सङ्गीतरत्नाकरः/प्रबन्धाध्यायः

सङ्गीतरत्नाकरः

अथ चतुर्थः प्रबन्धाध्यायः
रञ्जकः स्वरसंदर्भो गीतमित्यभिधीयते
गान्धर्वं गानमित्यस्य भेदद्वयमुदीरितम् १
अनादिसंप्रदायं यद्गन्धर्वैः संप्रयुज्यते
नियतं श्रेयसो हेतुस्तद्गान्धर्वं जगुर्बुधाः २
यत्तु वाग्गेयकारेण रचितं लक्षणान्वितम्
देशीरागादिषु प्रोक्तं तद्गानं जनरञ्जनम् ३
तत्र गान्धर्वमुक्तं प्रागधुना गानमुच्यते
निबद्धमनिबद्धं तद्द्वेधा निगदितं बुधैः ४
बद्धं धातुभिरङ्गैश्च निबद्धमभिधीयते
आलप्तिर्बन्धहीनत्वादनिबद्धमितीरिता ५
सा चास्माभिः पुरा प्रोक्ता निबद्धं त्वधुनोच्यते
संज्ञात्रयं निबद्धस्य प्रबन्धो वस्तु रूपकम् ६
प्रबन्धावयवो धातुः स चतुर्धा निरूपितः
उद्ग्राहः पथमस्तत्र ततो मेलापकध्रुवौ
आभोगश्चेति तेषां च क्रमाल्लक्ष्माभिदध्महे ७
उद्ग्राहः प्रथमो भागस्ततो मेलापकः स्मृतः
ध्रुवत्वाच्च ध्रुवः पश्चादाभोगस्त्वन्तिमो मतः ८
ध्रुवाभोगान्तरे जातो धातुरन्योऽन्तराभिधः
स तु सालगसूडस्थरूपकेष्वेव दृश्यते ९
वातपित्तकफा देहधारणाद्भातवो यथा
एवमेते प्रबन्धस्य धातवो देहधारणात् १०
तत्र मेलापकाभोगौ न भवेतां क्वचित्क्वचित्
स द्विधातुस्त्रिधातुश्च चतुर्धातुरिति त्रिधा ११
प्रबन्धोऽङ्गानि षट्तस्य स्वरश्च विरुदं पदम्
तेनकः प्लाटतालौ च प्रबन्धपुरुषस्य ते १२
भवन्त्यङ्गवदङ्गानि मङ्गलार्थप्रकाशके
तत्र तेनपदे नेत्रे स्तः पाटबिरुदे करौ १३
कराभ्यामुद्भवात्कार्ये कारणत्वोपचारतः १४
प्रबन्धगतिहेतुत्वात्पादौ तालस्वरौ मतौ
स्वराः षड्जादयस्तेषां वाचकाः सरिगादयः १५
स्वराभिव्यक्तिसंयुक्ताः स्वरशब्देन कीर्तिताः
बिरुदं गुणनाम स्यात्ततोऽन्यद्वाचकं पदम् १६
तेनेतिशब्दस्तेनः स्यान्मङ्गलार्थप्रकाशकः
ॐ तत्सदिति निर्देशस्तत्त्वमस्यादिवाक्यतः १७
तदिति ब्रह्म तेनायं ब्रह्मणा मङ्गलात्मना
लक्षितस्तेन तेनेति पाटो वाद्याक्षरोत्करः
तालस्तालप्रकरणे सप्रपञ्चो निरूप्यते १८
मेदिन्यथाऽऽनन्दिनी स्याद्दीपनी भावनी तथा
तारावलीति पञ्च स्युः प्रबन्धानां तु जातयः १९
अङ्गैः षड्जादिभिर्द्व्यन्तैः केषांचन मते श्रुतिः
नीतिः सेना च कविता चम्पूरित्युदितास्तु ताः २०
अनिर्युक्तश्च निर्युक्तः प्रबन्धो द्विविधो मतः
छन्दस्तालाद्यनियमादाद्यः स्यान्नियमात्परः २१
पुनः प्रबन्धास्त्रिविधाः सूडस्था आलिसंश्रयाः
विप्रकीर्णाश्च तत्राऽऽदौ सूडलक्षणमुच्यते २२
एलाकरण्ढेङ्कीभिर्वर्तन्या झोम्बडेन च
लम्भरासैकतालीभिरष्टभिः सूड उच्यते २३
वर्णो वर्णस्वरो गद्यं कैवाडश्चाङ्कचारिणी
कन्दस्तुरगलीला च गजलीला द्वियद्यपि २४
चक्रवालः क्रौञ्चपदः स्वरार्थो ध्वनिकुट्टिनी
आर्या गाथा द्विपथकः कलहंसश्च तोटकम् २५
घटो वृत्तं मातृका च तथा रागकदम्बकः
पञ्चतालेश्वरस्तालार्णव इत्येषु कश्चन २६
सूडक्रमस्य मध्ये चेदसावालिक्रमो भवेत्
सूडालिक्रमसंबन्धाद्द्वात्रिंशदिति कीर्तिताः २७
ततोऽन्ये विप्रकीर्णास्तान्प्रसिद्धान्कतिचिद्ब्रुवे
श्रीरङ्गः श्रीविलासः स्यात्पञ्चभङ्गिरतः परम् २८
पञ्चाननोमातिलकौ त्रिपदी च चतुष्पदी
षट्पदी वस्तुसंज्ञश्च विजयस्त्रिपथस्तथा २९
चतुर्मुखः सिंहलीलो हंसलीलोऽथ दण्डकः
झुम्बडः कन्दुकः स्यात्त्रिभङ्गिर्हरविलासकः ३०
सुदर्शनः स्वराङ्कः श्रीवर्धनो हर्षवर्धनः
वदनं चञ्चरी चर्या पद्धडी राहडी तथा ३१
वीरश्रीर्मङ्गलाचारो धवलो मङ्गलस्तथा
ओवी लोली ढोल्लरी च दन्ती षट्त्रिंशदित्यमी ३२
अङ्घ्रौ खण्डद्वयं सानुप्रासमेकेन धातुना
ततः प्रयोगस्तदनु पल्लवाख्यं पदत्रयम्
द्वे स्तो विलम्बिते तत्र तृतीयं द्रुतमानतः ३३
एवं पादत्रयं गेयमुद्ग्राहे तुल्यधातुकम्
केवलं तु तृतीयेऽङ्घ्रौ संबोधकपदान्वितः ३४
प्रयोगोऽन्त्यो विधातव्यो न पल्लवपदस्थितिः
अमुं प्रयोगं मेलापं प्राहुः सोमेश्वरादयः ३५
स्तुत्यनामाङ्कितो मध्यविलम्बितपदत्रयः
ध्रुवस्ततस्तत्र पूर्वमेकधातुपदद्वयम् ३६
भिन्नधातु तृतीयं स्यादाभोगस्तदनन्तरम्
गेयो वाग्गेयकारेण स्वाभिधानविभूषितः ३७
पुनर्गीत्वा ध्रुवे त्यागो ग्रहस्तु विषमो भवेत्
एलासामान्यलक्ष्मैतत्पूर्वाचार्यैरुदीरितम् ३८
मण्ठद्वितीयकङ्कालप्रतितालेषु कश्चन
तालोऽस्यां त्यागसौभाग्यशौर्यधैर्यानुवर्णनम् ३९
एलानां बहवः सन्ति विशेषास्तेषु केचन
व्युत्पत्तये निरूप्यन्ते मतङ्गादिमतोदिताः ४०
अकारे दैवतं विष्णुरिकारे कुसुमायुधः
लक्ष्मीर्लकार एलानामिति वर्णेषु देवताः ४१
काममन्मथवत्कान्तजितमत्तविकारिणः
मांधातृसुमती शोभी सुशोभी गीतको नुतः ४२
विचित्रो वासवमृदुसुचित्रा इति षोडश
नामान्येलापदानां स्युः षोडशानामनुक्रमात् ४३
पद्मालया पत्रिणी च रञ्जनी सुमुखी शची
वरेण्या वायुवेगा च वेदिनी मोहिनी जया ४४
गौरी ब्राह्मी च मातङ्गी चण्डिका विजया तथा
चामुण्डैलापदेष्वेताः क्रमात्षोडश देवताः ४५
समानो मधुरः सान्द्रः कान्तो दीप्तः समाहितः ४६
अग्राम्यः सुकुमारश्च प्रसन्नौजस्विनाविति
मांधात्रादिपदेषु स्युः प्राणा दश दशस्विमे ४७
समानोऽल्पाक्षरध्वानो मधुरस्त्वनादजः
अल्पमूर्छनया युक्तः सान्द्रस्तु निबिडाक्षरः ४८
अल्प्लध्वनिस्तारगतिः कान्तः कान्तध्वनिर्मतः
दीप्तस्तु दीप्तनादः स्यात्स्थायिस्थस्तु समाहितः ४९
अग्राम्योऽक्षरनादानामावत्त्या समुदाहृतः
सुकुमारो वर्णनादमूर्छनाकोमलत्वतः ५०
प्रसन्नः स्यात्पदस्थानस्वरादीनां प्रसादतः
ओजोबहुल ओजस्वीत्येभिः सर्वगुणैर्युतः ५१
एला श्रोतुः प्रयोक्तुश्च धर्मकामार्थसिद्धिदा
गणमात्रावर्णदेशविशिष्टास्ताश्चतुर्विधाः ५२
गणः समूहः स द्वेधा वर्णमात्राविशेषणात्
गुरुर्लघुरिति द्वेधा वर्णोऽनुस्वारसंयुतः ५३
सविसर्गो व्यञ्जनान्तो दीर्घो युक्तपरो गुरुः
वा पदान्ते त्वसौ वक्रो द्विमात्रो मात्रिको लघुः ५४
ऋजुर्लिपौ भ्रे ष्के ष्पे च रहोर्योगे स वा लघुः
ए ओइं हिं पदान्ते वा प्राकृते लघवो मताः ५५
पदमध्येऽप्यपभ्रंशे हुंहे ए ओइमित्यमी
तत्र वर्णगणो वर्णैस्त्रिभिरष्टविधश्च सः ५६
मस्त्रिगुः पूर्वलो यः स्यान्मध्यलो रोऽन्तगुस्तु सः
तोऽन्तलो मध्यगो जः स्याद्गादिर्भस्त्रिलघुस्तु नः ५७
इत्येषां देवता भूमिजलाग्निमरुतोऽम्बरम् ५८
सूर्यचन्द्रसुरावासाः क्रमात्कुर्युः फलानि ते
श्रीवृद्धिनिधनस्थानभ्रंशनिर्धनतारुजः ५९
शीर्तिमायुश्च वर्णस्य श्लोकगीतादियोगतः
सोमो भौमो बुधो जीवः शुक्रः सौरी रविस्तमः ६०
क्रमादकचटानां तपयशानां च देवताः
वर्गाणां च फलान्येषामायुष्कीर्ती असद्यशः ६१
संपत्सुभगता कीर्तिर्मान्द्यं मृत्युश्च शून्यता
प्रयोगे श्लोकगीतादौ स्तुत्यस्योक्तानि सूरिभिः ६२
मात्रा कला लघुर्लः स्यात्तद्गणाश्छपचास्तदौ
स्युः षट्पञ्च चतुस्त्रिद्विसंख्यमात्रायुताः क्रमात् ६३
यथा--ऽ ऽ ऽ इति च्छगणः ऽ ऽ । इति पगणः ऽ ऽ । इति
चगणः ऽ । इति तगणः ऽ इति दगणः इति पञ्च मात्रागणाः ।
अत्युक्तायास्तु चत्वारो भेदा रतिगणा मताः
किंतु तत्र लपूर्वा ये तेष्वादावधिको लघुः ६४
एवं मध्याभवा भेदा अष्टौ कामगणाः स्मृताः
तद्वद्बाणगणा भेदाः प्रतिष्ठायास्तु षोडश ६५
इति मात्रागणाः
तत्र वर्णगणैर्जाता गणैला परिकीर्तिता
सा भवेत्त्रिविधा शुद्धा संकीर्णा विकृता तथा ६६
शुद्धा चतुर्विधा नादावती हंसावती तथा
नन्दावती च भद्रावत्यथाऽऽसां लक्ष्म कथ्यते
गणादिनियमस्त्वासामङ्घ्रिखण्डद्वयाश्रयः ६७
नादावती पञ्चभिर्भैर्नान्तैः स्याट्टक्कमण्ठयोः
ऋग्वेदोच्छ्वासिता विप्रा कैशिकीवृत्तिमाश्रिता
पाञ्चाली रीतिर्भारत्याः ह्प्रीत्यै शृङ्गारवर्धनी ६८
इति नादावती
रगणैः पञ्चभिः सान्तैः प्रोक्ता हंसावती बुधैः
द्वितीयताले हिन्दोले क्षत्त्रिया यजुरुद्भवा ६९
लोहितारभटीवृत्तिं लाटीरीतिं च संश्रिता
रौद्ररसे चण्डिकायाः प्रीतये विनियुज्यते ७०
इति हंसावती
पञ्चभिस्तगणैर्जान्तैरेला नन्दावती मता
प्रतितालेन सा गेया रागे मालवकैशिके ७१
सामवेदोद्भवा पीता वैश्या सात्वतवृत्तिजा
गौडीयरीतिरिन्द्राण्याः प्रीत्यै वीररसाश्रिता ७२
इति नन्दावती
भद्रावती पञ्चभिर्मेर्यान्तैः कङ्कालतालतः
ककुभेऽथर्ववेदोत्था कृष्णा शूद्रा च भारतीम् ७३
वृत्तिं वैदर्भरीतिं च श्रिता बीभत्ससंभृता
वाराहीदेवताप्रीत्यै शार्ङ्गदेवेन कीर्तिताः ७४
इति भद्रावती
बहुधासंकरादासां संकीर्णा बहुधा मताः
अप्रसिद्धास्तु ता लक्ष्ये तेन नेह प्रपञ्चिताः ७५
शुद्धाः स्युर्विकृतास्तिस्रआद्या गणविकारतः
वासवी संगता त्रेता चतुरा बाणसंज्ञिता ७६
एकद्वित्रिचतुष्पञ्चविकारात्पञ्चधेति ताः
प्रत्येकं वासवी पञ्चविधा रामा मनोरमा ७७
उन्नता शान्तिसंज्ञा च नागरेत्युच्यते बुधैः
गणानां प्रथमादीनां विकारात्पञ्चमावधि ७८
रमणीया च विषमा समा लक्ष्मीश्च कौमुदी ७९
कामोत्सवा नन्दिनी च गौरी सौम्या ततः परम्
रतिदेहेति दशधा संगता गदिता बुधैः ८०
आद्यस्य स्युर्द्वितीयादिसहितस्य विकारतः
चतस्रस्ता द्वितीयस्य तृतीयादियुजस्त्रयम् ८१
विकारेण तृतीयस्य चतुर्थादियुजो द्वयम्
तुर्यपञ्चमयोस्त्वेको लक्ष्म तासां क्रमादिति ८२
त्रेता दशविधा प्रोक्ता मङ्गला रतिमङ्गला
कलिका तनुमध्या च वीरश्रीर्जयमङ्गला ८३
विजया रत्नमाला च गुरुमध्या रतिप्रभा
आद्याक्षरेण ग्रहणं प्रथमादेरिहेष्यते ८४
प्रद्वित्रिणां प्रद्विचानां प्रद्विपानां प्रचत्रिणाम्
प्रत्रिपानां प्रचपानां द्वित्रिचानां द्विपत्रिणाम्
चद्विपानां चत्रिपानां विकृतेः स्युः क्रमादिमाः ८५
त्यक्त्वैकैकं गणं त्वाद्याच्चतुर्णां स्याद्विकारतः
चतुरा पञ्चधा तत्र प्रथमा तूत्सवप्रिया
महानन्दा मलहरी जया च कुसुमावती ८६
आद्यात्पञ्चविकारेण बाणा स्यात्पार्वतीप्रिया ८७
प्रत्येकमेकत्रिंशत्ते नादावत्यादिषु स्थिताः
भेदास्त्रिनवतिर्युक्ता अन्ये पञ्चदश त्विमे ८८
सावित्री पावनी वातसावित्री च त्रिधा मता
संगता सवितुः क्षिप्ते पवनस्य गणे क्रमात् ८९
द्वितीये चाऽऽद्यभेदाभ्यां द्विविधा वासवी मता
नादावत्यामिमे भेदा हंसावत्यामपि त्रिधा ९०
व्योमजा वारुणी व्योमवारुणी चेति संगताः
तद्दैवत्यगणोपेता तथा स्याद्वासवी द्विधा ९१
नन्दावत्यां वह्निजा च वारुणी वह्निवारुणी
तद्गणैः संगता त्रेधा तथा द्वेधा च वासवी ९२
इत्येते विकृता भेदा अष्टोत्तरशतं मताः ९३
पार्वतीमतात्
मात्रागणैस्तु मात्रैला सा च ज्ञेया चतुर्विधा
रतिलेखा कामलेखा बाणलेखा तथाऽपरा ९४
चन्द्रलेखेति तत्राऽऽद्ये पादे रुद्राः कला यदि
द्वितीये च तृतीये तु मात्रा दश तदा भवेत् ९५
रतिलेखा रतिगणैः कामलेखा तु मान्मथैः
द्विगुणाभिः कलाभिः स्यान्मात्रात्रैगुण्यतो भवेत् ९६
बाणलेखा बाणगणैश्चन्द्रलेखा तु मिश्रितैः
गणैर्श्चतुर्गुणकलाश्चतस्रोऽन्या ब्रुवेऽधुना ९७
आद्येन्दुमत्यथो ज्योतिष्मती पश्चान्नभस्वती
वसुमत्यपि तत्रेन्दुमती छैः पञ्चभिः सतैः ९८
पञ्चभिः पैः सचगणैराहुर्ज्योतिष्मतीं बुधाः
त्रिभिश्चैः पगणेनापि च्छाद्यन्ता स्यान्नभस्वती ९९
सा स्याद्वसुमती यस्यां दपचाः पत्रयं छतौ १००
नन्दिमतात्
नादावत्यादयो मात्राश्चाद्यैः स्वगणभङ्गजैः
गणाः पञ्च त्रिमात्रोऽन्ते गणाः सप्तान्तिमो लघुः १०१
गणाः सप्त लघुश्चान्ते त्रिमात्रोऽन्ते गणाष्टकः
लक्ष्माणीति क्रमात्तासामित्यूचे सव्यसाचिना १०२
एकद्वित्रिचतुष्पञ्चमात्रावृद्धिर्यदाऽङ्घ्रिषु
तदा विचित्रमात्रैलां तां जगाद धनंजयः १०३
नन्दिनी चित्रिणी चित्रा विचित्रेत्यभिधानतः
रतिलेखादयः प्रोक्ताः क्रमादनियतैर्गणैः १०४
एलयोराद्ययोरङ्घ्री व्यत्यस्तावयुजाविह १०५
इति विंशतिर्मात्रैलाः
गणमात्राद्यनियता वर्णैला वर्णसंख्यया
षडक्षरादङ्घ्रिखण्डादेकोनत्रिंशदक्षरम्
यावदेकैकवृद्ध्यैलाश्चतुर्विंशतिरीरिताः १०६
प्रथमा मधुकर्युक्ता सुस्वरा करणी ततः १०७
चतुर्थी सुरसा प्रोक्ता पञ्चमी तु प्रभञ्जनी
षष्ठी मदनवत्युक्ता शशिनी च प्रभावती १०८
मालती ललिताख्या च मता भोगवती ततः
ततः कुसुमवत्याख्या कान्तिमत्यपरा भवेत् १०९
ततः कुमुदिनी ख्याता कलिका कमला तथा
विमला नलिनी संज्ञा कालिन्दी विपुला ततः ११०
विद्युल्लता विशाला च सरला तरलेति ताः
अत्रान्त्या वर्णमात्रैला द्वादशेत्यपरे जगुः १११
मण्ठद्वितीयकङ्कालप्रतितालेषु कश्चन
तालस्तासु विधातव्यो रागादिनियमो न तु ११२
रमणी चन्द्रिका लक्ष्मीः पद्मिनी रञ्जिनी तथा
मालती मोहिनी सप्त मतङ्गेनेति कीर्तिताः
यतिमात्रेण भिन्नास्ता इत्यस्माभिर्न दर्शिताः ११३
इति वर्णैला
कर्णाटलाटगौडान्ध्रद्राविडानां तु भाषया
देशाख्यैला बुधैः पञ्च प्रोक्ता मण्ठादितालतः ११४
कर्णाटैलाऽऽदिमध्यान्तवर्त्यनुप्रासभूषिता
नादावत्यादिका एव कर्णाटीरपरे विदुः ११५
षट्प्रकारत्वमेतासां वक्ष्यमाणैर्विशेषणैः
ब्रह्मणः पूर्ववदनाज्जन्म शंभुर्गणाधिपः ११६
आद्याङ्घ्री आद्यनुप्रासो रत्यन्तं मदनद्वयम्
प्रत्येकं च तयोरादिमध्यप्रासस्तृतीयकः ११७
चतुष्कामो रतिप्रान्तः सुरेखा स्यात्तदाऽऽदिमा
दक्षिणास्याज्जनुर्यस्याः सावित्री देवता हरिः ११८
गणाधिपश्चतुष्कामं प्रत्येकं चरणद्वयम्
आदिमध्यस्थितं प्रासं त्रिप्रासोऽङ्घ्रिस्तृतीयकः ११९
अष्टौ कामाः कामलेखा प्रोक्ता हंसावती च सा
पश्चिमाद्वदनाज्जन्म ब्रह्मा यस्या गणाधिपः १२०
गायत्री देवताऽप्यादिमध्यप्रासास्त्रयोऽङ्घ्रयः
पृथक्चतुःस्मरां नन्दावती सा स्वरलेखिका १२१
जन्मोत्तरास्याद्गन्धर्वो गणेशः षट्च मन्मथाः
बाणान्ताः पादयो यस्याः प्रत्येकं स्युस्तृतीयके १२२
अष्टौ कामा आदिमध्यप्रान्तप्रासास्त्रयोऽङ्घ्रयः
भद्रावती भद्रलेखा सा स्यात्कर्णाटसंमता १२३
पञ्च कामा रतिश्चैका कामोऽन्ते चरणत्रये
प्रत्येकं तासु चेदेताश्छन्दस्वत्योऽखिला मताः १२४
गणादेर्न्यूनताधिक्यादेलाभासा इमा मताः १२५
यदेकस्य द्वयोरङ्घ्र्योस्त्रयाणां चान्ततः कृतम्
अङ्घ्रिपूर्त्यै तदन्यच्चेत्तृतीयाङ्घ्रिमितं पदम्
शिखापदं तत्तृतीये त्वङ्घ्रौ मेलापकादयः १२६
इति कर्णाटैला
प्रान्तप्रासा तु लाटी स्याद्भूयो रसविराजिता
गमकप्रासनिर्मुक्ता गौडी त्वेकरसा मता १२७
नानाप्रयोगरागांशरसभावोत्कटाङ्घ्रिका
भूरिभावरसोत्कर्षा द्राविडी प्रासवर्जिता १२८
इति देशाख्यैला
तत्तल्लक्ष्मा यदा तासु पादस्तुर्यो निबध्यते
तदैता गदिताः सर्वाश्छन्दस्वत्यः पुरातनैः १२९
द्वावङ्घ्री प्रासहीनौ स्तस्तृतीयः प्राससंयुतः
ध्रुवाभोगौ च तेषु स्युश्चतस्रो यतयः पृथक्
वर्णैलावत्परं यस्यां सा वस्त्वेला निरूपिता १३०
षट्पञ्चाशद्युतं प्रोक्तमित्येलानां शतत्रयम्
अनन्तत्वात्तु संकीर्णा न संख्याति हरप्रियः १३१
इत्येलालक्षणम्
अष्टधा करणं तत्र स्वराद्यं पाटपूर्वकम्
बन्धादिमं पदाद्यं च तेनाद्यं बिरुदादिमम्
चित्राद्यं मिश्रकरणमित्येषां लक्ष्म कथ्यते १३२
यत्रोद्ग्राहध्रुवौ सान्द्रस्वरबद्धौ पदैः पुनः
आभोगस्तत्र नाम स्याद्गातृनेत्रोर्ग्रहः पुनः १३३
इष्टस्वरेऽशे न्यासः स्याद्रासतालो द्रुतो लयः
करणं स्वरपूर्वं तत्तद्वदन्यान्यपि स्फुटम्
किंतु तेषां स्वरस्थाने भेदकानि प्रचक्ष्महे १३४
स्वरैः सहस्तपाटैस्तु स्यात्पाटकरणं ध्रुवम्
क्रमव्यत्यासभेदेन तद्द्विधा परिकीर्तितम् १३५
स्वरैर्मुरजपाटैर्यत्तद्बन्धकरणं मतम्
स्वरैः पदैश्च बद्धं यत्करणं तत्पदादिमम् १३६
यत्स्वरैर्विरुदैर्बद्धं करणं विरुदादि तत्
स्वरैः सतेनकैर्यत्तु तत्तेनकरणं मतम् १३७
स्वरैः सकरपाटैर्यन्निबद्धं मुरजाक्षरैः
पदैस्तच्चित्रकरणमभिधत्ते हरप्रियः १३८
स्यान्मिश्रकरणं बद्धं स्वरैः पाटैः सतेनकैः १३९
मङ्गलारम्भ आनन्दवर्धनं कीर्तिपूर्विका
लहरीति त्रिधा तानि प्रत्येकं गानभेदतः १४०
द्विरुद्ग्राहं ध्रुवाभोगौ सकृद्गीत्वा पुनः सकृत्
गीयते चेद्ध्रुवोद्ग्राहौ मङ्गलारम्भकस्तदा १४१
उद्ग्राहध्रुवकौ प्राग्वद्ध्रुवार्धं पश्चिमं ततः
आभोगध्रुवकोद्ग्राहाः सकृदानन्दवर्धने १४२
उद्ग्राहस्य द्वितीयार्धं ध्रुवार्धस्थानगं यदि
इतरत्पूर्ववत्कीर्तिलहरी कीर्तिता तदा १४३
इति सप्तविंशतिः करणानि
इति करणप्रबन्धः
द्विर्गीत्वोद्ग्राहपूर्वार्धमुत्तरार्धं सकृत्ततः
मेलापकः प्रयोगात्मा न वा स्यात्तावुभावपि
अतालौ ढेङ्किकाताले कङ्काले वा विलम्बिते १४४
लयान्तरेऽन्यतालेन ध्रुवाभोगौ ध्रुवस्त्विह १४५
त्रिखण्डस्तत्र खण्डे द्वे गीयेते समधातुनी
तृतीयमुच्चमेष द्विराभोगस्तु सकृत्ततः १४६
पुनर्गीत्वा ध्रुवे न्यासो यस्यां सा ढेङ्किका मता
चतुर्धा ढेङ्किका मुक्तावल्ली स्याद्वृत्तबन्धिनी
युग्मिनी वृत्तमाला च तासां लक्ष्माण्यमून्यथ १४७
अभावश्छन्दसां वृत्तं वृत्ते वृत्तानि च क्रमात् १४८
त्रिधा तिस्रो द्वितीयाद्या वर्णिका गणिका तथा
मात्रिका वर्णजैर्वृत्तैर्गणजैर्मात्रिकैरपि १४९
दशापि स्युः पुनस्त्रेधा समालंकरणा तथा
विषमालंकृतिश्चित्रालंकृतिर्लक्षणानि तु १५०
समाऽलंकारसंख्या च विषमा मिश्रिता क्रमात् १५१
इति त्रिंशड्ढेङ्क्यः
इति ढेङ्कीप्रबन्धः
स्वराद्यकरणस्येव वर्तन्या लक्ष्म किं त्विह
रासकादन्यतालः स्याल्लयो ज्ञेयो विलम्बितः १५२
द्वरुद्ग्राहो ध्रुवाभोगौ सकृन्मोक्षो ध्रुवे भवेत्
कङ्काले प्रतिताले च कुडुक्के द्रुतमण्ठके
रचिता चेत्तदा ज्ञेया वर्तन्येव विवर्तनी १५३
इति वर्तनी
इति वर्तनीलक्षणम्
द्विर्यत्रोद्ग्राहपूर्वार्धमुत्तरार्धं सकृत्ततः १५४
मेलापकः प्रयोगाद्यः सर्वा स्याद्द्विस्ततो ध्रुवः
आभोगं तु सकृद्गीत्वा ध्रुवे न्यासः स झोम्बडः १५५
निःसारुकः कुडुक्कश्च त्रिपुटप्रतिमण्ठकौ
द्वितीयो गारुगीरासयतिलग्नाड्डतालिकाः १५६
एकतालीत्यमी ताला झोम्बडे नियता दश
केचिन्मण्ठमपीच्छन्ति नैष लक्ष्येषु लक्ष्यते १५७
तारजोऽतारजश्चेति झोम्बडो द्विविधो मतः
तारो ध्वनिस्थानकं स्यात्तद्युक्तस्तारजो मतः १५८
स चतुर्धा स्थानकस्योद्ग्राहदिषु निवेशने
अतारजस्तारहीनः सर्वोऽप्येष द्विधा मतः १५९
त्रिधातुश्च चतुर्धातुरिति भूयो भवेद्द्विधा
प्रभूतगमकः स्तोकगमकश्चेत्यमी स्फुटाः १६०
प्रायोगिकः क्रमाख्यश्च ततः क्रमविलासकः
चित्रो विचित्रलीलश्चेत्यमीं स्युः पञ्चधा पृथक्
चतुराद्यष्टपर्यन्तं गणनिष्पादिताः क्रमात् १६१
मातृकः श्रीपतिस्तद्वत्सोमो रुचिरसंगतौ
ते लक्ष्येष्वप्रवृत्तत्वादस्माभिर्न प्रपञ्चिताः १६२
विनियोगवशादेषां त्रयोदश भिदाः पृथक् १६३
उपमारूपकश्लेषैर्ब्रह्मा वीरविलासयोः
विष्णुश्चक्रेश्वरो वीरे बीभत्से चण्डिकेश्वरः १६४
नरसिंहोऽद्भुतरसे भैरवस्तु भयानके
हास्यशृङ्गारयोर्हंसः सिंहो वीरभयानके १६५
विप्रलम्भे तु सारङ्गः शेखरः करुणे रसे
सशृङ्गारे पुष्पसारः शृङ्गारे परिकीर्तितः
रौद्रे प्रचण्डो नन्दीशः शान्ते धीरैरुदीरितः १६६
गद्यजाः पद्यजा गद्यपद्यजा इति ते त्रिधा १६७
झोम्बडा इति संख्याता वियच्चन्द्रशराग्नयः १६८
इति झोम्बडाः
इति झोम्बडलक्षणम्
उद्ग्राहो द्विः सकृदैकखण्डो द्विशकलोऽथवा
यत्र ध्रुवो द्विर्वाऽऽभोगो ध्रुवे मुक्तिः स लम्भकः १६९
भागोऽस्मिञ्झोम्बडेऽप्यूर्ध्वं ध्रुवादुद्ग्राहसंनिभः
ध्रुवाभोगध्रुवा गेयास्तत इत्यूचिरे परे १७०
उद्ग्राहस्तालशून्यश्चेत्स स्यादालापलम्भकः
स प्रलम्भो ध्रुवस्थाने यत्रोद्ग्राहोऽन्यधातुकः १७१
यत्र भागो भवेल्लम्भे भागलम्भः स भण्यते
त्रिश्चतुष्पञ्चवारं वा भिन्नोद्ग्राहसमन्वितः
ध्रुवको गीयते यत्र स लम्भपदमुच्यते १७२
ध्रुवभेदेऽनुलम्भोऽसौ द्विभेदे तूपलम्भकः १७३
एते त्रयोऽप्यनाभोगा विलम्भस्तु स उच्यते
उद्ग्राहा बहवो यस्मिन्ध्रुवाभोगविवर्जिताः
एते सालगसूडस्थैस्तालैराकलिता मताः १७४
इत्यष्टौ लम्भकाः
इति लम्भलक्षणम्
यो झोम्बडगतं लक्ष्म गमकस्थानकैर्विना
भजते रासकः सोऽयं रासतालेन गीयते
गणैर्वर्णैश्च मात्राभिः केचिदेनं त्रिधा जगुः १७५
स्याद्रासवलयो हंसतिलको रतिरङ्गकः
चतुर्थस्तत्र मदनावतारश्छगणादिजाः १७६
षडक्षराङ्घ्रितस्त्रिंशदक्षरावधिवर्णजाः
पञ्चविंशतिराख्याताश्चरणादष्टमात्रिकात् १७७
षष्टिमात्रावधि प्रोक्तास्त्रिपञ्चाशत्तु मात्रिकाः
लक्ष्ये प्रसिद्धिवैधुर्यात्तेष्वस्माकमनादरः १७८
इति रासकलक्षणम्
इति रास लक्षणम्
द्विरुद्ग्राहो ध्रुवोऽपि द्विराभोगध्रुवकौ ततः
गीत्वा न्यासो यत्र सा स्यादेकताल्येकतालिका १७९
अस्यामालापमात्रेण केचिदुद्ग्राहमूचिरे १८०
इत्येकताली । इति सूडक्रमः
इत्येकतालीलक्षणम्
इति शुद्धसूडक्रमः
बिरुदैर्वर्णतालेन वर्णः कर्णाटभाषया
तालत्रैविध्यतस्तस्य त्रैविध्यं गदितं बुधैः १८१
इति वर्णः
इति वर्णप्रबन्धः
स्वरैः पाटैः पदैस्तेनै रचना वाञ्छितक्रमात्
यस्य स्यात्तेनकैर्न्यासः स वर्णस्वर उच्यते १८२
स्वरादेरादिविन्यासभेदादेष चतुर्विधः १८३
इति वर्णस्वरः
गद्यं निगद्यते छन्दोहीनं पदकदम्बकम्
तत्षोढोत्कलिका चूर्णं ललितं वृत्तगन्धि च
खण्डं चित्रं च तेषां च प्रभवः सामवेदतः १८४
गातव्योत्कलिका वीरे रक्ता रुद्राधिदेवता
गौडीयरीतिरुचिरा वृत्तिमारभटीं श्रिता १८५
चूर्णं शान्ते रसे पीतं गातव्यं ब्रह्मदैवतम्
वैदर्भरीतिसंपन्नं सात्वतीं वृत्तिमाश्रितम् १८६
सितं मदनदैवत्यं शृङ्गाररसरञ्जितम्
ललितं कैशिकीं वृत्तिं पाञ्चालीं रीतिमाश्रितम् १८७
वृत्तगन्धि रसे शान्ते पीतं च मुनिदैवतम्
पाञ्चालरीतौ भारत्यां पद्यभागविमिश्रितम् १८८
खण्डं गणेशदैवत्यं सात्वतीं वृत्तिमाश्रितम्
श्वतं हास्यकृदारब्धं वैदर्भीभङ्गिसंभवम् १८९
शृङ्गारे वैष्णवं चित्रं चित्रकैशिकवृत्तिजम्
वैदर्भ्या रचितं रीत्या नानारीतिविचित्रया १९०
वेणी मिश्रमिति प्राहुरन्ये भेदद्वयं परम्
वेणी सर्वैः कृता मिश्रं चूर्णकैर्वृत्तगन्धिभिः १०१
द्रुता विलम्बिता मध्या द्रुतमध्या तथा परा
गतिर्द्रुतविलम्बा स्यात्षष्ठी मध्यविलम्बिता
इति गद्यस्य षट्प्रोक्ता गतयः पूर्वसूरिभिः १९२
लघुभिर्बहुलैरल्पैः समैराद्यत्रयं क्रमात्
पृथग्लगत्वे मिश्रैस्तु लगैस्तद्वत्परं त्रयम् १९३
प्रत्येकं गतिषटिकेन षट्त्रिंशद्गद्यजा भिदाः १९४
प्रणवाद्यमतालं च गमकैरखिलैर्युतम्
वर्णैश्चातालशब्दानां स्वरैरन्तेऽन्तराऽन्तरा १९५
प्रबन्धाङ्कं सतालं च पदद्वंद्वं पृथक्ततः
द्विर्गीत्वा गीयते यत्र प्रयोगोऽपि विलम्बितः १९६
गातृनाम सतालं च सतालं वर्ण्यनाम च
विलम्बितेन मानेन पुनरप्यविलम्बितम्
गीत्वा विलम्बितालेन न्यासो गद्यं तदिष्यते १९७
इति गद्यम्
इति गद्यप्रबन्धः
पाटैः स्यातां ध्रुवोद्ग्राहौ कैवाडे न्यसनं ग्रहे १९८
सार्थकैरर्थहीनैश्च पाटैः स द्विविधो मतः
स शुद्धैर्मिश्रितैः पाटैः शुद्धो मिश्र इति द्विधा १९९
इति कैवाडः
वीररौद्राश्रितैर्बद्धा बिरुदैरङ्कचारिणी
वर्ण्यनामान्विताभोगा तालेनेष्टेन गीयते २००
वासवी कलिका वृत्ता ततो वीरवती भवेत्
वेदोत्तरा जातिमती षट्प्रकारेति सा मता २०१
एकद्वित्रिचतुष्पञ्च तालाः स्युर्विरुदानि तु
अष्टौ षोडश तद्वच्च द्वात्रिंशद्द्व्यधिका क्रमात् २०२
पञ्चाशञ्च चतुर्युक्तं शतमाद्यासु पञ्चसु
नियमो जातिमत्यां तु न तालबिरुदाश्रयः २०३
इत्यङ्कचारिणी
कर्णाटादिपदैः पाटैर्विरुदैस्तालवर्जितः
आर्यागीतौ रसे वीरे कन्दः स्यात्पाटमुक्तिकः २०४
पवनो रविसंज्ञश्च धनदो हव्यवाहनः
सुरनाथः समुद्रश्च वरुणः शशिशैलकौ २०५
मधुमाधवनामानौ ततोऽपि मदनध्वजः
जयन्तो मधुपश्चाथ शुकसारसकेकिनः २०६
हरिश्च करभो हस्ती कादम्बः कूर्मको नयः
विनयो विक्रमोत्साहौ धर्मार्थः काम इत्यमी
एकोनत्रिंशदाख्याताः कन्दभेदाः पुरातनैः २०७
त्रिंशाद्गुरोरा द्विगुरोः क्रमादेकैकभङ्गतः २०८
इति कन्दः
हयलीलेन तालेन हयलीला द्विधा च सा
गद्यजा पद्यजा चेति पद्यजा तु चतुर्विधा २०९
पूर्वार्धमुत्तरार्धं वा द्वेधा तालयुतं यदि
आर्यायाः स्युस्तदा तिस्रश्चतुर्थी त्वादिमे दले
स्वरैः पदैस्तु बिरुदैः सताले रचिता मता २१०
केचित्तु हयलीलेन च्छन्दसा तां विदुर्बुधाः २११
इति नव तुरगलीलाः
इति हयलीलालक्षणम्
तालेन गजलीलेन गजलीला निगद्यते
छन्दोहीनेतरल्लक्ष्म हयलीलागतं मतम्
इति गजलीलालक्षणम्
शुद्धा खण्डा च मात्रादिः संपूर्णेति चतुर्विधा
द्विपदी करुणाख्येन तालेन परिगीयते २१३
पादे छः पञ्च भा गोऽन्ते जौ स्तः षष्ठद्वितीयकौ
चतुर्भिरीदृशैः पादैः शुद्धा द्विपदिकोच्यते
अर्धान्तेऽन्ये स्वरानाहुः खण्डा स्याच्छुद्धयाऽर्धया २१४
षष्ठेनैकेन गुरुणा मात्राद्विपदिका मता
ज्ञेया शुद्धैव संपूर्णा गुरुणाऽन्तेऽधिकेन तु २१५
प्लुनश्चतुर्धा द्विपदी मानवी चन्द्रिका धृतिः
तारेति मानवी छेन तद्वयेन कृताङ्घ्रिका २१६
यद्वयं नगणश्चान्ते लगौ चेच्चन्द्रिका मता
छगणेन चतुर्मात्रैस्त्रिभिश्च धृतिरुच्यते
तारा छेन चतुर्भिश्च यगणैरन्तिमए गुरौ २१७
इति द्विपदी
पूर्वपूर्वाक्षरव्राते योऽन्त्यो वर्णचयः स चेत्
उत्तरोत्तरसंघादौ चक्रवालस्तदोच्यते
गद्यपद्यप्रभेदेन स द्विधा गदितो बुधैः २१८
इति चक्रवालः
पदैः स्वरैः क्रौञ्चपदः प्रतितालेन गीयते
स्वरन्यासः स तन्नाम्ना छन्दसा मुक्तकोऽथवा २१९
इति क्रौञ्चपदः
इति क्रौञ्चपदलक्षणम्
यत्र स्वराक्षरैरेव वाञ्छितोऽर्थोऽभिधीयते
स स्वरार्थो द्विधा शुद्धो मिश्रस्तैः शुद्धमिश्रितैः २२०
ग्रहन्यासोऽस्य भूयोऽसौ सप्तधैकादिकैः स्वरैः
क्रमोत्क्रमाभ्यां बहुशो भिद्यन्ते द्विस्वरादयः २२१
इति स्वरार्थः
इति स्वरार्थलक्षणम्
ध्रुवोद्ग्राहौ भिन्नतालौ मण्ठकङ्कालवर्जितौ २२२
यस्यां समासु मात्रासु यतिर्मेलापको न च
तालद्वयेन सा गेया ढेङ्कीवद्ध्वनिकुट्टिनी २२३
इति ध्वनिकुट्टिनी
अर्धान्ते चरणान्ते वा स्वरान्न्यस्यार्धमादिमम्
द्विरार्याछन्दसो गीतं सकृद्गीतं दलान्तरम्
यत्राऽऽभोगे गातृनाम साऽऽर्या स्याद्ग्रहमुक्तिका २२४
लक्ष्मीः स्याद्वृद्धिबुद्धी च लीला लज्जा क्षमा तथा
दीर्घा गौरी ततो राजी ज्योत्स्ना छाया च कान्तिका २२५
मही मतिस्ततः कीर्तिरथ ज्ञेया मनोरमा
स्याद्रोहिणी विशाला च वसुधा शिवया सह २२६
हरिणी चाथ चक्राख्या सारसी कुररी तथा
हंसी वधूरिति प्रोक्ता आर्याः षड्विंशतिः क्रमात् २२७
षष्ठादन्यैर्गणैः सर्वगुरुभिः प्रथमा पराः
एकादिगुरुभङ्गेन क्रमाल्लक्ष्माण्यमूनि तु २२८
छन्दोलक्षणतो ज्ञेयाः शेषा भूरितरा भिदाः २२९
इत्यार्या
आर्यैव प्राकृते गेया स्यात्पञ्चचरणाऽथवा
त्रिपदी षट्पदी गाथेत्यपरे सूरयो जगुः २३०
इति गाथा
छन्दसा द्विपथेन स्याद्द्विपथः स्वरमुक्तिकः
तालहीनः सतालो वा स च ज्ञेयश्चतुर्विधः २३१
स्वरैरेकोऽन्यः प्रयोगैः सोभयानुभयौ परौ
प्राकृते दोहसंज्ञोऽसौ तस्य भेदा नव त्विमे २३२
सारसो भ्रमरो हंसः कुररश्चन्द्रलेखकः
कुञ्जरस्तिलको हंसक्रीडोऽप्यथ मयूरकः २३३
त्रयोदशायुजि समे मात्रा द्वादश सारसे
ओजेऽङ्घ्रौ मनवो मात्रा भ्रमरे रवयः समे २३४
मात्राः पञ्चदशायुग्मे हंसे युग्मे त्रयोदश
त्रयोदशायुजि कलाः कुररे मनवो युजि २३५
ओजे कलाश्चन्द्रलेखे तिथयो रवयः समे
त्रयोदशायुजि कलाः कुञ्जरे तिथयः समे २३६
मात्राः पञ्चदशायुग्मे तिलके मनवः समे
त्रयोदशासमे हंसक्रीडे युग्मे कलाः कलाः २३७
यद्येषामर्धयोरन्ते पञ्चादिलघुभिः शिखा
तं शिखाद्विपथं प्राहुर्मयूरमपि सूरयः
एतेषु व्यत्ययेनापि चरणानां स्थितिर्भवेत् २३८
भवन्त्येकादिपादानां सकृद्द्विर्गानभेदनः
द्विपथा भूरिभेदास्ते लक्ष्या लक्ष्येषु सूरिभिः २३९
इति द्विपथः
छन्दसः कलहंसस्य पादैरन्ते स्वरान्वितैः
कलहंसः स्वरे न्यासो गेयो झम्पादितालतः २४०
वर्णजो मात्रिकश्चेति कलहंसो द्विधा मतः
गद्यात्मा चेत्स्वरान्गीत्वा ततः पदनिवेशनम् २४१
इति कलहंसः
तोटकच्छन्दसा न्यस्तस्वरोऽङ्घ्र्यन्ते तु तोटकः
ननु वृत्ते वक्ष्यमाणे पुनरुक्तोऽत्र तोटकः १४२
सत्यं किंतु मते येषां वृत्तं वृत्ताख्यवृत्ततः
तन्मते तोटकस्येह नैवास्ति पुनरुक्तता २४३
इति तोटकः
तेनैरर्धं द्विपद्यर्धं घटे तेनकमुक्तिके २४४
इति घटः
छन्दसा येन केनापि तालेनेष्टेन गीयते
वृत्तं तस्य च पादान्ते वृत्तान्ते वा स्वरान्क्षिपेत् २४५
स्वरहीनं तदित्यन्ये वृत्तं छन्दसि चापरे
छन्दश्चित्यां विचेतव्याश्छन्दसां बहवो भिदाः २४६
इति वृत्तम्
एकैकमातृकावर्णपूर्वकाणि पदानि चेत्
क्रमेण परिगीयन्ते मातृका सा त्रिधा मता २४७
दिव्या च मानुषी दिव्यमानुषी चेति तत्र तु
दिव्या संस्कृतया वाचा मार्गतालैश्च गीयते २४८
मानुषी प्राकृतगिरा देशीतालैश्च निर्मिता
उभयोर्मिश्रणादुक्ता मातृका दिव्यमानुषी २४९
अनिबद्धा निबद्धा च द्विधा सा गद्यपद्यजा
सर्वमन्त्रमयी ह्येषा सर्वसिद्धिप्रदायिनी
गातव्या नियतैर्नित्यं गीर्वाणगणवल्लभा २५०
इति मातृका
नन्द्यावर्तः स्वस्तिकश्च द्विधा रागकदम्बकः
चतुर्वृत्तश्चतुस्तालो रागराजिविराजितः
नन्द्यावर्तो भवेत्तस्य तालमानद्वयेन वा २५१
उद्ग्राहेणाथवा न्यासो गद्येनैनं परे जगुः २५२
तालेनैकेन केचित्तु स्वस्तिको द्विगुणस्ततः
अब्जपत्रोऽब्जगर्भश्च भ्रमराम्रेडितौ मते
केषांचित्पूर्वपूर्वस्माद्द्विगुणः स्यात्परः परः २५३
इति रागकदम्बकः
आलापः प्रागतालः स्यात्पृथग्द्विः पदपञ्चकम्
चच्चत्प्लुटेन तेनैव स्वराः पाटास्ततः परम् २५४
द्विचच्चत्प्लुटमानेन पाटैः पटहसंभवैः
कार्योऽन्तरस्ततश्चाचत्पुटेन पदपञ्चकः २५५
तद्वत्तेन स्वराः पाटास्तद्विमानेन चान्तरः
हुडुक्कपाटैस्तदनु षट्पितापुत्रकेण च २५६
पृथक्पदानि पञ्च द्विस्तेनैव स्वरपाटकम्
तद्विमानाच्छङ्खपाटैरन्तरः स्यात्ततस्तु षट् २५७
प्रत्येकं द्विः पदानि स्युः संपक्वेष्टाकतालतः
ततस्तद्वत्स्वराः पाटास्तद्विमानेन चान्तरः २५८
कांस्यतालोद्भवैः पाटैरथोद्घट्टे पदानि षट्
प्राग्वत्तथा स्वराः पाटाः पाटैर्मुरजसंभवैः २५९
अन्तरः पूर्ववत्पश्चादाभोगश्चाविलम्बितः
प्रबन्धनाम्ना प्राङ्मानं नेतृनामाथ मङ्गलम्
वाक्यमालापके न्यासः पञ्चतालेश्वरो भवेत् २६०
वीरावतारः शृङ्गारतिलकश्चेति स द्विधा
वीरशृङ्गारयोस्तेन प्रीयन्ते सर्वदेवताः २६१
इति पञ्चतालेश्वरः
इत्यालिक्रमप्रबन्धाः
तालार्णवो भूरितालः स द्वेधा गद्यपद्यतः २६२
इति तालार्णवः
इत्यालिक्रमप्रबन्धलक्षणानि
तालै रागैश्चतुर्भिः स्याच्छ्रीरङ्गोऽन्ते पदान्वितः २६३
इति श्रीरङ्गः
स्वरान्तः श्रीविलासः स्यात्तालै रागैश्च पञ्चभिः २६४
इति श्रीविलासः
तेनकान्तः पञ्चभङ्गिः पाटैः पञ्चाननोऽन्तगैः २६५
रागाभ्यामपि तालाभ्यां
इति पञ्चभङ्गिपञ्चाननौ
स्यादुमातिलकः पुनः
बिरुदान्तस्त्रिभिस्तालै रागैः सर्वाङ्गिका इमे २६६
इत्युमातिलकः
आद्यौ द्विद्विगणौ पादौ तृतीयश्च चतुर्गणः
चतुर्थस्त्रिगणः पादेष्वेकादश गणा इमे २६७
रतेः षष्ठश्च दशमः शेषाः स्युर्मान्मथा गणाः
गीत्वाऽऽद्यपादौ तदनु किंचिच्छेषं तृतीयकम् २६८
ततः समग्रं तं गीत्वा चतुर्थो यदि गीयते
तदा स्यात्त्रिपदी तालहीना कर्णाटभाषया २६९
इति त्रिपदी
समे षोडश मात्राः स्युः पादे पञ्चदशायुजि
यस्यां भिन्नौ च यमकावर्धयोः सा चतुष्पदी
स्वरतेनकसंयुक्ता तेनकन्याससंयुता २७०
इति चतुष्पदी
षष्ठस्तृतीयस्त्रिगणः पृथग्द्विद्विगणाः परे
चत्वारश्चरणा बाणप्रान्तौ षष्ठतृतीयकौ २७१
इति षट्पदी
शेषास्तु मन्मथगणा यस्यां सा षट्पदी मता
कर्णाटभाषया तालवर्जिता नादमुक्तिका २७२
इति षट्पदी
भेदा वेद्यास्त्रिपद्यादेश्छन्दोलक्ष्मणि भूरयः २७३
मात्राः पञ्चदशाऽऽद्येऽङ्घ्रौ तृतीये पञ्चमे तथा
सूर्यास्तुर्ये द्वितीये च स्वरपाटान्तमादिमम् २७४
अपरं स्वरतेनान्तमर्धं तदनु दोहकः
यस्य स्यात्तेनके न्यासस्तद्वस्तु कवयो विदुः २७५
इति वस्तु
यत्र तेनैः स्वरैः पाटैः पदैर्विजयतालतः
गीयते विजयस्तेनैर्न्यासः स विजयो मतः २७६
इति विजयः
पादत्रयं त्रिपथके पाटैश्च बिरुदैः स्वरैः २७७
इति त्रिपथकः
स्वरैः पाटैः पदैस्तेनैर्वर्णैः स्थाय्यादिभिः क्रमात्
चत्वारश्चरणा गेया ग्रहे न्यासश्चतुर्मुखे २७८
इति चतुर्मखः
स्वरैः पाटैश्च बिरुदैस्तेनकैर्यो विरच्यते
सिंहलीलेन तालेन सिंहलीलः स उच्यते २७९
इति सिंहलीलः
स्वनामतालके हंसलीलेऽङ्घ्री पदपाटजौ २८०
इति हंसलीलः
पादैः स्वरैर्दण्डकेन च्छन्दसा दण्डको मतः
तस्य भूरितरा भेदाश्छन्दोलक्ष्मणि भाषिताः २८१
इति दण्डकः
झम्पटच्छन्दसा गेयं क्रीडातालेन झम्पटम् २८२
इति झम्पटः
पदैः पाटैर्श्च बिरुदैः कन्दुकः परिगीयते २८३
इति कन्दुकः
स्वरैः पाटैः पदैरुक्तस्त्रिभङ्गिः स च पञ्चधा
एकस्त्रिभङ्गितालेन वृत्तेनान्यस्त्रिभङ्गिना २८४
तालै रागैस्त्रिभिर्यद्वा यद्वा वृत्तत्रयान्वितः
यद्वा देवत्रयस्तुत्या तालद्वैगुण्यमुक्तिकः २८५
इति त्रिभङ्गिः
पदैश्च बिरुदैः पाटैस्तेनैर्हरविलासकः २८६
इति हरविलासः
पदैश्च बिरुदैस्तेनैर्निर्दिशन्ति सुदर्शनम् २८७
इति सुदर्शनः
पदैः स्वरैश्च बिरुदैरुद्ग्राहादि त्रयं क्रमात्
एकद्वित्राश्च तालाः स्युः स्वराङ्के न्यसनं स्वरैः २८८
इति स्वराङ्कः
श्रीवर्धनः स्याद्बिरुदैः पाटैरपि पदैः स्वरैः
तालमानद्वयन्यासौ निःशङ्केनेति कीर्तितम् २८९
इति श्रीवर्धनः
पदैश्च बिरुदैर्हर्षवर्धनः स्वरपाटकैः २९०
इति हर्षवर्धनः
छपद्वयं दो वदनं स्वरपाटयुतान्तरम्
तथोपवदनं प्रोक्तं छगणाच्छदतैर्युतम्
तथैव वस्तुवदनं छयुगाद्दचछैः कृतम् २९१
इति त्रिविधवदनम्
रागो हिन्दोलकस्तालश्चच्चरी बहवोऽङ्घ्रयः
यस्यां षोडशमात्राः स्युर्द्वौ र्द्वौ च प्राससंयुतौ २९२
सा वसन्तोत्सवे गेया चच्चरी प्राकृतैः पदैः
चच्चरीछन्दसेत्यन्ये क्रीडातालेन वेत्यपि
घुत्तादिच्छन्दसा वाऽस्य च्छन्दोलक्ष्मोदिता भिदाः २९३
इति चच्चरी
पद्धडीप्रभृतिच्छन्दाः पादान्तप्रासशोभिताः
अध्यात्मगोचरा चर्या स्याद्द्वितीयादितालतः २९४
सा द्विधा छन्दसः पूर्त्या पूर्णाऽपूर्णा त्वपूर्तितः
समध्रुवा च विषमध्रुवेत्येषा पुनर्द्विधा
आवृत्त्या सर्वपादानां गीयते सा ध्रुवस्य वा २९५
इति चर्या
युग्मपादान्तगप्रासा पद्धडीछन्दसा युता
बिरुदैः स्वरपाटान्तै रचिता पद्धडी मता २९६
इति पद्धडी
यत्र वीररसेन स्यात्सङ्ग्रामरचितस्तुतिः
बहुभिश्चरणैः साऽत्र राहडी परिकीर्तिता २९७
इति राहडी
पदैश्च बिरुदैर्बद्धा वीरश्रीरिति गीयते २९८
इति वीरश्रीः
यस्तु गद्येन प्लद्येन गद्यपद्येन वा कृतः
कैशिक्यां मङ्गलाचारः सनिःसारो स्वरान्वितः २९९
इति मङ्गलाचारः
त्रिविधो धवलः कीर्तिर्विजयो विक्रमस्तथा
चतुर्भिश्चरणैः षड्भिरष्टभिश्च क्रमादसौ ३००
विषमे डाच्च युग्मं चेत्तो वा दो वाऽधिकः समे
तदा स्यात्कीर्तिधवलो विजये त्वाद्यतुर्ययोः
कोदः षष्ठे द्वितीये च शेषौ द्वौ छेन पेन वा ३०१
प्रथमे चत्रयं दः स्यात्तृतीये दास्त्रयस्तु च
तुर्यद्वितीययोश्चोऽन्तः पञ्चमे सप्तमे तथा ३०२
षष्ठेऽष्टमे दाश्चत्वारो यस्यासौ विक्रमो मतः
आशीर्भिर्धवलो गेयो धवलादिपदान्वितः ३०३
यदृच्छया वा धवलो गेयो लोकप्रसिद्धितः ३०४
इति धवलः
कैशिक्यां बोट्टरागे वा मङ्गलं मङ्गलैः पदैः
विलम्बितलये गेयं मङ्गलच्छन्दसाऽथवा ३०५
इति मङ्गलः
खण्डत्रयं प्रासयुतं गीयते देशभाषया
ओवीपदं तदन्ते चेदोवी तज्ज्ञैस्तदोदिता ३०६
त्रयाणां चरणानां स्युरेकाद्यावृत्तितो भिदाः
आदिमध्यान्तगैः प्रासैरेकाद्यैश्च पदे पदे ३०७
छन्दोभिर्बहुभिर्गेया ओव्यो जनमनोहराः
सानुप्रासैस्त्रिभिः खण्डैर्मण्डिता प्राकृतैः पदैः
प्रान्ते लोलीपदोपेता लोली गेया विचक्षणैः ३०८
इति लोली
दोहडः स्याद्यदा प्रान्ते प्रोल्लसढ्ढोल्लरीपदाः
ढोल्लरी नाम सा प्रोक्ता लाटभाषाविभूषिता ३०९
इति ढोल्लरी
अनुप्रासप्रधानं चेत्खण्डत्रयसमन्वितम्
दन्तीपदान्वितं प्रान्ते तदा दन्ती निगद्यते ११०
इति दन्ती
अनुक्ताभोगवस्तूनां पदैराभोगकल्पना
ओव्यादयस्तु चत्वारो भवन्त्याभोगवर्जिताः ३११
इति षट्त्रिंशद्विप्रकीर्णप्रबन्धाः
शुद्धश्छायालगश्चेति द्विविधः सूड उच्यते
एलादिः शुद्ध इत्युक्तो ध्रुवादिः सालगो मतः ३१२
छायालगत्वमेलादेर्यद्यथाऽऽचार्यसंमतम्
लोके तथाऽपि शुद्धोऽसौ शुद्धसादृश्यतो मतः ३१३
जात्याद्यन्तरभाषान्तं शुद्धप्रकरणान्वितम्
तत्रोक्तः शुद्धसूडः प्राक्सालगस्त्वधुनोच्यते ३१४
आद्यो ध्रुवस्ततो मण्ठप्रतिमण्ठनिसारुकाः
अड्डतालस्ततो रास एकतालीत्यसौ मतः ३१५
एकधातुर्द्विखण्डः स्याद्यत्रोद्ग्राहस्ततः परम्
किंचिदुच्चं भवेत्खण्डं द्विरभ्यस्तमिदं त्रयम् ३१६
ततो द्विखण्ड आभोगस्तस्य स्यात्खण्डमादिमम्
एकधातु द्विखण्डं च खण्डमुच्चतरं म्परम् ३१७
स्तुत्यनामाङ्कितश्चासौ क्वचिदुच्चैकखण्डकः
उद्ग्राहस्याऽद्यखण्डे च न्यासः सध्रुवको भवेत् ३१८
एकादशाक्षरात्खण्डादेकैकाक्षरवर्धितैः
खण्डे ध्रुवाः षोडश स्युः षड्विंशत्यक्षरावधि ३१९
जयन्तशेखरोत्साहास्ततो मधुरनिर्मलौ
कुन्तलः कामलश्चारो नन्दनश्चन्द्रशेखरः ३२०
कामोदो विजयाख्यश्च कंदर्पजयमङ्गलौ
तिलको ललितश्चेति संज्ञाश्चैषां क्रमादिमाः ३२१
आदितालेन शृङ्गारे जयन्तो गीयते बुधैः
स नेतृश्रोतृगातॄणामायुःश्रीवर्धनो मतः ३२२
ऋद्धिसौभाग्यदो वीरे निःसारौ शेखरो भवेत्
प्रतिमण्ठेन हास्ये स्यादुत्साहो वंशवृद्धिकृत् ३२३
मधुरो भोगदो गेयः करुणे हयलीलया
क्रीडातालेन शृङ्गारे निर्मलस्तनुते प्रभाम् ३२४
लघुशेखरतालेन कुन्तलोऽभीष्टदोऽद्भुते
कामलो विप्रलम्भे स्याज्झम्पातालेन सिद्धिदः ३२५
हर्षोत्कर्षप्रदश्चारो वीरे निःसारतालतः
नन्दनो वीरशृङ्गार एकताल्येष्टसिद्धिदः ३२६
वीरे हास्ये च शृङ्गारे प्रतिमण्ठेन गीयते
अभीष्टफलदः श्रोतृगातॄणां चन्द्रशेखरः ३२७
प्ल्रतिमण्ठेन शृङ्गारे कामोदोऽभीष्टकामदः
हास्ये द्वितीयतालेन विजयो नेतुरायुषे ३२८
हास्यशृङ्गारकरुणेष्वादितालेन गीयते
कंदर्पो भोगदो नृणां श्रीसदाशिवसंमतः ३२९
क्रीडातालेन शृङ्गारे वीरे च जयमङ्गलः
जयोत्साहप्रदः पुंसां ध्रुवकस्तिलकाभिधः ३३०
रसे वीरे च शृङ्गार एकताल्या प्रगीयते
प्रतिमण्ठेन शृङ्गारे ललितः सर्वसिद्धये ३३१
स्याद्वर्णनियमः सर्वखण्डः खण्डद्वये तथा
यथोक्तान्यो जयन्तादीन्गायेन्निपुणया धिया
सर्वक्रतुफलं तस्येत्यवोचन्मुनिसत्तमः ३३२
इति ध्रुवलक्षणम्
द्वियत्येकविरामं वा यस्योद्ग्राहाख्यखण्डकम्
ततः खण्डं ध्रुवाख्यं द्विस्ततो वैकल्पिकोऽन्तरः ३३३
तं गीत्वा ध्रुवमागत्य वाऽऽभोगो गीयते सकृत्
ध्रुवे न्यासस्ततः प्रोक्तः स मण्ठो मण्ठतालतः ३३४
जयप्रियो म्नङ्गलश्च सुन्दरो वल्लभस्तथा
कलापः कमलश्चेति षड्भेदा मण्ठके मताः ३३५
षट्प्रकारो मण्ठतालो रूपकं तेन भिद्यते
वीरे जयप्रियो गेयो मण्ठेन जगणात्मना ३३६
मङ्गलो भेन शृङ्गारे सुन्दरः सेन तद्रसः
वल्लभो रेण करुणे कलापो नगणेन तु ३३७
विरामान्तेन गातव्यो रसे हास्ये विचक्षणैः
विरामान्तद्रुतद्वंद्वाल्लघुना कमलोऽद्भुते ३३८
इति मण्ठलक्षणम्
मण्ठवत्प्रतिमण्ठादेर्लक्ष्मोद्ग्राहादिकं मतम्
तेषामेष विशेषस्तु प्रत्येकं प्रतिपाद्यते ३३९
तत्र च प्रतिमण्ठेन तालेन प्रतिमण्ठकः
चतुर्धा सोऽमरस्तारो विचारः कुन्द इत्यपि
अमरो गुरुणैकेन शृङ्गारे स विधीयते ३४०
इत्यमरः
विरामान्तद्रुतद्वंद्वाल्लघुद्वंद्वेन जायते
ताराख्यः प्रतिमण्ठोऽसौ रसयोर्वीररौद्रयोः ३४१
इति तारः
लघुत्रयाद्विरामान्ताद्विचारः करुणे भवेत्
इति विचारः
कुन्दो विराममध्येन लत्रयेणाद्भुते भवेत् ३४२
इति कुन्दः
ते शृङ्गारेऽपि चत्वारो गीयन्ते लक्ष्मवेदिभिः ३४३
इति चतुर्विधप्रतिमण्ठलक्षणम्
बद्धो निःसारुतालेन प्रोक्तो निःसारुको बिधैः
वैकुन्दानन्दकान्ताराः समरो वाञ्छितस्तथा ३४४
विशालश्चेति स प्रोक्तः षड्विधः सूरिशार्ङ्गिणा
द्रुतद्वंद्वाल्लघुद्वंद्वाद्वैकुन्दो मङ्गले भवेत्
कुर्यादानन्दमानन्दे विरामान्तद्रुतद्वयात् ३४५
इति वैकुन्दानन्दौ
कान्तारो लगुरुभ्यां स्याद्विप्रलम्भे स गीयते
इति कान्तारः
लघुद्वयाद्विरामान्तात्समरो वीरगोचरः ३४६
इति समरः
लघुत्रयाद्द्रुतद्वंद्वाद्वाञ्छितो वाञ्छितप्रदः
इति वाञ्छितः
संभोगे स्याद्विशालाख्यो लाद्द्रुतद्वयतो लघोः ३४७
इति विशलः
इति षड्विधो निःसारुकः
अड्डतालेन तालेनाड्डतालः परिकीर्तितः
निशङ्कशङ्कशीलाश्च चारोऽथ मकरन्दकः ३४८
विजयश्चेति स प्रोक्तः षोढा सोढलमूनुना
लगुरुभ्यां द्रुतद्वंद्वान्निःशङ्को विस्मये भवेत् ३४९
इति निःशङ्कः
लघोर्द्रुतद्वयेन स्याच्छङ्कः शृङ्गारवीरयोः
इति शङ्कः
शान्ते शीलो विरामान्तद्रुतद्वंद्वाल्लघोर्भवेत् ३५०
इति शीलः
द्रुतद्वंद्वाल्लगाभ्यां स्याच्चारो वीरेऽद्भुते रसे
इति चारः
शृङ्गारे मकरन्दः स्याद्द्रुतद्वंद्वात्परे गुरौ ३५१
इति मकरन्दः
विजयाख्यो रसे वीरे द्रुताभ्यां लघुना भवेत् ३५२
इति विजयः
इति षड्विधोऽड्डतालः
रासको रासतालेन स चतुर्धा निरूपितः
विनोदो वरदो नन्दः कम्बुजश्चेति शार्ङ्गिणा
आलापान्तध्रुवपदाद्विनोदः कौतुके भवेत् ३५३
इति विनोदः
ध्रुवादालापमध्यात्तु वरदो देवतास्तुतौ ३५४
इति वरदः
खण्डमाद्यं द्विखण्डस्योद्ग्राहस्याऽऽलापनिर्मितम्
यस्यासौ रासको नन्दो गीयतेऽभ्युदयप्रदः ३५५
इति नन्दः
आलापादेर्ध्रुवपदात्कम्बुजः करुणे भवेत्
इति कम्बुजः
सर्वेषु रासकेष्वेषु द्विखण्डोद्ग्राहकल्पना ३५६
इति चतुर्विधरासकलक्षणम्
एकताली भवेत्तालेनैकताल्या त्रिधा च सा
रमा च चन्द्रिका तद्वद्विपुलेत्यथ लक्षणम् ३५७
सकृद्विरतिरुद्ग्राहोऽन्तरस्त्वक्षरनिर्मितः
यस्यामसौ रमा सा च गातृश्रोत्रोः श्रिये भवेत् ३५८
इति रमा
उद्ग्राहो द्विदलो यस्यामालापरचितोऽन्तरः
घनद्रुता घनयतिर्घनानुप्रासयोगिनी
चन्द्रिका सैकताली स्याद्भूरिसौभाग्यदायिनी ३५९
इति चन्द्रिका
आलापपूर्वकोद्ग्राहा विपुलानन्ददायिनी
आलापो गमकालप्तिरक्षरैर्वर्जिता मता
सैव प्रयोगशब्देन शार्ङ्गदेवेन शब्दिता ३६०
इति विपुला
इति त्रिविधैकतालीलक्षणम्
इति सालगसूडलक्षणम्
गुणान्वितं दोषहीनं नवं रूपकमुत्तमम् ३६१
रागेण धातुमातुभ्यां तथा ताललयौडुवैः
नूतनै रूपकं नूत्नं राम स्थायान्तरैर्नवः ३६२
धातु रागांशभेदेन मातोस्तु नवता भवेत्
प्रतिपाद्यविशेषेण रसालंकारभेदतः ३६३
लयग्रहविशेषेण तालानां नवता मता
तालविश्रामतोऽन्येन विश्रामेण लयो नवः ३६४
छन्दोगणग्रहन्यासप्रबन्धावयवैर्नवैः
औडुवापरपर्याया रचना नवतां व्रजेत् ३६५
रूपकं त्रिविधं ज्ञेयं परिवृत्तं पटान्तरम्
भञ्जनीसंश्रितं चेति शार्ङ्गदेवेन कीर्तितम् ३६६
खल्लोत्तारानुसारौ तु रूपकेष्वधमौ मतौ
रूपकं पूर्वसंसिद्धं स्वस्थानेन नवेन यत् ३६७
यद्वा रागेण तालेन कृतं तत्परिवृत्तकम्
यत्र स्थायिनि यत्स्थानं रूपकं रचितं पुरा ३६८
तत्स्वस्थानं तदन्यत्त्वं स्थाय्यैव परिवर्तनम्
परिवृत्तं रागतालपरिवर्तभवं स्फुटम् ३६९
तस्मिन्नेव रसे रागे ताले च रचितं भवेत्
मातुस्थायविचित्रत्वाद्गुणोदारं पटान्तरम् ३७०
केनापि रूपकं गीतं निजादन्येन धातुना
येन तस्यान्यधातुत्वाद्भञ्जनीसंश्रितं मतम् ३७१
प्राग्रूपकगतास्थायाः स्थानान्तरगता यदि
मात्वन्तरेण रच्यन्ते खल्लोत्तारस्तदा भवेत् ३७२
रागे ताले च तत्रैव किंचिद्धातुविलक्षणः
मात्वन्तरेणानुसारो गुणोत्कर्षविवर्जितः ३७३
इति पञ्चरूपकभेदलक्षणम्
व्यक्तं पूर्णं प्रसन्नं च सुकुमारमलंकृतम्
समं सुरक्तं श्लक्ष्णं च विकृष्टं मधुरं तथा ३७४
दशैते स्युर्गुणा गीते तत्र व्यक्तं स्फुटैः स्वरैः
प्रकृतिप्रत्ययैश्चोक्तं छन्दोरागपदैः स्वरैः ३७५
पूर्णं पूर्णाङ्गगमकं प्रसन्नं प्रकटार्थकम्
सुकुमारं कण्ठभवं त्रिस्थानोत्थमलंकृतम् ३७६
समवर्णलयस्थानं सममित्यभिधीयते
सुरक्तं वल्लकीवंशकण्ठध्वन्यैकतायुतम् ३७७
नीचोच्चद्रुतमध्यादौ श्लक्ष्णत्वे श्लक्ष्णमुच्यते
उच्चैरुच्चारणादुक्तं विकृष्टं भरतादिभिः
मधुरं धुर्यलावण्यपूर्णं जनमनोहरम् ३८७
इति गीतगुणाः
दुष्टं लोकेन शास्त्रेण शुर्तिकालविरोधि च
पुनरुक्तं कलाबाह्यं गतक्रममपार्थकम्
ग्राम्यं संदिग्धमित्येवं दशधा गीतदुष्टता ३७९
इति गीतदोषाः
इति श्रीमदनवद्यविद्याविनोदश्रीकरणाधिपतिश्रीसोढलदेवनन्दननिःशङ्कश्रीशार्ङ्गदेवविरचिते संगीतरत्नाकरे प्रबन्धाध्यायश्चतुर्थः समाप्तः ४