अयं लेखः सम्भाषणसन्देशः इत्येतस्यां संस्कृतमासपत्रिकायां प्रकाशितपूर्वः । अस्मिन् लेखे भाषाशुद्धिः किन्निमित्तम् ? कथं सा सम्पादनीया इत्येषः

विषयः चर्चितः अस्ति ।


भाषाशुद्धि: अपि चिन्तनीया

सम्पाद्यताम्

१९८१ तमे वर्षे संस्कृतसम्भाषणान्दोलनस्य प्रारम्भ: जात: तदा वयं भाषणेषु, वैयक्तिके सम्भाषणे वा वदाम: स्म - ‘शुद्धं वा अशुद्धं वा, भवन्त: धैर्येण वदन्तु, अशुद्धं चेदपि चिन्ता नास्ति, वदन्तु ।’, ‘य: अधिकान् दोषान् करोति तस्य भाषाभ्यास: वेगेन भवति’, ‘भाषाप्रयोगे धाराप्रवाहिता आदौ भवेत्, शुद्धता तदनन्तरम्’.. इत्येवम् । ‘दोषप्रदर्शनं कृपया मा क्रियताम्’ इति प्रार्थयाम: स्म । कदाचित् एतावती अतिरेकता आसीत् यत् जनानां मुखानि उद्घाटयितुम् इच्छद्भि: अस्माभि: ‘अशुद्धमेव वदन्तु भवन्त:’ इति निवेद्यते स्म । एतादृशस्य कथनस्य कारणं किम् आसीत् ?

तदा तादृशं वातावरणम् आसीत् यत् संस्कृतेन भाषणीयं चेत् शुद्धतया भाषणीयं, दोषा: किं, दोष: एव नैव कर्तव्य:, लघु: अपि भाषादोष: जात: चेत् तेन वक्त्रा महान् अपराध: कृत: इति भावना, तद्विषये इतरेषां कठोरा वाक्प्रतिक्रिया, तत्क्षणं तत्रैव दोषप्रदर्शनं, कदाचित् उपहास: च, क्वचित् सभायां, क्वचित् पृष्ठत: चेति । एतस्मात् कोऽपि संस्कृतसम्भाषणे धैर्यमेव न करोति स्म । संस्कृतव्यवहार: सर्वथा लुप्त: एव आसीत् । दोषभयं ताण्डवायते स्म । तादृश्यां स्थितौ छात्रेषु शिक्षकेषु च धैर्यपूरणाय ‘दोषा: क्रियन्ताम्’ इति प्रेर्यते स्म । एकम् अतिरेकं निष्कासयितुम् अपर: अतिरेक: आसीत् । गतशतकस्य अष्टमे दशके जनेभ्य: धैर्यदानमेव महत् कार्यम् आसीत् ।

गतशतकस्य नवमे दशके वयं प्रशिक्षणवर्गेषु वदाम: स्म यत् चलनाभ्याससमये पतनम् इव, भाषाभ्याससमये दोषा: सहजा:, अत: छात्रै: दोषा: क्रियेरन्, परं शिक्षकै: न इति । सम्भाषण-शिबिरशिक्षकान् वयं वदाम: स्म - ‘शिक्षार्थिनां मनस्सङ्कोचनिवारणाय दोषपूर्णमपि भाषितुं शिक्षार्थिन: प्रेरयन्तु भवन्त:, परं शिक्षकेभ्य: भवद्भ्य: दोषकरणाय अनुज्ञा नैव दीयते’ इति । शिक्षकाणां भाषापरिष्काराय, भाषाबोधनवर्गा:, व्याकरणशिक्षणशिबिराणि इत्यादीनि कृतानि । प्रथमे दशके वयं व्यवहारवाक्यानां सम्भाषणानां च पुस्तकानि, ध्वनिमुद्रिका: च अधिकं प्रकाशितवन्त:, द्वितीये दशके व्याकरणसम्बद्धानि, भाषाशुद्धिसम्बद्धानि च पुस्तकानि प्रकाशितवन्त: ।

अस्माकम् आन्दोलनस्य प्रारम्भकाले संस्कृतज्ञानां मध्ये तादृशं वातावरणम् आसीत् यत्र ‘विद्वान् विपश्चिद् दोषज्ञ:’ इति अमरकोषोक्त्यनुसारम् आत्मानं ‘विद्वान्’ इति दर्शयितुं सभायां कश्चन संस्कृतेन भाषमाण: कमपि भाषाप्रमादं करोति चेत् श्रोतृषु बहव: दोषश्रवणमनु पार्श्ववर्तिनं पश्यन्ति स्म, पार्श्ववर्तिनं किमपि वदन्ति स्म, मुखमण्डलेन अनङतीकारं दर्शयन्ति स्म वा । दोषप्रदर्शनं वैदुष्यस्य लक्षणम् आसीत् । य: कश्चन अल्पज्ञोऽपि विदुष: अपि भाषायां दोषोद्घाटनाय साहसं करोति स्म (विदुष: पुरत: न, इतरेषां पुरत: !) । शुद्धतया भाषणीयम् इति वक्तुम् इच्छन् वक्ता उपदिशति स्म - ‘शुद्ध: भाषणीयम्’ इति !! एवं तर्हि भवन्त: एव ऊहन्तां - परिस्थिति: कीदृशी आसीत् इति !!

परम् अद्य परिस्थिति: बहुधा परिवृत्ता अस्ति । संस्कृतज्ञेषु संस्कृतच्छात्रेषु च संस्कृतसम्भाषणे रुचि: दृश्यते । ते सम्भाषणाय उत्सहन्ते, दोषान् सहन्ते च । व्याकरणमहाभाष्ये उक्तं कूपखनन-न्यायम् उद्धरन्त: संस्कृतज्ञा: ‘प्रयोगशीलेन शिक्षार्थिना शुद्धता तावत् गच्छता कालेन सम्पादयिष्यते’ इति उदारा: छात्रानुकम्पावन्त: च दृश्यन्ते । एतत् परिवर्तनं तु अस्माकं सौभाग्यम् ।

‘वज्रादपि कठोराणि मृदूनि कुसुमादपि’ इत्यस्य सुभाषितस्य उल्लेखं कुर्वन्त: तदा (आन्दोलनस्य प्रारम्भकाले) वयम् ‘अस्माकं दोषविषये ‘मन: वज्रादपि कठोरं स्यात्, इतरेषां दोष-विषये कुसुमादपि मृदु भवेत्’ इति वदाम: स्म । इदानीं तथैव इतरेषां विषये कुसुमादपि मृदु दृश्यते एव । परं किं स्वस्य भाषादोषविषये मन: वज्रादपि कठोरम् अस्ति ? स्वस्य भाषाशुद्धतार्थं किम् आग्रहस्य अभाव:, प्रयत्नस्य अभाव:, परिश्रमस्य अभाव: वा नास्ति ? अस्माभि: परदोष-प्रदर्शनपटुभि: न भवितव्यम् । परं स्वदोषपरिष्कारतत्परै: तु भवितव्यम् एव ।

सम्भाषणान्दोलनेन निर्मितानां बहूनां कार्यकर्तॄणां (अत्र कृष्ण-शास्त्री अपि अन्तर्भवति), संस्कृतव्यवहारकर्तॄणां च संस्कृतभाषाशुद्धता दशभ्य: पञ्चदशभ्य: विंशत्या: वा वर्षेभ्य: पूर्वं यथा आसीत् तथा एव अस्ति अद्य अपि ! ईषदपि प्रगति: न जाता । तत्र कारणं किम् इति अस्माभि: गम्भीरतया चिन्तनीयं, परिष्कारोपक्रमा: च स्वीकरणीया: ।

सरलसंस्कृताय आग्रहकरणसमये भाषाशुद्धतार्थं प्रयत्न: न्यून: न भवेत् । सरलं, शुद्धं, निर्दुष्टं, पाणिनीयमेव संस्कृतम् अस्माभि: प्रयोक्तव्यम् । समस्या कुत्र आयाति इत्युक्ते कश्चन यदा संस्कृतेन भाषणसमर्थ: भवति तत्पश्चात् स: संस्कृतेन भाषमाण: तु भवति, परं स्वस्य भाषादोषा: कुत्र कुत्र भवन्ति इति ज्ञातुं प्रयत्नमेव न करोति । य: तद्विषये बुद्धिमेव न व्यापारयति स: कथं वा अवगच्छेत् ? अहं संस्कृतेन ‘सम्यगेव वदामि’ इति चिन्तयन् भवति स:। भाषामाध्यमेन व्याकरणपाठनं करणीयं, न तु व्याकरणमाध्यमेन भाषापाठनम् इति वयम् अवश्यं वदाम: । परं कदापि एवं न वदाम: यत् व्याकरणं न पाठनीयम् इति । व्याकरणाभ्यासेन भाषाशुद्धता भवेत् अथवा भाषाया: शुद्धरूपस्य अर्थात् शुद्ध-परिनिष्ठितभाषाया: पठनेन लेखनेन च शुद्धता भवेत् । अस्माभि: उभयमपि न क्रियेत चेत्, क्रियमाणं अपर्याप्तं चेत् वा भाषाशुद्धि: कथं भवेत् ?

धाराप्रवाहिता (Fluency), शुद्धता (Correctness), शब्दसम्पत्तिः (Vocabulary), शैली (Style) इति भाषाभ्यासस्य, भाषासौष्ठवसम्पादनस्य च चत्वार: अंशा: । अस्माभि: अद्यावधि प्रथमे एव अंंशे अवधानं कृतम् । शिष्टेषु त्रिषु अपि अवधातव्यम् अस्ति । तदर्थं प्रत्येकं संस्कृतभारतीकार्यकर्ता परिश्रमं कुर्यात् । सामान्यसम्भाषणं (सामान्याभिव्यक्ति:), सामान्यविषयप्रति-प्रादनं (विषयाभिव्यक्ति:), वैचारिकाभिव्यक्ति:, भावनाभिव्यक्ति: इति भाषामाध्यमेन अभिव्यक्ते: स्तरचतुष्टयम् । वयं बहव: इतोऽपि प्रथमे एव स्तरे स्म: । वैचारिकसिद्धान्तानाम् अभिव्यक्ती-करणाय, भावनानां कल्पनानां च अभिव्यक्तीकरणाय यत् भाषासामर्थ्यम् अपेक्षितं तत्तु सुदूरे एव । द्वितीयं यत् सामान्यविषयप्रतिपादनम् इत्यस्ति तदर्थम् अपेक्षितं भाषासामर्थ्यम् अपि अस्मासु नास्ति । तच्च सामर्थ्यं शुद्धताशब्दसम्पत्तिशैलीनां द्वारा सम्पाद्यते ।

धाराप्रवाहिता निरन्तरसम्भाषणमात्रेण सम्पाद्येत । परं शुद्धता-शब्दसम्पत्तिशैल्य: बुद्धे: उपयोगेन (भाषाविषयकचिन्तनेन), व्याकरणनियमानाम् अभ्यासेन, कथा-नाटक-उपन्यास-निबन्धादीनां मुहु: पठनेन, विचिन्त्य लेखनेन, लिखितस्य परिष्कारकारणेन च सम्पाद्यन्ते । अत: इत:परं तानि सर्वाणि कार्याणि अस्माभि: अवश्यं करणीयानि । अन्यथा वयं ‘संस्कृत-सेवा अस्मद्ध्येयं, संस्कृतवृद्ध्यै वयं भवेम’ इति यथा प्रतिजानीमहे (प्रतिज्ञां कुर्म:) तथा संस्कृतवृद्धि: अपि न भवेत्, अस्मद्वृद्धि: अपि न भवेत् ।

अस्माकम् आन्दोलने भाषाया: श्रवण-भाषण-पठन-लेखन-रूपेषु चतुर्षु कौशलेषु श्रवणभाषणयो: निमित्तम् एव कार्यक्रमा: सन्ति, पठनलेखनयो: निमित्तं न । श्रवणभाषणे उत्साहनिर्माणं कुरुत: । उत्साहस्य रक्षणाय वर्धनाय च पठनलेखने आवश्यके । धाराप्रवाहितायै श्रवणभाषणे पर्याप्ते, परं शुद्धताशब्दसम्पत्ति-शैल्यर्थं पठनलेखने अनिवार्ये । अत: सर्वेण अपि अस्माकं कार्यकर्त्रा संस्कृतेन पठनलेखनकार्याणि अधिकाधिकतया करणीयानि, प्रतिदिनं करणीयानि, सर्वाधिकाग्रहेण करणीयानि च । पदे पदे दोषप्रदर्शनं तु न करणीयम् । परं परस्परं भाषाशुद्धताविषयकचर्चा अवश्यं करणीया । नियमबोधनं करणीयम् ।

२३०० वर्षाणि यावत् या हिब्रूभाषा मृता आसीत् तस्या: पुनरुज्जीवनान्दोलनं १८८० तमे वर्षे आरब्धम् । १९२५ तमवर्षाभ्यन्तरे हिब्रूभाषा व्यवहारभाषा जाता । १९४८ तमे वर्षे यदा स्वतन्त्र: इस्रैलदेश: प्रतिष्ठापित: जात: तदा विश्वस्य सर्वेभ्य: देशेभ्य: लक्षश: जना: इस्रैलदेशं प्रति आगतवन्त: वासाय । तदा तेषां सर्वेषां हिब्रूशिक्षणाभियानं प्रचलति स्म । भाषाया: सर्व-व्यापकव्यवहारेण भाषायां ये सामान्या: दोषा: भवन्ति स्म तेषां निवारणाय क्रियमाणेषु प्रयत्नेषु इस्रैलदेशस्य तदानीन्तन: प्रधानमन्त्री अपि दैनिकवार्तापत्रेषु भाषाशुद्धताविषयकस्तम्भ-लेखनाय चिन्तनाय वा प्रतिदिनं घण्टां यावत् समयं ददाति स्म । एतत् हिब्रूभाषेतिहासे उल्लिखितम् अस्ति । भाषाशुद्धता इत्ययं तावान् महत्त्वभूत: अंश: !

सामान्यदोषाणां निवारणाय शुद्धिकौमुदी, भाषापाक: इति पुस्तकद्वयं सर्वेण अपि पठनीयम् । श्रीमत: चारुदेवशास्त्रि्महोदयस्य वाग्व्यवहारादर्श:, शब्दापशब्दविवेक: इति पुस्तकद्वयम् अपि अत्यन्तम् उद्बोधकं, परं प्रौढम् । अधीतव्याकरशास्त्रा: एव तद् अवगच्छेयु: । शब्दकोषपरिशीलनस्य अस्माकं सदभ्यास: अत्यन्तं न्यून: । किं स्वसमीपे कश्चन कोष: अस्ति ? अस्ति चेत् प्रतिदिनम् किं स: उद्घाट्यते ?

अध्ययनशीलता इति कश्चन कठिन:, अभ्याससाध्य:, परिश्रमसाध्य: गुणविशेष: । यत: संस्कृतोन्नत्यै संस्कृतस्य संस्कृतत्वरक्षणम् अनिवार्यं, तस्मात् तदर्थम् अस्माकं सर्वेषां भाषाशुद्धतासम्पादनाय, भाषासौष्ठवसम्पादनाय च कठोर-परिश्रम: अनिवार्य: । प्रतिदिनम् अर्धघण्टां यावत् निद्रा न्यूनीकर्तव्या एव !

कश्चन संस्कृतशिक्षार्थी आरम्भे द्वित्राणि वर्षाणि यावत् भाषाशुद्धताया: विषये कदाचित् न चिन्तयेत् । भवतु नाम, तस्य प्रोत्साहनाय तद् वयम् अनुमन्यामहे । परं तदनन्तरं न । तदनन्तरं सर्वेणापि भाषापरिष्काराय चित्तव्यापार:, स्वेदोत्पादनं च करणीयम् एव । असंस्कृतप्रयोग: अकीर्तिकर: अस्वर्ग्य: च ।

पूर्वं कश्चन काल: आसीत् यदा मुद्रणशुद्धतावसरे विद्वांस: वदन्ति स्म - निर्णयसागरमुद्रणालयेन मुद्रितं प्रामाणिकम् इति । किं वयं तादृशं स्वप्नं पश्येम, लक्ष्यं चिन्तयेम यत् शुद्धताविषये संस्कृतभारत्या: कार्यकर्ता यद् वदति तद् प्रमाणभूतम् इति जना: यथा वदेयु: तथा परिस्थितिनिर्माणं कुर्याम इति ?

'सम्भाषणसन्देशः' - जनवरी २००९
लेखकः - च मू कृष्णशास्त्री
"https://sa.wikisource.org/w/index.php?title=संस्कृते_भाषाशुद्धिः&oldid=41183" इत्यस्माद् प्रतिप्राप्तम्