अथ पञ्चमं प्रकरणम् ।

अथात्र प्रसङ्गात्संस्कारान्नभोजनप्रायश्चित्तमुच्यते ।

 तत्र प्रायश्चित्तविवेकेऽङ्गिराः--

"जन्मप्रभृतिसंस्कारे वालस्यान्नस्य भोजने ।
असपिण्डैर्न भोक्तव्यं श्मशानान्ते विशेषतः " इति ।।

 व्यासः-

"निवृत्ते चौलहोमे तु संस्कारे तु द्विजोत्तमः ।
चरेत्सांतपनं भुक्ता जातकर्मणि चैव हि ॥

अतोऽन्येषु तु भुक्त्वाऽन्नं संस्कारेषु द्विजोत्तमः ।
नियोगादुपवासाच्च शुध्यते निन्द्यभोजने " इति ॥

 नियोगः प्राणायामः ।

 धौम्यः--

"ब्रह्मौदने च सोमे च सीमन्तोन्नयने तथा ।
जातश्राद्धे नवश्राद्धे भुक्त्वा चान्द्रायणं चरेत् " इति ॥

 आपस्तम्बः--

" यज्ञियान्नं[१] नवश्रा[२]द्धं संग्रहे चैव भोजनम् ।
स्त्रीणां प्रथमगर्भे च द्विजश्चान्द्रायणं चरेत् " इति ।

 यज्ञियान्नं यज्ञसंबन्ध्यन्नम् । यज्ञसंबन्ध्यन्नस्याभोज्यताऽग्नीष्टोमीयसमाप्ति पर्यन्तम्, अग्नीष्टोमीयवपाहोमपर्यन्तं वा राजक्रयपर्यन्तं वा । आरम्भसमय एव द्रव्यनिर्देशो यजमानेन कृतश्चेत्तदा न दोषः ।

 एतत्सर्वमुक्तं धर्मसूत्रे--

  "अग्नीषोमीयसंस्थायामेव दीक्षितस्य भोक्तव्यं हुतायां वा वपायां क्रीते वा राजनि यज्ञार्थं वा निर्दिष्टे शेषाद्भुञ्जीरन्निति ब्राह्मणम्" इति ।

 संस्था समाप्तिः । क्रीते वा राजनीतिपक्ष आपत्तौ ।

 अग्निष्टोमयाजमानसूत्रे--

 “यदस्य यज्ञार्थं तन्निरादिश्य शेषाद्भुञ्जतेऽनिरादिश्य न भुञ्जते प्रागग्नीषोमीयात् " इति ।

 अस्य दीक्षितस्य । पूर्वत्र तस्यैवोपक्रमात् । यद्रव्यं यज्ञार्थं कल्पितं तन्निरादिश्य यज्ञार्थमेतन्मध्य एतावदिति निरादिश्य । अन्तर्भावितण्यर्थोऽत्र । तेन निरादेश्य निरादेशं निरादेशनं निर्देशनमिति यावत् । तद्यजमानं कारयित्वा शेषाद्ब्राह्मणा भुञ्जत इत्यर्थः । अन्यत्स्पष्टम् । संग्रहो विवाहः ।

 यत्तु-

"सर्वेष्वपि च संस्कारेष्वन्नं भुङ्क्ते द्विजो यदि ।
नियोगमुपवासं च प्रायश्चित्तं समाचरेत्"।

 इति चूडादिसर्वसंस्कारेषु नियोगोपवासविधानं तदापद्विषयं बोध्यम् ।

अथान्तरितसंस्काराणां प्रयोगः ।

 तत्राऽऽदौ तल्लोपप्रायश्चित्तम् ।

 तत्र स्मृतिः-

" आरम्याऽऽधानमा चौलात्कालेऽतीते तु कर्मणाम् ।
व्याहत्याऽऽन्यं सुसंस्कृत्य हुत्वा कर्म यथाक्रमम् ॥
एतेष्वेकैकलोपेऽपि पादकृच्छ्रं समाचरेत् ।
चूडाया अर्धकृच्छ्रे स्यादापदि त्वेव भाषितम् ।
अनापदि तु सर्वत्र द्विगुणं द्विगुणं भवेत् " इति ॥

 आधानं गर्भाधानमारभ्य चौलान्तानां संस्काराणां सर्वेषामसर्वेषां वा कालेऽतीते कालातिक्रमे सत्याज्यं संस्कृत्य व्याहृत्या समस्तव्याहृतिभिः कर्मसंख्ययाऽऽज्याहुतीर्हत्वा तावत्संख्ययाऽऽपदि पादकृच्छ्रं चूडातिक्रमनिमित्तमर्धकच्छ्रं प्रायश्चित्तं कुर्यात् । अनापदि तु चूडातिक्रमनिमित्तं कृच्छ्रमितरत्रार्धकृछ्रमिति विशेषः । ततोऽतीतं यथाक्रमं कर्म चरेत् । कालेऽतीते त्वित्यत्र तुशब्दोऽप्यर्थे । तेन लोपस्यापि संग्रहः । यदि भ्रमादन्तरितं कर्म तदीयान्तरितप्रायश्चित्तं वाऽकृत्वैवाग्रिमसंस्कारं करोति तदा पूर्वस्य लोप इतरथाऽतिक्रमः । तत्र लोपेऽप्यतिक्रान्तप्रायश्चित्तवदेव प्रायश्चित्तं द्रष्टव्यम् । परं त्वतीतकर्मानुष्ठानमत्र नास्ति ।

"प्रायश्चित्ते कृते पश्चादतीतमपि कर्म वै ।
कार्यमित्येक आचार्या नेत्यन्ये तु विपश्चितः" ॥

 इति वचनेनातिक्रान्तस्यैव कर्मणः कर्तव्यताप्रतिपादनात् । यद्यप्यत्र होमोत्तरमतीतकर्मानुष्ठानं तदनन्तरं कृच्छ्रादिप्रायश्चित्तमिति क्रमः प्रतीयते तथाऽपि पाठक्रमा[३]दार्थक्रमस्य बलीयस्त्वाद्धोमोत्तरं कृच्छ्रादिप्रायश्चित्तं ततोऽतीतकर्मानुष्ठानमित्येवात्र क्रमः । हुत्वा चैव यथाक्रममिति पाठे तु यथाक्रमं यथासंख्यं व्याहृतिभिर्हुत्वा कृच्छ्रादिप्रायश्चित्तं चरेदित्यर्थः । अतीतकर्मानुष्ठाने प्रायश्चित्ते कृते पश्चादित्यनेन विकल्पः । एतेषु गर्भाधानादिचौलान्तेषु कर्मसु मध्य एकस्यैकस्य लोपे पादकृच्छ्रप्रायश्चित्तं चरेदित्येतेष्वेकैकलोपेऽपीत्यस्यार्थः । अपिशब्दो द्व्यादिकर्मलोपसमुच्चयार्थः । तेन कर्मद्वयलोपे त्रिप्रभृतिकर्मणां सर्वेषामसर्वेषां वा लोपेऽपि पादकृच्छ्रप्रायश्चित्तं भवति । पादकृच्छ्रविषय एवैकैकस्य लोपस्य निमित्तत्वोक्तिहोम एकैकलोपस्य निमित्ततायाः पाक्षिकतां गमयतीति द्रष्टव्यम् ।  अथवैवं योजना । अपिरवधारणार्थः । तस्य च पादकच्छ्रमित्यनेनान्वयः। तथा चायमों भवति । गर्भाधानादिचौलान्तेषु कर्मसु मध्य एकैकस्य संस्कारस्य लोपे पादकृच्छ्रमेव चरेत्, न होम इति । अयं च होमः प्रतिसंस्कारं समस्तव्याहृतिभिः कार्यः । अनन्तरोदाहृतस्मृतिवाक्यात् ।

 कात्यायनस्तु सप्त प्रायश्चित्ताहुतीराह-

"त्वं नः स त्वं न इत्याभ्यामिमं मे ह्यनया ऋचा ।
ये ते शतमयाश्चाभ्यामुदुत्तममवाहुतीः ॥
हुत्वा पृथक्पृथक्पादमर्धं चौले समाचरेत् " इति ।

 प्रायश्चित्ते कृतेऽप्यन्तरितानुष्ठाने विकल्पः-

" प्रायश्चित्ते कृते पश्चादतीतमपि कर्म वै ।
कार्यमित्येक आचार्या नेत्यन्ये तु विपश्चितः " इति ।

 शिष्टानां तु प्रायः करणपक्ष एव संमतः । यदि तु सर्वेऽप्युपनयनपूर्वतनाः संस्कारा अन्तरिताः स्युस्तदा प्रायश्चित्तपूर्वकं तान्कृत्वोपनयनं कार्यम् । प्रायश्चित्तेनैव चरितार्थता संस्काराणामिति पक्षे प्रायश्चित्तमात्रं कृत्वोपनयनं कार्यम् ।

अथैतस्य प्रयोगः ।

 उपनयनदिनात्पूर्वदिने पत्न्या कुमारेण च सहकृतमङ्गलस्नान आचम्य प्राणानायम्य देशकालौ संकीर्त्य ममास्य कुमारस्य गर्भाधानपुंसवनसीमन्तोन्नयनजातकर्मनामकरणान्नप्राशनचौलकर्मान्तानां संस्काराणां कालातिपत्तिजनितप्रत्यवायपरिहारद्वारा श्रीपरमेश्वरप्रीत्यर्थं प्रायश्चित्तहोमं करिष्य इति संकल्प्योल्लेखनादिविधिनाऽग्न्यायतनं संस्कृत्य विण्नामानं श्रोत्रियागारादाहृतं लौकिकमग्निं प्रतिष्ठाप्य प्रज्वाल्य ध्यात्वाऽग्निं परिस्तीर्योत्तरेणाग्निं दर्भान्संस्तीर्य तेषु दर्वीमाज्यस्थाली प्रोक्षणीपात्रमुपवेषं संमार्गदर्भानवज्वलनदर्भानेको समिधमाज्यं चेति पात्राण्यासाद्य पवित्रे कृत्वा प्रोक्षणीः संस्कृत्य पात्राणि प्रोक्ष्य दर्वीनिष्टपनादि पवित्रे अनावाधायेत्यन्तं कृत्वाऽग्निमदित इत्याद्यैः परिषिच्याऽऽसादितां समिधमाधाय,

 त्वं नः स त्वं न इति मन्त्रद्वयस्य विश्वे देवा ऋषयः । अग्निर्वरुणश्च देवते । त्रिष्टुप्छन्दः । इमं मे वरुणेत्यस्य विश्वे देवा वरुणो गायत्री । ये ते शतमित्यस्य वामदेवो वरुण इन्द्रः सविता विष्णुर्विश्वे देवा मरुतश्च त्रिष्टुप् । अयाश्चेत्यस्य वामदेवोऽया अग्निः पङ्क्तिः । उदुत्तमं वरुण, अव ते हेड इत्यनयोर्विश्वे देवा वरुणस्त्रिष्टुप् । समस्तव्याहृतीनां प्रजापतिः प्रजापतिर्ब्रृहती । संस्कारातिक्रमनिमित्तप्रायश्चित्ताज्यहोमे विनियोगः। " ॐ त्वं नो अ० स्मत्स्वाहा” अग्नये वरुणाय चेदं० । “ ॐ स त्वं नो अ० एधि स्वाहा” अग्नये वरुणाय चेदं० । “ ॐ इमं मे० के स्वाहा " वरुणायेदं० । “ ॐ ये ते शतं वरुण ये सहस्रं यज्ञियाः पाशा वितताः पुरुत्रा । तेभ्यो न इन्द्रः सवितोत विष्णुर्विश्वे देवा मुञ्चन्तु मरुतः स्वस्त्या स्वाहा ” वरुणायेन्द्राय सवित्रे विष्णवे विश्वेभ्यो देवेभ्यो मरुद्भ्यश्चेदं० । “ ॐ अयाश्चाग्नेऽस्य० षज स्वाहा" अयसेऽग्नय इदं । "ॐ उदुत्तमं० स्याम स्वाहा" वरुणाये० । "ॐ अव ते हे० तानि स्वाहा” वरुणायेदं० । “ ॐ भूर्भुवः सुवः स्वाहा" प्रजापतय इदं० । इति प्रतिसंस्कारमष्टावाहुतीराज्येन जुहोति ।

 ततः परिस्तरणानि विसृज्यादितेऽन्वम स्था इत्याद्यैरुत्तरपरिषेकं कृत्वाऽग्निं पूजयेत् । अथवा प्रतिसंस्कारं समस्तव्याहृतिभिरेकामेवाऽऽज्याहुतिं जुहुयात् । नेतराः सप्ताऽऽहुतयः ।

 ततश्चौलातिरिक्तसंस्काराणां प्रमादादकरणे प्रत्येकं पादकृच्छ्रमपि ब्राह्मणचतुष्टयभोजनप्रत्यास्रायद्वारैव वटुना कारयेच्चौलाकरणे त्वर्धकृच्छ्रं षड्ब्राह्मणवटुभोजनप्रत्याम्नायद्वारैव स्वयमेव वा मुख्यकल्पेन कुर्यात् । आलस्यादिना चौलातिरिक्तसंस्काराणामकरणे प्रत्येकमर्धकृच्छ्रम् । चौलाकरणे कृच्छ्रम् । मुख्यकल्पासंभवे सहस्रसंख्यतिलहोमायुतगायत्रीजपद्वादशब्राह्मणभोजनाद्यन्यतमप्रत्याम्नायेन पादकृच्छ्रार्धकृच्छ्रयोर्गोदानैरुदैकादशिनीजपादिरूपप्रत्याम्नायासंभवात्तिलहोमायन्यतम एव प्रत्याम्नायः । स च तुरीयांशरूपोऽर्धरूप इति पादकृच्छ्रार्धकृच्छ्रानुसारेण कल्पनीयः ।

"पादकृच्छ्रे वस्त्रदानं कृच्छ्रार्धे तैलकाञ्चनम् ।
पादोनकृच्छ्रे गोदानं कृच्छ्रे गोमिथुनं स्मृतम्"

 इति विष्णूक्तो वा प्रत्याम्नायः कल्पयितव्यः । तैलयुक्तं काञ्चनं तैलकाञ्चनमिति समासः । सहस्रसंख्यतिलहोमस्तु प्रणवव्याहृतिसहितया गायत्र्या प्रणवसहितसमस्तव्याहृतिभिर्वा केवलेन प्रणवेन वा । अयुतगायत्रीजपस्तूपनयनोपदिष्टतृतीयपाठेन कार्यः । प्रायश्चित्तसंकल्पस्तु मम पुत्रस्य गर्भाधानपुंसवनसीमन्तोन्नयनजातकर्मनामकरणान्नप्राशनान्तसंस्कारकर्मणां स्वकालेऽकरणेन जनितस्य प्रत्यवायस्य परिहारार्थ पादकृच्छ्रं प्रायश्चित्तं तथा मम पुत्रस्य  चौलसंस्कारकर्मणः स्वकालेऽकरणेन जनितस्य प्रत्यवायस्य परिहारार्थमर्धकृच्छ्रे प्रायश्चित्तं च क्रमेण करिष्य इतिसंकल्पपूर्वकं विप्रभोजनहोमान्यतरप्रत्याम्नायद्वारा कुर्यात् । सूर्यावलोकननिष्क्रमणयोः शास्त्रान्तरोक्तत्वेनानावश्यकत्वान्न तदकरणे प्रायश्चित्तम् ।

 अथ षष्ठे मास्यन्नप्राशनमित्याथशब्देन निष्क्रमणस्य ज्ञापितत्वादावश्यक एवायं संस्कार इति यद्युच्यते तदाऽन्नप्राशनपदादेतदुल्लेख एतदकरणप्रायश्चित्तं च भवत्येव । एवं प्रायश्चित्तं विधायातीतान्संस्कारानुपनयनदिने तत्पूर्वदिने वा तन्त्रेण कुर्यात् । चौलं तूपनयनदिन एव ।

 पत्न्या संस्कार्येण च सहोपविश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्य ममास्या भार्यायाः प्रतिगर्भसंस्कारातिशयद्वाराऽस्यां जातस्यास्यां जनिष्यमाणगभार्णां च बीजगर्भसमुद्भवैनोनिवर्हणक्षेत्रसंस्कारसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं गर्भाधानाख्यं कर्म, अस्य जातस्य बीजगर्भसमुद्भवैनोनिबर्हणद्वारा श्रीपरमेश्वरप्रीत्यर्थं पुंसवनाख्यं कर्म, अस्य जातस्य जनिष्यमाणगर्भाणां च बैजिकगार्भिकनोनिबर्हणद्वारा श्रीपरमेश्वरप्रीत्यर्थं सीमन्तोन्नयनाख्यं कर्म, अस्य कुमारस्य गर्भाम्बुपानजनितदोषनिबर्हणबीजगर्भसमुद्भवैनोनिबर्हणद्वारा श्रीपरमेश्वरप्रीत्यर्थ जातकर्म, अस्य पुत्रस्य वीजगर्भसमुद्भवैनोनिबर्हणायुर्वभिवृद्धिव्यवहारसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं नामकर्म, अस्य शिशोरायुरभिवृद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थ सूर्यावलोकनम्, अस्य शिशोरायुः- श्रीवृद्धिबीजगर्भसमुद्भवैनोनिबर्हणद्वारा श्रीपरमेश्वरप्रीत्यर्थं निष्क्रमणम्, अस्य पुत्रस्य मातृगर्भमलप्राशनशुद्धिबीजगर्भसमुद्भवैनोनिबर्हणान्नायब्रह्मवर्चसतेज इन्द्रियायुरभिवृद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थमन्नप्राशनाख्यं कर्म चाद्य, अस्य कुमारस्य बीजगर्भसमुद्भवैनोनिबर्हणबलायुर्वभिवृद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं चौलाख्यं कर्मास्यामुकशर्मणः कुमारस्य द्विजत्वसिद्धिपूर्वकवेदाध्ययनाधिकारसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थमाचार्यपैतृकसावित्रीमातृकमुपनयनाख्यं कर्म च[४] श्वः करिष्य इति संकल्पः।

 जातकर्मचूडाकरणकर्मणोः कुमारशब्दप्रयोगवत्तन्मध्यस्थत्वान्नामकर्मादावपि तत्प्रयोग इति कल्पे नामकर्मादिसंकल्पे पुत्रादिशब्दस्थाने कुमारशब्दस्य प्रयोगः कार्यः । कुमारस्य पुत्रस्येत्युभयप्रयोगो वा नामकरणान्नप्राशनयोर्धर्मसूत्रस्मृत्युक्तः । शिशुत्वबालत्वव्यवहारस्तु तच्छुद्धिव्य- वस्थाविषये द्रष्टव्यः । सा च व्यवस्थाऽग्रे वक्ष्यते । पुंसवनादिभ्यः संस्कारकर्मभ्यश्चौलोपनयनयोः कालभेदादङ्गानि पृथगेव । तत्रं तु पुण्याहवाचनादिमात्रपर्यवसायि । शास्त्रान्तरोक्तत्वेन सूर्यावलोकनस्याकरणपक्षे न संकल्पः ।

 ततस्तदङ्गत्वेन गणपतिपूजनं पुण्याहवाचनं मातृकापूजनं नान्दीश्राद्धं च कृत्वाऽन्नप्राशनचौलोपनयनाङ्गत्वेन विहितमङ्कुरारोपणं कृत्वोपनयनाङ्गत्वेन ग्रहयज्ञं नन्दिन्यादिमण्डपदेवताप्रतिष्ठापनं च कार्यम् । सति संभवे नान्दीश्राद्धोत्तरमेवान्तरितान्संस्कारान्कृत्वा ग्रहयज्ञाङ्कुरारोपणमण्डपदेवताप्रतिष्ठापनानि कुर्यादिति क्रमः । ग्रहयज्ञोत्तरं वाऽन्तरितसंस्काराः कार्याः । सर्वेषां सद्यःकरणे तूपनयनान्तानां सर्वेषां संस्काराणां संकल्पवाक्यान्युच्चार्याय करिष्य इत्येव वदेत् । अस्मिन्पक्षेऽन्नप्राशनसंस्कारस्य प्रायश्चित्तेनैव चारितार्थ्यं न तुॄ तस्याप्यनुष्ठानम् । तदनुष्ठानेऽन्नप्राशनानुष्ठानोत्तरम् ।

" न केशादीन्वापयीत भुक्तोऽभ्यक्तो व्रती नरः"।

 इति भोजनोत्तरं वपननिषेधेन चौलासंभवात्[५] । अत्र सर्वाण्यङ्गानि सकृदेवानुष्ठेयानि । वैशेषिकहोमोऽपि संप्रतिपन्नदेवताकश्चेत्सकृदेवानुष्ठेयः । यथा धात्रीचतुष्टयहोमः ।

 तत उल्लेखनादिनाऽऽयतनसंस्कारं विधाय तत्रौपासनाग्निं प्रतिष्ठाप्य प्रज्वाल्य ध्यायेत् । अन्यः कर्ता चेल्लौकिकाग्नौ स्वकालमाप्तं कर्म यद्भवति तत्कर्मप्रयुक्ताग्निनामात्र ज्ञेयं सर्वाणि वा ।

 ततः समित्त्रयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वा पुंसवनसीमन्तोन्नयननामकरणान्नप्राशनहोमकर्मणि या यक्ष्यमाणा देवता इत्यादिव्याहत्यन्तमुक्त्वा वैशेषिकप्रधानहोमे धातारं चतसृभिराज्याहुतिभिर्यक्ष्ये । अनुमति चतसृभिराज्याहुतिभिर्यक्ष्ये । राकां द्वाभ्यामाज्याहुतिभ्यां यक्ष्ये । सिनीवाली द्वाभ्यामाज्याहुतिभ्यां यक्ष्ये । त्रयोदशाहुतिपक्षे कुहूमेकयाऽऽज्याहुत्या यक्ष्य इत्यधिकम् ।

 ततोऽङ्गहोमे वरुणं द्वाभ्यामित्यादि व्याहृतिहोमान्तं कृत्वा प्रधानहोमः । संप्रतिपन्नदेवताकत्वात्पुंसवनसीमन्तोन्नयनसंबन्धिधात्रीचतुष्टयमव्यवहितत्वान्नामकर्मसंबन्धिप्रधानैकदेशभूतं धात्रीचतुष्टयं च तन्त्रेण हुत्वाऽनु नोऽद्यानुमतिरित्याद्या अष्टौ नव वाऽऽहुतीर्जुहुयात् । सर्वेषां सद्यःक्रियापक्षे चौलस्यापि सहैव कर्तव्यत्वादन्वाधानेऽन्नप्राशनपदोत्तरं चौलपदस्याप्युल्लेखः कार्यः ।  तत इमं मे वरुणेत्यङ्गहोमं जयाद्युपहोमांश्च कृत्वा स्विष्टकृदादिसंस्थाजपान्तं समाप्य त्रिवृदन्नहोमं पुण्याहवाचनं च कुर्यात् । वास्तुबलेर्विकल्पः । मह्यमित्यादिपुंसवन[६]सीमन्तोन्नयनजातकर्मनामकरणान्नप्राशनकर्मणां पुण्याहं भवन्तो ब्रुवन्त्विति त्रिः कर्ता वदेत् । एवं स्वस्त्ययनं भवन्तो ब्रुवन्तु । ऋद्धिं भवन्तो ब्रुवन्त्विति । चौलस्यापि सहकर्तव्यतायां तु, अन्नप्राशनपदोत्तरं चौलपदस्यापि प्रयोगः । ततः क्रमेण प्रधानानि । तत्र यत्र क्रियाया असंभवस्तत्र संस्कार्य स्पृशंस्तं तं मनं पठित्वाऽन्ते तां तां क्रियां विभावयेत् । यत्र तु संभवस्तत्र सा सा क्रियेदानीमेव निष्पाद्यते मयेति बुद्ध्या तत्तन्मत्रान्ते तां तां क्रियां कुर्यात् । मन्त्रपाठमात्रं वा । तत्र गर्भाधानसंस्कारसिद्ध्यर्थं शयनाहानरेतोवस्कन्दनमन्त्रान्संस्कार्य स्पृष्ट्वा पठित्वा तां तां क्रियां तत्तन्मत्रान्ते विभावयेत् । एवं पुंसवनसंबन्धिदधिद्रप्सादिप्राशनमन्त्रान्संस्कार्य स्पृष्ट्वा पठित्वा तां तां क्रियां विभावयेत् ।

 ततो वक्ष्यमाणप्रयोगरीत्या संस्कार्य संस्पृशन्सीमन्तमुन्नीय वक्ष्यमाणरीत्या जातकर्म कुर्यात् । तत्र जातमपि पुत्रमिदानीमेव जातोऽयमिति विभाव्य तन्मुखं वीक्ष्याश्मनि कुमारं धारयित्वोद्धपनादिस्तनाभिमर्शनान्तं सर्वं कर्म कुर्यात्संभवात् । अथवा संस्कार्य सवा मन्त्रान्पठित्वाऽन्ते तां तां क्रियां विभावयेत् । आपो[७] हविष्ण्वित्येतस्य जप एव । इदानीं तस्याः सूतिकात्वाभावेन तत्प्रयुक्तविधेरसंभवात् । न चैवमुद्धपनस्य सूतकाग्निसाध्यत्वात्तस्य चेदानीमभावात्कथं तत्संबन्ध्यनुष्ठानमिति वाच्यम् । मृतकोपलक्षितकर्मार्थोऽग्निः सूतकाग्निः । तच्च कर्मोद्धृपनं तदर्थत्वस्यान्यस्मिन्नग्नावपि संभवेनोद्धपनकर्मणः प्रवृत्तेर्निराबाधात् । अथवा यथावस्थितमन्त्रपाठ एव । यदा तु कुमारो महांस्तदा सर्वेषां पाठ एव ।

 ततो वक्ष्यमाणरीत्या नामदानं विधाय वक्ष्यमाणरीत्या दधि मधु घृतमितित्रिवृत्सव्यञ्जनमन्नं च समन्त्रं प्राशयित्वा ब्राह्मणान्संभोज्याऽऽशिषो वाचयित्वा विष्णुं संस्मरेत् ।

 तत उपनयनदिन एव वक्ष्यमाणरीत्या चौलं विधायोपनयनमारभेत । ' उपनीत्या सहाथवा ' इति वचनादुपनयनदिने चौलकर्तव्यतानियमः। अत्र सहशब्द उपनयनसंनिकृष्टकालपरः । यदि पूर्वापत्यस्य संस्कारेष्वन्तरितेषु सत्स्वेवाप- रस्य संस्कारो यः कश्चन प्राप्नुयात्तदा पूर्वस्यान्तरितान्संस्कारान्कृत्वैवापरस्य प्राप्तः संस्कारः कर्तव्यः । पूर्वापत्यसंस्कारसंपादनपूर्वकमेवापरसंस्कारसंपादनस्य युक्तत्वात् । यमलयोर्ज्येष्ठक्रमेणैव संस्कारकर्तव्यतादर्शनाम्यवस्थार्थ यमलविषयकशास्त्रस्वीकारे बाधकाभावाच्च । अन्यथाऽसति महति प्रतिबन्ध ज्येष्ठभ्रातृसंस्कारात्पूर्वं कनिष्ठभ्रातृसंस्कारे ज्येष्ठभ्रातुरभिवादनानहत्वापत्तेः । आचारश्चाप्येवमेव ।

"ज्येष्ठे त्वकृतसंस्कारे गर्भाधानादिकर्मभिः ।
कनिष्ठो नैव संस्कार्य इति शातातपोऽब्रवीत् " इति वचनमपि ।

 वस्तुतस्त्वत्र मूलं चिन्त्यम् । असति महति प्रतिबन्ध इतिविशेषणान्नज्येष्ठभ्रातुः काराग्र(गृ)हादिना षोडशवर्षपर्यन्तं प्रतिबन्धे कनिष्ठस्य तावत्पर्यन्तमुपयनयनप्रतिबन्धः । न चैवं परिवेत्तृत्वादिदोषप्रतिपादकशास्त्रवैयर्थ्यं, तस्य ज्येष्ठकनिष्ठभ्रातृदात्रायनेकविषयकदोषबाहुल्यप्रतिपादनार्थत्वेन सार्थक्यसंभवात् । अन्तरितसंस्काराणां प्राप्तसंस्कारसतन्त्रतयाऽनुष्ठानेनोत्तरायणादिनियमो न चोक्तकालस्य नियमः । ज्येष्ठान्तरितसंस्कारकालानुरोधेन कनिष्ठसंस्कारा उत्क्रष्टव्याः। तत्रापि यथोक्तकाले कार्याः । अथवा कनिष्ठसंस्काराः स्वकाल एव कार्यास्तदनुरोधेन ज्येष्ठस्येति । अत्र यद्युक्तं तदाद्यं सुधीभिः । अन्तरितसंस्काराणामन्यकर्तृकत्वे गर्भाधानस्य प्रायश्चित्तमात्रमेव । [८]गर्भाधानादिसंस्काराणामगतौ केवलं प्रायश्चित्तेनापि चरितार्थता । उपनयनादिसंस्काराणां कालातिपत्तौ तु तत्तत्कालातिपत्तिप्रायश्चित्तं कृत्वोपनयनादयः संस्काराः क्रमेणावश्यं कार्याः । अत एवाऽऽचार्येणोपनयनमुखेनाऽऽम्नानं कृतम् । विवाहस्त्विच्छायां सत्याम् । वैराग्ये तीव्रे जाते समावर्तनादीनां लोपः । तत्र संन्यासाश्रम एव ।

इति संस्काररत्नमालायामन्तरितसंस्काराणां तन्त्रेण प्रयोगः ।

इत्योकोपाह्वश्रीमद्गणेशदीक्षिततनूजभट्टगोपीनाथदीक्षितविरचि-
तायां सत्याषाढहिरण्यकेशिस्मार्तसंस्काररत्नमा-
लायां पञ्चमं प्रकरणम् ॥ ५ ॥

  1. ख. 'याने न ।
  2. ख. 'श्राद्धे सं ।
  3. क. मादर्थ ।
  4. ग. घ. ङ. च. श्वस्तन्त्रेण क ।
  5. ग. घ. क. 'वापत्तेः ।
  6. ख. ग. घ. ड. 'नना ।
  7. क. 'पो गहेष्वित्ये ।
  8. क. पुस्तके टिप्पणीरूपेण बहिर्लिखितो ग्रन्थः- "प्रयोगपारिजाते संस्कारातिपत्तिप्रायश्चित्तमुच्यते । तत्र भृगुः- गर्भाद्यसंस्कृतस्यापि कर्तव्यं चोपनायनम् । प्रायश्चित्तं तु पूर्वेषां नौपनायनिकस्य तु । श्रौतस्मार्ताधिकारी स्यान्नोपनायनिकं विना' इति । प्रायश्चित्तप्रकारं तु भगवानाह- आरभ्याऽऽधान० । संस्कारमयूखे भृगुः--' गर्भाद्यसंस्कृतस्यापि कर्तव्यं चौपनायनम् । प्रायश्चित्तं तु पूर्वेषां नौपनायनिकस्य तु । श्रौतस्मार्ताधिकारी स्यान्नोपनायनिकं विना' इति । उपनयनप्राग्भाविगर्भाधानादिसंस्काराणां मुख्यगौणकालातिक्रमे प्रायश्चित्तमात्रानुष्ठानं न पुनः संस्कारानुष्ठानमपि । उपनयनं तूभयविधकालातिक्रमेऽपि प्रायश्चित्तानुष्ठानपूर्वमनुष्ठेयमेव न प्रायश्चित्तमात्रानुष्ठानमिति वाक्यार्थः" इति ।