संस्कृतस्य समाजोपयोगिता
संस्कृतं संस्कृतिमन्तरा न कोऽपि मानव: समाजो वा शान्तिम् अधिगन्तुं समर्थ:। अद्यतन समाजे संस्कृतस्य प्रचार:- प्रसार: अत्यावश्यक: वर्तते। वैदिके काले तु भारतं विश्वस्य गुरु: आसीत् इति तु वयं जानीम: एव । किन्तु समाज: उत्कृष्ट: भवेत् भारतदेश: पुन: गुरु पदे प्रतिष्ठितो भवेत् एतदर्थम् अत्यावश्यकं संस्कृतस्य प्रचार:। अधुना समाजे पाश्चात्यपरम्परया येषां - कुरीतीनाम्, दुर्व्यवहाराणां च आगमनं जातं तान् अपाकर्तुं तथा च समाजे धार्मिकी भावना, वैदिकधर्मनिष्ठा, सत्य , अहिंसा,परोपकारादिनां भावानां विकास: भवेत् तदर्थं समाजे अधुना संस्कृतस्य महती आवश्यकता वर्तते। यतोऽहि अद्यतन समाजे एषां विचाराणाम्, भावानाम्, संस्काराणामेव आवश्यकता वर्तते। संस्कृत भाषा संपूर्ण विश्वस्य सर्वश्रेष्ठा भाषा वर्तते तथा च समस्तानां भाषाणां जननी अपि वर्तते। अतेव संस्कृतभाषाद्वारा अस्माकं सामाजिक जनानाम् उत्तम: चारित्रिक: विकास: भविष्यति। समाजे इदानीं छद्मव्यवहारा: अत्यधिकरूपेण प्रचल्यमाना: सन्ति। तथा च स्वार्थछलकपटादिकं चौरकर्म इत्यादिकं अधुना गतिं प्राप्नुवन् अस्ति। अद्यतन समाज: स्त्रिषु दुराचारं करोति तेषां प्रति कुदृष्टिं, दुर्व्यवहारं च करोति। एतद् सर्वमपि उचितं किम्, अनुचितं किम् इति ज्ञानस्य अभाव कारणात् एव जायमान: वर्तते। समाजस्य ये पोषका: अस्माकं ज्येष्ठा:, वृद्धा: ये अस्मान् निरन्तरम् उचितमनुचितस्य ज्ञानं कारयन्त: भवन्ति तेषामेव अद्यतन युवान: निरादरम्, अपमानं च कुर्वन्ति , चेत् कथं समाजस्योन्नयनं भवितुमर्हति अपितु समाज: अधुना अधोगतिं प्रति गच्छन् अस्ति। प्राय: अस्योपाय: संस्कृतभाषायां संस्कृतग्रन्थेषु च वर्तते। अधुना समाजे संस्कृतं दैवीय भाषा इति जनानां काचित् भावना वर्तते पुनः एतत् सत्यमपि। एषा दैवीभाषा इत्येव भावनया यदि जना: संस्कृतं पठितुं प्रभवन्ति चेत् तेषु सकारात्मकी ऊर्जाया: निरन्तर रूपेण स्राव: भविष्यति। यथा- वयं किञ्चित क्षणस्य कृते मन्दिरं गच्छाम: यावत् पर्यन्तं वयं मन्दिर-परिसरे भवाम: तावत् पर्यन्तं मनसि सकारात्मकी ऊर्जा एव भवति मन: एकाग्रं तथा च शान्तं भवति मनसि विकारा: न आगच्छन्ति तथैव संस्कृताध्ययनेन अपि मन: शान्तं भवति तथा मनसि विकारा: न भवन्ति ।।
उच्चारणदृष्ट्या -- अधुना वयं पश्याम: यद् अद्यतन बालक:/बालिका: च ,तथा च नगरेषु निवासरता: ये जना: सन्ति तेषु उच्चारण दृष्ट्या बहवः दोषाः भवन्ति तथा च ते अनेकानां शब्दानाम् उच्चारणं कर्तुं समर्थाः अपि न भवन्ति। यतोहि अन्यासु भाषासु सरलरूपेण उच्चार्यमाणाः शब्दाः भवन्ति । किन्तु संस्कृतं वैज्ञानिकी भाषा वर्तते अस्यां भाषायां प्रत्येकस्यापि शब्दस्य उच्चारणं भिन्नं वर्तते तथा च तेषां उच्चारणस्थानमपि भिन्नं वर्तते। अस्यां भाषायां तादृशा: वर्णा: सन्ति येषाम् उच्चारणेन अस्माकं मुखस्य प्रत्येकस्यापि मांसपेशे: उपयोग: भवति येन शरीरस्य/ मुखस्य च व्यायाम: भवति तथा च व्यक्ति: प्रत्येकस्यापि शब्दस्योच्चारणे समर्थ: भवति । वैज्ञानिकानां तु कथनमपि वर्तते यत् संस्कृताध्ययनेन छात्राणां मति: तीक्ष्णा भवति। संस्कृते विविध ज्ञनस्य , विचाराणां च भण्डार: तु वर्तते एव। पुनः अधुना जना: विविध रोगेसु , मानसिकरोगेसु, अशान्ता:, असंतुष्टा: , विचलिता: च वर्तन्ते तेषां कृते संस्कृत ग्रन्थानां शास्त्राणां च अध्ययनं लाभास्पदं स्यात्। तेषां पठन/श्रवण मात्रेण मन: शान्तिं प्राप्नोति। अधुना समाजस्य दिशा परिवर्तनार्थं सामाजिक, मानसिक च दृष्ट्या उचितानुचितस्य ज्ञानार्थं, समाजे कथं व्यवहृतव्यम् एतेषां सर्वेषामपि ज्ञानार्थं संस्कृताध्ययनम् अत्यावश्यकम् । यतोहि अस्माकं मति: अस्माकं चिन्तनं यथा भविष्यति तथैव अस्माभि: निर्मित: समाज: अपि भविष्यति अत: उत्तम- समाजस्य निर्माणार्थम् उत्तमानां ग्रन्थानाम् उत्तमानां शास्त्राणां तथा च उत्तमाया: भाषाया: अध्ययनम् अत्यावश्यकम्। यस्यां भाषायां चत्वार: वेदा: , १८ पुराणानि , रामायणम् , महाभारतम् , भगवद्गीता सम ग्रन्था: सन्ति तया भाषया अन्या का वा भाषा उत्तमा समाजोपयोगी च भवितुमर्हति ।।