संस्कृतस्य माहात्म्यम्
भाषासु मुख्या मधुरा प्राचीना विश्वतोमुखी ।
भाति संस्कृतभाषेयं सर्वदा सर्वदा सती ।।१।।
उन्नतेन स्थितिमता हिमवद्भूभृता यथा ।
त्वङ्गत्तरङ्गया पुण्यसरिता गङ्गया यथा ।।२।।
तथैव भारतोर्वीयं दिव्यसंस्कृतभाषया ।
सरस्वत्यापि विख्याता विभाति वसुधातले ।।३।।
इयं भारतसंस्कारकोशागारस्य कुञ्चिका । भाषान्तराणां माता वा धात्रि वा स्तन्यदा चिरम् ।।४।।
संस्कारवत्यो जगति सन्तु भाषाः परःशतम्। तथापि संस्कृताभिख्या नान्यस्या दृश्यते क्वचित् ।।५।।
बृहस्पतिः पुरा दैविं प्रोवाचेन्द्राय भारतीम् । इन्द्रेण व्याकृता पश्चादियं देवहितैषिणा ।।६।।
संस्कृत्य संस्कृत्य पदानीह वाक्यं करोति हि ।
तेन संस्कृतभाषेति भाष्यकारः पतञ्जलिः ।।७।।
आर्याणां मातृभाषेयमार्यावर्तनिवासिनाम् । आसीत् पुरा पाणिनीये भाषाशब्देन वर्णिता ।।८।।
मृतभाषेति जल्पन्तु मृतसंजीविनीमिमाम् । पामराः पण्डितम्मन्याः परमार्थपराङ्मुखाः ।।९।।
पूर्णापि स्वीचकारैषा भाषान्तरपदान्यपि । सरिद्भ्यो नीरमादत्ते सम्पूर्णोऽप्यम्भसां निधिः ।।१०।।
देशभाषाविकासार्थं तत्तद् भाषासु पण्दिताः । स्वीकृर्वन्ति यथाकामं संस्क्रुतात् पदसंचयम् ।।११।।
सम्परिभ्यां करोतौ सुट्' भुषणार्थे विधीयते ।
तेन भूषितभाषेति विख्याता पाणिनेर्मते ।।१२।।
न केवलं भूषिता सा भूषयत्यपि भाषकान् कुमारसम्भवे काव्ये कालिदासवचो यथा ।
संस्कारवत्येव गिरा मनीषी तया स पूतश्च विभूषोतश्च' इति ।।१३।।
द्विजानां व्यवयहारो हि संस्कृतेनैव सर्वदा । आसीदिति ज्ञातमिह वाल्मीकेर्वचनामृतात् ।।१४।।
आरण्यकाण्डे वातापिकथायां दृश्यते किल ।
धृत्वेल्वलो विप्ररूपं संस्कृते व्याजहार ह' ।।१५।।
धारयन् ब्राह्मणं रूपमिल्वलः संस्कृतं वदन् ।
आमन्त्रयति विप्रान् स्म श्राद्धमुद्दिश्य निर्घृणः' ।।१६।।
हनुमत्कृतशङ्कापि सुन्दरे काण्ड ईरिता । एतदेव ज्ञापयति संस्कृतस्य स्थितिं तदा ।।१७।।
यदि वाचं प्रदास्यामि द्विजातिरिव संस्कृतम्' । रावणं मन्यमाना सा सीता भीता मविष्यति ।।१८।।
यतो वाचो निवर्तन्ते अप्राप्य मनसा सह' । चिद्रूपिणी सा वागेव शब्दब्रह्माह्वय परा ।।१९।।
दिवोऽवतीर्णा गङ्गेव लोकानुग्रहतत्परा । प्रत्यात्मवृत्ति दृष्टा सा पश्यन्ती प्रतिभा मता ।।२०।।
भाषावैविध्यमापन्ना मध्यमारूपमाश्रिता ।
वक्तृश्रोतृमनःसिद्धा वर्तते संहृतक्रमा ।।२१।।
ध्वनिरूपमथापन्ना वैखरी वाक् प्रकाशते । व्यवहारे मनुष्याणां साहाय्यं कुर्वती सदा ।।२२।।
वाल्मीकिव्यासमुख्यैश्च लालिता पोषिता चिरम् । जीयात् समाः सहस्रं सा ज्योतीरूपा सरस्वती ।।२३।।
अशक्नुवद्भिव्यर्हर्तुं देशभाषान्तरे बुधैः । स्वीकृतं संस्कृतमिति श्रीहर्षोऽप्यवदत् सुधीः ।।२४।।
अन्योन्यभाषान्वबोधभीतेः संस्कृत्रिमासु व्यवहारवत्सु । दिग्भ्यः समेतेषु नरेषु तेषु सौवर्गवर्गो स्वजनैरचिह्नि ।।२५।। - - नैषध १०. ३४
काश्मीरे जन्मभाषावत् संस्कृतं प्राकृतं तथा ।
स्त्रीणामपि मुंखेष्वासीदित्येवं बिल्हणोऽब्रवीत् ।।२६।।
ब्रूमः सारस्वतजनिभुवः किं निधेः कौतुकानाम् यस्यानेकाद्भुतगुणकथाकीर्णामृतस्य ।
यत्र स्त्रीणामपि किमपरं जन्मभाषावदेव प्रत्यावासं विलसति वचः संस्कृतं प्राकृतं च ।।२७।।
- - विक्रमाङ्कदेवचरितम् १८. ६