प्रमुखा विकल्पसूचिः उद्घाट्यताम्

सङ्गीतरत्नाकरः


अथ सप्तमो नर्तनाध्यायः
आङ्गिकं भुवनं यस्य वाचिकं सर्ववाङ्मयम्
आहार्यं चन्द्रतारादि तं नुमः सात्त्विकं शिवम् १
शिवप्रसादसंप्राप्तनिःसमिज्ञानसंपदा
तन्यते शार्ङ्गदेवेन नर्तनं तापकर्तनम् २
नाट्यं नृत्यं तथा नृत्तं त्रेधा तदिति कीर्तितम् ३
नाट्यवेदं ददौ पूर्वं भरताय चतुर्मुखः
ततश्च भरतः सार्धं गन्धर्वाप्सरसां गणैः
नाट्यं नृत्यं तथा नृत्तमग्रे शंभोः प्रयुक्तवान् ४
प्रयोगमुद्धतं स्मृत्वा स्वप्रयुक्तं ततो हरः
तण्डुना स्वगणाग्रण्या भरताय न्यदीदिशत् ५
लास्यमस्याग्रतः प्रीत्या पार्वत्या समदीदिशत्
बुद्ध्वाऽथ ताण्डवं तण्डोर्मर्त्येभ्यो मुनयोऽवदन् ६
पार्वती त्वनुशास्ति स्म लास्यं बाणात्मजामुषाम्
तया द्वारवतीगोप्यस्ताभिः सौराष्ट्रयोषितः ७
ताभिस्तु शिक्षिता नार्यो नानाजनपदास्पदाः
एवं परम्पराप्राप्तमेतल्लोके प्रतिष्ठितम् ८
ऋग्यजुःसामवेदेभ्यो वेदाच्चाथर्वणः क्रमात्
पाठ्यं चाभिनयान्गीतं रसान्संगृह्य पद्मभूः ९
व्यरीरचत्त्रयमिदं धर्मकामार्थमोक्षदम्
कीर्तिप्रागल्भ्यसौभाग्यवैदग्ध्यानां प्रचर्धनम्
औदार्यस्थैर्यधैर्याणां विलासस्य च कारणम् १०
दुःखार्तिशोकनिर्वेदखेदविच्छेदेकारणम् ११
अपि ब्रह्मपरानन्दादिदमभ्यधिकं ध्रुवम्
जहार नारदादीनां चित्तानि कथमन्यथा १२
न किंचिद्दृश्यते लोके दृश्यं श्राव्यमतः परम् १३
सर्वदा कृतकृत्येनाप्यक्लिष्टेष्तप्रदायके
द्रष्टव्ये नाट्यनृत्ये ते पर्वकाले विशेषतः १४
नृत्तं त्वत्र नरेन्द्राणामभिषेके महोत्सवे
यात्रायां देवयात्रायां विवाहे प्रियसंगमे १५
नगराणामगाराणां प्रवेशे पुत्रजन्मनि
ब्रह्मणोक्तं प्रयोक्तव्यं मङ्गल्यं सर्वकर्मसु १६
नाट्यादित्रितयस्यातः प्रपञ्चमभिदध्महे
नाट्यशब्दो रसे मुख्यो रसाभिव्यक्तिकारणम् १७
चतुर्धाभिनयोपेतं लक्षणावृत्तितिओ बुधैः
नर्तनं नाट्यमित्युक्तं स त्वत्राभिनयो भवेत् १८
काव्यबद्धं विभावादि व्यञ्जन्योऽर्थो नटे स्थितः
सामाजिकानां जनयन्निर्विघ्नरससंविदम् १९
लक्षणादि विभावादेर्वक्ष्ये रसनिरूपणे २०
आङ्गिको वाचिकस्तद्वदाहार्यः सात्त्विकोऽपरः
चतुर्धाऽभिनयस्तत्राऽऽङ्गिकोऽङ्गैर्दर्शितो मतः २१
वाचा विरचितः काव्यनाटकादिस्तु वाचिकः
आहार्यो हारकेयूरकिरीटादिविभूषणम् २२
सात्त्विकः सात्त्विकैर्भावैर्भावुकेन विभावितः २३
इतिकर्तव्यता तस्य द्विविधा परिकीर्तिता
लोकधर्मी नाट्यधर्मीत्येते च द्विविधे पुनः २४
चित्तवृत्त्यर्पिका काचिद्बाह्यवस्त्वनुकारिणी
इति भेदद्वयं प्राहुर्लोकधर्म्याः पुरातनाःअ २५
आश्रित्य कैशिकीं वृत्तिमेका नाट्योपयोगिनीम्
तद्योग्यां लौकिकां शोभां करोत्यावेष्टितादिभिः २६
अंशेनैवोपजीवन्ती लोकमन्या प्रवर्तते
नाट्यधर्म्यामपि प्राज्ञा भेदद्वंद्वमिदं जगुः २७
आङ्गिकाह्भिनयैरेव भावानेव व्यनक्ति यत्
तन्नृत्यं मार्गशब्देन प्रसिद्धं नृत्यवेदिनाम् २८
गात्रविक्षेपमात्रं तु सर्वाभिनयवर्जितम्
आङ्गिकोक्तप्रकारेण नृत्तं नृत्तविदो विदुः २९
ताण्डवं लास्यमित्येतद्द्वयं द्वेधा निगद्यते
वर्धमानासारिताद्यैर्गीतैस्तत्तद्ध्रुवायुतम् ३०
करणैरङ्गहारैश्च प्राधान्येन प्रवर्तितम्
तण्डूक्तमुद्धतप्रायप्रयोगं ताण्डवं मतम् ३१
लास्यं तु सुकुमाराङ्गं मकरध्वजवर्धनम् ३२
विषमं विकटं लघ्वित्यन्ये भेदत्रयं विदुः
नृत्तस्य तत्र विषमं स्यादृजुभ्रमणादिकम् ३३
विरूपवेषावयवव्यापारं विकटं मत्म्
उपेतं करणैरल्पैरञ्चिताद्यैर्लघु स्मृतम् ३४
नाटकस्थितवाक्यार्थपदार्थाभिनयात्मकम्
तदाद्यभरतेनोक्तं रसभावसमन्वितम् ३५
नाट्यं तन्नाटकेष्वेवोपयुक्तं तद्गतानतः
विहाय त्रीनभिनयानाङ्गिकोऽत्राभिधीयते ३६
तस्य शाखाऽङ्कुरो नृत्तं प्रधानं त्रितयं मतम्
तत्र शाखेति विख्याता विचित्रा करवर्तना ३७
अङ्कुरो भूतवाक्यार्थमुपजीव्य प्रवर्तिता
वर्तना सा भवेत्सूची भाविवाक्योपजीवनात् ३८
करणैरङ्गहारैश्च साधितं नृत्तमुच्यते
नात्रोपयोगिनौ सूच्यङ्गुरावुक्तौ प्रसङ्गतः ३९
अङ्गान्यत्र शिरो हस्तौ वक्षः पार्श्वे कटीतटम्
पादाविति षडुक्तानि स्कन्धावप्यपरे जगुः ४०
प्रत्यङ्गानि त्विह ग्रीवा बाहू पृष्ठं तथोदरम्
ऊरू जङ्घे षडित्याहुरपरे मणिबन्धकौ
जानुनी भूषणानीति त्रयमभ्यधिकं जगुः ४१
दृष्टिभ्रूपुटताराश्च कपोलौ नासिकानिलः
अधरो दशना जिह्वा चिबुकं वदनं तथा ४२
उपाङ्गानि द्वादशेति शिरस्यङ्गान्तरेषु तु
पार्ष्णिगुल्फौ तथाऽङ्गुल्यं करयोः पादयोस्तले ४३
मुखरागश्च करयोः प्रचाराः करणानि च
कर्माणि पाणिक्षेत्राणि करणानि द्विधा ततः ४४
शुद्धान्युत्प्लुतिपूर्वाणि चाङ्गहाराः सरेचकाः ४५
चार्यः शुद्धाश्च देशीस्थाः स्थानकान्यथ वृत्तयः
न्यायाः सप्रविचाराश्च मण्डलान्यखिलान्यपि ४६
लास्याङ्गानि ततो रेखा श्रमः पात्रस्य लक्षणम्
गुणदोषा मण्डनं च तस्योपाध्यायलक्षणम् ४७
संप्रदायो गुणा दोषास्तस्य शुद्धा च पद्धतिः
गौण्डल्याश्च विधिः सम्यग्लक्ष्म पेरणिनस्ततः ४८
तत्पद्धतिरथाऽऽचार्यो नटनर्तकलक्षणे
वैतालिकश्चारणश्च कोलाटिकसभासदः ४९
सभापतिः सभायाश्च निवेशो रसलक्षणम्
भावलक्षणमित्यस्मिन्नध्याये ब्रूमहे क्रमात् ५०
धुतं विधुतमाधूतमवधूतं च कम्पितम्
आकम्पितोद्वाहिते च परिवाहितमञ्चितम् ५१
निहञ्चितं परावृत्तमुत्क्षिप्ताधोमुखे तथा
लोलितं चेति विज्ञेयं चतुर्दशविधं शिरः ५२
तिर्यग्नतोन्नतं स्कन्धानतमारात्रिकं समम्
पार्श्वाभिह्मुखमित्यन्यान्भेदान्पञ्चापरे जगुः ५३
पर्यायेण शनैस्तिर्यग्गतमुक्तं धुतं शिरः
शून्यस्थान्स्थितस्यैव पार्श्वदेशावलोकने ५४
अनाश्वासे विस्मये च विषादेऽनीप्सिते तथा
प्रतिषेधे च तस्योक्तः प्रयोगो भरतादिभिः ५५
इति धुतम्
द्रुतगत्या तदेव स्याद्विधुतं तत्प्रयुज्यते
शीतार्ते ज्वरिते भीते सद्यःपीतासवे तथा ५६
इति विधुतम्
आधूतं तु सकृत्तिर्यगूर्ध्वं नीतं शिरो मतम्
गर्वेण स्वाङ्गवीक्षायां पार्श्वस्थोर्ध्वनिरीक्षणे
शक्तोऽस्मीत्यभिमाने च प्रयोगस्तस्य कीर्तितः ५७
इत्याधूतम्
यदधः सकृदानीतमवधूतं तदुच्यते
स्थित्याऽर्धदेशनिर्देशे संज्ञावाहनयोरपि
आलापे च प्रयोक्तव्यमिदमाहुर्मनीषिणः ५८
इत्यवधूतम्
बहुशो द्रुतमूर्ध्वाधःकम्पनात्कम्पितं शिरः
ज्ञानेऽभ्युपगमे रोषे वितर्के तर्जने तथा ५९
त्वरितप्रश्नवाक्ये च प्रयोक्तव्यमिदं शिरः
इति कम्पितम्
आकम्पितं तदेव स्याद्द्विः प्रयुक्तं शनैर्यदि ६०
एतत्पौरस्त्यनिर्देशे प्रश्ने संज्ञोपदेशयोः
आवाहने स्वचित्तस्थकथने च प्रयुज्यते ६१
इत्याकम्पितम्
सकृदूर्ध्वं शिरो नीतमुद्वाहितमुदीरितम्
शक्तोऽहमिह कार्येऽस्मीत्यभिमाने प्रयुज्यते ६२
इत्युद्वाहितम्
परिमण्डलिताकारभ्रामितं परिवाहितम्
लज्जाभरोद्भवे माने वल्लभानुकृतौ तथा ६३
विस्मये च स्मिते हर्षामर्षयोरनुमोदने
विचारे च विचारज्ञाः कार्यमाहुरिदं शिरः ६४
इति परिवाहितम्
शिरः स्यादञ्चितं किंचित्पार्श्वतो नतकंधरम्
रुक्चिन्तामोहमूर्छासु तत्कार्यं हनुधारणे ६५
इत्यञ्चितम्
उत्क्षिप्तबाहुशिखरं मग्नग्रीवं निहञ्चितम्
विलासे ललिते गर्वे विव्वोके किलकिञ्चिते ६६
मोट्टायिते कुट्टमिते माने स्तम्भे च तद्भवेत्
विलासो गमनादि स्याच्चेष्टाऽऽश्लिष्टाङ्गया कृता ६७
कान्यायाः सुकुमाराङ्गोपाङ्गत्वं ललितं विदुः
विव्वोकस्त्विष्टलाभेन जाताद्गर्वादनादरः ६८
हर्षाद्रोदनहासादि प्रोच्यते किलकिञ्चितम्
मोट्टायितं प्रियकथादृष्ट्यादौ तन्मयात्मता ६९
केशादिग्रहजे हर्षे दुःखिवद्भवनं तु यत्
स्यात्तत्कुट्टमितं मानो रोषः प्रणयसंभवः ७०
स्यात्तु निष्क्रियता स्तम्भो नवोढाप्रियसंगमे ७१
इति निहञ्चितम्
पराङ्मुखीकृतं शीर्षं परावृत्तमुदीरितम्
तत्कार्यं कोपलज्जादिकृते वक्त्रापसारणे
परावृत्तानुकरणे पृष्ठतः प्रेक्षणे तथा ७२
ऊर्ध्ववक्त्रं शिरो ज्ञेयमुत्क्षिप्तं तत्प्रयुज्यते
दर्शने तुङ्गवस्तूनां चन्द्रादिव्योमगामिनाम् ७३
इत्युत्क्षिप्तम्
लज्जादुःखप्रणामेषु स्यादन्वर्थमधोमुखम् ७४
इत्यधोमुखम्
शिरः स्याल्लोलितं सर्वदिक्कैः शिथिललोचनैः
निद्रागदग्रहावेशमदमूर्छासु तन्मतम् ७५
इति लोलितम्
तिर्यङ्नतोन्नतिं प्राप्तं शिरस्तिर्यङ्नतोन्नतम्
विव्वोकादिषु कान्तानां तत्प्रयोगं प्रचक्षते ७६
इति तिर्यङ्नतोन्नतम्
स्कन्धानतं तदाख्यातं स्कन्धे यन्निहितं शिरः
तन्निद्रामदमूर्छासु चिन्तायां च प्रयुज्यते ७७
इति स्कन्धानतम्
स्कन्धौ तु किंचिदाश्लिष्य भ्रान्तमारात्रिकं मतम्
विस्मये दृश्यते तच्च पराभिप्रायवेदने ७८
इत्यारात्रिकम्
स्वाभाविकं समं शीर्षं स्वभावाभिनये मतम्
इति समम्
पार्श्वाभिमुखमन्वर्थं पार्श्वस्थस्यावलोकने ७९
इति पार्श्वाभिमुखम्
इति पञ्च शिरःप्रकाराः
पताकस्त्रिपताकोऽर्धचन्द्राख्यः कर्तरीमुखः
अरालमुष्टिशिखरकपित्थखटकामुखाः ८०
शुकतुण्डश्च काङ्गूलः पद्मकोशोऽलपल्लवः
सूचीमुखः सर्पशिराश्चतुरो मृगशीर्षकः ८१
हंसास्यो हंसपक्षश्च भ्रमरो मुकुलस्तथा
ऊर्णनाभश्च संदंशस्ताम्रचूडोऽपरः करः ८२
असंयुता मता हस्ताश्चतुर्विंशतिरित्यमी
अभिनेयवशादेषां संयुतत्वमपीष्यते ८३
अञ्जलिश्च कपोताख्यः कर्कटः स्वस्तिकस्तथा ८४
दोलपुष्पपुटोत्सङ्गखटकावर्धमानकाः
गजदन्तश्चावहित्थो निषधो मकरस्तथा ८५
वर्धमानश्चेति हस्ताः संयुताः स्युस्त्रयोदश
एतेऽभिनयहस्ताः स्युः सप्तत्रिंशन्मुनेर्मताः ८६
चतुरस्रावथोद्वृत्तौ हस्तौ तलमुखाभिधौ
स्वस्तिकौ विप्रकीर्णाख्यावरालखटकामुखौ ८७
आविद्धवक्त्रौ सूच्यास्यौ रेचितावर्धरेचितौ
नितम्बौ पल्लवौ केशबन्धावुत्तानवञ्चितौ
नितम्बौ पल्लवौ केशबन्धावुत्तानवञ्चितौ ८८
लताख्यौ करिहस्तश्च पक्षवञ्चितकाभिधौ
पक्षप्रद्योतकोदण्डपक्षौ गरुडपक्षकौ ८९
ऊर्ध्वमण्डलिनौ हस्तौ पार्श्वमण्डलिनावपि
उरोमण्डलिनौ स्यातामुरःपार्श्वार्धमण्डलौ ९०
मुष्तिकस्वस्तिकावन्यौ नलिनीपद्मकोशकौ
अलपद्मावुल्बणौ च वलितौ ललिताविति ९१
नृत्तहस्ता मतास्त्रिंशन्नृत्तमात्रोपयोगिनः
एतानभिनयेऽप्याहुः शास्त्रतः संप्रदायतः ९२
लताख्यौ हि मुनिर्वक्ति नृत्ताभिनयगोचरौ
सूच्यन्तेऽन्ये साहचर्यात्तेनाभिनयगोचराः ९३
युक्तितः संप्रदायाच्च लोकतोऽत्र विशेषधीः
यथा हि करिहस्तेन हस्ती लोकेऽभिनीयते ९४
भट्टाभिनवगुप्ताद्यैरिदमभ्युपगम्यते
सर्वे च मिलिताः सन्तः सप्तषष्टिरिमे कराः ९५
चतुःषष्टित्वमेतेषां नयुक्त्यागमगोचरः
चतुःषष्टित्वमेवं वा तेषां सूरिभिरूह्यताम् ९६
कर्तव्यौ स्वस्तिकौ हस्तौ विप्रकीर्णविशेषणौ
करौ हि स्वस्तिकीभूय विच्युतौ विप्रकीर्णकौ ९७
स्वतन्त्रयोरतो नास्ति प्रयोगो विप्रकीर्णयोः
उरोमण्डलिनावेवं पार्श्वमण्डलिनोरिह ९८
विशेषणे चोल्बणयोः कर्तव्यावलपल्लवौ
विशेषणविशेष्ये च न स्यातां भिन्नगामिनी ९९
नीलमुत्पलमित्यत्र न हीष्टं पङ्कजद्वयम्
प्रसिद्धेरुपपत्त्यर्थं युक्तिरेषा मयोदिता १००
आचार्याणां तु सर्वेषां पृथगुद्देशलक्षणे
वदतां स्वस्तिकाद्येषु न विशेषणता मता १०१
निकुञ्चकमयुक्तेषु करं द्विशिखरं पुनः
युक्तेषु नृत्तहस्तेषु त्वधिकौ वरदाभयौ १०२
ब्रुवन्तः केचिदाचार्या हस्तसप्ततिमूचिरे
तेषामीषद्विकारेऽपि विनियोगेष्वनन्यता १०३
तर्जनीमूलसंलग्नः कुञ्चिताङ्गुष्ठको भवेत्
पताकः संहताकारः प्रसारिततलाङ्गुलिः १०४
एष स्पर्शे चपेटे च पताकातालिकादिषु
ज्वालासूर्ध्वगतास्वस्याङ्गुल्यः प्रविरलाश्चलाः १०५
धारास्वधोगताः पक्षिपक्षे त्वस्य कटिस्थिते
ऊर्ध्वं गच्छन्नुच्छ्रितेषु पुष्करप्रहतौ त्वधः १०६
ऊर्ध्वं गच्छन्कटिक्षेत्रादुत्क्षेपाभिनये करः
आभिमुख्ये मुखक्षेत्रमागच्छन्निजपार्श्वतः १०७
स्वपार्श्वे कम्पमानस्तु प्रतिषेधे भवत्यसौ
शीघ्रं घर्षन्नधिष्ठाय पताकं क्षालने परम् १०८
पताकं तु शनैर्घर्षन्मर्दने मार्जने तथा
उत्पाटने धारणे च शिलादिस्थूलवस्तुनः १०९
उचितौ विच्युतौ कार्यावेतावन्योन्यसंमुखौ
अधोगतोच्छ्रितचलाङ्गुलिर्वायूर्मिवेगयोः ११०
इति पताकः
स एव त्रिपताकः स्याद्वक्रितानामिकाङ्गुलिः
दध्यादिमङ्गलद्रव्यस्पर्शादौ स विधीयते १११
पराङ्मुखः स्यादाह्वाने लग्नद्व्यङ्गुलिकुञ्चनात्
बहिःक्षिप्ताङ्गुलिद्वंद्वोऽधस्तलोऽनादरोज्झिते ११२
नमस्कारे त्वसौ कार्यः शिरस्थः पार्श्वतस्तलः
उत्तानिताङ्गुलिद्वंद्वो वदनोन्नामने मतः ११३
संदेहे दधदङ्गुल्यौ क्रमेणैव नतोन्नते
अधोमुखः शिरःप्रान्ते भ्रमन्नुष्णीषधारणे ११४
तादृगेव किरीटस्य धृतौ मूर्धोर्ध्वदेशगः
अनिष्टे गन्धवाग्घोषे नासास्यश्रोत्रसंवृतिम् ११५
अङ्गुलीभ्यां क्रमात्कुर्वन्पक्षिस्रोतोनिलेषु तु
क्षुद्रेषूर्ध्वमधस्तिर्यक्क्रमाद्गच्छन्दधत्तथा ११६
अधोमुखचलाङ्गुल्यौ कटिक्षेत्रगतः करः
अस्रे तन्मार्जने च स्यादधो यान्तीमनामिकाम् ११७
नेत्रक्षेत्रगतां बिभ्रत्तिकलके तु ललाटगाम्
अलकस्यापनयने दधत्तामलकान्विताम् ११८
इति त्रिपताकः
एकतोऽङ्गुलिसंघाते यत्राङ्गुष्ठे स्थितेऽन्यतः
चन्द्रलेखाकृतिर्भाति सोऽर्धचन्द्रोऽभिधीयते ११९
उपर्युत्तानितोऽर्धेन्दावूर्ध्वगो बालपादपे
पराङ्मुखस्तु खेदे स्यात्कपोलफलकं दधत्
प्रयोक्तव्यः कृशे मध्ये बलान्निर्वासनादिषु १२०
इत्यर्धचन्द्रः
अश्लिष्टमध्यमा पृष्ठे संस्थिता तर्जनी यदा १२१
त्रिपताकस्य हस्तस्य तदा स्यात्कर्तरीमुखः
अलक्तकादिना पादरञ्जने पतने पुनः १२२
मध्यमां तर्जनीस्थाने पुनस्तत्रैव तर्जनीम्
दधानोऽधोगतोऽथाग्रस्थोत्ताने लेख्यवाचने १२३
इति कर्तरीमुखः
तर्जन्यादिष्वङ्गुलीषु प्राच्याः प्राच्याः परा परा
दूरस्थोच्चा मनाग्वक्रा धनुर्वक्रा तु तर्जनी १२४
अङ्गुष्ठः कुञ्चितो यत्र तमरालं प्रचक्षते
आशीर्वादादिषु प्रोक्तः स पुंसां हृदयस्थितः १२५
अथ स्त्रीणां केशबन्धे केशानां च विकीर्णने
द्विस्त्रिः कार्योऽन्यपार्श्वात्तु स्वपार्श्वे वर्तुलभ्रमः १२६
आव्रजञ्जनसंघे स्यादाह्वाने पतदङ्गुलिः
विवाहे त्वङ्गुलाग्रस्थस्वस्तिकाकारयोजितम् १२७
प्रदक्षिणं करद्वंद्वं स्याद्धमन्केवलः पुनः
प्रदक्षिणं भ्रमत्कार्यो देवतानां प्रदक्षिणे १२८
कस्त्वं कोऽहं क्व संबन्ध इत्यसंबद्धभाषणे
बहिः पुनः पुनः क्षिप्ताङ्गुलिर्भालस्थितः पुनः
भालस्वेदापनयने त्रिपताकोदितेषु च १२९
इत्यरालः
तलमध्यस्थितैर्लग्नैरङ्गुल्यग्रैरगोपितैः
निष्पीड्य मध्यमां तिष्ठत्यङ्गुष्ठो मुष्टिरिष्यते १३०
कुन्तनिस्त्रिंशदण्डादिग्रहे विविधयोधने
धावने प्राङ्मुखाङ्गुष्ठो मल्लयुद्धे करद्वयम् १३१
इति मुष्टिः
मुष्टेरूर्ध्वकृतोऽङ्गुष्ठः शिखरः संप्रयुज्यते १३२
शक्तितोमरयोर्मोक्षे धनुर्भल्लाङ्गुशग्रहे
अलकोत्पीडने मुष्टिः कार्यः सोऽप्यस्य लोकतः १३३
इति शिखरः
अङ्गुष्ठाग्रेण लग्नाग्रा तर्जनी शिखरस्य चेत्
कपित्थः स्यात्तदा कार्यो धारणे कुन्तवज्रयोः १३४
चक्रचापगदादेश्च शराकर्षादिकर्मणि
अन्योन्यकार्यविषयौ कपित्थशिखरौ क्वचित् १३५
इति कपित्थः
अनामिकाकनीयस्यावुत्क्षिप्ते कुटिलीकृते १३६
विरले चेत्कपित्थस्य तदा स्यात्खटकामुखः
उत्तानस्तुरगादेः स्याद्वल्गाचामरधारणे १३७
कुसुमावचये मुक्तास्रग्दामधरणे तथा
शरमन्थाकर्षणे च संमुखो दर्पणग्रहे १३८
कस्तूरिकादिवस्तूनां पेषणेऽधस्तलौ करौ
ताम्बूलवीटिकावृन्तच्छेदनादौ च स स्मृतः १३९
इति खटकामुखः
अरालस्य यदाऽत्यन्तवक्रे तर्जन्यनामिके
शुकतुण्डस्तदा स स्यात्प्रेमकोपेन वर्षया
न त्वं नाहं न मे कृत्यं त्वयेति वचने तथा १४०
द्यूताक्षपातनादौ स्यात्सावज्ञे तु विसर्जने
आह्वाने च बहिश्चान्तः क्रमात्क्षिप्ताङ्गुलिर्भवेत् १४१
इति शुकतुण्डः
काङ्गूलेऽनामिका वक्रा भवेदूर्ध्वा कनीयसी
ऊर्ध्वास्त्रेताग्निसंस्थानास्तर्जन्यङ्गुष्ठमध्यमाः १४२
फलेऽल्पे च मिते ग्रासे स्याद्बिडालपदादिषु
चिबुकग्रहणे चैव बालकानां विधीयते १४३
इति काङ्गूलः
अङ्गुष्ठाङ्गुलयो यस्मिन्नलग्नाग्रा धनुर्नताः
विरलाः पद्मकोशोऽसौ कार्यो देवार्चने बलौ १४४
द्विस्त्रिर्वा विप्रकीर्णाग्रः पुष्पाणां प्रकरे करः
फले बिल्वकपित्थादौ स्त्रीणां च कुचकुम्भयोः १४५
इति पद्मकोशः
व्यावर्तिताख्यं करणं कृत्वैव समवस्थिताः
यस्याङ्गुल्यः करतले पार्श्वगाः सोऽलपल्लवः १४६
अलल्पद्मः स एव स्यादङ्गुलीनां च केचन
अस्य व्यावर्तितस्थाने परिवर्तितमूचिरे १४७
कस्य त्वमिति नास्तीति वाक्ययोः प्रतिषेधने
तुच्छाद्युक्तानृतत्वोक्तिष्वेव स्त्रीभिः प्रयुज्यते १४८
इत्यलपल्लवः
ऊर्ध्वं प्रसारिता यत्र खटकामुखतर्जनी
हस्तः सूचीमुखः स स्यादभिनेयमिहोच्यते १४९
शस्त्रे चक्राभिधे कुम्भकारोपकरणे तथा
रथाङ्गे जनसंघाते भ्रमन्ती तर्जनी भवेत् १५०
ऊर्ध्ववक्त्राऽधोमुखी च निजपार्श्वगता तथा
पार्श्वान्तरान्निजं पार्श्वमायान्ती च क्रमाद्भवेत् १५१
पताकायां भवेदूर्ध्वा साधुवादे च दोलिता
एकत्वे तर्जनी चोर्ध्वा नासास्था श्वासवीक्षणे १५२
अधस्तले पार्श्वयुक्ते संयुक्ते विरहे पुनः
वियुक्ते च विधातव्ये शार्ङ्गदेवेन कीर्तिते १५३
इति सूचीमुखः
पताको निम्नमध्यो यः स तु सर्पशिराः करः
देवेभ्यस्तोयदानेऽसावुत्तानोऽधोमुखः पुनः १५४
भुजंगमगतौ स स्यादास्फाले करिकुम्भयोः
भुजास्फोटे च मल्लानां नियुद्धादिषु कीर्तितः १५५
इति सर्पशिराः
अस्याङ्गुष्ठो मध्यमाया मध्यपर्वोदरं श्रितः
ऊर्ध्वा कनीयसी यत्र चतुरं तं करं विदुः १५६
अन्ये पताकाङ्गुष्ठस्य मध्यमामूलसंस्थितिम्
ईषच्च पृष्ठतो यातां कनिष्ठां चतुरे जगुः १५७
नये वदनदेशस्थो युतौ द्वौ मणिबन्धयोः
विनयेऽथ विचारे स्यात्पार्श्वगोऽथ हृदि स्थितः १५८
ऊहापोहे च लीलायामुद्वेष्टितयुतः करः
कैतवेऽक्षप्रेरणे च भवेदूर्ध्वतलः समे १५९
अङ्गुष्ठमध्यमान्योन्यमर्दनेन तु मार्दवे
चातुर्यवचने त्वेतौ संयुतौ चतुरोदितौ १६०
इति चतुरः
सर्पशीर्षकरस्योर्ध्वे यदाऽङ्गुष्ठकनिष्ठिके
मृगशीर्षस्तदा हस्तः स त्वधोवदनो भवेत् १६१
अद्योहसांप्रतार्थेषूत्तानोद्यूताक्षपातने
गण्डादिक्षेत्रसंस्थस्तु गण्डादिस्वेदमार्जने १६२
इति मृगशीर्षः
लग्नास्त्रेताग्निसंस्थानास्तर्जन्यङ्गुष्ठमध्यमाः
शेषे यत्रोर्ध्वविरले हंसास्यः सोऽभिधीयते १६३
अयं मृदुनि निःसारे श्लक्ष्णेऽल्पे शिथिले लघौ
मर्दितं मथितं क्षिप्तं दधदग्रं विधूनितम्
औचित्याच्युतयुक्तं तु कुसुमावचयादिषु १६४
इति हंसवक्त्रः
यदि किंचिन्नमन्मूलं तर्जन्याद्यङ्गुलित्रयम्
पताकस्य तदा हस्तं हंसपक्षं प्रचक्षते १६५
अयमाचमने कार्यश्चन्दनाद्यनुलेपने
हनुदेशगतस्तु स्याद्दुःखजे हनुधारणे १६६
मण्डलीकृतबाहू तौ महास्तम्भप्रदर्शने
आलिङ्गने च प्रत्यक्षे परोक्षे स्वस्तिकीकृतौ १६७
रोमाञ्चाद्यनुभावैस्तु रसेष्वेष यथारसम्
अनुभावा रसवशात्कार्या हस्तान्तरेष्वपि १६८
इति हंसपक्षः
अङ्गुष्ठमध्यमाङ्गुल्यौ श्लिष्टाग्रे तर्जनी मता
यत्रोर्ध्वविरले शेषे स करो भ्रमरो भवेत् १६९
ग्रहणे दीर्घनालानां पुष्पाणामयमिष्यते
कर्णपूरे तालपत्रे कण्टकोद्धरणादिषु १७०
इति भ्रमरः
यत्राङ्गुष्ठाग्रलग्नाश्च संहताङ्गुलयोऽखिलाः
ऊर्ध्वाश्च मुकुलः स स्यात्पद्मादिमुकुलाकृतौ १७१
बलिकर्मणि देवानां पूजने भोजनादिषु
मुहुर्विकास्य प्रकृतिं नीतो दाने त्वरान्विते १७२
मुखचुम्बे तु कान्तानां संनिधौ विटचुम्बने
कुचकक्षादिदेशस्थः स्यादाच्छुरितके करः १७३
यदाऽङ्गुलीपञ्चकेन सशब्दं नखलेखनम्
कुचादौ कामसूत्रज्ञास्तदाऽऽच्छुरितकं विदुः १७४
इति मुकुलः
पद्मकोशस्य यत्र स्युरङ्गुल्ल्यः पञ्च कुञ्चिताः
ऊर्णनाभः स चौर्येण ग्रहे केशग्रहादिषु १७५
शिरःकण्डूयने कार्यश्चिबुकक्षेत्रगौ तु तौ
कार्यौ सखस्तिकौ सिंहव्याघ्रादिनखरायुधे १७६
इत्यूर्णनाभः
अरालाङ्गुष्ठतर्जन्यौ लग्नाग्रे निम्नतां गतः
किंचिच्चेत्तलमध्यः स्यात्तदा संदंश उच्यते १७७
स त्रेधा स्यादग्रजश्च मुखजः पार्श्वजः क्रमात्
प्राङ्मुखः संमुखः पार्श्वमुख इत्यस्य लक्षणम् १७८
कण्टकोद्धरणे सूक्ष्मकुसुमावचयादिषु
प्रयोक्तव्योऽग्रसंदंशो धिगित्युक्तौ तु रोषतः १७९
वृन्तात्पुष्पोद्धृतौ वर्तिशलाकाञ्जनपूरणे
कर्तव्यो मुखसंदंशः संदंशः पार्श्वजः पुनः १८०
गुणनिक्षेपणे मुक्ताफलानां वेधने तथा
निरूपणे च तत्त्वस्य सद्वितीयोऽथ भाषणे १८१
सरोषे वामहस्तेन किंचिदग्रविवर्तनात्
अलक्तकादिनिष्पेषेऽप्येष श्रीशार्ङ्गिणोदितः १८२
इति संदंशः
भ्रमरस्य तलस्थे चेत्कनिष्ठोपकनिष्ठिके
ताम्रचूडस्तदा हस्तो बालाह्वानेऽथ भर्त्सने १८३
गीतादितालमाने च शैघ्र्यविश्वासनादिषु
सशब्दच्युतसंदंशः कार्योऽसौ छोटिकोच्यते १८४
प्रसारितकनिष्ठस्य मुष्टेर्यत्ताम्रचूडताम्
विनियोगं सहस्रादिसंख्यानिर्देशनेऽस्य च
केऽप्यूचुस्तं तु निःशङ्को नैच्छल्लक्ष्येष्वदर्शनात् १८५
इति ताम्रचूडः
पताकहस्ततलयोः संश्लेषादञ्जलिर्मतः १८६
देवतागुरुविप्राणां नमस्कारेष्वयं क्रमात्
कार्यः शिरोमुखोरस्थो नृभिः स्त्रीभिर्यथेष्टतः १८७
इत्यञ्जलिः
कपोतोऽसौ यत्र श्लिष्टमूलाग्रपार्श्वकौ
अस्य कूर्मक इत्यन्यां संज्ञां हस्तविदो विदुः १८८
प्रणामे गुरुसंभाषे विनयाङ्गीकृतौ त्वयम्
प्राङ्मुखः सशिरःकम्पः स्त्रीकापुरुषयोर्भवेत् १८९
इति कपोतः
अन्योन्यस्यान्तरैर्यत्राङ्मुल्यो निःसृत्य हस्तयोः
अन्तर्बहिश्च दृश्यन्ते कर्कटः सोऽभिधीयते १९०
अन्तःस्थिताङ्गुलिः कार्यश्चिन्तायामथ जृम्भणे
ऊर्ध्वं पार्श्वेऽग्रतो वा स्यात्पराङ्मुखतलाङ्गुलिः १९१
अङ्गानां मोटने चाथ बृहद्देहे स्वसंमुखः
जठरक्षेत्रगः पृष्ठे त्वङ्गुलीनां हनुं दधत् १९२
खेदे च संकुचत्किंचिदन्योन्याभिमुखाङ्गुलिः
शङ्खस्य धारणे सोऽयं जृम्भादौ बहिरङ्गुलिः १९३
इति कर्कटः
एकस्य मणिबन्धेऽन्यमणिबन्धस्थितौ करौ
देहस्य वामपार्श्वस्थावुत्तानौ स्वस्तिको मतः १९४
अत्रारालौ पताकौ वाऽभिनये वशगौ करौ
विच्युतः स्वस्तिकः स्त्रीभिरेवमस्तीति भाषने
गगने सागरादौ च विस्तीर्णे संप्रयुज्यते १९५
इति स्वस्तिकः
लम्बमानौ पताकौ तु श्लथांसौ शिथिलाङ्गुली १९६
दोलो भवेदसौ व्याधौ विषादे मदमूर्छयोः
संभ्रमादौ यथायोगं स्तब्धो वा पार्श्वदोलितः १९७
इति दोलः
सर्पशीर्षो मिलद्बाह्यपार्श्वः पुष्पपुटो भवेत्
धान्यपुष्पफलादीनामपां च ग्रहणेऽर्पणे
कार्यः पुष्पाञ्जलौ चैष प्रोक्तः सोढलसूनुना १९८
इति पुष्पपुटः ।
अन्योन्यस्कन्धदेशस्थावरालौ स्वस्तिकीकृतौ
स्वसंमुखौ च विततावुत्सङ्गो गीयते करः १९९
देहदक्षिणभागस्थं स्वस्तिकं केचिदूचिरे
अधस्तलत्वमप्यन्येऽन्योन्यकक्षानुवेशिनीः २००
अङ्गुलीः करयोः पृष्ठद्वयं पार्श्वमुखं विदुः
करावरालयोः स्थाने सर्पशीर्षावितीतरे २०१
अतिप्रयत्नसाध्येऽर्थे शीतालिङ्गनयोरपि
प्रसादनानङ्गीकारे लज्जादौ चैव योषिताम् २०२
इत्युत्सङ्गः
खटकामुखयोः पाण्योः स्वस्तिके मणिबन्धने
अन्योन्याभिमुखत्वे वा खटकावर्धमानकः २०३
तामूलग्रहणादौ स्यात्कामिनां प्रथमे मते
पुष्पाणां ग्रन्थने सत्यभाषणादौ मतान्तरे २०४
स्कन्धकूर्परयोर्मध्यमन्योन्यस्य यदा करौ
दधाते सर्पशिरसौ गजदन्तस्तदोदितः २०५
आकुञ्चत्कूर्परौ स्कन्धदेशस्थौ सर्पशीर्षकौ
अन्योन्याभिमुखौ लक्ष्म गजदन्ते जगुः परे २०६
एष शैलशिलोत्पाटे गतागतयुतः करः २०७
विवाहस्थाननयने स्याद्वधूवरयोरयम्
स्तम्भग्रहेऽतिभारे च श्रीसोढलसुतोदितः २०८
इति गजदन्तः
वक्षसोऽभिमुखौ सन्तौ शुकतुण्डावधोमुखौ
कृत्वा नीतावधो यत्र सोऽवहित्थोऽभिधीयते
दौर्बल्यौत्सुक्यनिःश्वासगात्रकार्श्येष्वसौ भवेत् २०९
इत्यवहित्थः
मुकुलस्य कपित्थेन वेष्टनान्निषधो भवेत् २१०
शास्त्रार्थसम्यग्ग्रहणे स स्यान्निष्पेषणे तथा
सम्यक्च स्थापिते तथ्यमिदमित्यपि भाषणे २११
प्रथमं गजदन्तं तु निषधं केचिदूचिरे
स शैर्यधैर्यगाम्भीर्यगर्वादिषु मतस्तथा २१२
इति निषधः
उपर्युपरि विन्यस्तौ यत्रान्योन्यमधोमुखौ
ऊर्ध्वाङ्गुष्ठौ पताकाख्यौ करौ स मकरः करः २१३
स नक्रमकराडीनां क्रव्यादद्वीपिनामपि
सिंहादीनामभिनये नदीपूरस्य चेष्यते २१४
इति मकरः
हंसपक्षौ स्वस्तिकत्वं प्राप्तौ यदि पराङ्मुखौ २१५
वर्धमानस्तदा हस्तः कपाटोद्घाटने भवेत्
विच्युतः स्वस्तिकस्तद्वद्वक्षःस्थलविदारणे २१६
सर्पशीर्षो हंसपक्षस्थानेऽस्मिन्नपरे जगुः
अपरेऽभ्युपजग्मुस्तं स्वस्तिकेन विना कृतम् २१७
इति वर्धमानः
पुरोमुखौ समस्कन्धकूर्परौ खटकामुखौ २१८
स्थितौ वक्षःपुरोदेशे वक्षसोऽष्टाङ्गुलान्तरे
चतुरस्राविति प्रोक्तौ स्रगाद्याकर्षणे करौ २१९
इति चतुरस्रौ
चतुरस्रीकृत्य पाण्योः कृतयोर्हंसपक्षयोः
उत्तानोऽधो व्रजत्युएको वक्षोऽन्यो यात्यधोमुखः २२०
यदा स्यातां तदोद्वृत्तौ तालवृन्तनिरूपणे
तावेव तालवृन्ताख्याववदन्नृत्तकोविदाः २२१
प्राङ्मुखौ हंसपक्षाख्यौ व्यावृत्तपरिवर्तितौ
जयशब्दे प्रयोक्तव्यावुद्वृत्तौ मेनिरे परे २२२
इत्युद्वृत्तौ
भूत्वोद्वृत्तौ स्थितौ त्र्यस्रौ हंसपक्षौ स्वपार्श्वयोः
जातौ मिथः संमुखस्थतलौ तलमुखौ मतौ
बुधैरभिदधाते तौ मधुरे मर्दलध्वनौ २२३
इति तलमुखौ
अश्लिष्टहंसपक्षाभ्यां स्वस्तिकस्वस्तिकौ करौ २२४
इति स्वस्तिकौ
विप्रकीर्णौ तु तावेव सहसा स्वस्तिके च्युते
नीचाग्रावुन्नताग्रौ वा कुचाभ्यां पुरतः स्थितौ
पराङ्मुखौ हंसपक्षौ विप्रकीर्णौ जगुः परे २२५
इति विप्रकीर्णौ
पताकस्वस्तिकं कृत्वा व्यावृत्तपरिवर्तने
ऊर्ध्वास्यौ पद्मकोशौ च व्यावृत्तपरिवर्तने २२६
क्रमात्कृत्वा यत्र वाममुत्तानारालमाचरेत्
खटकामुखमन्यं वाऽधोमुखं चतुरस्रतः २२७
स्वस्तिकेनाथवा यद्वा कृत्वाऽरालौ करौ कृतौ
खटकामुखसंज्ञौ तावरालखटकामुखौ २२८
वणिजां सचिवादीनां वितर्केऽसौ प्रयुज्यते
अन्ये त्वाहुरुरोग्रस्थः प्राङ्मुखः खटकामुखः २२९
अरालः प्रोन्नताग्रोऽन्यस्तिर्यगीषत्प्रसारितः
पार्श्वव्यत्ययतो यद्वा स्वपार्श्वे चेत्करौ स्थितौ
तलान्तरौ तदा स्यातामरालखटकामुखौ २३०
इत्यरालखटकामुखौ
भुजाग्रयोः कूर्परयोरंसयोः सविलासयोः
सतोः पताकौ व्यावृत्तिं विधाय भवतो द्रुतम्
अधस्तलौ चेदाविद्धवक्त्रौ हस्तौ तदोदितौ २३१
विक्षेपवलने प्राहुः प्रयोगं कृतिनस्तयोः २३२
इत्याविद्धवक्त्रौ
मध्यमासंगताङ्गुष्ठौ चतुरस्रप्रदेशगौ
सर्पशीर्षौ क्रमात्तिर्यक्प्रसरन्तौ प्रदेशिनीम्
बहिः प्रसारितां धत्तो यदा सूचीमुखौ तदा २३३
पताकौ प्रथमं कार्यौ व्यावृत्तपरिवर्तितौ
भ्रान्त्वा प्रसारणं चात्र विशेषं केचिदूचिरे २३४
मध्यप्रसारिताङ्गुष्ठौ सर्पशीर्षाकृती करौ
रेचितस्वस्तिकौ केचिदूचुः सूच्यास्यलक्षणम् २३५
इति सूच्यास्यौ
प्रसारितोत्तानतलावुच्येते रेचितौ करौ
अथवा रेचितौ प्रोक्तौ हंसपक्षौ द्रुतभ्रमौ २३६
यद्वा रेचितयोर्लक्ष्म लक्षणे मिलिते इमे
प्रयोज्यौ तौ नृसिंहस्य दैत्यवक्षोविदारणे २३७
इति रेचितौ
एकेन चतुरस्रेण तौ स्यातामर्धरेचितौ २३८
इत्यर्धरेचितौ
उत्तानाधोमुखत्वाभ्यां क्रमेण स्कन्धदेशतः
पताकौ यदि निष्क्रम्य नितम्बक्षेत्रवर्तिनौ
रेचकं कुरुतो हस्तौ नितम्बावुदितौ तदा २३९
इति नितम्बौ
बाहू व्यावर्तितेनोर्ध्वं प्रसार्य परिवर्तितः
स्वस्तिकाकृतितां नीतौ पताकौ पल्लवौ मतौ २४०
शिथिलौ त्रिपताकौ तु केचिदत्र प्रचक्षते
नतोन्नतौ पद्मकोशौ शिथिलौ मणिबन्धयोः २४१
स्वपार्श्वयोः पुरस्ताद्वा पल्लवाववदन्परे
पद्मकोशकरस्थाने पताकावपरे जगुः २४२
इति पल्लवौ
पार्श्वदेशोत्थितौ पार्श्वमस्पृशन्तौ गतौ शिरः
नितम्बवत्केशदेशान्निष्क्रम्य च पुनः पुनः
पृथग्गतागतौ यौ तौ केशबन्धौ करौ मतौ २४३
इति केशबन्धौ
कपोलांसललाटानां क्षेत्रे त्वन्यतमे स्थितौ २४४
त्रिपताकौ करौ किंचित्तिर्यञ्चौ संमुखौ मिथः
अंसकूर्परयोः किंचिच्चलतोरूर्ध्वतस्तलौ २४५
क्षणं भूत्वा प्रचलितौ ज्ञेयावुत्तानवञ्चितौ
अंसकूर्परयोः किंचित्पतनं मन्वते परे २४६
इत्युत्तानवञ्चितौ
पताकौ दोलितौ तिर्यक्प्रसृतौ तौ लताकरौ
अनयोः करयोः केशबन्धयोश्च नितम्बयोः
त्रिपताकाकृतिं केचिदाचार्याः प्रतिजानते २४७
इति लताकरौ
स्पृशत्करिकराकारः पार्श्वयोश्चेल्लताकरः
उन्नतो दोलितोऽन्यस्तु कर्णस्थः खटकामुखः २४८
त्रिपताकोऽथवा यत्र करिहस्तममुं विदुः
नन्वन्यहस्तवत्कस्मान्नात्र द्विवचनं कृतम् २४९
ब्रूमो यत्रैकशब्देन सजातीयावुभौ करौ
उक्तौ तत्र द्विवचनं घटवच्चतुरस्रवत् २५०
भिन्नशब्दौ विजातीयौ यौ वा द्विवचनं तयोः
यथा घटपटौ स्यातामरालखटकामुखौ २५१
करिहस्ताकृतिस्त्वेको दृश्यतेऽत्र लताकरः
इतिकर्तव्यता त्वन्या स्यादेकवचनं ततः २५२
न चात्र करिहस्तत्वमेकैकत्र घटत्ववत्
न चात्रैकः करी हस्तः शब्दवाच्योऽपरः करः
नैकशेषो न च द्वंद्वो यतो द्विवचनं भवेत् २५३
आश्रितं चैकवचनं मुनिना सर्वदर्शिना २५४
त्रिपताकौ कटीशीर्षे न्यस्ताग्रौ पक्षवञ्चितौ २५५
इति पक्षवञ्चितौ
तौ पार्श्वाभिमुखाग्रौ तु पक्षप्रद्योतकौ मतौ
उत्तानौ केचिदन्ये तूर्ध्वाङ्गुली च पराङ्मुखौ
हस्तौ भणन्ति शोभेते चैतौ प्राग्भ्यामनन्तरम् २५६
इति पक्षप्रद्योतकौ
उपवक्षस्थलं हंसपक्षे गच्छति पार्श्वतः
सविलासोऽपरस्तिर्यक्प्रसृतश्चेल्लताकरः २५७
क्रमादङ्गान्तरेणैवं दण्डपक्षौ तदा करौ
हस्तप्रसारणं त्वत्र युगपन्मेनिरेऽपरे २५८
इति दण्डपक्षौ
अधोमुखौ कटिक्षेत्रे स्थित्वा न्यञ्चितकूर्परौ २५९
पताकौ तिर्यगूर्ध्वं द्राग्गतौ गरुडपक्षकौ
त्रिपताकाविमौ कैश्चिदुक्तौ न तु मुनेर्मतौ २६०
इति गरुडपक्षकौ
भालस्थलमुरोदेशात्प्राप्य तत्पार्श्वमागतौ
मण्डलभ्रान्तिविततावूर्ध्वमण्डलिनौ करौ २६१
ललाटप्राप्तिपर्यन्तमन्ये लक्ष्मानयोर्जगुः
चक्रवर्तनिकेत्येतौ प्रसिद्धौ नृत्तवेदिनाम् २६२
तौ पताकाकृती पार्श्वन्यस्तावन्योन्यसंमुखौआ!र्श्वमण्डलिनावुक्तावन्ये त्वाहुः स्वपार्श्वयोः २६३
आविद्धभ्रामितभुजौ पार्श्वमण्डलिनाविति
कक्षवर्तनिकेत्येतौ मन्वते नृत्तवेदिनः २६४
इति पार्श्वमण्डलिनौ
युगपत्करणे कृत्वोद्वेष्टितं चपवेष्टितम्
यातौ स्वपार्र्श्वे वक्षस्तो भ्रान्त्या मण्डलवत्क्रमात् २६५
वक्षोऽभिव्युत्क्रमात्प्राप्तावुरोमण्डलिनौ करौ
अनयोर्भ्रमणं प्राहुरन्ये वक्षस्थलस्थयोः २६६
उरोवर्तनिकात्वेन प्रसिद्धौ तद्विदामिमौ
हंसपक्षौ परे प्राहुरूर्ध्वमण्डलिषु त्रिषु २६७
इत्युरोमण्डलिनौ
एकत्रोरःस्थितोत्तानेऽन्यस्मिन्पार्श्वप्रसारिते २६८
व्यावर्तिते नालपद्मीकृत्वोरस्थो यदा करः
स्वपार्श्वं नीयतेऽन्यस्तूद्वेष्टितक्रियया करः २६९
तदैवारालतां प्राप्य यात्युरो मण्डलाकृतिः
अन्योऽप्येवं कराभ्यासादुरःपार्श्वार्धमण्डलौ २७०
इत्युरःपार्श्वार्धमण्डलौ
एकं वर्तनयाऽरालं तथाऽन्यमलपल्लवम्
हस्तं मुहुः क्रमात्कृत्वा क्रियते स्वस्तिकाकृती २७१
खटकामुखहस्तौ चेन्मुष्टिकस्वस्तिकौ तदा
कपित्थौ शिखरौ मुष्टी चाथ वा स्वस्तिकाकृती २७२
अश्लिष्टस्वस्तिकौ सन्तुअ व्यावृत्तक्रियया करौ
इति मुष्टिकस्वस्तिकौ
मिथः पराङ्मुखौ कृत्वा यौ कृतौ पद्मकोशकौ २७३
नलिनीपद्मकोशौ तावपरे त्वन्यथा जगुः
अन्योन्यसंमुखौ सन्तौ संश्लिष्टमणिबन्धकौ २७४
पद्मकोशौ पृथक्प्राप्तौ व्यावृत्तिपरिवर्तने
नलिनीपद्मकोशौ स्तः केऽप्याहुः पद्मकोशयोः २७५
व्यावृत्त्या परिवृत्त्या च जान्वन्तिकगताविमौ
स्कन्धयोः स्तनयोर्यद्वा जानुनोर्निकटं गतौ
विवर्तितौ पद्मकोशौ तल्लक्ष्मेत्यवदन्परे २७६
इति नलिनीपद्मकोशौ
उद्वेष्टितक्रियौ वक्षःक्षेत्रस्थावलपल्लवौ
स्कन्धान्तिकमथोप्तेत्य प्रसृतावलपद्मकौ २७७
प्रसार्य स्कन्धयोः स्कन्धाभिमुखप्रचलाङ्गुली
वर्तितावलपद्मौ चेदुल्बणौ भणितौ तदा २७८
इत्युल्बणौ
कूर्परस्वस्तिकयुतौ लताख्यौ वलितौ मतौ
मुष्टिकस्वस्तिकौ मूर्ध्नि विवृत्तौ तौ परे विदुः २७९
अन्ये त्वाचक्षतेऽन्योन्यलग्नाग्रौ खटकामुखौ
ऊर्ध्वगौ पृष्ठतो नम्रकूर्परौ वलितौ मतौ २८०
इति वलितौ
पल्लवौ शीर्षदेशस्थौ ललितौकलिता बुधैः
चतुरस्रीमभञ्जन्तौ शिरस्थावचलौ करौ २८१
ललितावपरे प्राहुरन्ये तु खटकःमुखौ
शनैः प्राप्य शिरोऽन्योन्यलग्नाग्रौ ललितौ विदुः २८२
इति ललितौ
नृत्तहस्तौ क्रमेणापि प्रयोज्यौ सूरयो विदुः २८३
इति त्रिंशन्नृत्तहस्ताः
पताको मध्यमामूललग्नाङ्गुष्ठो निकुञ्चकः
सस्वल्पाभिनये वेदाध्ययने च प्रयुज्यते २८४
इत्ययुतहस्तः
शिखरद्वंद्वसंयोगात्करो द्विशिखरो मतः
शयनार्थेऽङ्गुलिस्फोटे स्त्रीणामनुनये तथा
नास्तीत्यर्थं तु संयुज्य वियुक्तं शिखरद्वयम् २८५
इति संयुतहस्तः
पृथग्दक्षिणवामौ चेद्वरदाभयदौ करौ
अरालौ कटिपार्श्वस्थौ तदोक्तौ वरदाभयौ २८६
इति नृत्तहस्तौ
प्रदर्शनार्थमुक्तेयं हस्तानां सप्ततिर्मया
आनन्त्यादभिनेयानां सन्त्यनन्ताः परे कराः २८७
लोकवृत्तानुसारात्तेऽप्यूह्यन्तामनया दिशा २८८
नेत्रभ्रूमुखरागाद्यैरुपाङ्गैरुपबृंहिताः
प्रत्यङ्गैश्च कराः कार्या रसभावप्रदर्शकाः २८९
उत्तमेष्वभिनेयेषु ललाटक्षेत्रचारिणः
वक्षःस्था मध्यमेषु स्युरधमेषु त्वधोगताः २९०
अन्यैरुक्ता व्यवस्थेयमुत्तमाद्यभिनेतृषु २९१
उत्तमे संनिकृष्टाः स्युर्मध्यमे मध्यसंस्थिताः
अधमे त्वभिनेये स्युर्विप्रकृष्टचराः कराः २९२
अल्पो हस्तप्रचारः स्यात्प्रत्यक्षे भूरिसात्त्विके
परोक्षे प्रचुरः स स्यान्मध्यमे मध्यमो मतः २९३
कार्याः सुव्यक्तलक्ष्माणः पात्रैरुत्तममध्यमैः
ससौष्ठवाश्च नीचैस्तु पाणयस्तद्विलक्षणम् २९४
विषण्णे व्याकुले भीते मूर्छिते तन्द्रयाऽन्विते
जुगुप्साशेकसंतप्ते सुप्ते ग्लाने जशार्दिते २९५
रोगशीतार्तनिश्चेष्टसंचितेष्वपि तापसे
मत्तोन्मत्तप्रमत्तेषु न हस्ताभिनयो भवेत् २९६
सूचयन्त्यान्तरं भावं ये कराः कर्कटादयः
विषण्णादिष्वपि प्रायः प्रयोज्यास्ते सतां मताः २९७
इति हस्तप्रकरणम्
स्यादक्षः सममाभुग्नं निर्भुग्नं च प्रकम्पितम्
उद्वाहितं पञधेति तेषां लक्ष्माभिदध्महे २९८
सौष्ठवाधिष्ठितं वक्षश्चतुरस्राङ्गसंश्रयम्
प्रकृतिस्थं समं प्राहुः स्वभावाभिनयुए च तत् २९९
इति समम्
निम्नं शिथिलमाभुग्नं वक्षः स्याद्गर्वलज्जयोः
शीतहृच्छल्ययोः शोके मूर्छभीसंभ्रमेषु च
कार्यं व्याधौ विषादे च ब्रूते शंकरकिंरह् ३००
इत्याभुग्नम्
निर्भुग्नं निम्नपृष्ठत्वादुन्नतं स्तब्धमग्रतः
माने च सत्यवचने स्तम्भे विस्मयवीक्षिते
प्रहर्षभाषणे गर्वोत्सेके चेदं प्रयुज्यते ३०१
इति निर्भुग्नम्
प्रकम्पितं कम्पितं स्यादूर्ध्वक्षेपैर्निरन्तरैः
स्याद्भीहासश्रमश्वासकासहिक्कासु रोदने ३०२
इति प्रकम्पितम्
अकम्पं सरलोत्क्षिप्तमुद्वाहितमुदीरितम्
दीर्घोच्छ्वासे च जृम्भायामुत्तुङ्गालोकने च तत् ३०३
इत्युद्वाहितम्
विवर्तितं चापसृतं प्रसारितमथो चापसृतं प्रसारितमथो नतम्
उन्नतं चेति संचख्युः पार्श्वं पञ्चविधं बुधाः ३०४
विवर्तनात्त्रिकस्य स्यात्परावृत्तौ विवर्तितम् ३०५
इति विवर्तितम्
तन्निवृत्त्या त्वपृसतं भवेत्पार्श्वविवर्तने
इत्यपसृतम्
प्रसारितं तूभय्तो विस्तारात्स्यान्मुदादिषु ३०६
इति प्रसारितम्
न्यञ्चितांसं नितम्बं तु नतं स्यादुपसर्पणे
इति नतम्
पार्श्वं तद्विपरीतं तून्नतं स्यादपसर्पणे ३०७
इत्युन्नतम्
कम्पितोद्वाहिता छिन्ना विवृता रेचिता तथा
कटी पञ्चविधेत्युक्ता तल्लक्ष्म व्याहरेऽधुना ३०८
द्रुतं गतागते पार्श्वे दधती कम्पिता मता
तां कुब्जवामनादीनां गमने विनियुञ्जते ३०९
इति कम्पिता
शनैरुच्चलिता पार्श्वद्वयेनोद्वाहिता कटी
स्त्रीणां लीलागतेष्वेषा पीनाङ्गानां गतावपि ३१०
इत्युद्वाहिता
छिन्ना तिर्यङ्मुखे पात्रे मध्यस्य वलनात्कटी
व्यायामे संभ्रमे चैषा व्यावृत्तप्रेक्षणादिषु ३११
इति च्छिन्ना
पराङ्मुखेन पात्रेणाभिमुखं या विवर्तिता
विवृत्ता सा कटी प्रोक्ता विनियोज्या विवर्तने ३१२
इति विवृत्ता
सर्वतो भ्रमणादुक्ता रेचिता भ्रमणे भवेत् ३१३
इति रेचिता
समोऽञ्चितः कुञ्चितश्च सूच्यग्रतलसंचरः
उद्घट्टितश्चेति मुनेः षड्विधश्चरणो मतः ३१४
त्राटितो घटितोत्सेधो घट्टितो मर्दितस्तथा
अग्रगः पार्ष्णिगः पादः पार्श्वगश्चापरः परैः ३१५
इति सप्तापरे प्रोक्ताः पादास्तल्लक्षणं ब्रुवे
स्वभावेन स्थितो भूमौ समः पादोऽभिधीयते
स्वभावाभिनये कार्यः स्थिरोऽसौ रेचके चलः ३१६
इति समः
भूस्थपार्ष्णिः समुत्क्षिप्ताग्रतलः प्रसृताङ्गुलिः
अञ्चितः स भवेत्पादाहतिभ्रमणकादिषु ३१७
इत्यञ्चितः
कुञ्चिताङ्गुलिरुत्क्षिप्तपार्ष्णिमध्ये च कुञ्चितः
कुञ्चितः स्यादतिक्रान्तक्रमे तुङ्गस्य च ग्रहे ३१८
इति कुञ्चितः
वामः स्वाभाविकोऽन्यस्तु भुव्यङ्गुष्ठाग्रसंस्थितः
उत्क्षिप्तेतरभागॐऽसौ सूची नूपुरबन्धने ३१९
इति सूची
यस्योत्क्षिप्ता भवेत्पार्ष्णिरङ्गुष्ठः प्रसृतस्तथा
अङ्गुल्यो न्यञ्चिताः स स्यात्पादोऽग्रतलसंचरः ३२०
प्रेरणे कुट्टने स्थाने पीडने भूमिताडने
भूस्थापसारने स स्याद्रेचके भ्रमणे मदे ३२१
इत्यग्रतलसंचरः
यदि पादतलाग्रेण स्थित्वा भूमौ निपात्यते
असकृद्वा सकृत्पाष्णिर्भवेदुद्घट्टितस्तदा ३२२
इत्युद्घट्टितः
पार्ष्ण्या धरामवष्टभ्य तामग्रेण निहन्ति यः
त्राटितश्चरणः स स्यात्प्रयोज्यः क्रोधगर्वयोः ३२३
इति त्राटितः
घ्नन्मुहुर्घटितोत्सेधोऽग्रपार्ष्णिभ्यां भुवं क्रमात्
इति घटितोत्सेधः
घट्टितः क्षितिघाती स्यात्पार्ष्ण्यङ्घ्रिः प्रेरणे च सः ३२४
इति घट्टितः
यस्तिरश्चा तलेनोर्वीं प्रमृद्गाति स मर्दितः
इति मर्दितः
अग्रगोऽग्रे द्रुतं सर्पन्प्रयोज्यः पङ्किलक्षितौ ३२५
इत्यग्रगः
पृष्ठतोऽपसरन्पार्ष्ण्या पार्ष्णिगः पाद उच्यते
इति पार्ष्णिगः
स्थितः पार्श्वेऽथवा पार्श्वं व्रजन्पार्श्वग इष्यते ३२६
इति पार्श्वगः
एकोच्चौ कर्णलग्नौ चोच्छ्रितौ स्रस्तौ च लोलितौ
इत्युक्तौ पञ्चधा स्कन्धौ नाम्नैव व्यक्तलक्षणौ ३२७
एकोच्चौ कथितौ स्कन्धौ मुष्टिकुन्तप्रहारयोः ३२८
आश्लेषे शिशिरे चांसौ कर्णलग्नौ मतौ सताम्
उच्छ्रितौ हर्षगर्वादौ स्रस्तौ दुःखे श्रमे मदे ३२९
मूर्छायां चाथ कर्तव्यौ लोलितौ विटनर्तने
नृत्तज्ञैर्गदितौ हास्य हुडुक्कावाद्यवादने ३३०
इति पञ्चधा स्कन्धौ
समा निवृत्ता वलिना रेचिता कुञ्चिताऽञ्चिता ३३१
त्र्यस्रा नतोन्नता चेति ग्रीवा नवविधा भवेत्
समा स्वाभाविकी ध्याने जपे कार्ये स्वभावजे ३३२
इति समा
ग्रीवा त्वभिमुखीभूय निवर्तेत यदा तदा
निवृत्तेत्युच्यते सा स्यात्स्वस्थानाभिमुखादिषु ३३३
इति निवृत्ता
पार्श्वोन्मुखी तु वलिता ग्रीवा भङ्गे तथेक्षणे
इति वलिता
रेचिता विधुतभ्रान्ता वर्तुले मथने तथा ३३४
इति रेचिता
आकुञ्चिता कुञ्चिता स्यान्मूर्धभारे स्वगोपने
इति कुञ्चिता
अञ्चिता प्रसृता लोला केशाकर्षेऽथ वीक्षणे ३३५
इत्यञ्चिता
त्र्यस्रा पार्श्वगता खेदे पार्श्वेक्षास्कन्धभारयोः
इति त्र्यस्रा
नताऽवनम्राऽलंकारबन्धे कण्ठावलम्बने ३३६
इति नता
उन्नतोर्ध्वनता ग्रीवाऽलंकारोर्ध्वप्रदर्शने ३३७
इत्युन्नता
ऊर्ध्वस्थोऽधोमुखस्तिर्यगपविद्धः प्रसारितः
अञ्चितो मण्डलगतिः स्वस्तिकोद्वेष्टितावपि ३३८
पृष्ठानुसारीत्युदितो बाहुर्दशविधो बुधैः
आविद्धः कुञ्चितो नम्रः सरलान्दोलितावपि ३३९
उत्सारित इति प्राहुर्बाहून्षडपरान्परे
शीर्षादूर्ध्वं व्रजन्बाहुरूर्ध्वस्थस्तुङ्गदर्शने ३४०
इत्यूर्ध्वस्थः ।
अधोमुखो महीश्लेषी
इत्यधोमुखः ।
तिर्यक्पार्श्वगतो भवेत् ॥
इति तिर्यग्गतः
बाहुमण्डलवद्गत्या वक्षःक्षेत्राद्विनिर्गतः ३४१
अपविद्धः
इत्यपविद्धः ।
अथाग्रदेशमनुधावन्प्रसारितः ॥
इति प्रसारितः
वक्षःक्षेत्राच्छिरः प्रप्य वक्षः प्रत्यागतोऽञ्चितः ३४२
इत्यञ्चितः
उच्यते मण्डलगतिः सर्वतो भ्रमणाद्भुजः
खड्गादिभ्रामणे चास्य विनियोगं प्रपेदिरे ३४३
इति मण्डलगातिः
स्वस्तिको लग्नयोर्बाह्वोः पार्श्वव्यत्यासतः स्थितौ
स स्याद्भानोरुपस्थाने परिरम्भेऽभिवादने ३४४
इति स्वस्तिकः
निष्क्रामन्मणिबन्धस्थवर्तनामाश्रितो भुजः ३४५
उद्वेष्टितो भवेत्
इत्युद्वेष्टितः ।
पृष्ठानुसारी पृष्ठतो गतः
भवेत्तूणशराकर्षे वीटिकाग्रहणे च सः ३४६
इति पृष्ठानुसारी
आविद्धोऽभ्यन्तराक्षिप्तः
इत्याविद्धः
कुञ्चितस्तु स उच्यते
यस्तीक्ष्णकूर्परं वक्रीकृतः खड्गादिधारणे ३४७
प्रहारे भोजने पाने प्रोक्तो निःशङ्कसूरिणा
इति कुञ्चितः
ईषद्वक्रस्तु नम्रोऽसौ स्तुतौ माल्यस्य धारणे ३४८
इति नम्रः
सरलः पार्श्वयोरूर्ध्वमधस्ताच्च प्रसारितः
स्यात्पक्षानुकृतौ माने भूस्थनिर्देशने क्रमात् ३४९
इति सरलः
गतावान्दोलितोऽन्वर्थः
इत्यान्दोलितः
बाहुरुत्सारितः पुनः
स्वप्श्वमन्यतो गच्छञ्जनतोत्सारणे भवेत् ३५०
इत्युत्सारितः
बाहूनां करणेनाथ समस्तव्यस्तयोजनात्
क्रमाद्द्रुतादिवैचित्र्याज्जायन्तेऽत्र सहस्रशः
वर्तनाश्चतुरैरूह्यास्ताः शोभाभरसंभृताः ३५१
ते रेषामनतिक्रम्य भूरिभङ्गिभृतो भुजाः
रेच्यन्ते यदि लक्षज्ञैश्चालकाः कीर्तितास्तदा ३५२
ओतावत्सरिगोणीनां पदस्य मलपस्य च ३५३
गजरोपशमस्यान्ते खण्डेऽप्येलादिगामिनि
सालगस्थध्रुवाद्यन्ते यच्च प्रहरणं भवेत् ३५४
तदन्तखण्डेऽन्यत्रापि प्रोद्धते तुण्डकैशिके
कवितेऽपि प्रयोज्यास्ते नान्यत्रेत्यूचिरे परे ३५५
इति बाहुप्रकरणम्
पृष्ठं तु जठरोक्ताभिर्वर्तनाभिर्विवर्तते
अतो न तत्पृथग्वाच्यं जठरं तूच्यतेऽधुना ३५६
क्षामं खल्लं तथा पूर्णं त्रेधा जठरमिष्यते
क्षामं स्यान्नमनाज्जृम्भाहास्यनिश्वासरोदने ३५७
इति क्षामम्
निम्नं खल्लं क्षुधार्ते स्यादातुरे श्रमकर्शिते
वेतालभृङ्गिरिट्यादिजठराकारधारि तत् ३५८
इति खल्लम्
पूर्णं स्थूलं व्याधिते स्यात्तुन्दिलेऽत्यशिते तथा
इति पूर्णम्
अन्येऽन्वर्थं रिक्तपूर्णं श्वासरोगेऽपरं जगुः ३५९
इति रिक्तपूर्णम्
कम्पितो वलितः स्तब्धोद्वतितौ च निवर्तितः
इत्यूरुः पञ्चधा तत्र मुहुः पार्श्वे नतोन्नते
यस्यासौ कम्पितो ज्ञेयोऽधमानां गमने च सः ३६०
इति कम्पितः
वलितोऽन्तर्गते जानुन्यूरुः स्वैरगतौ स्त्रियाः ३६१
इति वलितः
स्तब्धस्तु निष्क्रियः स स्याद्विषादे साध्वसे तथा
इति स्तब्धः
पार्ष्णेरन्तर्बहिःक्षेपात्क्षेपादग्रतलस्य च
मुहुरुद्वर्तितः स स्याद्व्यायामे ताण्डवे तथा ३६२
इत्युद्वर्तितः
निवर्तितोऽन्तर्गतया पार्ष्ण्या स्यात्संभ्रमे श्रमे
इति निवर्तितः
आवर्तिता नताक्षिप्तोद्वाहिता परिवर्तिता
इति पञ्चविधा जङ्घा शार्ङ्गदेवेन कीर्तिता ३६३
निःसृता च परावृत्ता तिरश्चीना बहिर्गता
कम्पितेत्यपराः पञ्च जङ्घाः संचक्षते परे ३६४
वामे दक्षिणतः पादे दक्षिणे वामतः कृते
मुहुरावर्तिता प्रोक्ता विदूषकपरिक्रमे ३६५
इत्यावर्तिता
नमज्जानुर्नता जङ्घा स्थानासनगतादिषु
इति नता
बहिर्विक्षेपतः क्षिप्ता व्यायामे ताण्डवे च सा ३६६
इति क्षिप्ता
ऊर्ध्वं नीतोद्वाहिता स्यादाविष्टगमनादिषु
इत्युद्वाहिता
प्रतीपं गच्छतो जङ्घा ताण्डवे परिवर्तिता
इति परिवर्तिता
पुरः प्रसारिता जङ्घा निःसृता परिकीर्तिता ३६८
इति निःसृता
पश्चाद्गता परावृत्ता भूमिलग्नेन जानुना
वामेन पितृकार्ये स्यादन्येन सुरकर्मणि ३६९
इति परावृत्ता
भूमिलग्नबहिःपार्श्वा तिरश्चीनाऽऽसने मता
इति तिरश्चीना
बहिर्गता मता जङ्घा नृत्ते पार्श्वप्रसारिता ३७०
इति बहिर्गता
कम्पनात्कम्पिता भीतौ कार्या घर्घरिका ध्वनौ
इति कम्पिता
पञ्चधा मणिबन्धः स्यान्निकुञ्चाकुञ्चितौ चलः ३७१
भ्रमितः सम इत्यत्र निकुञ्चस्तु स उच्यते
यो बहिर्निम्नतां नीतः स दानाभयदानयोः ३७२
इति निकुञ्चः
आकुञ्चितोऽन्तर्निम्नोऽसौ कार्योऽपसरणे बुधैः
इत्याकुञ्चितः
निकुञ्चा कुञ्चिताभ्यासाच्चलमावाहने विदुः ३७३
इति चलः
भ्रमितो भ्रमणात्खड्गच्छुरिकाभ्रामणादिषु
इति भ्रमितः
ऋजुः समः पुस्तकस्य धारणे च प्रतिग्रहे ३७४
इति समः
संहतं कुञ्चितं चार्धकुञ्चितं नतमुन्नतम्
विवृतं सममित्यूचे जानु सप्तविधं बुधैः
श्लिष्टान्यजानु जानूक्तं हीरोषेर्ष्यासु संहतम् ३७५
इति संहतम्
जानु लग्नोरुजङ्घं तु भवेत्कुञ्चितमासने
इति कुञ्चितम्
नितम्बनमनाज्जानु त्वर्धकुञ्चितमुच्यते
इत्यर्धकुञ्चितम्
महीगतं नतं जानु मतं पाते नमस्कृतौ ३७७
इति नतम्
स्तनक्षेत्रागतं जानून्नतं शैलादिरोहणे
इत्युन्नतम्
गजारोहे तु विवृतं जानुद्वंद्वं बहिर्गतम्
इति विवृतम्
समं स्वाभाविकं जानु स्वभावावस्थितौ भवेत् ३७८
इति समम्
तत्तद्वेशजुषो भूषा भूषणानीति मन्वते ३७२
इति नव प्रत्यङ्गानि
कान्ता हास्या च करुणा रौद्री वीरा भयानका
बीभत्सा चाद्भुतेत्यष्टौ द्रष्टव्या रसदृष्टयः ३८०
स्निग्धा हृष्टा तथा दीना क्रुद्धा दृप्ता भयान्विता
जुगुप्सिता विस्मितेति दृशोऽष्टौ स्थायिभावजाः
स्थायिष्वव्यभिचारित्वं प्राप्तेषु स्थायिदृष्टयः ३८१
शून्या च मलिना श्रान्ता लज्जिता शङ्किता तथा
मुकुला चार्धमुकुला ग्लाना जिह्मा च कुञ्चिता ३८२
वितर्किताऽभितप्ता च विषण्णा ललिताभिधा
आकेकरा विकोशा च विभ्रान्ता विप्लुता परा ३८३
त्रस्ता च मदिरेत्येता व्यभिचारिषु विंशतिः
सर्वास्ता मिलिताः सत्यः षट्त्रिंशद्दृष्टयो मताः ३८४
आपिबन्तीव दृश्यं या सविकासाऽतिनिर्मला
सभ्रूक्षेपकटाक्षा सा कान्ता मन्मथवर्धिनी ३८५
यद्गतागतविश्रान्तिवैचित्र्येण विवर्तनम्
तारकायाः कलाभिज्ञास्तं कटाक्षं प्रचक्षते ३८६
इति कान्ता
किंचिदन्तःसमाविष्टविचित्रभ्रान्ततारका ३८७
आकुञ्चितपुटा मन्दमध्यतीव्रतया क्रमात्
विस्मापनेऽभिनेतव्ये हास्या दृष्टिः प्रशस्यते ३८८
इति हास्या
पतितोर्ध्वपुटा सास्रा शोकमन्थरतारका
नासाग्रमेवानुगता करुणादृष्टिरुच्यते ३८९
इति करुणा
चकितद्विपुटा स्तभ्दतारकाऽत्यन्तलोहिता
रूक्षा भ्रुकुटिभीमोग्रा रौद्री दृष्टिरुदाहृता ३८९
इति रौद्री
अचञ्चला विकसिता गम्भीरा समतारका
दीप्ता संकुचितापाङ्गा वीरा धीरैरुदाहृता ३९१
औदार्यधैर्यगाम्भीर्यमाधुर्यललितान्यपि
तेजःशोभाविलासांश्च सप्त भेदान्विवृण्वती ३९२
इति वीरा
स्तब्धोद्वृत्तपुटाऽत्यन्तचञ्चलोद्वृत्ततारका
दृश्यात्पलायमाने च भीत्या दृष्टिर्भयानका ३९४
इति भयानका
बीभत्सा स्यान्मिलल्लोलपक्ष्मा तरलतारका
दृश्योद्वेगादपाङ्गौ च निकुञ्चितपुटौ श्रिता ३९४
इति बीभत्सा
प्रसन्ना स्निग्धशुक्लांशान्तर्बहिर्गामितारका
ईषत्कुञ्चितपक्ष्माग्राऽद्भुतापाङ्गविकासिनी ३९५
इत्यद्भुता रसेष्वष्टासु शृङ्गारप्रमुखेषु क्रमादिमाः ३९६
इत्यष्टौ रसदृष्टयः
रसदृष्टिर्भवेद्भावदृष्टिर्भावैरनुल्बणैः
विकासिस्निग्धा मधुरा चतुरे बिभ्रती भ्रुवौ ३९७
कटाक्षिणी साभिलाषा दृष्टिः स्निग्धाऽभिधीयते
अत्रैकभ्रूसमुत्क्षेपमाहुः कीर्तिधरादयः ३९८
इति स्निग्धा
फुल्लगल्ला विशत्तारा किंचिदाकुञ्चिता चला
निमेषिणी स्मिताकारा हृष्टा दृष्टिरुदाहृता ३९९
इति हृष्टा
या त्वर्धपतितोर्ध्वस्थपुटेषद्रुद्धतारका
सबाष्पा मन्दसंचारा दीना दृष्टिरसौ मता ४००
इति दीना
स्थिरोद्वृत्तपुटां रूक्षां किंचित्तरलतारकाम्
भ्रुकुटीकुटिलां दृष्टिं क्रुद्धां ब्रूते हरप्रियः ४०१
इति क्रुद्धा
सत्त्वमुद्गिरती दृष्टिर्दृप्ता विकसिता स्थिरा ४०२
इति दृप्ता
मध्यनिर्गमनोद्युक्ता भावविस्फारितौ पुटौ
तारके कम्पिते यस्याः सा स्यादृष्टिर्भयान्विता ४०३
इति भयान्विता
अस्पष्टालोकिनी मीलत्तारका संकुचत्पुटा
दृश्यं दृष्ट्वा समुद्विग्ना दृष्टिरुक्ता जुगुप्सिता ४०४
इति जुगुप्सिता
दूरविस्फारिताकारपुटद्वंद्वविकाशिनी
निश्चला दृष्टिरुद्बृत्ततारका विस्मिता स्मृता ४०५
इति विस्मिता
दृष्टयोऽष्टासु रत्यादिस्थायिभावेष्विमाः क्रमात्
इत्यष्टौ स्थायिभावदृष्टयः
समतारापुटा दृश्यदृष्टिशून्या विलोकिनी
निष्कम्पा धूसरा शून्या चिन्तायां दृष्टिरिष्यते ४०६
इति शून्या
दृश्यादपसृते तारे किंचिन्मुकुलितौ पुटौ
दधत्यपाङ्गौ विच्छायौ पक्ष्माग्रस्यन्दनं तथा ४०७
दृष्टिः स्यान्मलिता स्त्रीणां विहृते सा प्रयुज्यते
प्राप्ते कालेऽप्यसंलापः प्रियेण विहृतं मतम् ४०८
इति मलिना
उदूरालोकिनी म्लानपुटाऽप्यलसचारिणी
पतत्तारा मनाक्कुञ्चत्प्रान्ता श्रान्ता श्रमे मता ४०९
इति श्रान्ता
मिथोऽभिगामिपक्ष्माग्राऽप्यधस्ताद्गततारका
पतितोर्ध्वपुटा दृष्टिर्लज्जायां लज्जिता मता ४१०
इति लज्जिता
मुहुश्चलस्थिरा पार्श्वालोकिनी बहिरुन्मुखी
गूढावलोकिनी शीघ्रं विनिवृत्ता विलोकनात्
शङ्कायां शङ्किता दृष्टिरुक्ता निःशङ्कसूरिणा ४११
इति शङ्किता
स्फुरत्संश्लिष्टपक्ष्माग्रा सुखविश्रान्ततारका
मुकुला दृष्टिरानन्दे हृद्ययोः स्पर्शगन्धयोः ४१२
इति मुकुला
अर्धव्याकोशिते किंचिद्धमन्त्यौ तारके पुटौ
यत्रार्धमीलितौ साऽर्धमुकुलार्थे सुखप्रदे ४१३
इत्यर्धमुकुला
मज्जत्तारा मन्दचारा शिथिला विकलैरिव
पक्ष्माग्रभ्रूपुटैर्युक्ता ग्लाना ग्लानौ विधीयते ४१४
किंचित्कुञ्चत्पुटा गूढपतत्तारा विलोकने ४१५
शनैस्तिर्यङ्निगूढं या सा जिह्मा विनियुज्यते
असूयायां निगूढेऽर्थे जडतालस्ययोरपि ४१६
इति जिह्मा
किंचिच्चेत्कुञ्चितानि स्युः पक्ष्माग्राणि पुटावपि
सम्यक्च कुञ्चिता तारा तदा दृक्कुञ्चितोच्यते
अनिष्टे सूचिते तेजो दुष्प्रेक्ष्येऽक्षिव्यथासु सा ४१७
इति कुञ्चिता
उद्धामितपुटोत्फुल्लताराऽधःसंचरन्त्यपि
वितर्कितोदिता दृष्टिर्वितर्के साऽभिधीयते ४१८
इति वितर्किता
विलोकनालसे तारे व्यथाप्रचलितौ पुटौ ४१९
यस्याः संतप्तवद्भान्ति साऽभितप्ताऽभिधीयते
निर्वेदे वेदितव्या साऽप्यभिघातोपतापयोः ४२०
इत्यभितप्ता
या दृष्टिः पतितापाङ्गा विस्तारितपुटद्वया
निमेषिणी स्तब्धतारा विषण्णा सा विषादिनी ४२१
इति विषण्णा
मधुरा कुञ्चितापाङ्गा सभ्रूक्षेपा स्मितान्विता
मन्मथोन्मथिता दृष्टिर्ललिता ललिते मता ४२२
इति ललिता
किंचित्कुञ्चत्पुटापाङ्गा दृष्टिरर्धनिमेषिणी
पृथक्पथे चान्यनेत्रान्मुहुस्ताराविवर्तिनी
आकेकरा दुरालोके स्याद्विच्छन्दे च वस्तुनि
इत्याकेकरा
विकासितपुटद्वंद्वा विकासिन्यनिमेषिणी
अनवस्थिततारा च विकोशा कीर्तिता बुधैः ४२४
ज्ञानविज्ञानगर्वे सा स्यादमर्षोग्रदर्शने ४२५
इति विकोशा
या तु क्वचितविश्रान्तमविस्रब्धं विलोकते
विस्तीर्णा चञ्चलोत्फुल्लतारा सा दृष्टिरुच्यते
विभ्रान्ता विभ्रमे वेगे संभ्रमे च भवेदसौ ४२६
इति विभ्रान्ता
पुटौ विस्फुइ! स्तब्धौ यस्याः स्तः पतितौ क्रमात्
सा विप्लुताऽऽर्तिदुःखादावुन्मादे चापले तथा ४२७
इति विप्लुता
उत्कम्पोत्फुल्लतारा स्यात्त्रासे त्रस्तोद्धमत्पुटा ४२८
इति त्रस्ता
मदिरा त्रिविधा प्रोक्ता तरुणे मध्यमेऽधमे
मदे प्रयोगमर्हन्ती तत्तल्लक्ष्मसमन्विता ४२९
तीव्रो मदोऽधमोऽत्र स्यादधमे पुरुषे स्थितः
दृष्टिर्विकसितापाङ्गा क्षामीभूतविलोचना
आघूर्णमानतारा स्यान्मदिरा तरुणे मदे ४३०
किंचित्कुञ्चत्पुटा किंचिदनवस्थितचारिणी
दृष्टिः किंचिद्धमत्तारा मदिरा मध्यमे मदे ४३१
अधोभागचरी किंचिद्दृष्टतारा निमेषिणी
यन्नेत्रसिध्यनुन्मेषा मदिरा चाधमे मदे ४३२
इति त्रिविधा मदिरा
प्रदर्शनार्थमित्युक्ताः षट्त्रिंशद्दृष्टयो मया
अनन्ताः सन्ति संदर्भाद्धृतारापुटकर्मणाम् ४३३
दृष्टयस्ता विरञ्चोऽपि प्रत्येकं वक्तुमक्षमः
लाघवात्तत्प्रबोधार्थं ब्रूमो भ्रूप्रभृतीन्यतः ४३४
इति दृष्टिप्रकरणम्
सहजा पतितोत्क्षिप्ता रेचिता कुञ्चिता तथा
भ्रुकुटी चतुरा चेति प्रोक्ता भ्रूः सप्तधा बुधैः
स्वाभाविकी स्यात्सहजा भावेष्वकुटिलेष्वसौ ४३५
इति सहजा
पतिता स्यादधो याता सद्वितीयाऽथवा क्रमात्
उत्क्षेपे विस्मये हर्षे रोषेऽसूयाजुगुप्सयोः
हासे घ्राणे च पतिते विधीयेतामुभे भ्रुवौ ४३६
इति पतिता
उत्क्षिप्ता संमताऽन्वर्था क्रमेण सह चान्यथा
स्त्रीणां कोपे वितर्के च दर्शने श्रवणे निजे
भ्रूर्लीलाहेलयोश्चैषा कार्योत्क्षिप्ता विचक्षणैः ४३७
इत्युत्क्षिप्ता
एकैव ललितोत्क्षिप्ता रेचिता नृत्तगोचरा ४३८
इति रेचिता
केवला सद्वितीया वा मृदुभङ्गा निकुञ्चिता
मोट्टायिते कुट्टमिते विलासे किलकिञ्चिते ४३९
इति निकुञ्चिता
आमूलात्सद्वितीया भ्रूरुत्क्षिप्ता भ्रुकुटी क्रुधि ४४०
इति भ्रुकुटी
सद्वितीयाऽल्पकस्यन्दादायता मन्थरा भवेत्
चतुरा रुचिरे स्पर्शे शृङ्गारे ललिते च सा ४४१
इति चतुरा
प्रसृतौ कुञ्चितौ स्यातामुन्मेषितनिमेषितौ
विवर्तितौ च स्फुरितौ पिहितौ च वितालितौ ४४२
समौ च नवधेत्युक्तौ पुटौ सोढलसूनुना
आयतौ प्रसृतौ स्यातां वीरे हर्षे च विस्मये ४४३
इति प्रसृतौ
आकुञ्चितौ कुञ्चितौ स्तो रूपादौ च मनोहरे
इति कुञ्चितौ
उन्मेषितौ तु विश्लेषात्संश्लेषात्तु निमेषितौ
विवर्तितौ समुद्वृत्तौ त्रयोऽमी क्रोधगोचराः ४४४
इत्युन्मेषितनिमेषितविवर्तिताः
स्फुरितौ स्पन्दितौ स्यातां तावीर्ष्याविषयौ मतौ ४४५
इति स्फुरितौ
अतीव कुञ्चितौ लग्नौ पिहितौ तौ दृशो रुजि
सुप्तिमूर्छातिवर्षोष्णधूमवाताञ्जनार्तिषु ४४६
इति पिहितौ
उत्तरेणाधराघातादभिघाते विचालितौ
आहुरन्ये त्वदृश्यौ ताविति विस्फारणात्पुटौ
इति विचालितौ
समौ स्वाभाविकावेतौ स्वभावाभिनये मतौ ४४७
इति समौ
कर्मभिस्तारकाभेदा यैः स्युस्तान्यधुना ब्रुवे
तानि द्वेधा स्वनिष्ठानि विषयाभिमुखानि च ४४८
भ्रमणं वलनं पातश्चलनं च प्रवेशनम्
विवर्तनं समुद्वृत्तं निष्क्रामः प्राकृतं तथा ४४९
स्वनिष्ठानि नवेत्याहुस्ताराकर्माणि सूरयः
तारयोर्मण्डलभ्रान्तिः पुटान्तर्भ्रमणं मतम् ४५०
वलनं त्र्यस्रगमनं पातस्तु स्यादधोगतिः
चलनं कम्पनं प्रोक्तमथ ज्ञेयं प्रवेशनम् ४५१
प्रवेशः पुटयोरन्तःकटाक्षस्तु विवर्तनम्
उद्गतिस्तु समुद्वृत्तमन्तरा निर्गमस्तु यः ४५२
स निष्क्रामः प्राकृतं तु स्वभावस्थितिरुच्यते
समुद्वृतं च वलनं भ्रमणं वीररौद्रयोः ४५३
पातस्तु करुणे कार्यश्चलनं तु भयानके
प्रवेशनं तु बीभत्से हास्ये तु स्याद्विवर्तनम् ४५४
शृङ्गारे स्यात्तु निष्क्रामो वीरे रौद्रे भयानके
अद्भुते च प्राकृतं तु भावेनाऽऽवेशभागिनि ४५४
इति नव स्वनिष्ठानि ताराकर्माणि
विषयाभिमुखान्यष्टौ ताराकर्माण्यथ ब्रुवे ३५६
समं साच्यनुवृत्तावलोकितानि विलोकितम्
उल्लोकितालोकिते च प्रविलोकितमित्यपि ४५७
एतानि दर्शनान्याहुर्लक्ष्यलक्ष्मविचक्षणाः
सौम्यं मध्यस्थतारं च दर्शनं सममुच्यते ४५८
इति समम्
साच्युच्यते तिरश्चीनपक्ष्मान्तर्गततारकम्
इति साचि
रूपनिर्वर्णनायुक्तमनुवृत्तं मतं मुनेः
निर्वर्णना क्रियाकार्त्स्न्यदिदृक्षाऽन्तश्चिरस्थिरा ४५९
इत्यनुवृत्तम्
अधस्थदर्शनं यत्तदवलोकितमुच्यते
इत्यवलोकितम्
पृष्ठतो दर्शनं यत्तद्विलोकितमुदाहृतम् ४६०
इति विलोकितम्
उल्लोकितं तदूर्ध्वस्थवस्तुनो यदवेक्षणम्
इत्युल्लोकितम्
सहसा दर्शनं यत्तदालोकितमुदीरितम् ४६१
इत्यालोकितम्
पार्श्वस्थदर्शनं प्रोक्तं कृतिभिः प्रविलोकितम्
इति प्रविलोकितम्
साधारणान्यमून्याहू रसभावेषु तद्विदः ४६२
इत्यष्टौ दर्शनानि
कुञ्चितौ कम्पितौ पूर्णौ क्षामौ स्फुल्लौ समौ तथा
कपोलौ षड्विधावुक्तौ तल्लक्षणमथोच्यते ४६३
संकोचात्कुञ्चितौ रोमाञ्चितौ शीतज्वरे भये
इति कुञ्चितौ
स्फुरितौ कम्पितौ कार्यौ रोमहर्षेषु सूरिभिः ४६४
इति कम्पितौ
कपोलावुन्नतौ पूर्णौ तौ गर्वोत्साहगोचरे
इति पूर्णौ
क्षामौ त्ववनतौ ज्ञेयौ दुःखे कार्याविमौ नटैः
इति क्षामौ
गण्डौ विकसितौ फुल्लौ प्रहर्षे परिकीर्तितौ
इति फुल्लौ
समौ स्वाभाविकौ भावेष्वनावेशेषु तौ मतौ ४६६
इति समौ
स्वाभाविकी नता मन्दा विकृष्टा च विकूणिता ४६७
सोच्छ्वासेत्युदिता नासा षड्विधा सूरिशार्ङ्गिणा
स्वाभाविकी स्यादन्वर्था भावेष्वावेशवर्जिता ४६८
इति स्वाभाविकी
मुहुः संश्लिष्टविश्लिष्टपुटा नासा नता मता
सोच्छ्वासाभिनये मन्दविच्छिन्नरुचिगोचरे ४६९
इति नता
मन्दा तु मन्दनिश्वासोच्छ्वासा नासाऽभिधीयते
सा चिन्तौत्सुक्ययोः शोके निर्वेदे च विधीयते ४७०
इति मन्दा
विकृष्टाऽत्यन्तमुत्फुल्लपुटा रोषार्तिभीतिषु
ऊर्ध्वश्वासे च कर्तव्या घ्रातव्ये भूरिसौरभे ४७१
इति विकृष्टा
विकूणिता संकुचिता हास्येऽसूयाजुगुप्सयोः ४७२
इति विकूणिता
आकृष्टश्वसना नासा सोच्छ्वासा सौरभे भवेत्
निर्वेदादिषु भावेषु दीर्घोच्छ्वासकरेषु च ४७३
इति सोच्छ्वासा
स्वस्थौ चलौ प्रवृद्धश्च निरस्तोल्लासितावपि
विमुक्तो विस्मितः श्वासः स्खलितः प्रसृतस्तथा ४७४
एवमुच्छ्वासनिश्वासौ नवधा कोहलोदितौ
समो भ्रान्तो विलीनश्चाऽऽन्दोलितः कम्पितोऽपरः ४७५
स्तम्बितोच्छ्वासनिश्वाससूत्कृतानि च सीत्कृतम्
एवं दशविधः प्रोक्तो लक्ष्यज्ञैर्मारुतोऽपरैः ४७६
स्वस्थावुच्छ्वासनिःश्वाससंज्ञौ वायू स्वभावजौ
स्वस्थक्रियासु कर्तव्यावुक्तौ निःशङ्कसूरिणा ४७७
इति स्वस्थौ
उष्णौ दीर्घौ सशब्दौ च तौ मुखेन कृतौ चलौ
कार्यावौत्सुक्यनिर्वेदशोकचिन्तास्विमौ मतौ ४७८
इति चलौ
प्रवृद्धः सन्सशब्देन वदनेन विनिर्गतः
निःश्वासः स्यात्प्रवृद्धाख्यः क्षयव्याध्यादिगोचरः ४७९
इति प्रवृद्धः
सशब्दः सन्सकृत्क्षिप्तो निरस्तः कथ्यते मरुत्
दुःखान्विते सरागे च शान्ते चैष विधीयते ४८०
इति निरस्तः
चिरान्मन्दं निपीतस्तु घ्राणेनोल्लासितो मरुत्
हृद्ये गन्धे विधातव्यः संदिग्धे च विचक्षणैः ४८१
इत्युल्लासितः
संयम्य सुचिरं मुक्तो विमुक्तः कथ्यतेऽनिलः
योगे ध्याने च स प्रोक्तः प्राणायामे च सूरिभिः ४८२
इति विमुक्तः
चित्तस्यान्यपरत्वेन यः प्रयत्नेन वर्तते
स विस्मितो विस्मये स्यादुद्भूते वाऽर्थचिन्तने ४८३
इति विस्मितः
महत्त्वाद्दुःखनिष्क्रान्तः कथितः स्खलितोऽनिलः
स्याद्दशम्यां दशायां स व्याधौ प्रस्खलितेषु च ४८४
इति स्खलितः
प्रसुप्ते प्रसृतो दीर्घः सशब्दो निर्गतो मुखात् ४८५
इति प्रसृतः
समोऽत्र स्वस्थपर्यायो भ्रान्तोऽन्तर्भ्रमणान्मरुत्
अन्ये त्वन्वर्थनामानस्तत्र सूत्कृतसीत्कृते ४८६
शब्दानुकरणे वक्त्रत्याज्यग्राह्येऽनिले क्रमात्
समः स्वाभाविको भ्रान्तः प्रथमे प्रियसंगमे ४८७
विलीनो मूर्छिते शैलारोहे त्वान्दोलितो मतः
कम्पितः सुरते शस्त्रमोक्षादौ स्तम्भितो भवेत् ४८८
उच्छ्वासः कुसुमाघ्राणे निःश्वासोऽनुशयादिषु
सूत्कृतं वेदनादौ स्याच्छीते क्लेशे तु सीत्कृतम् ४८९
नखक्षते मृगाक्षीणां निर्दयाधरचर्वणे
विनियोगान्तराण्यत्र बुध्यतां लोकतो बुधाः ४९०
इति मतान्तरेण दशधा श्वसनः
विवर्तितः कम्पितश्च विसृष्टो विनिगूहितः
संदृष्टकः समुद्गश्चेत्यधरः षड्विधो मतः ४९१
अन्येऽन्यानूचुरुद्वृत्तविकास्यायतरेचितान्
ओष्ठयोः संपुष्टस्तिर्यक्संकोचेन विवर्तितः
अवज्ञावेदनासूयाहास्यादिषु विधीयते ४९२
इति विवर्तितः
व्यथायां कम्पितोऽन्वर्थो भीतौ शीते जपे रुषि ४९३
इति कम्पितः
विसृष्टः स्याद्विनिष्क्रान्तो रञ्जनेऽलक्तवादिना
स्त्रीणां विलासे विव्वोके शार्ङ्गिदेवेन शीर्तितः ४९४
मुखान्तर्निहितः प्राणसाध्येऽर्थे विनिगूहितः
रोषेर्ष्ययोश्च नारीणां बलाच्चुम्बति वल्लभे ४९५
इति विनिगूहितः
संदष्टकोऽधरो दन्तैर्दष्टः क्रोधे विधीयते ४९६
इति संदष्टकः
समुद्गस्तु भवेदोष्ठसंपुटो दधदुन्नतिम्
स्यात्फूत्कारेऽनुकम्पायां चुम्बने चाभिनन्दने ४९७
इति समुद्गः
आस्योत्क्षिप्ततयोद्वृत्तः सोऽवज्ञापरिहासयोः
इत्युद्वृत्तः
ईषद्वृश्योर्ध्वदशनो विकासी स स्मिते स्मृतः ४९८
इति विकासी
स सार्धमुत्तरोष्ठेन ततः स्यादायतः स्मिते
इत्यायतः
पर्यन्तंचलनादुक्तो विलासे रेचितोऽधरः ४९९
इति रेचितः
दन्तकर्माणि वक्ष्यामो दन्तलक्षणसिद्धये
कुट्टनं खण्डनं छिन्नं चुक्कितं ग्रहणं मतम् ५००
दष्टं निष्कर्षणं चेति दन्तकर्माष्टकं जगुः
संघर्षणं कुट्टनं स्याच्छीतरुग्भीजरासु तत् ५०१
इति कुट्टनम्
खण्डनं तु मुइहुर्दन्तश्लेषविश्लेषणं मतम्
जपाध्ययनसंलापभक्षणेषु भवेदिदम् ५०२
इति खण्डनम्
छिन्नं स्याद्गाढसंश्लेषो रोदने भीतिशीतयोः
व्याधौ च वीटिकाच्छेदव्यायामादिषु कीर्तितम् ५०३
इति च्छिन्नम्
दन्तपङ्क्त्योः स्थितिर्दूरे चुक्कितं जृम्भणादिषु
इति चुक्कितम्
तृणस्य चाङ्गुलैर्दन्ते धारणं ग्रहणम् भये ५०४
इति ग्रहणम्
किंचिच्छ्लेषः समं तच्च स्वभावाभिनये मतम् ५०५
इति समम्
अधरे दंशनं दन्तैर्दष्टं क्रोधेऽभिधीयते
इति दष्टम्
निष्कर्षणं तु निष्कासः कार्यं मर्कटरोदने ५०६
इति निष्कर्षणम्
ऋज्वी ऋक्वानुगा वक्रोन्नता लोलाऽवलेहिनी ५०७
जिह्वेति षड्विधा तत्र प्रसृतास्ये प्रसारिता
ऋज्वी श्रमे पिपासायां श्वापदानां प्रयुज्यते ५०८
इति ऋज्वी
सृक्कानुगा लीढसृक्का प्रकोपस्वादुभक्षयोः
इति सृक्कानुगा
व्यात्तास्यस्थोन्नताग्रा च वक्रा नृहरिरूपणे ५०९
इति वक्रा
व्यात्तास्यस्थोन्नताऽन्वर्था जृम्भास्यान्तस्थवीक्षयोः ५१०
इत्युन्नता
व्यात्ते वक्त्रे चला लोला वेतालाभिनये भवेत्
इति लोला
दन्तोष्ठं लिहती जिह्वा लेहिनी संमता मुनेः ५११
इति लेहिनी
जिह्वोष्ठदन्तक्रियया चिवुकं लक्ष्यते ततः
उक्तप्रायं सुखार्थं तु वक्ष्ये लक्ष्यानुसारतः ५१२
व्यादीर्णं श्वसितं वक्रं संहतं चलसंहतम्
स्फुरितं चलितं लोलमेवं चिबुकमष्टधा
व्यादीर्णं दूरनिष्क्रान्तं जृम्भालस्यादिषु स्मृतम् ५१३
इति व्यादीर्णम्
एकाङ्गुलमधःस्रस्तं श्वसितं वीक्षितेऽद्भुते
इति श्वसितम्
वक्रं तिर्यङ्नतं तत्तु ग्रहावेशे विधीयते ५१४
इति वक्रम्
निश्चलं मीलितमुखं मौने संहतमिप्यते
इति संहतम्
संलग्नौष्ठं चलं नारीचुम्वने चलसंहतम् ५१५
इति चलसंहतम्
कम्पितं स्फुरितं प्राहुः शीते शीतज्वरे तथा
इति स्फुरितम्
चलितं श्लिष्टविश्लिष्टं वाक्स्तम्भे क्षोभकोपयोः
इति चलितम्
रोमन्थे केवलावर्ते लोलं तिर्यग्गतागतम् ५१६
इति लोलम्
व्याभुग्नं भुग्नमुद्वाहि विधुतं विवृतं तथा
विनिवृत्तमिति प्राज्ञाः षड्विधं वदनं जगुः ५१७
किंचिदायामिवक्रं च व्याभुग्नं मुखमुच्यते
निर्वेदौत्सुक्यचिन्तादौ तदुक्तं पूर्वसूरिभिः १५८
इति व्याभुग्नम्
अधोमुखं तु भुग्नं तल्लज्जायां प्रकृतौ यतेः
इति भुग्नम्
लीलासूत्क्षिप्तमुद्वाहि गर्वानादरतो गतौ ५१९
इत्युद्वाहि
वारणे नैवमित्युक्तौ विधुतं तिर्यगायतम्
इति विधुतम्
विश्लिष्टौष्टं तु विवृतं हास्यशोकभयादिषु ५२०
इति विवृतम्
विनिवृत्तं परावृत्तं रोषेर्ष्यासूयितेषु तत् ५२१
इति विनिवृत्तम्
इति द्वादश शिरोगतान्युपाङ्गानि
उत्क्षिप्ता पतितोत्क्षिप्तपतिताऽन्तर्गता तथा
बहिर्गता मिथो युक्ता वियुक्ताऽङ्गुलिसंगता
पार्ष्णिरित्यष्टधा पादचारी स्थानेषु दृश्यते ५२२
गुल्ल्फावङ्गुष्ठसंश्लिष्टावन्तर्यातौ बहिर्गतौ
मिथो युक्तौ वियुक्तौ च पञ्चधा स्थानकादिषु ५२३
संहता वियुता वक्र वलिताः पतितास्तथा ५२४
कुञ्चन्मूलाः करेऽङ्गुल्यः प्रसृताश्चेति सप्तधा
एते पार्ष्ण्यादिभेदाः स्युः संज्ञाविज्ञानलक्षणाः ५२५
अधः क्षिप्तास्तथोत्क्षिप्ताः कुञ्चिताश्च प्रसारिताः
संलग्नाश्चेति चरणाङ्गुलयः पञ्चधा मताः ५२६
मुहुः पातादधः क्षिप्ता विव्वोके किलकिञ्चिते
उत्क्षिप्ता मुहुरुत्क्षेपान्नवोढायास्त्रपाभरे ५२७
संकोचात्कुञ्चिताः शीतमूर्छात्रासग्रहार्दिते
प्रसारिता ऋजुस्तब्धा स्तम्भे स्वापेऽङ्गमोटने ५२८
अङ्गुष्ठस्याप्यमी भेदा ज्ञातव्या नृत्तकोविदैः
स्वाङ्गुष्ठासु मिथो लग्नाः संलग्ना घर्षणे मताः ५२९
पतिताग्रं चोद्धृताग्रं भूमिलग्नमथोद्धृतम्
कुञ्चन्मध्यं तिरश्चीनमिति षोढा तलं विदुः ५३०
इति पार्ष्णिगुल्फाङ्गुलितलानि करचरणोपाङ्गानि ।
विवृणोति मनोवृत्तिं मुखरागो रसात्मिकाम्
अतो रसोपयोगित्वान्मुखरागोऽभिधीयते ५३१
स्वाभाविकः प्रसन्नश्च रक्तश्यामोऽपरस्तथा
चतुर्धा मुखरागोऽत्रान्वर्थः स्वाभाविको मतः ५३२
अनाविष्टेषु भावेषु सुधीभिः स विधीयते
इति स्वाभाविकः
प्रसन्नो निर्मलो हास्ये शृङ्गारे चाद्भुते भवेत् ५३३
इति प्रसन्नः
रक्तोऽरुणः स्यात्करुणे रौद्रे वीरेऽद्भुते तथा
इति रक्तः
अन्वर्थो भवति श्यामः स बीभत्से भयानके ५३४
इति श्यामः
शशिनेव दिशोऽङ्गानि शोभन्ते मुखरागतः ५३५
रसभावान्तरे नेत्रमन्यदन्यत्क्षणे क्षणे
यथातथोचितः कार्यो मुखरागो रसे रसे ५३६
इति चतुर्धा मुखरागः
उत्तानोऽधोमुखः पार्श्वगतः पाणिरिति त्रिधा ५३७
प्रचारं भरता मेने पञ्चधा त्वपरे जगुः
अग्रगोऽधस्तलश्चेति द्वौ त्रयश्च पुरोदिताः ५३८
तत्र त्वग्रग उत्तानोऽधोमुखोऽधस्तलः करः
अन्तर्भूतं वदन्भट्टस्त्रित्वमेव समादधे ५३९
उत्तानोऽधोमुखः पार्श्वगतो हस्तोऽग्रतस्तलः
स्वसंमुखतलश्चोर्ध्वमुखोऽधोवदनस्तथा ५४०
पराङ्मुखः संमुखश्च हस्तोऽन्यः पार्श्वतोमुखः
ऊर्ध्वगोऽधोगतः पार्श्वगतो हस्तोऽग्रगोऽपरः ५४१
संमुखागत इत्येतान्प्रचारान्दश पञ्च च
लक्ष्यलक्षणतत्त्वज्ञः शार्ङ्गदेवोऽभ्यभाषत ५४२
इति पञ्चदश हस्तप्रचाराः
निष्पत्तौ निरपेक्षायां करस्याभिनयाय यः
क्रियाविशेषः क्रियते तद्धस्तकरणं मतम् ५४३
आवेष्टितोद्वेष्टिते च व्यावर्तितमतः परम्
परिवर्तितमित्येतच्चतुर्धा धीरसंमतम् ५४४
तर्जन्याद्यङ्गुलीनां यद्भवेदावेष्टनं क्रमात्
तलसंमुखमावक्षः करोऽप्यायाति पार्श्वतः
तदावेष्टितमाख्यातं करस्य करणं बुधैः ५४५
यत्तु क्रमेण निर्याणमङ्गुलीनां तलाद्बहिः
वक्षःस्थलात्करस्यापि तदुद्वेष्टितमुच्यते ५४६
आवेष्टितप्रक्रियया कार्यमावर्तितं करे
उद्वेष्टितेन व्याख्यातं करणं परिवर्तितम् ५४७
किंत्वेतत्करणद्वंद्वं कनिष्ठाद्यङ्गुलीकृतम् ५४८
इति चत्वारि करकरणानि
धूननं श्लेषविश्लेषौ क्षेपो रक्षणमोक्षणे
परिग्रहो निग्रहश्चोत्कृष्टाकृष्टिविकृष्टयः ५४९
ताडनं तोलनं छेदभेदौ स्फोटनमोटने
स्याद्विसर्जनमाह्वानं तर्जनं चेति विंशतिः
करकर्माणि नृत्तज्ञैरन्वर्थानि बभाषिरे ५५०
इति विंशतिः करकर्माणि
पार्श्वद्वयं पुरस्ताच्च पश्चादूर्ध्वमधः शिरः ५५१
ललाटकर्णस्कन्धोरोनाभयः कटिशीर्षके
ऊरुद्वयं च हस्तानां क्षेत्राणीति चतुर्दश ५५२
इति हस्तक्षेत्राणि
करणैः करणातीतोऽनङ्गहारोऽङ्गहारकैः
यः स्थाणू रोदसीरङ्गे नृत्यतीशं नमामि तम् ५५३
स्यात्क्रिया करपादादेर्विलासेनात्रुटद्रसा ५५४
करणं नृत्तकरणं भीमवद्भीमसेनवत्
प्रभेदान्करणस्यास्य ब्रूमहे भरतोदितान् ५५५
तलपुष्पपुटं लीनं वर्तितं च लितोरु च
मण्डलस्वस्तिकं वक्षःस्वस्तिकाक्षिप्तरेचिते ५५६
स्वस्तिकान्यर्धदिक्पृष्ठाद्यानि स्वस्तिकमञ्चितम्
अपविद्धं समनखोन्मत्ते स्वस्तिकरेचितम् ५५७
निकुट्टार्धनिकुट्टे च कटीछिन्नं कटीसमम्
भुजंगत्रासितालातबिक्षिप्ताक्षिप्तकानि च ५५८
निकुञ्चितं घूर्णितं स्यादूर्ध्वजान्वर्धरेचितम्
मत्तल्लि चार्धमत्तल्लि स्याद्रेचकनिकुट्टकम् ५५९
ललितं वलितं दण्डपक्षं पादापविद्धकम्
नूपुरं भ्रमरं छिन्नं भुजंगत्रस्तरेचितम् ५६०
भुजंगाञ्चितकं दण्डरेचितं चतुरं ततः
कटिभ्रान्तं व्यंसितं च क्रन्तं वैशाखरेचितम् ५६१
वृञ्शिकं वृश्चिकाद्ये च स्यातां कुट्टितरेचिते
लतावृश्चिकमाक्षिप्तार्गले तलविलासितम् ५६२
ललाटतिलकं पार्श्वनिकुट्टं चक्रमण्डलम्
उरोमण्डलमावर्तं कुञ्चितं दोलपादकम् ५६३
विवृत्तं विनिवृत्तं च पार्श्वक्रान्तं निशुम्भितम्
विद्युद्धान्तमतिक्रान्तं विक्षिप्तं च विवर्तितम् ५६४
गजक्रीडितकं गण्डसूची स्याद्गरुदप्लुतम्
तलसंस्फोटितं पार्श्वजानु गृध्रावलीनकम् ५६५
सूच्यर्धसूचिनी सूचीविद्धं च हरिणप्लुतम्
परिवृत्तं दण्डपादं मयूरललितं ततः ५६६
प्रेङ्खोलितं संनतं च सर्पितं करिहस्तकम्
प्रसर्पितमपक्रान्तं नितम्बं स्खलिताभिधम् ५६७
सिंहविक्रीडितं सिंहाकर्षितं चावहित्थकम्
निवेशमेलकाक्रीडजनितोपसृतानि च ५६८
तलसंघट्टितोद्वृत्तविष्णुक्रान्तानि लोलितम्
मदस्खलितसंभ्रान्तविष्कम्भोद्घट्टितानि च ५६९
शकटास्योरूद्वृत्ताख्ये वृषभक्रीडितं ततः
नागापसर्पितमथो गङ्गावतरणं तथा ५७०
इत्यष्टोत्तरमुद्दिष्टं करणानां शतं मया
गतिस्थितिप्रयोगाणामानन्त्यात्करणान्यपि ५७१
अनन्तान्यङ्गहारेषु क्रियन्तामुपयोगिता
अथ लक्षणमेतेषां वक्ष्ये लक्ष्यविदां मतम् ५७२
प्रायशो नर्तनारम्भे समपादौ लताकरौ
चतुरस्रं भवेदङ्गं विशेषस्त्वयमुच्यते ५७३
चार्या द्व्यर्धिकया पादे विनिष्क्रामति दक्षिणे
व्यावर्तनात्करयुगे दक्षिणं पार्श्वमागते ५७४
परिवर्तनतो वामपार्श्वं सततमाश्रिते
तत्कुचक्षेत्रसंविष्टो यस्य पुष्पपुटः करः
तलपुष्पपुटं तत्स्यात्पादेऽग्रतलसंचरे ५७५
यद्यनन्तरमेतत्स्यात्करणं करणान्तरात् ५७६
तदा करक्रिया तत्तत्त्याज्यग्राह्यकरानुगा
एतत्पुष्पाञ्जलिक्षेपे लज्जायां च नियुज्यते ५७७
इति तलपुष्पपुटम्
ऊर्ध्वमण्डलिनौ कृत्वा करौ वक्षःस्थितोऽञ्जलिः
निहञ्चितं चांसकूटं यत्र ग्रीवा नता कृता
लीनं तत्करणं योज्यं वल्लभाभ्यर्थने बुधैः ५७८
इति लीनम्
आश्लिष्टौ मणिबन्धस्थस्वस्तिकाभिमुखौ करौ
कृत्वा वक्षस्येककालं व्यावृत्तपरिवर्तितौ ५७९
उत्तानौ पातयेदूर्वोर्यत्र तद्वर्तितं मतम्
असूयायां प्रयोगः स्यात्पताकौ यदि पातयेत् ५८०
अधोमुखनिघृष्टौ तौ क्रोधं सूचयतः करौ
शुकतुण्डादयोऽप्यन्ये विनियोगवशादिह ५८१
इति वर्तितम्
वक्षःक्षेत्रे समं हस्तौ व्यावृत्तपरिवर्तितौ ५८२
विधायाऽऽक्षिप्तया चार्या संहतौ परिवर्तनात्
तत्राऽऽनीय निधीयेते शुकतुण्डावधोमुखौ ५८३
बद्धा याति स्थितिर्यत्र वलितोरु तदुच्यते
मुग्धस्त्रीव्रीडिते चास्य प्रयोगः शार्ङ्गिणोदितः ५८४
इति वलितोरु
चतुरस्रौ करौ कृत्वा विदधद्विच्यवां ततः
उद्वेष्टितक्रियापूर्वमूर्ध्वमण्डलिनौ करौ ५८५
विधाय स्वस्किकौ कुर्यादत्र स्थानं च मण्डलम्
मण्डलस्वस्तिकं तत्स्यात्प्रसिद्धार्थावलोकने ५८६
इति मण्डलस्वस्तिकम्
चतुरस्रौ करौ वक्षःस्थितौ कृत्वाऽथ रेचितौ
व्यावर्तितेन चाऽऽनीयाभुग्ने वक्षसि यत्र तौ ५८७
स्वस्तिकौ स्वस्तिकौ पादौ तद्वक्षःस्वस्तिकं मतम्
अनाभुग्नांसमेतच्च योज्यं लज्जानुतापयोः अ५८८
इति वक्षःस्वस्तिकम्
हस्तौ हृत्क्षेत्रगौ यत्र व्यावृत्योर्ध्वं च पार्श्वयोः
क्षिप्तैकं हंसपक्षं च द्रुतभ्रममधोमुखम् ५८९
वक्षः प्राप्यापरं तादृग्भूतं निष्क्रामयेत्ततः
पादावञ्चितसूच्यौ च तत्स्यादाक्षिप्तरेचितम्
अनेनाभिनये त्यागपरिग्रहपरम्पराम् ५९०
इत्याक्षिप्तरेचितम्
दक्षिणः करिहस्तः स्याद्वामस्तु खटकामुखः
वक्षस्थः स्वस्तिकौ पादौ यत्रार्धस्वस्तिकं तु तत् ५९१
अन्ये करिकरस्थाने पक्षवञ्चितकं परम्
पक्षप्रद्योतकं चार्धचन्द्रं कटिगतं विदुः ५९२
इत्यर्धस्वस्तिकम्
पार्श्वयोरग्रतः पृष्ठे स्वस्तिकोऽत्र दिशं गतः
कराङ्घ्री रेचितौ यत्र तद्दिक्स्वस्तिकमुच्यते ५९३
तद्गीतपरिवर्तेषु विनियुक्तं पुरातनैः
स्वस्तिकप्रक्रियैषा स्यात्स्वस्तिकोक्त्यन्तरेष्वपि ५९४
इति दिक्स्वस्तिकम्
उद्वेष्टितक्रियापूर्वं बाह्वोर्विक्षिप्त्यमाणयोः
कृत्वा चारीमपक्रान्तां क्रियमाणेऽपवेष्टने ५९५
रेचयित्वाऽन्यचरणं सूचीस्वस्तिकमाचरेत्
यत्राङ्घ्रिभ्यां कराभ्यां च तत्पृष्ठस्वस्तिकं भवेत् ५९६
एतन्निषेधराभस्यपरान्वेषणभाषणे
प्रयुक्तं नाट्यतत्त्वज्ञैरन्यैर्युद्धपरिक्रमे ५९७
इति पृष्ठस्वस्तिकम्
उद्वेष्टेन निष्कास्य पाण्योर्व्यावर्तमानयोः ५९८
उत्प्लुत्य युगपद्यत्र कराङ्घ्रिः स्वस्तिकः कृतः
तत्स्वस्तिकं प्रयोक्तव्यं बुधैः पूर्वोक्तवस्तुनोः ५९९
इति स्वस्तिकम्
व्यावर्तपरिवर्ताभ्यां नासादेशं गतो यद्गा
करिहस्तोऽलपद्मत्वं धत्ते स्यादञ्चितं तदा
संमुखप्रेक्षणे तच्च योज्यं स्वस्यातिकौतुकात् ६००
इत्यञ्चितम्
चतुरस्रकरः स्थित्वा हस्तं व्यावर्त्य दक्षिणम् ६०१
निष्क्रामयन्भजेच्चारीमाक्षिप्तामथ दक्षिणम्
शुकतुण्डं करं तस्यैवोरौ तु परिपातयेत् ६०२
यत्रापविद्धं तद्वामे वक्षस्थे खटकामुखे
तत्कोपासूययोर्योज्यमुक्तं सोढलसूनुना ६०३
इत्यपविद्धं
देहः स्वाभाविको यत्र पादौ समनखौ युतौ
लताहस्तौ समनखं स्यात्प्रवेशे तदादिमे ६०४
चार्या विद्धाञ्चितपदे पर्यायाद्रेचितः करः
यत्रोन्मत्तं तु तद्गर्वे सौभाग्यादिसमुद्भवे ६०५
इत्युन्मत्तम्
चतुरस्रः स्थितः कृत्वा हंसपक्षौ द्रुतभ्रमौ
व्यावृत्तिपरिवृत्तिभ्यामधश्चोर्ध्वं शिरःस्थलात्
आनीयाऽऽविद्धवक्रौ चेद्वक्षसि स्वस्तिकौ कृतौ ६०६
विप्रकीर्णौ ततः कार्यौ पक्षवञ्चितकौ करौ
पक्षप्रद्योतकौ पश्चाच्चारी तद्वशगा भवेत् ६०७
अन्तेऽवहित्थकं स्थानं तदा स्वस्तिकरेचितम्
नृत्ताभिनयने तच्च प्रहर्षादौ नियुज्यते ६०८
इति स्वस्तिकरेचितम्
मण्डलस्थानके कृत्वा चतुरस्रतया स्थितः
उद्वेष्ट्य दक्षिणं हस्तं नीत्वा स्कन्धशिरस्यमुम् ६०९
पतनोत्पतनाविष्टकनिष्ठाद्यङ्गुलीद्वयम्
अलपद्माकृतिं कृत्वोद्घट्टितेऽङ्घ्रौ च दक्षिणे ६१०
आविद्धवक्त्रतां नीत्वा करेऽत्र चतुरस्रिते
तथैव वामपाण्यङ्घ्रि यत्र स्यात्तन्निकुट्टकम्
आत्मसंभावनाख्यानपरे वाक्ये नियुज्यते ६११
इति निकुट्टकम्
तदेवार्धनिकुट्टं स्यादेकेनाङ्गेन चेत्कृतम्
अप्ररूढवचःप्रोक्ते तत्रैवार्थे नियुज्यते ६१२
इत्यर्धनिकुट्टकम्
पार्श्वेन भ्रमरीं कृत्वा मण्डलस्थानके स्थितः
कृत्वा छिन्नां कटीमेकां बाह्वोः शिरसि पल्लवम् ६१३
करमङ्गान्तरेणैवं यत्र त्रिचतुराः कृताः
आवृत्तयः कटीछिन्नं तद्विस्मयनिरूपणे ६१४
इति कटीछिन्नम्
आक्षिप्तामप्यपक्रान्तां चारीं कृत्वा करद्वयम्
स्वस्तिकीकृत्य नाभिस्थो दक्षिणः खटकामुखः ६१५
कट्यामन्योऽर्धचन्द्रश्च कृतः पार्श्वं च तन्नतम्
अन्यदुद्वाहितं यत्र वृत्तिरङ्गान्तरैस्तथा ६१६
तत्कटीसममादिष्टं वैष्णवस्थानकान्वितम्
प्रयोज्यं सूत्रधारेण जर्जरस्याभिमन्त्रणे ६१७
इति कटीसमम्
भुजंगत्रासितां चारीं कृत्वोत्क्षिप्य च कुञ्चितम्
अङ्घ्रिमूरुकटीजानुत्र्यस्रं यत्र विवर्तयेत् ६१८
व्यावृत्तिपरिवृत्तिभ्यामेको दोलाकरोऽपरः
खटकाख्यस्तदन्वर्थं भुजंगत्रासितं मतम् ६१९
इति भुजं गत्रासितम्
चार्यालाता नितम्बश्च करोऽथ चतुरस्रकः
एतद्दक्षिणतो वाम ऊर्ध्वजानुस्तथैव चेत्
अङ्गान्तरं तदाऽलातं नृत्ते सललिते मतम् ६२०
इत्यलातम्
हस्ते व्यावर्तमाने तु सोऽङ्घ्रिर्विक्षिप्यते बहिः
चतुरस्रः परः पाणिः पूर्वोऽथ परिवर्तने ६२१
पाणिराक्षिप्यते चाङ्घ्रिर्यत्राङ्गं चान्यदीदृशम्
विक्षिप्ताक्षिप्तकं च स्याद्गतागतनिरूपणे ६२२
इमं तु नाट्यतत्त्वज्ञा विनियोगं न मन्वते
वाक्यार्थाभिनयस्तत्र यत्राभिनयहस्तकाः ६२३
प्राधान्येन विधीयन्ते नृत्तमात्रपरं त्विदम्
अतोऽन्तरालसंधाने गतीनां च परिक्रमे ६२४
तथा युद्धनियुद्धस्थचारीस्थानकसंक्रमे
कार्ये तालानुसंधाने योज्यं करणमीदृशम् ६२५
वृश्चिकं चरणं कृत्वा यत्रारालं शिरस्थले
तद्दिक्कं करमाधाह नासाक्षेत्रार्जवेन तु ६२६
कृतो वक्षस्यरालोऽन्यस्तद्वदन्ति निकुञ्चितम्
एतदुत्पतनौत्सुक्यवितर्कादौ प्रयुज्यते ६२७
अन्ये पताकसूच्यास्यावस्मिन्नासाग्रगौ विदुः ६२८
इति निकुञ्चितम्
ऊर्ध्वं व्यावर्तनेनाधः परिवर्तनतः करे
पार्श्वक्षेत्राद्धाम्यमाणे जङ्घास्वस्तिकमाचरेत् ६२९
ततोऽपक्रान्तचारीकस्तद्दिक्कश्चरणो यदा
वामो दोलाकरः प्रोक्तं करणं घूर्णितं तदा ६३०
इति घूर्णितम्
कुञ्चिते चरणे चार्यां चोर्ध्वजानौ यदा करः
तद्दिग्भवोऽलपद्मो वाऽरालश्चोर्ध्वमुखो भवेत् ६३१
पक्षवञ्चितकौ चोर्ध्वं स्तनसाम्यस्थजानुनः
खटकाख्योऽपरो वक्षस्यूर्ध्वजानुस्तदोच्यते ६३२
इत्यूर्ध्वजानुः
मण्डले स्थानके स्थित्वा वक्षस्थः खटकामुखः
सूचीमुखं चापसार्य यदा तस्यान्तिके कृतः ६३३
अङ्घ्रिरुद्घृट्टितः पार्श्वं संनतं चापसारणे
तदर्धरेचितं योज्यमसमञ्जसचेष्टने ६३४
इत्यर्धरेचितम्
गुल्फयोः स्वस्तिकं कृत्वा पादयोरपसर्पणे
युगपत्करयोर्यत्रोद्वेष्टनं चापवेष्टानम्
कुर्यान्मुहुर्महुस्तत्तु मत्तल्लि मदवेदकम् ६३५
इति मत्तलि
उपेत्याप्रसृतौ पादौ वामश्चेद्रेचितः करः
कट्यामन्यस्तदा त्वर्धमत्तल्लि तरुणे मदे ६३६
रेचितो दक्षिणो हस्तः सोऽङ्घ्रिरुद्धट्टितो भवेत्
यत्र दोलाकरो वामस्तद्रेचकनिकुट्टकम् ६३७
इति रेचकनिकुट्टकम्
नितम्बकेशबन्धादिवर्तनो दक्षिणः करः ६३८
बहुशः करिहस्तोऽन्यः पादश्चोद्घट्टितस्तथा
अङ्गान्तरं चेल्ललितं तदा नृत्ते विलासिनि ६३९
इति ललितम्
देहक्षेत्रात्करे सूचीमुखसंज्ञेऽपसर्पति
सूचीपादोऽप्यपसृतश्चारी स्याद्धमरी ततः
क्रमादङ्गद्वयेऽप्येवं ललिते वलितं भवेत् ६४०
इति वलितम्
यत्रोर्ध्वजानुश्चारी स्याल्लताहस्तौ करौ कृतौ ६४१
तयोरेकं ततो न्यस्येदुपर्यूर्ध्वस्थजानुतः
पुनरङ्गान्तरेणैव दण्डपक्षं तदुच्यते ६४२
इति दण्डपक्षम्
पराङ्मुखौ नाभितटे हस्तौ चेत्खटकामुखौ
सूचीपादोऽङ्घ्रिणाऽन्येन युक्त्वाऽपक्रान्तयाऽन्वितः
अङ्घ्रिरन्यस्तथैव स्यात्तदा पादापविद्धकम् ६४३
इति पादापविद्धकम्
विधाय भ्रमरीं चारीं ततो नूपुरपादिकाम् ६४४
पादेनैकेन तद्दिक्कं हस्तं रेचितमाचरेत्
द्वितीयं तु लताहस्तं यत्र तन्नूयुरं विदुः ६४५
इति नूपुरम्
पादमाक्षिप्तचारीकं तदैवोद्वेष्टितं करम्
त्रिकं च वलितं कृत्वा पादस्वस्तिकमाचरेत् ६४६
ततस्तद्वद्द्वितीयाङ्गं युगपच्चोल्बणौ करौ
यत्र तद्धमरं योज्यं तच्चोद्धतपरिक्रमे ६४७
इति भ्रमरम्
अलपद्मौ कटीपार्श्वक्षेत्रे यत्र क्रमात्करौ
कटीछिन्ना च वैशाखं स्थानं तच्छिन्नमुच्यते
स्यात्तालभञ्जने तच्च तथाऽङ्गप्रतिसारणे ६४८
इति च्छिन्नम्
भुजंगत्रासिता चारी ततो यत्र च रेचितौ
हस्तौ स्तो वामपार्श्वे तद्भुजंगत्रस्तरेचितम् ६४९
इति भुजंगत्रस्तरेचितम्
चारी चेद्दक्षिणाङ्घ्रेः स्यात्पूर्वोक्ता दक्षिणः करः
रेचितोऽन्यो लताहस्तो भुजंगाञ्चितकं तदा ६५०
इति भुजंगाञ्चितम्
चारी चेद्दण्डपादा स्याद्दण्डपक्षौ च हस्तकौ
प्रमोदनृत्तविषयं तदा स्याद्दण्डरेचितम्
प्रयोगमपरे त्वाहुरस्योद्धतपरिक्रमे ६५१
इति दण्डरेचितम्
वक्षःक्षेत्रस्थयोः पाण्योर्वामश्चेदलपल्लवः
दक्षिणश्चतुरोऽङ्घ्रिस्तूद्घट्टितश्चतुरं तदा
एतद्विस्मयसूचायां वैदूषिक्यां नियुज्यते ६५२
इति चतुरम्
द्रुतापसारितं वामं सूचीपादं विधाय चेत्
तत्पार्श्वे दक्षिणं न्यस्येत्तत्कालं रेचयेत्कटिम् ६५३
कुर्वन्वा भ्रमरीं हस्तौ व्यावृत्तपरिवर्तितौ
कृत्वाऽन्ते चतुरस्रः स्यात्कटिभ्रान्तं तदा भवेत् ६५४
अस्य तालान्तरालेषु यतीनां परिपूरणे
प्रयोगमाह निःशङ्कस्तथा गतिपरिक्रमे ६५५
इति कटिभ्रान्तम्
एक उद्वेष्टितेनाधो विप्रकीर्णः करोऽपरः
ऊर्ध्वं तादृक्परावृत्त्या वक्षःक्षेत्रगतस्ततः ६५६
उत्तानो रेचितश्चैकोऽपरोऽधोमुखरेचितः
आलीढं स्थानकं यत्र तद्व्यंसितमुदाहृतम्
आलीढं स्थानकं यत्र तद्व्यंसितमुदाहृतम्
प्रयोज्यमाञ्जनेयादिमहाकपिपरिक्रमे ६५७
इति व्यंसितम्
चार्याऽतिक्रान्तया पादं पात्यमानं तु कुञ्चयेत्
व्यावर्तितेन तत्कालं करं निष्क्रामयेत्ततः ६५८
आक्षिप्य परिवर्तेन तं कुर्यात्खटकामुखम्
वक्षस्येवं द्वितीयाङ्गं यत्र तत्क्रान्तमिष्यते
प्रयोगमाहुराचार्यास्तस्योद्धतपरिक्रमे ६५९
इतिक्रान्तम्
हस्तपादकटिग्रीवं रेचितं स्थानकं पुनः
वैशाखं यत्र तज्ज्ञेयं विज्ञैर्वैशाखरेचितम् ६६०
इति वैशाखरेचितम्
करिहस्तौ करौ पादः पृष्ठे वृश्चिकपुच्छवत्
दूरसम्नतपृष्ठं च यत्र तद्वृश्चिकं विदुः
एतदैरावणादीनां व्योमयाने नियुज्यते ६६१
इति वृश्चिकम्
वृश्चिकं चरणं कृत्वा बाहुशीर्षे यदा क्रमात्
अलपद्मौ निकुट्येते तदा वृश्चिककुट्टितम्
सविस्मये व्योमयानवाञ्छादौ विनियुज्यते ६६२
इति वृश्चिककुट्टितम्
यत्राङ्घ्री वृश्चिकीभूतौ स्वस्तिकौ रेचितौ करौ
विच्युतौ चेत्तदाऽऽकाशयाने वृशिकरेचितम् ६६३
इति वृश्चिकरेचितम्
वृशिकश्चरणो यत्र वामहस्तो लताभिधः
तल्लतावृश्चिकं योज्यं गगनोत्पतने बुधैः ६६४
इति लतावृश्चिकम्
आक्षिप्ता यत्र चारी स्यादाक्षिप्तः खटकामुखः
चतुरो वा तदाक्षिप्तं विदूषकगतौ मतम् ६६५
इत्याक्षिप्तम्
कनिष्ठाङ्गुलिभागे चेद्वामाङ्घ्रेर्दक्षिणः स्थितः ६६६
स्तब्धजङ्घः सार्धतालद्वितयं स्यात्प्रसारितः
तदैव स्तब्धबाहुः सन्वामपार्श्वेऽलपल्लवः ६६७
बामेतरः करः किंचित्प्रसृताग्रोऽर्गलं तदा
परिक्रमेऽङ्गदादीनां शार्ङ्गदेवेन कीर्तितम् ६६८
इत्यर्गलम्
ऊर्ध्वमूर्ध्वाङ्गुलितलः पादः पार्श्वे प्रसारितः ६६९
तदग्रयुक्पताकोऽङ्गं यत्रेत्थमपरं क्रमात्
सूत्रधारादिविषये तत्स्यात्तलविलासितम् ६७०
इति तलविलासितम्
अङ्गुष्ठो वृश्चिकाङ्घ्रेश्चेललाते तिलकं लिखेत्
तदा ललाटतिलकं विद्याधरगतौ मतम् ६७१
इति ललाटतिलकम्
पाण्योः स्वस्तिकयोरूर्ध्वमुख पार्श्वे निकुट्टितः ६७२
एकोऽन्योधोमुखो यत्र तद्वत्पादो निकुट्टितः
तत्प्रकाशनं संचाराभ्यासे पार्श्वनिकुट्टकम् ६७३
इति पार्श्वनिकुट्टकम्
यत्र कृत्वोड्डितां चारीं दोलाभ्यां चक्रवद्धमेत् ६७४
अन्तर्नतेन गात्रेण तदूचुश्चक्रमण्डलम्
सुराणां वरिवस्यायां तदुद्धतपरिक्रमे ६७५
इति चक्रमण्डलम्
चार्यौ बद्धास्थितावर्ते उरोमण्डलिनौ करौ
यत्रोरोमण्डलं तत्तु शिववल्लभभाषितम् ६७६
इत्युरोमण्डलम्
उद्वेष्टितेनापवेष्टे यत्र दोलाभिधौ करौ
चारी चाषगतिस्तत्स्यादावर्तं भयसर्पणे ६७७
इत्यावर्तम्
उत्तानो वामपार्श्वस्थोऽलपद्मो दक्षिणः करः ६७८
यत्र तत्कुञ्चितं पादे सव्येऽग्रतलसंचरे
तेन देवानभिनयेदानन्दभरनिर्भरान् ६७९
इति कुञ्चितम्
ऊर्ध्वजानोः परं चारी दोलापादा यदा भवेत्
दोलौ हस्तौ तदा प्रोक्तं दोलापादं विदांवरैः ६८०
इति दोलापादम्
पादमाक्षिप्तया चार्याऽऽक्षिप्याऽऽक्षिप्य करावपि ६८१
व्यावृत्तपरिवृत्ताभ्यां कृत्वा भ्रमरिकां करौ
रेचितौ चेद्विवृत्तं स्यात्तच्चोद्धतपरिक्रमे ६८२
इति विवत्तम्
सूच्यङ्घ्रिणा द्वितीयाङ्घ्रेः पार्ष्णितः स्वस्तिकं भवेत्
व्यावृत्तिप्रत्यावृत्तिभ्यां वलयित्वैकपार्श्वतः ६८३
त्रिकं बद्धाभिधां चारीं कुर्याद्धस्तौ च रेचितौ
यत्र तद्विनिवृत्तं स्यात्पूर्वोक्तविनियोगभाक् ६८४
इति विनिवृत्तम्
पार्श्वक्रान्ता भवेच्चारी करौ पादानुगौ यदा अ ६८५
पार्श्वक्रान्तं तदा यद्वाऽभिनेयवशगौ करौ
तद्योज्यं भीमसेनादे रौद्रप्राये परिक्रमे ६८६
इति पार्श्वक्रान्तम्
पार्ष्णिदेशे द्वितीयाङ्घ्रः कुञ्चितश्चरणो भवेत्
समुन्नतमुरः पाणेः खटकाख्यस्य मध्यमा ६८७
यत्राङ्गुलिस्तिलकयेल्ललाटं तन्निशम्भितम्
यद्वा वृश्चिकहस्तः स्यादभिनेयो महेश्वरः ६८८
इति निशुम्भितम्
पृष्ठतो भ्रामितं पादं सर्वतोमण्डलप्लुतः ६८९
भ्रामयेच्चेच्छिरः क्षेत्रे विद्युद्धान्तं तदोच्यते
प्रयोगमस्य च प्राहुरुद्धतानां परिक्रमे ६९०
इति विद्युद्धान्तम्
कृत्वा चारीमतिक्रान्तामङ्घ्रिमग्रे प्रसारयेत्
यत्र हस्तौ प्रयोगार्हावतिक्रान्तमदो विदुः ६९१
इत्यतिक्रान्तम्
विद्युद्धान्तादण्डपाद क्रमाच्चार्यौ विधाय चेत्
उद्वेष्टितापवेष्टाभ्यामेकमार्गगतौ करौ ६९२
रेचयन्नग्रतः पृष्ठे पार्श्वयोर्विक्षिपेत्तदा
विक्षिप्तमभिनेतव्यस्तेनोद्धतपरिक्रमः ६९३
इति विक्षिप्तम्
करं चरणमाक्षिप्य यत्र त्रिकविवर्तनम्
करोऽपरो रेचितश्च तद्वदन्ति विवर्तितम् ६९४
इति विवर्तितम्
दोलापादा यदा चारी करिहस्तोऽस्य कर्णगः
क्रियाविष्टः करोऽन्वर्थं गजक्रीडिकं तदा ६९५
इति गजक्रीडितकम्
सूचीपादो नतं पार्श्वं वक्षस्थः खटकामुखः ६९६
वामो
लपल्लवो गण्डक्षेत्रे चेद्गण्डसूचितम्
क्षेत्रेऽत्र केचिदिच्छन्ति सूचीपादं परे पुनः ६९७
सूचीमुखं नृत्तहस्तमन्येऽभिनयहस्तकम्
करणेनाभिनेतव्या कपोलालंकृतिस्तदा ६९८
इति गण्डसूची
लतारेचितकौ हस्तौ वृश्चिकाङ्घ्रिः समुन्नतम्
उरो यत्र तदन्वर्थाभिधानं गरुडप्लुतम् ६९९
इति गरुडप्लुतम्
दण्डपादाख्यया चार्या यद्वाऽतिक्रान्तया द्रुतम् ७००
उत्क्षिप्य पात्यमानेऽङ्घ्रावग्रे चेत्तालिकां करौ
सशब्दां कुरुतोऽन्वर्थं तलसंस्फोटितं तदा ७०१
इति तलसंस्फोटितम्
समपादस्तु पृष्ठे चेन्निहितश्चरणोऽपरः ७०२
मुष्टिहस्तः स्थितो वक्षस्यर्धचन्द्रः कटीतटे
पार्श्वजानु तदा ज्ञेयं योज्यं युद्धनियुद्धयोः ७०३
इति पार्श्वजानु
पृष्ठेऽङ्घ्रिः प्रसृतो भूमिश्लिष्टाङ्गुष्ठौ लताकरौ
यदा तदा महाज्पक्षियुद्धे गृध्रावलीनकम् ७०४
इति गृध्रावलीनकम्
उत्क्षिप्य कुञ्चितः पादः स्थाप्यते भूमिमस्पृशन्
खटकाख्यश्च तद्दिक्को हस्तो वक्षस्यथापरः ७०५
अलपद्मः शिरोदेशे ततहिवाङ्गान्तरं क्रमात्
यत्र तच्छार्ङ्गदेवेन गदितं सूचि विस्मये ७०६
इति सूचि
सूच्येवैकाङ्गरचितमर्धसूचि प्रचक्षते ७०७
इत्यर्धसूचि
पक्षवञ्चितको वाऽर्धचन्द्रो हस्तः कटीगतः
खटकाख्योऽपरो वक्षस्यन्यपार्ष्णिस्थितोऽपरः
सूच्यङ्घ्रिश्चेत्तदा सूचीविद्धं चिन्तादिगोचरम् ७०८
इति सूचीविद्धम्
हरिणप्लुतया चार्या दोलाखटकहस्तकम्
हरिणप्लुतमाख्यातं नामोक्तविनियोगकम् ७०९
इति हरिणप्लुतम्
ऊर्ध्वमण्डलिनौ हस्तौ सूच्यङ्घ्रिर्यत्रबद्धया
विवृत्तोऽथ भ्रमरिका परिवृत्तं तदुच्यते ७१०
इति परिवृत्तम्
चारीनूपुरपादोऽथ दण्डपादाद्द्रुतं करः
दण्डवन्न्यस्यते यत्र दण्डपादं तदुच्यते
सूरयो विनियुञ्जन्ति तत्साटोपपरिक्रमे ७११
इति दण्डपादम्
हस्तौ चेद्रेचितावूरू वृश्चिकाङ्घ्रिं निकुञ्च्य च
भ्रमरी क्रियतेऽन्वर्थं मयूरललितं तदा ७१२
इति मयूरललितम्
दोलापादाख्यचारीकादङ्घ्रेरन्याङ्घ्रिणा यदा
उत्प्लुत्य भ्रमरीं कुर्याद्भवेत्प्रेङ्खोलितं तदा ७१३
इति प्रेङ्खोलितम्
कृत्वा मृगप्लुतं यत्र कृतोऽङ्घ्रिः स्वस्तिकोऽग्रतः
दोलौ हस्तौ संनतं तदधमापसृतौ भवेत् ७१४
इति संनतम्
अञ्चितेऽपसरत्यङ्घ्रावन्याङ्घ्रेर्नामितं शिरः
तस्मिन्पार्श्वे करोऽप्येष रोचितोऽङ्गान्तरं तथा
यत्र तत्सर्पितं मत्तस्योपसर्पापसर्पणे ७१५
इति सर्पितम्
वामश्चेत्खटको वक्षस्युद्वेष्टिततया परः ७१६
त्रिपताकः करः कर्णे तद्दिक्कश्चरणोऽञ्चितः
निष्क्राम्यते यदा प्रोक्तं करिहस्तं तदा बुधैः ७१७
इति करिहस्तम्
हस्तो यो रेचितस्तद्दिक्पादश्चेद्भूमिघर्षणात्
चलेत्पादान्तरान्मन्दं मन्दमन्यो लताकरः
तदा खेचरसंचारगोचरं स्यात्प्रसर्पितम् ७१८
बद्धाज्पक्रान्तयोश्चार्योः कृतयोर्हस्तयोः पुनः
तत्तत्प्रयोगानुगयोरपक्रान्तमुदाहृतम् ७१९
इत्यपक्रान्तम्
अधोमुखाङ्गुली हस्तौ पताकौ चेच्छिरःस्थलम्
आनीय परिवृत्तेन निष्क्राम्योर्ध्वांसयोस्तयोः ७२०
मिथोमुखाववस्थाप्य स्वदेहाभिमुखाङ्गुली
नितम्बाख्यौ विधीयेते नितम्बं करणं तदा ७२१
इति नितम्बम्
दोलापादाङ्घ्रिगमनागमने हंसपक्षकः
अभ्येत्यथेत्थमन्याङ्गं यत्र तत्स्खलितं मतम् ७२२
इति स्खलितम्
कृत्वाऽलातां पुरोऽङ्घ्रिं चेद्द्रुतं न्यस्य चपेटवत्
कृतो हस्तस्तथाऽन्याङ्गं सिंहविक्रीडितं तदा
एतद्रौद्रगतौ योज्यं ब्रूते श्रीकरणाग्रणीः ७२३
इति सिंहविक्रीडितम्
वृश्चिकोऽङ्घ्रिः पद्मकोशौ वौर्णनाभौ यदा करौ ७२४
अन्याङ्घ्रौ वृश्चिके प्राञ्चौ भङ्क्त्वा तौ तादृशौ पुनः
कृतौ सिंहाभिनयने सिंहाकर्षितकं तदा ७२५
इति सिंहाकर्षितम्
विधाय जनितां चारीं यद्यरालालपल्लवौ
ललाटवक्षःक्षेत्रस्थौ हस्तावभिमुखाङ्गुली ७२६
क्रमात्कृत्वोद्वेष्टितेन व्यावृत्त्या पार्श्वगौ ततः
वक्षोदेशेऽपवेष्टेन परिवृत्त्या च तादृशौ ७२७
मिथोमुखौ निधीयेते तदा स्यादवहित्थकम्
गॐपनप्रायवाक्यार्थाभिनये तन्नियुज्यते ७२८
अन्येऽवहित्थहस्तेन युक्तत्वादवहित्थकम्
वदन्ति चिन्तादौर्बल्यप्रभृत्यभिनयक्षमम् ७२९
इत्यवहित्थकम्
यत्र वक्षसि निर्भुग्ने निहितौ खटकामुखौ
मण्डलं स्थानकं तत्तु निवेशं गजवाहने ७३०
इति निवेशम्
एलकाक्रीडिता चारी चेद्दोलखटकौ करौ
संनतं वलितं गात्रमेलकाक्रीडितं तदा
अधमप्रकृतिप्राणिगतिगोचरमिष्यते ७३१
इत्येलकाक्रीडितम्
चारी चेज्जनिता मुष्टिर्वक्षस्यन्यो लताकरः
यदा तदा क्रियारम्भाभिनये जनितं भवेत् ७३२
इति जनितम्
आक्षिप्तां वामतश्चारीं व्यावृत्य परिवर्तितम् ७३३
करं कृत्वा नते पार्श्वे दक्षिणेऽरालतां नयेत्
यत्र तत्स्यादुपसृतं विनयेनोपसर्पणे ७३४
इत्युपसृतम्
दोलापादां भजंश्चारीं संघट्टिततलौ करौ
पताकौ रेचयित्वा चेद्वैष्णवे स्थानके स्थितः ७३५
कटिस्थं दक्षिणं हस्तं वामं रेचितमाचरेत्
अनुकम्पाविधाने स्यात्तलसंघट्टितं तदा ७३६
इति तलसंघट्टितम्
यत्रापसारितानीतं हस्तपादं विधीयते
गात्रमुद्वृत्तचारीकं तदुद्वृत्तं विदुर्बुधाः ८३७
इत्युद्वृत्तम्
कुञ्चितः प्रसरत्यङ्घ्रिरग्रे यत्रोद्गमोन्मुखः
करौ च रेचितौ विष्णुक्रान्तं तत्क्रमणे हरेः ७३८
इति विष्णुक्रान्तम्
रेचितः पाणिरेकः स्याद्वक्षस्यन्योऽलपल्लवः
लोलितं शीर्षमुभयोर्विश्रान्तं पार्श्वयोरपि
वैष्णवं स्थानकं यत्र तदाहुर्लोलितं बुधाः ७४९
इति लोलितम्
स्वस्तिकापसृतौ पादौ क्रमेण परिवाहितम् ७४०
शिरो दोलौ यदा हस्तौ मदस्खलितकं तदा
एतन्मध्यमदे योज्यं भाषते भववल्लभः ७४१
इति मदस्खलितम्
आविद्धां विदधच्चारीं व्यावृत्तपरिवर्तितम्
अलपद्मकरं न्यस्येदूरुपृष्ठे यदा तदा
संभ्रान्तं तत्प्रयोक्तव्यं ससंभ्रमपरिक्रमे ७४२
इति संभ्रान्तम्
अपेत्योपव्रजेद्वामं दक्षिणो नृत्तहस्तकः ७४३
सूचीमुखो निकुट्येत साङ्घ्रिर्वामकरो यदि
तद्वदङ्गान्तरं कृत्वा सूचीपादश्च दक्षिणः ७४४
हस्तोऽसावलपद्मः स्याद्वामहस्तस्तु पूर्ववत्
एवं पुनः पुनर्यत्र विष्कम्भं तद्बभाषिरे ७४५
इति विष्कम्भम्
उद्घट्टितोऽङ्घ्रिः पार्श्वं तत्संनतं तालिकोद्यतौ
हस्तौ यत्रोद्घट्टितं तदावृत्ताङ्गं प्रमोदकम् ७४६
इत्युद्घट्टितम्
शकटास्या भवेच्चारी प्रसार्येताङ्घ्रिणा सह ७४७
एको हस्तो द्वितीयस्तु वक्षस्थः खटकामुखः
यत्र तच्छकटास्यं स्यात्तादृशे बालखेलिते ७४८
इति शकटास्यम्
सहोरूद्वृत्तया चार्या यत्र व्यावर्तनान्वितौ
अरालखटकौ हस्तौ निदध्यादूरुपृष्ठयोः
ऊरूद्वृत्तं तदीर्ष्यायां प्रार्थनाप्रेमकोपयोः ७४९
इत्यूरूद्वृत्तम्
अलातां विदधच्चारीं हस्तौ कुर्वीत रेचितौ ७५०
व्यावृत्त्या कुञ्चितौ कृत्वाऽलपद्मौ बाहुशीर्षयोः
न्यस्येते यत्र तद्धीरा वृषभक्रीडितं जगुः ७५१
इति वृषभक्रीडितम्
हस्तौ चेद्रेचितौ स्यातां शिरस्तु परिवाहितम्
स्वस्तिकापसृतौ पादौ तदा नागापसर्पितम्
प्राहुः प्रयोगमेतस्य सूरयस्तरुणे मदे ७५२
इति नागापसर्पितम्
अङ्घ्रेरुत्क्षेपनिक्षेपावनु प्रोन्नतिसंनती ७५३
भजेतां त्रिपताकौ चेदेवमेव शिरस्तदा
गङ्गावतरणं गङ्गावतारे शार्ङ्गिणोदितम् ७५४
इति गङ्गावरतणम्
कर्तव्यः करणे प्रायो वामो वक्षःस्थितः करः
पाणिस्तु दक्षिणस्तत्र स्यात्तत्तत्करणानुगः ७५५
इत्यष्टोत्तरशतं करणानि
अथ देश्यनुसारेण देशे देशे लसद्यशाः
वदत्युत्प्लुतिपूर्वाणि करणानि हरप्रियः ७५६
अञ्चितं चैकचरणाञ्चितं स्याद्भैरवाञ्चितम्
दण्डप्रणामाञ्चितं च कर्तर्यञ्चितकं ततः ७५७
अलगं त्रीणि कूर्मोर्ध्वान्तरपूर्वालगानि च
लोहडी कर्तरीलोहड्येकपादादिलोहडी ७५८
ततः स्याद्दर्पसरणं शयनं जलपूर्वकम्
नागबन्धं कपालाद्यं चूर्णनं नतपृष्ठकम् ७५९
स्यान्मत्स्यकरणं चाथ करस्पर्शनसंज्ञकम्
एणप्लुतं ततस्तिर्यक्करणं तिर्यगञ्चितम् ७६०
तिर्यक्स्वस्तिकसंज्ञं च सूच्यन्तमथ कीर्तितम्
बह्यान्तश्छन्नतिरिपालगचक्रोचितादिमाः ७६१
सप्त भ्रमर्यो भ्रमरी शिरःपूर्वा दिगादिमा
समपादाञ्चितं भ्रान्तपादाञ्चितमतः परम् ७६२
स्कन्धभ्रान्तं च षट्त्रिंशदिति सोढलनन्दनः
संक्षिप्योत्प्लुतिपूर्वाणि करणानि समादिशत् ७६३
अञ्चितं समपादेन स्थित्वोत्तालोत्प्लुतो भवेत्
इत्यञ्चितम्
एकपादाञ्चितं तत्स्यादेकपादविनिर्मितम् ७६४
इत्येकचरणाञ्चितम्
ऊरुपृष्ठस्थितैकाङ्घ्रेरुत्प्लुतौ भैरवाञ्चितम्
इति भैरवाञ्चितम्
उत्प्लुत्याञ्चितवद्यत्र निपतेद्दण्डवद्भुवि
दण्डप्रणामाञ्चितं तद्गदितं नृत्तवेदिभिः ७६५
इति दण्डप्रणामाञ्चितम्
अञ्चितं स्वस्तिकाङ्घ्रिभ्यां कर्तर्यञ्चिमुच्यते
इति कर्तर्यञ्चितम्
अधोमुखोत्प्लुतोऽग्रे च पतित्वा कुक्कुटासनम्
बध्नीयाद्यत्र तत्प्रोक्तमलगं सूरिशार्ङ्गिणा ७६६
इत्यलगम्
कूर्मासनं यद्यलगे भवेत्कूर्मालगं तदा
इति कूर्मालगम्
ऊर्ध्वालगं तत्पतित्वा समाङ्घ्रेरूर्ध्वसंस्थितौ ७६७
इत्यूर्ध्वालगम्
कृतालगो निपत्योर्व्यामुत्तानोरःस्थलस्थितः
पृष्ठतः श्रोणिसंस्पर्शि शिरः स्यादन्तरालगे ७६८
इत्यन्तरालगम्
समपादस्थितो यत्र विवर्त्य त्रिकमुत्प्लुतः
तिर्यक्पाते लोहडी तल्लुण्ठितं चोच्यते बुधैः ७६९
इति लोहडी लुण्ठितं वा
स्वस्तिकाङ्घ्रिकृता सैव कर्तरीलोहडी मता
इति कर्तरीलोहडी लुण्ठितं वा
एकाङ्घ्रिजा त्वेकपादलोहडी संमता सताम् ७७०
इत्येकपादलोहडी एकपादलुण्ठितं वा
वैष्णवे स्थानके स्थित्वा पतेत्पार्श्वेन चेद्भुवि
करणं दर्पसरणं तदाह करणाधिपः ७७१
इति दर्पसरणम्
तदेव जलशय्याख्यमासने जलशायिवत्
इति जलशयनम्
नागबन्धं तदेव स्यान्नागबन्धवदासने ७७२
इति नागबन्धम्
समपादस्थितो यत्र संस्पृश्य शिरसा भुवम्
परावृत्तस्तत्कपालचूर्णनं वर्णितं बुधैः ७७३
इति कपालचूर्णनम्
कपालचूर्णनं कृत्वोत्तानं वक्षस्थलं ततः
यत्रोक्तं नतपृष्ठं तद्वङ्कोलमपरैरदः ७७४
उत्प्लुत्य मध्यमावर्त्य वामपार्श्वेन मत्स्यवत्
परिवर्तेत चेन्मत्स्यकरणं वर्णितं तदा ७७५
इति मत्स्यकरणम्
अलगं करणं कृत्वा हस्तेनाऽऽश्रित्य च क्षितिम्
परिवर्तेत यत्रादः करस्पर्शनमूचिरे ७७६
इति करस्पर्शनम्
उत्प्लुत्यान्यतमां सूचीं खे कृत्वा भजते क्षितौ
यदोत्कटासनं चोर्ध्वस्थानमेणप्लुतं तदा ७७७
इत्येणप्लुतम्
तिर्यगेकेन पादेन समुत्प्लुत्य निपत्य चेत्
तिष्ठेद्भुव्यङ्घ्रिणाऽन्येन स्यात्तिर्यक्करणं तदा ७७८
इति तिर्यक्करणम्
समपादात्परम् तिर्यगुत्प्लुतौ तिर्यगञ्चितम्
इति तिर्यगञ्चितम्
स्यात्तिर्यक्स्वस्तिकं कृत्वा स्वस्तिकं तिर्यगुत्प्लुतौ ७७९
इति तिर्यक्स्वस्तिकम्
समाद्यन्यतमां सूचीं दधते निधने यदि
करणानि तदा प्राञ्चि सूच्यन्तानि प्रचक्षते ७८०
इति सूच्यन्तम्
दक्षिणेनाङ्घ्रिणा स्थित्वा वाममङ्घ्रिं तु कुञ्चयेत्
वामावर्तं भवेद्यत्र सा बाह्यभ्रमरी मता ७८१
इति बाह्यभ्रमरी
एतस्यास्तु विपर्यासादन्तर्भ्रमरिका भवेत्
इत्यन्तर्भ्रमरी
त्रिविक्रमाकारधारी स्थानमास्थाय यत्र तु
वामावर्तभ्रमादाहुस्तां छन्नभ्रमरीं बुधाः ७८२
इति च्छन्नभ्रमरी
तिरिपभ्रमरी तिर्यग्भ्रमेऽङ्घ्रिस्वस्तिकात्परम् ७८३
इति तिरिपभ्रमरी
वैष्णवस्थानके स्थित्वा यदा वामाङ्घ्रिणा स्थितः
देहं भ्रामयते तिर्यगलगभ्रमरी तदा ७८४
इत्यलगभ्रमरी
चक्रभ्रमरिका खण्डसूच्यर्धे चक्रवद्धमात्
इति चक्रभ्रमरी
समपादाननतरं चेत्तिरश्चीं भ्रामयेत्तनुम्
उचितभ्रमरीं प्राह तदा शंकरवल्लभः ७८५
इत्युचितभ्रमरी
शिरसैव भुवि स्थित्वोर्ध्वीकृतौ चरणौ दधत्
परिभ्रमति यत्र त्रिः सा शिरोभ्रमरी मता ७८६
इति शिरोऽभ्रमरी
प्राग्वत्सकृत्सकृद्धान्त्वा हस्तभ्रान्त्या धृतक्षितिः
दिक्चतुष्के क्रमात्तिष्ठेद्यदा दिग्भ्रमरी तदा ७८७
इति दिग्भ्रमरी
समपादाञ्चितं कृत्वा स्कन्धेनैकेन भूस्थितः ७८८
परिवृत्य च तिर्यक्चेत्पादावुल्लोलयेत्तदा
समपादाञ्चितं प्राह सूरिः श्रीकरणाग्रणीः ७८९
इति समपादाञ्चितम्
भ्रामयित्वा दक्षिणाङ्घ्रिं तदीयतलपृष्ठतः
जङ्घामध्यमवष्टाभ्य वामाङ्घ्रेरञ्चितं पदम् ७९०
विधाय तिर्यक्संधाभ्यामधिष्ठाय विवृत्य च
पादावुल्लोलयेत्प्रोक्तं भ्रान्तपादाञ्चितं तदा ७९१
इति भ्रान्तपादाञ्चितम्
उत्कटासनमास्थायाञ्चितं कृत्वा सयुग्मतः
स्थित्वा भुवि व्योम्नि कृत्वाऽङ्गान्तराणि ततो भुवम् ७९२
अवष्टाभ्य कराभ्यां चेद्धान्त्वा भ्रान्त्वा च पूर्ववत्
तिष्ठेत्प्रतिदिशं प्रोक्तं स्कन्धभ्रान्तं तदा बुधैः ७९३
इति स्कन्धभ्रान्तम्
विद्यन्तेऽन्येऽपि भूयांसो भेदाः करणसंश्रयाः
न ते श्रीशार्ङ्गिणा प्रोक्ता ग्रन्थप्रथिमभीरुणा ७९४
इति षट्त्रिंशदुत्प्लुतिकरणानि
पूर्वरङ्गे प्रयोक्तव्यान्दृष्टादृष्टफलानपि
अङ्गहारान्प्रवक्ष्यामि नामतो लक्ष्मतस्तथा ७९५
अङ्गानामुचिते देशे प्रापणं सविलासकम्
मातृकोत्करसंपाद्यमङ्गहारोऽभिधीयते ७९६
यद्वा हारो हरस्यायं प्रयोगोऽङ्गैरिति स्मृतः ७९७
करणाभ्यां मातृका स्यात्कलापः करणैस्त्रिभिः
चतुर्भिः खण्डको ज्ञेयः संघातः पञ्चभिर्मतः
इति संघविशेषेण संज्ञाभेदान्परे जगुः ७९८
करणन्यूनताधिक्यं तेषां मेने मुनिः स्वयम्
द्वाभ्यां त्रिचतुराभिर्वेत्येतद्वाशब्दसूचितम् ७९९
स्थिरहस्तोऽथ पर्यस्तः सूचीविद्धोऽपराजितः
वैशाखरेचितः पार्श्वस्वस्तिको भ्रमरोऽपरः ८००
आक्षिप्तकः परिच्छिन्नो मदाद्विलसितस्ततः
आलीढाच्छुरितौ पार्श्वच्छेदसंज्ञोऽपसर्पितः ८०१
मत्ताक्रीडस्तथा विद्युद्धान्तोऽमी षोडशोदिताः
चतुरस्रेण मानेनाङ्गहारा मुनिसत्तमैः ८०२
विष्कम्भापसृतौ मत्तस्खलितो गतिमण्डलः
अपविद्धश्च विष्कम्भोद्घट्टिताक्षिप्तरेचिताः ८०३
रेचितोऽर्धनिकुट्टश्च वृश्चिकापसृतस्ततः
अलातकः परावृत्तः परिवृत्तादिरेचितः ८०४
उद्धृत्तकश्च संभ्रान्तसंज्ञः स्वस्तिकरेचितः
षोडशेति त्र्यस्रमाना द्वात्रिंशदुभये मताः ८०५
करणव्रातसंदर्भानन्त्यात्तेषामनन्तता
द्वात्रिंशत्ते तथाऽप्युक्ताः प्राधान्यविनियोगतः ८०६
एकैकं करणं कार्यं कलया गुरुरूपया
सर्वेषामङ्गहाराणामित्याह करणाग्रणीः ८०७
लीनं समनखं कृत्वा व्यंसितं चात्र विच्युतौ
करौ कृत्वोज्झितालीढः प्रत्यालीढं व्रजेत्ततः ८०८
निकुट्टकोरूद्वृत्ताख्यस्वस्तिकाक्षिप्तकान्यथ ८०९
नितम्बं करिहस्तं च कटीच्छिन्नमिति क्रमात्
करणैः स्थिरहस्तः स्याद्दशभिः शिववल्लभः ८१०
अङ्गहारेषु सर्वेषु प्रत्यालीढान्तमादितः
प्रयोक्तव्यमिति प्राहुः केचिन्नाट्यविशारदाः ८११
इति स्थिरहस्तः
तलपुष्पपुटं पूर्वमपविद्धं च वर्तितम्
निकुट्टकोरूद्वृत्ताख्याक्षिप्तोरोमण्डलान्यथ ८१२
नितम्बं करिहस्तं च कटीछिन्नमिति क्रमात्
दशभिः करणैरेभिः प्रोक्तः पर्यस्तको बुधैः ८१३
इति पर्यस्तकः
अर्धसूच्यथ विक्षिप्तमावर्तं च निकुट्टकम्
ऊरूद्वृत्तमथाऽऽक्षिप्तमुरोमण्डलसंज्ञकम् ८१४
करिहस्तं कटीछिन्नं नवभिः करणैरिति
सूचीविद्धाभिधः प्रोक्तोऽङ्गहारो भरतादिभिः ८१५
इति सूचीविद्धः
दण्डपादं द्व्यंसितं च प्रसर्पितकसंज्ञकम्
निकुट्टार्धनिकुट्टे चाऽऽक्षिप्तोरोमण्डले ततः ८१६
करिहस्तं कटीछिन्नमिति लक्ष्मापराजिते
नवभिः करणैर्युक्तमुक्तं निःशङ्कसूरिणा ८१७
इत्यपराजितः
वैशाखरेचितं द्वाभ्यामङ्गाभ्यामथ नूपुरम् ८१८
भुजंगत्रासितोन्मत्तमण्डलस्वस्तिकान्यथ
निकुट्टकोरूद्वृत्ताख्याक्षिप्तोरोमण्डलानि च ८१९
करिहस्तं कटीछिन्नमित्येकादशभिः क्रमात्
करणैरङ्गहारः स्यान्नाम्ना वैशाखरेचितः ८२०
इति वैशाखरेचितः
दिक्स्वस्तिकं ततश्चाङ्गेनैकेनार्धनिकुट्टकम्
पुनर्दिक्स्वस्तिकमथान्याङ्गेनार्धनिकुट्टकम् ८२१
अपविद्धोरूद्वृत्ताख्ये तथाऽऽक्षिप्तं नितम्बकम्
करिहस्तं कटीछिन्नमष्टभिः करणैरिति
स्यात्पार्श्वस्वस्तिकोऽभ्यासात्त्वाद्ययोर्दशभिर्भवेत् ८२२
इति पार्श्वस्वस्तिकः
नूपुराक्षिप्तकच्छिन्नसूचीन्यथ नितम्बकम् ८२३
करिहस्तं च करणमुरोमण्डलकं ततः
कटीछिन्नमिति प्रोक्तः करणैर्भ्रमरोऽष्टभिः ८२४
इति भ्रमरः
कृत्वा नूपुरविक्षिप्तालातान्याक्षिप्तकं ततः
उरोमण्डलसंज्ञं च करणैरेभिराक्षिप्तकोऽष्टभिः
विक्षिप्तालातकाक्षिप्तप्रयोगं द्विः परे जगुः ८२६
इत्याक्षिप्तकः
कृत्वा समनखं छिन्नं संभ्रान्तमथ वामतः
भ्रमरं वामपार्श्वार्धसूच्यङ्घ्रिक्रान्तसंज्ञकम् ८२७
भुजंगत्रासितादूर्ध्वं करिहस्तं विधीयते
कटीछिन्नं परिच्छिन्नो नवभिः करणैरिति ८२८
इति परिच्छिन्नः
मदस्खलितमत्तल्लितलसंस्फोटितानि च
बहुशश्चित्रगुम्फानि निकुट्टकमतः परम् ८२९
ऊरूद्वृत्तं च करणं करिहस्तसमाह्वयम्
कटीछिन्नं च सप्तेति मदाद्विलसिते जगुः ८३०
करणानि त्रयाणां तु त्रिरभ्यासात्त्रयोदश
अभ्यासांस्त्रिषु वाञ्छन्ति चतुष्पञ्चादिकानपि ८३१
इति मदबिलसितः
द्व्यंसितं सनिकुट्टं स्यान्नूपुरं वामतोऽङ्घ्रितः
अन्यतोऽलातकाक्षिप्ते उरोमण्डलकं ततः ८३२
करिहस्तं कटीछिन्नमित्येभिः करणैः क्रमात्
भवेदष्टभिरालीढोऽङ्गहारो मुनिसंमतः ८३३
इत्यालीढः
नूपुरं भ्रमरं चाथ व्यंसितालातके ततः ८३४
नितम्बं सूचिसंज्ञं च करिहस्तमतः परम्
कटीछिन्नं च करणान्यष्टेत्याच्छुरिते विदुः ८३५
इत्याच्छुरितः
वृश्चिकाद्यं कुट्टितं स्यादूर्ध्वजानु ततः परम्
आक्षिप्तस्वस्तिकं कृत्वा त्रिकस्य परिवर्तनम् ८३६
उरोमण्डलसंज्ञं च नितम्बं करिहस्तकम्
कटीछिन्नं च करणं पार्श्वच्छेदेऽष्टमं मतम् ८३७
इति पार्श्वच्छेदः
अपक्रान्तं व्यंसितस्य केवलं करयोः क्रिया
करिहस्तं चार्धसूची विक्षिप्ताख्यं कटीयुतम् ८३८
छिन्नमूरूद्वृत्तसंज्ञमाक्षिप्तं करिहस्तकम्
कटीछिन्नं च सप्तेति करणान्यपसर्पिते
सार्धानि द्विः कटीछिन्नकरिहस्तकृतेर्नव ८३९
इत्यपसर्पितः
भ्रमरं नूपुराख्यं च भुजंगत्रासिताभिधम् ८४०
दक्षिणाङ्गेनैव कृत्वा कुर्याद्वैशाखरेचितम्
आक्षिप्तच्छिन्नकरणे भ्रमरव्यंसिते ततः ८४१
उरोमण्डलसंज्ञं च नितम्बं करिहस्तकम्
कटीछिन्नं च करणैरेभिर्द्वादशभिः क्रमात् ८४२
एकादशभिरभ्यासाद्गणना भ्रमरस्य तु
मत्ताक्रीडाभिधानः स्यादङ्गहारो हरप्रियः ८४३
इति मत्ताक्रीडः
वामाङ्गेनार्धसूचि स्याद्विद्युद्धान्तं तु दक्षिणे
पुनरङ्गविपर्यासाद्द्वयं छिन्नमतः परम् ८४४
अतिक्रान्तं वामतोऽथ लतावृश्चिकमाचरेत्
कटीछिन्नं च षडिति द्वयोरभ्यासतः पुनः
करणान्यष्टसंख्यानि विद्युद्भ्रान्तेऽभ्यधुर्बुधाः ८४५
इति विद्युद्भ्रान्तः
निकुट्टकाख्यकरणं विधायार्धनिकुट्टकम्
भुजंगत्रासितादूर्ध्वं भुजंगत्रस्तरेचितम् ८४६
आक्षिप्तोरोमण्डले च क्रमात्कृत्वा लताकरम्
कटीछिन्नं सप्तमं तु विष्कम्भापसृते भवेत् ८४७
इति विष्कम्भापसृतः
मत्तल्लिगण्डसूच्याख्ये लीनं मत्तापविद्धकम्
तद्गतत्वेन कर्तव्यं तलसंस्फोटितं ततः ८४८
करिहस्तं कटीछिन्नं करणानि क्रमादिति
सप्ताङ्गहारे प्रोक्तानि मत्तस्खलितसंज्ञके ८४९
इति मत्तस्खलितः
मण्डलस्वस्तिकादूर्ध्वं निवेशोन्मत्तसंज्ञके
उद्घट्टिताख्यं मत्तल्लि स्यादाक्षिप्तमतः परम् ८५०
उरोमण्डलकं छिन्नं कट्यादि गतिमण्डले
इत्यष्टौ करणानि स्युरिति निःशङ्कभाषितम् ८५१
इति गतिमण्डलः
अपविद्धं प्रथमतः सूचीविद्धमथो करौ
उद्वेष्टिते समं चार्या बद्धया वलयेत्त्रिकम् ८५२
ऊरूद्वृत्तं च करणमुरोमण्डलकं ततः
कटीछिन्नं पञ्चमं चेदपविद्धस्तदा भवेत् ८५३
इत्यपविद्धः
निकुट्टकाख्यं करणं स्यान्निकुञ्चितमञ्चितम्
ऊरूद्वृत्तं ततोऽप्यर्धनिकुट्टकरणं ततः ८५४
भुजंगत्रासितं हस्तोद्वेष्टने भ्रमरं ततः
करिहस्तं कटीछिन्नं विष्कम्भे नवमं भवेत् ८५५
इति विष्कम्भः
उद्घट्टिते निकुट्टाख्यमुरोमण्डलकं ततः
नितम्बं करिहस्तं स्यात्कटीछिन्नं च पञ्चमम् ८५६
इत्युद्घट्टितः
स्वस्तिकाद्यं रेचितं स्यात्पृष्ठस्वस्तिकसंज्ञकम्
दिक्स्वस्तिकं कटीछिन्नं समं घूर्णितनामकम् ८५७
भ्रमरं वृश्चिकाद्यं च रेचितं पार्श्वपूर्वकम्
निकुट्टकमुरःपूर्वं मण्डलं संनतं ततः ८५८
सिंहाकर्षितकं नागापसर्पितसमाह्वयम्
अथ वक्षःस्वस्तिकं तु केचिदिच्छन्ति सूरयः ८५९
दण्डपक्षं च करणं ललाटतिलकाह्वयम्
विलासितं तलाद्यं च भवेदथ निशुम्भितम् ८६०
विद्युद्धान्ताभिधादूर्ध्वं गजक्रीडितकं ततः
नितम्बविष्णुक्रान्ताख्योरूद्वृत्ताक्षिप्तकानि च ८६१
उरोमण्डलसंज्ञं च नितम्बं करिहस्तकम्
वैकल्पिकं कटीछिन्नमिच्छन्त्याक्षिप्तरेचिते ८६२
पञ्चविंशतिसंख्यानि करणानि पुरातनाः
नितम्बोरोमण्डलयोस्त्वावृत्त्या सप्तविंशतिः ८६३
ये वक्षःस्वस्तिकं चात्र कटीछिन्नं च मन्वते
पञ्चविंशतिरेव स्यादावृत्तावपि तन्मते ८६४
इत्याक्षिप्तरेचितः
स्वस्तिकाद्यं रेचितं स्यादर्धरेचितकं ततः
वक्षःस्वस्तिकमुन्मत्तसंज्ञमाक्षिप्तरेचितम् ८६५
अर्धमत्तल्लिकरणं स्याद्रेचकनिकुट्टकम्
भुजंगत्रस्तपूर्वं च रेचितं नूपुरं ततः ८६६
वैशाखरेचितं कृत्वा भुजंगाञ्चितमाचरेत्
दण्डरेचितकं चक्रमण्डलं वृश्चिकादिमम् ८६७
रेचितं वृश्चिकादूर्ध्वं विवृत्तविनिवृत्तके
विवर्तितं च गरुडप्लुतकं ललितं भवेत् ८६८
मयूराद्यं सर्पितं च स्खलिताख्यं प्रसर्पितम्
तलसंघट्टितमथो वृषभक्रीडितं ततः ८६९
लेलितं षट्त्रिंशतिर्या करणानामितीरिता
तां कृत्वा विषमैर्भागैश्चतुर्धा दिक्चतुष्टाये ८७०
परिवृत्तप्रकारेण प्रयुज्यान्ते समाचरेत्
उरोमण्डलकं यत्र कटीछिन्नं स रेचितः ८७१
इति रेचितः
नूपुराख्यं विवृत्तं च निकुट्टार्धनिकुट्टाके
अर्धरेचितकादूर्ध्वं स्याद्रेचकनिकुट्टकम् ८७२
ललिताख्यं च वैशाखरेचितं चतुरं ततः
दण्डरेचितकादूर्ध्वं भवेद्वृश्चिककुट्टितम् ८७३
निकुट्टाकं पाश्वपूर्वं संभ्रान्तोद्घट्टिते ततः
उरोमण्डलकादूर्ध्वं करिहस्तसमाह्वयम्
कटीछिन्नं सप्तदश भवेदर्धनिकुट्टके ८७४
इत्यर्धनिकुट्टकः
लतावृश्चिकमादौ स्यान्निन्कुञ्चितमतः परम्
मत्तल्लि च नितम्बाख्यं करणं करिहस्तकम् ८७५
कटीछिन्नं स्मृतं षष्ठं वृश्चिकाक्पसृते बुधैः
अत्र स्थाने नितम्बस्य भ्रमरं केचिदूचिरे ८७६
इति वृश्चिकापसृतः
स्वस्तिकं व्यंसितं तु द्विरलाताख्योर्ध्वजानुनी
निकुञ्चितार्धसूच्याख्यविक्षिप्तोद्वृत्तकान्यथ ८७७
आक्षिप्तं करिहस्तं स्यात्कटीछिन्नमलातके
एकादश स्युः करणान्येकं द्विर्व्यंसितेऽधिकम् ८७८
इत्यलातकः
दक्षिणाङ्गेन जनितं शकटास्यमलातकम् ८७९
भ्रमरं चाथ गण्डस्थनिन्कुट्टितकरान्वितम्
करिहस्तं कटीछिन्नं करणानि क्रमादिति ८८०
परावृत्ते षडुक्तानि श्रीमत्सोढलसूनुना
नमनोन्नमनं तज्ज्ञैरङ्गस्योक्तं निकुट्टाकम् ८८१
इति परावृत्तः
नितम्बं करणं कृत्वा कुर्यात्स्क्वस्तिकरोचितम् ८८२
विक्षिप्ताक्षिप्तकमथो लतावृश्चिकसंज्ञकम्
उन्मत्तं करिहस्तं च भुजंगत्रासितं ततः ८८३
आक्षिप्तकं नितम्बं च नितम्बान्तान्यमून्यथ
नव भ्रमरकाख्येण परिवृत्तं समाचरेत् ८८४
दिगन्तरमुखे कृत्वा व्यावृत्य परयोर्दिशोः
करिहस्तकटीछिन्ने कुर्यादाद्यदिशि स्थितः ८८५
यत्र तं प्राहुराचार्याः परिवृत्तकरेचितम्
परिवृत्तविधिश्चायं त्यक्त्वाऽन्त्यं करणद्वयम् ८८६
सर्वेषामङ्गहाराणां शार्ङ्गदेवेन सूरिणा
भट्टाभिनयगुप्तादिमतज्ञेन निगद्यते ८८७
इति परिवृत्तकरेचितः
नूपुरात्करणादूर्ध्वं भुजंगाञ्चितमाचरेत्
गृध्रावलीनकं द्वे च विक्षिप्ते पृथगङ्गजे ८८८
उद्वृत्तमध्येर सूच्याख्यं नितम्बमथ वृश्चिकम्
लतापूर्वं कटीछिन्नं नवभिः करणैरिति
उद्वृत्तको द्विर्विक्षिप्तोद्वृत्ताख्यमधिकं द्वयम् ८८९
इत्युद्वृत्तकः
विक्षिप्तमञ्चितं गण्डसूची सर्वान्तिमं ततः
अर्धसूचि ततो दण्डपादं वामाङ्गसाधितम् ८९०
चतुरं भ्रमरं चाथ नूपुराक्षिप्तनामके
अर्धस्वस्तिकसंज्ञं च नितम्बं करिहस्तकम् ८९१
उरोमण्डलसंज्ञं च कटीछिन्नमिति क्रमात्
करणैः पञ्चदशभिः संभ्रान्तमभणन्बुधाः ८९२
इति संभ्रान्तः
वैशाखरेचितादूर्ध्वं वृश्चिकं द्विरिदं द्वयम्
निकुट्टकाभिधादूर्ध्वं क्रमावाप्तलताकरम् ८९३
कटीछिन्नं चतुर्थं चेत्तदा स्वस्तिकरेचितम्
ज्ञेयमाद्यद्वयाभ्यासादधिकं करणद्वयम् ८९४
इति स्वस्तिकरेचितः
मृदङ्गैर्गोमुखैर्भम्भाभेरीपटहडिण्डिमैः ८९५
पणवैर्दर्दुराद्यैश्च वाद्यैस्ताललयानुगैः
वर्धमानासारितेषु पाणिकागीतकादिषु ८९६
पूर्वरङ्गस्य चाङ्गेषु धीरैरुत्थापनादिषु
अङ्गहाराः प्रयोक्तव्याः श्रेयः परमभीप्सुभिः ८९७
विनियोगोऽङ्गहारेषु करणानामितीरितः
आहुः पृथक्प्रयोगेऽपि करणानां महत्फलम् ८९८
इति द्वात्रिंशदङ्गहारलक्षणम्
रेचकानथ वक्ष्यामश्चतुरो भरतोदितान्
पादयोः करयोः कट्या ग्रीवायाश्च भवन्ति ते ८९९
पार्ष्ण्यङ्गुष्ठाग्रयोरन्तर्बहिश्च सततं गतिः
नमनोन्नमनोपेता प्रोच्यते पादरेचकः ९००
परितो भ्रमणं तूर्णं हस्तयोर्हंसपक्षयोः ९०१
यत्पर्यायेण रचितं स भवेत्कररेचकः
विरलप्रसृताङ्गुष्ठाङ्गुलेस्तिर्यग्भ्रमेण च ९०२
सर्वतो भ्रमणं कट्याः कटिरेचकमूचिरे
ग्रीवाया विधुतभ्रान्तिः कथ्यते कण्ठरेचकः
अङ्गहाराङ्गमप्येते जनयन्ति पृक्फलम् ९०३
इति रेचकलक्षणम्
विचित्रमङ्घ्रिजङ्घोरुकटीकर्म समं कृतम्
चारी स्यात्करणे ङीषि चरेरिञ्प्रत्ययान्ततः ९०४
हस्तो वाऽभिनये गत्यां चरणो यो यदेप्सितः
तत्संपत्त्युचिता चारी कार्या तदुचिता परा ९०५
एवमन्योन्यनियमात्सैव व्यायाम उच्यते
चारी च करणं खण्डो मण्डलं चेति तद्भिदाः ९०६
तत्रैकपादनिष्पाद्या चारी चार्येव कीर्तिता
पादद्वयेन करणं तन्नृत्तकरणात्पृथक् ९०७
करणैः स्यात्त्रिभिः खण्डो मण्डलं खण्डकैस्त्रिभिः
चतुर्भिर्वा क्रमात्ताले त्र्यस्रे च चतुरस्रके ९०८
भौमी चाऽऽकाशिकीत्येषा द्वेधा भौम्योऽत्र षोडश
समपादा स्थितावर्ता शकटास्या च विच्यवा ९०९
अध्यर्धिका चाषगतिरेलकाक्रीडिता तथा
समोसरितमत्तल्ली मत्तल्ल्युत्सन्दिताऽड्डिता ९१०
स्यन्दिताऽपस्यन्दिताख्या बद्धा च जनिताभिधा
ऊरूद्वृत्तेत्यथ ब्रूमः षोडशाऽऽकाशिकीरिमाः ९११
अतिक्रान्ताऽप्यपक्रान्ता पार्श्वक्रान्ता मृगप्लुता
ऊर्ध्वजानुरलाता च सूची नूपुरपादिका ९१२
दोलापादा दण्डपादा विद्युद्धान्ता भ्रमर्यपि
भुजंगत्रासिताऽऽक्षिप्ता विद्धोद्वृत्तेति कीर्तिताः ९१३
भरताभिमताश्चार्यो द्वात्रिंशन्मिलितास्तु ताः
देशीप्रसिद्धाः सन्त्यन्यास्ताः संप्रत्यभिदध्महे ९१४
रथचक्रा परावृत्ततला नूपुरविद्धिका ९१५
तिर्यङ्मुखा मराला च करिहस्ता कुलीरिका
विश्लिष्टा कातारा पार्ष्णिरेचिताऽप्यूरुताडिता ९१६
ऊरुवेणी तलोद्वृत्ता हरिणत्रासिका परा
अर्धमण्डलिका तिर्यक्कुञ्चिता च मदालसा ९१७
संचारितोत्कुञ्चिता च स्तम्भक्रीडनिका ततः
चारी लङ्घितजङ्घाख्या स्फुरिताऽप्यपकुञ्चिता ९१८
अपि संघट्टिता खुत्ता स्वस्तिका तलदर्शिनी
पुराट्यर्धपुराटी च सरिका स्फुरिका ततः ९१९
निकुट्टका लताक्षेपाऽप्युडुस्खलितिका परा
समस्खलितिका भौम्यः पञ्चत्रिंशदितीरिताः ९२०
विद्युद्धान्ता पुरःक्षेपा विक्षेपा हरिणप्लुता
अपक्षेपा च डमरी दण्डपादाङ्घ्रिताडिता ९२१
जङ्घालङ्घनिकाऽलाता जङ्घावर्ता च वेष्टनम्
उद्वेष्टनमथोत्क्षेपः पृष्ठोत्क्षेपश्च सूचिका ९२२
विद्धा प्रावृत्तमुल्लोल इत्यत्रैकोनविंशतिः
व्योमगाः स्युरुभयास्तु चतुष्पञ्चाशदूचिरे ९२३
मार्गदेशीगताचार्यः षडशीतिरिमा मताः
लक्षणानि क्रमात्तासां चारीणामभिदध्महे ९२४
निरन्तरौ समनखौ पादौ कृत्वा स्थितो यदा ९२५
स्थानेन समपादेन समपादा तदोदिता
प्रचारयोग्यतामात्राच्चारी स्थानेऽप्यसौ मता ९२६
इति समपादा
चरणान्तरपार्श्वं चेद्गत्वाऽग्रतलसंचरः
अन्तर्जानुः स्वस्तिकत्वं प्राप्तः पादस्तथेतरः
विश्लिष्य पार्श्वं संनीतः स्थितावर्ता तदोच्यते ९२७
इति स्थितावर्ता
यत्र धृत्वा पूर्वकायं पादोऽग्रतलसंचरः ९२८
प्रसार्योद्वाहितमुरः शकटास्या तदा भवेत्
आस्यं क्षेप्यं हि शकटं चारीमेनामुपाश्रितैः ९२९
इति शकटास्या
विच्युत्य समपादायाः पादौ यदि तलाग्रतः
निकुट्टयेतां धरणीमुच्यते विच्यवा तदा ९३०
इति विच्यवा
दक्षिणाङ्घ्रेः पार्ष्णिदेशे वामः पादो निधीयते
दक्षिणस्त्वपसृत्य स्वे पार्श्वे त्र्यस्रतया स्थितः ९३१
सार्धतालान्तरत्वेन दक्षिणोऽप्येवमेव चेत्
वामपार्ष्णौ स च त्र्यस्रो भवेदध्यर्धिका तदा ९३२
इत्यध्यर्धिका
तालमात्रं पुरः सृत्वा द्वितालं पृष्ठतो गते
दक्षिणेऽङ्घ्रौ समं पादौ किंचिदुत्प्लुतिपूर्वकम् ९३३
उपसृत्यापसर्पेतामपसृत्योपसर्पतः
यत्र सत्रासगत्यादौ सैषा चाषगतिर्मता ९३४
इति चाषगतिः
किंचिदुत्प्लुत्य चरणौ यत्राग्रतलसंचरौ
पर्यायशो निपततः सैलकाक्रीडिता मता ९३५
इत्येलकाक्रीडिता
अभ्यन्तरेऽङ्घ्रेरन्यस्य पादेऽग्रतलसंचरे
सजङ्घास्वस्तिकेऽथान्यपादेऽग्रतलसंचरे ९३६
कृतेऽङ्घ्र्योर्घूर्णतोर्यत्रापसृतिश्चोपसर्पणम्
समोसरितमत्तल्ली सा भवेन्मध्यमे मदे ९३७
इति समोसरितमत्तल्ली
भूमिश्लिष्टाखिलतलौ जङ्घास्वस्तिकसंयुतौ ९३८
अर्धत्र्यस्रौ यदा पादौ घूर्णन्तौ वोपसर्पतः
यद्वाऽपसर्पतः सा स्यान्मत्तल्ली तरुणे मदे ९३९
इति मत्तल्ली
कनिष्ठाङ्गुलिभागेनाङ्गुष्ठभागेन च क्रमात्
रेचकस्यानुकारेण शनैरङ्घ्रिर्गतागतम् ९४०
कुरुते यत्र सा चारी बुधैरुत्सन्दितोदिता
रेचितं नृत्तहस्तं च केचिदत्र प्रचक्षते ९४१
इत्युत्सन्दिता
समाङ्घ्रेरग्रपृष्ठाभ्यामन्योऽग्रतलसंचरः
निघृष्टश्चरणो यत्र क्रमात्तामड्डितां विदुः ९४२
इत्यड्डिता
निषण्णोरुः समो वामो दक्षिणोऽङ्घ्रिः प्रसारितः
पञ्चतालान्तरं तिर्यग्यस्यां सा स्यन्दिता मता ९४३
इति स्यन्दिता
अङ्घ्रिचारविपर्यासात्सैवापस्यन्दिता मता ९४४
इत्यपस्यन्दिता
ऊरुद्वयस्य वलनं जङ्घास्वस्तिकसंयुतम्
भङ्क्त्वा वा स्वस्तिकं पादतलाग्रे मण्डलभ्रमम्
कृत्वा पार्श्वं गते स्वं स्वं यत्र बद्धेति सा मता ९४५
इति बद्धा
चारी सा जनिता यस्यां पादोऽग्रतलसंचरः ९४६
मुष्टिर्वक्षसि हस्तोऽन्यो यथाशोभं प्रवर्तते
अङ्घ्रिक्रिया प्रधानं स्यादितिकर्तव्यतेतरा ९४७
इति जनिता
पार्ष्णिः पादस्य चेदग्रतलसंचरसंज्ञितः
अन्याङ्घ्रिपृष्ठाभिमुखी विपर्यासोऽथवा भवेत् ९४८
अभ्यन्यजङ्घं वलिता जङ्घा चेन्नतजानुका
ऊरूद्वृत्ता तदा चारी लज्जेर्ष्यादौ नियुज्यते ९४९
इत्यूरूद्वृत्ता
नियुद्धे चाङ्गहारेषु नाट्ये चैताः प्रतिष्ठिताः
अनादिवेदमूलेन नाट्यवेदेन कीर्तिताः ९५०
इति षोडश भौमचार्यः
अथाऽऽकाशिक्यः
गुल्फक्षेत्रेऽन्यपादस्योद्वृत्याङ्घ्रिं कुञ्चितं पुरः
किंचित्प्रसार्य चाऽऽक्षिप्य यथाप्रकृति लोकवत् ९५१
चतुस्तालाद्यन्तरेण ततोऽग्रेण निपातयेत्
यत्र चारीमतिक्रान्तां निःशङ्कस्तामकीर्तयत् ९५२
इत्यतिक्रान्ता
बद्धां विधाय चारीं चेदुद्वृत्याङ्घ्रिं च कुञ्चितम्
पार्श्वे विनिक्षिपेच्चारीमपक्रान्तां तदाऽऽदिशेत् ९५३
इत्यपक्रान्ता
नीत्वोपरि स्वपार्श्वेन कुञ्चितं चरणं ततः
पार्ष्ण्या चेत्पातयेद्भूमौ पार्श्वक्रान्ता तदोच्यते ९५४
सा पार्श्वदण्डपादेति प्रसिद्धा लोकवर्त्मनि ९५५
अन्योरुक्षेत्रपर्यन्तमुत्क्षिप्य चरणं ततः
उद्घट्टितं भुवि न्यस्येदस्यामित्यपरे जगुः ९५६
इति पार्श्वक्रान्ता
कुञ्चितं पादमुत्क्षिप्योत्प्लुत्य भूमौ निपात्य तम्
अन्याञ्चिताङ्घ्रिजङ्घां च पश्चाद्देशे क्षिपेद्यदा
तदा मृगप्लुता ज्ञेया सा विदूषककर्तृका ९५७
इति मृगप्लुता
कुञ्चितोत्क्षिप्तपादस्य जानुस्तनसमं यदा
न्यस्य स्तब्धीकृतोऽन्योऽङ्घ्रिरूर्ध्वजानुस्तदा भवेत् ९५८
इत्यूर्ध्वजानुः
पृष्ठप्रसारिताङ्घ्रेश्चेदन्योर्वभिमुखं तलम्
कृत्वा पार्ष्णिः स्वपार्श्वे क्ष्मान्यस्ताऽलाता तदोदिता ९५९
इत्यलाता
उत्क्षिप्य कुञ्चितं पादं जङ्घामस्य प्रसार्य च ९६०
जान्वन्तां वोरुपर्यन्तामग्रयोगे नतं भुवि
चरणं पातयेद्यस्यां सा सूचीति निगद्यते ९६१
इति सूची
पश्चान्नीत्वाऽञ्चितं पादं तस्य पार्ष्ण्या स्फिजं स्पृशेत्
तं ततोऽञ्चितजङ्घं च भूमावग्रतलेन चेत्
विपातयेत्तदा चारी प्रोक्ता नूपुरपादिका ९६२
इति नूपुरपादिका
पादं कुञ्चितमुद्धृत्य दोलयित्वा च पार्श्वयोः
न्यस्येत्पार्ष्ण्या स्वपार्श्वे चेद्दोलापादा तदोच्यते ९६३
इति दोलापादा
नूपुरश्चरणोऽन्यस्य पार्ष्णिदेशे विधाय चेत् ९६४
स्वदेहक्षेत्राभिमुखं जान्वग्रत्वेन वेगतः
अग्रे प्रसार्यते चारी दण्डपादा तदोदिता ९६५
इति दण्डपादा
पृष्ठतो वलितः स्पृष्ट्वा शिरो भ्रान्त्वा च सर्वतः
प्रसृतश्चरणो यत्र विद्युद्धान्ता भवेदसौ ९६६
इति विद्युद्धान्ता अतिक्रान्तागतं पादं त्र्यस्रस्योरोविवर्तनम्
कृत्वा पादान्तरतलभ्रमेण भ्राम्यते तनुः
यत्र सा भ्रमरी चारी शार्ङ्गदेवेन कीर्तिता ९६७
इति भ्रमरी
अन्योरुमूलक्षेत्रान्तं पादमुत्क्षिप्य कुञ्चितम्
नितम्बाभिमुखी पार्ष्णिः कुर्याज्जानु स्वपार्श्वगम् ९६८
यत्रोत्तानं पादतलं कटीजानुविवर्तनात्
भुजंगत्रासिता सा स्याद्गुजंगत्रासमूचिका ९६९
इति भुजंगत्रासिता
तालत्रयान्तरोत्क्षिप्तं कुञ्चितं पादमानयेत् ९७०
पार्श्वान्तरं ततो जङ्घां स्वस्तिकीकृत्य पातयेत्
धरण्यां पार्ष्णिभागेन यत्राऽऽक्षिप्ताममूं विदुः ९७१
इत्याक्षिप्ता
विश्लिष्टजङ्घयोः कृत्वा स्वस्तिकं तस्य कुञ्चितः
पादः प्रसारितो वक्रः स्वपाश्वस्थोऽथ पात्यते
पार्ष्ण्या पार्ष्ण्यन्तरक्षेत्रे यत्राऽऽविद्धा भवत्यसौ ९७२
इत्याविद्धा
आविद्धापादमन्योरुप्रदेशस्थास्नुपार्ष्णिकम् ९७३
कृत्वोत्प्लुत्य भ्रमरकं दत्त्वा यत्र निपातयेत्
तथाऽन्यं पादमुद्धृत्य सोद्वृत्ताशेषरूपिणी ९७४
इत्युद्वृत्ता
ललिताङ्गक्रियासाध्याश्चार्यो युद्धनियुद्धयोः
नृत्ते नाट्ये गतौ चैताः प्रयोक्तव्या मनीषिभिः ९७५
प्रधानं यो यदा यत्र हस्तः पादोऽथवा भवेत्
सोऽग्रे तदनुगोऽन्यः स्यात्साम्ये तु समकालता ९७६
यतः पादस्ततो हस्तो यतो हस्तस्ततस्त्रिकः
चरणानुचराण्याहुरङ्गोपाङ्गानि सूरयः ९७७
एवं चारीप्रधानत्वे स्यादङ्गविनियोजनम्
प्राधान्ये हस्तकानां तु हस्तमङ्गान्युपासते ९७८
चारं चारं यथा चार्यां चरणः श्रयते महीम्
कारं कारं करस्तद्वद्विश्राम्यति कटीतटे ९७९
अर्धचन्द्रः करो नाट्ये संश्रयेत कटीतटम्
पक्षवञ्चितको नृत्ये पक्षप्रद्योतकोऽथवा ९८०
इति द्वात्रिंशच्चारीलक्षणम्
चतुरस्रं समाश्रित्य संलग्नौ चेत्प्रसर्पतः
पुरतः पृष्ठतो वाऽङ्घ्री रथचक्रा तदोच्यते ९८१
इति रथचक्रा
पश्चादुत्तानिततलश्चरणः प्रसृतो बहिः
यस्यां परावृत्ततला शार्ङ्गदेवेन सोदिता ९८२
इति परावृत्ततला
स्थित्वा स्वस्तिकबन्धेन पार्ष्ण्योः प्रपदयोस्तथा
रेचितौ चरणौ यत्र सोक्ता नूपुरविद्धिका ९८३
इति नूपुरविद्धा
वर्धमाने स्थितौ स्थाने वामदक्षिणतो यदा
सरतोद्रुतमानेन पादौ तिर्यङ्मुखा तदा ९८४
इति तिर्यङ्मुखा
नन्द्यावर्तस्थितौ पादौ पार्ष्णिपादाग्ररेचितौ
पुरः प्रसारितौ यस्यां सा मरालाऽभिधीयते ९८५
इति मराला
संहतस्थानके स्थित्वा पार्श्वाभ्यां घर्षतः क्षितिम्
चरणौ यत्र सा चारी करिहस्ता प्रकीर्तिता ९८६
इति करिहस्ता
नन्द्यावर्तस्थयोरङ्घ्र्योस्तिर्यक्सृत्वा कुलीरिका
इति कुलीरिका
पार्ष्णिविद्धस्थितौ पादौ चेद्विश्लिष्योपसर्पतः
यद्वाऽपसर्पतः प्रोक्ता सा विश्लिष्टाभिधा बुधैः ९८७
इति विश्लिष्टा
नन्द्यावर्तस्थपादाभ्यां पश्चात्सृत्वा तु कातरा
इति कातरा
पार्ष्णिपार्श्वगते स्थाने स्थित्वा चेद्रेचिता कृता
पार्ष्णिस्तदोदिता चारी निष्णातैः पार्ष्णिरेचिता ९८८
इति पार्ष्णिरेचिता
एकपादे स्थितः स्थाने भूस्थेन चरणेन चेत्
ऊरुं ताडयति प्रोक्ता तदा चार्यूरुताडिता ९८९
इत्यूरुताडिता
ऊरुस्थस्वस्तिकाकारावङ्घ्री संघर्षतो भुवम्
पार्श्वाभ्यां यत्र तामाहुरूरुवेणीं मनीषिणः ९९०
इत्यूरुवेणी
अङ्गुलीपृष्ठभागेन पुरतः सरतो द्रुतम्
प्रपदे यत्र सा चारी तलोद्वृत्ता मता सताम् ९९१
इति तलोद्वृत्ता
कुञ्चिते स्वस्तिकीकृत्य वलितान्ते तले यदा
अङ्घ्र्योरुत्प्लुत्य निपतेद्धरिणत्रासिका तदा ९९२
इति हरिणत्रासिका
भूमिघृष्ट्या बहिर्नीतावावर्तेते शनैः क्रमात्
चरणौ यत्र तामाहुरर्धमण्डलिकां बुधाः ९९३
इत्यर्धमण्डलिका
यत्राऽऽकुञ्च्य तिरश्चीनं चरणं प्रक्षिपेन्मुहुः
तां तिर्यक्कुञ्चितां चारीमाह श्रीकरणेश्वरः ९९४
इति तिर्यक्कुञ्चिता
इतस्ततश्च चरणौ स्थापयेत विसंस्थुलौ
मत्तवद्यत्र तामाहुश्चारीं धीरा मदालसाम् ९९५
इति मदालसा
आकुञ्चितोऽङ्घ्रिरुत्क्षिप्योत्क्षिप्यान्येनाङ्घ्रिणा यदा
युज्यतेऽन्यस्तु संसर्पेत्तिर्यक्संचारिता तदा ९९६
इति तिर्यक्संचारिता
उत्क्षिप्य कुञ्चितौ पादौ न्यस्येदेकैकमग्रतः
यस्यां सोत्कुञ्चिता चारी प्रोक्ता सोढलसूनुना ९९७
इत्युत्कुञ्चिता
तिर्यक्प्रसारितैकाङ्घ्रि पार्श्वमन्यत्तलेन चेत्
मुहुः संयोजयेदुक्ता स्तम्भक्रीडनिका तदा ९९८
इति स्तम्भक्रीडनिका
स्थानेऽङ्घ्रिः खण्डसूच्याख्ये तिष्ठन्नाकृष्य वेगतः
लङ्घ्यतेऽन्याङ्घ्रिणा यत्र सोक्ता लङ्घितजङ्घिका ९९९
इति लङ्घितजङ्घिका
स्फुरिताऽग्रे सृतौ वेगाद्भूस्पृशोः पादपार्श्वयोः
इति स्फुरिता
क्रमादाकुञ्चिताङ्घ्रिभ्यां पश्चाद्गत्याऽपकुञ्चिता १०००
इत्यपकुञ्चिता
स्थाने विषमसूच्याख्ये स्थित्वोत्प्लुत्य पतन्भुवि
अङ्घ्री संघट्टयेद्यत्र सोक्ता संघट्टिताभिधा १००१
इति संघट्टिता
धरण्यां चरणाग्रेण घातः खुत्ता निगद्यते
इति खुत्ता
चरणः स्वस्तिकाकारकारितः स्वस्तिका भवेत् १००२
इति स्वस्तिका
यत्राङ्घ्री संहतस्थाने स्थित्वा तिर्यक्पृथक्कृतौ
स्पृशतो बाह्यपार्श्वाभ्यां भुवं सा तलदर्शिनी १००३
इति तलदर्शिनी
निकुट्टनं मिथोऽङ्घ्रिभ्यामुद्धताभ्यां पुराटिका
इति पुराटिका
उद्धृतेन निकुट्टेन चरणेन निकुट्टनम्
उद्धृतस्यान्यपादस्य यत्र साऽर्धपुराटिका १००४
इत्यर्धपुराटिका
चरणोऽग्रे सरत्येको यत्र सा सरिका मता १००५
इति सरिका
पुरःसरणमङ्घ्रिभ्यां समाभ्यां स्फुरिका भवेत्
इति स्फुरिका
स्थितिस्तु चरणाग्रेण कुञ्चितेन निकुट्टिका १००६
इति निकुट्टिका
पश्चान्न्यस्य पुरस्तं च प्रसार्य चरणं यदि
निकुट्टयेद्भुवं तेन लताक्षेपस्तदोदितः १००७
इति लताक्षेपः
स्खलिते चरणे तिर्यगड्डस्खलितिका भवेत् १००८
इत्यड्डस्खलितिका
पुरतः पृष्ठतस्तिर्यक्चरणौ युगपद्यदा
स्खलतः प्रोच्यते चारी समस्खलितिका तदा १००९
इति समस्खलितिका
यस्यां पुरोऽङ्घ्रिमुत्क्षिप्य ललाटस्योपरि द्रुतम्
भ्रामयित्वा भुवि न्यस्येद्विद्युद्धान्ताममूं विदुः १०१०
इति विद्युद्धान्ता
अङ्घ्रिं कुञ्चितमुत्क्षिप्य पुरो विस्तार्य वेगतः
विन्यसेदवनौ यत्र पुरःक्षेपा भवेदसौ १०११
इति पुरःक्षेपा
पुरो गगनभागे चेत्प्रसार्य चरणं मुहुः
आकुञ्चयेत्तदा चारी विक्षेपा शार्ङ्गिणोदिता १०१२
इति विक्षेपा
नताङ्घ्रेरुत्प्लुत्याभीक्ष्णं निपाताद्धरिणप्लुता १०१३
इति हरिणप्लुता
बाह्यपार्श्वेन यत्रोरोः पृष्ठं स्पृष्ट्वेतरत्पदम्
नितम्बनिकटं याति साऽपक्षेपा प्रकीर्तिता १०१४
इत्यपक्षेपा
डमर्याकुञ्चितस्याङ्घ्रेर्वामदक्षिणतो भ्रमात्
इति डमरी
यत्र स्वस्तिकमावर्त्य प्रोत्क्षिपेत्तिर्यगूर्ध्वतः
चरणौ दण्डपादा सा चारी निःशङ्ककीर्तिता १०१५
इति दण्डपादा
विस्तार्याङ्घ्री प्लुतं कृत्वा गमनं ताडयेन्मितथः
यदा पादतलद्वंद्वं तदा चार्यङ्घ्रिताडिता १०१६
इत्यङ्घ्रिताडिता
किंचिदाकुञ्चितं पादमङ्घ्रिणाऽन्येन लङ्घयेत्
गगने चेत्तदा चारी जङ्घालङ्घनिका मता १०१७
इति जङ्घालङ्घनिका
अलाताङ्घ्रौ पृष्ठगते शीघ्रमन्याङ्घ्रिलङ्घिते १०१८
इत्यलाता
तलमन्तर्भ्रमस्याङ्घ्रेर्जानुपृष्ठे क्षिपेद्यदि
बहिर्भ्रमस्य तत्पार्श्वे जङ्घावर्ता तदा भवेद् १०१९
इति जङ्घावर्ता
अङ्घ्रिणैकेन चेदन्यं वेष्टयेद्वेष्टानं तदा
तदेव वलनं केचिदवदन्नृत्तकोविदाः १०२०
इति वेष्टनम्
उद्वेष्टानं वेष्टयित्वा पृष्ठतोऽङ्घ्रौ प्रसारिते १०२१
इत्युद्वेष्टानम्
आकुञ्चितस्य पादस्य पुरतः पृष्ठतस्तथा
उत्क्षेपो जानुपर्यन्तमुत्क्षेपः कथ्यते बुधैः १०२२
इत्युत्क्षेपः
स चेत्पृष्ठत एव स्यात्पृष्ठोत्क्षेपममुं विदुः
इति पृष्ठोत्क्षेपः
ऊरौ पार्श्वेन विन्यस्य पदं यत्र प्रसारयेत्
तीक्ष्णाग्रीकृत्य तामाह सूचीं श्रीकण्ठवल्लभः १०२३
इति सूची
पादयोः स्वस्तिकेऽस्यैकः किंचिदान्दोलितः पुरः
कुञ्चितश्चरणो यत्र सा विद्धा बोधिता बुधैः १०२४
इति विद्धा
ललिता वलिता मूर्तिरुद्वृत्तश्चरणो भवेत्
यत्र तत्प्रावृतं ज्ञेयं मकरध्वजजीवनम् १०२५
इति प्रावृतम्
उल्लोलः स्याच्चरणयोः क्रमेणोल्लालनाद्दिवि १०२६
इत्युल्लोलः
स्थानं स्थितिर्गतिश्चारी स्थानमाद्यन्तयोर्गतेः
स्थित्वा गच्छति गत्वा च तिष्ठतीत्यविनाकृताः
चार्यः स्थानेन ताभ्योऽतोऽनन्तरं स्थानमुच्यते १०२७
संनिवेशविशेषोऽङ्गे निश्चलः स्थानमुच्यते १०२८
वैष्णवं समपादं च वैशाखं मण्डलं तथा
आलीढप्रत्यालिढे च स्थानानीति नरेषु षट् १०२९
अथ स्थानानि वक्ष्यामस्त्रीणि स्त्रीणां मुनेर्मतात्
आयताख्यावहित्थाश्वक्रान्तान्यन्यच्चतुष्टयम् १०३०
अथापि चेति वदता मुनिना सूचितं ब्रुवे
गतागतं च वलितं मोटितं विनिवर्तितम् १०३१
अथ देशीस्थानकानां त्रयोविंशतिरुच्यते
स्वस्तिकं वर्धमानाख्यं नन्द्यावर्तं च संहतम् १०३२
समपादं चैकपादं पृष्ठोत्तानतलं तथा
चतुरस्रं पाष्णिविद्धं पार्ष्णिपार्श्वगतं तथा १०३३
एकपार्श्वगतं च स्यादेकजानुनताभिधम्
परावृत्ताह्वयं सूचि समादि विषमाद्यपि १०३४
खण्डसूचि ततो ब्राह्मं वैष्णवं शैवगारुडे
कूर्मासनं नागबन्धं वृषभासनमित्यपि १०३५
स्वस्थं मदालसं क्रान्तं स्याद्विष्कम्भितमुत्कटम्
स्रस्तालसं जानुगतं मुक्तजानु विमुक्तकम् १०३६
उपविष्टस्थानकानि नवेति भरतोऽभ्यधात्
सममाकुञ्चितं स्थानं प्रसारितविवर्तिते १०३७
उद्वाहितं नतं चेति सुप्तस्थानानि सन्ति षट्
इति स्थानानि षट्पुंसां स्त्रीणां सप्तापराण्यपि १०३८
त्रयोविंशतिरुक्तानि नव स्थानानि चाऽसने
सुप्तस्थानानि षट्तानि सर्वाणि मिलितानि तु १०३९
एकपञ्चाशदाचष्ट निःशङ्कः करणाग्रणीः
सर्वेषां वच्मि लक्ष्मैषामिदानीं तद्विदां मतम् १०४०
एकः समस्थितः पादस्त्र्यस्रः पक्षस्थितोऽपरः १०४१
सार्धद्वितालान्तरालो जङ्घा किंचिन्नता भवेत्
सौष्ठवं यत्र तज्ज्ञेयं वैष्णवं विष्णुदैवतम् १०४२
प्रकृतिस्थस्य संलापेनानाकार्यान्तरान्विते
प्रयोज्यं तन्मुनिः प्राह नृभिरुत्तममध्यमैः १०४३
विष्णुवेषधरेणैव नटेनेत्यपरे जगुः
सूत्रधारादिना नाट्यस्थितिकर्त्रेति चापरे १०४४
पक्षस्थितोऽसौ चरणो यः पार्श्वाभिमुखाङ्गुलिः
त्र्यस्रः स एव किंचिच्चेत्पुरोदेशाभिमुख्यभाक् १०४५
अङ्गुष्ठमध्यमाङ्गुल्यौ ये हस्तस्य प्रसारिते
तदग्रयोरन्तरालं तालमाहुर्मनीषिणः १०४६
कटी जानुसमा यत्र कूर्परांसशिरःसमम्
उरः समुन्नतं सन्नं गात्रं तत्सौष्ठवं भवेत् १०४७
सन्नं स्वस्थानविश्रान्तं निषण्णं त्वचलस्थिति १०४८
चलपादमनत्युच्चमचञ्चलमकुब्जकम् १०४९
सौष्ठवेऽङ्गं भवेत्तच्च कार्यमुत्तममध्यमैः
एतच्च वैष्णवं स्थानं चतुरस्रस्य जीवनम् १०५०
वैष्णवं स्थानकं यत्र कटीनाभिचरौ करौ
पृथक्समुन्नतं वक्षश्चतुरस्रं तदुच्यते १०५१
इति वैष्णवम्
प्रधानं सौष्ठवं पादावेकतालान्तरौ समौ १०५२
यत्र तत्समपादं स्याच्चतुराननदैवतम्
एतच्च विप्रदत्ताशीःस्वीकारेऽथ निरीक्षणे १०५३
मध्यमानां विहंगानां कन्यावरकुतूहले
लिङ्गिव्रतिविमानस्थस्यन्दनस्थेषु चेष्यते १०५४
इति समपादम्
भूमेरूर्ध्वनिषण्णौ चेत्सार्धतालत्रयान्तरे
नभूस्यूरू चरणयोस्तावदेवान्तरं भुवि १०५५
त्र्यस्रपक्षस्थयोः स्थानं वैशाखं कथितं तदा
विशाखदैवतं तच्च स्थूलपक्षीक्षणे भवेत्
यद्धादौ प्रेरणेऽश्वानां वेगादाने च वाहने १०५६
इति वैशाखम्
पक्षस्थौ चरणौ त्र्यस्रावेकतालान्तरौ भुवि
कटीजानुसमौ व्योम्नि सार्धतालद्वयान्तरे १०५७
ऊरू यत्र निषण्णौ तन्मण्डलं शक्रदैवतम्
धनुर्वज्रादिशस्त्राणां प्रयोगे गजवाहने १०५८
वीक्षणे गरुडादीनामिदं मुनिरुपादिशत्
चतुस्तालान्तरौ पादौ मण्डलेऽन्ये प्रचक्षते १०५९
इति मण्डलम्
वामो यत्र निषण्णोरुरम्बरे पूर्वमानतः
दक्षिणश्चरणश्चाग्रे पञ्चतालं प्रसारितः १०६०
त्र्यस्रौ द्वावपि तद्विद्यादालीढं रुद्रदैवतम्
ईर्ष्याक्रोधकृतो जल्पः कार्यस्तेनोत्तरोत्तरः १०६१
वीररौद्रकृतं मल्लसंघर्षास्फोटनादिकम्
तथा संधाय शस्त्राणि प्रत्यालीढं समाश्रयेत् १०६२
इत्यालीढम्
आलीढाङ्गविपर्यासात्प्रत्यालीढमुदीरितम्
आलीढकृतसंधानशस्त्रमेतेन मोक्षयेत्
रुद्रं च दैवतं तत्र भाषते शंभुवल्लभः १०६३
इति प्रत्यालीढम्
एषामाद्यानि चत्वारि दृश्यन्ते नाट्यनृत्तयोः
प्रयोगस्त्वन्त्ययोस्तज्ज्ञैरिष्टो नाट्यैकगोचरः १०६४
अन्ये पञ्चविधेऽप्याहुर्नर्तने स्थानकानि षट् १०६५
इति षट्पुरुषस्थानकानि
घामस्तालान्तरस्त्र्यस्रो दक्षिणश्चरणः समः
प्रसन्नं वदनं वक्षः समुन्नतमनुन्नता १०६६
कटीनितम्बगो हस्तो दक्षिणोऽन्यो लताकरः
यत्राऽऽयतं तदाख्यातं कमला चात्र देवता १०६७
स्थानं चिकीर्षितासु स्यात्क्षतासु च गतिष्विदम्
आभाषणे च कर्तव्ये सखीप्रियतमादिभिः १०६८
रङ्गावतरणारम्भे पुष्पाञ्जलिविसर्जने
अमर्षे प्रतिषेधे च कार्यं मानावलम्बने
गर्वगाम्भीर्यमौने स्यादावाहनविसर्जने १९७०
पूर्वरङ्गे स्त्रीभिरेव प्रयोज्यं केचिदूचिरे
नरो नार्योऽथवा कुर्युः प्रवेशे स्थानकं स्त्रियाः १०७१
स्थानं यथाभिनेयं स्यात्प्रविष्टेष्विति चापरे
आयतानन्तरं कार्या रङ्गावतरणादयः १०७२
हस्तपादप्रचारस्तु तेषु ज्ञेयो यथोचितम्
भट्टाभिनवगुप्तस्य मतमेतदुदीरितम् १०७३
इत्यायतम्
अवहित्थं तदेव स्याद्विपर्यासेन पादयोः
चिन्तावितर्कयोस्तोषे संलापे च निसर्गजे १०७४
विस्मये भूरिसौभाग्यगर्वजे स्वाङ्गवीक्षणे
लीलाविलासलावण्यवरमार्गविलोकने १०७५
कार्यं दौर्गमिदं स्थानमवहित्थस्य सूचकम् १०७६
इत्यवहित्थम्
समस्थैकस्य पादस्य पार्ष्णिदेशशतोऽपरः
सूचीपादः स्वपार्श्वे वा समस्तालान्तरे स्थितः १०७७
यत्राश्वारोहणारम्भे तदश्वक्रान्तमुच्यते
स्खलिते विगलद्वस्त्रधारणे गोप्यगोपने १०७८
प्रसूनस्तबकादाने तरुशाखावलम्बने
नैसर्गिके च संलापे विभ्रमे ललिते तथा
प्रयोक्तव्यमिदं स्थानं भारती चात्र देवता १०७९
इत्यश्वक्रान्तम्
गत्युन्मुखी च यत्रैकं पदमुद्धृत्य नर्तकी
उदास्ते तद्गतिस्थित्योर्निरोधात्स्याद्गतागतम् १०८०
इति गतागतम्
शरीरमीषद्वलितं पादो वलितदिग्भवः
कनिष्ठाश्लिष्टभूरन्यो भूलग्नाङ्गुष्ठको यदा
तदा वलितमाख्यातं साभिलाषविलोकने १०८१
इति वलितम्
एकः समोऽङ्घ्रिरन्यस्तु कुञ्चितोऽर्धतलाङ्गुलिः
अग्रे यदोर्ध्वगौ हस्तौ कर्कटौ मोटितं तदा
कामावस्थासु सर्वासु विनियोगोऽस्य कीर्तितः १०८२
इति मोटितम्
पृष्ठतोऽङ्गपरावृत्त्या तदेव विनिवर्तितम् १०८३
इति विनिवर्तितम्
स्वस्तिको हंसकस्थाने चरणौ कुञ्चितौ यदा
मिथः श्लिष्टकनिष्ठौ च तदाहुः स्वस्तिकं बुधाः १०८४
इति स्वस्तिकम्
वर्धमाने तु चरणौ तिर्यञ्चौ पार्ष्णिसंगतौ १०८५
इति वर्धमानम्
अस्यैव चेच्चरणयोरन्तरं स्यात्षडङ्गुलम्
वितस्तिमात्रमथवा नन्द्यावर्तं तदोदितम् १०८६
इति नन्द्यावर्तम्
देहः स्वाभाविकोऽङ्गुष्ठौ पादयोश्चेन्मिथो युतौ
गुल्फौ च संहतं तत्स्यात्पुष्पाञ्जलिविसर्जने १०८७
इति संहतम्
वपुः स्वाभाविकं पादौ वितस्त्यन्तरितावृजू
यत्र तत्समपादाख्यं शार्ङ्गदेवः समादिशत् १०८८
इति समपादम्
समस्याङ्घ्रेर्जानुमूर्ध्वं बाह्यपार्श्वे यदीतरः
बाह्यपार्श्वेन लग्नोऽङ्घ्रिरेकपादं तदोच्यते १०८९
इत्येकपादम्
भूलग्नाङ्गुलिपृष्ठोऽङ्घ्रिः पश्चादेकोऽपरः पुरः
समो यत्र तदादिष्टं पृष्ठोत्तानतलं बुधैः १०९०
इति पृष्ठोत्तानतलम्
नन्द्यावर्तस्य चेदङ्घ्र्योर्भवेदष्टादशाङ्गुलम्
अन्तरं चतुरैः स्थानं चतुरस्रं तदोदितम् १०९१
इति चतुरस्रम्
पार्ष्णिरङ्गुष्ठसंश्लिष्टा पार्ष्णिविद्धे विधीयते
इति पार्ष्णिविद्धम्
पार्ष्णिपार्श्वगते पार्ष्णिरन्तः पार्श्वान्तरस्थितः १०९२
इति पार्ष्णिपार्श्वगतम्
समस्याङ्घ्रेः पुरः किंचिदपरश्चरणो यदा
स्याद्बाह्यपार्श्वगस्तिर्यगेकपार्श्वगतं तदा १०९३
इत्येकपार्श्वगतम्
एकः समोऽङ्घ्रिरन्यश्चेदन्तरे चतुरङ्गुले
तिर्यक्कुञ्चितजानुः स्यादेकजानुनतं तदा १०९४
इत्येकजानुनतम्
परावृत्ते समे स्यातां पार्ष्ण्याऽङ्गुष्ठकनिष्ठिके
इति परावृत्तम्
पार्ष्णिजङ्घोरुसंलग्नधरणी चरणौ यदा
तिर्यक्प्रसारितौ स्यातां समसूचि तदोच्यते १०९५
इति समसूचि
सूचीपादौ पृथग्यत्र पुरः पश्चात्प्रसारितौ १०९६
युगपद्गदितं तज्ज्ञैः स्थानं विषमसूचि तत्
भूलग्नजानुगुल्फौ तौ चरणौ केचिदूचिरे १०९७
इति विषमसूचि
एकोऽङ्घ्रिः कुञ्चितोऽन्यस्तु भूसंलग्नोरुपार्ष्णिकः
तिर्यक्प्रसारितो यत्र खण्डसूचि तदोच्यते १०९८
इति खण्डसूचि
एकः समोऽङ्घ्रिरन्यश्चेत्कुञ्चितीकृत्य पृष्ठतः
जानुसंधिसमत्वेनोत्क्षिप्तो ब्राह्मं तदुच्यते १०९९
इति ब्राह्मम्
सममेकं विधायाङ्घ्रिमन्यश्चेत्कुञ्चितो मनाक्
पुरः प्रसारितस्तिर्यक्पदं स्याद्वैष्णवं तदा ११००
इति वैष्णवम्
अङ्घ्रेः समस्य वामस्य जानुशीर्षसमोऽपरः
उद्धृतः कुञ्चिताकारो यत्र शैवं तदुच्यते ११०१
इति शैवम्
आकुञ्चितः पुरो वामः पश्चादन्यस्तु जानुना
भुवं गतौ यदा पादौ गारुडं गदितं तदा ११०२
इति गारुडम्
दक्षिणश्चरणो जानुबाह्यगुल्फमिलत्क्षितिः
वामः समो भवेद्यत्र कूर्मासनमदो विदुः ११०३
इति कूर्मासनम्
यदोपविश्य वामोरोः पृष्ठे न्यस्यति दक्षिणाम्
जङ्घां तदा नागबन्धमभ्यधात्करणाग्रणीः ११०४
इति नागबन्धम्
वियुते संयुते वा चेज्जानुनी संस्थिते क्षितौ
वृषभासनमाख्यातं सौष्ठवाधिष्ठितं तदा ११०५
इति वृषभासनम्
विस्तारिताञ्चितावङ्घ्री यत्रोरः किंचिदुन्नतम्
करावूरुकटिन्यस्तौ स्वस्थं स्थानं तदुच्यते ११०६
इति स्वस्थम्
एकः प्रसारितः किंचिदन्योऽङ्घ्रिस्त्वासनाश्रितः
शिरःपाश्वगतं यत्र तन्मदालसमिष्यते
मदे विपदि निर्वेदेऽथौत्सुक्ये विरहे भवेत् ११०७
इति मदालसम्
हस्तौ चिबुकविन्यस्तौ बाहुशीर्षश्रितं शिरः
ईषद्बाष्पे च नयने यत्र क्रान्तमदो मतम्
निर्जिते निगृहीते च शोकग्लाने भवेदिदम् ११०८
इति क्रान्तम्
ऊरुविस्तारितौ बाहू पादौ विस्तारिताञ्चितौ ११०९
यदा निमीलिते नेत्रे विष्कम्भं भणितं तदा
योगे ध्याने भवेदेतत्स्वभावेन भटासने १११०
इति विष्कम्भितम्
समासनसमं स्पृष्टभूतलं चरणौ समौ
यदा तदोत्कटं योगध्यानसंध्याजपादिषु ११११
इत्युत्कटम्
हस्तौ स्रस्तौ विमुक्तौ च शरीरमलसं यदा
लोचने मन्थराकारधरे स्रस्तालसं तदा
हानिग्लानिमदव्याधिमूर्छाभीतिषु तद्भवेत् १११२
इति स्रस्तालसम्
जानुभ्यां भूमिसंस्थाभ्यां स्थानं जानुगतं मतम् १११३
होमे देवार्चने दीनयाचने मृगदर्शने
कुसत्त्वत्रासने चेदं भवेत्क्रुद्धप्रसादने १११४
इति जानुगतम्
उत्कटस्यैव जान्वैकं धरापृष्ठमधिष्ठितम्
यत्रैतन्मुक्तजानु स्यान्मानिनीनां प्रसादने
हवने सज्जनानां च सान्त्वने साधुकर्तृके १११५
इति मुक्तजानु
विमुक्तं भूप्रपतनं हावक्रन्दादिषु स्मृतम्
इति विमुक्तम्
सुप्तमुत्तानवक्त्रं च स्रस्तमुक्तकरं समम् १११६
इति समम्
आकुञ्चिताङ्गमाविद्धजान्वाकुञ्चितमुच्यते
प्रयोगस्तस्य शीतार्ताभिनये शार्ङ्गिणोदितः १११७
इत्याकुञ्चितम्
उपधाय भुजामेकां यत्प्रसारितजानुकम्
सुप्तं प्रसारितं स्थानं सुखसुप्ते तदिष्यते १११८
इति प्रसारितम्
विवर्तितमधोवक्त्रं सुप्तं शस्त्रक्षतादिषु १११९
इति विवर्तितम्
स्कन्धन्यस्तशिरः सुप्तं कूर्पराधिष्ठितक्षितिः
यत्तदुद्वाहितं प्रोक्तं लीलयाऽवस्थितौ प्रभोः ११२०
इत्युद्वाहितम्
ईषत्प्रसृतजङ्घं यत्सुप्तं स्रस्तकरद्वयम्
तन्नतं स्थानकं खेदश्रमालस्यादिषु स्मृतम् ११२१
इति नतम्
वाङ्मनःकायजा चेष्टा पुरुषार्थोपयोगिनी
वृत्तिः सा भारती सात्त्वत्यारभट्यथ कैशिकी ११२२
चतुर्विधेति विज्ञेया तासामुत्पत्तिरुच्यते
ऋग्वेदाद्भारती जाता यजुर्वेदात्तु सात्त्वती
अथर्वणादारभटी सामवेदात्तु कैशिकी ११२३
वृत्तिः संस्कृतवाक्यैकप्रधाना भरैतर्नृभिः
प्रयुज्यमाना वाग्वृत्तिः प्राधान्याद्भारती मता ११२४
सत्त्वप्रकाशकं यत्स्यात्तद्युक्तं सत्त्वमुच्यते
मनस्तत्प्रभवा हर्षशौर्यत्यागास्तु सात्त्वताः ११२५
तत्प्रधाना सात्त्वती स्याद्वीररौद्राद्भुतोत्कटा
हीना शृङ्गारनिर्वेदकरुणैरुद्धताश्रयात् ११२६
आरादुत्साहिनो ये स्युर्भटास्तत्कायसंभवा
भवेदारभटी वृत्ती रौद्रादावुद्धते रसे
मायेन्द्रजालबहुला चित्रयुद्धप्रवर्धिनी ११२७
वागङ्गाभरणानां या सौकुमार्येण निर्मिता
उल्लसद्गीतनृत्ताढ्या शृङ्गाररसनिर्भरा ११२८
निःशङ्कः कैशिकीं ब्रूते तां सौन्दर्यैकजीविताम्
सौन्दर्यसौकुमार्याभ्यां रौद्रादावप्यसौ भवेत् ११२९
आमुखं च प्रहसनं तथा वीथी प्ररोचना
अंशाः स्युरिति चत्वारो ये भारत्या मुनेर्मताः ११३०
उद्घात्यकावलगिते कथोद्घातः प्रवर्तकम्
प्रयोगातिशयश्चेति भेदाः पञ्चाऽऽमुखस्य ये ११३१
उत्थापकाभिधो भेदः सात्त्वत्याः परिवर्तकः
संलापकश्चतुर्थस्तु यः संघात्यकसंज्ञकः ११३२
संक्षिप्तकं चावपातः स्याद्वस्तूत्थापनं तथा
संफेटश्चाऽऽरभट्यां यदिति भेदचतुष्टयम् ११३३
कैशिक्यां यन्मतं नर्म नर्मस्पुञ्जस्तथाऽपरः
नर्मस्फोटो नर्मगर्भश्चेति भेदचतुष्टयम् ११३४
परिचित्ताक्षेपकं च परोपालम्भकं तथा
रोषेर्ष्यासूचकं चेति नर्मभेदास्त्रयश्च ये ११३५
सोदाहरणलक्ष्माणस्तेऽमी नाटकगोचराः
विस्तरत्रस्तचित्तेन निःशङ्केन न तेनिरे ११३६
काव्यं गीतं तथा नृत्तं वृत्तिहीनं न शोभते
अतो वृत्तीर्विजानीयादेता भरतभाषिताः ११३७
इति वृत्तिलक्षणम्
युद्धे परात्मशस्त्राणां क्रमाच्च्यावनपातने
विधातुमुचिता गात्रवर्तना न्याय उच्यते ११३८
भारतः सात्त्वतो वार्षगण्यः कैशिकसंज्ञकः ११३९
भेदास्तस्येति चत्वारः क्रमाद्वृत्तिचतुष्टये
तेषां लक्षणसिद्ध्यर्थं प्रविचारान्ब्रुवेऽधुना ११४०
याः प्रकृष्टा विचित्राच गतयस्ते परिक्रमाः
त एव प्रविचाराः स्युः शस्त्रमोक्षणगोचराः ११४१
फलकं वामहस्तेन खड्गं दक्षिणपाणिना
गृहीत्वाऽपसृतौ कृत्वा करावाक्षिप्य तौ ततः ११४२
फलकभ्रामणं कृत्वा पार्श्वयोरुभयोरथ
परितः शिरसः शस्त्रं भ्रामयित्वा तु खड्गिनम् ११४३
करं शिरःकपोलान्तरुद्वेष्ट्य मणिबन्धतः
फलकस्याप्युपशिरः परिभ्रमणमाचरेत् ११४४
विधिरेष सकृत्कट्यां शस्त्रपातश्च भारते
सात्त्वतेऽप्येवमेव स्याच्छस्त्रभ्रान्तिस्तु पृष्ठतः ११४५
कर्तव्यः शस्त्रपातस्तु पादयोरिह तद्विदा
प्रविचारः सात्त्वतवद्वार्षगण्ये विधीयते ११४६
पृष्ठतः फलकस्यापि भ्रामणं स्यादिहाधिकम्
स्कन्धे वक्षसि वा शस्त्रहस्तस्योद्वेष्टानं तथा ११४७
प्रहारपातनं चात्र वक्षस्थलगतं मतम्
कैशिके स्याद्भारतवच्छस्त्रपातस्तु मूर्धनि ११४८
शक्तिकुन्तादिशस्त्राणि धनुर्वज्रादिकान्यपि
न्यायेष्वेषु प्रयुञ्जीत सौष्ठवेन समन्वितः ११४९
प्रविचारा न शोभन्ते सौष्ठवेन विना कृताः
संज्ञामात्रेण कर्तव्यः प्रहारो न तु वास्तवः ११५०
मायेन्द्रजालैरथवा प्रहारमिव दर्शयेत्
एते न्यायाः प्रयोक्तव्याश्चारीभिः शस्त्रमोक्षणे ११५१
इनि न्यायलक्षणम्
चारीचयविशेषः प्राङ्मण्डलं प्रतिपादितम्
तद्भेदानधुना धीमान्वक्ति श्रीकरणाग्रणीः ११५२
भ्रमरास्कन्दितावर्तशकटास्यानि चाड्डितम्
समोसरितमध्यर्धमेलकाक्रीडितं ततः ११५३
पिष्टकुट्टं चाषगतं भौमानीति दशावदन्
अतिक्रान्तं दण्डपादं क्रान्तं ललितसंचरम् ११४४
सूचीविद्धं वामविद्धं विचित्रं विहृतं ततः
अलातं ललितं चेति व्योमजानि दशाब्रुवन् ११५५
भौमाकाशिकचारीणां प्राचुर्यान्मण्डलान्यपि
भौमान्याकाशिकानीति व्यपदेशं प्रपेदिरे ११५६
एतेषां विनियोगश्च विज्ञेयः शस्त्रमोक्षणे
नभोभवानां प्राधान्यं बोध्यं युद्धपरिक्रमे ११५७
चारीनाम्नाऽत्र चरणं वक्ष्ये चारीविवक्षया
चारीणां न्यूनताधिक्यं न दूषयति मण्डलम् ११५८
दक्षिणो जनितो वामः स्यन्दितो दक्षिणः पुनः
शकटास्यस्तथा वामः पादोऽपस्यन्दितोऽथवा ११५९
दक्षिणो भ्रमरो वामः स्यन्दितोऽङ्घ्रिरथेतरः
शकटास्यश्चाषगतिर्वामोऽन्यो भ्रमरो भवेत्
वामान्ते स्यन्दितो यत्र तदूचे भ्रमरं बुधैः ११६०
इति भ्रमरम्
दक्षिणो भ्रमरो वामोऽड्डितोऽथ भ्रमरः स चेत्
दक्षिणः शकटास्यत्वं गत्वोरूद्वृत्ततां गतः ११६१
वामो वाऽध्यर्धिकीभूय भ्रमरो दक्षिणः पुनः
स्यन्दितः शकटास्यस्तु वामस्तेनैव भूतलम्
स्फुटमास्फोटितं धीरैस्तदास्कन्दितमिष्यते ११६२
इत्यास्कन्दितम्
दक्षिणो जनितो वामः स्थितावर्तस्ततः परम्
शकटास्यो भवेत्पश्चादेलकाक्रीडिताह्वयः ११६३
ऊरूद्वृत्तोऽड्डितश्चारीं जनितामाश्रितस्ततः
समोसरितमत्तल्लिः क्रमादङ्घ्रिस्तु दक्षिणः ११६४
शकटास्यः क्रमादूरूद्वृत्तश्च स्यादथेतरः
पादश्चाषगतिर्द्विः स्याद्दक्षिणः स्यन्दितस्ततः ११६५
वामाङ्घ्रिः शकटास्यः स्यादन्योऽङ्घ्रिर्भ्रमरस्ततः
वामश्चाषगतिर्यत्र तदावर्तमवादिषुः ११६६
इत्यावर्तम्
जनितः सप्तपूर्वोक्तस्थितावर्तादिभेदभाक्
क्रमेण शकटास्यश्च दक्षिणः स्यन्दितोऽपरः ११६७
शकटास्यस्ततः पादो यावन्मण्डलपूरणम्
क्रमेण यत्र तज्ज्ञेयं शकटास्याभिधं बुधैः ११६८
इति शकटास्यम्
उद्घट्टितस्ततो बद्धः समोसरितपूर्वकः
मत्तल्लिरर्धमत्तल्लिरपक्रान्तश्च दक्षिणः ११६९
उद्वृत्तो इद्युद्धान्तश्च भ्रमरः स्यन्दितश्च सः
वामस्तु शकटास्योऽन्यो द्विः स्याच्चाषगतिस्ततः ११७०
वामोऽड्डितोऽध्यर्धिकस्तु क्रमाच्चाषगतिः परः
समोसरितमत्तल्लिर्मत्तल्लिर्भ्रमरस्तथा ११७१
वामोऽथ स्यन्दितो भूत्वा भूतटास्फोटनं यदा
कुरुते दक्षिणः प्राहुरड्डितं मण्डलं तदा ११७२
इत्यड्डितम्
स्थानेन समपादेन स्थित्वा हस्तौ प्रसारयेत्
निरन्तरावूर्ध्वकृतावावेष्ट्योद्वेष्ट्यवत्क्षिपेत् ११७३
कटीतटे ततः पादौ भ्रामयेद्दक्षिणे ततः
क्रमेणानन्तरं वामं पुरः पादं प्रसारयेत् ११७४
एवं भ्रान्त्वा क्रमाद्यत्र मण्डलभ्रमणं भवेत्
चतुर्दिक्कं तदाख्यातं समोसरितसंज्ञकम् ११७५
इति समोसरितम्
क्रमेण दक्षिणः पादो जनितः स्यन्दितस्ततः
अड्डितोक्ता चतुर्भेदी वामस्याध्यर्धिकादिका ११७६
दक्षिणः शकटास्यः स्याद्यत्रान्ते दिक्चतुष्टये
मण्डलभ्रमणं तत्तु नियुद्धेऽध्यर्धमण्डलम् ११७७
इत्यध्यर्धम्
भूयुक्तैश्चरणैः सूचीविद्धं करणमाश्रितैः
सूचीविद्धाभिधे चार्यावेलकाक्रीडितैरथ ११७८
संपूर्णैर्भ्रमरैः प्राग्वत्सूचीविद्धाङ्घ्रिभिस्ततः
आक्ष्प्तैर्मण्डलभ्रान्त्या दिक्चतुष्टययुक्तया
अन्ते रचितया ज्ञेयमेलकाक्रीडिताह्वयम् ११७९
इत्येलकाक्रीडितम्
सूची दक्षिणपादः स्याद्वामोऽपक्रान्तकस्ततः ११८०
सव्यवामौ च बहुशो भुजंगत्रासितौ क्रमात्
यत्रान्ते मण्डलभ्रान्तिः पिष्टकुट्टं तदुच्यते ११८१
इति पिष्टकुट्टम्
चरणैश्चाषगतिभिः समस्तैर्मण्डलभ्रमम्
अन्ते दधच्चाषगतं नियुद्धविषयं भवेत् ११८२
इति चाषगतम्
जनितः शकटास्यश्च दक्षिणश्चरणः क्रमात्
वामोऽलातो दक्षिणस्तु पार्श्वक्रान्तस्ततोऽपरः ११८३
सूची स एव भ्रमर उद्वृत्तो दक्षिणो भवेत्
वामस्त्वलातको वाऽघ्री छिन्नाख्यकरणाश्रयौ ११८४
वाह्यभ्रमरकं यत्र वामाङ्गं रेचितं भवेत्
अतिक्रान्तस्ततो वामो दण्डपादस्तु दक्षिणः
अवोचत्तदतिक्रान्तं मण्डलं शंकरप्रियः ११८५
इत्यतिक्रान्तम्
दक्षिणो जनितो भूत्वा दण्डपादो भवेदथ
सूची च भ्रमरो वाम उद्वृत्तो दक्षिणस्ततः ११८६
अलातो वामचरणः पार्श्वक्रान्तस्तु दक्षिणः
भुजंगत्रासितश्चासौ वामोऽतिक्रान्ततां गतः ११८७
दक्षिणो दण्डपादोऽथ सूची च भ्रमरोऽपरः
यत्र तद्दण्डपादाख्यं मण्डलं बभणे बुधैः ११८८
इति दण्डपादम्
दक्षिणः सूच्यपक्रान्तो वामोऽघ्रिर्दक्षिणस्ततः
पार्श्वक्रान्तस्तथा वामः समन्तान्मण्डलभ्रमः ११८९
सूची यत्राथ वामः स्यादपक्रान्तस्तु दक्षिणः
तदुक्तं कृतिभिः क्रान्तं स्वभावगतिगोचरम् ११९०
इति क्रान्तम्
ऊर्ध्वजानुस्तथा सूची दक्षिणश्चरणः क्रमात्
वामपादस्त्वपक्रान्तः पार्श्वक्रान्तस्तु दक्षिणः ११९१
क्रमात्सूची भ्रमरको वामः पादोऽथ दक्षिणः
पार्श्वक्रान्तस्ततो वामोऽतिक्रान्तो दक्षिणः पुनः ११९२
सूच्यपक्रान्तको वामः पार्श्वक्रान्तोऽपरस्ततः
स्याद्वामाङ्घ्रिरतिक्रान्तश्चरणद्वितयी ततः ११९३
स्याच्छिन्नकरणोक्ता चेद्वामाङ्घ्रिरचितं श्रिता
बाह्यभ्रमरकं विद्यात्तदा ललितसंचरम् ११९४
इति ललितसंचरम्
दक्षिणश्चरणः सूची भ्रमरश्च भवेत्ततः
पार्श्वक्रान्तोऽथ वामाङ्घ्रिरपक्रान्तोऽथ दक्षिणः ११९५
सूची वामस्त्वपक्रान्तः पार्श्वक्रान्तस्तु दक्षिणः
यत्र तन्मण्डलं प्रोक्तं सूचीविद्धं पुरातनैः ११९६
इति सूचीविद्धम्
सूच्यङ्घ्रिर्दक्षिणो वामस्त्वपक्रान्तोऽथ दक्षिणः ११९७
दण्डपादोऽथ सूची स्याद्वामो भ्रमरकश्च सः
पार्श्वक्रान्तो दक्षिणः स्यादाक्षिप्तो दक्षिणेतरः ११९८
दक्षिणो दण्डपादः स्यादूरूद्वृत्तोऽप्यनन्तरम्
वामश्च सूची भ्रमरोऽलातश्च क्रमतो भवेत् ११९९
पार्श्वक्रान्तो दक्षिणः स्याद्वामोऽतिक्रान्ततां व्रजेत्
यत्र तद्वामविद्धाख्यं मण्डलं शार्ङ्गिणोदितम् १२००
इति वामविद्धम्
दक्षिणो जनितोऽङ्घ्रिः स्यादूरूद्वृत्तश्च विच्यवः
ततः समस्थितावर्तोद्व्यावर्तोदितभेदभाक् १२०१
स्यन्दितो वामपादः स्यात्पार्श्वक्रान्तस्तु दक्षिणः
भुजंगत्रासितो वामोऽतिक्रान्तो दक्षिणो भवेत् १२०२
उद्वृत्तश्चैव वामस्तु स्यादलातोऽथ दक्षिणः
पार्श्वक्रान्तोऽथवा सूची वामो विक्षिप्य दक्षिणम्
वामोऽपक्रान्ततां नीतस्तद्विचित्रं प्रचक्षते १२०३
इति विचित्रम्
दक्षिणो विच्यवो भूत्वा स्यन्दितोऽनन्तरं भवेत् १२०४
पार्श्वक्रान्तो दक्षिणोऽङ्घ्रिर्वामस्तु स्यन्दितस्ततः
उद्वृत्तो दक्षिणोऽलातो वामः सूची तु दक्षिणः १२०५
पार्श्वक्रान्तस्तु वामाङ्घ्रिराक्षिप्तीभूय दक्षिणः
भ्रान्त्वा सव्यापसव्येन दण्डपादत्वमागतः १२०६
वामः क्रमेण सूची स्याद्धमरश्चाथ दक्षिणः
भुजंगत्रासितो वामोऽतिक्रान्तो विहृताभिधे १२०७
इति विहृतम्
सूचीं च भ्रमरीं वामे क्रमात्पादे तु दक्षिणे १२०८
भुजंगत्रासितां चारीमलातां दक्षिणेतरे
षट्कृत्वः सप्तकृत्वो वा कृत्वा चारीरिमाः क्रमात् १२०९
चतुर्दिक्षु द्रुतं भ्रान्न्वा परिमण्डलिताकृतिः
दक्षिणाङ्घ्रावपक्रान्तां वामे तु चरणे क्रमात् १२१०
अतिक्रान्ता भ्रमरिके ललितैश्चरणक्रमैः
करोति यत्र तत्प्राहुरलातं मण्डलं बुधाः १२११
इत्यलातम्
सूच्यङ्घ्रिर्दक्षिणो वागस्त्वपक्रान्तोऽथ दक्षिणः
पार्श्वक्रान्तत्वमागत्य भुजंगत्रासितो भवेत् १२१२
अतिक्रान्तस्तु वामाङ्घ्रिराक्षिप्तो दक्षिणस्ततः
वामोऽतिक्रान्ततां नीत्वोरूद्वृत्तोऽलातकः क्रमात् १२१३
पार्श्वक्रान्तो दक्षिणः स्याद्वामः सूच्यथ दक्षिणः
अपक्रान्तो वामपादस्त्वतिक्रान्तीकृतो यदा
ललितं संचरेदुक्तं ललितं मण्डलं तदा १२१४
इति ललितम्
इति दशाऽऽकाशिकमण्डलानि
चालिश्चालिवडश्चाथ लढिः सूकमुरोङ्गणम् १२१५
धसकश्चाङ्गहारः स्यादोयारो विहसी मनः
लास्याङ्गानि दशैतानि देश्यां देशीविदो विदुः १२१६
कोमलं सविलासं च मधुरं ताललास्ययुक्
नातिद्रुतं नातिमन्दं त्र्यस्रताप्रचुरं तथा १२१७
पादोरुकटिबाहूनां यौगपद्येन चालनम्
चालिः सा शैघ्र्यसांमुख्यप्राया चालिवडो भवेत् १२१८
सुकुमारं तिरश्चीनं विलासरसिकं च यत्
युगपत्कटिबाहूनां चालनं सा लढिर्मता १२१९
कर्णयोर्हावबहुलं लसल्लीलावतंसयोः
विलम्बेनाविलम्बेन सूकं तल्लयचालनम् १२२०
विलम्बेनाविलम्बेन कुचयोर्भुजशीर्षयोः
ललितं चालनं तिर्यक्तज्ज्ञाः प्राहुरुरोङ्गणम् १२२१
धसकः स्यात्सुललितं स्तनाधोनयनं लयात् १२२२
सतालललितोपेता क्रमात्कार्या द्वयोर्नतिः
धनुर्वदङ्गहारः स्यादिति निःशङ्कभाषितम् १२२३
किंचित्तिर्यगधो मूर्ध्नो गतिरोयारको मतः
स्मितं स्याद्विहसी यस्तु शृङ्गाररसनिर्भरः १२२४
अभ्यस्तादन्य एवातिसूक्ष्मप्रत्यग्रभाङ्गिभाक्
गीतादेरागतः स्थायस्तल्लयात्तन्मनो मतम् १२२५
इति दश लास्याङ्गानि
शिरोनेत्रकरादीनामङ्गानां मेलने सति
कायस्थितिर्मनोनेत्रहारी रेखा प्रकीर्तिता १२२६
इति रेखालक्षणम्
विघ्नेशं भारतीं देवीं ब्रह्मविष्णुमहेश्वरान्
रङ्गं तद्देवतास्तालवाद्यभाण्डानि च क्रमात् १२२७
उपाध्यायं नृत्तकन्याः स्तम्भयुग्मं च दण्डिकाम्
कस्तूरिकाचन्दनाद्यैः सामोदैरनुलेपनैः १२२८
शुभ्रैरः सुगन्धिभिः पुष्पैर्धूपैरानात्रिकैरपि
नैवेद्यैर्विविधैर्वस्त्रैस्ताम्बूलैर्बलिभिस्तथा १२२९
अर्चयित्वा शुभे लग्ने प्रारभेत श्रमं सुधीः
स्तम्भद्वयोपरिन्यस्येत्कृत्वा हृदयसंमिताम् १२३०
हस्तग्राह्यां तिरश्चीनामवष्टम्भाय दण्डिकाम्
वसित्वा वसनं शुभ्रं दृढमादाय कञ्चुकम् १२३१
दण्डिकालम्बिनी कन्याऽभ्यस्येदङ्गविवर्तनम्
वलनं स्थापनं रेखां तालसाम्यं लयानपि १२३२
अङ्गादीनि पुरोक्तानि लास्याङ्गान्यखिलान्यपि
गीतवाद्यानुगमनं शिक्षेत सुमनाः सती १२३३
इति श्रमविधिः
पात्रं स्यान्नर्तआधारो नृत्ते प्रायेण नर्तकी
मुग्धं मध्यं प्रगल्भं च पात्रं त्रेधेति कीर्तितम् १२३४
मुग्धादेर्लक्षणं प्रोक्तं यौवनत्रितयं क्रमात् १२३५
लीनाधरस्तनाभोगकपोलजघनोरुकम्
सुरतं प्रति सोत्साहं प्रथमं यौवनं मतम् १२३६
पीनोरुजघनं पीनकठिनोच्चघनस्तनम्
जीवितं मन्मथस्योक्तं द्वितीयं यौवनं बुधैः १२३७
उन्मादकं श्रिया जुष्टं संपन्नरतिनैपुणम्
कामशिक्षितभावं च तृतीयं यौवनं विदुः १२३८
यौवनं तुर्यमप्यस्ति मन्दोत्साहमनो भवेत्
म्लानाधरस्तनाभोगकपोलजघनं च तत् १२३९
अतिप्रगल्भमेतस्माद्यौवनात्पात्रमुच्यते
तज्जराभिमुखं शोभाविकलं नाऽऽदृतं बुधैः
बालं मनोविहीनत्वान्न पात्रं तज्ज्ञरञ्जकम् १२४०
इति पात्रलक्षणम्
सौष्ठवं रूपसंपत्तिश्चारुविस्तीर्णवक्त्रता
विशालनेत्रता बिम्बाधरता कान्तदन्तता १२४१
सुकण्ठकम्बुता वेल्लल्लतासरसबाहुता
तनुमध्योन्नतिस्थूलनितम्बकरभोरुता ११४२
अत्युच्चखर्वपीनत्वराहित्यमशिरालता १२४३
लावण्यकान्तिमाधुर्यधैर्यौदार्यप्रगल्भता
गौरता श्यामता वेति तज्ज्ञैः पात्रगुणा मताः १२४४
यत्पात्रं गात्रविक्षेपैः कोमलैर्विलसल्लयैः
सुतालैरक्षराणीव प्रोद्गिरद्गीतवाद्ययोः १२४५
गीतवाद्यध्वनिं चाङ्गैश्चाक्षुषत्वमिवाऽऽनयत्
सुमनांसीव गात्राणि रसपूर्णतया दधत्
नृत्यत्युत्तममाचष्ट तदिदं करणाग्रणीः १२४६
इति पात्रगुणाः
व्यस्तानां वा समस्तानामेषां दोषो विपर्ययः
गुणदोषौ परीक्षेत पात्रे नृत्तस्य सिद्धये १२४७
मार्कण्डेयपुराणोक्ता नृत्ते पात्रैकतन्त्रता १२४८
नृत्तेनालमरूपेण सिद्धिर्नान्येन रूपतः
चार्वधिष्ठानवन्नृत्तं नृत्तमन्यद्विडम्बना १२४९
इति पात्रदोषाः
सुलीनस्निग्धविस्तीर्णकेशपाशनिवेशितः
ग्रन्थिर्विलुलितः पृष्ठे लसत्पुष्पावतंसकः १२५०
वेणी वा सरला दीर्घा मुक्ताजालविराजितैः
कलितं कुन्तलैर्भालं कस्तूरीचन्दनादिना १२५१
रचितं चित्रकं भाले नेत्रे तन्वञ्जनाञ्चिते
उल्लसत्कान्तिवलये तालपत्रे च कर्णयोः १२५२
दन्तपङ्क्तिः प्रभाजालप्रोज्ज्वलीकृतरङ्गभूः
कस्तूरीपत्रभङ्गाङ्कौ कपोलौ कण्ठलम्बिता १२५३
ताराहारावली स्थूलमौक्तिका स्तनमण्डना
प्रकोष्ठौ न्यस्तसद्रत्नसौवर्णवलयान्वितौ १२५४
अङ्गुल्यो धृतमाणिक्यनीलवज्रादिमुद्रिकाः
चन्दनैर्धूसरं गात्रं यद्वा कुङ्कुमरञ्जितम् १२५५
क्षीरोदकं दुकूलादि वस्त्रं कूर्पासकस्तनुः
सकञ्चुकं वा चलनं तत्तद्देशानुसारतः १२५६
एतन्मण्डनमन्यद्वा पात्रयोः श्यामगौरयोः
यथोचितं विधातव्यमित्याह शिववल्लभः १२५७
इति पात्रमण्डनानि
रूपवान्नृत्ततत्त्वज्ञो ग्रहमोक्षविचक्षणः
समादिग्रहविज्ञश्च वाद्यवादनवेदिता १२५८
संप्रदायागतज्ञानो ध्वनिमाधुर्यतत्त्ववित्
स्थायाधिक्योनताभिज्ञः कुशलो लयतालयोः १२५९
वाद्यप्रबन्धनिर्माता मुखवाद्येषु कोविदः
उद्भेत्ता नूत्नभङ्गीनां शिष्यशिक्षणदक्षिणः १२६०
प्रतिष्ठापयिता नृत्तगीतवाद्यव्यवस्थितेः
प्रविष्टो हृदयं यद्वा पात्रस्य हृदि च स्वयम् १२६१
रञ्जकः स्यादुपाध्यायो नृत्तदोषविधानवित् १२६२
इत्युपाध्यायलक्षणम्
यत्रैको मुखरी श्रेष्ठस्तथा प्रतिमुखर्यपि
द्वावडावजिनौ स्कन्धावजिनौ करटाधरौ १२६३
द्वात्रिंशन्मर्दलधरा वरास्तालधरद्वयम्
कांस्यतालधरास्त्वष्टाविष्टाः काहलिकद्वयम् १२६४
वांशिकौ रसिकौ व्यक्तसुरक्तप्रचुरध्वनी
चत्वारो मधुरध्वाना भवन्त्येते करास्तयोः १२६५
द्वौ मुख्यगायनौ सार्धमष्टभिः सह गायनैः
मुख्यगायनिके चाष्टौ सहगायनिकास्तयोः १२६६
संप्रदायसमुल्लासि पात्रमेकं गुणान्वितम्
सर्वेऽमी रूपवन्तः स्युश्चित्रालंकरणान्विताः १२६७
गीतादिसाम्यनिपुणाः प्रहर्षोत्फुल्लचेतसः
उत्तमः संप्रदायोऽसौ लोके कुटिलमुच्यते
तदर्धं मध्यमो न्यूनोऽस्मात्कनिष्ठो निगद्यते १२६८
इति संप्रदायलक्षणम्
अनुवृत्तिर्मुखरिणस्तलयोर्न्यूनपूरणम्
तालानुवृत्तिरित्येते चत्वारः कुटिले गुणाः १२६९
संप्रदायस्य दोषः स्यादेतद्गुणविपर्ययः १२७०
इति संप्रदायगुणदोषाः
संगीतज्ञैर्बुधैः सार्धं नायके प्रेक्षके स्थिते
प्रविश्य रङ्गभूमिं ते तिष्ठन्तः सांप्रदायिकाः १२७१
वाद्यानां नादसाम्यं च कृत्वाऽवस्थितमानसाः
मेलापकं वादयेयुः प्रबन्धं गजरं ततः १२७२
ततो जवनिकान्तर्धौ दधानं कुसुमाञ्जलिम्
पात्रं तिष्ठेदधिष्ठाय स्थानकं सौष्ठँवान्वितम् १२७३
ततश्चोपसमारम्भेऽन्तर्धाने चापसारिते
सभाजनमनोहारि पात्रं रङ्गभुवं विशेत् १२७४
वाद्यमाने प्रबन्धे चोपशमादौ च वादकैः
सुप्ताङ्गैरङ्गपीठस्य मध्ये पुष्पाञ्जलिं क्षिपेत् १२७५
यतः स्वयं सुरज्येष्ठो मध्येरङ्गमधिष्ठितः
ततः प्रहर्षसंपन्नं सुप्ताङ्गैरेव केवलैः
वाद्येनोपशमेनात्र नृत्येत्पात्रं मनोन्वितम् १२७६
पदमोता च कवितं मलपावत्सकावपि
रिगोणी तुडुकेत्येभिः प्रवन्धैर्नियतक्रमैः १२७७
स्वेच्छाकृतक्रमैर्यद्वा वाद्यमानैः समन्ततः
समाङ्गैर्विषमाङ्गैर्वोभयैर्वा नृत्तमाचरेत् १२७८
ततः शुद्धप्रबन्धैश्च गीयमानैर्निजेच्छया
पात्रं विधाय त्रिविधं नर्तनं स्थानमाचरेत् १२७९
गजरानन्तरं नास्ति यदोपशमनादृते
पात्रं पादो परा रम्भे प्रविशेदिति तद्विदः १२८०
इति पद्धतिरुक्तेयं प्रोक्ता परिविडिर्जने
वादनं समहस्तस्य प्राक्प्रवेशात्परे जगुः १२८१
समहस्तादिभिः पाटैः सुवृत्तैः पृष्ठसौष्ठवैः
स्थितेन समपादेन प्रवेशं च प्रचक्षते १२८२
केचिदाहुः केवलयोः प्रयोगं गीतवाद्ययोः
एकैकशः प्रयोगोऽपि गीतादेः कैश्चिदिष्यते १२८३
इति शुद्धपद्धतिः
वाद्यप्रबन्धैः कठिनैस्त्यक्तमेलादिभिस्तथा
गीतैः सालगसूडस्थैः प्रबन्धैर्यद्ध्रुवादिभिः १२८४
लास्याङ्गैः केवलैरङ्गैः कोमलैश्चैव नृत्यति
स्वयं गायति वाद्यं च त्रिवलीं वादयेत्स्वयम् १२८५
तत्पात्रं गौण्डली केचिद्वादनं नात्र मन्वते
त्रिवलीधारणं स्कन्धे ग्राम्यत्वं कुरुते स्त्रियाः १२८६
अगायन्ती त्वशारीरा सैव स्यान्मूकगौण्डली
गौडल्या मण्डलं प्रोक्तं तज्ज्ञैः कर्णाटदेशजम् १२८७
तस्याश्च नर्तनं प्राहुर्गौण्डलीं लक्षणाश्रयात्
तत्रत्यां पद्धतिं प्राहुस्तद्विदो गौण्डलीविधिम् १२८८
सा देशीपद्धतिस्तूक्ता तल्लक्ष्म ब्रूमहेऽधुना
कर्णाटमण्डलैर्युक्तास्तत्र स्युः सांप्रदायिकाः १२८९
पूर्ववत्समनादत्वमातोद्यानां विधीयते
मेलापकं वादयेयुरेकताल्या समाहिताः १२९०
येन केनापि तालेन गजरे वादिते सति
निःसारणैकताल्या वाऽऽरब्धस्योपशमे सति १२९१
पात्रं प्रविश्य रङ्गस्य मध्ये पुष्पाञ्जलिं क्षिपेत्
आविष्कुर्वत्सव्यवामपुरोङ्गाण्यथ नृत्यतः १२९२
गजरोपशमेनैव ततः सर्वाङ्गनर्तनम्
अड्डतालं निसारुं चैकतालीं श्रितया ततः १२९३
रिगोण्या तालनियमरहिताभ्यामतःपरः
अवत्सकविताभ्यां च क्रमान्नर्तनमाचरेत् १२९४
नानाविधं पुनर्नृत्येद्रिगोण्योट्टवणात्मना १२९५
निवारितेषु वाद्येषु दत्ते स्थानेऽथ वांशिकैः
सह गायति संयुक्तैस्तैः सार्धमथ गौण्डली १२९६
उच्चार्य स्थायिनं कुर्याद्रागालप्तिं चतुर्विधाम्
अन्या वा गायनी मुख्या विविधालप्तिमाचरेत् १२९७
मण्ठकात्प्रतिमण्ठाच्च तालेनान्येन संयुतम्
सकलं ध्रुवकं गीत्वा जक्कया वाद्यमानया १२९८
श्लक्ष्णं ध्रुवाख्यखण्डेन गीयमानेन संततम्
गायनैर्मेलकोपेतैर्मनोव्यक्तिमनोहरम् १२९९
नृत्तं किंचिद्विधायाथ शान्तयोर्गीतवाद्ययोः
विधाय विविधस्थायान्मुहुर्ध्रुवपदं व्रजेत् १३००
कांश्चिद्गीतस्य तालेन गीततालाक्षरैः परान्
नातिदीर्घान्नातिनीचान्माधुर्यप्रौढिपेशलान् १३०१
रक्तियुक्तान्वितांस्तालं यदि वाऽऽदौ विधाय तान्
सुतालकलितप्रान्तान्ध्रुवखण्डे कलासयेत् १३०२
कलासे वाद्यघातं च कुर्युः साम्येन वादकाः
कलासेषु भवेत्पात्रं लीनं चित्रार्पितं यथा १३०३
एवं कुर्वत्प्रक्रियायां कृतायां पूर्ववत्पुनः
नृत्तं समाचरेत्पात्रं गीयमाने ध्रुवांशके १३०४
आभोगेनाथ नृत्येच्च वाद्यमानेन वादकैः १३०५
गौण्डल्योजोन्विता सा स्यात्त्यागे संनिहिते सति
नानाविधप्रौढचारीचालकं नृत्तमाचरेत् १३०६
अत्र प्रहरणं वाद्यमाभोगेऽप्येतदिष्यते
कृत्वाऽथ वाद्यसाम्येन त्यागं विश्रान्तिमाचरेत् १३०७
कृत्वा नृत्तं ध्रुवेणैवं ध्रुववन्मण्ठकादिभिः
क्रमान्नृत्ते विशेषस्तु तेषामेषोऽभिधीयते १३०८
मण्ठादेर्ध्रुवखण्डेन केवलं नर्तनं भवेत्
मण्ठे तु मण्ठतालेन प्रारम्भे नर्तनं मतम् १३०९
ततः स्यादेकताल्यैव मण्ठनृत्तं क्रमात्क्रमात्
नर्तनं प्रतिमण्ठादौ स्वतालेनैव कीर्तितम् १३१०
एषु सालगगीतेषु नृत्तं द्रुतलयाश्रयम्
विलम्बितो लयस्तूक्तस्ताण्डवे पण्डितैः सदा १३११
रूपकैरेकताल्यन्तैरेवं सालगसूडगैः
नर्तित्वा क्रियते त्यागो यत्रासौ गौण्डलीविधिः १३१२
इति गौण्डलीविधिः
भस्मादिश्वेतलिप्ताङ्गो बिभ्रन्मुण्डं शिरः शिखाम्
भ्राजद्घर्घरिकाजालजङ्घः शारीरपेशलः १३१३
पञ्चाङ्गकुशलस्तालकलालयविचक्षणः
सभाजनमनोहारी यो नृत्यति स पेरणी १३१४
घर्घरो विषमं भावाश्रयश्च कविचारकः
गीतं चेति समाचष्ट पञ्चाङ्गानि हरप्रियः १३१५
तत्र घर्घरिकावाद्ये वहनिर्घर्घरो मतः १३१६
पटिवाटश्चापडपः सिरिपिट्यलगादिमः
वाटः सिरिहिराख्यश्च ततः खलुहुलाह्वयः
इति घर्घरभेदाः स्युः षडमी तद्विदां मताः १३१७
भूमिलग्नाग्रयोरङ्घ्र्योः पर्यायाद्भूमिकुट्टनम्
पार्ष्णिद्वयेन पार्ष्ण्या वैकया स्यात्पटिवाटकः १३१८
भवेच्चापडपः पादतलेनावनिकुट्टनम्
तलेन भूमिलग्नेन पादस्य सरणं पुरः १३१९
तथाऽपसरणं पश्चान्मुहुः सिरिपिटी भवेत्
द्वयोश्चरणयोर्व्योम्नि पर्यायेण प्रकम्पनम् १३२०
यत्कृतं कोमलं सोऽत्रालगवाटः प्रकीर्तितः
सत्येकस्मिन्समे पादेऽङ्घ्रिः पुरः प्रेरितो भवेत् १३२१
यस्तस्य जङ्घया कम्पः प्रोक्तः सिरिहिरो बुधैः
यदा द्वयोः स्वभावेन तिष्ठतोः पादयोर्भुवि १३२२
जङ्घयोः कम्पनं प्राहुर्धीराः सिरिहिर तदा
भूलग्नाग्रस्य वामाङ्घ्रेः पार्ष्ण्या यद्भूमिकुट्टनम् १३२३
भूलग्नाग्रस्य चान्यस्य भ्रमः सव्यापसव्यतः
योऽसौ खलुहुलः प्रोक्तो घर्घरो नृत्तकोविदैः १३२४
दिशाऽनया परेऽप्यूह्या घर्घराः शोभयाऽन्विताः
सर्वे घर्घरभेदास्ते कार्यास्तालानुगामिनः १३२५
अत्र चोत्प्लुतपूर्वं स्यात्करणं विषमाभिधम्
विकृतार्थानुकारस्तु बुधैर्भावाश्रयो मतः १३२६
कविचारो भवेदत्रोत्तमनायकवर्णनम्
अत्र स्यात्सालगं गीतं यदुक्तं गौण्डलीविधौ १३२७
इति पेरणिलक्षणम्
गौण्डलीविधिवच्चात्र रङ्गस्थाः सांप्रदायिकाः
कुर्युर्गम्भीरमातोद्यध्वनिं धिधिधिधीति ते १३२८
ततो विलम्बितप्राये रिगोण्युट्टवणाश्रये १३२९
पादत्रये वाद्यमाने द्विर्द्विर्निःसारुतालतः
विशेद्विकृतवाग्वेषभूषो रङ्गेऽट्टबोडकः १३३०
तस्मिन्नृत्यति हास्यैकरसे विशति पेरणी
रिगोण्युपशमेनैष प्रविष्टो नृत्तमाचरेत् १३३१
प्रशान्ते वाद्यसंघाते ततस्तालधरैः समम्
वाद्यमाने सुनिपुणं ताले गारुगिसंज्ञके १३३२
यद्वा सरस्वतीकण्ठाभरणे वादकैस्तथा
क्रियमाणे मर्दलादेर्मण्डितालसमध्वनौ
पेरणी घर्घरान्कुर्यान्नाना चापडपादिकान् १३३३
ततः कूटनिबद्धेन यद्वा वर्णसरात्मना
कवितेनैष विषमं नृत्येन्निःसारुतालतः १३३४
ततः सालगसूडेन नृत्ते तत्र च दर्शयेत्
रेखां च स्थापनां हृद्या वहनीर्गीतनर्तनम् १३३५
विषमं च प्रहरणानुगमाभोगवादने
कविचारांस्तथा भावाश्रयान्पेरणिपद्धतौ १३३६
इति पेरणीपद्धतिः
तौर्यत्रये लक्ष्यलक्ष्मवेद्याचार्यः प्रकीर्तितः
वाग्ग्मी सुरूपवेषोऽसौ सुरसस्तुतिकोविदः
सभासु परिहासज्ञो भवेद्वादनवाद्यवित् १३३७
इत्याचार्यः
चतुर्धाभिनयाभिज्ञो नटो भाणादिभेदवित् १३३८
इति नटः
नर्तकः सूरिभिः प्रोक्तो मार्गनृत्ते कृतश्रमः १३३९
इति नर्तकः
सर्वभाषाविशेषज्ञो जनानां नर्मकर्मदः
पटुः परापवादेषु स्मृतो वैतालिको बुधैः १३४०
इति वैतालिकः
किङ्किणीवाद्यवेदी च वृत्तो विकटनर्तकैः
मर्मज्ञः सर्वरागेषु चतुरश्चारणो मतः १३४१
इति चारणः
भारस्य भूयसो वोढा प्रौढो भ्रमरिकादिषु
रज्जुसंचारचतुरश्छुरिकानर्तने कृती
शस्त्रसंकटसंपातपटुः कोह्लाटिको मतः १३४२
इति कोह्लाटिकः
मध्यस्थाः सावधानाश्च वाग्ग्मिनो न्यायवेदिनः
त्रुटितात्रुटिताभिज्ञा विनयानम्रकंधराः १३४३
अगर्वा रसभावज्ञास्तौर्यत्रितयकोविदाः
असद्वादनिषेद्धारश्चतुरा मत्सरच्छिदः
अमन्दरसनिष्यन्दिहृदयाः स्युः सभासदः १३४४
इति सभासदः
शृङ्गारी भूरिदो मान्यो मान्यपात्रविवेचकः
श्रीमान्गुणलवस्यापि ग्राहकः कौतुके रतः १३४५
वाग्ग्मी निर्मत्सरो नर्मनिर्माणनिपुणः सुधीः
गम्भीरभावः कुशलः सकलासु कलासु च १३४६
समस्तशास्त्रविज्ञानसंपन्नः कीर्तिलोलुपः
प्रियवाक्परिचित्तज्ञो मेधावी धारणान्वितः १३४७
तूर्यत्रयविशेषज्ञः पारितोषिकदानवित्
सर्वोपकरणोपेतो देशीमार्गविभागवित् १३४८
हीनाधिकविवेकज्ञः प्राज्ञो मध्यस्थधीरधीः
स्वाधीनपरिवारश्च भावको रसनिर्भरः १३४९
सत्यवादी कुलीनश्च प्रसन्नवदनोत्तरः
स्थिरप्रेमा कृतज्ञश्च करुणावरुणालयः
धर्मिष्ठः पापभीरुश्च विद्वद्बन्धुः सभापतिः १३५०
इति सभापतिलक्षणम्
विचित्रा नृत्यशाला स्यात्पुष्पप्रकरशोभिता
नानावितानसंपन्ना रत्नस्तम्भविभूषिता १३५१
तस्यां सिंहासनं रम्यमध्यासीनः सभापतिः
वामतोऽन्तःपुराणि स्युः प्रधाना दक्षिणेन तम् १३५२
पृष्ठभागे प्रधानानां कोशः श्रीकरणाधिपः
तत्संनिधौ तु विद्वांसो लोकवेदविशारदाः १३५३
रसिकाः ह्कवयोऽप्यत्र चतुराः सर्वरीतिषु
मान्याञ्ज्योतिर्विदो वैद्यान्विद्वन्मध्ये निवेशयेत् १३५४
स्याद्वामेतरभागे तु मन्त्रिणां परिमण्डलम्
तत्रैव सैन्यमान्यानामन्येषामुपवेशनम् १३५५
विलासिनो विलासिन्यः परितोऽन्तःपुराणि च
पुरतोऽपि नृपस्य स्युः पृष्ठभागे तु भूपतेः १३५६
चारुचामरधारिण्यो रूपयौवनसंभृताः
स्वकङ्कणझणत्कारनिर्वाणजनमानसाः १३५७
अग्रिमा वामभागे स्युरग्रे वाग्गेयकारकाः
कथका बन्दिनश्चात्र विद्यावन्तः प्रियंवदाः १३५८
प्रशंसाकुशलाश्चान्ये चतुराः सर्वमातुषु
ततः परं तु परितः परिवारोपवेशनम् १३५९
अधिष्ठितं सदः कार्यं दक्षैर्वेत्रधरैर्नरैः
अङ्गरक्षास्तु तिष्ठेयुः सर्वतः शस्त्रपाणयः १३६०
संनिवेश्य सभामेवं नेता संगीतमीक्षते १३६१
इति सभासंनिवेशः
रसप्रधानमिच्छन्ति तौर्यत्रिकमिदं विदः
तत्सामान्यविशेषाभ्यामधुनाऽभिदधे रसम् १३६२
विभावैरनुभावैश्च नटस्थैर्व्यभिचारिभिः
जनिताऽऽत्मपरामित्रमित्राद्याश्रयतां विना १३६३
अवस्थादेशकालादिभेदसंभेदवर्जितम्
केवलं रतिहासादिस्थायिरूपं प्रगृह्णती १३६४
अतो निरन्तरायत्वात्परां विश्रान्तिमाश्रिता
प्रतिभानुभवस्मृत्याद्यन्यबोधविलक्षणा १३६५
ब्रह्मसंविद्विसदृशी नानारत्यादिसंगमात्
सुखरूपा स्वसंवेद्या संविदास्वादनाभिधा
रसः स्यादथवा स्थायी रसस्तद्गोचरीभवन् १२६६
दध्यादिव्यञ्जनैश्चैव हरिद्रादिभिरौषधैः
मधुरादिरसोपेतैर्यद्वद्द्रव्यैर्गुडादिभिः १३६७
युक्तैः पाकविशेषेण षाडवाख्योऽपरो रसः
उत्पाद्यते विभावाद्यैः प्रयोगेण तथा रसः १३६८
शृङ्गारहास्यौ करुणो रौद्रो वीरो भयानकः
बीभत्सश्चाद्भुतः शान्तो नवधेति रसो मतः १३६९
शान्तस्य शमसाध्यत्वान्नटे च तदसंभवात्
अष्टावेव रसा नाट्येष्विति केचिदचूचुदन् १३७०
तदचोद्यं यतः किंचिन्न रसं स्वदते नटः
सामाजिकास्तु लिहते रसान्पात्रं नटो मतः १३७१
ते शुद्धहृदयाः शान्तं स्वविभावविभावितम्
एकाग्रचेतसः सन्तोऽनुभवन्तीति युज्यते १३७२
रतिहासशुचः क्रोधोत्साहौ भयजुगुप्सने
विस्मयश्चाथ निर्वेदः स्थायिभावा नवेत्यमी १३७३
जुगुप्सां स्थायिभावं तु शान्तं केचिद्बभाषिरे
उत्साहमाहुरन्येऽन्ये शमं सर्वान्परे विदुः १३७४
उद्दिश्य स्थायिनः प्राप्ते समये व्यभिचारिणाम्
अमङ्गलमपि ब्रूते पूर्वं निर्वेदमेव यत् १३७५
मुनिर्मेनेऽस्य तन्नूनं स्थायिताव्यभिचारिते
पूर्वापरान्वयो ह्यस्य मध्यस्थस्यानुषङ्गतः १३७६
स्थापी स्याद्विषयेष्वेष तत्त्वज्ञानोद्भवो यदि
इष्टानिष्टवियोगाप्तिकृतस्तु व्यभिचार्यसौ १३७७
निर्वेदग्लानिशङ्कौग्र्यदैन्यासूयादमश्रमाः
चिन्ता धृतिः स्मृतिर्व्रीडामोहालस्यानि चापलम् १३७८
हर्षामर्षविषादाश्चापस्मारो जडता तथा
वितर्कसुप्तमौत्सुक्यमवहित्थं तथा मतिः १३७९
विबोधो व्याधिरुन्मादो गर्वावेगौ मृतिस्तथा
त्रासो निद्रा त्रयस्त्रिंशदिति स्युर्व्यभिचारिणः १३८०
स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभेदोऽथ वेपथुः
वैवर्ण्यमश्रु प्रलयोऽष्टौ भावाः सात्त्विका इति १३८१
विभावाद्यैरनुचितः स्थानत्वाद्विकृतिं गतैः
शृङ्गारादिरसाभासाः कृता हास्यस्य हेतवः १३८२
फलं बन्धुवधो रौद्रे विभावः करुणे च सः
जगदुस्तद्विदो रौद्रमतः करुणकारणम् १३८३
रौद्रं भयानके हेतुमत एव प्रचक्षते
शृङ्गाराद्विप्रलम्भाख्यात्करुणोत्पत्तिरिष्यते
भयानकेऽद्भुते हेतुं वीरं धीरा बभाषिरे १३८४
विदूषकस्य हासस्तु नायके हास्यकारणम्
साम्याद्रुधिरमोहादिविभावाद्व्यभिचारिणाम् १३८५
बीभत्से सति भीरूणामुत्पद्येत भयानकः
अन्योन्यजन्यजनका भवन्त्येवमिमे रसाः १३८६
श्यामः सितो धूसरश्च रक्तो गौरोऽसितस्तथा
नीलः पीतस्ततः श्वेतो रसवर्णाः क्रमादिमे १३८७
विष्णुमन्मथकीनाशरुद्रेन्द्राः कालसंज्ञकः
महाकालः क्रमाद्ब्रह्मा बुद्धश्च रसदेवताः
शृङ्गारे देवतामाहुरपरे मकरध्वजम् १३८८
वक्ष्ये विशेषलक्ष्माणि रसादेरधुना क्रमात् १३८९
विभावैर्वरकान्ताद्यैः स्वकाव्ये कविगुम्फितैः
साक्षात्कारमिवाऽऽनीतैर्नटेन स्वप्रयोगतः १३९०
नीतो रतिस्थायिभावः सदस्यरसनीयताम्
नटेन कान्तदृष्ट्याद्यैरनुभावैः प्रदर्शितैः १३९१
आवेशातिशयं नीतश्चित्रितो व्यभिचारिभिः
हर्षचिन्तादिभिः प्रोक्तः शृङ्गारः सूरिशार्ङ्गिणा १३९२
संभोगविप्रलम्भौ वाऽवस्थे द्वे तस्य कीर्तिते
कान्तासंयोगविरहौ लक्षणे च तयोः क्रमात् १३९३
स्त्रीपुंसयोरुत्तमयोर्यूनोः पूर्णसुखोदया
प्रारम्भात्फलपर्यन्तव्यापिनी स्मरसंभृता
संविदोरैक्यसंपत्त्या क्रीडाऽत्र स्थायिनी रतिः १३९४
लोके स्थाय्यादिभावानां दृष्टये जन्महेतवः
उपनीताः कविवरैर्नटैः साक्षात्कृता इव
रसान्प्रसुन्वते ते स्युर्विभावास्तद्विभावनात् १३९५
कान्तौ तीव्रस्मराक्रान्तौ दूतीसख्यादयो जनाः १३९६
तत्तद्योग्योऽप्यलंकारः किरीटकटकादिकः
समयोऽपि वसन्तादिर्विषयाश्चन्दनादयः १३९७
गीतादयश्च देशोऽपि रम्यहर्म्यवनादिकः
कान्तानुकरणं हंसयुग्मचित्रादिदर्शनम् १३९८
जलकेलीत्येवमाद्याः श्रुता यद्वा विलोकिताः
विभावत्वेन विख्याता रसे शृङ्गारनामनि १३९९
भावानां यानि कार्याणि नाट्यन्ते कुशलैर्नटैः
अनुभावा हेतवस्ते स्वहेत्वनुभवे यतः १४००
ते भावानाभिमुख्येन नयन्ति गमयन्ति हि
अतोऽभिनयशब्देनाप्युच्यन्ते कृत्रिमा नटैः १४०१
कान्ता दृष्टिः कटाक्षाख्यं तारकाकर्म शर्मकृत्
चतुरे च भ्रुवौ चारुगोचरा मधुरा गिरः १४०२
रोमाञ्चमुखरागादिरचितः सात्त्विकोत्करः
अनुभावा भवन्त्येते शृङ्गाररसपोषिणः १४०३
आलस्यौग्र्यजुगुप्साभ्योऽन्येऽत्र स्युर्व्यभिचारिणः
आलस्यादित्रयं वर्ज्यं स्वविभावैकगोचरम् १४०४
एष संभोगशृङ्गारगतः परिकरो मतः
विप्रलम्भे नानुभावः कान्ता दृष्ट्यादिरिष्यते १४०५
चिन्तासूयाश्रमौत्सुक्यनिर्वेदग्लानिमृत्यवः
उन्मादव्याध्यपस्मारविबोधजडतास्तथा १४०६
दैन्यं निद्रा तथा स्वप्नसुप्तचिन्तादयश्च ये
तदीयैरनुभावैस्तु विप्रलम्भोऽभिनीयते १४०७
उन्मादादिदशां चातिकष्टां नात्र प्रदर्शयेत्
न चात्र मरणं साक्षाद्दर्शयेत्तस्य सूचिकाम् १४०८
तदनन्तरजातां तु दर्शयेत्सुखिनीं दशाम्
दशां वा भाविनिधनां सूचयेन्न त्विमां वदेत् १४०९
ननु दुःखात्मकः कस्माद्विप्रलम्भो रसो मतः
मैवं रत्यनुसंधानं विप्रलम्भेऽपि दृश्यते १४१०
विप्रलम्भोद्भवा शङ्का संभोगे दुस्त्यजा ध्रुवम्
इतरेतरचित्रत्वाद्रसत्वं सुलभं तयोः १४११
नैकरूपे चिरास्वाद्यः शर्करावद्भवेदसौ १४१२
संभोगेऽपि न निद्राऽस्ति नन्वन्योन्याभिलाषिणोः
विबोधस्त्वस्त्यसौ कस्माद्विप्रलम्भैकगोचरः १४१३
नैतन्निद्राविनाशो हि विबोधस्तामृते कुतः १४१४
रतिश्रमकृता निद्रा संभोगेऽप्यस्ति चेन्न तत्
भवन्त्यपि न सोद्भाव्या रत्युत्कर्षविरोधिनी १४१५
करुणे विप्रलम्भे च चिन्तादिव्यभिचारिणाम्
साषारण्यात्तयोर्भेदो नास्ति चेत्तदसांप्रतम् १४१६
शोको हि करुणे स्थायी विप्रलम्भे रतिर्मता १४१७
स्थायिभेदाद्विभागोऽतस्तयोरुत्तमपूरुषे
नतु नीचे तु माल्यादिविभावानामसंभवात् १४१८
रत्यभावे विप्रलम्भः शृङ्गारो जायते कथम्
अतः स्यात्करुणः स्पष्टस्तत्रेष्टविरहोद्भवः १४१९
माल्याद्यसंभवान्नीचे संभोगासंभवोऽपि चेत्
तन्न नीचरतिर्यस्मान्नारीमात्रविभावजा
वियोगेऽपि तथा माल्याद्यभावेन कथं रतिः १४२०
आशाबन्धश्लथीभूतचिन्तादिव्यभिचारिकः
विरहः करुणाद्भिन्नः प्रियनैराश्यकारितात् १४२१
कामसूत्रे च शृङ्गारो दशावस्थः प्रदर्शितः
अभिलाषस्ततश्चिन्तानुस्मृतिर्गुणकीर्तनम् १४२२
उद्वेगोऽथ विलापः स्यादुन्मादो व्याधिसंभवः
जडता मरणं चेति दशावस्थाः प्रकीर्तिताः १४२३
भोक्ता प्रधानो भोग्या तु कान्ता तदुपसर्जनम्
अतो नरान्तरासक्तिस्तस्याः शृङ्गारभङ्गकृत्
भोक्तस्त्वपरतन्त्रत्वात्कान्तान्तरमभञ्जकम् १४२४
वाङ्नेपथ्याङ्गवेष्टाभिः शृङ्गारस्त्रिविधो मतः
रामादिव्यञ्जको वेषो नटे नेपथ्यमिष्यते १४२५
इति शृङ्गारः
वेषालंकारगमनगदितानां विकारिता १४२६
एतेषां च परस्थानामनुकारो विलज्जता
विषयेऽरुचिता दृष्ट्याऽप्यसंगतविभाषणम् १४२७
हासनीयस्य कक्षादिसंस्पर्शः कुहनावहः
इत्यादयो विभावाः स्युरनुभावास्तु नेत्रयोः १४२८
कपोलयोरोष्ठयोश्च स्पन्दो दृष्ट्योर्विकासनम्
अत्यन्तमीलनं किंचित्कुञ्चनं पार्श्वपीडनम् १४२९
प्रस्वेदमुखरागाद्या यस्याथ व्यभिचारिणः
स्वप्नोऽवहित्थमालस्यनिद्रातन्द्रादयोऽपरे १४३०
एते स्मितादिभेदेषु यथायोगं व्यवस्थिताः
स्थायिभावश्च हासः स्यादसौ हास्यः प्रकीर्तितः १४३१
आत्मस्थः परसंस्थश्चेत्यस्य भेदद्वयं मतम्
आत्मस्थो द्रष्टुरुत्पन्नो विभावेक्षणमात्रतः १४३२
हसन्तमपरं दृष्ट्वा विभावैश्चोपजायते
योऽसौ हास्यरसस्तज्ज्ञैः परस्थः परिकीर्तितः १४३३
उत्तमानां मध्यमानां नीचानामप्यसौ भवेत्
त्र्यवस्थः कथितस्तस्य षड्भेदाः सन्ति चापरे १४३४
स्मितं च हसितं प्रोक्तमुत्तमे पुरुषे बुधैः
भवेद्विहसितं चोपहसितं मध्यमे नरे
नीचेऽपहसितं चातिहसितं परिकीर्तितम् १४३५
ईषत्फुल्लकपोलाभ्यां कटाक्षैरप्यनुल्बणैः
अदृश्यदशनो हास्यो मन्थरस्मितमुच्यते १४३६
वक्त्रनेत्रकपोलैश्चेदुत्फुल्लैरुपलक्षितः
किंचिल्लक्षितदन्तश्च तदा हसितमिष्यते १४३७
सशब्दं मधुरं कालागतं वदनरागवत्
आकुञ्चिताक्षिगण्डं च विदुर्विहसितं बुधाः १४३८
निकुञ्चितांसशीर्षश्च जिह्मदृष्टिविलोकनः
उत्फुल्लनासिको हास्यो नाम्नोपहसितं मतः १४३९
अस्थानजः साश्रुदृष्टिराकम्प्रस्कन्धमूर्धकः
शार्ङ्गदेवेन गदितो हास्योऽपहसिताह्वयः १४४०
स्थूलकर्णः कटुध्वानो बाष्पपूरप्लुतेक्षणः
करोपगूढपार्श्वश्च हास्योऽतिहसितं मतः १४४१
पूर्वाणि स्वसमुत्थानि स्मितादियुगलत्रये
पराणि त्वपरस्थानि पूर्वसंक्रान्तिजत्वतः १४४२
हास्यरौद्रावपि त्रेधा वाङ्नेपथ्याङ्गचेष्टितैः
उपलक्षणमेतत्तु तेषां सर्वेषु संभवात् १४४३
इति हास्यः
इष्टबन्ध्वियोगश्च श्रीनाशो वधबन्धने १४४४
व्यसनप्रभवोऽनर्थः सुतादिनिधनं तथा
देशभ्रंशादयश्चैते श्रुता यद्वा विलोकिताः १४४५
विभावाः संमताः पुंसामुत्तमानां पराश्रिताः
मध्यमाधमपुंसां तु ते स्युरात्मैकगोचराः १४४६
अश्रुपातो मुखे शोषो विलापः परिदेवनम्
स्तम्भो विवर्णता स्रस्तगात्रता प्रलयस्तथा १४४७
श्वासोच्छ्वासौ देहपातघातोरस्ताडनादयः
एते यत्रानुभावाः स्युरथ ग्लानिः श्रमो भयम् १४४८
मोहो विषादनिर्वेदौ चिन्तौत्सुक्ये च दीनता
जडता व्याधिरुन्मादालस्यापस्मारमृत्यवः १४४९
स्तम्भकम्पाश्रुवैवर्ण्यस्वरभङ्गादयस्तथा
यत्र संचारिणः स्थायी शोकः स करुणो मतः १४५०
व्यवस्थाऽत्रानुभावानां योग्यत्वादुत्तमादिषु १४५१
विलापो रोदनं शोच्यगुणस्तवपुरःसरम्
स्याद्दैवात्मपराणां यदुपालम्भेन रोदनम्
परिदेवनमित्युक्तं तदिदं शब्दकोविदैः १४५२
धर्मोपघातजो वित्तनाशजो बन्धुनाशजः
करुणस्त्रिविधस्तेषामुत्तमेष्वेव पूर्वजः १४५३
त्रेधा रुदितमानन्दार्तीर्ष्याहेतुकृतं भवेत् १४५४
दुःखस्मृतियुतानन्दाज्जातं फुल्लकपोलकम्
सरोमाञ्चमपाङ्गस्थबाष्पमानन्दजं मतम् १४५५
उच्चैः स्वरविलापं च सभ्रूप्रान्तविवर्तितम्
स्रुताश्रुधारमस्वस्थचेष्टाङ्गं चाऽऽर्तिजं मतम् १४५६
शिरःकल्पितनिश्वासं स्फुरदोष्ठकपोलकम्
कटाक्षभ्रुकुटीवक्रं स्त्रीणामीर्ष्याकृतं भवेत् १४५७
धैर्यादुत्तममध्यानां नाश्रु स्वव्यसने स्रवेत्
परस्थे तु स्रवेन्नारीनीचानां तूभयत्र तत् १४५८
इति करुणः
हन्तृप्रकृतयो रक्षोदैत्याद्यन्यायकारिणः
युद्धं क्रोधोऽनृतं वाक्यं परदारादिधर्षणम् १४५९
देशजातिकुलाचारविद्यानिन्दा परस्य
वधान्यदारयात्रादिप्रतिज्ञापरुषोक्तयः १४६०
गृहादिभञ्जनं राज्यहरणं मत्सरस्तथा
जिघांसाद्याश्च यत्र स्युर्विभावाः कविकीर्तिताः १४६१
भ्रुकुटीरक्तनेत्रत्वं कपोलस्फुरणं तथा
दन्तोष्ठपीडनं हस्तनिष्पेषोऽथान्यविग्रहे १४६२
तलाद्यैस्ताडनं छेदो मर्दः पाटनमोटने
शस्त्राणां ग्रहणं पातः प्रहारो रुधिरस्रुतिः १४६३
एतेऽनुभावास्तेषां तु कर्म यत्ताडनादिकम्
न तत्साक्षात्प्रयोक्तव्यं कीर्तनीयं परं नटैः १४६४
उत्साहसम्यग्बोधौ चामर्षावेगौग्र्यचापलम्
स्वेदवेपथुरोमाञ्चगद्गदस्वरतादयः १४६५
साक्षात्स्वेदोऽभिनेयो वा व्यजनग्रहणादिना
उत्साहस्त्वत्र संचारी न तस्माद्वीरसंकरः १४६७
ननु चाव्यभिचारेण भावस्य स्थायिता मता
स्थायी तत्कथमुत्साहो वीरेऽप्येष भविष्यति १४६८
मैवं क्षणिकविद्योता विद्युद्वद्व्यभिचारिणः
स्थिराः स्युः स्थायिनस्तेन द्विरूपोऽयं रसद्वये १४६९
ननु स्थाय्यपि भावत्वान्निसर्गात्क्षणिको भवेत्
सत्यं किंतु स संस्काररूपेण स्थायितां गतः १४७०
तत्तिरस्कृतसंस्कारास्त्वन्ये तत्स्थैर्ययोगिनः
आविर्भावतिरोभावधर्माणश्चात्र यन्त्रिताः १४७१
गुरौ प्रिये रिपौ भृत्ये भवेत्क्रोधश्चतुर्विधः
गुरावव्यक्तचेष्टः स्यात्क्रोधो विनययन्त्रितः १४७२
अपाङ्गनिर्गताल्पास्रो भ्रुकुटीकुटिलाननः
स्फुरितोष्ठो मृगाक्षीणां कोपः प्रणयजः प्रिये १४७२
दष्टोष्ठो हस्तनिष्पेषी विकटभ्रुकुटीपुटः
स्वभुजप्रेक्षणैः शत्रौ भवेत्क्रोधो निरर्गलः १४७४
विकृतप्रेक्षणैरक्षिविस्तारैर्भूरिभर्त्सनैः
भृत्ये कार्यवशात्कोपः कृत्रिमः क्रूरतोज्झितः १४७५
अविस्मयादसंमोहादविषादाच्च यः सताम्
धर्प्राद्यर्थविशेषेषु कार्यस्तत्त्वविनिश्चयः १४७६
नयश्च विनयः कीर्तिः पराक्रमणशक्तता
प्रतापः प्रभुशक्तिश्च दुर्धर्षप्रौढसैन्यता १४७७
मन्त्रशक्तिश्च संपन्नधनाभिजनमन्त्रिता
इत्यादयो विभावाः स्युर्नटे काव्यसमन्विताः १४७८
सामादीनामुपायानां यथास्वं विनियोजने
विज्ञत्वं स्थैर्यधैर्ये च शौर्यं त्यागो यथोचितम् १४७९
भाषणं भावगम्भीरवाक्यस्येत्येवमादयः
सर्वे गर्वानुभावाश्चानुभावाः स्युरथ स्मृतिः १४८०
औग्र्यमावेगरोमाञ्चावमर्षश्च धृतिर्मतिः
एवंप्रभृतयो भावा यत्र स्युर्व्यभिचारिणः १४८१
उत्साहः स्थायिभावश्च धीरा वीरं तमूचिरे
उत्तमप्रकृतिष्वेव पुरुषेष्वेष जायते १४८२
सम्यग्विज्ञाय षाड्गुण्यप्रयोगो गीयते नयः १४८३
संधिश्च विग्रहो यानमासनं संश्रयस्तथा
द्वैधीभाव इति प्रोक्ता नीतिशास्त्रेषु षड्गुणाः १४८४
इन्द्रियाणां जयं प्राह विनयं शंकरप्रियः
प्रतापः पौरुषोद्भूता प्रसिद्धिः शत्रुतापिनी १४८५
कीर्तिः सुहृदुदासीनजनानन्दप्रदं यशः
सामदाने भेददण्डावित्युपायचतुष्टयम् १४८६
स्थैर्यं त्वचलचित्तत्वं धैर्यं गाम्भीर्यशालिता
शौर्यं भवेदनुद्भूतभयं युद्धप्रवर्तनम् १४८७
वीरः स्यादुचिते युद्धे रौद्रस्त्वनुचिते भवेत् १४८८
दानवीरो धर्मवीरो युद्धवीर इति त्रिधा
वीरो दानादयस्तत्र विभावाः प्रतिनायके
नायके त्वनुभावाः स्युर्वीरस्येति विदां मतम् १४८९
इति वीरः
रक्षःपिशाचभल्लूकप्रभृतेर्भीषणाकृतेः
दर्शनं श्रवणं शून्यागारारण्यप्रवेशयोः १४९०
विकृतस्य ध्वनेस्त्रासोद्वेगयोः परसंस्थयोः
श्रवणं चानुसंधानं बन्धूनां वधबन्धयोः १४९१
एवमाद्या विभावाः स्युरथ नेत्रकराङ्घ्रिणः
मध्ये मध्ये स्तम्भकम्पौ रोमाञ्चनिचयस्तथा १४९२
शुष्कोष्ठतालुता कम्प्रहृदयत्वं विवर्णता
मुखस्य स्वरभेदश्च गात्रस्रंसो विलक्ष्यता १४९३
कांदिशीकतया दृष्टेरनुभावा भवन्त्यमी
अथ स्तम्भादयोऽप्यष्टौ दैन्यमावेगचापले १४९४
शङ्कामोहावपि त्रासापस्मारमरणादयः
यत्र संचारिणः स्थायि भयं स स्याद्भयानकः १४९५
वास्तवं कृत्रिमं चेति भयं द्वेधा निगद्यते १४९६
स्त्रीणां च नीचप्रकृतेः पुंसः स्याद्वास्तवं भयम्
मध्यमे चोत्तमे पुंसि कृत्रिमं तदुदाहृतम् १४९७
स्वभावादभयौ तौ हि स्वामिनं च गुरुं प्रति
भयं विनयबोधाय दर्शयेतामतात्त्विकम् १४९८
नीचैः स्वभावबोधार्थं तत्कार्यं मृदुचेष्टितैः १४९९
स्वहेतूत्थः कृत्रिमश्च वित्रासितकमित्यपि
भयानकस्त्रिधा तत्र प्रथमोऽन्वर्थनामकः १५००
कृत्रिमस्तूत्तमकृतो गुर्वादीन्प्रत्यवास्तवः
विभीषिकार्थो बालादेर्वित्रासितकमिष्यते १५०१
इति भयानकः
स्वभावाद्धातुदोषाद्वा वस्त्वत्यन्ताप्रियात्मकम्
निषिद्धमतितृप्तेश्चारुचितं मलमिश्रितम् १५०२
अनिष्टफलदानेन मुहुरुद्वेगदायकम्
स्याद्विभावोऽथानुभावा उत्कम्पो गात्रधूननम् १५०३
संकोचनं च नासोष्ठहनूनां ष्ठीवनं तथा
पदन्यासोऽप्यनियतः पिधानं नासयोर्दृशोः १५०४
अथ संचारिणो मोहावेगापस्मारमृत्यवः
व्याधिश्च यत्र बीभत्सः स स्थायिन्या जुगुप्सया १५०५
शुद्धोऽशुद्धोऽत्यन्तशुद्धो बीभत्सस्त्रिविधो मतः १५०६
आद्यौ रुधिरविष्ठादिशुद्धाशुद्धविभावजौ
शुद्धधर्मोद्भवोऽत्यन्तशुद्धः संसारगोचरः १५०७
इति बीभत्सः
दुर्लभाभीष्टसंप्राप्तिः खेचराणां विलोकनम्
विमानानां च मायानामिन्द्रजालस्य दर्शनम् १५०८
प्रासादोपवनादेरप्यपूर्वस्यातिशायिनः
दर्शनं श्रवणं वाक्यं शिल्पाद्यतिशयान्वितम् १५०९
एते यत्र विभावाः स्युरनुभावास्तु नेत्रयोः
विस्तारणं निर्निमेषमीक्षणं पुलकोद्गमः १५१०
साधुवादोल्लुकसने चाऽऽनन्दाद्धारवस्तथा
गद्गदं वचनं स्वेदवेपथू हर्षगोचराः १५११
स्पर्शग्रहाश्रिताश्चानुभावाः संचारिणस्त्वमी
स्तम्भः स्वेदश्च रोमाञ्चः प्रलयो गद्गदं वचः १५१२
आवेगसंभ्रमौ जाड्यमिति यत्राथ विस्मयः
स्थायी तमद्भुतं प्राह श्रीमत्सोढलनन्दनः १५१३
माया मिथ्याप्रकटितं रूपादिपरिवर्तनम् १५१४
असंभाव्यस्य सत्त्वस्य दर्शनं विविधौषधैः
हस्तलाघवतो मन्त्रैरिन्द्रजालं प्रकीर्तितम् १५१५
गात्रोद्धूननमाह्लादादत्रोल्लुकसनं मतम्
किंचिदाकुञ्चिते नेत्रे स्पर्शः स्कन्धकपोलयोः
भ्रूक्षेपणं चानुभावास्तत्र स्पर्शग्रहाश्रिताः १५१६
आनन्दजस्तथा दिव्यो द्विविधोऽभिदधेऽद्भुतः
आद्यो मनोरथावाप्तेर्दिव्यवस्तूद्भवोऽपरः १५१७
इत्यद्भुतः
संसारभीरुता दोषदर्शनं विषयेषु च
योगिसङ्गो मुनीनां च श्रुताः शमदमक्षमाः १५१८
अध्यात्मविषया गोष्ठी तापसास्तापसाश्रमाः
भूरिनिर्झरझांकारि वारि तीर्थानि तीर्थिकाः १५१९
सरितः पुण्यपयसो नीवाराङ्कितसैकताः
शैवं च वैष्णवं क्षेत्रं विजनानि वनानि च १५२०
भक्ता भक्तिरसोन्मत्ताः शंकरस्य हरेरपि
विष्णुभक्तिप्रभावाद्या विभावा यत्र संमताः १५२१
मन्दस्पन्दं बहिश्चित्तमानन्दाश्रुप्लुते दृशौ
रोमाञ्चकञ्चुका मूर्तिर्मोक्षशास्त्रार्थचिन्तनम् १५२२
ब्रह्मविद्योपदेशश्च संवादस्तत्त्वगोचरः
नासाग्रानुगते नेत्रे ज्ञानमुद्राप्रदर्शनम् १५२३
इत्यादयोऽनुभावाः स्युरिमे तु व्यभिचारिणः
उन्मादः परमानन्दरसपानसमुद्भवः १५२४
हर्षो धृतिः समीचीनो विबोधश्च स्मृतिर्मतिः
निर्वेदस्तत्त्वबोधोत्थः स्थायी शान्तो भवेदसौ १५२५
रत्यादिभेदविधुरो विषयोपप्लवोज्झितः
परानन्दघनैकात्मनिर्भासः शान्त उच्यते १५२६
स्वतो विषयवैमुख्यं शमः स्थाय्यथवा भवेत्
नाट्यनिर्वाहको मध्ये मध्ये संचारिसंभवः १५२७
स्वभावेऽभिनयाः पूर्वमाङ्किका ये निरूपिताः
ते शान्तविषया यस्माच्छान्तः प्रकृतिरात्मनः १५२८
विहाय विषयौन्मुख्यं निजानन्दस्थितिर्यतः
आत्मनः कथ्यते शान्तः स्वभावोऽसौ मतस्ततः १५२९
इति शान्तः
भक्तिं स्नेहं तथा लौल्यं केचित्त्रीन्मन्वते रसान्
श्रद्धार्द्रताभिलाषांश्च स्थायिनस्तेषु ते विदुः १५३०
तदसद्रतिभेदौ हि भक्तिस्नेहौ नृगोचरौ
व्यभिचारित्वमनयोर्नृनार्योः स्थायिनौ तु तौ १५३१
अयुक्तविषया तृष्णा लौल्यं तद्धास्यकारणम्
अतो रसा नवैवेति मुनिना संप्रधारितम् १५३२
रत्यादयः स्थायिभावाः स्युर्भूयिष्ठविभावजाः
स्तोकैर्विभावैरुत्पन्नास्त एव व्यभिचारिणः
रसान्तरेष्वपि तदा यथायोगं भवन्ति ते १५३३
यथा हि हासः शृङ्गारे रतिः शान्ते च दृश्यते
वीरे क्रोधो भयं शोके ज्गुप्सा च भयानके १५३४
उत्साहविस्मयौ सर्वरसेषु व्यभिचारिणौ
शमः सर्वरसेष्वस्ति स्थैर्यत्वेऽव्यभिचार्यसौ १५३५
इति नवरसलक्षणम्
अथ व्यभिचारिणां निर्वेदादीनां लक्षणम्
आक्रोशनमधिक्षेपो व्याधिक्रोधौ च ताडनम्
दारिद्र्यमिष्टविरहः परवृद्धेश्च दर्शनम् १५३६
नीचेष्विति विभावाः स्युरुत्तमे त्वपमाननम्
तत्त्वबोधश्च यत्र स्यादनुभावास्तु रोदनम् १५३७
निश्वासोच्छ्वसिते दीनमुखता संप्रधारणम्
इत्यादयः स निर्वेदो भावः सूरिभिरिष्यते १५३८
इति निर्वेदः
व्याधिर्वान्तिर्विरेकश्चोपवासो नियमस्तपः
मनस्तापोऽतिपानाटिव्यायामसुरतानि च १५३९
निद्राछेदोऽध्वगमनं क्षुत्पिपासादयस्तथा
विभावाः स्युरथ स्रस्ताधरनेत्रकपोलता १५४०
मन्दावुत्क्षेपनिक्षेपौ पादयोस्तनुगात्रता
विवर्णशिथिलाङ्गत्वं कम्पानुत्साहतादयः
यत्र भावानुभावाः स्युः सा ग्लानिरभिधीयते १५४१
इति ग्लानिः
चौर्यराजापराधादेरकार्याद्ग्रहणं नृणाम्
अन्येषु तत्सहायेषु विभावश्चेदथाऽऽत्मनः १५४२
अन्येनादर्शने यत्र पार्श्वयोर्मुहुरीक्षणम्
कण्ठोष्ठमुखशोषश्च जिह्वायाः परिलेहनम् १५४३
वेपथुर्मुखवैवर्ण्यं गुरुविह्वलजिह्वता
उन्मुखेक्षणमित्यादिरनुभावगणो यदा १५४४
नीचेषूत्तममध्येषु नरेषु मृदुचेष्टितैः
सोत्तमानामपि स्त्रीणां भीरुत्वाद्भयकृद्भवेत् १५४५
प्रियविप्रियजा शङ्का शृङ्गारे शार्ङ्गिणोदिता
चौर्यराजापराधादिप्रभवा तु भयानके १५४६
परस्था स्वसमुत्था च द्वेधा शङ्का निगद्यते
नृषु भीरुस्वभावेषु तरलालोकनादिभिः १५४७
सापराधत्वशङ्का याऽन्येषां सा परसंस्थिता
स्वसमुत्था परे ज्ञास्यन्त्यपराधं ममेत्यसौ १५४८
स्वशङ्कायां परज्ञानशङ्का या स्वसमुत्थिता
सहभावोऽवहित्थेन शङ्काया दृश्यते रसे १५४९
इति शङ्का
नृपापराधोऽसद्दोषकीर्तनं चोपधारणम्
विभावाः स्युरथो बन्धो वधस्ताडनभर्त्सने
एते यत्रानुभावास्तदौग्र्यं निर्दयतात्मकम् १५५०
इत्यौग्र्यम्
चिन्तौत्सुक्यान्मनस्तापाद्दौर्गत्याच्च विभावतः १५५१
अनुभावात्तु शिरसो व्यावृत्तेर्गात्रगौरवात्
देहोपस्करणत्यागाद्दैन्यं भावं विभावयेत् १५५२
इति दैन्यम्
नानापराधो विद्वेषः परस्यैश्वर्यसंपदाम्
सौभग्यमेधाविद्यादेर्दर्शनं च विभावकम् १५५३
अनुभावास्त्वमर्षादिदोषोक्तिर्गुणनिह्नवः
गुणस्य दोषीकरणमप्रेक्षणमधोमुखम्
अवज्ञाभ्रुकुटीत्याद्या यत्रासूयाममूं विदुः १५५४
इत्यसूया
मद्यपानं विभावोऽथानुभावाः पञ्च यत्र च
शयनं हसनं गानं रोदनं परूषोक्तयः १५५५
उत्तमे पुरुषे स्वापो हासगाने तु मध्यमे
रोदनं पुरुषोक्तिश्च भवतः पुरुषेऽधमे १५५६
स स्यान्मदः स च त्रेधा तरुणो मध्यमोऽधमः
तरुणोऽल्पोऽधमस्त्वत्र प्रवृद्धोऽधमसंश्रयात् १५५७
सर्वेषां तरुणः प्रोक्तो मध्यमो मध्यनीचयोः
पुमांसोऽधमसत्त्वा ये तेषामेवाधमो मदः १५५८
अव्यक्तासंगतैर्वाक्यै रोमाञ्चनिचयैस्तनोः
सुकुमारस्खलद्गत्याऽभिनयेत्तरुणं मदम् १५५९
स्रस्तव्याकुलविक्षिप्तौ भुजौ स्खलितघूर्णिते
नेत्रे गतिश्च कुटिलाऽनुभावा मध्यमे मदे १५६०
गतिभङ्गः स्मृतेर्नाशो हिक्का छर्दिः कफस्नुतिः
गुर्वी जिह्वा ष्ठीवनं चानुभावाः स्युर्मदेऽधमे १५६१
रङ्गे विधाय पानं तु नाटयेन्मदवर्धनम्
पीत्वा रङ्गप्रवेशे तु मदक्षैण्याय बुद्धिमान्
हर्षशोकभयोपायान्युगपद्दर्शयेद्बहून् १५६२
इति मदः
अध्वव्यायामसेवाद्यैर्विभावैरनुभावकैः १५६३
गात्रसंवाहनैरास्यसंकोचैरङ्गमोटनैः
निश्वासैर्जृम्भितैर्मन्दैः पादक्षेपैः श्रमो यतः १५६४
इति श्रमः
विभावा यत्र दारिद्र्यमैश्वर्यं भ्रंशनं तथा
इष्टार्थापहृतिश्चाथ श्वासोच्छ्वासावधोमुखम् १५६५
संतापः स्मरणं ध्यानं कार्श्यं देहानुपस्कृतिः
अधृतिश्चानुभावाः स्युः सा चिन्ता परिकीर्तिता
वितर्कोऽस्याः क्षणे पूर्वे पाश्चात्ये वोपजायते १५६६
इति चिन्ता
विवेकः श्रुतिसंपत्तिर्गुरुभक्तिस्तपस्विता १५६७
एते विषयभावेन करणत्वेन च स्थिताः
इष्टाधिकानामिष्टानां लाभस्तु विषयत्वतः १५६८
क्रीडा करणभावेन विभावा यत्र संमताः
प्राप्तभाग्योपभोगस्य त्वप्राप्तातीतभोगयोः १५६९
जीर्णे नष्टे चाविषादो न तु शोचनमित्यपि
अनुभावद्वयं यत्र धृतिं तां ब्रुवते बुधाः १५७०
इति धृतिः
पश्चिमप्रहरे रात्रेः स्वास्थ्यं निद्राक्षयस्तथा
ध्यानं च मुहुरभ्यासः सदृशः श्रुतिदर्शने १५७१
एते यत्र विभावाः स्युरनुभावास्तु कम्पितम्
उद्वाहितं च शीर्षस्यासदृशस्यावलोकनम् १५७२
भ्रूनतिश्च स्मृतिः सा स्यात्सुखदुःखप्रदायिनाम्
चिरविस्मृतवस्तूनां स्मरणं स्मृतिरुच्यते १५७३
इति स्मृतिःगुरुव्यतिक्रमोऽवज्ञा कृते त्यागेऽनुतापिता
प्रतिज्ञातार्थनिर्वाहो विभावैरेभिरुद्गता १५७४
मुखावनमनं गूढवचनं च विचिन्तनम्
वस्त्राङ्गुलीयकस्पर्शो नखानां कर्तनं मुहुः १५७५
भुवि लेखनमित्याद्यैर्व्रीडाभावोऽनुभाव्यते
व्रीडानुतापशुचिभिर्दृष्टा कार्ये कृते सति १५७६
इति व्रीडा
देवजोपद्रवाद्देहपीडेष्टविरहादिकम्
मर्मप्रहारोऽप्यस्थाने घोरचोरादिजं भयम् १५७७
तत्प्रतीकारशून्यस्य वैरानुस्मरणादयः
विभावाः सन्ति यत्राथ पतनं देहघूर्णनम् १५७८
हृदयस्मानवस्थानमिन्द्रियाणामचेष्टता
इत्यादयोऽनुभावास्तं मोहमाहुर्मनीषिणः १५७९
पश्यतो भीतिहेतुं तत्प्रतीकारमपश्यतः
कार्यानिश्चयिनी चित्तवृत्तिर्मोहोऽभिधीयते १५८०
इति मोहः
अतितृप्तिः स्वभावश्च गर्भव्याधिश्रमादयः
विभावा अनुभावास्तु निद्रा तन्द्रासनाशनात्
ऋते सर्वक्रियाद्वेषो यत्राऽऽलस्यं तदुच्यते १५८१
इत्यालस्यम्
अमर्षप्रातिकूल्येर्ष्यारागद्वेषाश्च मत्सरः
इति यत्र विभावाः स्युरनुभावास्तु भर्त्सनम् १५८२
वाक्पारुष्यं प्रहारश्च ताडनं वधबन्धने
तच्चापलमनालोच्याकार्यकारित्वमिष्यते १५८३
इति चापलम्
देवभर्तृगुरुस्वामिप्रसादः प्रियसंगमः १५८४
मनोरथाप्तिरप्राप्यमनोरथधनागमः
समुत्पत्तिश्च पुत्रादेर्विभावो यत्र जायते १५८५
नेत्रवक्त्रप्रसादश्च प्रियोक्तिः पुलकोद्गमः
अश्रुस्वेदादयश्चानुभावा हर्षं तमादिशेत् १५८६
इति हर्षः
विद्याधनबलैश्वर्याधिकैर्मध्येसभं नृभिः
अधिक्षेपादमर्षः स्यात्प्रतीकारस्पृहात्मकः
नृणामुत्साहिनामेव स स्यात्तस्यानुभावकः १५८७
स्वेदोऽधोमुखता मूर्धकम्पो निर्लक्षचित्तता
उपायान्वेषणं चित्तोत्साहस्तस्यानुभावकाः १५८८
इत्यमर्षः
सत्युपायेऽपि कार्यस्यासिद्धिर्दुर्दैवकारिता १५८९
नृपापराधश्चौर्यादिग्रहणं च विभावकाः
सहायान्वेषणोपायचिन्तने विमनस्कता १५९०
उत्तमे मध्यमे चानुभावाश्चोत्साहसंश्रयाः
अधमे धावनं ध्यानं मुखशोषविलोकने १५९१
निद्रा निःश्वसितं सृक्कलेहनं चानुभावकाः
सन्ति यत्र विषादोऽसौ भावो भावविदां मतः १५९२
इति विषादः
देवैर्नागैस्तथा यक्षैः पिशाचैर्ब्रह्मराक्षसैः
भूताद्यैश्च ग्रहैरुग्रैरावेशस्तत्स्मृतिस्तथा १५९३
अशुचेश्चिरसंस्थानं शून्यागारस्य सेवनम्
धातुवैषम्यमित्याद्यैर्विभावैरनुभावकैः १५९४
स्पन्दनं कम्पनिःश्वासौ धावनं पतनं भुवि
जिह्वाया लेहनं स्वेदः स्तम्भो वक्त्रं च फेनिलम् १५९५
निःसंज्ञतेत्यादिभिश्चापस्मारमुपलक्षयेत् १५९६
इत्यपस्मारः
कार्याविवेको जडता पश्यतः शृण्वतोऽपि वा
तद्विभावाः प्रियानिष्टदर्शनश्रवणे रुजा १५९७
अनुभावास्तु चैवास्याः प्रतिवादावभाषणे
इष्टानिष्टापरिज्ञानं चानिमेषेक्षणादयः
सा पूर्वं परतो वा स्यान्मोहादिति विदां मतम् १५९८
इति जडता
यत्र विप्रतिपत्तिः स्यात्संशयोऽपि विमर्शनम्
पक्षयोरुभयोरुक्ते माने साधकबाधके १५९९
विभावाः स्युरिमे चानुभावाः शीर्षस्य कम्पनम्
भ्रूक्षेपश्चतुरो हस्तस्तं वितर्कं प्रचक्षते १६००
यो वितर्कान्वितस्थायी सोऽवहित्थेन युज्यते १६०१
इति वितर्कः
निद्राविभावजं सुप्तं सुप्तावस्थात्मकं मतम्
तस्यानुभावा निभृतं गात्रं नेत्रनिमीलितम्
स्वप्नप्रलापनं श्वासोच्छ्वासौ बाह्याक्षलीनता १६०२
इति सुप्तम्
संजातमिष्टविरहादुद्दीप्तं प्रियसंस्मृतेः १६०३
निद्रया तन्द्रया गात्रगौरवेण च चिन्तया
अनुभावितमाख्यातमौत्सुक्यं भावकोविदैः १६०४
इत्यौत्सुक्यम्
अनुभावपिधानार्थोऽवहित्थं भाव उच्यते १६०५
तद्विभाव्यं भयव्रीडाधार्ष्ट्यकौटिल्यगौरवैः
गर्वादगणनेनापि तस्येते त्वनुभावकाः १६०६
प्रियादिगोचरकथाभङ्गो धैर्यं च कृत्रिमम्
अन्यथाकथनं तद्वदन्यथा वेक्षणादयः १६०७
इत्यवहित्थम्
अ पूर्वप्रतिभानं स्यान्मतिस्तां तु विभावयेत्
अन्वयव्यतिरेकोत्थैः प्रत्ययैः शास्त्रचिन्तनैः १६०८
ऊहापोहैश्च विविधैरथ तामनुभावयेत्
संदंशचतुराद्यैश्च करैरुत्क्षेपणैर्भ्रुवोः १६०९
नानाशास्त्रार्थविषयैः शिष्याणामुपदेशनैः
तर्काख्यौ प्रत्ययावूहापोहौ विधिनिषेधयोः १६१०
इति मतिः
स्वप्नान्तनिद्राछेदाभ्यामाहारपरिणामतः
शब्दस्पर्शादिभिः स्वप्नैः स्मृतैर्वा जाग्रति स्थितैः १६११
विभाव्यतेऽथ जृम्भाक्षिमर्दनैः शयनोद्गमैः
अङ्गुलित्रोटनैरङ्गवलनैर्योऽनुभाव्यते १६१२
भुजविक्षेपणैः श्वासैर्विबोधप्रतिबोधनम्
सम्यग्बोधोऽथवा लोकात्तद्विभावानुभावधीः १६१३
इति बोधः
एकैकशो द्वंद्वशो वा त्रयाणां वा प्रकोपतः
वातपित्तकफानां भावो व्याधिरित्यभिधीयते
स्तम्भाङ्गस्रंसविक्षिप्तगात्रसंकुचिताननैः १६१५
उत्क्रोशकम्पस्तनितैश्चाभिनेयो ज्वरः पुनः
कामजोऽप्यस्ति स द्वेधा शीतदाहप्रवर्तनात् १६१६
हनुचालेन सर्वाङ्गकम्पेन मुखशोषतः
परिदेवनरोमाञ्चमुखसंकोचनादिभिः १६१७
शीतज्वरोऽभिनेयोऽथ दाहकोऽम्बुपिपासया
कराङ्गगात्रविक्षेपाद्भूमिशय्याभिलाषतः
शीतानुलेपनाकाङ्क्षाविकृष्टपरिदेवनैः १६१८
इति व्याधिः
उत्तमानां विप्रलम्भे भवेत्प्रियवियोगतः
नीचानां विभवभ्रंशात्सर्वेषां संनिपाततः १६१९
अभिघातात्तथोन्मादस्तमेभिरनुभावयेत्
विना निमित्तं हसितं रुदितं पठितं तथा १६२०
नृत्तं गीतं च शयनोपवेशोत्थानधावनम्
असंबद्धप्रलपनं चोद्वृत्तिर्धूलिभस्मनोः १६२१
कपालचीरनिर्माल्याद्यलंकरणमित्यपि
उन्मादः पृथगुक्तोऽयं व्याधिष्वन्तर्भवन्नपि १६२२
अयं हि विप्रलम्भादौ वैचित्र्यं कुरुते तमाम्
अपस्मारोऽप्येवमेव बीभत्से च भयानके १६२३
इत्युन्मादः
कुलरूपबलैश्वर्यविद्याद्रविणयौवनैः १६२४
नीचानां जायते गर्वः प्राधान्येन मुहुर्मुहुः
विद्युद्वदुत्तमानां तु बाहुल्यात्त्वेष योषिताम् १५२५
उद्ग्रीवावेक्षणावज्ञासूयानुत्तरदानतः
अभाषणादमर्षाच्च पारुष्याद्विभ्रमादपि १६२६
अङ्गनेत्रविकाराच्चाधिक्षेपातिक्रमाद्गुरोः
तस्याभिनयनं कार्यमित्याह करणाग्रणीः १६२७
वागङ्गसात्त्विकाहार्यक्रियाव्यत्यासनं भवेत्
विभ्रमो योषितां हर्षानुरागमदगर्वजः १६२८
इति गर्वः
अधीराणां जातमात्रे शोकेऽनन्तरमुद्भवेत्
आवेगः प्रबलोऽयं तु धीरैर्धैर्यान्निरूप्यते १६२९
असौ प्रतिविभावं च पृथक्चित्रानुभावभाक्
अतो विभावरूपाणां हेतूनां भेदतोऽष्टधा १६३०
उत्पातवातवर्षाग्निकुञ्जरोद्धमणानि च
प्रियाप्रियश्रुतिर्वैरव्यसनं चेति हेतवः १६३१
विद्युदुल्कानिपाताभ्यां निर्घाताद्भूमिकम्पनात्
सूर्यचन्द्रोपरागाभ्यामावेगः केतुदर्शनात् १६३२
उत्पातजोऽस्यानुभावो वैवर्ण्यं स्रस्तगात्रता १६३३
विषादविस्मयगतानुभावाश्चेह संमताः
वातजे त्वत्र वस्त्रेण पिधानं नेत्रमर्दनम् १६३४
त्वरितागमनं चानुभावाः स्युर्वर्षजे पुनः
सर्वाङ्गपीडनं गेहाद्याश्रयः शीघ्रधावनम् १६३५
अग्निजे धूतिरङ्गानां धूमाकुलितनेत्रता
चार्याऽतिक्रान्तया चापक्रान्तया चरणं भवेत् १६३६
कुञ्जराणां निरवधिभ्रमणाद्यस्तु जायते
सरणापसृती तत्र त्वरिते भयवेपथुः १६३७
विस्मयो वीक्षणं पश्चात्प्रियश्रवणजे पुनः
वस्त्राभरणदानं चाभ्युत्थानं परिरम्भणम् १६३८
कथायामश्रुरोमाञ्चाश्चाप्रियश्रुतिजे त्वमी
विलापः पतनं भूमौ चलनं परिवर्तनम् १६३९
परिभावनमित्याद्या वैरिव्यसनजे त्वमी
सहसाऽपसृतिः शस्त्रचर्मवर्मादिधारणम् १६४०
गजानां तुरगाणां चाऽऽरोहणं संप्रधारणम्
पृथगित्यनुभावाः स्युरावेगे संभ्रमात्मके १६४१
इत्यावेगः
मरणं द्विविधं प्रोक्तं व्याधिजं चापघातजम्
दोषवैषम्यजैर्गण्डज्वराद्यैर्व्याधिजं भवेत् १६४२
वातपित्तकफा दुष्टा दोषत्वेनेह संमताः
शस्त्रादिविषतोयेभ्यः श्वापदात्तुरगाद्गजात् १६४३
अग्न्युच्चपतनादिभ्यो जातं स्यादभिघातजम्
निश्चेष्टप्रसृतैरङ्गैर्मीलनेन च नेत्रयोः १६४४
हिक्कोर्ध्वश्वासवमनजनतापरिवारणैः
अव्यक्ताक्षरभाषाद्यैर्व्याधिजस्यानुभावनम् १६४५
शस्त्रजे सहसा भूमौ पतनं च विकम्पनम्
स्फुरणादि प्रयोक्तव्यमथाहिविषपानजे १६४६
अनुभावा भवन्त्यष्टौ विषवेगात्क्रमादिमे
कार्ष्ण्यवेपथुदाहाश्च हिक्काफेनश्च पञ्चमः १६४७
स्कन्धभङ्गश्च जडता मरणं चेति संमताः
अभिघातान्तरोद्भूतेऽनुभावाः शस्त्रजातवत् १६४८
व्याध्यादेरनिवर्त्यत्वान्निश्चिते मरणे सति
अत्र प्राङ्निधनाच्चित्तवृत्तिर्मरणमिष्यते १६४९
इति मरणम्
गात्रोत्कम्पी चमत्कारः सहसा त्रास उच्यते
तस्योत्पाताद्घोरनादश्रुतेर्भीषणदर्शनात् १६५०
उत्पत्तिरनुभावास्तु गात्रसंकोचकम्पने
स्तम्भो गद्गदशब्दश्च रोमाञ्चाः स्रस्तगात्रता १६५१
निमीलनं लोचनयोः प्रलयश्चेति कीर्तिताः
पूर्वापरविचारोत्थं भयं त्रासात्पृथग्भवेत् १६५२
इति त्रासः
निद्रेन्द्रियाणां प्रथमा निवृत्तिः स्वस्वगोचरात्
अत्याहारः स्वभावश्च चिन्तालस्ये मदः क्लमः १६५३
व्याख्यानादिप्रयासेन वैलक्षण्यं च हेतवः
निद्रायामनुभावाः स्युर्जृम्भावदनगौरवम् १६५४
शरीरलोलनं नेत्रघूर्णनं गात्रमोटनम्
निःश्वासोच्छ्वसितं स्रस्तगात्रताऽक्षिनिमीलनम् १६५५
इति निद्रा
त्रयस्त्रिंशद्विचित्रत्वकारित्वात्स्थायिनं रसम्
कुर्वन्तीति मया प्रोक्ताः सन्ति त्वन्ये सहस्रशः १६५६
अन्तर्भावोऽस्ति केषांचिदभिलाषस्य वा रतौ १६५७
अवहित्थे तु दम्भस्य ग्लानौ क्षुत्तृष्णयोर्यथा
उद्वेगस्य तु निर्वेदेऽन्येषामप्येवमूह्यताम् १६५८
इति त्रयस्त्रिंशद्व्यभिचारिभावाः
अथ सात्त्विकलक्षणम्
उक्तै रत्यादिभिर्भावैः संविद्विक्रियते यदा
प्राणेऽध्यस्यति साऽऽत्मानं देहं प्राणस्तनोति सः
तदा स्तम्भादयो देहे विकाराः प्रभवन्त्यमी १६५९
एवं सति स्वाद्यमानरत्यादिस्वैर्विभावकैः
विभाविता देहसंस्थैः स्तम्भाद्यैरनुभाविताः १६६०
अध्यस्तसंविदि प्राणे प्रकाशन्तेऽन्तरे भवाः
एते स्युः सात्त्विका भावाः सत्त्वप्राणप्रकाशनात् १६६१
सांख्योक्तो वा गुणः सत्त्वं साधुत्वं वा तदुच्यते
निर्मलप्राणदेहत्वं साधुत्वमिह संमतम्
तत्र सत्त्वे भवा भावाः सात्त्विकाः संमताः सताम् १६६२
चत्वारि क्ष्मादिभूतानि प्राधान्येनावलम्बते
कदाचित्स्वप्रधानः सन्देहे प्राणश्चरत्ययम् १६६३
यदाऽध्यास्ते धरां स्तम्भं भावं भावयते तदा
प्राणाज्जलस्थादश्रूणि तेजःस्थात्तु विवर्णता १६६४
स्वेदश्चाऽऽकाशनिष्ठात्तु प्रलयो जायते ततः
स्वतन्त्रोऽसौ क्रमान्मन्दमध्यतीव्रत्वभेदभाक् १६६५
रोमाञ्चं वेपथुमथ स्वरभेदं च भावयेत् १६६६
बाह्याः स्तम्भादयो देहे नृणां देहात्ममानिनाम्
सुलभा दुर्लभास्त्वेते सतामनभिमानिनाम् १६६७
हर्षाद्रागाद्भयाद्दुःखाद्विषादाद्विस्मयाद्रुषः
विक्षेपाच्च भवेत्स्तम्भोऽनुभावा जाड्यशून्यते
निःसंज्ञस्तब्धगात्रत्वे निश्चेष्टत्वाप्रकम्पने १६६८
इति स्तम्भः
मनस्तापो रुजा हर्षो लज्जा क्रोधो भयं श्रमः
पीडाऽऽघातातपौ मोहव्यायामौ च विभावकाः १६६९
व्यजनग्रहणं स्वेदोऽप्यरालो भालमार्जकः
इत्येतेऽभिनया यत्र तं स्वेदं जगदुर्बुधाः १६७०
इति स्वेदः
आलिङ्गनाच्छुरितके शीतहर्षभयक्रुधः १६७१
विभावयन्ति रोमाञ्चं व्यक्तस्याभिनयास्त्वमी
गात्रस्पर्शोल्लुकुसने मुहुः कण्टकिता तनुः १६७२
इति रोमाञ्चः
औग्र्यरोगजराक्रोधभयहर्षमदादयः
विभावा विस्वरो भिन्नो गद्गदश्च ध्वनिर्भवेत् १६७३
अनुभावस्तदा भावः स्वरभेदोऽभिधीयते
स्थानभ्रष्टो विस्वरः स्याद्विच्छिन्नो भिन्नसंज्ञकः
अव्यवस्थिततानोच्चनीचभावस्तु गद्गदः १६७४
इति स्वरभेदः
आलिङ्गनाच्छुरितके हर्षो रोषो भयं जरा
विभावाः शीतरोगौ च यत्रैते त्वनुभावकाः १६७५
वेपनं स्फुरणं कम्पो वेपथुं कथयन्ति तम्
वेपनाद्याः कम्पभेदाः पूर्वात्सातिशयः परः १६७६
इति वेपथुः
रोगमोहभयक्रोधशीततापश्रमैर्भवेत् १६७७
वैवर्ण्यमस्याभिनयो नाडीपीडनयोगतः
सिन्दूराद्येन वा वर्णान्तरसंचारणं मुखे १६७८
इति वैवर्ण्यम्
हर्षामर्षाञ्जनाद्धूमाद्भयाच्छोकाच्च जृम्भणात्
अनिमेषेक्षणाच्छीताद्रोगाद्भावोऽश्रु जायते
तं चानुभावयेदश्रुस्रवणैर्नेत्रमार्जनैः १६७९
इत्यश्रु
मदमूर्छाभिघातेभ्यो निद्रामोहश्रमादिभिः
प्रलयः स्यादभिनयेन्महीनिपतनेन तम् १६८०
इति प्रलयः
इत्युक्तास्त्रिविधा भावाः स्थायिनो व्यभिचारिणः
सात्त्विकाश्च रसेषु स्युः सर्वे सर्वेषु सात्त्विकाः १६८१
एकः कार्यो रसः स्थायी रसानां नाटके सदा
रसास्तदनुयायित्वादन्ये तु व्यभिचारिणः १६८२
विरोधिनो रसास्तेषु संदर्भ्यः पृथगाश्रयः
गुम्फश्चित्रो रसानां स्यान्नाट्ये कुसुमगुम्फवत्
स्थायी तु सूत्रस्थानीयो रसो रसविदां मतः १६८३
सूरिश्रीशारङ्गदेवेन नाट्यवेदाम्बुधेरिदम्
समस्तमुद्धृतं सारं धीरैरातृप्ति सेव्यताम् १६८४
ग्रन्थे मदीये यदि कश्चिदस्ति गुणस्ततस्तस्य परिग्रहाय
नाभ्यर्थये वः सुधियः परेषां गुणोऽणुरप्यद्रिसमो भवत्सु १६८५
सावद्यता वा निरवद्यताऽस्तु ग्रन्थे मयाऽत्र ग्रथिते तया किम्
आराधने वः प्रवणा मतिर्मे सन्तो गुणः कं ननु नातिशेते १६८६
युष्मत्क्षोदक्षमं वस्तु कियत्रास्ति जगत्त्रये
किं तुमत्प्रेमतः सन्तः पुरस्कुरुत मे कृतिम् १६८७
यद्वा पुराणं पन्थानं मुनीनामहमन्वगाम्
स्निह्यन्ति च निसर्गेण सन्तः सन्मार्गगामिनि १६८८
आरिराधयिषोः साधून्किं प्रज्ञाविभवेन मे
राममानन्दयन्ति स्म तिर्यञ्चोऽपि कपीश्वराः १६८९
न विद्यादर्पतो ग्रन्थप्रवृत्तिर्मम किं त्विदम्
विद्वन्मानसवासाय गन्तुं पाथेयमास्थितम् १६९०
इति श्रीमदनवद्यविद्याविनोदश्रीकरणाधिपतिश्रीसोढलदेवनन्दननिःशङ्कश्रीशार्ङ्गदेवविरचिते संगीतरत्नाकरे सप्तमो नर्तनाध्यायः समाप्तः ७
समाप्तिमगमदयं कलानिधिसमेतः संगीतरत्नाकरः