोहादेकमपलप्यान्यद् व्यवस्थापयन्ति कुमतयः, सोऽयमन्धगजन्यायः।
येऽपि च तदेकान्तपक्षोपनिपातिनः प्रागुक्तदोषास्तेऽप्यनेकान्तवादप्रचण्डमुद्‌गरप्रहारजर्जरितत्वान्नोच्छ्वसितुमपि क्षमाः।
स्वतन्त्रसामान्यविशेषवादिनस्त्वेवं प्रतिक्षेप्याः--सामान्यं प्रतिव्यक्ति कथञ्चिद्विभिन्नं, कथञ्चित्तदात्मकत्वाद्विसदृशपरिणामवद्, यथैव हि काचिद्व्यक्तिरुपलभ्यमाना व्यक्त्यन्तराद्विशिष्टा विसदृशपरिणामदर्शनादवतिष्ठते, तथा सदृशपरिणामात्मकसामान्यदर्शनात्समानेति, तेन समानो गौरयं, सोऽनेन समान इति प्रतीतेः।
न चास्य व्यक्तिस्वरूपादभिन्नत्वात्सामान्यरूपताव्याघातः, यतो रूपादीनामपि व्यक्तिस्वरूपादभिन्नत्वमस्ति, न च तेषां गुणरूपताव्याघातः, कथञ्चिद्व्यतिरेकस्तु रूपादीनामिव सदृशपरिणामस्याप्यस्त्येव पृथगव्यपदेशादिभाक्त्वाद् विशैषा अपि नैकान्तेन सामान्यात्पृथग् भवितुमर्हन्ति, यतो यदि सामान्यं सर्वगतं सिद्धं भवेत्तदा तेषामसर्वगतत्वं, ततो विरुद्धधर्माध्यासः स्यात्।
न च तस्य तत्सिद्धं, प्रागुक्तयुक्त्या निराकृतत्वात् सामान्यस्य विशेषाणाञ्च परस्परं कथञ्चिदव्यतिरेकेणैकानेकरूपतया व्यवस्थितत्वाद् विशेषेभ्योऽव्यतिरिक्तत्वाद्धि सामान्यमप्यनेकमिष्यते, सामान्यात्तु विशेषाणामव्यतिरेकात् तेऽप्येकरूपा इत्येकत्वं च सामान्यस्य संग्रहनयार्पणात्सर्वत्र विज्ञेयम्, अनेकत्वं च प्रमाणार्पणात् तस्य सदृशपरिणामरूपस्य विसदृशपरिणामवत् प्रतिव्यक्तिभेदात्।
एवं चासिद्धं सामान्यविशेषयोः सर्वथा विरुद्धधर्माध्यासितत्वं कथञ्चिद्विरुद्धधर्माध्यासितत्वं चेद् विवक्षितं तदाऽस्मत्पक्षप्रवेशः, कथञ्चिद्विरुद्धधर्माध्यासस्य कथञ्चिद्भेदाविनाभूतत्वात् पाथःपावकदृष्टान्तोऽपि साध्यसाधनविकलः, तयोरपि कथञ्चिद्विरुद्धधर्माध्यासितत्वेन भिन्नत्वेन च स्वीकारात्, पयस्त्वपावकत्वादिना हि तयोर्विरुद्धधर्माध्यासो भेदश्च, द्रव्यत्वादिना पुनस्तद्वैपरीत्यमिति तथा च कथं न सामान्यविशेषात्मकत्वं वस्तुनो घटत इति। उक्तं च--
दोहिं विण एहिं पणीयं सत्थमुलूगेण तहवि मिच्छत्तं।
जं सविसयप्हाणत्तणेण अण्णोणणिरवेक्खं।।
(द्वाभ्यामपि नयाभ्यां प्रणीतं शास्त्रमुलूकेन तथाऽपि मिथ्यात्वम्।
यत्सविषयप्रधानत्वेनान्योन्यनिरपेक्षम्।।)
तथा--निर्विशेषं हि सामान्यं भवेत्खरविषाणवत्।
सामान्यरहितत्वेन विशेषास्तद्वदेव हि।।
तथैकान्तसत्त्वमेकान्तासत्त्वं च वार्त्तमेव, तथा हि--सर्वभावानां हि सदसदात्मकत्वमेव स्वरूपम्, एकान्तसत्त्वे वस्तुनो वैस्वरूप्यं स्याद्, एकान्तासत्त्वे च निःस्वभावता भावानां स्यात्, तस्मात्स्वरूपेण सत्त्वात् पररूपेण चासत्त्वात् सदसदात्मकं वस्तु सिद्धम्। यदाहुः--
सर्वमस्ति स्वरूपेण पररूपेण नास्ति च।
अन्यथा सर्वसत्त्वं स्यात् स्वरूपस्याप्यसम्भवः।।इति।।
ततश्चैकस्मिन् घटे सर्वेषां घटव्यतिरिक्तपदार्थानामभावरूपेण वृत्तेरनेकान्तात्मकत्वं घटस्य सूपपादम्, एवं चैकस्मिन्नर्थे ज्ञाते सर्वेषामर्थानां ज्ञानं सर्वपदार्थपरिच्छेदमन्तरेण तन्निषेधात्मन एकस्य वस्तुनो विविक्ततया परिच्छेदासम्भवात्। आगमोऽप्येवमेव व्यवस्थित--
जे एगं जाणइ सो सव्वं जाणइ।
जो सव्वं जाणइ सो एगं जाणइ'।।
(य एकं जानाति स सर्वं जानाति।र
यः सर्व जानाति स एकं जानाति।।)
तथा--एको भावः सर्वथा येन दृष्टः सर्वे भावाः सर्वथा तेन दृष्टाः।
सर्वे भावाः सर्वथा येन दृष्टा एको भावः सर्वथा तेन दृष्टः।।
इति सुघटं सदसदनेकान्तात्मकं वस्तु, अनयैव भङ्ग्या स्यादस्ति स्यान्नास्ति स्यादवक्तव्यादिसप्तभङ्गीविस्तरस्य जगत्पदार्थसार्थव्यापकत्वाद् अभिलाप्यानभिलाप्यात्मकमप्यूह्यमिति।
सद्‌भूतार्थोपदेशकः कृत्स्नकर्मक्षयं कृत्वेति। कृत्स्नानि सर्वाणि घात्यघातीनि यानि कर्माणि जीवभोग्यवेद्यपुद्‌गलास्तेषां क्षयं निर्जरणं विधाय; परमं पदं सम्प्राप्तः।
अपरे हि सौगतादयो मोक्षमवाप्यापि तीर्थनिकारादिसम्भवे भूयो भूयो भवमवतरन्ति। यदाहुः--
ज्ञानिनो धर्मतीर्थस्य कर्तारः परमं पदम्।
गत्वा गच्छन्ति भूयोऽपि भवं तीर्थनिकारतः ।। इति।।
न ते परमार्थतो मोक्षगतिभाजः कर्मक्षयाभावाद्, न हि तत्त्वतः कर्मक्षये पुर्नभवावतारः। यदुक्तम्--
दग्धे बीजे यथाऽत्यन्तं प्रादुर्भवति नाङ्कुरः।
कर्मबीजे तथा दग्धे न रोहति भवाङ्‌कुरः ।। इति।।
अर्हश्च भगवान् कर्मक्षयपूर्वमेव शिवपदं प्राप्त इति ।। 45-46 ।।

जीवाजीवौ तथा पुण्यं पापमास्रवसंवरौ।
बन्धश्च निर्जरामोक्षौ नव तत्त्वानि तन्मते ।। 47 ।।
तत्त्वान्याह--जीवाजीवावित्यादिना।
तन्मते जैनमते, नव तत्त्वानि सम्भवन्तीति ज्ञेयम्, नामानि निगदसिद्धान्येव ।। 47 ।।

[युग्मम्]
तत्र ज्ञानादिधर्मभ्यो भिन्नाभिन्नो विवृत्तिमन्।
कर्त्ता शुभाशुभं कर्म भोक्ता कर्मफलस्य च ।। 48 ।।
चैतन्यलक्षणो जीवो यश्चैतद्वैपरीत्यवान्।
अजीवः स समाख्यातः पुण्यं सत्कर्मपुद्गलाः ।। 49 ।।
जीवाजीवपुण्यतत्त्वमेवाह--तत्रेत्यादिना।
तत्र जैनमते, चैतन्यलक्षणो जीव इति सम्बन्धः, विशेषणान्याह--ज्ञानादिधर्मभ्यो भिन्नाबिन्न इति। ज्ञानमादिर्येषां धर्माणामिति ज्ञानदर्शनचारित्ररूपा धर्मगुणास्तेभ्योऽयं जीवश्चतुर्दशभेदोऽपि कथञ्चिद्‌भिन्नः कथञ्चिदभिन्न इत्यर्थः। एकेन्द्रियादिपञ्चेन्द्रियपर्यन्तेषु स्वापेक्षया ज्ञानवत्त्वमस्त्येवेत्यभिन्नत्वं ज्ञानादिभ्यः, परापेक्षया पुनरज्ञानवत्त्वमिति भिन्नत्वं, लेशतश्चेत्सर्वजीवेषु न ज्ञानवत्त्वं तदा जीवोऽजीवत्वं प्राप्नुयात्, तथा च सिद्धान्तः--
सव्वजीवाणं पियणं अक्खरस्स,
अणन्तओ भागो निच्चुग्घाडिओ।
जड सो वि आवरेज्झा ता जीवो अजीवत्तं पाविज्झा।
सुद्धा वि मेहसमुदये होइ पहा चन्दसूराणम्।।
(सर्वजीवानां प्राणानामक्षरस्य अनन्तको भागो नित्योद्धाटित।
यदि सोऽप्याव्रियेत तदा जोवोऽजीवत्वं प्राप्नुयात्।
शुद्धाऽपि मेघसमुदये भवति प्रभा चन्द्रसूर्याणाम्।।)
तथा विवृत्तिमानिति। विवृत्तिः परिणामः साऽस्यास्तीति मतुप्, सुरनरनारकतिर्यङ्क्ष्वेकेन्द्रियादिपञ्चेन्द्रियपर्यन्तजातिषु विविधोत्पत्तिरूपान् परिणआमाननुभवति जीव इत्यर्थः। अन्यच्च शुभाशुभं कर्म कर्त्ता, शुभं सातवेद्यमष् अशुभमसातवेद्यं, शुभञ्चाशुभञ्चेति द्वन्द्वः, एवंविधं कर्म भोक्तव्यलकर्त्तृभूतं कर्त्ता स्वात्मसाद्विधाता उपार्जयितेति यावद्, न च साङ्ख्यवदकर्त्ताऽऽत्मा शुभाशुभाबन्धकश्चेति तथा कर्मफलम्भोक्ता न च केवलः कर्त्ता, किं तु भोक्ताऽपि स्वोपार्जितपुण्यपापकर्मफलस्य वेदयिता न चान्यकृतस्यान्यो भोक्ता। तथा चागमः--
जिवाणं भन्त! कि अत्तकडे दुक्खे
परकडे दुक्खे तदुभयकडे दुक्खे?
गोयम! अत्तकडे दुक्खे
नो परकडे दुक्खे नो तदुभयकडे दुक्खे।।इति।।
(जीवानां भदन्त! किमात्मकृतं दुःखं परकृतं दुःखं तदुभयकृतं दुःखम्?
गोतमऍ आत्मकृतं दुःखं नो परकृतं दुःखं नो तदुभयकृतं दुःखम्।।)
कर्त्तेव भोक्ता तथा चैतन्यलक्षण इति। चैतन्यं चेतनास्वभावत्वं, तदेव लक्षणं मूलगुणो यस्येति सूक्ष्मबादरभेदा एकेन्द्रियास्तथा विकलेन्द्रियास्त्रयः, संज्ञासंज्ञिभेदाश्च पञ्चेन्द्रियाः, सर्वेऽपि पर्याप्ता अपर्याप्ताश्चेति चतुर्दशापि जीवभेदाश्चैतन्यं न व्यभिचरन्तीती।
अथाजीवमाह-`यश्चैतद्वैपरीत्यवानजीवः स समाख्यात'--इति। यः पुनस्तस्माज्जीवलक्षणाद्वैपरीत्यमन्यथात्वमस्यास्तीति तद्वैपरीत्यवान् विपरीतस्वभावोऽचेतनः सोऽजीवः समाख्यातः कथितः पूर्वसरिभिरिति, भेदाश्च धर्माधर्माकाशपुद्‌गलाः स्कन्धदेशप्रदेशगुणा अद्धाकेवलपरमाणुश्चेति चतुर्थश जीवभेदाः।
पुण्यं खत्कर्मपुद्‌गला इति। पुण्यं नाम तत्त्वं कीदृगित्याह--सत्कर्मपुद्‌गला इति। सच्छोभनं सातवेद्यं कर्म, तस्य पुद्‌गला दलपाटकानि पुण्यप्रकृतय इत्यर्थः। ताश्च द्वाचत्वारिंशत्तद्यथा--
नरतिरिसुराउउच्चं सायं परघायआयघुज्जोयं।
तित्थुस्सास्सुनिमाणं पणिंदिव इरुस्सभचउरसं।।
(नरतिर्यक्‌सुरायुरुच्चं सातं परघातातवोद्योतम्।
अगुरुलघुप्रथमखगतिर्द्वाचत्वारिंशत् शुभप्रकृतयः।।)
भावार्थस्तु ग्रन्थविस्तरभयान्नोच्यत इति श्लोकार्थः ।। 48-49 ।।

पापं तद्विपरीतन्तु मिथ्यात्वाद्याश्च हेतवः।
यस्तैर्बन्धः स विज्ञेय आस्रवो जिनशासने ।। 50 ।।
शेषतत्त्वमाह--पापमित्यादिना।
तु पुनस्तद्विपरीतं पुण्यप्रकृतिविसदृशं पापं पापतत्त्वमित्यर्थः। मिथ्यात्वाद्याश्चेति। मिथ्यादर्शनाविरतिप्रमादकषाययोगा हेतवः पापस्य कारणानि, तत्प्रकृतयश्च द्व्यशीतिस्तद्यथा--
थावरदसअं जाईचउअं अपढमसंठाणखगइसंघयणा।
तिरिनिरयदुगाउजाईवन्नचऊक्कं नामचउतीसा।।
नरयाउनीयअस्सायघाइपणयालसहिवासीई ।।इति।।
(स्थावरदशकं जातितुष्कं। अप्रथमसंस्थानखगतिसंनवानि।।
तिर्यन्निरयद्विकायुर्जातिवर्णचतुष्कं नाम चत्वारिंशत्।
नरकायुनींचासघातिपञ्चचत्वारिंशत्सहितद्व्यशीतिः।।
पुण्यप्रकृतिव्यतिरिक्ताः पापप्रकृतयो द्व्यशीतिः। वर्णचतुष्कस्य तु शुभाशुभरूपेणोभयत्रापि सम्बध्यमानत्वान्न दोषः, यस्तैर्मिथ्यादर्शनादिभिर्बन्धः कर्मबन्धः, सः जिनशासन आश्रवो विज्ञेयः, आश्रवतत्त्वं ज्ञेयमित्यर्थः। तत्प्रकृतयश्च द्वाचत्वारिंशत्, तथा हि---पञ्चेन्द्रियाणि, चत्वारः कषायाः, पञ्च व्रतानि, मनोवचनकायाः, पञ्चविंशतिक्रियाश्च कायिक्यादय इत्याश्रवः ।। 50 ।।

संवरस्तन्निरोधस्तु बन्धो जीवस्य कर्मणः।
अन्योन्यानुगमात्कर्मसम्बन्धो यो द्वयोऽपि ।। 51 ।।
तु पुनस्तन्निरोध आश्रवद्वारप्रतिरोधः संवरतत्त्वं संवरप्रकृतयस्तु सप्तपञ्चाशत्तद्यथा--
समिइगुत्तिपरीसहजइधम्मभावणाचरित्ताणि।
पणतिगदुवीसदसवारहपञ्चभेएहिं सगवणा।।
(समितिगृप्तिपरीषहयतिधर्मभावनाचरित्राणि।
पञ्चत्रिद्वाविंशतिदशद्वादशपञ्चभेदैः पञ्चाशत्।।)
पञ्च समितयस्तिस्रो, गुप्तयो, द्वाविंशतिः परीषहा, दशविधो यतिधर्मः, द्वादश भावनाः, पञ्च चारित्राणीति प्रकृतयः, बन्धो नाम जीवस्य प्राणिनः कर्मणो वेद्यस्यान्योन्यानुगमात् परस्परक्षीरनीरन्यायेन लोलीभावाद् यो द्वयोरपि जीवकर्मणोः सम्बन्धः संयोगः स बन्धनाम तत्त्वमित्यर्थः। स चतुर्विधः प्रकृतिस्थित्यनुभागप्रदेशभेदात्--
स्वभावः प्रकृतिः प्रोक्तः स्थितिः कालावधारणम्।
अनुभागो रसो ज्ञेयः प्रदेशो दलसञ्चयः।।
इत्यादिः सम्बन्धो ज्ञेयः ।। 51 ।।

बद्धस्य कर्मणः शाटे यस्तु सा निर्जरा मता।
आत्यन्तिको वियोगस्तु देहादेर्मोक्ष उच्यते ।। 52 ।।
निर्जरामोक्षौ चाह--बद्धस्येत्यादिना।
या पुनर्बद्धस्य सृष्टबद्धनिधत्तनिकाचितादिरूपेणार्जितस्य कर्मणस्तपश्चरणध्यानजपादिभिः शाटः कर्मक्षपणं सा निर्जरा मता पूर्वसूरिभिरिति, सा पुनर्द्विविधा सकामाकामभेदेन, तु पुनर्देहादेरात्यन्तिको वियोगो मोक्ष उच्यते। स च नवविधो यथा--
संतपयवरूवणया दव्वमाणं च खित्तपसणा य।
कालो य अन्तरं भागो भावो अप्पा बहुं चेव ।।इति।।
(सत्पदप्ररूपणता द्रव्यप्रमाणं च क्षेत्रस्पर्शना च।
कालश्चन्तरं भागो भावोऽल्पबहुत्वं च।।)
नवप्रकारो हि करणीयः बाह्यप्राणानामात्यन्तिकापुनर्भावित्वेनाभावः शिव इत्यर्थः।
ननु सर्वथा प्राणाभावादजीवत्वप्रसङ्गः, तथा च द्वितीयतत्त्वान्तर्भूतत्वान् मोक्षतत्त्वभाव इति चेद्? न, मोक्षे हि द्रव्यप्राणानामेवाभावः भावप्राणास्तु नैष्कामिकावस्थायामपि सन्त्येव। यदुक्तम्--
यस्मात्क्षायिकसम्यक्त्वं वीर्यसिद्धत्वदर्शनज्ञानैः।
आत्यन्तिकैः संयुक्तो निर्द्वन्द्वेनापि च सुखेन ।।
ज्ञानादयस्तु भावप्राणा मुक्तोऽपि जीवति स तर्हि।
तस्माज्जीवत्वं हि नित्यं सर्वस्य जीवस्य ।।इति।।
सङ्गतदेहवियोगान्मोक्ष, आदिशब्दाद्देहेन्द्रियधर्मविरहोऽपीति पद्यार्थः ।। 52 ।।

एतानि तत्र तत्त्वानि यः श्रद्धत्ते स्थिराशयः।
सम्यक्त्वज्ञानयोगेन तस्य चारित्रयोग्यता ।। 53 ।।
एवं नामोद्देशेन तत्त्वानि सङ्कीर्त्य फलपूर्वकमुपसंहारमाह--एतानि तत्रेत्यादिना।
एतानि पूर्वोक्तानि, तत्र जिनमते, तत्त्वानि यः कश्चित् स्थिराशयो दृढचित्तः सन् श्रद्धत्ते, अवैपरीत्येन मनुते, एतावता जानन्नप्यश्रद्दधानो मिथ्यादृगेव।
यथोक्तं--श्रीगन्धिहस्तिमहातक। `द्वादशाङ्गमपि श्रुतं विदर्शनस्य मिथ्ये'ति तस्य दृढमानसस्य सम्यक्त्वयोगेन चारित्रयोग्यता चारित्रार्हता सम्यक्त्वज्ञानयोगेनेति, सम्यक्त्वं च ज्ञानं च सम्यक्त्वज्ञाने तयोर्योगस्तेन ज्ञानदर्शनविनाकृतस्यहि चारित्रस्य सम्यक्चारित्रस्य व्यवच्छेदार्थं सम्यक्त्वज्ञानग्रहणमिति ।। 53 ।।

तथा भव्यत्वपाकेन यस्यैतत् त्रितयं भवेत्।
सम्यग्ज्ञानक्रियायोगाज्जायते मोक्षभाजनम् ।। 54 ।।
फलमाह--तथा भव्यत्वपाकेनेत्यादिना।
तथेत्युपदर्शने, भव्यत्वपाकेन परिपक्वभव्यत्वेन तद्भव एवावश्यं मोक्षे गन्तव्यमिति भव्यत्वस्य परिपाकेन यस्य पुंस एतत् त्रितयं दर्शनज्ञानचारित्ररूपं भवेत्, यत्तदोर्नित्याभिसम्बन्धात् सोऽनुक्तोऽपि सम्बध्यत इति स पुमान्मोक्षभाजनं जायते निर्वाणश्रियं भुङ्‌क्त इत्यर्थः। कस्मात् सम्यग्ज्ञानक्रियायोगात्। सम्यगिति। सम्यक्त्वं दर्शनं, ज्ञानमागमावबोधः, क्रिया च चरणकरणात्मिकास्तासां योगः सम्बन्धस्तस्माद्, न च केवलं दर्शनं ज्ञानं चारित्रं वा मोक्षकारणम्। यदाहुर्भद्रवाहुस्वामिपादाः--
सुबहुं पि सुयमदीयं किं काही चरणविप्पमुक्वस्स।
अन्धस्स जह पलित्ता दीवसयसहस्सकोडी वि।।
(सुबह्वपि श्रुतमधीतं किं करिष्यति चरणविप्रयुक्तस्य।
अन्धस्य यथा प्रदीपा दीपशतसहस्रकोटिरपि।।)
तथा--नाणं चरित्तहीणं लिंगग्गहणं च दंसणविहीणं।
संजमहीणं च तवं जो चरइ निरत्थयं तस्स।।
(ज्ञानं चरित्रहीनं लिङ्गग्रहणं च दर्शनविहीनम्।
संयमहीनं च तपः यश्चरपि निरर्थकं तस्य।।)
दर्शनज्ञानचारित्राणि हि समुदितान्येव मोक्षकारणानि, यदुवाच वाचकमुख्यः--दर्शनज्ञानचारित्राणि मोक्षमार्ग इति ।। 54 ।।

प्रत्यक्षं च परोक्षं चद्वे प्रमाणे तथा मते।
अनन्तधर्मकं वस्तु प्रमाणविषयस्त्विह ।। 55 ।।
प्रमाणे आह--प्रत्यक्षमित्यादिना।
तथेति प्रस्तुतमतानुसन्धाने, द्वे प्रमाणे मते अभिमते, के ते इत्याह--प्रत्यक्षं च परोक्षं चेति। अश्नुतेऽक्ष्णोति वा व्याप्नोति सकलद्रव्यक्षेत्रकालभावानित्यक्षो जीवोऽश्नुते विषयमित्यक्षमिन्द्रियं च, अक्षमक्षं प्रतिगतं प्रत्यक्षमिन्द्रियाण्याश्रित्य व्यवहारसाधकं यज्ज्ञानमुत्पद्यते तत् प्रत्यक्षमित्यर्थः। अवधिमनःपर्यायकेवलज्ञानानि तद्‌भेदाश्च प्रत्यक्षमेव, अत एव सांव्यवहारि कपारमार्थिकैन्द्रियिकातीन्द्रियिकादयो भेदा अनुमानादधिकज्ञानविशेषप्रकाशकत्वादत्रैवान्तर्भवन्ति।
परोक्षं चेति। अक्षाणां परं परोक्षम्, अक्षेभ्यः परतो वर्तत इति वा, परेणेन्द्रियादिना वीक्ष्यते परोक्षं स्मरणप्रत्यभिज्ञानतर्कानुमानागमभेदम्, अमुयैव भङ्ग्या मतिश्रुतज्ञाने अपि परोक्षमेवेति द्वे प्रमाणे।
प्रमाणमुक्त्वा तद्गोचरमाह--तु पुनः, इह जिनमते, प्रमाणविषयः प्रमाणयोः प्रत्यक्षपरोक्षयोर्विषयो गोचरो ज्ञेय इत्यध्याहारः।
किं तदित्याशङ्कायामनन्तधर्मकं वस्त्विति। वस्तुतत्त्वं पदार्थस्वरूपं किंविशिष्टम्? अनन्तधर्मकम् अनन्तास्त्रिकालविषयत्वादपरिमिता ये धर्माः सहभाविनः क्रमभाविनश्च पर्याया यत्रेति, अनेन साधनमपि दर्शितं, तथाहि--सत्त्वमिति धर्मि; अनन्तधर्मात्मकत्वं साध्यो धर्मः, सत्त्वान्यथाऽनुपपत्तेरिति हेतुः, अन्यथाऽनुपपत्त्येकलक्षणत्वाद्धेतोरन्तर्व्याप्त्यैव साध्यस्य सिद्धत्वाद् दृष्टान्तादिभिर्न प्रयोजनं, यदन्तधर्मकं न भवति तत् सदपि न भवति यथा वियदिन्दीवरमिति केवलव्यतिरेकी हेतुः साधर्म्यदृष्टान्तानां पक्षकुक्षिनिक्षिप्तत्वेनान्वयायोगात्।
अनन्तधर्मात्मकत्वं चात्मनि तावत्साकारानाकारोपयोगिता कर्तृत्वं भोक्तृत्वं प्रदेशाष्टकनिश्चलताऽमूर्तत्वमसङ्ख्यातप्रदेशात्मकता जीवत्वमित्यादयः सहभाविनो धर्माः, हर्षविषादशोकसुखदुःखदेवनारकतिर्यङ्नरत्वादयस्तु क्रमभाविनः, धर्मास्तिकायादिष्वप्यसङ्ख्येयप्रदेशात्मकत्व गत्याद्युपग्रहकारित्वं मत्यादिज्ञानविषयत्वं तत्तदवच्छेदकावच्छेद्यत्वमवस्थितत्वमरूपित्वमेकद्रव्यत्वं निष्क्रियत्वमित्यादयः, घटे पुनरामत्वं पाकजरूपादिमत्त्वं पृथुबुध्नोदरकम्बुग्रीवत्वं जलादिधारणहरणसामर्थ्यं मत्यादिज्ञानविषयत्वं नवत्वं पुराणत्वमित्यादयः।
एवं सर्वपदार्थेषु नानानयमताभिज्ञेन शाब्दानार्थांश्च पर्यायान् प्रतीत्य वाच्यशब्देष्वप्युदात्तानुदात्तस्वरितविवृतसंवृतघोषनादाघोषाल्पप्राणमहाप्राणताऽऽदयः तत्तदर्थप्रत्यायनशक्त्यादयश्चावसेयाः।
अस्य हेतोरनेकान्तप्रचण्डमुद्गराघातदलितशक्तित्वेनासिद्धविरुद्धानैकान्तिकत्वादीनां कण्टकानामनवकाश एवेत्येवंविधपर्यायान्यन्तसुभगं वस्तु जिनशासने प्रमाणविषय इत्यर्थः ।। 55 ।।

अपरोक्षतयाऽर्थस्य ग्राहकं ज्ञानमीदृशम्।
प्रत्यक्षमितरज् ज्ञेयं परोक्षं ग्रहणेक्षया ।। 56 ।।
लक्ष्यनिर्देशं कृत्वा लक्षणमाह--अपरोक्षतयेति।
तत्र प्रत्यक्षमिति लक्ष्यनिर्देशः, अपरोक्षतयाऽर्थस्य ग्राहकं ज्ञानमीदृशमिति लक्षणनिर्देशः, परोक्षोऽक्षगोचरातीतः, ततोऽन्योऽपरोक्षस्तद्भावस्तत्ता तया साक्षात्कृततयेति यावद्, अर्थ्यत इत्यर्थो गम्यत इति हृदयम्, अर्थ्यत इति वाऽर्थो दाहपाकाद्यर्थक्रियाऽर्थिभिरभिलष्यत इति, तस्य ग्राहकं व्यवसायात्सकतया परिच्छेदकं अज् ज्ञानं तदीदृशमिति; ईदृगेव प्रत्यक्षमिति संटङ्कः, अपरोक्षतयेत्यनेन परोक्षलक्षणसङ्कीर्णतामध्यक्षस्य परिहरति, तस्यासाक्षात्करितयाऽर्थग्रहणरूपत्वादिति, ईदृशमिति। अमुना तु पूर्वोक्तन्यायात्सावधारणत्वेन विशेषणकदम्बसचिवलक्षणज्ञानोपदर्शनात्परपरिकल्पितस्य युक्तेरयं प्रत्यक्षतां प्रतिक्षिपति।
एवं च यदाहुः--`इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम्', तथा `सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षमि'त्यादि, तदयुक्तमित्युक्तं भवति, अपूर्वप्रादुर्भावस्य प्रमाणबाधितत्वादत्यन्तासतां शशविपाणादीनामप्युत्पत्तिप्रसङ्गात्, तस्मादिदमात्मरूपतयाविद्यमानमेव विशेषकृद्धेतुकलापसन्निधानात्साक्षादर्थग्रहणपरिणामरूपतया निर्वर्त्तते, तथा चोत्पन्नजन्मरूपादिविशेषणं न संभवेद्, अथैवंविधार्थसूचकमेवैतदित्याचक्षीथास्तथा सत्यविज्ञानमेवेत्यास्तां तावत्।
अधानु परोक्षलक्षणं दर्शयति--इतरदित्यादि। अपरोक्षतयाऽर्थस्य ग्राहकं ज्ञानं प्रत्यक्षमुक्तम्, तस्मादितरदसाक्षादर्थग्राहकं ज्ञानं परोक्षमिति ज्ञेयमवगन्तव्यम्, तदपि स्वसंवेदनापेक्षतया प्रत्यक्षमेव, बहिरर्थापेक्षतया तु परोक्षव्यपदाशमश्नुत इति दर्शयन्नाह--ग्रहणेक्षयेति। इह ग्रहणं प्रक्रमाद्‌बहिः प्रवर्तनमुच्यते अन्यथा विशेषणवैयर्थ्यात्तस्येक्षाऽपेक्षा या बहुः प्रवृत्तिपर्यालोचनयेति यावत्, तदयमर्थो यद्यपि स्वयं प्रत्यक्ष तथाऽपि लिङ्गशब्दादिद्वारेण बहिर्विषयग्रहणेऽसाक्षात्कारितया व्याप्रियत इति परोक्षमित्युच्यत इत्यर्थः ।। 56 ।।

येनोत्पादव्ययध्रौव्ययुक्तं यत्सत्तदिष्यते।
अनन्तधर्मकं वस्तु तेनोक्तं मानगोचरः ।। 57 ।।
पूर्वोक्तमेव वस्तुतत्त्वमनन्तधर्मात्मकतयाद्रञयन्नाह--येनोत्पाद इति। येन कारणेन यदुत्पादव्ययध्रौव्ययुक्तं तत्सत्सत्त्वरूपमिष्यते। तेन कारणेनानन्तधर्मकं वस्तु मानगोचरः, प्रत्यक्षपरोक्षप्रमाणविषयः, उक्तं कथितमिति सम्बन्धः। उत्पादश्च व्ययश्च ध्रौव्यञ्च उत्पादव्ययध्रौव्याणि, तेषां मेलस्तदेव सत्त्वमिति ज्ञानम्। इष्यते केवलज्ञानिभिरभिलष्यत इति, वस्तुतत्त्वं चोत्पादव्ययध्रौव्यात्मकम्, तथा हि--उर्वीपर्वततर्वादिकं सर्वं वस्तु द्रव्यात्मना नोत्पद्यते विपद्यते वा परिस्फुटमन्वयादर्शनात्, लूनपुनर्जातनखादिष्वन्वयदर्शनेन व्यभिचार इति न वाच्यम्, प्रमाणेन बाध्यमानस्यान्वयस्यापरिस्फुटत्वाद्, न च प्रस्तुतोऽन्वयः प्रमाणविरुद्धः, सत्यप्रत्यभिज्ञानसिद्धत्वात्।
सर्वव्यक्तिषु नियतं क्षणे-क्षणेऽन्यत्वमथ च न विशेषः। सत्योश्चित्यपचित्योराकृतिजातिव्यवस्थानादिति वचनात्ततो द्रव्यात्मता स्थितिरेव सर्वस्य वस्तुनः, पर्यायात्मना तु सर्व वस्तूपद्यते विपद्यते चास्खलितपर्यायानुभवसद्‌भावात्।
न चैवं शुक्लशङ्खे पीतादिपर्यायानुभवेन व्यभिचारः, तस्य स्खलद्रूपत्वाद्, न खलु सोऽस्खलद्रूपो येन पूर्वाकारविनाशोऽजहद्‌वृत्तोत्तराकारोत्पादाविनाभावी भवेद्, न च जीवादौ वस्तुनि हर्षामर्षौदासीन्यादिपर्यायपरम्पराऽनुभवः स्खलद्रूपः, कस्यचिद्‌बाधकस्याभावात्।
ननूत्पादादयः परस्परं भिद्यन्ते न वा? यदि भिद्यन्ते कथमेकं वस्तु त्र्यात्मकम्? न भिद्यन्ते चेत्तथाऽपि कथमेकं वस्तु त्र्यात्मकम्? तथा च यद्युत्पादादयो भिन्नाः कथेकं त्र्यात्मकम्? अथोत्पत्त्यादयोऽभिन्नाः कथमेकं त्र्यात्मकमिति चेत्?
तदयुक्तं--कथञ्चिद्भिन्नलक्षणत्वेन तेषां कथञ्चिद् भेदाभ्युपगमात्, तथा हि उत्पादविनाशध्रौव्याणि स्याद्भिन्नानि भिन्नलक्षणत्वाद् रूपादिवद्, न च भिन्नलक्षणत्वमसिद्धम्, असत आत्मलाभः, सतः सत्त्वाविप्रयोगो, द्रव्यरूपतयाऽनुवर्त्तनं, च खलूत्पादादीनां परस्परमसङ्कीर्णानि लक्षणानि सकललोकसाक्षिकाण्येव, न चामी भिन्नलक्षणा अपि परस्परानपेक्षाः, खपुष्पवदसत्त्वापत्तेः, तथा ह्युत्पादः केवलो नास्ति स्थितिविगमरहितत्वात् कूर्मरोमवत्, तथा विनाशः केवलो नास्तीत्युत्पत्तिरहितत्वात्तद्वदेव, स्थितिः केवलानास्ति विनाशोत्पादशून्यत्वात् तद्वदेवेत्यन्योन्यापेक्षाणामुत्पादादीनां वस्तुनि सत्त्वं प्रतिपत्तव्यम्। तथा चोक्तं--
घटमौलिसुवर्णार्थी नाशोत्पादस्थितिष्वलम्।
शोकप्रमोदमाध्यस्थ्यं जनो याति सहेतुकम्।।
पयोव्रतो न दध्यत्ति न पयोऽत्ति दधिव्रतः।
अगोरसव्रतो नोभे तस्माद्वस्तु त्रयात्मकम्।। इति।।
व्यतिरेकश्च यदुत्पादव्ययध्रौव्यात्मकं न भवति तद्वस्त्वेव न; यथा खरविषाणं, यथेदं तथेदमिति, अत एवानन्तधर्मकं वस्तु मानगोचरः प्रोक्तम्, अनन्ता धर्माः पर्यायाः सामान्यविंशेषलक्षणा यत्रेत्यनन्तधर्मकं वस्त्विति, उत्पादव्ययध्रौव्यात्मकस्यैवानेकधर्मकत्वं, युक्तियुक्ततामनुभवतीति ज्ञापनायैव भूयोऽनन्तधर्मकपदप्रयोगो, न पुनः पाश्चात्त्यपद्योक्तानन्तधर्मकपदेन पौनरुक्त्यमाशङ्कनीयमिति पद्यार्थः ।। 57 ।।

जैनदर्शनसंक्षेप इत्येष कथितोऽघः।
पूर्वापरविघातस्तु यत्र क्वापि न विद्यते ।। 58 ।।
ग्रन्थस्य बालावबोधार्थफलकत्वादथोपसंहरन्नाह--जैनदर्शनेति। इति पूर्वोक्तप्रकारेण, एषः प्रत्यक्षलक्ष्यो, जैदर्शनसंक्षेपः कथितः, विस्तरस्यागाधत्वेन वक्तुमगोचरत्वाद्, उपयोगसारः संक्षेपो निवेदितः, किंभूतोऽनघो निर्दूषणः सर्ववक्तव्यस्य सर्वज्ञमूलत्वेन दोषकालुष्यानवकाशात्। तु समुच्चयार्थे, तत्र पुनः पूर्वापरविघातः क्वापि न विद्यते, पूर्वस्मिन्नादावपरस्मिन् प्रान्ते न विघातो विरुद्धार्थता यत्र दर्शने क्वापि पर्यन्तग्रन्थेऽपि परस्परविसंवादो नास्ति, आस्तां तावत्केवलभाषितेषु द्वादशाङ्गेषु पारम्पर्यग्रन्थेष्वपि सुसम्बद्धार्थत्वाद् विरुद्धार्थदौर्गन्ध्याभावः।।
अयं भावो--त् परतैर्थिकानां मूलशास्त्रेष्वपि न युक्तियुक्ततां पश्यामः किं पुनः पाश्चात्त्यविप्रलम्भग्रथितग्रन्थकथासु, यच्च क्वापि कारुण्यादिपुण्यकर्मपुण्यानि च वचांसि कानिचिदाकर्णयामस्तान्यपि त्वदुक्तसूक्तसुधापयोधिमन्थोद्‌गतान्येवरत्नानीव सङ्गृह्य स्वात्मानं रत्नपतय इव बहु मन्वाना मुधा प्रगल्भन्ते। यदाहुः श्रीसिद्धसेनदिवाकरपादाः--
सुनिश्चितं नः परतन्त्रयुक्तिषु स्फुरन्ति याः काश्चन सूक्तिसम्पदः।
तथैव ताः पूर्णमहार्णवोत्थिता जगत्प्रमाणं जिनवाक्यविप्रृष।।
इति परमार्थः ।। 58 ।।

देवताविषये भेदो नास्ति नैयायिकैः समम्।
वैशेषिकाणां तत्त्वेषु विद्यतेऽसौ निर्दिश्यते ।। 59 ।।
शिवदेवतासाम्येऽपि तत्त्वादिविशेषविशिष्टत्वाद् वैशेषिकास्तेषां वैशेषिकाणां काणादादीनां नैयायिकैराक्षपादैः समं सार्द्धं देवताविषये शिवदेवताऽभ्युपगमे भेदो विशेषो नास्ति, तत्त्वेषु शासनरहस्येषु भेदो विद्यते, तुशब्दोऽध्याहार्यः, असौ विशेषो नैयायिकेभ्यः पृथग्भावो, निर्दिश्यते प्रकाश्यत इत्यर्थः ।। 59 ।।

[काणदमतम्]
द्रव्यं गुणस्तथा कर्म सामान्यं च चतुर्थकम्।
विशेषसमवायौ च तत्त्वषट्‌कं हि तन्मते ।। 60 ।
तान्येव तत्त्वान्याह--द्रव्यमित्यादिना।
तन्मते वैशेषिकमते, हि निश्चयेन, तत्त्वषट्‌कं ज्ञेयमिति सम्बन्धः, कथमित्याह--द्रव्यं गुण इत्यादि। आदिमतत्त्वं द्रव्यनाम, भेदबाहुल्येऽपि सामान्यादेकम्, द्वितीयतत्त्वं गुणनाम, तथेति भेदान्तरसूचने, तृतीयं तत्त्वं कर्मसञ्ज्ञम्, चतुर्थकं च तत्त्वं सामान्यम्, चतुर्थमेव चतुर्थकं स्वार्थे कः प्रत्ययः, चः समुच्चये, अन्यच्च विशेषसमवायौ, विशेषश्च समवायश्चेति द्वन्द्व इति तद्दर्शने तत्त्वानि षड् ज्ञेयानि ।। 60 ।।

तत्र द्रव्यं नवधा भूजलतेजोऽनिलान्तरिक्षाणि।
कालदिगात्ममनांसि च, गुणाः पुनश्चतुर्विशतिधा ।। 61 ।।
स्पर्शरसरूपगन्धाः शब्दः सङ्ख्या विभागसंयोगौ।
परिमाणं च पृथक्त्वं तथा परत्वापरत्वे च ।। 62 ।।
बुद्धिः सुखदुःखेच्छा धर्माधमौ प्रयत्नसंस्कारौ।
द्वेषः स्नेहगुरुत्वे द्रवत्ववेगौ गुणा एते ।। 63 ।।

उत्क्षेपावक्षेपावाकुञ्चनकं प्रसारणं गमनम्।
पञ्चविधं कर्मैतत्परापरे द्वे तु सामान्ये ।। 64 ।।
कर्मसामान्यभेदानाह - उत्क्षेपेत्यादिना।
पञ्चापि कर्मभेदाः स्पष्टा एव, गमनग्रहणाद् भ्रमणरेचनस्यन्दनाद्यवरोधः, तु पुनः, सामान्ये द्वे द्विसङ्ख्ये, के ते? इत्याह--परापरे। परञ्चा परं च परापरे, परसामान्यमपरसामान्यं चेत्यर्थः ।। 64 ।।

तत्र परं सत्ताऽऽख्यं द्रव्यत्वाद्यपरमथ विशेषस्तु।
निश्चयतो नित्यद्रव्यवृत्तिरन्त्यो विनिर्दिष्टः ।। 65 ।।
एतद्व्यक्तिं विशेषव्यक्तिं चाह--तत्र परमित्यादिना।
तत्र तयोर्मध्ये परं सत्ता भावो महासामान्यमिति वोच्यते, द्रव्यत्वाद्यवान्तरसामान्यापेक्षया महाविषयत्वाद्, अपरसामान्यं द्रव्यत्वादि, एतच्च सामान्यविशेष इत्यपि व्यपदिश्यते। तथा हि--द्रव्यत्वं नवसु द्रव्येषु वर्तमानत्वात् सामान्यं, गुणकर्मभ्यो व्यावृत्तत्वाद्विशेषः, ततः कर्मधारये सामान्यविशेष इति।
एवं द्रव्यत्वाद्यपेक्षया पृथिवीत्वादिरूपमपरं, तदपेक्षया घटत्वादिकम्।
एवं चतुर्विंशतौ गुणेषु वृत्तेर्गुणत्वं सामान्यं, द्रव्यकर्मभ्यो व्यावृत्तेश्च विशेषः, एवं गुणत्वापेक्षया रूपत्वादिकं, तदपेक्षया नीलत्वादिकम्।
एवं पञ्चसु कर्मसु वर्त्तमानत्वात्कर्मत्वं सामान्यं द्रव्यगुणेभ्यो व्यावृत्तत्वाद्विशेषः, एवं कर्मत्वापेक्षयोत्क्षेपणत्वादिकं ज्ञेयम्।
तत्र सत्ता द्रव्यगुणकर्मभ्योऽर्थान्तरं; कया युक्त्येति चेद्? उच्यते--न द्रव्यं सत्ता द्रव्यादन्य इत्यर्थः, एकद्रव्यत्वाद्, एकैकस्मिन् द्रव्ये वर्तमानत्वादित्यर्थः। द्रव्यत्ववद्, यथा द्रव्यत्वं नवसु द्रव्येषु प्रत्येकं वर्तमानं द्रव्यं न भवति किं तु सामान्यं विशेषलक्षणं द्रव्यत्वमेव, एवं सत्ताऽपि वैशेषिकाणां ह्यद्रव्यं वा द्रव्यम्, अनेकद्रव्यं वा द्रव्यं, तत्राद्रव्यं द्रव्यमाकाशं कालो दिगात्मानः परमाणवः, अनेकद्रव्यं तु द्व्यणुकादिस्कन्धाः, एकद्रव्यं तु द्रव्यमेव न भवति, एकद्रव्यवती सत्तेति द्रव्यलक्षणविलक्षणत्त्वान्न द्रव्यम्।
एवं न गुणः सत्ता, गुणेष्वभावाद्‌गुणत्ववत्, यदि हि सत्ता गुणः स्याद् न तर्हि गुणेषु वर्त्तेत, निर्गुणत्वाद्, गुणानां वर्त्तते च, गुणेषु सत्ता `सन् गुण'स्यान्न तर्हि कर्मसु वर्त्तेत, निष्कर्मत्वात्कर्मणां, वर्त्तते च कर्मसु भावः, सत्कर्मेति प्रतीतेः, तस्मात्पदार्थान्तरं सत्ता।
अथ विशेषपदार्थमाहार्याऽर्द्धेन--विशेषस्त्विति। निश्चयतो नित्यद्रव्यवृत्तिरन्यो विनिर्द्दिष्टः कथितः, आचार्येणेति ज्ञेयम्। कथमित्याह--अन्त्यो विशेषो नित्यद्रव्यवृत्तिरिति, तथा हि--नित्यद्रव्यवृत्तयोऽन्त्या विशेषा अत्यन्तव्यावृत्तिहेतवस्ते द्रव्यादिवैलक्षण्यात् पदार्थान्तरम्, तथा च प्रशस्तकारः--अन्तेषु भवा अन्त्याः, स्वाश्रयविशेषकत्वाद्विशेषाः, विनाशारम्भरहितेषु नित्यद्रव्येष्वण्वाकाशकालदिगात्ममनःसु प्रतिद्रव्यमेकैकशो वर्त्तमाना अत्यन्तव्यावृत्तिबुद्धिहेतवः, तथाऽस्मदादीनां गवादिष्वश्वादिभ्यस्तुल्याकृतिक्रियाऽवयवोपचयापचयविशेषसंयोगनिमित्तासम्भवाद्, येभ्यो निमित्तेभ्यः प्रत्याधारं विलक्षणोऽयं विलक्षणोऽयमिति प्रत्ययव्यावृत्तिर्देशकालविप्रकर्षदृष्टे च परमाणौ स एवायमिति च प्रत्यभिज्ञानं च भवति, तेऽन्त्या विशेषा इति, अमी च विशेषा एव, न तु द्रव्यत्वादिवत्सामान्यविशेषोभयरूपा व्यावृत्तेरेव हेतुत्वादित्यर्थः ।। 65 ।।

य इहायुतसिद्धानामाधाराधेयभूतभावानाम्।
सम्बन्ध इह प्रत्ययहेतुः प्रोक्तः स समवायः ।। 66 ।।
समवायपदार्थव्यक्तिलक्षणमाह--य इहेत्यादिना।
इह प्रस्तुतमते, अयुतसिद्धानामाधाराधेयभूतानामिह प्रत्ययहेतुर्यः सम्बन्धः स समवायः, यथेह तन्तुषु पट इत्यादि--प्रत्ययस्यासाधारणं कारणं समवायः, यद्वशात् स्वकारणसामर्थ्यादुपजायमानं पटाद्याधार्यं तन्त्वाद्याधारे सम्बध्यते, यथा छिदिः क्रिया छेद्येनेति। अयुतसिद्धानामिति। परस्परपरिहारेण पृथगाश्रयानाश्रितानामाश्रयाश्रयिभाव इति। परस्परवैधर्म्यं तु विविक्तैरभ्यूह्यं, षण्णामपि पदार्थानां स्वरूपकथनमात्राधिकृतत्वाद् ग्रन्थस्य नेह प्रतन्यत इति ।। 66 ।।

प्रमाणं च द्विधाऽमीषां प्रत्यक्षं लैङ्गिकं तथा।
वैशेषिकमतस्यैवं संक्षेपः परिकीर्त्तितः ।। 67 ।।
प्रमाणव्यक्तिमाह--प्रमाणञ्चेत्यादिना।
यद्यप्यौलूक्यशासने व्योमसिवाचार्योक्तानि त्रीणि प्रमाणानि; तथाऽपि श्रीधरमतापेक्षयाऽत्रोभे एव निगदिते, अमीषां वैशेषिकाणां, प्रमाणं द्विधा द्विप्रकारम्, चः पुनरर्थे, कथमित्याह, प्रत्यक्षमेकं प्रमाणं, तथेति द्वितीयभेदपरामर्शे लैङ्गिकमनुमानम्। उपसंहरन्नाह--एवमिति। एवमिति प्रकारसूचनं, यद्यपि प्रमातृफलाद्यपेक्षया बहु वक्तव्यं, तथाऽप्येवममुना प्रकारेण वैशेषिकमतस्य संक्षेपः कथितः परिकीर्त्तित इति ।। 67 ।।

[जैमिनिमतम्]
जैमिनीयाः पुनः प्राहुः सर्वज्ञादिविशेषणः।
देवो न विद्यते कोऽपि यस्य मानं वचो भवेत् ।। 68 ।।
षष्ठंदर्शनमाह--जैमिनीयाः पुनरित्यादिना।
जैमिनिमुनेरमी इति जैमिनीयाः, पुत्रपौत्राद्यर्थे तद्धित इयप्रत्ययः, जैमिनिशिष्याश्चैक उत्तरमीमांसावादिनः एके पूर्वमीमांसावादिनः, तत्रोत्तरमीमांसावादिनो वेदान्तिनस्ते हि केवलब्रह्माद्वैतवादसाधनव्यसनिनः शब्दार्थखण्डनाय युक्तीः खेटयन्तोऽनिर्वाच्यतत्त्वे व्यवतिष्ठन्ते। यदाहुः--
अन्तर्भावितसत्त्वं चेत्कारणं तदसत्ततः।
नान्तर्भावितसत्त्वं चेत्कारणं तदसत्ततः।।
यथा यथा विचार्यन्ते विशीर्यन्ते तथा तथा।
यद्येतत्स्वयमर्थेभ्यो रोचते तत्र के वयम्।।
एकं ब्रह्मास्त्रमादाय नान्यं गणयतः क्वचित्।
आस्ते न वीरधीरस्य भङ्गः सङ्गरकेलिषु।।
एवं वादिप्रतिवादिनोः--
समस्तलोकशास्त्रैकमत्यमाश्रित्य नृत्यतोः।
का तदस्तु गतिस्तद्वद्वस्तुधीव्यवहारयोः।।
उपपादयितुं तैस्तैर्मतैराशङ्कनीययोः।
अनिर्वक्तव्यतावादपादसेवा गतिस्तयोः।।
इत्यादिप्रलयकालानिलक्षुभितचरमसलिलराशिकल्लोलमालानुकारिणः परब्रह्माद्वैतसाधकहेतूपन्यासाः प्रोच्छलन्तश्चतुरचमत्कारं जनयन्तः क्व पर्यवस्यन्ति, तास्तु युक्तयः सूत्रकृतानुल्लिखितत्वाद् ग्रन्थविस्तरभयाच्च नेह प्रपञ्च्यन्तेऽभियुक्तैस्तु खण्डनमहातर्कादवसेयाः।
पूर्वमीमांसावादिनश्च द्विधा--प्राभाकरा भाट्टश्च, क्रमेण पञ्चषट्‌प्रमाणप्ररूपकाः, अत्र तु सामान्येन सूत्रकृत् पूर्वमीमांसावादिन एव जैमिनीयानुद्दिष्टवान्।
ते पुनर्जैमिनीयाः प्राहुः--कययन्ति, कथमित्याह--सर्वज्ञादिविशेषणः कोऽपि देवो न विद्यते यस्य वचो वचनं मानं प्रमाणं भवेत्। सर्वज्ञादिविचिदात्मकत्वादिविशिष्टः कोऽपि देवो नास्ति यद्वचनं प्रमाणतामनुभवेद्, मानुषतनुत्वाविशेषेण विप्रलम्भकत्वाद् दुष्टपुरुषवत्, सर्वज्ञादिगुणविशिष्टपुरुषाद्यभाव इत्यर्थः।
अथ किङ्करायमाणसुरासुरसेव्यमानताऽऽद्यु पलक्षणेन त्रैलोक्यसाम्राज्यसूचकच्छत्रचामरादिविभुत्वान्यथानुपपत्तेश्चास्ति कश्चित् पुरुषविशेषः सर्वज्ञ इति चेत्? न, त्वद्यथोक्तवचनप्रपञ्चोपन्यासैरेव निरस्तत्वाद्, यथा--
देवागमनभोयानचामरादिविभूतयः।
मायाविष्वपि दृश्यन्ते नातस्त्वमसि नो महान् ।।
अथ यथाऽनादेरपि सुवर्णमलस्य क्षारमृत्पुटपाकादिप्रक्रियया शोध्यमानस्य निर्मलत्वम्, एवमात्मनोऽपि निरन्तरज्ञानाद्यभ्यासेन विगतमलत्वात् किं न सम्भवेदिति मतिः? तदपि न --ह्यभ्यासमात्रसाम्ये शुद्धेरपि तदेव तादवस्थ्यम्। यदुक्तम्--
गरुत्वच्छाखामृगयोर्लङ्घनाभ्याससम्भवे।
समानेऽपि समानत्वं लङ्घनस्य न विद्यते।।
न च सुतरां चरणशक्तिमानपि पङ्गुरखर्वपर्वतशिखामधिरोढुं क्षमः।
उक्तञ्च--
दशहस्तान्तरं व्योम्नो यो नामोत्प्लुत्य गच्छति।
न योजनशतं गन्तुं शक्तोऽभ्यासशतैरपि।।
अथ मा भवतु मानुषस्य सर्वज्ञत्वं, ब्रह्मविष्णुमहेश्वरादीनामस्तु, ते हि देवाः, सम्भवत्यपि तेष्वतिशायिसम्पत्। यदाह कुमारिलः--
अथापि वेदहेतुत्वाद् ब्रह्मविष्णुमहेश्वराः।
कामं भवन्तु सर्वज्ञाः सार्वज्ञ्यं मानुषस्य किम्।।
एतदपि न रागद्वेमूलनिग्रहानुग्रहग्रस्तानां सम्भाव्योन्मेषमिति। न च प्रत्यक्षं तत्साधकं--`सम्बद्धं वर्त्तमानं च गृह्यते चक्षुरादिने'ति वचनात्। न चानुमानं--प्रत्यक्षदृष्ट एवार्थे तत्प्रवृत्तेः। न चागमः--सर्वज्ञस्यासिद्धत्वेन तस्य विवादास्पदत्वात्। न चोपमानं--तदभावादेव, अर्थापत्तिरपि न--सर्वज्ञसाधकस्यान्यथाऽनुपपन्नलिङ्गस्यादर्शनाद्, यदि परमभावप्रमाणगोचरः सर्वज्ञ इति स्थितम्--
प्रयोगश्चात्र--नास्ति सर्वज्ञः, प्रत्यक्षादिगोचरातिक्रान्तत्वात्, शशशृङ्गवदिति ।। 68 ।।

तस्मादतीन्द्रियार्थानां साक्षाद् द्रष्टुरभावतः।
नित्येभ्यो वेदवाक्येभ्यो यथाऽर्थत्वविनिश्चयः ।। 69 ।।
अथ कथं यथाऽवस्थिततत्त्वनिर्णयः? इत्याह--तस्मादतीन्द्रियार्थानामिति।
तस्मात्प्रामाणिकपुरुषाभावादतीन्द्रियार्थानां चक्षुरगोचरपदार्थानां साक्षाद् द्रष्टुर्ज्ञात्रादेः पुरुषस्याभावाद् नित्येभ्यः शाश्वतेभ्यो वेदवाक्येभ्योऽपौरुषेयवचनेभ्यो यथाऽर्थतत्त्वविनिर्णयो यथाऽवस्थितपदार्थधर्मादिस्वरूपविवेचनं `भवती'त्यध्याहारः, अपौरुषेयत्वं च वेदानाम्--
अपाणिपादो ह्यमनोगृहीतः पश्यत्यचक्षुः स शृणोत्यकर्णः।
स वेत्ति विश्वं न च तस्य वेत्ता तनाहुरग्र्यं पुरुषं महान्तम्'।।
--श्वेताo उo ।।3।।19
इत्यादिभावनया रागद्वेषादिदोषतिरस्कारपूर्वकं भावनीयमिति ।। 69 ।।

अत एव पुरा कार्यो वेदपाठः प्रयत्नतः।
ततो धर्मस्य जिज्ञासा कर्त्तव्या धर्मसाधनी ।। 70 ।।
अथ यथाऽवस्थितार्थव्यवस्थापकं तत्त्वोपदेशमाह--अत एवेत्यादिना।
यथो हेतोर्वेदाभिहितानुष्ठानादेव तत्त्वनिर्णयः, अत एव पुरा पूर्वं प्रयत्नतो यत्नाद्वेदपाठः कार्यः, ऋग्यजुःसामाथर्वाणो वेदास्तेषां पाठः कण्ठपीठलुठत्वाठप्रतिष्ठा, नानुश्रवणमात्रेण सम्यगवबोधस्थिरता, ततोऽनन्तरं साधनीयपुण्योपचयहेतुर्धर्मस्य हेयोपादेयस्वरूपस्य वेदाभिहितस्य जिज्ञासा ज्ञातुमिच्छा कर्त्तव्या विधेया, वेदोक्ताभिधेयविधाने यतितव्यमित्यर्थः ।। 70 ।।

नोदनालक्षणो धर्मो, नोदना तु क्रियां प्रति।
प्रवर्त्कं वचः प्राहुः स्वः कामोऽग्निं यजेद्यथा ।। 71 ।।
वेदोक्तधर्मोपदेशमेवाह--नोदनालक्षण इत्यादिना।
नोदनैव लक्षणं यस्य स नोदनालक्षणो धर्मः, तत्स्वरूपमेव सूत्रकृदाह--तु पुनर्नोदनां क्रियां प्रवर्त्तकं वचः प्राहुः, वेदोक्तस्वर्गादिसाधकाम्नायस्य क्रियाप्रवर्त्तकं वचनं नोदनामाहुरित्यर्थः, शिष्यानुकम्पया तत्सूत्रेणैव दृष्टान्तयन्नाह--स्वः कामोऽग्निं यजेद्यथा। यथा येन प्रकारेण स्वःकामः स्वर्गाभिलाषी जनोऽग्नियजेद् अग्निंकार्यं कुर्यात्, यथाऽहुस्तत्सूत्रम्--अग्निहोत्रं जुहुयात्स्वर्गकाम इति ।। 71 ।।

प्रत्यक्षमनुमानं च शब्दश्चोपमया सह।
अर्थापत्तिरभावश्च षट् प्रमाणानि जैमिनेः ।। 72 ।।
प्रमाणान्याह--प्रत्यक्षमनुमानमित्यादिना।
जैमिनेः पूर्ववेदान्तवादिनः, षट् प्रमाणानि ज्ञेयानीति सम्बन्धः, यद्यपि प्राभाकराणां मते पञ्च प्रमाणानि, भाट्टानामेव षट्, तथाऽप्यत्र ग्रन्थकृत्सामान्यतः षट्‌सङ्ख्यामाचष्टे। प्रमाणनामानि निगदसिद्धान्येव ।। 72 ।।

तत्रप्रत्यक्षमक्षाणां संप्रयोगे सतां मतिः।
आत्मनो बुद्धिजन्मेत्यनुमानं लैङ्गिकं पुनः ।। 73 ।।
निरुक्तमाह--तत्रेत्यादिना।
तत्र प्रमाणषट्‌के, अक्षाणामिन्द्रियाणां सम्प्रयोगे पदार्थैः सह संयोगे; सतामनुपहतेन्द्रियाणां मतिर्बुद्धिरिदमित्यवबोधः, तत्प्रत्यक्षं प्रमाणं `भवती'त्यध्याहारः, यत्तदावनुक्तावप्यर्थसम्बद्धौ ज्ञेयौ, सतामिति--विदुषामदुष्टेन्द्रियार्थः, एतावता मरुमरीचिकायां जलभ्रमः, शुक्तौ रजतभ्रमश्चेन्द्रियार्थसम्प्रयोगजोऽपि द्रष्टुरविकलेन्द्रियत्वाभावान्न प्रत्यक्षं तत्प्रमाणकोटिमधिशेते। अनुमानमाह--`आत्मनो बुद्धिजन्मेत्यनुमानं लैङ्गिकं पुनः'। आत्मा यदनुमिमीते स्वयं तदनुमानमित्यर्थः। अनुमानलैङ्गिकयोः शब्दाभेदेऽप्यनुमीयत इत्यनुमानं, लिङ्गाज्जातं लैङ्गिकमिति व्युत्पत्तिभेदाद् भेदो ज्ञेयः, उभयशब्दकथनं तु बालावबोधार्थमेवेति ।। 73 ।।

शाब्दं शाश्वतभेदोत्थमुपमानं प्रकीर्त्तितम्।
प्रसिद्धार्थस्य साधर्म्यादप्रसिद्धस्य भाजनम् ।। 74 ।।
शाब्दमागमप्रमाणं शाश्वतवेदोत्थं, शाश्वतान्नित्याद्वेदाज्जातम्, आगमप्रमाणमित्यर्थः। शाश्वतत्वं च वेदानामपौरुषेयत्वादेव। उपमानमाहयत्प्रसिद्धार्थस्य प्रतीतपदार्थस्य साधर्म्यादप्रसिद्धस्य वस्तुनः साधनं तदुपमानं प्रमाणं प्रकीर्त्तितं कथितम्। यथा प्रसिद्धगोगवयस्वरूपो वनेचरोऽप्रसिद्धगवयस्वरूपं नागरिकं प्राह--`यथा गौस्तता गवय' इति, भोः! खुरककुदलाङ्गूलसास्नाऽऽदिमन्तं पदार्थं गामिति जानासि; गवयोऽपि तथास्वरूपो ज्ञेय इत्युपमानम्, अत्र सूत्रानुक्तावपि यत्तदावर्थसम्बन्धार्थमध्याहार्यौ ।। 74 ।।

दृष्टार्थानुपपत्त्या तु कस्याप्यर्थस्य कल्पना।
क्रियते यद्‌बलेनासावर्थापत्तिरुदाहृता ।। 75 ।।
अर्थापत्तिमाह--दृष्टार्थानुपपत्त्येत्यादिना।
असौ पुनरर्थापत्तिरुदाहृता कथिता, अर्थापतिप्रमाणं प्रोक्तमित्यर्थः। यद्बलेन कस्याप्यदृष्टस्यार्थस्य कल्पना क्रियते सङ्घटना विधीयते, कया दृष्टार्थानुपपत्त्या दृष्टः परिचितः प्रत्यक्षलक्ष्यो योऽर्थो देवदत्ते पीनत्वादिः तस्यानुपपत्त्याऽघटमानतयाऽन्यथाऽनुपपत्तेः, यथा पीनो देवदत्तो दिवा न भुङ्क्ते, पीनत्वस्यान्यथाऽनुपपत्त्या रात्राववश्यं भुङ्‌क्त इत्यर्थ इत्यत्र, दृष्टं विना भोजनं पीनत्वं दुर्घटं, दिवा च न भुङ्क्तेऽतो रात्राववश्यमदृष्टं भोजनं ज्ञापयतीत्यर्थापत्तिः प्रमाणम् ।। 75 ।।

प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते।
वस्तुसत्ताऽवबोधार्थं तत्राभावप्रमाणता ।। 76 ।।
अर्थाभावप्रमाणमाह--प्रमाणपञ्चकमित्यादिना।
यत्र वस्तुरूपेऽभावादौ पदार्थे प्रमाणपञ्चकं पूर्वोक्तं न जायते, तत्राभावप्रमाणता ज्ञेयेति सम्बन्धः। किमर्थमित्याह--वस्तुसत्ताऽवबोधार्थम्। वस्तुनोऽभावरूपस्य मुण्डभूतलादेः सत्ता घटाद्यभावसद्भावः तस्यावबोधः प्रामाणिकपथावतारणं तदर्थं तद्धेतोरित्यर्थः।
ननु कथमभावस्य प्रामाण्यं, प्रत्यक्षं--तावद्‌भूतलमेवेदं घटादि न भवतीत्यन्वयव्यतिरेकद्वारेण वस्तुरिच्छेदः, तदधिकं विषयमभावैकरूपं निराचष्ट इति, किं विषयमाश्रित्याभावप्रामाण्यं स्याद् मुण्डभूतले घटाभावमाश्रित्येति चेद्? मैवम्--घटाभावप्रतिबद्धभूतलग्रहणासिद्धेः। तदुक्तम्--
न तावदिन्द्रियेणैषां नास्तीत्युत्पद्यते मतिः।
भावांशेनैव संयोगो योग्यत्वादिन्द्रियस्य हि।।
गृहीत्वा वस्तुसद्‌भावं स्मृत्वा च प्रतियोगिनम्।
मानसं नास्तिताज्ञानं जायतेऽक्षानपेक्षया।।
इति नास्तिताज्ञानग्रहणावसरे प्रामाण्यमेवाभावस्य, केवलं भावांशइन्द्रियसन्निकर्षजत्वेन पञ्चप्रमाणागोचरसञ्चरिष्णुतामनुभवन्नाबालगोपालाङ्गनाप्रसिद्धं व्यवहारं प्रवर्त्तयति, अभावांशस्तु प्रमाणपञ्चकविषयबहिर्भूतत्वात्केवलभूतलग्रहणाद्युपयोगित्वादभावप्रमाणव्यपदेशमश्नुत इति सिद्धमभावस्यापि युक्तियुक्ततया प्रामाण्यमिति ।। 76 ।।

जैमिनीयमतस्यापि संक्षेपोऽयं निवेदितः।
एवमास्तिकवादानां कृतं संक्षेपकीर्त्तनम् ।। 77 ।।
उपसंहरन्नाह--जैमिनीयमतस्यापीति।
अपिशब्दान्न केवलमपरदर्शनानां, जैमिनीयमतस्याप्ययं सङ्क्षेपो निवेदितः कथितः, वक्तव्यस्य बाहुल्याट्टीकामात्रे सामस्त्यकथनायोगात् सङ्क्षेप एव प्रोक्तोऽस्ति।
अथ सूत्रकृत्सम्मतसङ्क्षेपमुक्त्वा निगमनमाह--एवमिति। एवमित्थम्, आस्तिकवादिनामिह परलोकगतिपुण्यपापास्तिक्यवादिनां बौद्धनैयायिकसाङ्ख्यजैनवैशेषिकजैमिनीयानां सङ्क्षेपकीर्त्तनं कृतं, सङ्क्षेपेण वक्तव्यमभिहितमित्यर्थः ।। 77 ।।

नैयायिकमतादन्ये भेदं वैशेषिकैः सह।
न मन्यन्ते मते तेषां पञ्चैवास्तिकवादिनः ।। 78 ।।
विशेषान्तरमाह--नैयायिकमतादित्यादिना।
अन्य आचार्या नैयायिकमताद्वैशेषिकैः सह भेदं न मन्यन्ते दर्शनाधिष्ठात्रेकदैवतत्वात् पृथग्दर्शनं नाभ्युपगच्छन्ति, तेषां मतापेक्षयाऽऽस्तिकवादिनः पञ्चैव ।। 78 ।।

षड्‌दर्शनसङ्ख्या तु पूर्यते तन्मते किल।
लोकायतमतक्षेपात्कथ्यते तेन तन्मतम् ।। 79 ।।
दर्शनानां षट्‌सङ्ख्या जगति प्रसिद्धा कथं फलतीत्याह--षड्दर्शनेत्यादिना।
ये नैयायिकवैशेषिकयोरेकरूपत्वेनाभेदं मन्यमाना दर्शनपढ्चकमेवाचक्षते, तन्मते षड्दर्शनसङ्ख्या लोकायतमतक्षेपात्पूर्यते। तु पुनर्थे, किलेति परमाप्ताम्नाये, तेन कारणेन तन्मतं चार्वाकमतं कथ्यते तत्स्वरूपमुच्यत इति ।। 79 ।।

[चार्वाकमतम्]
लोकायता वदन्त्येवं नास्ति देवो न निर्वृतिः।
धर्माधर्मौ न विद्येते न फलं पुण्यपापयोः ।। 80 ।।
तदेवाह--लोकायता इत्यादिना।
लोकायता नास्तिकाः, एवममुना प्रकारेण वदन्ति। कथमित्याह--सर्वज्ञादिर्नास्ति, निर्वृतिर्मोक्षो नास्ति, अन्यच्च न विद्येते, कौ? धर्माधर्मौ, धर्मश्चाधर्मश्चेति द्वन्द्वः, पुण्यपापे न स्त इत्यर्थः। पुण्यपापयोर्धर्माधर्मयोः फलं स्वर्गनरकादिरूपं नेति नास्ति, तदपि पुण्यपापयोरभावे कौतस्त्यं तत्फलमित्यादि।
तच्छास्त्रोक्तमेव सोल्लुष्ठं दर्शयन्नाह - तथा च तन्मतं--तथा चेत्युपदर्शने, तन्मतं प्रस्तावान्नास्तिकमतम् ।। 80 ।।

एतावानेव लोकोऽयं यावानिन्द्रयगोचरः।
भद्रे! वृकपदं पश्य यद्वदन्ति बहुश्रुताः ।। 81 ।।
कथमित्याह--एतावनेवेत्यादिना।
अयं लोकः संसार एतावानेव एतावन्मात्र एव यावान् यावन्मात्रमिन्द्रियगोचरः, इन्द्रियं स्पर्शनरसनघ्राणचक्षुःश्रोत्रभेदात्पञ्चविधं तस्य गोचरो विषयः, पञ्चेन्द्रियव्यक्तीकृतमेव वस्त्वस्ति नापरं किञ्चन, अत्र लोकग्रहणाल्लोकस्थपदार्थसार्थस्य संग्रहः।
तथा परे पुण्यपापसाध्यं स्वर्गनरकाद्याहुः, तदप्रमाणं प्रत्यक्षाभावादेव, अप्रत्यक्षमप्यस्तीति चेच्छशशृङ्गवन्ध्यास्तनन्धयादीनामपि भावोऽस्तु।
तथा हि- स्पर्शनेन्द्रियेण तावन्मृदुकठोरशीतोष्णस्निग्धरूक्षादिभावा उपलभ्यन्ते।
रसनेन्द्रियेण कटुकषायाम्लमदुरास्वादलेह्यचूष्यपेयादयो वेद्यन्ते।
घ्राणेन्द्रियेण मृगमदमलयजघनसारागुरुप्रभृतिसुरभिवस्तुपरिमलोद्गारपरम्पराः परिचीयन्ते।
चक्षुरिन्द्रियेण भूभूधरपुरप्राकारघटपटस्तम्भाम्भोरुहादिमनुष्यपशुश्वापदादिस्थावरजङ्गमपदार्थसार्था अनुभूयन्ते।
श्रोत्रेन्द्रियेण प्रथिष्ठगाथकपथिकप्रथ्यमानतालमानमूर्च्छनाप्रेङ्खोलनाखेलन्मधुरध्वनय आकर्ण्यन्ते।
इति पञ्चप्रकारप्रत्यक्षदृष्टमेव वस्तुतत्त्वं प्रमाणपदवीमवगाहते, शेषप्रमाणानामनुभवाभावादेव निरस्तत्वाद् गगनकुसुमवत्।
ये चास्पृष्टमनास्वादितमनाघ्रातमदृष्टमश्रुतमप्याद्वियमाणाः स्वर्गमोक्षादिसुखपिपासाऽनुबन्धचेतोवृत्तयो दुश्चरतरतपश्चरणादिकष्टपिष्टिकया स्वजन्म क्षपयन्ति तन्महासाहसं तेषामिति।
किं च - प्रत्यक्षमप्यस्तितयाऽभ्युपगम्यते चेज्जगदनपह्नृतमेव स्याद्, दरिद्रो हि स्वर्णराशिर्मेऽस्तीत्यनुध्याय हेलयैव दौःस्थ्यं दलयेद्; दासोऽपि स्वचेतसि स्वामितामवलम्ब्य किङ्करतां निराकुर्यादिति, न कोऽपि स्वानभिमतमालिन्यमश्नुवीत।
एवं न कश्चित्सेव्यसेवकभावो दरिद्रधनिभावो वा स्यात्, तथा च जगद्व्यवस्थाविलोपप्रसङ्ग इति सुस्थितमिन्द्रियगोचर एव प्रमाणम्।
ये चानुमानागमादिप्रामाण्यमनुमन्वानाः पुण्यपापव्यापारप्राप्यस्वर्गनरकादिसुखासुखं व्यवस्थापयन्तो वाचाटा न विरमन्ति तान् प्रति दृष्टान्तमाह--
भद्रे वृकपदं पश्येति। यथा हि कश्चित्पुरुषो वृकपददर्शनसमुद्‌भूतकुतूहलां दयितां मन्थरतरप्रसृमरसमीरणसमीकृतपांशुप्रकारस्वाङ्गुलिन्यासेन वृकपदाकारतां विधाय प्राह--हे भद्रे! वृकपदं पश्य, कोऽर्थः? यथा तस्या अविदितपरमार्थाया मुग्धाया विदग्धो वल्लभो वृकचरणनिरीक्षणाग्रहं कराङ्गुलिन्यासमात्रेण प्रलोभ्य पूरतवान्, एवममी अपि धर्मच्छद्मधूर्त्ताः परवञ्चनप्रवणा यत् किञ्चिदनुमानागमादिदार्ढ्य मादर्श्य व्यर्थं मुग्धजनान् स्वर्गादिप्राप्तिलभ्यभोगाभोगप्रलोभनया भक्ष्याभक्ष्यगम्यागम्यहेयोपादेयादिसङ्कटे पातयन्ति, मुग्धधार्मिकान्ध्यं चोत्पादयन्ति, एवमेवार्थं प्रमाणकोटिमधिरोपयन्तश्च यद् बहुश्रुताः परमार्थवेदिनो वदन्ति, वक्ष्यमाणपद्येनेत्यर्थः ।। 81 ।।

पिब खाद च जातशोभने! यदतीतं वरगात्रि! तन्न ते।
न हि भीरु! गतं निवर्त्तते समुदयमात्रमिदं कलेवरम् ।। 82 ।।
किङ्कर्तव्यमित्याह--पिबेत्यादिना।
हे जातशोभने! भावप्रधानत्वान्निर्देशानां, जातं शोभनत्वं वदननयनादिमत्त्वं यस्याः सेति तत्सम्बोधनम्, पिब पेयापेयव्यवस्थावैसंष्ठुल्येन मदिरादेः पानं कुरु। न केवलं पिब, खाद च, भक्ष्याभक्ष्यनिरेक्षतया मांसादिकं भक्षय, यद्वा पिबेत्यधरादिपानं कुरु, खादेति भोगानुपभुङ्‌क्ष्वेति काम्युपदेशः, स्वयौवनं सफलीकुर्वित्यर्थः।
अथ सुलभमेव पुण्यानुभावाद्भवान्तरेऽपि शोभनत्वमिति परोक्तमाशङ्क्याह--वरगात्रि! यदतीतम्, अतिक्रान्तं यौवनादि तत्ते तव भूयो न; किन्तु जराजीर्णत्वमेव भविष्यतीत्यर्थः। जातशोभने-वरगात्रीतिसम्बोधनयोः समानार्थयोरप्यादरानुरागातिरेकान्न पौनरुक्त्यं दोषः। तदुक्तम्--
अनुवादादरवीप्साभृशार्थविनियोगहेत्वसूयासु।
ईषत्सम्भ्रमविस्मयगणनास्मरणेष्वपुनरुक्तम्।।
ननु स्वेच्छयाऽविच्छिन्नं खादने पाने दुस्तरा परलोककष्टपरम्परा, सुलभं भवति सुकृतसञ्चये भवान्तरेऽपि यौवनादिकमिति पराशङ्कां दूषयन्नाह--न हि भीरु गतं निवर्तते। हे भीरु! परोक्तमात्रेण नरकादिप्राप्यदुःखभयाकुले! गतम्, इह भवातिक्रान्तं सुखयौवनादि न निवर्त्तते परलोके नाढौकते परलोकसुखाकांक्षया तपश्चरणादि-कष्टक्रियाभिरिहत्यसुखोपेक्षा व्यर्थेत्यर्थः।
अथ जन्यजनकसम्बन्धसद्भावादमुना कायेन परलोकेऽपि सहेतुकं सुखदुःखादिकं वेदितव्यमवश्यमेवेति चेद्? आह--समुदयमात्रमिदं कलेवरम्, इदं कलेवरं शरीरं समुदयमात्रं समुदयो मेलः वक्ष्यमाणचतुर्भूतानां संयोगस्तन्मात्रं मात्रशब्दोऽवधारणे भूतचतुष्टयसम्बन्ध एव कायो, न च पूर्वभवादिशुभाशभकर्मविपाकवेद्यमुखदुःखादिसव्यपेक्ष इत्यर्थः, संयोगाश्च तरुशिखरावलीलीनशकुनिगणवत् क्षणतो विनश्वरास्तस्मात् परलोकानपेक्षया यथेच्छं पिब खाद चेति वृत्तार्थः ।। 82 ।।

किं च पृथ्वी जलं तेजो वायुर्भूतचतुष्टयम्।
चैतन्यभूमिरेतेषां मानं त्वक्षजमेव हि ।। 83 ।।
चैतन्यमाह--किञ्चेति।
किं चेत्युपदर्शने, पृथ्वी भूमिः, जलमापः, तेजो वह्निः वायुः पवन; इति भूतचतुष्टयं तेषां चार्वाकाणां चैतन्यभूमिः चैतन्योत्पत्तिकारणं; चत्वार्यपि भूतानि संभूय सपिण्डं चैतन्यं जनयन्तीत्यर्थः। तु पुनः, मानं प्रमाणं हि निश्चितम् अक्षजमेव प्रत्यक्षमेवैकं प्रमाणमित्यर्थः ।। 83 ।।

पृथ्व्यादिभूतसंहत्यां तथा देहादिसम्भवः।
मदशक्तिः सुराऽङ्गेभ्यो यद्वत्तद्वत्स्थिताऽऽत्मता ।। 84 ।।
ननु भूतचतुष्टयसंयोगजदेहचैतन्योत्पत्तिः कथं प्रतीयताम्? इत्याशङ्क्याह - पृथ्व्यादिभूतसंहत्यामिति।
पृथिव्यादीनि पृथिव्यप्तेजोवायुरूपाणि यानि भूतानि तेषां संहत्यां मेले संयोगे सति; तथेत्युपदर्शने देहादिसम्भवः, आदिशब्दादितरे भूधरादिपदार्था अपि चतुष्टयसंयोगजाता एव ज्ञेयाः। दृष्टानत्माह--यद्ववदिति। येन प्रकारेण सुराङ्गेभ्यो गुड़धातक्यादिभ्यो मद्याङ्गे भ्यो मदशक्तिरुन्मादकत्वं भवति, तद्वत्तथा भूतचतुष्टयसम्बन्धात् शरीर आत्मता स्थिता सचेतनत्वं भवति, जातमित्यर्थः ।। 84 ।।

तस्माद् दृष्टपरित्यागाददृष्टे च प्रवर्तनम्।
लोकस्य तद्विमूढत्वं चार्वाकाः प्रतिपेदिरे ।। 85 ।।
इति स्थिते तदुपदेशपूर्वकमुपसंहारमाह--तस्मादिति।
तस्मादिति पूर्वोक्तानुस्मारणे, पूर्वं तस्मात्ततः कारणाद् दृष्टपरित्यागाद् दृष्टं पेयापेयखाद्याखाद्यगम्यागम्यानुरूपं प्रत्यक्षानुभाव्यं यत्सुखं; तस्य परित्यागाददृष्टे तपश्चरणादिकष्टक्रियासाध्यपरलोकसुखादौ प्रवर्तनं प्रवृत्तिः। चः समुच्चये. यत्तदोर्नैयत्यादर्द्धे यत्सम्बन्धो ज्ञेयः, तल्लोकस्य विमूढत्वमज्ञानत्वं चार्वाकाः लौकायतिकाः प्रतिपेदिरे प्रतिपन्नाः, मूढलोका हि विप्रतारकवचनोपन्यासभासितज्ञानाः सांसारिकं सुखं परित्यज्य व्यर्थं स्वर्ग मोक्षपिपासया तपोजपध्यानहोमादिभिरिहत्यं सुखं परित्यज्य व्यर्थं स्वर्गं मोक्षपिपासया तपोजपध्यानहोमादिभिरिहत्यं सुखं हस्तगतमुपेक्षन्त इति ।। 85 ।।

साध्यावृत्तिनिवृत्तिभ्यां या प्रीतिर्जायते जने।
निरर्था सा मता तेषां सा चाकाशात् परा न हि ।। 86 ।।
साध्यस्य मनीषितस्य कस्यचिद्वस्तुन आवृत्तिः प्राप्तिः, कस्यचिद्वस्तुनोऽनभीष्यस्य निवृत्तिरभावः, ताभ्यां जने लोके या प्रीतिर्जायत उत्पद्यते सा तेषां चार्याकाणं निरर्थिका निरभिप्राया शून्या मताऽभीष्टा भवार्जितपुण्यपापसाध्यं सुखदुःखादिकं सर्वथा न विद्यत इत्यर्थः, सा च प्रीतिराकाशाद् गगनात् परा न, हि यथाऽऽकाशंशून्यं तथैषाऽपि प्रीतिरभावरूपैवेत्यर्थः ।। 86 ।।

लोकायतमतेऽप्येवं संक्षेपोऽयं निवेदितः।
अभिधेयतात्पर्यार्थः पर्यालोच्यः सुबुद्धिभिः ।। 87 ।।
इति श्रीहरिभद्रसूरिकृतः षड्‌दर्शनसमुच्चयः
समाप्ताः
उपसंहारमाह--लोकायतमतेऽप्येवमिति। एवममुना प्रकारेण लोकायतमतेऽप्ययं संक्षेपो निवेदितः, अपिः समुच्चये, न केवलं परमते, संक्षेप उक्तो लोकायतमतेऽपि।
अथ सर्वदर्शनसम्मतसङ्ग्रहे परस्परकल्पितानल्पविकल्पजल्परूपे निरूपिते किङ्कर्त्तव्यमूढ़ानां प्राणिनां कर्त्तव्योपदेशमाह--अभिधेयेति। सुबुद्धिभिः पण्डितैरभिधेयतात्पर्यार्थः पर्यालोच्यः। अभिधेयं कथनीयं मुक्त्यङ्गतया प्रतिपाद्यं यद्दर्शनस्वरूपं तस्य तात्पर्यार्थः सारार्थो विचारणीयः। सुबुद्धिभिरति। शुद्धा पक्षपातरहिता बुद्धिर्येषामिति, न तु कदाग्रहग्रहिलैः,
यदुक्तम्--
आग्रही बत निनीषति युक्तिं तत्र यत्र मतिरस्य निविष्टा।
पक्षपातरहितस्य हि तस्य यत्र तत्र मतिरेति निवेशम् ।। इति।
दर्शनानां पर्यन्तैकसारूप्येऽपि पृथक् पृथगुपदेष्टव्याद्विमतिसम्भवे विमूढ़स्य प्राणिनः सर्वस्पृकतया दुर्लभं स्वर्गापवर्गसाधकत्वम्, अतो विमर्शनीयस्तात्त्विकोऽर्थः, यथा च विचारितं चिरन्तनैः।
श्रोतव्यः सौगतो धर्मः कर्त्तव्यः पुनरार्हतः।
वैदिको व्यवहर्तव्यो ध्यातव्यः परमः शिवः।।
इत्यादि विमृश्य श्रेयस्करं रहस्यभ्युपगन्तव्यं कुशलमतिभिरिति पर्यन्तश्लोकार्थः ।। 87 ।।
सप्ताशीतिः श्लोकसूत्रं, टीकामानं विनिश्चितम्।
सहस्रमेकं द्विशती द्वापञ्चाशदनुष्टुभाम्।।
इतिश्रीहरिभद्रसूरिकृतषड्‌दर्शनसमुच्चये
मणिभद्रकृता लघुवृत्तिः समाप्ता
------

"https://sa.wikisource.org/w/index.php?title=षड्‌दर्शनसमुच्चयः&oldid=397723" इत्यस्माद् प्रतिप्राप्तम्