अथौपासनहोमः ।

तत्रेदं गृह्यम्-- "नित्य सायं प्रातर्व्रीहिभिर्यवैर्वा हस्तेनैते आहुती जुहोत्यग्नये स्वाहा प्रजापतये स्वाहेति सौरीं पूर्वां प्रातरेके समामनन्ति" इति ।

 नित्यं सदा प्रत्यहं सायंप्रातर्व्रीहिभिर्यवैर्वा हस्तेनैव वक्ष्यमाणे आहुती जुहोति । के ते । अग्नये स्वाहा प्रजापतये स्वाहेति । प्रातर्होमे सूर्यदेवत्यां सूर्याय स्वाहेत्येवंरूपां पूर्वामग्नये स्वाहेत्याहुतिस्थान एक आचार्या वदन्तीति । नित्यग्रहणमत ऊर्ध्वं पर्वशब्दयोरननुवृत्त्यर्थं तेन गृहप्रवेशनीयात्प्रागपि होमः प्रात्यहिकत्वरूपनित्यता च सिध्यति । अन्यथा गृहप्रवेशनीयोत्तरमुपादानान्नियमेन गृहप्रवेशनीयोत्तरभावित्वं पर्वस्वेव क्रिया च स्यात् । अथवा नित्यग्रहणं यावज्जीविकत्वार्थम्, अग्निहोत्रदर्शनात्सायंप्रातर्होमयोर्जीर्णस्य वा विरमणमित्येतदपि स्यात्तन्मा भूदिति । एतेनेदमपि ज्ञायतेऽग्निहोत्रकालोऽस्यापि कालः । अग्निहोत्रद्रव्यसंस्कारवद्द्रव्यसंस्कारः । सायमारम्भो न प्रातः । उद्धरणकालश्चास्य प्रादुष्करणकाल इति ।

 उक्तं च बह्वृचैः--

"तस्याग्निहोत्रेण प्रादुष्करणहोमकालौ व्याख्यातौ" इति ।

 अस्मिन्पक्षेऽत ऊर्ध्वमित्यधिकारात्प्राग्गृहप्रवेशनीयान्नास्ति होमः । य एव विवाहापरिसमाप्ततारूपो हेतुः स्थालीपाकाभावे सायंप्रातर्होमाभावेऽपि स एवेति । एतेन ज्ञायते गृहप्रवेशनीयान्तो विवाहः संगमार्थं चतुर्थीहोम इति । हस्तग्रहणं दर्वीनिवृत्त्यर्थम् । एते इतिवचनमाहुत्योर्नियमार्थं तेन द्रव्यस्यानियमादग्निहोत्रद्रव्याणां दशानामेकं स्यात् ।

तदुक्तं बह्वृचैः--"हौ[१]म्यं तु मांसवर्जं का[२]मं तु व्रीहियवतिलैः" इति ।

 योग्यतयैवाऽऽहुतिसंप्रत्यये सिद्ध आहुतिवचनं नियमार्थम्, आहुती एव केवले स्यातां नेतरत्तन्त्रमिति । अस्मिन्कल्पे परिस्तरणपरिषेकयोरपि निवृत्तिः । हस्ताग्रेणापि कदाचिद्धोमः स्यात्स मा भूत्, किंतु जुहूवद्धस्तोत्तरपार्श्वेनैव होमो नियत इतिज्ञापनार्थं चेति ।  अग्निहोत्रोद्धरणकालः श्रौतसूत्रे--

"अधिवृक्षसूर्ये सायमग्निहोत्रायोषसि प्रातरग्निहोत्राय" इति ।

 पूर्वसूत्रादुद्धरतीत्यनुकृष्यते । कालद्वयसंबन्धेन नामद्वयमिदम् । प्रधानस्य साङ्गस्य कालात्पूर्वतन एव कालेऽनुदितेऽनस्तमिते चोद्धरणमित्यर्थः । वृक्षानधिकृत्य सूर्यो वर्तते नाधस्तान्नोपरिष्टात्स कालोऽधिवृक्षसूर्यः । तत्र सायमग्निहोत्रार्थमुद्धरणम् । एवमुषसि प्रातरग्निहोत्रार्थम् । सूर्यशब्देन किरणा लक्षणयोच्यन्ते । उदयोत्तरं होमपक्षेऽप्युषस्येवोद्धरणम् । एवं सायमस्तोत्तरं होमपक्षेऽप्यधिवृक्षसूर्य एवेति ज्ञेयम् ।

 वैखानसस्तु--

"सायमधिवृक्षसूर्येऽर्धास्तमिते वा प्रातरुषसि प्रागुदयाद्वा" इत्याह ।

 कात्यायनस्त्वनस्तमितानुदितयोरित्याह । असंभवे तदपि ग्राह्यम् । एतच्च सूत्रं यः प्रधानस्य कालः सोऽङ्गानामितिपरिभाषाबाधनाय ।

 होमकालोऽपि श्रौतसूत्रे--

"प्रथमास्तमिते सायमग्निहोत्रं जुहोति नक्षत्रं दृष्ट्वा प्रदोषे वोषसि प्रातर-
ग्निहोत्रं पुरोदयमुदिते वा यर्हि वाक्प्रवदेत्तर्हि होतव्यमित्येकेषाम्" इति ।

 पूर्वसूत्रेणोद्धरणकाल उक्तस्ततोऽन्यो होमकालोऽनेन दर्शितः । तेन ज्ञायते मध्ये विरामे संध्योपास्तावपि न दोषः । प्रथमास्तमयो नाम सूर्यादर्शनाव्यवहितोत्तरः कालस्तत्र नक्षत्रदर्शने वा घटिकाद्वयात्मकरजनीमुखरूपे प्रदोषे वा सायमग्निहोत्रं जुहोति । त्रिविधोऽपि सायंकाल एव । तथा प्रातःकालोऽपि घटिकाद्वयं पूर्वमुदयात्, उदयाव्यवहितपूर्वकाले वोदिते वेति त्रिधा । तत्र प्रातरग्निहोत्रम् । यदा वाक्पक्षिणां प्रकटा भवेत्तदा प्रातरग्निहोत्रं होतव्यमित्येके शाखिन इति वैजयन्तीकृता व्याख्यातम् । ([३]'अनुदितहोमिभिरर्घ्यं दत्त्वा सूर्योदयात्पूर्वं हुत्वा गायत्री जपितव्या । उदितहोमिभिस्तु जपित्वा होतव्यम् ' इति आचाररत्ने पृथ्वीचन्द्रः ।)

 उद्धरणे दुहितृस्नुषयोरपि कर्तृत्वमुक्तं कात्यायनेन--

"दुहित्रा स्नुषया वाऽपि विहारो न विरुध्यते" इति ।

 एतच्च होमकर्तुरुद्धरणासंभवे ज्ञेयम् । विहारो विहरणमुद्धरणमिति यावत् ।

 उदितादिषु कालेषु होममाह मनुः--

"उदितेऽनुदिते चैव समयाध्युषिते तथा ।
सर्वथा वर्तते होम इतीयं वैदिकी श्रुतिः" इति ॥

 एतेषां स्वरूपमुक्तं कात्यायनेन--

"रेखामात्रस्तु दृश्येत रश्मिभिस्तु दिवाकरः ।
उदितं तं विजानीयात्तत्र होमं प्रकल्पयेत् ॥
रात्रेः षोडशके भागे ग्रहनक्षत्रभूषिते ।
कालं त्वनुदितं ज्ञात्वा तत्र होमं समाचरेत् ॥
तथा प्रभातसमये नष्टे नक्षत्रमण्डले ।
रविर्यावन्न दृश्येत समयाध्युषितः स तु" इति ॥

 उदितस्योत्तरावधिश्चन्द्रिकायां कात्यायनेनोक्तः--

"हस्तादूर्ध्वं रविर्यावद्गिरिं भित्त्वा न गच्छति ।
तावद्धोमविधिः पुण्यो नान्योऽस्त्युदितहोमिनाम्" इति ।

 अस्तमितस्वरूपमप्युक्तं तेनैव--

"यावत्सम्यङ्न भाव्यन्ते नभस्यृक्षाणि सर्वतः ।
लोहितत्वं च नापैति तावत्सायं तु हूयते" इति ।

 गौणकालमाहतुर्वैखानसाश्वलायनौ--

"प्रदोषान्तो होमकालः[४]सायं संगवान्तः प्रातः" इति ।

 प्रदोषो रात्रेः पूर्वश्चतुर्थो भागः सोऽन्तो यस्य । केषांचिन्मते पञ्चम(मी)षष्ठ्यौ नाडिके प्रदोषशब्देनोच्येते । तदन्तो वा होमकालः । संगवः पञ्चधाविभक्तस्याह्नो द्वितीयो भागः । दिवसस्य द्वितीयो याम इति देवत्रातोक्तिस्तु भागाभिप्रायेण । एतच्च सूत्रं गौणकालविधानपरम् । प्रदोषसंगवयोर्गौणकालयोरनापद्यपि होमे नैतत्प्रायश्चित्तम् । सर्वप्रायश्चित्तं तु भवत्येव ।

 गृह्यपरिशिष्टेऽपि--

'प्रदोषान्तो होमकालः सायं संगवान्तः
प्रातर्नात्र तन्त्रमिष्यते' इति ।

 प्रदोषसंगवयोः स्वरूपमाहाऽऽश्वलायनः--

"पश्चादस्तमयात्कालो यो भवेत्त्रिमुहूर्तकः ।
स सायं होमकालश्च प्रदोषान्त उदाहृतः ।
यस्तु षण्नाडिकः कालः पश्चादेवोदयाद्रवेः ।
स होमकालो विप्राणां संगवान्त इति स्मृतः" इति ।

 एतद्गौणकालातिक्रमप्रायश्चित्तमाह स एव--

"तमतिनीय चतुर्गृहीतमाज्यं जुहुयाद्यदि सायं
दोषावस्तर्नमः स्वाहा यदि प्रातः प्रातर्वस्तर्नमः स्वाहा" इति ।

 यत्तु माविलगृह्यम्--

"अथ यदि गृह्येऽग्नौ सायंप्रातर्होमयोर्हव्यं होतारं नाधिगच्छेत्कथं कुर्या[५]-
दासायमाहुतेः प्रातराहुतिर्नात्येत्याप्रातराहुतेः सायमाहुतिः" इति ।

 यत्तु बौधायनवचनम्--

"आसायं कर्मणः प्रातराप्रातः सायं कर्मण आहुतिर्नातिपद्येत पार्वणं पार्व-
णान्तरात्" इति ।

 यच्च निदानसूत्रम्--

"सर्वमहः प्रातराहुतेः स्थानं सर्वा रात्रिः सायमाहुतेः पूर्णः पक्षो दर्शस्य
कृष्णः पक्षः पूर्णमासस्य" इति ।

 तद्राष्ट्रभ्रंशादिमहापत्तिविषयम् ।

 प्रथमौपासनहोमे विशेषमाह शौनकः--

"यदि रात्रौ विवाहाग्निरुत्पन्नः स्यात्तथा सति ।
उपक्रम्योत्तरस्याह्नः सायं परिचरेदमुम्" इति ।

 सुदर्शनभाष्ये तु यदि रात्रौ नवनाडिकामध्येऽग्न्युत्पत्तिस्तदा तदैव होमारम्भः । तदुत्तरं चेत्परदिने सायमारम्भ इत्युक्तम् ।

अथ होमद्रव्याणि ।

 तत्र व्रीहयो यवा वा मुख्याः । "नित्य सायंप्रातर्व्रीहिभिर्यवैर्वा हस्तेनते आहुती जुहोति" इति गृह्योक्तत्वात् ।

 |चन्द्रिकायां स्मृत्यन्तरे--

"हविस्तु त्रिविधं प्रोक्तं कृतं चैव कृताकृतम् ।
अकृतं च क्रमादेषां लक्षणं सम्यगुच्यते ।
कृतमोदनसक्त्वादि तण्डुलादि कृताकृतम् ।
व्रीह्यादि चाकृतं प्रोक्तमिति हव्यं त्रिधा बुधैः" इति ।

 अकृतं प्रक्षाल्य होतव्यम् । तथा च च्छान्दोग्यगृह्यम्-- ' अ[६] कृतं चेत्प्रक्षाल्य जुहुयात्' इति ।  स्मृत्यन्तरे--

"शालिश्यामाकनीवारा व्रीहिगोधूमयावकाः ।
एतेषां तण्डुला होम्या यावनालाः प्रियंगवः" इति ।

 स्मृत्यन्तरे--

"नीवाराः शालयश्चापि गोधूमा व्रीहयो यवाः ।
स्वरूपेणैव होम्याः स्युः स्वरूपेणैव ते तिलाः" इति ।

 गृह्यपरिशिष्टे--'पयो दधि सर्पिर्यवागूरोदनस्तण्डुलाः सोमस्तैलमापो व्रीहयो यवास्तिला इति होम्यानि' इति ( [७]तण्डुला नीवारश्यामाकयावनालानां, व्रीहियवगोधूमप्रियंगवः स्वरूपे[८]णापि होम्याः, तिलाः स्वरूपेणैव, तैलं च [९]तिलजर्तिलातसीकुसुम्भानामिति । ) यावनालाः 'जोंधळा' इति हेमाद्रिः ।

 स्मृतिभास्करे--

"यवाभावे तु गोधूमास्ततो वेणुयवादयः ।
छन्दोगवचनाच्चैव जुहुयाद्धविरत्यये ॥
फलं वा यज्ञवृक्षस्य तत्पत्रमथवा जलम्" इति ।

 व्रीहियवौ वर्जयित्वा सर्वाण्यनुकल्पद्रव्याणि । तत्राऽऽदौ व्रीहियवयोर्मध्ये यद्द्रव्यं प्रथमप्रयोगे गृहीतं तदेव सर्वेषु प्रयोगेषु ग्राह्यम् । तदलाभे प्रतिनिधिरेव ग्राह्यो न तु विहितं द्रव्यान्तरमिति प्रतिनिधिप्रकरणेऽभियुक्तैरुक्तत्वात् ।

"परिगृहीतविषये प्रक्रमात्तु नियम्यते" इति सूत्रं प्रमाणम् ।

 अभियुक्तोदाहृतं वचनमपि--

"रूपं कालोऽनुनिर्वापो देवताश्रपणं तथा ।
आदौ ये विधृताः पक्षास्त एव स्युः सदैव हि" इति ॥

 रूपं रूपवद्द्रव्यमित्यर्थः । क्वचिद्द्रव्यमित्येव पाठः । आग्रयणे द्यावापृथिव्य एककपाल आज्यं वेति । वायव्यं पयो यवागूर्वेत्यादीनि रूपोदाहरणानीति केचित् । रूपं दाक्षायणदर्शपूर्णमासस्वरूपादीत्यन्ये । रूपं क्रियारूपम् । अग्निष्ट इत्यद्भिरभिमृशति सकृत्त्रिर्वेत्यादि, इति परे । प्रथममते--व्रीहिभिर्यवैर्वेत्यादीनि स्मार्तान्युदाहरणानि । द्वितीयमते--आपूर्विकत्वाघारवत्त्वादि । तृतीयमते तु बहून्येतादृशान्युदाहरणानि । पश्विज्यासंवत्सरे प्रावृष्यावृत्तिमुखयोर्वेत्यादीनि श्रौतानि कालोदाहरणानि । उभौ कालौ सायं सायं वेत्यादीनि स्मार्तानि । सद्यस्काला पौर्णमासी द्व्यहकाला वोदितेऽनुदिते वा जुहोतीत्युभयोदाहरणानि । अनुनिर्वापोदाहरणं तु श्रौतमेव । पौर्णमासानन्तरं वैमृधानुनिर्वाप्यपक्षोऽङ्गीकृतश्चेत्कर्तव्य एवेति । उपांशुयाजदेवता विष्णुः प्रजापतिरग्नीषोमौ वा सांनाय्यमैन्द्रं माहेन्द्रं वा निरूढः पशुरैन्द्राग्नः सौर्यः प्राजापत्यो वेत्येवमादीनि श्रौतानि देवतोदाहरणानि । अग्नये स्वाहा सूर्याय स्वाहेति वेत्येवमादीनि स्मार्तानि । आग्रयण इन्द्राग्नी अग्नीन्द्रौ वेति तूभयोदाहरणम् । श्रपणोदाहरणं तु श्रौतमेव । हविःश्रपणमाहवनीये गार्हपत्ये वेति । एवमादिविकल्पस्थले यः पक्षः पूर्वमङ्गीकृतः स एवाऽऽन्तं स्वीकार्य इत्यर्थः ।

 अत्र केचित्--इदमुपलक्षणम् । तेन व्याहृतीभिर्वाऽन्वादधातीत्यादिषु विकल्पस्थलेषु सर्वेष्वपि नियमः सिध्यतीत्याहुः । अस्मिन्मते स्मार्तोदाहरणं जयाभ्यातानराष्ट्रभृदुपहोमादिकं ज्ञेयम् ।

 अन्ये तु प्रमाणाभावेनोपलक्षणपरतामन्याय्यां मन्यमानः परिगणितेष्वेवायं नियमो नान्यत्रेति वदन्ति । सायंहोमद्रव्येणैव प्रातर्होमः । एकफलकत्वात् ।

 मण्डनोऽपि--"सायंहोमे तु यद्द्रव्यं तदेव प्रातरिष्यते" इति ।

 एवं कर्तृनियमोऽपि सर्वथासंभवे यजमानं विना ।

 तथा च गदाधरभाष्ये--

"श्रौताग्निमथवा स्मार्तं सायंप्रातर्हुनेद्द्विजः ।
एक एवेति बहवो जुहुयुर्लौकिको भवेत्" [ इति । ]

 मदनरत्ने--

"एक एव हुनेदग्निं सायंप्रातर्द्विजोत्तमः ।
सायमन्यः प्रातरन्यो जुहुयाल्लौकिको भवेत्" [ इति ॥ ]

 स्मृतिसारे--

"सायं प्रातश्च जुहुयादेक एव हुताशनम् ।
यदन्यो जुहुयात्प्रातः स वृथाऽग्निर्भवेद्ध्रुवम् ॥
सायं प्रातश्च जुहुयादाहुतीनां चतुष्टयम् ।
एक एवाग्निहोत्रं च स्मार्ताग्निं च विशेषतः" [ इति । ]

 गदाधरभाष्ये[१०] स्मृतिसंग्रहे--

"यजमानं विना नान्यो जुहुयात्प्रातराहुतिम्" इति ।

 एतदतिक्रमे समस्तव्याहृतिभिः प्रणवेन चाऽऽज्याहुतिर्होतव्या--

"कपालनाशने चैव ऋत्विग्द्रव्यविपर्यये ।
पवित्रनाशे वेदे च यत्किंचित्पात्रभेदने ॥
आज्याहुतिश्च होतव्या व्याहृत्या प्रणवेन च" इति ॥

 ऋत्विजां च विपर्यय इति व्याहृत्या प्रणवेन चेत्येवं पाठद्वयाङ्गीकारे द्रव्यविपर्यये समस्तव्याहृतिहोममात्रम् । व्याहृत्या प्रणवेन वेतिपाठाङ्गीकारेऽपि समस्तव्याहृतिहोम एवात्र नियतः । 'अयं च द्रव्यकर्तृनियमः समुदायसंकल्पपक्ष एव' इति प्रयोगार्णवे । प्रातर्होमे यजमाने कर्तरि नायं नियम इति केचित् ।

 होमद्रव्यस्य संस्कार उक्तो बौधायनगृह्ये--

"होमद्रव्यमवद्योत्य दर्भाग्रे प्रत्यस्य पर्यग्नि कृत्वाऽग्नेः
पश्चात्कूर्चे निदध्यात्" इति ।

 होमात्पूर्वं समिदाधानमवश्यं कर्तव्यम् । "नासमित्के जुहुयाद्यदसमित्के जुहुयादहुतमेव तद्भवति" इति श्रुतौ "नासमित्के जुहुयाद्यदसमित्के जुहुयाद्यथा ह्यजिह्वेऽन्नं दद्यात्तादृक्तत्तस्मात्समिद्वत्येव होतव्यम्" इति बौधायनगृह्ये च दोषश्रवणात् । अनन्तरमपि समिदाधानं पाक्षिकमुक्तं छन्दोगपरिशिष्टे--"उपरिष्टादपि समिन्धनमेके" इति । एक इतिवचनात्पाक्षिकत्वम् ।

 अवदानप्रमाणमुक्तं स्मृत्यर्थसारे--

"प्रस्थधान्यं चतुःषष्टेराहुतेः परिकीर्तितम् ।
तिलानां च तदर्धं तु तण्डुला व्रीहयः समाः" इति ॥

 प्रस्थपरिमितधान्यस्य चतुःषष्ट्यंश इत्यर्थः ।

 प्रस्थलक्षणं संग्रहे--

"पलं च कुडवः प्रस्थ आढको द्रोण एव च ।
धान्यमानेषु बोद्धव्याः क्रमशोऽमी चतुर्गुणाः" इति ॥

 पललक्षणमपि तत्रैव--

"पलद्वयं तु प्रसृतं मुष्टिरेकपलं स्मृतम्" इति ।

 बौधायनस्तु--

"व्रीहीणां वा यवानां वा शतमाहुतिरिष्यते" इत्याह ।

 शतसंख्यधान्यस्यैकाऽऽहुतिरित्यर्थः ।

 उत्तराहुतिस्तु किंचिदधिका कार्या श्रौतभक्तत्वादस्य ।  अगस्त्यः--

"द्रवद्रव्यस्य मानं स्याद्धारा गोकर्णदीर्घिका" इति ।

 छन्दोगपरिशिष्टे--

"धान्याहुतिर्द्वादशपर्वपूरिका घृतादिना चेत्स्रुववक्त्रपूरिका ।
दैवेन तीर्थेन च हूयते हविः स्वङ्गारिणि स्वर्चिषि तत्र पावके" इति ॥

 द्वादशपर्वपूरकद्रव्यासंभवे टोडरानन्दे शङ्खः--

"आर्द्रामलकमात्रा वै ग्राह्या(सा) इन्दुव्रते स्मृताः ।
तथैवाऽऽहुतयोऽग्नौ च शौचार्थे या च मृत्तिका" इति ॥

 होमे विशेषः संग्रहे--

"अङ्गुल्यग्रैर्न होतव्यमकृत्वाऽङ्गुलिभेदनम् ।
अङ्गुल्युत्तरपार्श्वेन होतव्यमिति तु स्मृतिः" इति ॥

 बौधायनोऽपि--

"निर्वपणसंस्त्रवणलाजहोमनित्यहोमान्कायतीर्थेन कुर्यात्" इति ।

 नित्यहोम औपासनादिः ।

 गोभिलीये विशेषः--

"न मुक्तकेशो जहयान्नानिपातितजानकः ।
अनिपातितजानोस्तु राक्षसैर्ह्रियते हविः" इति ॥

 एतच्च सर्वहोमविषयम् ।

 आचाररत्ने याज्ञवल्क्यः--

"हुत्वाऽग्निसूर्यदैवत्याञ्जपेन्मन्त्रान्समाहितः" इति ।

 स्मृतिप्रदीपे तु--

"उपतिष्ठेदग्निसूर्यौ तत्तन्मन्त्रैः समाहितः" इत्युपस्थानमुक्तम् ।

 तेन विकल्पः । सायंहोमेऽग्निदैवत्यमन्त्रजपोऽग्निदैवत्यैरुपस्थानं वेत्येतदन्यतरत्कार्यम् । प्रातर्होमे तु सूर्यदैवत्यमन्त्रजपः सूर्यदैवत्यैरुपस्थानं वेत्येतदन्यतरदिति । अस्मिन्होमे कर्ता स्वयमेव । आचार्येणान्येषामविधानादाश्वलायनेन स्पष्टतया स्वस्यैव मुख्यकर्तृत्वाभिधानाच्च । अशक्तावसांनिध्ये कार्यव्यासक्तौ वा, ऋत्विगादयः ।

तथा च दक्षः--

"ऋत्विक्पुत्रो गुरुर्भ्रीता भागिनेयोऽथ विट्पतिः ।
एतैरेव हुतं यत्तु तद्धुतं स्वयमेव तु" इति ॥

 पुत्रस्थाने पत्नीत्यपि पाठः । स चाऽऽश्वलायनानामनुकूलः । "स्वयं पत्न्यपि वा पुत्रः कुमार्यन्तेवासी वा" इति तत्सूत्रात् । न सत्याषाढसूत्रानुसा रिणामनुकूलः "न स्त्री जुहुयान्नानुपेतः" इति धर्मसूत्रे निषेधात् । अत ए[११]व कुमारीकर्तृकहोमोऽपि न । अयं च निषेधो द्विजनियमार्थ इति व्याख्यातारः । विट्पतिर्जामाता ।

 माधवीये होतृतारतम्यमुक्तम्--

"अन्यैः शतहुताद्धोमादेकः शिष्यहुतो वरम् ।
पुत्रैः शतहुताद्धोमादेको ह्यात्महतो वरम्" इति ॥

कात्यायनः--

"नातिवृद्धो भवेद्धोता नाल्पविद्यो न बालिशः ।
नाऽऽर्तो नासंस्कृतश्चैव अग्निहोत्रादिकर्मसु ॥
नरकं हि पतन्त्येते जुह्वतः स च यस्य तत् ।
तस्माद्वैतानकुशलो होता स्याद्वेदपारगः" इति ॥

 वैतान इत्युपलक्षणं स्मार्तकर्मणः ।

 गोपालः--

"अल्पविद्यैरविद्यैर्वा हुते पत्न्या हुतेऽपि वा ।
जुहुयादग्निहोत्रं च लौकिकाग्नावनापदि ॥
वित्दृत्य तान्व्यात्दृतिभिः कार्ये पूर्णाहुतीष्टिके" इति ॥

 पूर्णाहुतीष्ट्योरत्र समुच्चय इति व्याख्याकृत् । इष्टिरत्र तन्तुमती । बौधायनोक्तेः । स्मार्ते तु, इष्टिस्थाने चरुः । एतच्चानापद्विषयम् । आपदि तु ब्राह्मणमात्रस्याऽऽर्त्विज्यार्थं वरणेऽनादिष्टप्रायश्चित्तेषु आज्यस्थाल्याः स्रुवेणोपहत्य जुहोति प्रजापतये स्वाहा हिरण्यगर्भाय स्वाहा भृगूणां पतये स्वाहाऽङ्गिरसां पतये स्वाहेति सर्वप्रायश्चित्तं च । भृगूणां पतये स्वाहाऽङ्गिरसां त[१२]पसे स्वाहेत्येवमपि पाठः । कार्यव्यासक्तावपि पर्वणि तु स्वयमेव 'पर्वणि यजमानः स्वयमग्निहोत्रं जुहोति' इति पर्वणि स्वकर्तृकत्वनियमात् । यद्यपीदं श्रौतं तथाऽपि श्रौतमध्ये स्मार्ताम्नानबलात्स्मार्तेऽपि लभ्यते । न चैवं वपनमपि पर्वणि प्राप्नोतीति वाच्यम् । 'यज्वनः पर्वणोः क्षौरम्' इति वचने यज्वग्रहणेनाऽऽहिताग्नेरेव पर्वणि क्षौरं न स्मार्ताग्निमत इत्येतादृशार्थस्यैव बोधनात् । यदि त्वशक्तिरसांनिध्यं वा तदाऽन्यो जुहुयादेव न तु सर्वथा लोपो नित्यत्वात् ।

 शक्तौ सांनिध्ये वा पर्वणि स्वयमजुह्वतः प्रायश्चित्तं बृहस्पतिराह--

"आहिताग्निरुपस्थानं न कुर्याद्यस्तु पर्वणि ।
ऋतौ न गच्छेद्भार्यां वा सोऽपि कृच्छ्रार्धमाचरेत्" इति ॥

 अत्रोपस्थानग्रहणं होमोपलक्षणम् । ऋत्विगादिभिरयं होमो दंपत्योः संनिधाने सत्येव कार्यः । अभावेऽन्यतरसंनिधाने । उभयोरप्यसंनिधाने हुतमप्यहुतं भवति ।

 तदुक्तं स्मृत्यर्थसारे--

"असमक्षं तु होतव्यं दंपत्योर्नर्त्विगादिभिः ।
द्वयोरप्यसमक्षं चेद्भवेद्धुतमनर्थकम्" इति ॥

स्मृ[१३]त्यन्तरे--

"संनिधौ यजमानः स्यादुद्देशत्यागकारकः ।
तदभावे तु पत्नी स्यादुद्देशत्यागकारिणी ॥
[१४]तदभावे तु पुत्रः स्यादुद्देशत्यागकारकः" इति ।

 यजमानस्योन्मादे पत्न्यां चर्तुमत्यां प्रसूतायां वा नानुज्ञा पत्न्याः ।

"असंनिधौ तु पत्न्याः स्यादध्वर्युस्तदनुज्ञया ।
उन्मादे प्रसवे चर्तौ कुर्वीतानुज्ञया विना" ॥

 इति मदनपारिजाते स्मृतेः । एतस्मादेव वचनाज्ज्ञायत ऋत्विगादीनां होमार्थमनुज्ञापेक्षाऽस्तीति ।

 अस्ति च स्पष्टं कौर्मं वचनम्--

"ऋत्विक्पुत्रोऽथवा पत्नी शिष्यो वाऽपि सहोदरः ।
प्राप्यानुज्ञां विशेषेण जुहुयात्तु यथाविधि" इति ॥

 विशेषेणेति वचनं ममाऽऽवश्यकं कार्यं किंचिदस्ति मम काचिदापदस्ति त्वया होमः कार्य इति विशेषतोऽनुज्ञापेक्षणार्थम् ।

 अन्यच्च स्मृत्यर्थसारे--

"नोपवासी प्रवासे स्यात्पत्नी धारयते व्रतम् ।
सर्वथा यजमानो[१५] हि त्यजेत्तद्दिङ्मुखः शुचिः" इति ॥

 तद्दिङ्मुखो यस्यां दिश्यग्नयो भवन्ति तद्दिगभिमुख इत्यर्थः ।

 ऋत्विग्लक्षणमाहाऽऽश्वलायनः--

"ऋत्विजो वृणीतेऽन्यूनानतिरिक्ताङ्गान्ये मातृतः पितृतश्चेति
यथोक्तं पुरस्ताद्यून ऋत्विजो वृणीत इत्येके" इति ।

 लाट्यायनद्राह्मायणावपि--

"ऋत्विगार्षेयोऽनूचानः साधुचरणो वाग्ग्म्यन्यूनाङ्गोऽनतिरिक्ताङ्गो
द्वयसतोऽ(मोऽ)नतिकृष्णोऽनतिश्वेतः" इति ।

 प्रमाणे द्वयं द्वयं समं यस्य स द्वयसत(म) इत्यग्निस्वामिधन्विभ्यां व्याख्यातम् ।

 वाधूलोऽपि--"आर्षेयं वृणीते यः स्वानृषीञ्जानाति" इति ।

 एतेनाप्रज्ञातबान्धवानां निवृत्तिः ।

 बौधायनोऽपि--

"अथर्त्विजां वरणं विज्ञायते ब्राह्मणा ऋत्विजो योनिगोत्रश्रुतवृत्तसंपन्ना अग्निगुणाङ्गा अत्रिकिणिनो न परि[१६]खातिक्रान्ता नान्तगा नान्तजा नाननूचाना नहालेयवालेयपुत्रिकापुत्रपरक्षेत्रसहोढकानीनानुजावरद्विप्रवराः" इति ।

तथा--

"योनिवृत्तविद्याः प्रमाणमित्येक इति तांश्चेद्वृणीताव्यापन्नाङ्गानेव वृणीत" इति ।

 योनिः परिशुद्धयोनिः । गोत्रं सद्वंशः । श्रुतमध्ययनम् ।वृत्तमाचारः । तैः संपन्ना युक्ताः । अविगुणाङ्गा अव्यापन्नाङ्गाः । अत्रिकिणिनः, त्रयः किणा येषां ते त्रिकिणिनः । किणा आघातादिना देहगतानि चिह्नानि । अत्रत्यत्रिकिणशब्देन मल्लयुद्धसंनाहार्थास्फोटनज्याघातभारादिवहनैरुत्पन्नाः किणा विवक्षिताः । एतादृशकिणत्रयमध्य एकेनापि किणेन युक्ता न भवेयुरित्यर्थः ।इदमुपलक्षणम् । अविहितकार्येषु भूयोभ्यासजनितचिह्नयुक्ता न भवेयुरिति बोध्यम् । न परिघा(खा) तिक्रान्ताः परिघा(खा) मर्यादा समुद्रवेला तामतिक्रान्ताः समुद्रयायिनो न भवेयुरित्यर्थः । नान्तगाः। अन्तं देशं प्रत्यन्तदेशं म्लेच्छदेशमिति यावत् । तं गच्छन्तीत्यन्तगास्ते न भवेयुः । अन्तवर्णं गच्छन्ति शूद्रस्त्रियं गच्छन्तीति यावत् । ते न भवेयुरित्यन्ये । अन्तमित्युपलक्षणम् । अगम्यां स्त्रियं ये गच्छन्ति तेऽपि न भवेयुरिति द्रष्टव्यम् । नान्तजाः । अन्तजाः पूर्वोक्तदेशजातास्ते न भवेयुः । शूद्रस्त्रियामुत्पन्ना न भवेयुरित्यन्ये । नाननूचाना अनदूचाना अश्रोत्रियास्ते न वरणीयाः । हलेन कृषिं कृत्वा ये जीवन्ति ते हालेयाः । वालमूर्णाप्रकीर्णकादिकं विक्रीय ये जीवन्ति ते वालेयाः ।  कन्यादानसमये--

"अस्यां यो जायते पुत्रः स मे पुत्रो भविष्यति"

 इत्यभिसंधानेन दत्तायां पुत्रिकायां जाताः पुत्रिकापुत्राः । परक्षेत्रे जारेणोत्पन्नाः परक्षेत्राः । विवाहसमय एव गर्भस्थत्वेन मात्रा सह दत्तः सहोढः । कन्यायामविवाहितायां जातः कानीनः । अनुजस्य गुणभूतो ज्येष्ठोऽनुजावरः । एकस्मिन्गोत्र उत्पन्नोऽपरस्मिन्गोत्रे दत्तो द्विप्रवरः । एतान्हालेयादीनृत्विक्त्वेन न वृणीत इत्यर्थः । योनिः परिशुद्धयोनिः । वृत्तमाचारः । विद्या वैदिकविद्या च प्रमाणं वरणप्रयोजकमित्येक आचार्या वदन्तीत्यर्थः । तान्योनिवृत्तविद्यासंपन्नान्यदि वृणीत तदाऽव्यापन्नाङ्गानेव वृणीतेत्यर्थ इति व्याख्यातं भाष्यकृता ।

 धर्मसूत्रेऽपि--"नाननूचानमृत्विजं वृणीते न पणमानम्" इति ।

 साङ्गस्य वेदस्याध्येता प्रवक्ता चानूचानः । नानूचानोऽननूचानः । एतादृशमृत्विजं न वृणीते । नाप्येतावद्देयमिति परिभाषमाणमिति व्याख्यातमुज्ज्वलाकृता । धर्मसूत्रे वचनमौपासनहोमपार्वणस्थालीपाकवैश्वदेवादिषु ऋत्विक्कर्तृकताऽपि पक्षेऽस्तीति प्रदर्शयितुम् ।

 आपस्तम्बोऽपि--

"ब्राह्मणानार्षेयानृत्विजो वृणीते यूनः स्थविरान्वाऽनूचानानूर्ध्व- वाचोऽनङ्गहीनान्' इति ।

 ब्राह्मणानामार्त्विज्यमित्यनेनैव सिद्धे पुनर्ब्राह्मणवचनमादरार्थम् । अथवा तस्माद्वाजपेययाज्यार्त्विजीन इति श्रुतेः क्षत्त्रियस्यापि वाजपेययाजिनः प्राप्तिरत्र शङ्किता निरस्यते । बालवृद्धयोः प्रायः क्रियासु पाटवं न स्यादिति युवस्थविरग्रहणम् । ऊर्ध्ववाचः पटुस्थानकरणा इति रुद्रदत्तः । ब्राह्मणवचनमापद्यपि क्षत्त्रियादिनिवृत्त्यर्थमिति मीमांसकाः ।

"द्विजोत्तमानामार्त्विज्यं न तु क्षत्त्रियवैश्ययोः ।
ब्राह्मणार्त्विज्यनियमः क्रत्वर्थेनापि हि स्मृतः" इति मिश्राः ।

रामायणेऽपि--

"क्षत्त्रियो याजको यस्य चण्डालः स विशेषतः ।
कथं सदसि भोक्तारो हविस्तस्य सुरर्षयः" इति ।

 एतेन क्षत्त्रियादिवृत्त्युपजीविनोऽपि निराकृता इति नवीनाः । गर्भिणीरजस्वलापतिवरणं न कर्तव्यम् ।  तथा च प्रायश्चित्तदर्पणे स्मृतिः--

"रजस्वलाऽङ्गना यस्य गर्भिणी वा यदा भवेत् ।
न यज्ञे वरणे योग्यो गालवो मुनिरब्रवीत्" इति ।

 यज्ञशब्देनाऽऽधानादिकर्माणि गृह्यन्ते । एतच्च स्मार्तकर्मोपलक्षणम् ।

 रुद्रस्कन्धभाष्ये--

"रजस्वलायां भार्यायामार्त्विज्यं श्राद्धभोजनम् ।
यात्रामम्बुनिधिस्नानं वर्जयेत्तत्पतिः सदा ।

 गर्गः--

क्षुरकर्म तथाऽऽर्त्विज्यं यात्राम(चा)भ्यङ्गमेव च ।
देवतार्चां(र्चा) परगृहे सागरस्नानमेव च ।
श्राद्धभुक्तिं च(क्तिश्च) वर्ज्यं स्याद्यदि पत्नी रजस्वला ।

शाट्यायनिः--

रजस्वलापतिर्यात्रामार्त्विज्यं श्राद्धभोजनम् ।
सिन्धुस्नानं तथाऽभ्यङ्गं क्षुरकर्म च वर्जयेत् ।

  तत्र ऋत्विजस्त्रिविधा देवभूताः पितृभूता मनुष्यभूताश्च । तत्र स्वेनैव
  कर्मणि कर्मणि वृतास्ते देवभूताः । ये तु पूर्वैर्वृता एव कर्मणि प्रव-
  र्तन्ते ते पितृभूताः । ये तु स्वेनैव सर्वकर्मार्थं सकृदेव वृतास्ते मनुष्य-
  भूताः" इति ।

 तत्रेदानीं मनुष्यभूता एवर्त्विजः । आशौचं तु पितृभूतदेवभूतानामेवर्त्विजां न मनुष्यभूतानामिति द्रष्टव्यम् । होमे पत्न्या अपि सांनिध्यमपेक्षितम् । 'पत्युर्नो यज्ञसंयोगे' इति पाणिनिस्मृत्या पत्नीशब्दस्य यज्ञसंयोग एवोत्पन्नत्वात् । 'असमक्षं तु होतव्यं दंपत्योर्नर्त्विगादिभिः ' इतिवचनाच्च ।

 असंनिधाने सर्वप्रायश्चित्तं होतव्यम् । अनालम्भुका चेन्न दोषः । प्रवसति यजमाने यदाऽनालम्भुका तदा तया गृहान्तरान्तरितया न स्थातव्यं किं त्वौपासनाग्निगृहसमीपे बहिरेवेत्यग्निहोत्रहोमप्रायश्चित्तप्रकरणे व्याख्यातारः ।

 श्रौतस्मार्तहोमयोः पूर्वापरभावे पक्षद्वयमाह भरद्वाजः--

"होमं वैतानिकं कृत्वा स्मार्तं कुर्याद्विचक्षणः ।
स्मृतीनां वेदमूलत्वात्स्मार्तं केचित्पुरा विदुः" इति ।

 उ(औ)पासनप्रशंसा भरद्वाजसूत्रे--

"यथैश्वर्यबलादीश्वराः स्वान्देहान्परित्यज्यान्येषां देहान्प्रविश्य पुनरात्मदेहान्प्रत्यागच्छन्ति, न च तेन दुर्ज्ञायते, औपासनेऽग्नयो विनि(निवि)ष्टा औपासनौ(नो) यजमाने तस्मादौपासनान्न प्रमदितव्यं यथ ऋषभ ऋष   भायां वत्सं जनयत्येवमौपास[१७]नेऽग्निहोत्रं व्यापन्नं भूयो जनयति, औपा-
  सनस्यैवैषा संततिर्यदग्निहोत्रं तदु तथा न कुर्यान्न विद्यत औपास-
  नाग्निहोत्रयोर्विवेचनमुभयं जुहुयादौपासनमग्निहोत्रं चाथापि विज्ञायते
  सप्त पाकयज्ञसंस्था औपासने चतुर्दशाग्निहोत्रे" [ इति ] ।

 औपासनहोमं प्रशंसत्यङ्गिराः--

"यद्दद्यात्काञ्चनं मेरुं पृथिवीं च ससागराम् ।
तत्सायंप्रातर्होमस्य तुल्यं भवति वा न वा" इति ।

 अकरणे प्रत्यवायमाह गर्गः--

"कृतदारो न तिष्ठेत क्षणमप्यग्निना विना ।
तिष्ठेत चेद्द्विजो व्रात्यस्तथा च पतितो भवेत् ।
यथा स्नानं यथा संध्या वेदस्याध्ययनं यथा ।
तथैवौपासनं कार्यं न स्थितिस्तद्वियोगतः ।
यो हि हित्वा विवाहाग्निं गृहस्थ इति मन्यते ।
अन्नं तस्य न भोक्तव्यं वृथापाको हि स स्मृतः ।
यत्र नाश्नन्ति वै देवाः पितरोऽतिथयस्तथा ।
वृथापाकः स विज्ञेयो न तस्याद्यात्कथंचन ।
वृथापाकस्य भुञ्जानः प्रायश्चित्तं समाचरेत् ।
प्राणायामशतं कृत्वा घृतं प्राश्य विशुध्यति" इति ।

 प्रतिप्रसवमाह स एव--

"पितृपाकोपजीवी च भ्रातृपाकोपजीवकः ।
ज्ञानाध्ययननिष्ठो वा न दुष्येताग्निना विना" इति ।

बौधायनेन विधुरस्य विवाहासामर्थ्येऽनाश्रमित्वदोषपरिहारायोपाय उक्तः--

"अथातो मृतपत्नीकस्य विवाहासमर्थस्य होमविधिं व्याख्यास्यामः प्रणवेन लौकिकाग्निं परिगृह्यान्वग्निरुषसामग्रमख्यदित्यानीय पृष्टो दिवीति प्रतिष्ठाप्य तत्सवितुस्ता सवितुरद्या नो देव सवितर्विश्वानि देव   सवितरिति चतसृभिश्चतस्रः समिधोऽभ्याधायाग्निमलंकृत्यौपासनं जुहुयादेवमहरहः काले प्रणवादिहोमान्तं कुर्यादाविवाहादासंन्यासाद्वा मरणादनाश्रमदोषो नास्तीत्याह भगवान्बौधायनः" इति ।  शाकलेन तु पार्वणस्थालीपाकाग्रयणकर्मणोरपि क्रियोक्ता--

"स्थालीपाकद्वयं कुर्यात्तथैवाऽऽग्रयणं च हि ।
कुर्यादित्याहुराचार्यास्तस्मिन्नेव हुताशने" इति ।

 भारद्वाजीयपितृमेधसूत्रेऽपि--

"दारकर्मणि यद्यशक्त आत्मार्थमग्न्याधेयं कुर्याद्दर्शपूर्णमासावाग्रयणं
च शेषाणि कर्माणि न भवन्ति" इति ।

 अर्धाधानिनाऽपि दर्शपूर्णमासस्थालीपाकौपासनहोमा न कर्तव्या इति केचित् । कर्तव्या इत्यन्ये ।

अथ प्रयोगः ।

 पाणिग्रहणोत्तरं गृहप्रवेशनीयात्प्रागनन्तरं वा यावज्जीवमस्तमितनक्षत्रदर्शनप्रदोषान्यतमे मुख्यकाले चतुर्धा विभक्ताया रात्रेराद्यभागात्मके गौणकाले वा सायंहोमः ।प्रातर्होमस्तूषःपुरोदयोदितपक्षिवाक्प्रवदनकालान्यतमे मुख्यकाले पञ्चधा विभक्तदिवसस्य प्रथमभागद्वयात्मके गौणकाले वा । मुख्यकाल एव प्रथमारम्भ इति केचित् । गौणकालेऽपीत्यन्ये । वस्तुतस्तु गौणकालो विशेषतो विहित एव ग्राह्यः । अन्यथा तृतीयादिषु प्रथमपार्वणस्थालीपाकानुष्ठानापत्तेः । न ह्यत्र गौणकालस्य विशेषतो विधानं किं तु स्वकालादुत्तरो गौण इति सामान्यतो विधानम् । औपासनहोमादौ त्वस्ति विशेषतो गौणकालस्य विधानम्--

"प्रदोषान्तो होमकालः[१८] सायं संगवान्तः प्रातः" इति ।

 अतः प्रथमोपासनहोमः प्रदोषसंगवात्मके विहिते गौणकालेऽपि भवति । सुदर्शनेनाप्येतदभिप्रेत्यैवेत्थमुक्तम्--यदि नव नाड्यो नातीताः स्युस्तदा प्रथमौपासनारम्भ इति । सायमेवोपक्रमः । सायंप्रातरेकमेव द्रव्यमेक एव कर्ता । पर्वणि स्वयमेव जुहुयात् ।

 सपत्नीकः कर्ताऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्य श्रीपरमेश्वरप्रीत्यर्थं सत्यधिकारे यावज्जीवं सायंप्रातरौपासनहोमौ होष्यामीति संकल्पं कुर्यात् । अग्निहोत्रहोमारम्भोत्तरमर्धाधानिनाऽप्यौपासनहोमो न कार्य इत्येतन्मतमेव मया स्वी क्रियत इति निश्चिते तु अग्निहोत्रहोमारम्भपूर्वतनकालपर्यन्तं सायंप्रातरौपासनहोमौ होष्यामीति संकल्पे विशेषः । वस्तुतः करणपक्ष एव युक्तः ।

 ततो गणेशं संपूज्य पुण्याहादि वाचयित्वाऽग्निसूर्यप्रजापतयः प्रीयन्तामिति वदेत् । प्रातरप्यग्नेर्देवतात्वपक्षेऽग्निप्रजापती प्रीयेतामित्यूहः । एतदन्तं प्रथमप्रयोग एव न तु प्रतिप्रयोगम् ।

 ततः पुनराचमनप्राणायामदेशकालसंकीर्तनानि कृत्वा श्रीपरमेश्वरप्रीत्यर्थं सायंप्रातरौपासनहोमौ होष्यामि । इदानीं सायमौपासनहोमं व्रीहिभिर्होष्यामीति संकल्पं कुर्यात् । यवैरिति यवपक्षे । अथवा सायमौपासनहोमं व्रीहिभिर्यवैर्वा होष्यामि प्रातरौपासनहोमं व्रीहिभिर्यवैर्वा होष्यामीति भिन्नौ संकल्पौ । अस्मिन्पक्षे न द्रव्यैक्यकर्त्रैक्यनियमः । उभयपक्षेऽपि संकल्पवाक्ये द्रव्योल्लेखो न वा कर्तव्यः ।

 ततश्चत्वारि शृङ्गेति ध्यात्वाऽग्निं परिस्तीर्य होमद्रव्यमग्नेरुत्तरतो निधाय तदुपरि प्रागग्रां प्रादेशमात्रीमेकां समिधं द्वे वा प्रागग्रे प्रादेशमात्र्यौ समिधौ निधाय दक्षिणेन हस्तेनौपासनाग्नौ प्रज्वलितैर्दर्भैरवाचीनज्वालैरुपरि ज्वलयित्वा ज्वलितान्दर्भान्सव्यहस्ते गृहीत्वा दक्षिणेन दर्भाग्रे अङ्गुष्ठपर्वमात्रे तस्मिन्प्रक्षिप्य प्रज्वलितान्दर्भान्दक्षिणेन हस्तेन बहिर्निरस्याप उपस्पृश्यान्यान्दर्भानादायौपासनाग्नौ प्रज्वलितैः पर्यग्नि कृत्वा तानपि दर्भान्बहिर्निरस्याप उपस्पृश्याग्नेः पश्चात्कूर्चे होमद्रव्यं निदधाति । न वा दर्भाग्रप्रत्यसनं सूत्रान्तरीयत्वात् । अस्मिन्पक्ष उपरिज्वलनोत्तरं सव्यहस्ते ग्रहणं न । श्रौतभक्तत्वात्पर्यग्निकरणं तु भवत्येव । एवं कूर्चे निधानं च । त[१९]तः पूर्वपरिषेकं कुर्यात् । ततो विवाहहोम उक्तेन प्रकारेण दक्षिणं हस्तं संमृज्य यस्त्वा हृदेत्यग्निमभ्यर्च्य तूष्णीं होमद्रव्योपरिस्थां समिधं प्रागग्रामग्नावाधाय द्वादशपर्वपरिमितं होमद्रव्यं संस्पृष्टाङ्गुलिदक्षिणहस्ततले गृहीत्वाऽग्नये स्वाहेति ज्वलन्त्यां समिधि मूलाद्द्व्यङ्गुलपरिमितं प्रदेशं त्यक्त्वोत्तरपार्श्वेन जुहोति । अग्नय इदं न मम ।

 ततः पूर्वाहुतितोऽधिकमवशेषितं होमद्रव्यं सर्वमादाय प्रजापतिं मनसा ध्यायन्प्रजापतये स्वाहेति मनसा मन्त्रमुच्चारयन्पूर्वाहुतितो द्व्यङ्गुलपरिमितं प्रदेशं त्यक्त्वोत्तरपार्श्वेनैव जुहोति । प्रजापतय इदं न मम । द्रवद्रव्यहोमे तु दर्व्या स्रुवेण वा होमः ।

 ततो द्वितीयां समिधमादध्यात् । न वा द्वितीयसमिदाधानम् । अस्मिन्पक्षे पर्यग्निकरणकाल एकैव समित् ।

 ततः परिस्तरणान्यग्नेरुत्तरतो विसृज्योत्तरपरिषेकं कुर्यात् । न वा परिस्तरणपूर्वपरिषेकपरिस्तरणविसर्गोत्तरपरिषेकाः ।  ततोऽग्निर्मूर्धेत्यादिमन्त्रत्रयस्याग्निर्ऋषिरग्निर्देवता । गायत्री छन्दः । प्रजापत इत्यस्य विश्वे देवा ऋषयः । प्रजापतिर्देवता । त्रिष्टुप्छन्दः । उपस्थाने विनियोगः । 'ॐ अग्निर्मूर्धा दि० त्वामग्ने० अयमग्निः०' इति त्रिभिर्मन्त्रैरग्निमुपस्थाय 'ॐ प्रजापते न०' इति प्रजापतिमुपतिष्ठते । ( [२०] जप एव वा । अस्मिन्पक्षे जपे विनियोग इति विनियोगवाक्ये विशेषः। ) ततः संस्थाजपं कृत्वाऽग्निं संपूज्य भस्म धृत्वा श्रद्धां मेधामिति संप्रार्थ्य नमस्कृत्यानेन सायमौपासनहोमेन श्रीपरमेश्वरः प्रीयतामिति कर्मेश्वरायार्पयेत् । प्रातरौपासनहोमे तु प्रातरौपासनहोमं व्रीहिभिर्होष्यामीति संकल्पः । यवैरिति यवपक्षे । अग्नये स्वाहा सूर्याय स्वाहेति वेति पूर्वाहुतौ देवताविकल्पः । अग्नेर्देवतात्वपक्षे सायंहोमवदेवोपस्थानम् । सूर्यस्य देवतात्वपक्षे तु--उद्वयमुदु त्यं चित्रमिति मन्त्रत्रयस्य सोम ऋषिः । सूर्यो देवता । प्रथमस्यानुष्टुप् । द्वितीयस्य गायत्री । तृतीयस्य त्रिष्टुप् । उपस्थाने विनियोगः । 'ॐ उद्वयं० उदु त्यं० चित्रं०' इति त्रिभिर्मन्त्रैः सूर्योपस्थानं कृत्वा प्रजापत्युपस्थानादि समानम् । तत्र प्रातरौपासनहोमेन श्रीपरमेश्वरः प्रीयतामितीश्वरार्पणवाक्ये विशेषः । पयोहोमे तु पयोधिश्रपणार्थं बहिरङ्गारनिरूहणं कृत्वा तत्राधिश्रित्य स्रुवपरिमितजलप्रत्यसनं कार्यमेव स्वसूत्रोक्तत्वात् । श्रौतभक्तत्वादत्र प्राप्तिः । दधिसोमतण्डुलानां तु अङ्गारेष्वधिश्रयणं प्रतिषेकश्च न । 'यदन्यदधिश्रयणात्प्रतिषेकाच्च तद्दध्नस्तण्डुलाना सोमस्य च क्रियते' इति वचनात् । दध्यत्र लौकिकम् । तण्डुलास्तु व्रीहीणां तत्रैव सार्वजनीनप्रसिद्धेः । सोमस्य रस एव न वल्ली । पूतीकास्तु यागार्थ एव प्रतिनिधिर्वाचनिको न सर्वत्र । एतेषु दर्भाग्रद्वयप्रत्यसने विकल्पो व्रीहियववत् । यवाग्वां तु पूर्वं प्रतिषेकः पश्चादवेक्षणम् 'प्रतिषेकं यवागूं श्रपयति' इति सूत्रव्याख्यावसरे वैजयन्तीकारोक्तेः । एवमेवौदने । यवागूशब्देन शिथिल ओदन उच्यते । तण्डुलवद्यवगोधूमप्रियंगुव्रीहितिलेषु । तैले दर्भाग्रद्वयप्रत्यसने विकल्पः । आज्ये तु दर्भाग्रद्वयप्रत्यसनं नियतमिति द्रष्टव्यम् । स्वस्यासामर्थ्येऽस्मिन्नौपासनहोम ऋत्विजं त्वामहं वृण इति होमार्थमृत्विजं वृत्वा तेन कारयेत् । त्यागस्तु स्वकर्तृक एव पत्न्या वा । पत्न्या अनधिकारे तु तदनुज्ञाभावेऽप्यृत्विजो वेति द्रष्टव्यम् । अत्र मध्ये प्रायश्चित्तहोमः पतति चेत्तदा होमस्थाने होममन्त्रजप एव । अनाज्यवति कर्मणि जपः । आज्यवति होम इति व्याख्या- तृभिरुक्तत्वात् । दीक्षायां गृहीतायां न दीक्षितो जुहोतीति निषेधात्क्रतुसमाप्तिपर्यन्तं न होमः ।

इत्यौपासनहोमः ।


अथ प्रसङ्गात्समस्यहोमः ।

 तत्र प्रजापतिः--

"सायंप्रातस्तनौ होमावुभौ सायं समस्य तु ।
आपन्नो जहुयात्तत्र समिदेकाऽथवा द्वयम् ॥
सायंहोमस्य मुख्यत्वात्तदीयं तन्त्रमिष्यते ।
चतस्त्र आहुतीः कुर्यात्तत्र द्वे सायमाहुती ॥
द्वे प्रातराहुती सायंहोमे चैका समिद्यदि ।
समित्कृता द्वितीया चेत्सा भवेत्प्रातराहुतौ ॥
द्विः सायंहोमवन्मृज्याद्द्विः प्रातर्होमवत्स्रु[२१]चम् ।
उपस्थानं सकृत्कार्यं शेषं प्रकृतिवद्भवेत् ॥
केचिद्द्वे आहुती हुत्वा संवेश्यैव निमील्य वा ।
विच्छिद्यैवं[२२] तु तौ होमौ कुर्याद्द्वे आहुती ततः ॥
गुर्वापदि समस्यन्ते प्रातः सर्वे कदाचन ।
यावन्तोऽत्र समस्यन्ते सर्वे सायमुपक्रमाः ॥
प्रातःकालापवर्गाश्च न तु प्रातरुपक्रमाः" इति ।

अथ पक्षहोमविधिः ।

 तत्र मण्डनस्मृत्यर्थसारौ--

"आमयाव्यार्तिमानापद्गतो वाऽध्वगतोऽपि वा ।
राष्ट्रभङ्गे धनाभावे गुरुगेहे वसन्नपि ॥
अन्येष्वेवंप्रकारेषु निमित्तेष्वागतेषु च ।
समासमग्निहोत्राणां यथासंभवमाचरेत् ॥
निमित्तानामिहैतेषां निर्दिश्यैकं यदुच्यते ।
तत्सर्वेषु निमित्तेषु जानीयात्प्रतिपादितम् ॥
पक्षहोमानशेषान्वा शेषहोमानथापि वा" इति ।

 अग्निहोत्राणामित्यनेनाग्निहोत्रहोमतुल्यत्वादौपासनहोमानामपि ग्रहणम् ।

 'य आहिताग्नेर्धर्मः स्यात्स औपासनिकस्य तु' इत्युक्तेः । अशेषान्पक्षत्यादीन्पक्षान्तावधिकान् । शेषान्यत्किंचित्पूर्वावधिकान् ।

 यत्तु--

"तृतीयायां चतुर्थ्यां वा पञ्चम्यां वा परत्र च ।
तदादीनां तदन्तानां होमानां शेषसंज्ञिता" ॥

 इति त्रिकाण्डीवचनात्तृतीयाया एवं पूर्वावधित्वं न तु द्वितीयाया इति वदन्ति तत्पामरप्रतारणमात्रम् । एतस्य वचनस्य त्रिकाण्ड्यामनुपलम्भात् ।

 मरीचिः--

"शरीरापद्भवेद्यत्र भयार्तश्च प्रजायते ।
यथाऽन्यास्वपि चाऽऽपत्सु पक्षहोमो विधीयते ॥
हुतेषु पक्षहोमेषु मध्ये तस्मान्निवर्तते ।
होमं पुनः प्रकुर्याच्चेन्न चासौ दोषकृद्भवेत्" इति ॥

 चेदित्यनेन विकल्पः सूच्यते । पक्षहोमग्रहणं शेषहोमोपलक्षणमित्याचाररत्ने ।

बौधायनोऽपि--

"अथाऽऽपद्यग्निहोत्राणां समासो राष्ट्रविभ्रमे व्याधिपीडा-
यामध्वगमनप्रसङ्गे गुरुकुलवासापेक्षायां मातृपितृकलत्रपुत्रा-
द्यत्यये बलवतो निरोधादौ देशकालद्रव्यानुपपत्तौ चात्य-
न्तापत्सु" इति ।

 अग्निहोत्राणामग्निहोत्रसंबन्धिनां होमानाम् । राष्ट्रविभ्रमो राष्ट्रविक्षोभः । विशिष्ट आधिर्व्याधिर्मानसं दुःखं, पीडा बाह्यं दुखम् । अत्ययो नाशः । बलवतो निरोधो बलवत्कर्तृको निरोधः । बलवति निरोधादावितिपाठे बलवत्त्वविशेषणं निरोधादीनां द्रष्टव्यम् ।

 मण्डनोऽपि-- "आपदेवावधिस्तत्र न पक्षगणनावधिः" इति ।

 आलस्यादिना समस्यहोमे दोषमाह गोपालः--

"नैतज्जामितया कार्यं न रागान्न च लोभतः ।
नैतच्छक्तिं दधानस्तु कुर्याच्छ्रद्धालुरापदि ॥
अनापद्याचरन्निष्ट्या तन्तुमत्या यजेत सः" इति ।

 जामिताऽऽलस्यम् । शक्तिमाञ्जामितया रागेण लोभेन वा नैतत्समस्यहोमविधिमनुतिष्ठेत् । आपदि त्वनुतिष्ठेदेव । अनापदि यद्यनुतिष्ठेत्तदा तन्तुमत्येष्ट्या यजेदित्यर्थः ।  अत्र तन्तुमतीष्टिस्थाने तान्तुमतः स्थालीपाकः ।

"य आहिताग्नेः पुरोडाशास्तेऽनाहिताग्नेश्चरवः" ।

 इति शास्त्रान्तरात् ।

यज्ञपार्श्वे तु--

"अनातुरोऽप्रवासी च निश्चिन्तो निरुपद्रवः ।
पक्षहोमं तु यो दद्यात्स चरेत्पतितव्रतम्" इति ॥

 पूर्वं प्रायश्चित्तमनभ्यासविषयम् । यज्ञपार्श्वोक्तं त्वभ्यासविषयमिति व्यवस्था । समुच्चय इति केचित् । एवं संततं पक्षत्रयं न कर्तव्यम् ।

 तथा च मण्डनः--

"तृतीयेऽनन्तरे पक्षे समासं न समाचरेत्" इति ।

 तथा--

"कृच्छ्रेणापि विनिर्वृत्य तत्र होमान्दिने दिने ।
पक्षान्तरे पुनः कामं पक्षहोमादिमाचरेत्" इति ॥

 सर्वथैतदसंभवे स एवाऽऽह--

"आपच्चेदनुवर्तेत यावज्जीवं कथंचन ।
यावज्जीवमविच्छिन्नान्पक्षहोमान्समाचरेत्" इति ॥

 यत्तु चन्द्रिकायां--

"यदि पक्षहोमेन पक्षत्रयमतीयात्पुनराधानम्" इति तदनापत्तिपरम् ।

 विशेषः स्मृतिभास्करे--

"सर्वथौपवसथ्याहे सायं होमः पृथग्भवेत् ।
तथैव यजनीयेऽह्नि प्रातर्होमो भवेत्पृथक्" इति ॥

मण्डनः[२३] --

"पर्वोपवासशून्यं चेत्प्राप्तं केनापि हेतुना ।
तदा तत्सायंहोमोऽपि पूर्वैः सह समस्यते" इति ॥

अथ प्रयोगः ।

 आपन्निमित्तं प्रतिपत्सायंकालमारभ्य चतुर्दशीसायंकालपर्यन्तममुकसंख्याकान्सायमौपासनहोमानापन्निमित्तं द्वितीयाप्रातःकालमारभ्य पौर्णमासीप्रातःकालपर्यन्तममुकसंख्याकान्प्रातरौपासनहोमांश्चापकृष्य तन्त्रेण होष्यामि । तत्रेदानीमापन्निमित्तं प्रतिपत्सायंहोममारभ्य चतुर्दशीसायंकालपर्यन्तममुकसंख्याकान्सायमौपासनहोमांस्तन्त्रेण व्रीहिभिर्यवैर्वा होष्यामीति सायम् । आपन्निमित्तं द्वितीयाप्रातःकालमारभ्यामुकपर्वप्रातःकालपर्यन्तममुकसंख्याकान्प्रातरौपासनहोमांस्तन्त्रेण व्रीहिभिर्यवैर्वा होष्यामीति प्रातः । भिन्नसंकल्पपक्षे तत्रेदानीमित्यन्तं नास्ति । शेषहोमविधौ तु अमुकदिनसायंकालमारभ्य चतुर्दशीसायंकालपर्यन्तममुकसंख्यान्सायमौपासनहोमांस्तन्त्रेण व्रीहिभिर्यवैर्वा होष्यामीति सायम् । अमुकदिनप्रातःकालमारभ्यामुकपर्वप्रातःकालपर्यन्तममुकसंख्याकान्प्रातरौपासनहोमांस्तन्त्रेण व्रीहिभिर्यवैर्वा होष्यामीति प्रातः । अथवाऽऽरभ्येत्यन्तं न कुत्रापि वदेत् । यदा तु केनचिन्निमित्तेन भाविपर्वण्यन्वाधानाभावनिश्चयस्तदा तत्सायंहोमस्यापि पूर्वैः सह समास इति केचित् । एवमप्यापत्तिर्न गच्छेच्चेत्पुनः पक्षान्तरेऽपि तथैव कुर्यात् । तृतीये पक्ष आपत्तौ सत्यामपि न पक्षहोमसमासः । किंतु शेषहोमसमास एव । एवं शेषसमस्ययोरपि । यदि कदाचित्पक्ष[२४]होमद्वयानन्तरमत्यावश्यकतया गमनप्रसक्तिस्तदा द्व्याहिकत्र्याहिकसमस्यहोमौ प्रतिपद्दिने कृत्वा ग्रामान्तरं गत्वा शेषहोमाः कार्या इति केचित् । यदि सायंपक्षहोमानन्तरमेव शेषहोमानन्तरमेव वा तस्यामेव रात्रौ प्रातःकालादर्वागेव महदा(हा)पत्तिस्तदा तत्काल एव निमीलनेन दिनव्यवधानं भावयित्वाऽग्नीन्पुनः प्रातःकालवद्विहृत्य प्रातर्होमाः समस्य कार्याः । सायं महत्यापत्तिश्चेत्सायमेव कालद्वयहोमान्कुर्यात् । महदा(हा)पत्तिनिमित्तममुकदिनसायंकालमारभ्य चतुर्दशीसायंकालपर्यन्तममुकसंख्याकान्सायंहोमानमुकदिनप्रातःकालमारभ्यामुकपर्वप्रातःकालपर्यन्तममुकसंख्याकान्प्रातर्होमांश्च सायमेव समासेनामुकद्रव्येण होष्यामीति संकल्प्य यथोक्तविधिपूर्वकं सायंकालिकमाहुतिद्वयं हुत्वा कंचित्कालं विरम्य निमील्यानन्तरमेव प्रातःकालिकमाहुतिद्वयं होतव्यम् । अग्नेर्देवतात्वपक्षे संप्रतिपन्नदेवताकत्वेऽपि निमीलनधर्मेण व्यवधानात्पृथगेवाऽऽहुतिद्वयम् । प्रातर्महत्यामापत्तौ तु महदा(हा)पत्तिनिमित्तममुकप्रातःकालपर्यन्तममुकसंख्याकान्प्रार्होमानमुकदिनसायंकालमारभ्य चतुर्दशीसायंकालपर्यन्तममुकसंख्याकान्सायंहोमांश्च प्रातरेव समासेनामुकद्रव्येण होष्यामीति संकल्प्य यथोक्तविधिपूर्वकं प्रात:कालिकमाहुतिद्वयं पूर्वं हुत्वा कंचित्कालं विरम्य सायंकालिकमाहुतिद्वयं होतव्यम् । अत्रापि विरामे[२५]ण व्यवधानात्पृथगेव प्रातराहुतिद्वयम् । यदा तु दीर्घकाल महत्तरापत्तिसंभावना तदा यावज्जीवमविच्छिन्नान्पक्षहोमान्कुर्यात् । सर्वत्राऽऽपत्त्यवसानमेवावधिर्न पक्षगणनावधिः । पक्षहोमे शेषहोमे वा कृते यद्यन्तराल आपन्निवर्तेत तदा प्राग्घुतानां वैकल्पिकी कर्तव्यता । पक्षहोमादौ कृते सत्युदयास्तमययोः प्रादुष्करणाभावेऽपि न प्रायश्चित्तं तस्य होमार्थत्वादिति वृद्धाः ।

इति संस्काररत्नमालायामौपासनहोमपक्षहोमशेषहोमप्रयोगः ।

इत्योकोपाह्वश्रीमत्साग्निचिद्वाजपेयपौण्डरीकयाजिसर्वतोमुखया-
जिगणेशदीक्षिततनूजभट्टगोपीनाथदीक्षितविरचितायां
सत्याषाढहिरण्यकेशिस्मार्तसंस्काररत्नमालायां
त्रयोदशं प्रकरणम् ॥ १३ ॥

  1. १ग. होम्या । च. सौम्यं ।
  2. ङ. च काम्यं ।
  3. धनुश्चिह्नान्तर्गतं क. ख. पुस्तकयोर्नास्ति ।
  4. ख. ग. ङ. च. लः सं ।
  5. ग. र्यादित्यासा । ङ. च. र्याद्यत्त्वासा' ।
  6. ख. ग. ङ. च. कृतं ।
  7. धनुश्चिह्नान्तर्गतं न समीचीनार्थकम् ।
  8. क. पेणैव हो ।
  9. जर्तिला आरण्यकृष्णतिलाः । अतसी जवस कुसुम्भः कर्डी, इति भाषया प्रसिद्धा ।
  10. क. ष्ये--य ।
  11. ख. ग. ङ. च. एवैवं कु ।
  12. ग. ङ. च. पतये ।
  13. म. ड. च. आचाररत्ने स्मृत्यर्थसारे ।
  14. इदमर्ध क. ख. पुस्तकस्थम् ।
  15. ङ. नोऽपि त्य ।
  16. ग. रिघाति ।
  17. ख. ग ङ. च. सनोऽग्नि ।
  18. ख. ग. ङ. च. लः स ।
  19. ख. ग. ङ. च. ततो ।
  20. धनुश्चिह्नान्तर्गतं क. ख. पुस्तकयोरेव ।
  21. ङ. च. त्स्रुवम् ।
  22. ख. ग. ङ. च. वं तन्तुहो ।
  23. ख. ग. ड. च. नः--पूर्वो ।
  24. ङ. घ. क्षद्वयहोमान ।
  25. क. ङ. च. मेऽप्यव । ख. ग. मेऽप्यव्य ।