संस्कृत शिक्षकस्य कृते मनोविज्ञानस्य आवश्यकता


  विश्वेऽस्मिन शिक्षायाः प्रमुख उद्देश्यं वर्तते यत् छात्राणां व्यक्तित्वस्य सर्वागीणः विकास: भवेत् तथा तया शिक्षया छात्राणां व्यवहारे परिवर्तनं अपेक्षितं स्यात् |

शिक्षा-

       शिक्षा एका तादृशी प्रक्रिया अस्ति यया मानवे विद्यमानानां शक्तिनामभिवृद्धि : जायते । शिक्षा अनुभवं दूरदृष्टिं सामञ्जस्यं च प्रददाति, येन मानवस्य बालकस्य वा अभिवृद्धि: विकासश्च भवति । एवं च स्ववातावरणे समायोजनस्य प्रयत्नं करोति । अनेन तेषां मूल प्रवृत्तिनां परिमार्जनमपि भवति ।

मनोविज्ञानम् → मनोविज्ञानेन आन्तरिक बाह्य प्रवृत्तिनां अध्ययनं भवति मनोविज्ञान दर्शन शास्त्रस्य एका शाखा एकमङ्ग च वर्तते । यथा मनसः एवं मानसिक क्रियाणां अध्ययनं क्रियते ।

> मनोविज्ञान मानव प्रकृतेः विज्ञानमस्ति । (बेरिङ्ग) > मनोविज्ञान व्यवहारस्य शुद्ध विज्ञानं भवति ।

                                               (E. वाटसन)

संस्कृत शिक्षकस्य कृते मनोविज्ञानस्य आवश्यकता -

         अस्माकं लोकतांत्रिकसमाजे छात्राणां जीवनं शिक्षायाः च उद्देश्यान् मेलनं कर्तुं शिक्षकं मनोविज्ञानस्य आवश्यकता वर्तते (स्किनरः)

मनोविज्ञानस्य अध्ययनं कृत्वा एवं संस्कृतशिक्षकः बालविकासस्य अवस्थायाः ज्ञानं करोति ।

सर्वप्रथमं तु एतत् ज्ञातव्यम् यत् स: शिक्षक: कस्यापि विषयस्य शिक्षक: भवेत् । तं मनोविज्ञानं आवश्यकं ज्ञातव्यम् । संस्कृत शिक्षक : मनोविज्ञान दृष्ट्या कक्षायां सर्वेषां बालकानां बालिकानां च मध्ये वैयक्तिक भिन्नताः ज्ञास्यति । इत्युक्ते : प्रत्येकं छात्रस्य बुद्धि: भिन्नता पृथक-पृथक् भवति । केचन बालान एक बारं अधीत्यैव स्मरणं भवति, केचन् बालान् द्विवारं तु, केचन बालान् त्रिवारं, चतुवारं इत्यादि वारं पठनात् अपरं पाठं स्मरणं भवति । अतः बालानां बुद्धि कौशलादि वैयक्तिकभिन्नताः पृथग् - पृथग् भवति ।

अतैव संस्कृत शिक्षकस्य कृते मनोविज्ञानस्य अत्याधिकावश्यकता उपयोगिता च ।