सङ्गीतरत्नाकरः/प्रकीर्णकाध्यायः
सङ्गीतरत्नाकरः
- अथ प्रकीर्णकाख्यस्तृतीयोऽध्यायः
- अथ प्रकीर्णकं कर्णरसायनमनाकुलम्
- देशीमार्गाश्रयं वक्ति शार्ङ्गदेवो विदां वरः १
- वाङ्मातुरुच्यते गेयं धातुरित्यभिधीयते
- वाचं गेयं च कुरुते यः स वाग्गेयकारकः २
- शब्दानुशासनज्ञानमभिधानप्रवीणता
- छन्दःप्रभेदवेदित्वमलंकारेषु कौशलम् ३
- रसभावपरिज्ञानं देशस्थितिषु चातुरी
- अशेषभाषाविज्ञानं कलाशास्त्रेषु कौशलम् ४
- तूर्यत्रितयचातुर्यं हृद्यशारीरशालिता
- लयतालकलाज्ञानं विवेकोऽनेककाकुषु ५
- प्रभूतप्रतिभोद्बेदभाक्त्वं सुभगगेयता
- देशीरागेष्वभिज्ञत्वं वाक्पटुत्वं सभाजये ६
- रागद्वेषपरित्यागः सार्द्रत्वमुचितज्ञता
- अनुच्छिष्टोक्तिनिर्बन्धो नूत्नधातुविनिर्मितिः ७
- परचित्तपरिज्ञानं प्रबन्धेषु प्रगल्भता
- द्रुतगीतविनिर्माणं पदान्तरविदग्धता ८
- त्रिस्थानगमकप्रौढिर्विविधालप्तिनैपुणं
- अवधानं गुणैरेभिर्वरो वाग्गेयकारकः ९
- विदधानोऽधिकं धातुं मातुमन्दस्तु मध्यमः
- धातुमातुविदप्रौढः प्रबन्धेष्वपि मध्यमः १०
- रम्यमातुविनिर्माताऽप्यधमो मन्दधातुकृत्
- वरो वस्तुकविर्वर्णकविर्मध्यम उच्यते
- कुट्टिकारोऽन्यधातौ तु मातुकारः प्रकीर्तितः ११
- इति वाग्गेयकारलक्षणम्
- मार्गं देशीं च यो वेत्ति स गान्धर्वोऽभिधीयते
- इति गान्धर्वः
- यो वेत्ति केवलं मार्गं स्वरादिः स निगद्यते १२
- इति स्वरादिः ।
- हृद्यशब्दः सुशारीरो ग्रहमोक्षविचक्षणः
- रागरागाङ्गभाषाङ्गक्रियाङ्गोपाङ्गकोविदः १३
- प्रबन्धगाननिष्णातो विविधालप्तितत्त्ववित्
- सर्वस्थानोच्चगमकेष्वनायासलसद्गतिः १४
- आयत्तकण्ठस्तालज्ञः सावधानो जितश्रमः
- शुद्धच्छायालगाभिज्ञः सर्वकाकुविशेषवित् १५
- अपारस्थायसंचारः सर्वदोषविवर्जितः
- क्रियापरो जक्वलयः सुघटो धारणान्वितः १६
- स्फूर्जन्निर्जवनो हारिरहःकृद्भजनोद्घुरः
- सुसंप्रदायो गीतज्ञैर्गीयते गायनाग्रणीः १७
- गुणैः कतिपयैर्हीनो निर्दोषो मध्यमो मतः
- महामाहेश्वरेणोक्तः सदोषो गायनोऽधमः १८
- शिक्षाकारोऽनुकारश्च रसिको रञ्जकस्तथा
- भावुकश्चेति गीतज्ञः पञ्चधा गायनं जगुः १९
- अन्यूनशिक्षणे दक्षः शिक्षाकारो मतः सताम्
- अनुकार इति प्रोक्तः परभङ्ग्यनुकारकः २०
- रसाविष्टस्तु रसिको रञ्जकः श्रोतृरञ्जकः
- गीतस्यातिशयाधानाद्भावुकः परिकीर्तितः २१
- एकल्लो यमलो वृन्दगायनश्चेति ते त्रिधा
- एक एव तु यो गायेदसावेकल्लगायनः २२
- सद्वितीयो यमलकः सवृन्दो वृन्दगायनः
- रूपयौवनशालिन्यो गायिन्यो गातृवन्मताः
- माधुर्यधुर्यध्वनयश्चतुराश्चतुरप्रियाः २३
- संदष्टोद्घृष्टसूत्कारिभीतशङ्कितकम्पिताः
- कराली विकलः काकी वितालकरभोद्वडाः २४
- झोम्बकस्तुम्बकी वक्री प्रसारी विनिमीलकः
- विरसापस्वराव्यक्तस्थानभ्रष्टाव्यवस्थिताः २५
- मिश्रकोऽनवधानश्च तथाऽन्यः सानुनासिकः
- पञ्चविंशतिरित्येते गायना निन्दिता मताः २६
- संदश्य दशनान्गायन्संदष्टः परिकीर्तितः
- उद्घृष्टो विरसोद्घोषः सूत्कारी सूत्कृतैर्मुहुः २७
- भीतो भयान्वितो गाता त्वरया शङ्कितो मतः
- कम्पितः कम्पनाज्ज्ञेयः स्वभावाद्गात्रशब्दयोः २८
- कराली गदितः सद्भिः करालोद्घाटिताननः
- विकलः स तु यो गायेत्स्वरान्न्यूनाधिकश्रुतीन् २९
- काकक्रूररवः काकी वितालस्तालविच्युतः
- दधानः कन्धरामूर्ध्वां करभोऽभिहितो बुधैः ३०
- छागवद्वदनं कुर्वन्नुद्वडोऽधमगायनः
- शिरालभालवदनग्रीवो गाता तु झोम्बकः ३१
- तुम्बकी तुम्बकाकारोत्फुल्लगल्लस्तु गायनः
- वक्री वक्रीकृतगलो गायन्धीरैरुदीरितः ३२
- प्रसारी गीयते तज्ज्ञैर्गात्रगीतप्रसारणात्
- निमीलको मतो गायन्निमीलितविलोचनः ३३
- विरसो नीरसो वर्ज्यस्वरगानादपस्वरः
- गद्गदध्वनिरव्यक्तवर्णस्त्वव्यक्त उच्यते ३४
- स्थानभ्रष्टः स यः प्राप्तुमशक्तः स्थानकत्रयम्
- अव्यवस्थित इत्युक्तः स्थानकैरव्यवस्थितैः ३५
- शुद्धच्छायालगौ रागौ मिश्रयन्मिश्रकः स्मृतः
- इतरेषां च रागाणां मिश्रको भूरिमिश्रणात् ३६
- स्थाय्यादिष्ववधानेन निर्मुक्तोऽनवधानकः
- गेयं नासिकया गायन्गीयते सानुनासिकः ३७
- इति गायनदोषाः ।
- चतुर्भेदो भवेच्छब्दः खाहुलो नारटाभिधः
- बोम्बको मिश्रकश्चेति तल्लक्षणमथोच्यते ३८
- कफजः खाहुलः स्निग्धमधुरः सौकुमार्ययुक्
- आडिल्ल एष एव स्यात्प्रौढश्चेन्मन्द्रमध्ययोः ३९
- त्रिस्थानघनगम्भीरलीनः पित्तोद्भवो ध्वनिः
- नाराटो बोम्बकस्तु स्यादन्तर्निःसारतायुतः ४०
- परुषोच्चैस्तरः स्थूलो वातजः शार्ङ्गिणोदितः
- एतत्संमिश्रणादुक्तो मिश्रकः सांनिपातिकः ४१
- तनुरूक्षगुणो बोम्बः खाहुलः स्निग्धतायुतः
- कथं तयोर्मिश्रणं स्याद्विरुद्धगुणयोगिनोः ४२
- अत्रोच्यते परित्यागात्पारुष्यस्य विरोधिनः
- अविरुद्धस्य माधुर्यस्थौल्यादेर्मिश्रणं मतम् ४३
- एतेन घननिःसारगुणनाराटबोम्बयोः
- विरुद्धगुणताक्षेपसमाधाने निवेदिते ४४
- मिश्रस्य भेदाश्चत्वारो युक्तौ नाराटखाहुलौ
- नाराटबोम्बकौ बोम्बखाहुलौ मिश्रितास्त्रयः ४५
- निःसारतारूक्षताभ्यां हीनस्त्रितयमिश्रणात्
- उत्तमोत्तम इत्युक्तः सुराणामिव शंकरः ४६
- नाराटखाहुलोन्मिश्र उत्तमः खाहुलः पुनः
- बोम्बयुक्तो मध्यमः स्याद्बोम्बो नाराटसंयुतः ४७
- शब्दानामधमः प्रोक्तः श्रीमत्सोढलसूनुना
- निःसारतारूक्षताभ्यां युक्तः सर्वोऽधमो मतः ४८
- भवन्ति बहवो भेदा नानातद्गुणमिश्रणात्
- कश्चित्स्यान्मधुरस्निग्धघनोऽन्यः स्निग्धकोमलः ४९
- घनोऽपरस्तु मधुरमृदुत्रिस्थानकोऽन्यकः
- मृदुत्रिस्थानगम्भीरोऽपरः स्निग्धो मृदुर्घनः ५०
- त्रिस्थानोऽन्यस्तु मधुरमृदुस्त्रिस्थानको घनः
- अन्यस्तु मधुरस्निग्धमृदुत्रिस्थानकोऽपरः ५१
- मधुरस्निग्धगम्भीरघनत्रिस्थानकोऽपरः
- स्निग्धकोमलगम्भीरघन्त्रिस्थानलीनकः ५२
- अपरः स्निग्धमधुरकोमलः सान्द्रलीनकः
- त्रिस्थानशोभी गम्भीर इति भेदा दशोदिताः ५३
- खाहुलोन्मिश्रनाराटे ततः खाहुलबोम्बयोः
- स्निग्धकोमलनिःसार एकोऽन्यो मधुरो मृदुः ५४
- रूक्षोऽन्यस्तु मृदुस्निग्धनिःसारोच्चतरः परः
- कोमलस्निग्धनिःसारः स्थूलोऽन्यः स्निग्धकोमलः ५५
- रूक्षनिःसारपीनश्च भेदाः षडिति कीर्तिताः
- नाराटे बोम्बभेदाः स्युर्घनत्रिस्थानरूक्षकः ५६
- एकोऽन्यो घनगम्भीररूक्षोऽन्यो लीनपीवरः
- निःसाररूक्षोऽन्यो लीनघनोच्चतरपीवरः ५७
- त्रिस्थानघनगम्भीरलीनरूक्षोऽपरः परः
- त्रिस्थानलीननिःसाररूक्षस्थूलः षडित्यमी ५८
- एते द्वंद्वजभेदाः स्युरथैते सांनिपातिकाः
- स्निग्धत्रिस्थाननिःसारोऽन्यो मृदुर्मधुरो घनः ५९
- गम्भीरोच्चतरो रूक्षः परस्तु स्निग्धकोमलः
- घनलीनः पीवरोच्चतरोऽन्यः स्निग्धकोमलः ६०
- त्रिस्थानलीननिःसारपीवरोच्चतरोऽपरः
- कीर्तितो मधुरो लीनत्रिस्थानो रूक्षपीवरः ६१
- निःसारोच्चैस्तरोऽन्यस्तु मधुरस्निग्धकोमलः
- त्रिस्थानघनगम्भीरलीन उच्चैस्तरः परः ६२
- मधुरो मृदुगम्भीरलीनत्रिस्थानरूक्षकः
- निःसारोच्चैस्तरोऽन्यस्तु कोमलो मधुरो घनः ६३
- लीनत्रिस्थानरूक्षोच्चतरपीवरतायुतः
- अष्टाविति त्रिमिश्रस्य भेदाः सर्वे तु मिश्रजाः ६४
- मिलिता मुग्धबोधाय त्रिंशन्निःशङ्ककीर्तिताः
- अन्येषां सूक्ष्मभेदानां नान्तोऽस्ति गुणसंकरात्
- ते ग्रन्थविस्तरत्रासादस्माभिर्न समीरिताः ६५
- इति शब्दभेदलक्षणम्
- मृष्टो मधुरचेहालत्रिस्थानकसुखावहाः
- प्रचुरः कोमलो गाढः श्रावकः करुणो घनः ६६
- स्निग्धः श्लक्ष्णो रक्तियुक्तश्छविमानिति सूरिभिः
- गुणैरेभिः पञ्चदशभेदः शब्दो निगद्यते ६७
- श्रोत्रनिर्वापको मृष्टत्रिषु स्थानेष्वविस्वरः
- मधुरः कीर्तितस्तारः प्रौढो मधुररञ्जकः ६८
- नातिस्थूलो नातिकृशः स्निग्धश्चेहालको घनः
- आकण्ठकुण्ठनं स स्यात्पुंसां स्त्रीणां तु सर्वदा ६९
- त्रिषु स्थानेष्वेकरूपश्छविरक्त्यादिभिर्गुणैः
- त्रिस्थानो मनसो यस्तु सुखदः स सुखावहः ७०
- श्रीशंकरप्रियेणोक्तः प्रचुरस्थूलतायुतः
- कोमलोऽन्वर्थनामैव कोकिलाध्वनिवन्मतः ७१
- गाढस्तु प्रबलो दूरश्रवणाच्छ्रावको मतः
- करुणः श्रोतृचित्तस्य करुणारसदीपकः ७२
- दूरश्रवणयोग्यस्तु घनोऽन्तःसारतायुतः
- अरूक्षो दूरसंश्राव्यो बुधैः स्निग्धो ध्वनिः स्मृतः ७३
- श्लक्ष्णस्तु तैलधारावदच्छिद्रो धीरसंमतः
- अनुरक्तेस्तु जनको रक्तिमानभिधीयते ७४
- धातुर्विमलकण्ठत्वाद्यः प्राज्ञैरुपलक्ष्यते
- उज्ज्वलोऽयमिति प्रोक्तश्छविमानिति स ध्वनिः ७५
- इति शब्दगुणाः
- रूक्षस्फुटितनिःसारकाकोलीकेटिकेणयः
- कृशो भग्न इति प्रोक्ता दुष्टस्याष्टौ भिदा ध्वनेः ७६
- रूक्षः स्निग्धत्वनिर्मुक्तः स्प्ल्हुटितोऽन्वर्थनामकः
- एरण्डकाण्डनिःसारो निःसार इति कीर्तितः ७७
- काकोलिकाख्यः काकोलकुलनिर्घोषनिष्ठुरः
- स्थानत्रयप्राप्तिमुक्तो निर्गुणः केटिरुच्यते ७८
- कृच्छ्रोन्मीलन्मन्द्रतारः केणिरित्यभिधीयते
- अतिसूक्ष्मः कृशो भग्नः खरोष्ट्रध्वनिनीरसः ७९
- इति शब्ददोषाः
- रागाभिव्यक्तिशक्तत्वमनभ्यासेऽपि यद्ध्वनेः
- तच्छारीरमिति प्रोक्तं शरीरेण सहोद्भवात् ८०
- तारानुध्वनिमाधुर्यरक्तिगाम्भीर्यमार्दवैः
- घनतास्निग्धताकान्तिप्राचुर्यादिगुणैर्युतम् ८१
- तत्सुशारीरमित्युक्तं लक्ष्यलक्षणकोविदैः
- अनुध्वानविहीनत्वं रूक्षत्वं त्यक्तरक्तिता ८२
- निःसारता विस्वरता काकित्वं स्थानविच्युतिः
- कार्श्यं कार्कश्यमित्याद्यैः कुशारीरं कुदूषणैः ८३
- विद्यादानेन तपसा भक्त्या वा पार्वतीपतेः
- प्रभूतभाग्यविभवैः सुशारीरमवाप्यते ८४
- इति शारीरलक्षणम्
- स्वरस्य कम्पो गमकः श्रोतृचित्तसुखावहः
- तस्य भेदास्तु तिरिपः स्फुरितः कम्पितस्तथा ८५
- लीन आन्दोलितवलित्रिभिन्नकुरुलाहताः
- उल्लासितः प्लावितश्च गुम्फितो मुद्रितस्तथा
- नामितो मिश्रितः पञ्चदशेति परिकीर्तिताः ८६
- लघिष्ठडमरुध्वानकम्पानुकृतिसुन्दरः
- द्रुततुर्यांशवेगेन तिरिपः परिकीर्तितः ८७
- वेगे द्रुततृतीयांशसंमिते स्फुरितो मतः
- द्रुतार्धमानवेगेन कम्पितं गमकं विदुः ८८
- लीनस्तु द्रुतवेगेनाऽऽन्दोलितो लघुवेगतः
- वलिर्विविधवक्रत्वयुक्तवेगवशाद्भवेत् ८९
- त्रिभिन्नस्तु त्रिषु स्थानेष्वविश्रान्तघनस्वरः
- कुरुलो वलिरेव स्याद्ग्रन्थिलः कण्ठ्यकोमलः ९०
- स्वरमग्रगमाहत्य निवृत्तस्त्वाहतो मतः
- उल्लासितः स तु प्रोक्तो यः स्वरानुत्तरोत्तरान् ९१
- क्रमाद्गच्छेत्प्लावितस्तु प्लुतमानेन कम्पनम्
- हृदयंगमहुंकारगम्भीरो गुम्फितो भवेत् ९२
- मुखमुद्रणसंभूतो मुद्रितो गमको मतः
- स्वराणां नमनादुक्तो नामितो ध्वनिवेदिभिः ९३
- एतेषां मिश्रणान्मिश्रस्तस्य स्युर्भूरयो भिदाः
- तासां तु स्थायवागेषु विवृतिः संविधास्यते ९४
- इति गमकलक्षणम्
- रागस्यावयवः स्थायो वागो गमक उच्यते
- तत्रोक्तं लक्ष्म वागानां स्थायानां तूच्यतेऽधुना ९५
- वागानामपि केषांचित्प्रसङ्गाद्वच्मि लक्षणम् ९६
- ते च शब्दस्य ढलस्य लवन्या वहनेरपि
- वाद्यशब्दस्य यन्त्रस्य च्छायायाः स्वरलङ्घितः
- प्रेरितस्तीक्ष्ण इत्युक्ता व्यक्तासंकीर्णलक्षणाः ९७
- इत्यसंकीर्णलक्षणाः प्रसिद्धा दश स्थायाः
- भजनस्य स्थापनाया गतेर्नादध्वनिच्छवेः
- रक्तेर्धृतस्य शब्दस्य भृतस्यांशावधानयोः ९८
- अपस्थानस्य निकुतेः करुणाविविधत्वयोः
- गात्रोपशमयोः काण्डारणानिर्जवनान्वितौ ९९
- गाढो ललितगाढश्च ललितो लुलितः समः
- कोमलः ह्प्रसृतः स्निग्धचोक्षोचितसुदेशिकाः १००
- अपेक्षितश्च घोषश्च स्वरस्यैते प्रसिद्धितः
- स्थायानां गुणभेदेन व्यपदेशा निरूपिताः १०१
- इति त्रयस्त्रिंशद्गणकृतभेदाः प्रसिद्धाः स्थायाः
- वहाक्षराडम्बरयोरुल्लासिततरङ्गितौ
- प्रलम्बितोऽवस्खलितस्त्राटितः संप्रविष्टकः १०२
- उत्प्रविष्टो निःसरणो भ्रामितो दीर्घकम्पितः
- प्रतिग्राह्योल्लासितश्च स्यादलम्बविलम्बिकः १०३
- स्यात्त्रोटितप्रतीष्टोऽपि प्रसृताकुञ्चितः स्थिरः
- स्थायुकः क्षिप्तसूक्ष्मान्तावित्यसंकीर्णलक्षणाः १०४
- इतीषत्प्रसिद्धा विंशतिरसंकीर्णलक्षणाः
- प्रकृतिस्थस्य शब्दस्य कलाक्रमणयोरपि
- घटनायाः सुखस्यापि चाले जीवस्वरस्य च
- वेदध्वनेर्घनत्वस्य शिथिलोऽवघटः प्लुतः १०५
- रागेष्टोपस्वराभासो बद्धः कलरवस्य च
- छान्दसः सुकराभासः संहितो लघुरन्तरः १०६
- वक्रो दीप्तप्रसन्नश्च स्यात्प्रसन्नमृदुर्गुरुः
- ह्रस्वः शिथिलगाढश्च दीर्घोऽसाधारणस्ततः
- साधारणो निराधारो दुष्कराभासनामकः १०७
- मिश्रश्चैतेऽपि संकीर्णा गुणैर्भिन्नाश्च पूर्ववत् १०८
- इतीषत्प्रसिद्धास्त्रयस्त्रिंशद्गुणभिन्नाः
- इति षण्णवतिः स्थायाः शार्ङ्गदेवेन कीर्तिताः १०९
- मुक्तशब्दप्रतिग्राह्याः स्थायाः शब्दस्य कीर्तिताः
- ढालो मुक्ताफलस्येव चलनं लुण्ठनात्मकम् ११०
- स एषु ते स्युर्ढालस्य नमनं त्वतिकोमलम्
- लवनी तद्युजश्छा या लवन्याः परिकीर्तिताः १११
- यत्तु कम्पनमारोहिण्यवरोहिणि वा भवेत्
- वदनी साऽथ संचारिण्यपि वा स्थिरकम्पनम् ११२
- सा गीतालप्तिसंबन्धभेदेन द्विविधा मता
- पुनर्द्विधा स्थिरा वेगाढ्या पुनस्त्रिविधोदिता ११३
- हृद्या कण्ठ्या शिरस्या च देहस्था हृदयोद्भवा
- वहनी स्यात्पुनर्द्वेधा खुत्तोत्फुल्लेति भेदतः ११४
- यस्मामन्तर्विशन्तीव स्वराः खुत्तेति सा मता
- सोत्फुल्लेत्युदिता यस्यां निर्यान्तीवोपरि स्वराः ११५
- वलिर्या गमकेषूक्ता साऽप्येवंविधभेदभाक्
- वहनी येषु ते स्थाया वहन्याः परिभाषिताः ११६
- रागमग्ना वाद्यशब्दा येषु ते वाद्यशब्दजाः
- ये यन्त्रेष्वेव दृश्यन्ते बाहुल्यात्ते तु यन्त्रजाः ११७
- छाया काकुः षड्जकारा स्वररागान्यरागजा
- स्याद्देशक्षेत्रयन्त्राणां तल्लक्षणमथोच्यते ११८
- श्रुतिन्यूनाधिकत्वेन या स्वरान्तरसंश्रया
- स्वरान्तरस्य रागे स्यात्स्वरकाकुरसौ मता ११९
- या रागस्य निजच्छाया रागकाकुं तु तां विदुः
- सा त्वन्यरागकाकुर्या रागे रागान्तराश्रया १२०
- सा देशकाकुर्या रागे भवेद्देशस्वभावतः
- शरीरं क्षेत्रमित्युक्तं प्रतिक्षेत्रं निसर्गतः १२१
- रागे नानाविधा काकुः क्षेत्रकाकुरिति स्मृता
- वीणावंशादियन्त्रोत्था यन्त्रकाकुः सतां मता १२२
- अन्यच्छायाप्रवृत्तौ ये छायान्तरमुपाश्रिताः
- छायायास्ते मताः स्थाया गीतविद्याविशारदैः १२३
- मध्ये मध्ये स्वरान्भूरील्लँङ्घयन्स्वरलङ्घितः
- तिर्यगूर्ध्वमधःस्थाच्च प्रेरितः प्रेरितस्वरैः
- स्वरपूर्णश्रुतिस्तारे तीक्ष्णवत्तीक्ष्ण उच्यते १२४
- इत्यसंकीर्णाः स्थाया दश
- रागस्यातिशयाधानं प्रयत्नाद्भजनं मतम्
- तद्युक्ता भजनस्य स्युः स्थापनायास्तु ते मताः १२५
- स्थापयित्वा स्थापयित्वा येषां प्रतिपदं कृतिः
- सविलासाऽस्ति गीत्तस्य मत्तमातङ्गवद्गतिः १२६
- तद्युक्तास्तु गतेः स्थायाः स्निग्धो माधुर्यमांसलः
- बहुलो येषु नादः स्यात्ते नादस्य प्रकीर्तिताः १२७
- अतिदीर्घप्रयोगास्तु स्थाया ये ते ध्वनेर्मताः
- युक्ताः कोमलया कान्त्या छवेः स्थाया निरूपिताः १२८
- रक्तेरुत्कर्षतो रक्तेरुक्ताः स्थाया मनीषिभिः
- धृतस्यान्वर्थनामानो भृतस्य भरणाद्ध्वनेः १२९
- रागान्तरस्यावयवो रागेंऽशः स च सप्तधा
- कारणांशश्च कार्यांशः सजातीयस्य चांशकः १३०
- सदृशांशो विसदृशो मध्यमस्यांशकोऽपरः
- अंशांशश्चेति यो रागे कार्येंऽशः कारणोद्भवः १३१
- कारणांशस्त्वसौ रामकृतौ कोलाहलांशवत्
- कारणे कार्यरागांशः कार्यांशो भैरवे यथा १३२
- भैरव्यंशः समां जातिं गौडत्वाद्यां समाश्रिताः
- कर्णाटाद्याः सजातीयास्तेष्वेकांशोऽपरत्र यः १३३
- सजातीयांशकः स स्यादंशः सदृशरागयोः
- सदृशांशो यथा नट्टावराट्योः शुद्धयोर्मिथः १३४
- सादृश्यशून्ययोरंशोऽत्यन्तं विसदृशांशकः
- वेलावल्याश्च गूर्जर्याः परस्परगतौ यथा १३५
- मध्यस्थरागौ सादृश्यवैसादृश्यविवर्जितौ
- मध्यस्थांशस्तयोरंशो नट्टादेशाख्ययोरिव १३६
- अंशेऽशान्तरसंचारादंशांश इति कीर्तितः
- येष्वंशो दृश्यते स्थायास्तेंऽशस्य परिकीर्तिताः १३७
- मनसा तत्कृतेनैव ये ग्राह्यास्तेऽवधानजाः
- आयासेन विना यत्र स्थाने स्यात्प्रचुरो ध्वनिः १३८
- स्वस्थानं तदपस्थानं त्वायासेन तदुद्गतेः
- अपस्थानस्य ते स्थाया येऽपस्थानसमुद्भवाः १३९
- निकुतेः करुणायाश्च स्थायास्त्वन्वर्थनामकाः
- स्थाया नानाविधां भङ्गिं भजंन्तो विविधत्वजाः १४०
- गात्रस्य गात्रे निरताः कृत्वा तीव्रतरं ध्वनिम्
- येषूपशान्तिः क्रियते भवन्त्युपशमस्य ते १४१
- काण्डारणा प्रसिद्धैव तस्याः स्थायास्तदुद्भवाः
- सरलः कोमलो रक्तः क्रमान्नीतोऽतिसूक्ष्मताम् १४२
- स्वरस्याऽऽद्येषु ते स्थायाः प्रोक्ता निर्जवनान्विताः
- गाढः शैथिल्यनिर्मुक्तः स एव मृदुतान्वितः १४३
- भवेल्ललितगाढस्तु ललितस्तु विलासवान्
- मार्दवाघूर्णितः प्रोक्तो लुलितः स्यात्समः पुनः १४४
- हीनो वेगविलम्बाभ्यां यथार्थः कोमलो मतः
- प्रसृतः प्रसृतोपेतः स्निग्धो रूक्षत्ववर्जितः १४५
- उज्ज्वलो गदितश्चोक्ष उचितस्तु यथार्थकः
- सुदेशिको विदग्धानां वल्लभोऽपेक्षितस्तु सः १४६
- स्थायस्थायेन पूर्वेण पूर्त्यर्थं योऽभिकाङ्क्षितः
- वलौ वहेर्वहन्यां च यः स्निग्धमधुरो महान् १४७
- मन्द्रे ध्वनिः सघोषः स्यात्तद्युक्ता घोषजा मताः
- गम्भीरमधुरध्वाना मन्द्रे ये स्युः स्वरस्य ते १४८
- इति त्रयस्त्रिंशत्संकीर्णाः ।
- वहन्त इव कम्पन्ते स्वरा येषु वहस्य ते
- अक्षराडम्बरो येषु मुख्यास्ते स्युस्तदन्विताः १४९
- वेगेन प्रेरितैरूर्ध्वं स्वरैरुल्लासितो मतः
- यत्र गङ्गातरङ्गन्ति स्वराः स स्यात्तरङ्गितः १५०
- परितोऽर्धभृते कुम्भे जलं दोलायते यथा
- गीते तथाविधः स्थायः प्रोक्तस्तज्ज्ञैः प्रलम्बितः १५१
- अवस्खलति यो मन्द्रादवरोहेण वेगतः
- सोऽवस्खलित इत्युक्तस्त्राटितस्तु स्वरे क्वचित् १५२
- चिरं स्थित्वाऽग्निवत्तारं स्पृष्ट्वा प्रत्यागतो भवेत्
- घनस्वरोऽवरोहे स्यात्संप्रविष्टस्तथाविधः १५३
- आरोहिण्युत्प्रविष्टः स्यादन्वर्थाः स्युः परे त्रयः
- प्रतिगृह्योल्लासितः स्यादसौ यः प्रतिगृह्यते १५४
- उत्क्षिप्योत्क्षिप्यनिपतत्केलिकन्दुकसुन्दरः
- द्रुतपूर्वो विलम्बान्तः स्यादलम्बविलम्बकः १५५
- स्यात्त्रोटितप्रतीषोऽसौ यत्र स्यात्तारमन्द्रयोः
- प्रथमं त्रटयित्वैकमपरस्य प्रतिग्रहः १५६
- प्रसृताकुञ्चितः स्थायः प्रसार्याऽऽकुञ्चितध्वनिः
- स्थायिवर्णस्थितिः कम्पः स्थिर इत्यभिधीयते १५७
- एकैकस्मिन्स्वरे स्थित्वा स्थित्वा वाऽथ द्वयोर्द्वयोः
- त्रिषु त्रिष्वथवा स्थायो रचितः स्थायुको मतः
- ऊर्ध्वः प्रसारितः क्षिप्तः सूक्ष्माङ्गोन्तेऽल्पतां गतः १५८
- इत्यसंकीर्णा विंशतिः
- शब्दः प्रकाशते येषु धृतिभृत्यादिवर्जितः
- स्वभावादेव शब्दस्य प्रकृतिस्थस्य ते मताः १५९
- येषु सूक्ष्मीकृताः शब्दास्ते कलायाः प्रकीर्तिताः
- भृशं प्राणप्रतिग्राह्या ये स्युराक्रमणस्य ते १६०
- ते स्थाया घटनाया ये शिल्पिना घटिता इव
- सुखदास्तु सुखस्य स्युश्चालिर्जक्केति कीर्तिताः १६१
- स्थायास्तदन्विताश्चालेरंशो जीवस्वरो मतः
- तत्प्राधान्येन ये गीताः स्थाया जीवस्वरस्य ते १६२
- वेदध्वनिनिभध्वानाः स्थाया वेदध्वनेर्मताः
- अन्तःसारो घनत्वस्य यथार्थः शिथिलो मतः १६३
- दुष्करोऽवघटः प्रोक्तः प्लुतोऽत्यन्तविलम्बितः
- रागेणेष्टः स्वपूर्त्यर्थं रागेष्ट इति कीर्तितः १६४
- स स्यादपस्वराभासो भात्यपस्वरवत्तु यः
- स्तब्धस्थायस्तु बद्धः स्याद्बहुत्वं मधुरध्वनेः १६५
- यस्मिन्कलरवस्यासौ छान्दसश्चतुरप्रियः
- सुकराभास इत्युक्तो दुष्करः सुकरोपमः १६६
- घण्टानादवदायातस्तारान्मन्द्रं तु संहितः
- लघुर्गुरुत्वरहितो ध्रुवकाभोगयोस्तु यः १६७
- अन्तरे साऽन्तरो वक्रो यथार्थः सुकरस्तु यः
- तारे दीप्तप्रसन्नोऽसौ सुकरः कोमलध्वनिः १६८
- प्रसन्नमृदुरित्युक्तो गुरुरन्वर्थनामकः
- ह्रस्वस्तोकः परौ द्वौ तु स्यातामन्वर्थनामकौ १६९
- शब्दशारीरगुणतः सुकरः सुस्वरोऽथवा
- यः कस्यचिन्न सर्वेषां सोऽसाधारण उच्यते १७०
- सदृशो यस्तु सर्वेषामसौ साधारणः स्मृतः
- न वाञ्छति वहन्यादि यः स्वनिर्वाहहेतवे १७१
- उच्यते स निराधारः सुकरो दुष्करोपमः
- दुष्कराभास इत्युक्तो मिश्रणान्मिश्रको मतः १७२
- इति त्रयस्त्रिंशत्संकीर्णलक्षणाः
- आनन्त्यान्नैव शक्यन्ते भेदा मिश्रस्य भाषितुम्
- दिक्प्रदर्शनमात्रार्थमुच्यन्ते तेषु केचन १७३
- यो यस्मिन्बहुलः स्थायः स तेन्स् व्यपदिश्यते
- साम्ये तु मिश्रनामैव स त्विदानीं प्रपञ्च्यते १७४
- तिरिपान्दोलितो लीनकम्पितः कम्पिताहतः
- तिरिपस्फुरितो लीनस्फुरितः स्फुरिताहतः १७५
- लीनकम्पितलीनश्च त्रिभिन्नकुरुलाहतः
- प्लावितोल्लासितवलिर्वलिहुम्फितमुद्रितः १७६
- नामितान्दोलितवलिर्वलिनामितकम्पितः
- अन्दोलितप्लावितकसमुल्लासितनामितः १७७
- तिरिपान्दोलितवलित्रिभिन्नकुरुलोऽपरः
- त्रिभिन्नलीनस्फुरितप्लावितान्दोलितः परः १७८
- वहनीढालयोर्धालवहन्योः शब्दढालयोः
- वहनीयन्त्रयोश्छायायन्त्रयोः शब्दयन्त्रयोः १७९
- वहनीछाययोर्यन्त्रवाद्यशब्दभवः परः
- तीक्ष्णप्रेरितकस्तीक्ष्णप्रेरितः स्वरलङ्घितः १८०
- ढालशब्दोत्थयन्त्रोत्थवाद्यशब्दभवः परः
- ढालच्छाया यन्त्रवाद्यशब्दशब्दभवोऽपरः १८१
- झल्लम्बितावस्खलितस्त्राटितोल्लासितः परः
- संप्रविष्टोत्प्रविष्टश्च संप्रविष्टतरङ्गितः १८२
- अन्यः प्रतिगृहीतोल्लालितालम्बविलम्बकः
- स्यात्त्रोटितप्रतीष्टोत्प्रविष्टनिःसरणः परः १८३
- दीर्घकम्पितसूक्ष्मान्तभ्रामितस्थायुकोऽन्यकः
- वहाक्षराडम्बरजप्रसृताकुञ्चितस्थिरः १८४
- भ्रामितक्षिप्तसूक्ष्मान्ततरङ्गितझलम्भितः
- एते षट्त्रिंशदन्येऽपि विज्ञातव्या दिशाऽनया १८५
- इति स्थायवागलक्षणम्
- रागालपनमालप्तिः प्रकटीकरणं मतम्
- सा द्विधा गदिता रागरूपकाभ्यां विशेषणात् १८६
- रागालप्तिस्तु सा या स्यादनपेक्ष्यैव रूपकम्
- स्वस्थानैः सा चतुर्भिः स्यादिति गीतविदो विदुः १८७
- यत्रोपविश्यते रागः स्वरे स्थायी स कथ्यते
- ततश्चतुर्थो द्व्यर्धः स्यात्स्वरे तस्मादधस्तने १८८
- चालनं मुखचालः स्यात्स्वस्थानं प्रथमं च तत्
- द्व्यर्धस्वरे चालयित्वा न्यसनं तद्द्वितीयकम् १८९
- स्थायिस्वरादष्टमस्तु द्विगुणः परिकीर्तितः
- द्व्यर्धद्विगुणयोर्मध्ये स्थिता अर्धस्थिताः स्वराः १९०
- अर्धस्थितो चालयित्वा न्यसनं तु तृतीयकम्
- द्विगुणे चालयित्वा तु स्थायिन्यासाच्चतुर्थकम्
- एभिश्चतुर्भिः स्वस्थानै रागालप्तिर्मता सताम् १९१
- स्तोकस्तोकैस्ततः स्थायैः प्रसन्नैर्बहुभङ्गिभिः
- जीवस्वरव्याप्तिमुख्यै रागस्य स्थापना भवेत् १९२
- इति रागालप्तिः
- रूपकस्थेन रागेण तालेन च विधीयते
- या सोक्ता रूपकालप्तिः सा पुनर्द्विविधा भवेत् १९३
- प्रतिग्रहणिकैकाऽन्या भञ्जनीत्यभिधीयते
- विधाय स्थायमालप्ते रूपकावयवो यदि
- प्रतिगृह्येत सा प्रोक्ता प्रतिग्रहणिका बुधैः १९४
- इति प्रतिग्रहणिका
- भञ्जनी द्विविधा ज्ञेया स्थायरूपकभञ्जनात्
- यदा तत्पदमानेन स्थायो रूपकसंस्थितः
- नानाप्रकारः क्रियते सा ज्ञेया स्थायभञ्जनी १९५
- तैः पदैस्तेन मानेन समग्रं रूपकं यदि
- अन्यथा चान्यथा गायेदसौ रूपकभञ्जनी १९६
- वर्णालंकारसंपन्ना गमकास्थायचित्रिता
- आलप्तिरुच्यते तज्ज्ञैर्भूरिभङ्गिमनोहरा १९७
- इत्यालप्तिलक्षणम्
- गातृवादकसंघातो वृन्दमित्यभिधीयते
- उत्तमं मध्यममथो कनिष्ठमिति तत्त्रिधा १९८
- चत्वारो मुख्यगातारो द्विगुणाः समगायनाः
- गायिन्यो द्वादश प्रोक्ता वांशिकानां चतुष्टयम् १९९
- मार्दङ्गिकास्तु चत्वारो यत्र तद्वृन्दमुत्तमम्
- मध्यमं स्यात्तदर्थेन कनिष्ठे मुख्यगायनः २००
- एकः स्यात्समगातारस्त्रयो गायनिकाः पुनः
- चतस्रो वांशिकद्वंद्वं तथा मार्दलिकद्वयम् २०१
- उत्तमे गायनीवृन्दे मुख्यगायनिकाद्वयम्
- दश स्युः समगायिन्यो वांशिकद्वितयं तथा २०२
- भवेन्मार्दलिकद्वंद्वं मध्यमे मुख्यगायनी
- एका स्यात्समगायिन्यश्चतस्रो वांशिकास्तथा २०३
- इतो न्यूनं तु हीनं स्याद्ययेष्टमथवा भवेत्
- उत्तमाभ्यधिकं वृन्दं कोलाहलमितीरितम् २०४
- मुख्यानुवृत्तिर्मिलनं ताललीलानुवर्तनम्
- मिथस्त्रुटितनिर्वाहस्त्रिस्थानव्याप्तिशक्तता २०५
- शब्दसादृश्यमित्येते प्रोक्ता वृन्दस्य षड्गुणाः
- आह वृन्दविशेषं तु कुतपं भरतो मुनिः २०६
- ततस्य चावनद्धस्य नाट्यस्यैते त्रिधा च सः
- ततस्य कुतपो ज्ञेयो गायनः सपरिग्रहः २०७
- वीणा घोषवती चित्रा विपञ्ची परिवादिनी
- वल्लकी कुङ्निका ज्येष्ठा नकुलोष्ठी च किंनरी २०८
- जया कूर्मी पिनाकी च हस्तिका शततन्त्रिका
- औदुम्बरी च षट्कर्णः पौणो रावणहस्तकः २०९
- सारङ्ग्यालपनीत्यादेस्ततवाद्यस्य वादकाः
- वांशिकाः पाविकाः पावकाहलाः शङ्खवादकाः २१०
- मुहुरीशृङ्गवाद्याद्यास्तथा तालधरा वराः
- कुतपे त्ववनद्धस्य मुख्यो मार्दङ्गिकस्ततः २११
- पणवो दर्दुरो ढक्का मण्डिडक्का च डक्कुली
- पटहः करटा ढक्का ढवसो घडसस्तथा २१२
- हुडुक्का डमरू रुञ्जा कुडुक्का कुडुवा तथा
- निःस्वानस्त्रिवली भेरी तम्बकी बोम्बडी तथा २१३
- पट्टवाद्यं पटः कम्रोडावजावजसेल्लुकाः
- जयघण्टा कांस्यतालो घण्टा च किरिकिट्टकम् २१४
- वाद्यानामेवमादीनां पृथग्वादकसंचयः
- वराटलाटकर्णाटगौडगुर्जरकौङ्कणैः २१५
- महाराष्ट्रान्ध्रहम्मीरचौलैर्मलयमालवैः
- अङ्गवङ्गकलिङ्गाद्यैर्नानाभिनयकोविदैः २१६
- अङ्गहारप्रयोगज्ञैर्लास्यताण्डवकोविदैः
- विचित्रस्थानकप्रौढैर्विषमेषु सुशिक्षितैः २१७
- नाटस्य कुतपः पात्रैरुत्तमाधममध्यमैः
- कुतपानाममीषां तु समूहो वृन्दमुच्यते २१८
- इति वृन्दलक्षणम्
- इति श्रीमदनवद्यविद्याविनोदश्रीकरणाधिपतिश्रीसोढलदेवनन्दननिःशङ्कशार्ङ्गदेवविरचिते संगीतरत्नाकरे तृतीयः प्रकीर्णकाध्यायः ३