सङ्गीतरत्नाकरः

अथ षष्ठो वाद्याध्यायः ।
ततं येनावनद्धं च भुवनं निजमायया
आनन्दघनमध्येमि तं ब्रह्मसुषिरे हरम् १
चित्रा वाचः प्रवर्तन्ते धातुवृत्तिविचित्रिताः
यतस्तं नौमि विस्तारतत्त्वौघानुगतं शिवम् २
गीतं चतुर्विधाद्वाद्याज्जायते चोपरज्यते
मीयते च ततोऽस्माभिर्वाद्यमद्य निगद्यते
तत्ततं सुषिरं चावनद्धं घनमिति स्मृतम् ३
चतुर्धा तत्र पूर्वाभ्यां श्रुत्यादिद्वारतो भवेत्
गीतं ततोऽवनद्धेन रज्यते मीयते घनात् ४
वाद्यतन्त्री ततं वाद्यं सुषिरं सुषिरं मतम् ५
चर्मावनद्धवदनमवनद्धं तु वाद्यते
धनो मूर्तिः साऽभिघाताद्वाद्यते यत्र तद्घनम् ६
ततं वीणा द्विधा सा च श्रुतिस्वरविवेचनात्
तत्र श्रीशार्ङ्गिदेवेन श्रुतिचीणोदिता पुरा ७
वक्ष्यते स्वरवीणाऽत्र तस्यामपि विचक्षणाः
अङ्कित्वा स्वरदेशानां भागानुभिन्दते श्रुतीः ८
तद्भेदास्त्वेकतन्त्री स्यान्नकुलश्च त्रितन्त्रिका
चित्रा वीणा विपञ्ची च ततः स्यान्मत्तकोकिला ९
आलापिनी किंनरी च पिनाकीसंज्ञिता परा
निःशङ्कवीणेत्याद्याश्च शार्ङ्गिदेवेन कीर्तिताः १०
वंशः पावः पाविका च मुरली मधुकर्यपि
काहलातुण्डुकिन्यौ च चुक्का शृङ्गमतः परम् ११
शङ्खादयश्च वाद्यस्य सुषिरस्य भिदा मताः
पटहो मर्दलश्चाथ हुडुक्का करटा घटः १२
घडसो ढवसो ढक्का कुडुक्का कुडुषा तथा
रुञ्जा डमरुको डक्का मण्डिडक्का च डक्कुली १३
सेल्लुका झल्लरी भाणस्त्रिवली दुन्दुभिस्तथा
भेरीनिःसाणतुम्बक्यो भेदाः स्युरवनद्धगाः १४
तालोऽथ कांस्यतालः स्याद्घण्टा च क्षुद्रघण्टिका
जयघण्टा ततः केस्रा शुक्तिपट्टादयस्तथा
प्रभेदा घनवाद्यस्य प्रोक्ताः सोढलसूनुना १५
शुष्कं गीतानुगं नृत्तानुगमन्यद्द्वयानुगम्
चतुर्धेति मतं वाद्यं तत्र शुष्कं तदुच्यते १६
यद्विना गीतनृत्याभ्यां तद्गोष्ठीत्युच्यते बुधैः
ततः परं तु त्रितयं भवेदन्वर्थनामकम् १७
वाद्यं दक्षाध्वरध्वंसोद्वेगत्यागाय शंभुना
चक्रे कौतुकतो नन्दिस्वातितुम्बुरुनारदैः १८
अभिषेके नरेन्द्राणां यात्रायामुत्सवे तथा १९
मङ्गलेषु च सर्वेषु विवाहोपनयादिषु
उत्पाते संभ्रमे युद्धे नाटके वीररौद्रिणि २०
सर्वातोद्यानि वाद्यन्ते कानिचित्त्वल्पमङ्गले
विश्रान्तौ रङ्गसंस्थानां गायतां नृत्यतामपि २१
एतान्युत्साहकारीणि वीराणां मङ्गलाय च
कुर्वन्ति हृदयस्फूर्तिं दुःखमुन्मूलयन्ति च २२
गीतनृत्यगतन्यूनप्रच्छादनपटून्यपि
वाद्यान्यतस्ततादीनि तत्राऽऽदौ ब्रूमहे ततम् २३
तस्य वादनभेदांश्च विविधाः करसारणाः
सुषिरं पटहं तस्य पाटांस्तद्रचनास्तथा २४
पाटप्रभववाद्यानि प्रबन्धान्वाद्यसंश्रयान्
मर्दलाख्यं ततो वाद्यं भेदान्मार्दलिकस्य च २५
गुणदोषांश्च तद्वृन्दं स्वरूपस्य च लक्षणम्
हुडुक्काद्यवनद्धानां स्वस्वपाटसमन्वितम् २६
घनस्य च गुणान्दोषान्वाद्यवादकसंगतान्
हस्तयोश्च गुणानत्र वाद्याध्याये यथाक्रमम् २७
अङ्गुष्ठपर्वदैर्घ्यं स्यादङ्गुलं द्वादशाङ्गुलम्
वितस्तिस्तद्द्वयं हस्तो वाद्यभाण्डमितौ भवेत् २८
ग्रन्थिव्रणभिदा हीनः श्लक्ष्णः खदिरदारुजः
सुवृत्तः सरलो दण्डो वितस्तिपरिधिर्भवेत् २९
त्रिहस्तदैर्घ्यस्तावच्च सुषिरं दधदन्तरा
सार्धाङ्गुलपरीणाहमूर्ध्वाधोवदने तथा ३०
कनिष्ठाङ्गुलिमानं वा गर्भे रन्ध्रत्रयं दधत्
त्रेताग्निसंस्थितं यद्वा द्वे रन्ध्रे तर्जनीमिते ३१
एकमेव त्वधःशङ्कुस्थाने सार्धाङ्गुलायतम्
दधानः ककुभं सारं खादिरं वाऽन्यदारुजम् ३२
तिर्यक्संस्थेन दैर्घ्येणाष्टाङ्गुलत्र्यङ्गुलायतम्
अङ्गुलाधिकपार्श्वं च मध्ये कूर्मोन्नताकृतौ ३३
स्थितेन पत्रिकाधारगर्तेन च समन्वितम्
गर्तमध्ये च रन्ध्रेण योन्याकारेण संयुतम् ३४
रन्ध्रे तत्र निविष्टेन रन्ध्रस्थौल्येन शङ्कुना
अन्वितां पत्रिकां मिश्रलोहजां द्व्यङ्गुलायताम् ३५
चतुरङ्गुलदैर्घ्यां च मध्ये कूर्मोन्नताद्बहिः
निम्नमध्यं मनागन्तर्धारयन्तमधः पुनः ३६
द्विदण्डिकं शङ्कुनाऽष्टाङ्गुलदैर्घ्ययुजा तथा
वृत्तेन त्र्यङ्गुलस्थूलोत्तरार्धश्लक्ष्ममूर्तिना ३७
कूर्मपृष्ठोन्नतं मध्यमुत्तरार्धस्य बिभ्रता
दण्डवत्क्रमितस्थौल्याधरभागयुतेन च ३८
दण्डवक्त्रप्रविष्टाधोभागेन च विराजितम्
एवंविधस्य दण्डस्योर्ध्वाधः सप्तदशाङ्गुलैः ३९
अधोभागेऽक्षिसदृशं विधाय विवरद्वयम्
एकत्र द्विगुणां तन्त्रीं क्षिप्त्वा रन्ध्रे परत्र च ४०
तन्त्रीप्रान्तान्तरे क्षिप्त्वा प्रोतं तद्द्विगुणे ततः
द्विगुणात्कर्षणात्कर्षेत्पुनरेवं समाचरेत् ४१
षष्ट्यङ्गुलपरीणाहं सुपक्वं वर्तुलं च यत्
तुम्बस्योत्सेधतस्तस्य वदनं द्वादशाङ्गुलम् ४२
वृत्तस्थानस्थया नाभ्याऽधोमुख्या मध्यरन्ध्रया
त्र्यङ्गुलायतया युक्तं पृष्ठसंश्लिष्टपृष्ठया ४३
तुम्बकं मध्यरन्ध्रं स्यात्कर्परं नालिकेरजम्
अन्तस्थरन्ध्रसंलग्नं पृष्ठमध्येन रन्ध्रिणा ४४
तं दधद्रन्ध्रमध्येऽथ तन्त्रीप्रान्तौ निवेश्य तौ
संवेष्ट्य कीलकेऽन्तस्थे कीलकं भ्रामयेन्मुहुः ४५
तावद्यावद्दृढो बन्धस्तुम्बकस्यैव जायते
एवं तुम्बकमुत्तानं दण्डे तज्ज्ञैर्निबध्यते ४६
दोरकं नागपाशेन द्विगुणेनान्वितं ततः
सुबलश्लक्ष्णसूत्रोत्थं दण्डे तुम्बोर्ध्वदेशतः ४७
संवेष्ट्य नागपाशेऽस्मिन्बद्धप्रान्तां दृढां घनाम्
श्लक्ष्णां स्नायुमयीं तन्त्रीं कृष्ट्वा संपीड्य पत्रिकाम् ४८
तन्त्र्या संवेष्ट्य ककुभं निबध्नीयाद्दृढं ततः
वैणवी यवविस्तारा तन्वी द्व्यङ्गुलदैर्घ्यभाक् ४९
तन्त्रीपत्रिकयोरन्तजीवा नादस्य सिद्धये
संदिग्धपत्रिका तन्त्री श्लेषं क्षेप्या कलावता ५०
या पक्ववेणुवल्कोत्था दोरिका त्रिवृता शुभा
कनिष्ठा नखविस्तारा द्वादशाङ्गुलदैर्घ्यभाक् ५१
सुवृत्ता मसृणा तुम्बादधस्तादङ्गुलत्रये
दण्डे संवेष्टयेन्मन्द्रस्वरस्थानोपलक्षिकाम् ५२
यत्राभिदधिरे धीरास्तां वीणामेकतन्त्रिकाम्
प्रकृतिः सर्ववीणानामेषा श्रीशार्ङ्गिणोदिता ५३
दर्शनस्पर्शने चास्या भोगस्वर्गापवर्गदे
पुनीतो विप्रहत्यादिपातकैः पतितं जनम् ५४
दण्डः शंभुरुमा तन्त्री ककुघः कमलापतिः
इन्दिरा पत्रिका ब्रह्मा तुम्बं नाभिः सरस्वती ५५
दोरको वासुकिर्जीवा सुधांशुर्दोरिका रविः
सर्वदेवमयी तस्माद्वीणेयं सर्वमङ्गला ५६
अधस्तुम्बमधोवक्त्रमूर्ध्वं तन्त्रीर्यथा भवेत्
तथाऽस्या द्दोरिकादेशं वामस्कन्धे निधाय च ५७
ककुभं दक्षिणस्याङ्घ्रेः पार्ष्ण्या संधाय यत्नतः
न्यस्तां पृष्ठे कनिष्ठाया वामहस्तस्य कम्रिकाम् ५८
सारणासारणेत्युक्तामनामाङ्गुलिवेष्टिताम्
आकुञ्चन्मध्यमापार्श्वलग्नां तर्जनिकाग्रतः ५९
निपीड्योरःस्थलासन्नां तन्त्रीमधिनिधाय च
ऊर्ध्वाधः सारयेन्नादसिद्ध्यै हस्तं तु दक्षिणम् ६०
त्यक्त्वा वितस्तिं जीवातस्तन्त्र्यां विन्यस्य सारयेत्
अन्यत्रोपरिवाद्यान्तं नोर्ध्वं वक्षःस्थलान्नयेत् ६१
कम्रिका तत्क्रिया चोक्ता सारणा सा चतुर्विधा
उत्क्षिप्ता संनिविष्टाख्योभयी स्यात्कम्पितेत्यपि ६२
श्लिष्टा तन्त्री यदोत्प्लुत्य निपतेत्सारणां मुहुः
तदोत्क्षिप्ता संनिविष्टा स्पृष्ट्वैव सरने भवेत् ६३
क्रमादेतद्दूयाभ्यां स्यादुभयी सारणा मता
स्वरस्थाने कम्पनेन कम्पिता कम्रिकोच्यते ६४
घातः पातश्च संलेखस्ततो लेखावलेखकौ
भ्रमरः संधितच्छिन्नौ नवमी नखकर्तरी ६५
व्यापारा दक्षिणस्येति पाणेर्वामस्य तु द्वयम्
स्फुरितः खसितश्चेति करयोरुभयोस्त्वमी ६६
घोषो रेफोऽथ बिन्दुः स्यात्कर्तरी चार्धकर्तरी
निष्कोटिताख्यः स्खलितः शुकवक्त्रश्च मूर्छना ६७
तलहस्तोऽर्धचन्द्रश्च प्रसारः कुहरोऽपरः
त्रयोदशेति सर्वेऽमी स्युश्चतुर्विंशतिर्युताः ६८
करनामान्यपीमानि मन्वते वाद्यवेदिनः
घातः स्यान्मध्यमाक्रान्ततर्जन्या तन्त्रिकाहतिः ६९
इति घातः
घातः केवलया पातः
इति पातः
संलेखोऽन्तस्तथाऽऽहतिः
इति संलेखः
अन्तर्मध्यमया घातमुल्लेखं संप्रचक्षिरे ७०
इत्युल्लेखः
अवलेखो मध्यमया स्यात्तन्त्रीताडनं बहिः
अङ्गुल्याऽन्येऽन्ययाऽप्याहुः संलेखं चावलेखकम् ७१
सर्वाभिस्तिसृभिर्द्वाभ्यामथवेति च ते जगुः
अन्तर्बहिर्मुखौ घातौ तयोस्ते ब्रुवते क्रमात् ७२
इत्यवलेखः
भ्रमरोऽन्तःक्रमाच्छीघ्रं चतुरङ्गुलिताडनम्
इति भ्रमरः
मध्यमानामिकाभ्यां तु बहिर्घातोऽत्र संधितः ७३
इति संधितः
तर्जनीपार्श्वलग्नायास्तन्त्र्या बहिरनामया
हननं छिन्नमाचष्टे श्रीमत्सोढलनन्दनः ७४
इति च्छिन्नः
क्रमाद्द्रुतं नखैर्घातश्चतुर्भिर्नखकर्तरी
इति नखकर्तरी
इति नव दक्षिणहस्तव्यापाराः
स्फुरिते कम्पिता तन्त्रीः पृष्ठलग्नेव सारणाः ७५
इति स्फुरितः ।
मुहुः सारणया तन्त्रीघर्षणं खशितो मतः
इति खशितः
इति वामहस्तव्यापारद्वयम्
तन्त्री लग्नाङ्गुष्ठपार्श्वा कर्तरीवच्च हन्यते ७६
कनिष्ठासारणाभ्यां वा यत्रासौ घोष उच्यते
इति घोषः
दक्षिणानामया यअत्र तन्त्रीरन्तर्निहन्यते
वामस्य मध्यमाङ्गुल्या बहिस्तं रेफमूचिरे ७७
इति रेफः
अनामया बहिस्तन्त्रीघाताज्जातो यदा ध्वनिः
तर्जन्या धार्यते बिन्दुर्निःशङ्केनोदितस्तदा ७८
इति बिन्दुः
अङ्गुलीभिश्चतसृभिः क्रमेण करयोर्द्वयोः
बहिस्तन्त्रीहतिस्तूर्णं कर्तरी कीर्तिता बुधैः ७९
इति कर्तरी
दक्षिणः कर्तरीं कुर्याद्वामहस्तस्तु तन्त्रिकाम्
यत्र सारणया हन्ति प्राहुस्तामर्धकर्तरीम् ८०
इत्यर्धकर्तरी
उत्सृष्टसारणा यत्र हनित् तन्त्रीं प्रदेशिनी
निष्कोटिताभिधं पाणिममुं वाद्यविदो विदुः ८१
इति निष्कोटितः
उत्क्षिप्तया सारणया वामस्तन्त्रीं द्रुतं यदा
निहन्ति कर्तरीतुल्यो दक्षिणः स्खलितस्तदा ८२
इति स्खलितः
तन्त्रीकर्षोऽङ्गुष्ठतर्जन्यग्राभ्यां शुकवक्त्रकः ८३
इति शुकवक्त्रः
उद्वेष्टपरिवर्ताभ्यां तन्त्र्यां भ्राम्यति दक्षिणे
स्वरस्थाने द्रुतं कम्रासारणं मूर्छना मता ८४
इति मूर्छना
तलेन दक्षिणो हस्तस्तन्त्रीं हन्तीतरः युनः
प्रदेशिन्या स्पृशेद्यत्र तलहस्तो भवेदसौ ८५
इति तलहस्तः
स्पर्शोऽङ्गुष्ठकनिष्ठाभ्यामर्धचन्द्रोऽभिधीयते
इत्यर्धचन्द्रः
चतुरङ्गुलिसंघाते कुञ्चिताङ्गुष्ठके तले
कनिष्ठातर्जनीपार्श्वस्पर्शस्तन्त्र्याः प्रसारकः ८६
इति प्रसारकः
करस्य किंचित्साङ्गुष्ठसकलाङ्गुलिकुञ्चने
कनिष्ठाङ्गुष्ठसंस्पर्शस्तन्त्र्याः स्यात्कुहरः करः ८७
इति कुहरः
इति त्रयोदशोभयहस्तव्यापाराः ।
एतद्धस्तसमायोगाद्वादनं वाद्यमुच्यते
छन्दो धारा कैकुटी च कङ्कालं वस्तु च द्रुतम् ८८
गजलीलं दण्डकं चोपरिवाद्यमतः परम्
वाद्यं पक्षिरुतं चेति दशधा परिकीर्तितम् ८९
खसितस्फुरितौ यत्र क्रियेते बहुधा करौ
तारं च स्पृश्यते स स्याच्छन्दो यतिमनोहरः ९०
इति च्छन्दः
स्खलितो मूर्छना चाथ कर्तरीरेफसंयुतौ
उल्लेखरेफौ यत्राऽऽस्तां धारां ब्रूते हरप्रियः ९१
इति धारा
शुकवक्त्रः स्फुरितको घोषः स्यादर्धकर्तरी
क्रमादेते करा यत्र तामाहुः कैकुटीं बुधाः ९२
इति कैकुटी
स्फुरितैर्मूर्छनासंज्ञैः कर्तरीत्रितयेन च
युक्तं करैः क्रमादेभिः कङ्कालं कथितं बुधैः ९३
इति कङ्कालम्
स्पृष्टतारमुपेतं यत्कर्तर्या खसितेन च
कुहरेणाथ तद्वाद्यं वस्तु वस्तुविदो विदुः ९३
इति वस्तु
कर्तरीखसितौ यत्र क्रमेण कुहरः करः
रेफभ्रमरघोषाश्च तद्द्रुतं ब्रुवते बुधाः ९४
इति द्रुतम्
बहुधा मूर्छना हस्ताः स्फुरिताः कर्तरी ततः
खसितो यत्र तत्प्राहुर्गजलीलं कलाविदः १५
इति गजलीलम्
स्खलितो मूर्छनाख्यश्च कर्तरीरेफसंयुतः
खसितो मूर्छनाख्यश्च कर्तरीरेफसंयुतः
खसितो यत्र वाद्यज्ञा दण्डकं तद्बभाषिरे ९६
इति दण्डकम्
ऊर्ध्वाधोगौ क्रमाद्धस्तौ रेफकर्तरिकाह्वयौ
निष्कोटिते तले हस्ते द्वावप्युपरिवाद्यके ९७
इत्युपरिवाद्यकम्
समस्तहस्तवाद्यं तु वाद्यं पक्षिरुतं मतम्
इति पक्षिरुतम्
इति दशविधं वाद्यम्
सकलं निष्कलं चेति द्विविधं वाद्यमुच्यते ९८
तन्त्रीसंलग्नजीवातः स्थूलो यत्र ध्वनिर्भवेत्
तदुक्तं सकलं वाद्यमपरे त्वन्यथा जगुः ९९
आदोरिकं पत्रिकं चेत्तर्जनीस्पर्शवर्जितम्
सार्यते कम्रिकावाद्यं तदाहुः सकलाभिधम् १००
अपनीय कलां कम्रामधो नैषाददेशतः
न नयेत्तर्जनीस्पर्शं तन्त्रयाश्चेन्निष्कलं तदा १०१
सूक्ष्मश्चात्र भवेन्नादः सारणामत्र केचन
आमध्यमस्वरस्थानं सारणायां प्रपेदिरे १०२
अवोचदिति निःशङ्कः शिष्याभ्यासाय वादनम्
श्रुत्यादिक्रमतो गीतनिष्पत्तौ त्विदमादिशेत् १०३
वक्ष्यामः स्वररन्ध्राणां यद्वंशेऽष्टादशाङ्गुले
प्रथमे सप्तके स्थानं वीणायामपि तन्मतम् १०४
स्वराणां किंतु वैणानामधराधरतारता
मध्यमे सप्तके स्थानं ततः स्याद्द्विगुणान्तरम् १०५
तृतीये सप्तके स्थानं ततोऽपि द्विगुणान्तरम्
अङ्केत च स्वरस्थानान्यमूनि सुखबुद्धये १०६
यथास्वं स्वरभेदानां विभागाच्छ्रुतिदेशधीः
स्याद्ग्राममूर्छनादीनामुद्बोधः सुकरस्ततः
एषा पिञ्जरकाः प्रोक्ता घोषकश्चैकतन्त्रिका १०७
इत्येकतन्त्रीलक्षणम्
तन्त्रीद्वयेन नकुलः स्यादन्वर्था त्रितन्त्रिका
तन्त्रीभिः सप्तभिश्चित्रा विपञ्ची नवभिर्मता १०८
कोणाङ्गुलीवादनीया चित्रा तद्वद्विपञ्चिका
क्रमादन्येऽङ्गुलीकोणव्यवस्थामूचिरे तयोः १०९
चित्रायामङ्गुलीमात्रं विपञ्च्यामुभयं परे
तन्त्रीणामेकविंशत्या कीर्तिता मत्तकोकिला ११०
मुख्येयं सर्ववीणानां त्रिस्थानैः सप्तभिः स्वरैः
संपन्नत्वात्तदन्यास्तु तस्याः प्रत्यङ्गमीरिताः
करणैश्चित्रयन्त्यस्तास्तस्याः स्युरुपरञ्जिकाः १११
रूपं कृतप्रतिकृतं प्रतिभेदस्ततः परम्
स्याद्रूपशेषमोघश्च प्रतिशुष्केति षड्विधम्
करणं तस्य वक्ष्यामि लक्ष्मोदाहरणैः समम् ११२
मुख्यवीणाप्रयुक्तस्य गुर्वादेर्भञ्जनेन यत्
युगपद्वादनं रूपं विपञ्च्यादिषु तद्यथा ११३
वाद्यते गुरुमुख्यायां यदा द्वे लघुनी तदा
विपञ्च्यादौ यदा त्वस्यां लस्तदन्यासु दद्वयम् ११४
इति रूपम्
एतत्कृतप्रतिकृतं पश्चात्प्रत्यङ्गवादने
इति कृतप्रतिकृतम्
रूपक्रियाविपर्यासात्प्रतिभेदो भवेद्यथा ११५
वाद्यते लद्वयं तज्ज्ञैर्मत्तकोकिलया यदा
गुरुस्तदा विपञ्च्यादिवीणाभिरिति तद्विधिः ११६
इति प्रतिभेदः
यदा विदारीविच्छेदं कुरुते मुख्यवैणिकः
तदाऽन्यासां वादनं यद्रूपशेषं तदुच्यते ११७
इति रूपशेषम्
यदा विलम्बितलयं प्रयुङ्क्ते मुख्यवैणिकः
तदैवातिद्रुतलयं करचातुर्ययोगतः
वैपञ्चिकाद्याः कुर्युश्चेदोघमाचक्षते तदा ११८
इत्योघः
अंशसंवाद्यन्यतरस्वरव्यञ्जिकया यदा ११९
तन्त्र्यैकयैव करणं स्यान्मुख्यामुख्यवीणयोः
प्रतिशुष्कां तदाऽऽचष्टशार्ङ्गिदेवो विदांवरः १२०
इति प्रतिशुष्का
पुष्णन्ति वीणावाद्यं ये रक्तिं दधति चातुलाम्
कुर्वन्त्यदृष्टपुष्टिं च तान्धातूनधुना ब्रुवे १२१
ये प्रहारविशेषोत्थाः स्वरास्ते धातवो मताः
विस्तारकरणा विद्धव्यञ्जनाश्चेति धातवः १२२
चतुर्धा तेषु विस्तारश्चतुर्धा बोधितो बुधैः
विस्तारजश्च संघातजोऽथ स्यात्समवायजः १२३
अनुबन्धश्चेति चतुर्भेदः संघातजो भवेत्
द्विरुत्तरो द्विरधरोऽप्यधराद्युत्तरान्तकः १२४
उत्तराद्यधरान्तश्चेत्यष्टधा समवायजः
त्रिरुत्तरस्त्रिरधरोऽथ द्विरुत्तरपूर्वकः १२५
अधरान्तो द्विरधरोत्तरान्तश्चोत्तरादिकान्
परो द्विरधरोऽथ स्यादधरादिर्द्विरुत्तरः १२६
मध्योत्तरद्विरधरोऽधरमध्यद्विरुत्तरः
एवं चतुर्दशविधो विस्तारः शार्ङ्गिणोदितः १२७
करणस्य तु भेदाः स्यू रिभितोच्चयसंज्ञकौ
तथा नीरटितो ह्रादोऽनुबन्ध इति पञ्च ते १२८
क्षेपः प्लुतोऽतिपातश्चातिकीर्णोऽप्यनुबन्धकः
इत्याविद्धे पञ्च भेदा दश तु व्यञ्जने मताः १२९
पुष्पं कलं तलं बिन्दू रेफो निस्वनितं ततः
निष्कोटितमथोन्मृष्टमवमृष्टनिबन्धनौ
इति सर्वे चतुस्त्रिंशन्मिलिता धातवो मताः १३०
विस्तीर्णनादभेदत्वाद्विस्तारो धातुरुच्यते
प्रहारलाघवात्कृत्वा स्वरान्ति स्वरो विस्तारजो भवेत्
एकविस्तारसंज्ञं तमपरे सूरयो जगुः १३२
अलंकारत्वमप्यस्य निःशङ्को निरदीधरत् १३३
इति विस्तारजः
अत्रोत्तराधरौ ज्ञेयौ मन्द्रतारौ स्वरौ क्रमात्
उत्तराधरघातौ हि तयोर्निष्पादकाविह १३४
संघातेज ये चत्वारस्तथाऽष्टौ समवायजे
भेदास्तेऽन्वर्थनामानस्तल्लक्ष्मोक्तिरनर्थिका १३५
तथाऽपि वालबोधाय तान्वयं विवृणीमहे
मन्द्रस्वरद्विरुच्चाराद्धातुरत्र द्विरुत्तरः १२६
इति द्विरुत्तरः
तारस्थाने द्विराघाताद्धातुर्द्विरधरो भवेत्
इति द्विरधरः
यस्त्वादितारो मन्द्रान्तः सोऽधराद्युत्तरान्तकः १३७
इत्यधराद्युत्तरान्तकः
आदौ मन्द्रस्ततस्तार उत्तराद्यधरान्तके
इत्युत्तराद्यधरान्तकः
एते संघातजे भेदा द्विःप्रहारभवे मताः १३८
इति संघातजस्य भेदचतुष्टयम्
मन्द्रस्वरत्रिराघाताद्धातुमाहुस्त्रिरुत्तरम्
इति त्रिरुत्तरः
त्रिस्तारस्वरघातेन धातुस्त्रिरधरो भवेत् १३९
इति त्रिरधरः
द्विरुत्तराधरान्तो द्विर्मन्द्रस्तारान्तगो भवेत्
इति द्विरुत्तराधरान्तः
तारस्थानं द्विः प्रहृत्य विदध्यान्मन्द्रमन्ततः १४०
आ! तदा द्विरधरोत्तरान्तो धातुरुच्यते
इति द्विरधरोत्तरान्तः
उत्तरादिद्विरधरे मन्द्रतारो द्विरिष्यते १४१
इत्युत्तरादिद्विरधरः
सकृत्तारोऽथ मन्द्रो द्विरधरादिद्विरुत्तरे
इत्यधरादिद्विरुत्तरः
मध्योत्तरद्विरधरे तारौ मध्यस्थमन्द्रकौ १४२
इति मध्योत्तरद्विरधरः
मन्द्राद्यन्तो भवेत्तारोऽधरमध्यद्विरुत्तरे
इत्यधरमध्यद्विरुत्तरः
त्रिप्रहारभवे भेदाः स्युरिमे समवायजे १४३
इत्यष्टौ समवायजभेदाः
सजातीयविजातीयभेदसंमिश्रणोद्भवः
अनुबन्धाभिधो धातुः शार्ङ्गदेवेन कीर्तितः १४४
इत्यनुबन्धः
इति चतुर्दश विस्तारधातुभेदाः
लघुगुर्वात्मकैर्घातैः करणाविद्धयोः क्रियाः
करणोऽल्पगुरुस्तत्र तद्भेदाल्लँक्षयेऽधुना १४५
रिभितो द्वौ लघू गान्तौ
इति रिभितः ।
चतुर्लान्गगुरूच्चयः
इत्युच्चयः
षड्लोऽन्तगुर्नीरटितः
इति नीरटितः
ह्रादोऽष्टलघुरन्तगः १४६
इति हादः
करणस्यानुबन्धस्तु स्याद्विस्तारानुबन्धवत् १४७
इत्यनुबन्धः
भूरिगुर्गुरुहीनो वाऽऽविद्धोऽस्य विवृणे भिदाः
क्षेषो लघुगुरुभ्यां स्यात्
इति क्षेपः
प्लुतो लघुगुरुर्भवेत् १४८
इति प्लुतः
अतिपातो लगाभ्यां द्विः
इत्यतिपातः
चतुर्वारं लगौ ततः
लघुर्यत्रातिकीर्णोऽसौ
इत्यतिकीर्णः
अनुबन्धस्तु पूर्ववत् १४९
इत्यनुबन्धः
द्वाभ्यां त्रिभिश्चतुर्भिश्च नवभिर्लघुभिः क्रमात्
क्षेपादयोऽत्र चत्वारो भवन्तीत्यपरेऽब्रुवन् १५०
इति पञ्चाऽऽविद्धधातुभेदाः
अङ्गुलीभेदमात्रेण व्यञ्जनस्तद्भिदा ब्रुवे १५१
अङ्गुष्ठाभ्यां कनीयस्या तन्त्रीरेका निहन्यते
युगपद्यत्र तत्पुष्पमभिलेखुः पुरातनाः १५२
इति पुष्पम्
एकस्वरं यदा नानास्थानकं तन्त्रिकाद्वयम्
अङ्गुष्ठाभ्यामेककाले निहन्ति स्यात्कलं तदा १५३
इति कलम्
दक्षिणाङ्गुष्ठतो हन्ति वामाङ्गुष्ठनिपीडिताम्
तन्त्रीं यत्र तदाऽऽचष्ट तलं सोढलनन्दनः १५४
इति तलम्
बिन्दुरेकत्र तन्त्र्यां स्यात्प्रहारो गुरुनादकृत्
इति बिन्दुः
रेफस्त्वेकस्वरो घातः क्रमात्सर्वाङ्गुलीकृतः १५५
इति रेफः
तलं कृत्वाऽवरोहेण घातो निस्वनितं मतम्
इति निस्वनितम्
वामाङ्गुष्ठेन तूर्ध्वाधोघातो निष्कोटितं मतम् १५६
इति निष्कोटितम्
घातोऽतिमधुरध्वानस्तर्जन्योन्मृष्टमुच्यते
इत्युन्मृष्टम्
कनिष्ठया दक्षिणयाऽङ्गुष्ठाभ्यामप्यधः सरन् १५७
हन्ति त्रिस्थानकं तन्त्रीत्रयमेकस्वरं पृथक्
यत्रावमृष्टमाचष्ट तद्यज्ञपुरमण्डनः १५८
उक्तानुबन्धवद्वोध्यमनुबन्धस्य लक्षणम्
नन्वेकलक्ष्मभेदोऽयं गण्यते किं पृथक् पृथक् १५९
मैवं तद्धातुभेदानां बाहुल्यं यत्र दृश्यते
विशिष्टो धातुना तेन सोऽनुबन्धो भिदां व्रजेत् १६०
इत्यनुबन्धः
इत्येते धातवः प्रोक्ताः सर्ववाद्योपयोगिनः
यथास्थानं प्रयोक्तव्यास्ते च वृत्तिसमाश्रयाः १६१
तत्र जातिरुदात्ता स्याद्विस्तारे करुणे घना
आविद्धधातौ रिभिता व्यञ्जने ललिता मता १६२
इति चतुस्त्रिंशद्धातवः
वृत्तिर्गुणप्रधानत्वरूपा व्यवहृतिर्मता
चित्रा वृत्तिर्दक्षिणा च तिस्रः स्युरिति वृत्तयः १६३
चित्रा वाद्यप्रधानत्वं गीतस्य गुणतोच्यते
उभयोः समभावेन वृत्तिर्वृत्तिरुदाहृता
गीतप्रधानतावाद्यगुणता दक्षिणा मता १६४
द्रुतादिकाल्लँयानासां नियच्छन्ति क्रमात्परे
समां स्रोतोगतां तद्वद्गोपुच्छां च यतिं क्रमात् १६५
मागधीं संभाविताख्यां गीतिं च पृथुलां क्रमात्
ओघं चानुगतं तत्त्वं वाद्यान्येतान्यनुक्रमात् १६६
मार्गं चित्रं वार्तिकाख्यं दक्षिणाख्यं यथाक्रमम्
अनागतसमातीतान्प्रहानिह च मन्वते १६७
इति वृत्तित्रयम्
तत्त्वं भवेदनुगतमोघश्चेति निरूपितम्
गीतानुगं त्रिप्रकारं वाद्यं तल्लक्ष्म कथ्यते १६८
लयं तालं विरामं च यतिं गीतिं तथाऽक्षरम्
वर्णग्रामविभागं च नानाजात्यंशकादिकम् १६९
व्यञ्जद्गीतगतं गीतमिलितं तत्त्वमुच्यते
इति तत्त्वम्
किंचिद्गीतानुहरणाद्वाद्यं त्वनुगतं मतम् १७०
यथा विरतिरन्यत्र स्थितिः स्थानान्तरेष्वपि
विलम्बिते गीतलये वैदग्ध्याद्द्रुतवादनम् १७१
इत्यनुगतम्
गीतस्यान्तेऽनुकर्ताऽपि भागशश्चातुरीयशात्
निरन्तरैः पाणिघातैः समुदायानुकारितम्
वादको दर्शयेद्वाद्ये यत्रौघं तं प्रचक्षते १७२
इत्योघः
एकविंशतितन्त्रीस्थमेतद्धात्वादिवादनम्
एकतन्त्र्यादिवीणासु यथायोगं प्रवर्तयेत् १७३
एकतन्त्र्यां च यत्प्रोक्तं तज्ज्ञेयं नकुलादिषु
वेणावपि तदिच्छन्ति वेणुप्रावीण्यशालिनः १७३
इति गीतानुगे वाद्यम्
भेदान्निर्गीतवाद्यस्य वैणस्याथ प्रचक्ष्महे १७५
आश्रावणाऽऽरम्भविधिर्वक्त्रपाणिस्ततः परम्
संखोटना चतुर्थी च पञ्चमी परिघट्टना १७६
मार्गासारितकं लीलाकृतमासारितत्रयम्
दशेति शुष्कवाद्यानि तल्लक्ष्म व्याहरेऽधुना १७७
विस्तारधातुभेदानामादिमं द्विः प्रयुज्यते
द्वितीयं च प्रयुज्य द्विराद्यं भेदं द्वितीयकम् १७८
लीनाकृतिं द्विरुच्चार्य तद्वद्युग्मान्तराण्यपि
प्राक्प्राग्युग्मोत्तरादीनि प्रयुञ्जीत तदा भवेत् १७९
आश्रावणं शुष्कवाद्यमत्र त्वाह विशाखिलः
विस्तारधातुभेदानां प्रयोगे द्रुतरूपताम् १८०
आद्य्खण्डे यदाऽऽद्वौ द्वावेकादशचतुर्दशौ
वर्णः पञ्चदशस्तद्वच्चतुर्विंशो गुरुर्भवेत् १८१
लघवोऽष्टादशान्ये स्युरेवं खण्डे द्वितीयके १८२
तृतीये तु तृतीयो गोऽष्टमपञ्चदशौ तथा
शेषा द्वादश लाः खण्डैस्त्रिभिरेवं ध्रुवा भवेत्
आश्रावणायां गेया सा सूरिभिः सिद्धिमीसुभिः १८३
वक्ष्यामहे मुनिमतादस्यां पातकलाविधिम्
द्वाविंशतिः कला केचित्केऽप्यष्टाविंशतिः कलाः १८४
अन्ये द्वात्रिंशतिं प्राहुस्तत्रैवं तालयोजना १८५
शम्यात्रयं ततस्तालास्त्रयोऽत्रानागतग्रहे
ततः समग्रहे शम्पाद्वयं तालद्वयं तथा १८६
ततोऽतीतग्रहे शम्पातालौ द्वादश ताः कलाः
यथाक्षरस्योत्तरस्य षट्चतस्रस्तु युग्मजाः
कला द्वाविंशतावेवमथाष्टाविंशतौ विधिः १८७
द्वादशात्र कलाः प्रावद्द्विकलोत्तरवत्ततः
कला द्वादश शेषास्तु स्युरेककलयुग्मवत् १८८
अथ द्वाविंशतिः प्राच्याः स्युश्चतुर्विंशतिः कलाः
द्वितीयपक्षवत्प्रान्ते त्वष्टौ द्विकलयुग्मवत् १८९
एषु त्रिष्वपि पक्षेषूत्तरश्चच्चत्पुटस्तथा
अतीतेन ग्रहेण स्याद्विदारीरथ कीर्तये १९०
शम्पात्रयेण प्रथमा परा तालत्रयेण तु
शम्पाद्वया तृतीया स्यात्तुर्या तालद्वयेन तु १९१
पञ्चमी शम्पातालाभ्यां षष्ठी स्यात्पञ्चपाणिना
चच्चत्पुटा सप्तमी स्यात्तास्तिस्रो मन्वते परे १९२
यथाक्षरस्य युग्मस्य द्विरावृत्त्या विदारिका
आद्या तथा द्वितीया स्यात्तयोरन्ते कलाद्वयम् १९३
एवमष्टादश कलास्ततो युग्माद्यथाक्षरात्
विदारी स्यात्तृतीयाऽन्ये विदारीरन्यथा जगुः १९४
आद्या द्विकलयुग्मेन द्वितीया च तथा भवेत्
यथाक्षरेणोत्तरेण तृतीयाऽन्येऽन्यथा जगुः १९५
पूर्वोक्ता द्वादश कला विदार्याद्या परा पुनः
यथाक्षरेणोत्तरेण शेषा युग्माद्यथाक्षरात्
एवमाश्रावणामाह श्रीमान्यज्ञपुराग्रणीः १९६
इत्याश्रावणा
स्युरारोहावरोहाभ्यां युक्ता विस्तारधातुजाः
भेदास्तलेन रिभितह्वादाभ्यां मिश्रिताः क्रमात् १९७
ततः करणभेदं द्विस्त्रिर्वाऽभ्यस्य विलीनवत् १९८
बहुलेन प्रयुक्ते चैकविस्तारे पुनस्तथा
द्विरभ्यस्येदेवमेव करणस्य भिदाः पराः १९९
यत्राऽऽरम्भविधिः स स्यादथ तस्य ध्रुवां ब्रुवे
गुरवोऽष्टौ द्वादशाथ लघवः पञ्च गा इति २००
पञ्चविंशत्यक्षरं स्यादाद्यखण्डं ततः परम्
लघवोऽष्टौ गुरुर्लाश्च चत्वारो गश्चतुर्लघुः २०१
गश्चेत्येकोनविंशत्या वर्णैः खण्डं द्वितीयकम्
यस्यास्तृतीयखण्डेऽष्टौ ला गोऽन्ते स्याद्ध्रुवाऽत्र सा २०२
एकविंशे गुरौ कार्या विश्रान्तिः पूर्वखण्डके
द्वितीयखण्डे विश्राम्येद्गुरौ वर्णे चतुर्दशे २०३
स्याद्द्वादशकलं खण्डमाद्यमन्यत्तु षट्कलम्
चतुष्कलं तृतीयं स्यादथ तालोऽत्र कथ्यते २०४
तालत्रयं च शम्पैका तालौ द्वौ शम्पयोर्द्वयम्
द्वौ तालौ संनिपातौ द्वावित्याद्ये शकले कलाः २०५
यथाक्षरस्योत्तरस्य क्रमाच्चच्चत्पुटस्य च
कला भवन्ति शकले द्वितीये च तृतीयके २०६
इत्यारम्भविधिः
बहुलाविद्धकरणस्तोकव्यञ्जनधातुकः
विस्तारधातुना हीनो बक्त्रपाणिः प्रकीर्तितः २०७
मुखप्रतिमुखे स्यातां तालाङ्गे द्वे च नाथवा
प्रवृत्तं चैककं वर्णाङ्गमत्राथ ब्रुवे ध्रुवाम् २०८
गुरवः पञ्च लाः षट्च गुरवः षड्लघुद्वयम् २०९
चत्वारो गास्तथा लाः स्युस्त्रयो गा लघवोऽष्ट च
यत्र स्याद्गुरुरन्ते सा वक्त्रपाणौ ध्रुवा भवेत् २१०
या मात्रा वस्तुनोऽन्त्या स्याद्विकले मद्रके स्थिता
तस्यास्तालोऽत्र कर्तव्यः कलास्वष्टासु तन्मुखम् २११
अथ प्रतिमुखं कार्यं चतुरावृत्तियोगिना
उत्तरेणापरेत्याहुः पूर्वोक्तो यः कलाष्टकः
सोऽत्र कार्यस्त्रिरावृत्तो मात्रया तु विदारिका
इति वक्त्रपाणिः
अङ्गुष्ठाभ्यां च तर्जन्या तन्त्रीं निष्पीड्य वदयन्
बिन्दुं मिथो मेलयेत वादिसंवादिनौ स्वरौ
बहुधा तद्गुणत्वेन प्रयुञ्जीतानुवादिनः २१३
विवादिनोऽल्पकान्कुर्याद्विस्तारस्य भिदास्तथा २१४
धात्वन्तरैर्मिश्रयित्वाऽभ्यस्येद्द्विस्त्रिः पृथक्ततः
केवलास्ताः प्रयुज्य द्विस्तासु मग्नानिवापरान्
धातून्यत्र प्रयुञ्जीत प्राहुः संखोटनाममूम् २१५
गुरू द्वौ लघवोऽष्टौ च द्वौ गुरू च लघुर्गुरुः
यत्र द्वादश ला गोऽन्ते सा स्यात्संखोटनाध्रुवा २१६
यथाक्षरद्विकलयोः स्युरत्रोत्तरयोः कलाः
नात्र संख्या विदारीणां भणिता भरतादिभिः २१७
इति संखोटना
भेदा व्यञ्जनधातूत्था भेदैः करणधातुजैः २१८
चित्रिता ललिताः स्निग्धाः क्रियन्ते करलाघवात्
आरोहबहुला यस्यां तामाहुः परिघट्टनाम् २१९
गुरूण्यष्टौ च लघवः स्युश्चतुर्विंशतिर्गुरू
द्वौ षोडश लघून्यन्ते गुरुर्यत्र ध्रुवाऽत्र सा २२०
संपकेष्टाकवद्यद्वा स्युः संपिष्टकवत्कलाः
संपिष्टके कलाः प्रोक्ता दश द्वादश वा पुरा २२१
संपिष्टककलास्त्वत्र द्वादशैवेति संमतम्
द्वादशानां दशानां च प्राहुरन्ये समुच्चयम् २२२
संपक्वेष्टाकतालं च द्विकलीकृत्य केचन
तद्द्वादशकला तालयोगमत्र प्रचक्षते २२३
यथाक्षरद्विकलयोः संपक्वेष्टाकयोरिह
अष्टादश कलाः केचिदाचक्षत समुच्चिताः २२४
इति परिघट्टना
विस्ताराविद्धकरणभेदश्मिश्रप्रयोगतः
यथा कलतलाख्याभ्यां मार्गासारितकं भवेत्
अन्ये कलतलोन्मिश्रकरणं लक्ष्म चक्षते २२५
गाश्चत्वारो लघून्यष्टौ गौ द्वावष्टौ लघून्यथ २२६
गौ ल इत्याद्यखण्डं स्यादेवं खण्डद्वयं परम्
यस्यामसौ ध्रुवा ज्ञेया मार्गासारितसंश्रया २२७
एकं चच्चत्पुटे खण्डमुत्तरे शकलद्वयम्
कनिष्ठासारितोक्तेन कार्यस्तालकलाविधिः २२८
इति मार्गासारितम्
प्रयोगोऽभिसृतस्य स्यात्तथा परिसृतस्य चेत्
तथा लयान्तरगतौ वाद्यतालकलाविधौ
माधुर्यं सौकुमार्यं च तदा लीलाकृतं भवेत् २२९
षड्जग्रामस्थजात्यंशे यद्गीतं वार्तिके पथि
आसारितं तदेवोक्तं धीरैरभिसूताहयम् २३०
जात्यंशे मध्यमग्रामसंस्थे परिसृतं त्विदम् २३१
अन्ये तु माषघातादिसप्ताङ्गमपरान्तकम् २३२
ब्रुवतेऽभिसृतं तत्तु प्रदानादिनवाङ्गकम्
प्राहुः परिसृतं मृग्यं तालाध्याये लयान्तरम् २३३
गीतकत्रयसंयोगादेवं लीलाकृतं त्रिधा
प्रयोगौ द्वौ पदैश्चास्य सार्यकैश्च निरर्थकैः २३४
वीणावाद्यं मानतालयुक्तं शम्पादिवर्जितम्
आहुरेके मानहीनमपि त्वाह विशाखिलः २३५
ध्रुवायां तूभयस्तालः परैस्त्वनियमात्मकः २३६
इति लीलाकृतम्
आसारितत्रयं पूर्वं तालाध्याये निरूपितम्
यथाक्षरं द्विसंख्यातं त्रिसंख्यातमिति त्रिधा २३७
प्रत्येकं तस्य चाऽऽवृत्तिर्वर्णालंकारशोभना
वृत्तित्रयेण वाद्यैश्च तत्त्वाद्यैः करणेन च
धातुना चित्रिता कार्या बुधैर्वीणाविधाविह २३८
इत्यासारितत्रयम्
आलापिनीगतं लक्ष्म वक्ष्ये लक्ष्यविदां मतम्
नवमुष्टिमितो दैर्घ्ये वैणवः सुषिरान्तरः २३९
अङ्गुलद्वंद्वपरिधिः प्राग्वद्ग्रन्थ्यादिवर्जितः
श्लक्ष्णः समः सुवृत्तश्च दण्डः स्यात्ककुभं दधत् २४०
अङ्गुलद्वयविस्तारमङ्गुलार्धायतं तथा
तदर्धं पिण्डसंयुक्तमुन्मुखं पत्रिकोज्झितम् २४१
एकदण्डमधोभागे शङ्कुना तु विराजितम्
चतुरङ्गुलदैर्घ्येण बहिर्मध्योन्नतेन च २४२
तस्य तुम्बं परीणाहे द्वादशाङ्गुलसंमितम्
चतुरङ्गुलवक्त्रं च दन्तनाभिसमन्वितम् २४३
अग्रादधस्तात्पादोने मुष्टियुग्मे निबध्यते
अत्र मेषान्त्रतन्त्री स्यात्सूक्ष्मा श्लक्ष्णा समा दृढा २४४
कर्परं नारिकेलोत्थं दोरको दोरिकास्तथा
त्रीण्येतानि निबध्यन्ते यत्र साऽऽलापिनी मता २४५
दशमुष्टिमितं दण्डमत्राऽऽहुः खादिरं परे
पट्टसूत्रमयीं तन्त्रीं यद्वा कार्पाससूत्रजाम् २४६
रक्तचनद्नजान्सर्वान्वीणादण्डान्परे जगुः
दशमुष्ट्यधिकं मानं क्वचिल्लक्ष्येषु दृश्यते २४७
तुम्बं वक्षसि निक्षिप्य वामाङ्गुष्ठेन तस्य च
मूलमुत्पीड्य धृत्वा तामथ मध्यमया सुधीः २४८
दक्षिणस्यानामया वा वादयेद्बिदुधातुवत्
बिन्दुहस्तेन वा मन्द्रे मध्ये तारे च वादयेत् २४९
त्रयस्तु दक्षिणात्पाणेश्चत्वारो नामतः स्वराः
इत्युक्तं कैश्चिदाचार्यैरपरे त्वन्यथा जगुः २५०
मध्यमो मुक्तया तन्त्र्या तर्जन्याद्यङ्गुलीत्रयात्
वामस्यानामिकावर्ज्यास्त्रयः स्युः पञ्चमादयः २५१
मुक्ततन्त्र्याऽथ षड्जः स्यादृषभस्तर्जनीभवः
गान्धारो मध्यमाङ्गुल्या दक्षिणेनाथ वादनम् २५२
आरोहेणावरोहेण सप्तकद्वितये भवेत्
एभिः स्वरैर्विरचितं विचित्रं रागमालपेत् २५३
गायेद्गीतं निबद्धं च प्रवीणो वीणयाऽनया
इदमालापिनीलक्ष्म श्रीनिःशङ्केन कीर्तितम् २५४
इत्यालापिनीलक्षणम्
किंनरी द्विविधा लघ्वी बृहती चेति कीर्तिता
तत्र लघ्वीगतं लक्ष्म सांप्रतं प्रतिपाद्यते २५५
स्याद्वितस्तित्रयं दैर्घ्ये मानं पञ्चाङ्गुलाधिकम्
पञ्चाङ्गुलः परीणाहो वेणुदण्डस्य यत्र च २५६
गर्भेऽस्य व्यापकं रन्ध्रं ककुभः शाकदारुजः
सार्धद्व्यङ्गुलविस्तारो दैर्घ्ये पञ्चाङ्गुलश्च सः २५७
तस्मादर्धाङ्गुलन्यूना दैर्घ्यविस्तारयोर्भवेत्
मध्ये कूर्मोन्नता लौही पत्रिका ककुभस्थिता २५८
गृध्रवक्षोऽस्थिनलिका कनिष्ठाङ्गुलिसंमिता
लौही कांस्यमयी यद्वा कीर्तिता सारिकाख्यया २५९
श्लिष्टा वस्त्रमषीमिश्रमदनेन चतुर्दश
चतुर्दशस्वरस्थाने दण्डपृष्ठे निवेशयेत् २६०
सप्तकस्य द्वितीयस्य यो निषादो भवेदधः
तस्य स्थाने भवेदाद्या सारिकाऽन्योर्ध्वमङ्गुलात् २६१
स्थापयेदन्तरे किंचित्किंचित्पूर्वाधिके परा
द्व्यङ्गुलावध्यष्टमीं तु पूर्वस्यास्त्र्यङ्गुलान्तरे २६२
स्थापयित्वा पराः षट्च पूर्वपूर्वाधिकान्तरे
चतुरङ्गुलपर्यन्तं सारिकाः संनिवेशयेत् २६३
तुम्बं दण्डस्य ककुभस्याधःसंधौ निवेशयेत्
तृतीयतुर्यसार्योस्तु मध्येऽधस्ताद्वितीयकम् २६४
पूर्वस्मादपरं तुम्बं विस्तारेऽभ्यधिकं मनाक्
दण्डाग्राद्द्व्यङ्गुलेऽधस्ताद्रन्ध्रं कृत्वाऽथ निक्षिपेत् २६५
चलशङ्कुं गले रन्ध्रं दधमानमतोऽङ्गुलात्
अधस्तादङ्गुलोत्सेधं मेढकं बाणपुङ्खवत् २६६
कृत्वा ततोऽग्रतः किंचित्स्थिरशङ्कुं निवेशयेत्
ततो लोहमयीं श्लक्ष्णां वर्तुलां च समां दृढाम् २६७
गजकेशोपमां तन्त्रीं निबध्य ककुभे दृढम्
सारिकामस्तकन्यस्तामानीतां मेढकोपरि २६८
लग्नां द्वितीयप्रान्तेन वेष्टयेच्चलकीलके
शङ्कुं तं भ्रामयेत्तावद्यावत्तन्त्री दृढा भवेत् २६९
भ्रामणं वैपरीत्येन तन्त्रीशैथिल्यकारणम्
तन्त्रीदार्घ्येऽथ दार्ढ्याय चलशङ्कोर्गलस्थिते २७०
छिद्रेऽन्यस्याथ संकीलं स्थिरशङ्कौ निवेशयेत्
लघ्वी सा किंनरी प्रोक्ता शार्ङ्गदेवेन सूरिणा २७१
अस्यां स्थायिनमारभ्य गणयेत्सप्तकद्वयम्
सारीककुभयोर्मध्ये तर्जन्याद्यङ्गुलित्रयात् २७२
वादयेत्किंनरीवीणातन्त्रीं दक्षिणपाणिना
वामस्य तिसृभिस्ताभिरङ्गुलीभिस्तु तन्त्रिकाम् २७३
तत्तत्सारीप्रदेशस्थां स्वरव्यक्त्यै निपीडयेत्
वितस्त्यभ्यधिका दैर्घ्ये परिणाहेऽङ्गुलाधिका २७४
लघ्व्याः स्याद्बृहती स्नायुमया तन्त्रीस्त्रितुम्बिका
आलापिनीवदस्यां च स्थाप्यं तुम्बं तृतीयकम्
अन्यल्लघ्वीगतं लक्ष्म बृहतीं किंनरीं श्रयेत् २७५
इति द्विविधकिंनरीलक्षणम्
किंनरीत्रितयं तत्र देशीसंसिद्धमन्यथा
बृहती मध्यमा लघ्वीत्यथाऽऽसां लक्ष्म वक्ष्यते २७६
तिर्यग्यवोदरैः षड्भिर्निस्तुषैः स्यादिहाङ्गुलम्
बृहतीदण्डमानं स्याद्दैर्घ्ये पञ्चाशदङ्गुलम् २७७
षडङ्गुलोऽत्र परिधिर्दण्डे दैर्घ्ये तु काकुभे
षडङ्गुलं शिरस्त्वस्य दैर्घ्यविस्तारयोर्भवेत् २७८
चतुरङ्गुलसंमानं द्व्यङ्गुलं तु तदुच्छ्रये
निक्षिपेत्काकुभं दण्डं वीणादण्डोत्तरे तथा २७९
दण्डांशः परिशेषोऽत्र तावान्यावति शेषिते
वीणादण्डान्तककुभशिरोमध्यान्तरे स्थितः २८०
तन्त्रीभागस्तृतीयांशाधिकत्र्यङ्गुलको भवेत्
मध्ये कूर्मोन्नतां लौहीं पत्रिकां शिरसि क्षिपेत् २८१
परितोऽर्धाङ्गुलन्यूना शिरसोऽसौ प्रकीर्तिता
वीणाशीर्षादधस्ताच्च सार्धद्व्यङ्गुलतः स्थितम् २८२
ऊर्ध्वाधोदैर्घ्यभाग्रन्ध्रं विस्तारेऽर्धाङ्गुलायतम्
तिर्यग्दैर्घ्यं तावदन्यद्रन्ध्रं चोभयतोमुखम् २८३
तिर्यग्रन्ध्रे चलं शङ्कुमूर्ध्वरन्ध्रनिविष्टया
लौह्या सारिकया युत्तप्रान्तान्तरं पुनः २८४
सारिकायाः शिरोमूले बध्नीयात्काकुभे सुधीः
तन्त्रीरन्ध्रात्पुरः सान्ध्रीद्व्यङ्गुले मेढको भवेत् २८५
स च स्यात्कर्तरीयुक्तो गले रन्ध्रान्वितोऽथवा
कर्तर्या गलरन्ध्रे वा सारिकां तां निवेशयेत् २८६
तद्रन्ध्रे दण्डान्तरालां विदध्यात्सयवाङ्गुलम्
मेढकात्पुरतः शङ्कुः स्थिरः सार्धाङ्गुलोत्तरे २८७
तिर्यग्रन्ध्रे निवेशोऽस्य चलशङ्कुवदिष्यते
चलशङ्कुभ्रामणादि ज्ञेयं पूर्वोक्तरीतितः २८८
गृध्रवक्षोस्थिजा यद्वा तत्पादास्थिसमुद्भवाः
कांस्यमय्योऽथवा लौह्यो नलिकाः सारिका मताः २८९
सार्धाङ्गुलास्ताः परिधौ दण्डपृष्ठे निवेशयेत्
यन्मेढकशिरोमध्यादुपक्रम्यान्तरं भवेत् २९०
सारीमस्तकमध्यानां तदिदानीं निरूप्यते
आद्यान्तरं तत्र यवाधिकं पञ्चाङ्गुलं मतम् २९१
द्वितीयमन्तरालं तु चतुरङ्गुलमुत्तरम्
तस्मात्तृतीयतुर्ये तु यवन्यूने मते सताम् २९२
यवाधिकत्र्यङ्गुलं तु ज्ञेयं पञ्चममन्तरम्
यवोनद्व्यङ्गुलं षष्ठं सयवद्व्यङ्गुलं पुनः २९३
अन्तरालं सप्तमं स्यात्सार्धद्व्यङ्गुलमष्टमम्
नवमं तु यवार्धेन सार्धाङ्गुलमितं मतम् २९४
दशमं द्व्यङ्गुलं हीनं यवेनैकादशं ततः
द्वादशं तु तृतीयांशन्यूनं तस्मात्त्रयोदशम् २९५
सतृतीयांशागुलं स्यादङ्गुलं तु चतुर्दशम्
द्वितीयान्तरतोऽधस्तान्न्यस्येत्तुम्बमधोमुखम् २९६
अन्यत्ककुभमूर्ध्वाधस्तुम्बकं संनिवेशयेत्
षट्त्रिंशदङ्गुलं चक्रे परिधिस्त्वाद्यतुम्बके २९७
किंचिन्न्यूनं ततस्तुम्बं परिधौ स्यादधस्तन
ईषदस्पष्टसरिका सारिकास्ता निवेशयेत् २९८
मदनेनेष्टकाचूर्णमिश्रेण श्लेषणं दृढम्
सारीणामथवा वस्त्रमषीमिश्रेण संमितम् २९९
मुक्ततन्त्रीभवं कृत्वा स्वरमाद्यं चतुर्दशम्
स्वराः परे स्युः सारीणां चतुर्दशभिरन्तरैः ३००
सप्तकद्वयमेवं स्यादेकतारस्वराधिकम्
यथास्वं स्वरदेशांशैः श्रुतिस्तस्या विचिन्वते ३०१
द्वित्रास्ततोऽधिकाः सारीर्निबध्नीयात्परे त्विह
लक्षयन्त्यन्तराण्यासां स्वराविर्भावतो बुधाः ३०२
श्रीशार्ङ्गदेवोपदेशात्तद्बोधः सुलभो नृणाम्
केचित्त्रयोदशैवात्र सारीर्निदधते बुधाः ३०३
बृहती किंनरीत्येषा शार्ङ्गदेवेन कीर्तिता
मध्यमायां दण्डदैर्घ्यं त्रिचत्वारिंशदङ्गुलम् ३०४
परिधिर्दृश्यते तत्र द्वियवोनषडङ्गुलः
सार्धत्र्यङ्गुलविस्तारं प्राग्दैर्घ्यं काकुभं शिरः ३०५
क्षिपेत्ककुभदण्डस्य वीणादण्डेऽङ्गुलत्रयम्
तावांश्च परिशेषेऽसौ यावतः परिशेषणे ३०६
दण्डान्तशीर्षमध्यान्ते सारिकावयवस्थितः
तृतीयभागरहिताङ्गुलत्रयमितो भवेत् ३०७
दण्डान्ते सारिकोत्सेधः स्याद्यवोनाङ्गुलद्वयः
तदर्धो मेढकोपान्त्ये सारीणामन्तरः त्विह ३०८
प्रथमं प्रथितं प्राज्ञैः सार्धाङ्गुलचतुष्टयम्
द्वितीयमन्तरं मेयं सयवैरङ्गुलैस्त्रिभिः ३०९
तृतीयं तु तृतीयांशाभ्यधिकैस्त्रिभिरङ्गुलैः
चतुर्थं त्र्यङ्गुलं प्रोक्तं पञ्चमं सारिकान्तरम् ३१०
यवाधिकाभ्यां सार्धाभ्यामङ्गुलाभ्यां मितं मतम्
षष्ठं यवद्वयन्यूनद्व्यङ्गुलं सप्तमं पुनः ३११
सयवार्धाङ्गुलद्वंद्वमष्टमं त्वङ्गुलद्वयम्
अङ्गुलं सयवद्वंद्वं नवमं दशमं पुनः ३१२
यवोनमङ्गुलद्वंद्वमन्तरत्रितयं पुनः
इतं परस्याः प्रत्येकं सपादाङ्गुलसंमितम् ३१३
विशेषोऽयमिहान्यत्तु लक्ष्म स्याद्बृहतीगतम्
लघ्वीदण्डगतं दैर्घ्ये स्यात्पञ्चत्रिंशदङ्गुलम् ३१४
परिधिस्तु तृतीयांशाभ्यधिकाङ्गुलपञ्चकः
अङ्गुलत्रयविस्तारं ककुभस्य शिरो भवेत् ३१५
पूर्ववत्काकुभो दण्डो वीणादण्डे निधीयते
परिशेषस्तथा सा स्याद्यथा दण्डान्ततन्त्रिका ३१६
आ काकुभशिरोमध्याद्भवेत्त्र्यङ्गुलसंमिता
दण्डान्ते सारिकोत्सेधः स्यात्सार्धाङ्गुलसंमितः ३१७
तदर्धे मेढकोपान्ते तत्राऽऽद्यं सारिकान्तरम्
प्रोक्तं यवेनाभ्यधिकैश्चतुर्भिर्मितमङ्गुलैः ३१८
द्वितीयं द्वियवोपेताङ्गुलद्वंद्वमितं भवेत्
यवोनाभ्यामङ्गुलीभ्यां तृतीयं मीयते बुधैः ३१९
पादोनत्र्यङ्गुलं तुर्यमथ पञ्चममन्तरम्
यवार्धोनाङ्गुलद्वंद्वं षष्ठं सार्धाष्टभिर्यवैः ३२०
सप्तमं तु यवोनेनाङ्गुलद्वंद्वेन मीयते
साधाङ्गुलं त्वष्टमं स्यान्नवमं त्वष्टभिर्यवैः ३२१
दशमैकादशे प्रोत्ते सपादाङ्गुलके पृथक्
यवन्यूनाङ्गुलमितं द्वादशं च त्रयोदशम् ३२२
अन्यत्तु लघुकिंनर्यां लक्ष्म पूर्ववदिष्यते
न बृहत्यधिकं मानं न हीनं त्रिंशदङ्गुलात् ३२३
आदर्तव्यं किंनरीणां रक्तिमाधुर्यवर्जनात्
एतयोरन्तराले तु यथेष्टं मानकल्पना ३२४
शक्ता विवेक्तुमत्रापि स्वरस्थानानि तद्विदः ३२५
प्रदर्शनार्थं केषांचिद्रागाणां वादनक्रमम्
अस्यां किंनरवीणायां वक्ति श्रीकरणेश्वरः ३२६
स्थायिनं मध्यमं मन्द्रं मध्यं वा स्थायतत्परान्
आरुह्य पनिसान्पञ्चावरोह क्रमतः स्वरान् ३२७
षड्जतः स्थायिपर्यन्ताद्यथा हन्यात्तु धैवतम्
आरुह्य पनिसान्पञ्चावरोह क्रमतः स्वरान् ३२७
षड्जतः स्थायिपर्यन्ताद्यथा हन्यात्तु धैवतम्
मध्यमादेः समाख्यातं स्वस्थानं प्रथमं तदा ३२८
द्व्यर्धमर्धस्थितं तद्वदारुह्य द्विगुणं स्वरम्
आद्यं स्वस्थानमातिष्ठेत्स्वस्थानं त्रितये परे ३२९
असंभवे पूर्वपूर्वस्वरस्य तु परं परम्
क्रमेण स्वरमारोहेत्सर्वरागेष्विति स्थितिः ३३०
इति मध्यमादिः
किंनरीवादकाः प्रायः स्थायिनं पञ्चमं स्वरम्
रागे कुर्वन्ति बङ्गाले तदज्ञानविजृम्भितम् ३३१
ग्रहो हि मध्यमो रागस्यास्य शास्त्रे प्रकीर्तितः ३३२
यद्वा लक्ष्यप्रधानानि शास्त्राण्येतानि मन्वते
तस्माल्लक्ष्यविरुद्धं यत्तच्छास्त्रं नेयमन्यथा ३३३
मध्यमादिपदं ज्ञेयं पञ्चमाद्युपलक्षणम् ३३४
प्राथम्यसाम्यतो यद्वा नियमादृष्टकल्पना
मध्यमादिग्रहे कार्या नन्वस्मिन्मध्यमे ग्रहे ३३५
अधस्तनः स्याद्गान्धारो मध्यमः पञ्चमग्रहे
तुर्यादिव्यत्ययेऽप्येवं रागसाम्यं कथं भवेत् ३३६
निःशङ्कोऽत्र समाधत्ते गान्धाराद्यप्रयोजकम्
किंतु स्थायिनमारभ्य ये स्युस्तुर्यादयः स्वराः ३३७
रागाभिव्यक्तिशक्ताः ये स्युस्तुर्यादयः स्वराः ३३७
रागाभिव्यक्तिशक्ताः स्युर्ननु शास्त्रेष्वनर्थिका
षड्जाद्युक्तिः प्रसज्येत सत्यं तत्रोच्यते त्विदम् ३३८
मध्यमादिग्रहः शास्त्रे नियतस्तदपेक्षया
तुर्यादयो निषादाद्या भवन्तीत्युपपद्यते ३३९
ग्रहांशन्यासनियमौ यद्वा शास्त्रार्थगोचरः
गुम्फः स्वरान्तराणां तु लक्ष्यस्थाने विरुध्यते ३४०
सर्वत्र परिहारोऽयं लक्ष्ये लक्ष्माविरोधिनि
देशीरागेषु निर्णीतः शार्ङ्गदेवेन सूरिणा ३४१
मध्यमं स्थायिनं कृत्वा गान्धारात्तदधस्तनात्
पञ्चाऽऽरुह्य निषादान्तान्गपर्यन्तावरोहणम् ३४२
कृत्वा स्थायिनिषादौ च विधायाऽऽहत्य धैवतम्
स्थाय्यन्तमवरोहश्चेद्बङ्गालो जायते तदा ३४३
इति बङ्गालः
धैवतं स्थायिनं कृत्वा तृतीयं च चतुर्थकम्
तस्मात्कृत्वाऽवरोहेण स्थायिपर्यन्तमेत्य च ३४४
तृतीयं च ततोऽधस्थं विधाय स्थायिनं व्रजेत्
यदा तदा भैरवः स्याल्लक्ष्ये स्थायी निरीक्ष्यते ३४५
इति भैरवः
स्थायिनो धैवतात्पूर्वं स्वरमागत्य तत्परान्
पञ्चानारुह्य तुर्यं च द्वितीयं द्विः प्रयुज्यते ३४६
स्थायिनि न्यस्यते रागो वराटी जायते तदा
लक्ष्ये तु दृश्यते स्थायी किंनर्यामृषभस्वरः ३४७
इति वराटी
स्थायिनं मध्यमृषभं कृत्वा द्वौ तदधस्तनौ
गत्वा स्थायिनमारभ्य त्रीनारुह्यावरुह्य तु ३४८
पञ्च स्वरान्न्यस्यते चेदृषभे गुर्जरी तदा
ग्रहो गान्धार एवास्या दृश्यते लक्ष्यगोचरे ३४९
इति गुर्जरी
मध्यषड्जाद्ग्रहात्पूर्वं स्वरमेत्य तृतीयकम् ३५०
तुर्यं चोक्त्वा द्वितीयादींस्त्रीनारुह्यावरुह्य च
ग्रहन्यासाद्वसन्तः स्याल्लक्ष्ये त्वस्यर्षभो ग्रहः ३५१
इति वसन्तः
मध्यषड्जं ग्रहं कृत्वा तृतीयं च चतुर्थकम्
उक्त्वा द्वितीयतृतीयौ स्पृष्ट्वा तुर्यं च पञ्चमम् ३५२
एतत्क्रमेणावरोहस्त्यक्त्वा स्थायिद्वितीयकम्
स्थायिपूर्वान्तमागत्य ग्रहं तस्मात्तृतीयकम् ३५३
तुर्यं ततस्तृतीयं च प्रोच्यते न्यस्यते गृहे
धन्नासी स्यात्तदा दृष्टो लक्ष्ये स्यात्पञ्चमो ग्रहः ३५४
इति धन्नासी
ऋषभं स्थायिनं कृत्वा परं स्पृष्ट्वा ततः परम्
विलम्ब्य तुर्यमान्दोल्य स्पृष्ट्वा तुर्यादधस्तनौ ३५५
ग्रहान्निःसरणं कृत्वा परौ प्रोच्य द्वितीयकम्
एत्य स्थायिनि चेन्न्यासो देशीरागस्तदा भवेत्
गान्धारस्तु ग्रहो देश्यां देशीवेदिषु दृश्यते ३५६
इति देशी
स्थायिनं मध्यगान्धारं कृत्वाऽधस्तुर्यमेत्य च
तस्मादाषष्ठमारुह्य स्वरांस्तानवरुह्य च ३५७
ग्रहाधस्तात्तृतीयं च कृत्वा चेन्न्यस्यते ग्रहे
देशाख्या सा तदा लक्ष्ये दृष्टोऽस्या मध्यमो ग्रहः ३५८
इति देशान्तराख्या
ग्रहान्मध्यस्थितात्षड्जाद्द्वितीयं स्वरमेत्य चेत्
तृतीयं तदधस्थं च विलम्ब्य स्थायिनं स्पृशेत् ३५९
अधस्तृतीयतुर्यौ च तं तृतीयं पुनः स्वरम्
कृत्वा स्थायिस्वरे न्यासो डोम्बक्री जायते तदा
भूपाली सा जनैरुक्ता स्थाय्यस्या मध्यमो मतः ३६०
इति डोम्बक्री
मन्द्रस्थं पञ्चमं कृत्वा स्थायिनं सह तेन च ३६१
आरुह्य षट्स्वरानेषामवरोहे तृतीयकम्
विलम्ब्य कम्पितं कृत्वा तुर्यं स्थायिनमाव्रजेत् ३६२
क्रमेण यदि जायेत तदा प्रथममञ्जरी
अस्यास्तु मन्द्रगान्धारः स्थायी लक्ष्येषु दृश्यते ३६३
इति प्रथममञ्जरी
धैवतं स्थायिनं कृत्वाऽऽन्दोल्य तस्मादवरोहे गृहं व्रजेत्
यदा तदा स्यात्कामोदा मध्यमोऽस्या ग्रहो भवेत् ३६४
इति कामोदा
षड्जं तु स्थायिनं कृत्वा तत्पूर्वस्वरमेत्य च ३६५
स्वरद्वयं द्विरारुह्य तृतीयं च चतुर्थकम्
प्रकम्प्याथ तृतीयं च विलम्ब्याऽऽहत्य पञ्चमम् ३६६
स्थाय्यन्तमवरोहेच्चेत्स्वरानृषभवर्जितान्
मध्यषड्जं ग्रहं कृत्वा सह प्राचा परौ स्वरौ ३६७
प्रोच्य तुर्यं विलम्ब्याथ तृतीयं सद्वितीयकम्
स्पृष्ट्वा यदा ग्रहे न्यासस्तदा रामकृतिर्भवेत् ३६८
इति रामकृतिः
स्थायिनं मध्यमं कृत्वाऽधश्चतुर्थमुपेत्य च
ग्रहाधरांस्त्रीनारुह्य स्वरं स्पृष्ट्वा तृतीयकम् ३६९
ग्रहाधस्तुर्यपर्यन्तमागत्याप्यवरोहिणा
ततस्तृतीयमारुह्य करमादेत्य प्रकम्प्य च ३७०
ग्रहे न्यासो यदा रागस्तदा गौडकृतिर्भवेत्
पञ्चमो लक्ष्यते स्थायी लक्ष्ये स्याल्लक्ष्यवेदिभिः ३७१
इति गौडकृतिः
मध्यषड्जं ग्रहं कृत्वाऽधस्तमेत्य पुनर्ग्रहम्
कृत्वा तृतीयतुर्यौ च कम्पितं पञ्चमं स्वरम् ३७२
वादयित्वा ग्रहात्तुर्यं तृतीयं स्थायिनं तथा
द्वितीयं कम्पयित्वा च तृतीयं स्वरमास्पृशेत् ३७३
ततो यदि ग्रहे न्यासस्तदा देवकृतिर्भवेत्
अस्यास्तु मध्यमो न्यासो लक्ष्ये श्रीशार्ङ्गिणोदितः ३७४
इति देवकृतिः
धैवतं स्थायिनं कृत्वा गत्वाऽधस्थं पुनर्ग्रहम् ३७५
तत्परं स्थायिनं तस्मात्पूर्वमागत्य च ग्रहम्
आरुह्य त्रींस्तृतीयादीन्पञ्चमादवरुह्य च ३७६
षट्स्वरान्ग्रहमुच्चार्य तृतीयं कम्पयेत्ततः
तुर्यपञ्चमतुर्यांश्च स्पृष्ट्वा प्रोच्य तृतीयकम् ३७७
द्वितीयं च ग्रहे न्यासो यदा स्याद्भैरवी तदा
अस्य रागस्य गान्धारः स्थायी लक्ष्येषु दृश्यते ३७८
इति भैरवी
मन्द्रषड्जं ग्रहं कृत्वा मध्यषड्जमुपेत्य च
अवरोहिक्रमादेत्य ग्रहमारोहिणा ततः ३७९
पमागत्य विलम्ब्यामुं स्पृष्ट्वा धैवतमाव्रजेत्
ग्रहाच्चेदवरोहेण च्छायानट्टा तदा भवेत् ३८०
इति च्छायानट्टा
मध्यषड्जं ग्रहं कृत्वा तत्परौ द्वौ च पञ्चमम् ३८१
षष्ठं कृत्वाऽवरुह्येमौ तृतीयादवरुह्य च
आग्रहं प्राक्तृतीयाद्वाऽवरुह्य प्राक्तृतीयकम् ३८२
प्रकम्प्य तत्परं प्रोच्य ग्रहे चेन्न्यस्यते तदा
रामक्री स्यादसौ प्रोक्ता बहुलीपूर्विका जनैः ३८३
इति बहुलीरामक्री
धैवतं स्थायिनं कृत्वा तत्परं तु विलम्बितम्
स्पृष्ट्वा ग्रहद्वितीयौ च ग्रहात्तु प्राक्तृतीयकम् ३८४
ईषद्विलम्ब्य चाऽऽरुह्य ग्रहादीन्वा तृतीयकम्
विलम्ब्य तदधस्थं वाऽवरुह्य स्पर्शनात्ततः ३८५
ग्रहादींस्त्रीन्स्वरान्स्पृष्ट्वा ग्रहमुच्चार्य तत्परम्
ग्रहे चेन्न्यस्यते रागो मह्लारो जायते तदा
रागेऽत्र पञ्चमः स्थायी दृश्यते लक्ष्यगोचरः ३८६
इति मह्लारः
स्थायिनो मध्यमात्पञ्चाअव्रुच्च यदि मावधीन्
मात्तृतीयं व्रजेत्तस्मादारुह्य चतुरः स्वरान् ३८७
स्पृष्ट्वा स्थायिनमेतस्मात्पूर्वं कृत्वा विलम्बितम्
षड्जे चेन्न्यस्यते गौडकर्णाटो जायते तदा ३८८
लक्ष्ये तु पञ्चमस्थायी गौडस्यास्य विलोक्यते
ग्रहान्मन्द्रनिषादाच्चेत्समुच्चार्य स्वरं परम् ३८९
ततस्तृतीयतुर्यौ च गत्वा स्थायितृतीयकम्
स्थायितुर्यं च कृत्वाऽस्मात्स्वरान्पञ्चावरुह्य च ३९०
स्थायिनोऽधस्तुरीयं च स्थायिनोऽधस्तनं ततः
स्थायिनं तत्परं चोक्त्वा स्थायितुर्यं ग्रहात्परम् ३९१
कृत्वा न्यासो ग्रहे गौडस्तौरुष्को जायते तदा
स एव मालवीत्युक्तः स्थायी लक्ष्येऽस्य पञ्चमः ३९२
इति तुरुष्कगौडः
ग्रहं मालविनः कृत्वा द्वितीयं प्रोच्य तत्परम्
लङ्घयेल्लङ्घितादूर्ध्वं त्रीण्यारुह्यावरुह्य च ३९३
प्रकम्प्य लङ्घितं तस्मात्पूर्वं प्रोच्य ग्रहं व्रजेत्
यदा तदा द्राविडः स्याद्गौडोऽसौ सालको जनैः ३९४
अस्यापि स्थायिनं प्राहुर्लक्ष्यज्ञाः पञ्चमं स्वरम् ३९५
इति द्राविडगौडः
इत्युपाङ्गानि
स्थानिनो धैवतात्प्राच्यादवरुह्य ग्रहान्तरम्
ग्रहं चोक्त्वा तृतीयं च तुर्यं कृत्वा विलम्बितम् ३९६
तस्मादधस्तनौ स्पृष्ट्वा तृतीयं तु विलम्बयेत्
स्पृष्ट्वा ग्रहात्परं पूर्वौ पूर्वं चोक्त्वा ग्रहे यदि ३९७
कम्पिते न्यस्यते रागस्तदा स्याल्ललिताभिधः
अत्र गान्धारमेवाऽऽहुः स्थायिनं लक्ष्यवेदिनः ३९८
इति ललितः
एवं कतिपये रागाः प्रोक्ताः संमुग्धबुद्धये
वस्तुतः सर्वयन्त्रेषु रागाणां वादनं समम् ३९९
ग्रहादिस्वरसंभूतिद्वारतोऽन्विष्यतां बुधैः
किंनर्यां यैः स्वरैः स्वस्वस्थानजैर्यस्य संभवः
रागस्य तस्य तैरेव वंशादावपि दृश्यते ४००
इति किंनरीलक्षणम्
पिनाक्यां धनुषः कम्रैकचत्वारिंशदङ्गुला
दैर्घ्ये स्यान्मध्यविस्तारः स्यात्सपादाङ्गुलद्वयम् ४०१
अन्ते चाङ्गुलमानेन शिखां कुर्यादधस्तनीम्
सपादाङ्गुलमात्रा तु कार्मुकस्योत्तरा शिखा ४०२
कार्यावङ्गुलदैर्घ्यौ च पादोनाङ्गुलपिण्डकौ
खटकौ शिखयोर्लग्नौ ताभ्यां त्वर्वागुपान्तयोः ४०३
पादोनमङ्गुलद्वंद्वं विस्तारे मानमिष्यते
मध्यप्रान्तान्तराले तु विस्तारं कल्पयेत्सुधीः ४०४
तन्त्रीमानेन बध्नीयाच्छिखयोर्निपुणो गुणम्
मानं वादनचाक्पे स्यादङ्गुलान्येकविंशतिः ४०५
दैर्घ्ये मुष्टौ तु विस्तारोऽत्राङ्गुलित्रितयान्मितः
स त्वङ्गुलतृतीयांशः शिखे त्यक्त्वाऽन्तयोर्भवेत् ४०६
ऊर्ध्वाधरशिखाद्वंद्वमानं पादोनमङ्गुलम्
अश्ववालधिकेशोत्थो गुणो वादनधन्वनः ४०७
तुम्बं धृत्वाऽथ पादाभ्यां भुवि न्यस्तमधोमुखम्
तत्र लग्नशिखाऽथोर्ध्वा पिनाकीस्कन्धसंश्रिता ४०८
आक्रम्य वामहस्तस्थतुम्बमूलेन तद्गुणम्
ततो दक्षिणहस्तस्थधनुषो वादयेज्ज्यया ४०९
रालासंलिप्तयाऽस्यां च स्वरस्थानानि निर्णयेत्
एकतन्त्रीवदधराधरतारतया सुधीः ४१०
इति पिनाकीलक्षणम्
बध्यप्रान्तातिरिक्तेंऽशे तन्त्री दैर्घ्ये चतुष्करा ४११
उपरिस्थे क्वचित्काष्ठे प्रान्तेनैकेन बध्यते
प्रान्तान्तरेणान्यकाष्ठेऽधस्थे सार्धकरायते ४१२
स्थौल्येनाऽऽलापिनीतुल्ये त्यक्त्वाऽग्रादङ्गुलद्वयम्
तन्त्रीं बद्ध्वा ततोऽधस्तात्तुम्बमाबध्य दारु तत् ४१३
वामोरुमूलाक्रान्ताग्रं जङ्घायां कुञ्चिताकृतौ
भूलग्नबाह्यपार्श्वायां वामायां न्यस्य जङ्घया ४१४
आक्रम्य वामेतरया पिनाक्यामिव वादनम्
धनुषा वामहस्तस्थतुम्बकेन च सारणा ३१५
आर्द्रचर्मकृतां शुष्कां पेशीं कोणान्वितां खराम्
वामेनाऽऽदाय तत्कोणेनाथवा सारणा भवेत् ४१६
यत्र निःशङ्कवीणा सा शार्ङ्गदेवेन शीर्तिता
त्रिस्थानस्वररागादिव्यक्तिः संजायते तया ४१७
इति निःशङ्कवीणालक्षणम्
यथा यथा स्वरे व्यक्ती रक्तेः प्रचुरता भवेत्
तथा तथा विधातव्यं ततं लोकानुसारतः ४१८
सम्यक्स्वरोपयोगीनि तन्त्रीवाद्यानि कानिचित्
उक्तान्यन्यानपि प्राज्ञस्तर्कयेदनया दिशा ४१९
यो वीणावादनं वेत्ति तत्त्वतः श्रुतिजातिवित् ४२०
तालपातकलाभिज्ञः सोऽक्लेशान्मोक्षमृच्छति
तस्माद्वीणा निषेव्येति याज्ञवल्क्यादयोऽब्रुवन् ४२१
नादश्रुतिस्वरग्रामजातिरागादितत्त्ववित्
देहसौष्ठवसंपन्नः स्थिरासनपरिग्रहः ४२२
जितश्रमकरद्वंद्वस्त्यक्तभीतिर्जितेन्द्रियः
प्रगल्भधीः सुशारीरो गीतवादनकोविदः
सावधानमनाश्चेति वैणिके वर्णिता गुणाः ४२३
इति ततवाद्यलक्षणम्
वैणवः खादिरो दान्तश्चान्दनो रक्तचन्दनः
आयसः कांस्यजो रौप्यो वंशः स्यात्काञ्चनोऽथवा ४२४
वर्तुलः सरलः श्लक्ष्णो ग्रन्थिभेदव्रणोज्झितः
कनिष्ठाङ्गुलिविस्तारं गर्भे च सुषिरं दधत् ४२५
स्वदैर्घ्यमानदैर्घ्यं च समाकृति समन्ततः
तस्य द्वे त्रीणि चत्वारि चाङ्गुलानि शिरःस्थलात् ४२६
त्यक्त्वा फूत्कारसुषिरं कार्यमङ्गुलसंमितम्
मुखरन्ध्रान्तरे रन्ध्रं भवेदेकाङ्गुलान्तरम् ४२७
अर्धाङ्गुलान्तराणि स्यू रन्ध्राण्यन्यानि सप्त च
तान्यष्टौ बदरीबीजसंकाशानि प्रचक्षते ४२८
वंशोऽधः सर्वरन्ध्रेभ्यः परिशेष्योऽङ्गुलद्वयम्
तेषु स्वरविभागाय सप्त रन्ध्राणि मन्वते ४२९
नादहेतोर्मारुतस्य निर्गमायाष्टमं मतम्
फूत्कारप्रभवो वायुः पूर्यते मुखरन्ध्रतः ४३०
वंशस्थैर्नवभी रन्ध्रैरेकवीरो निगद्यते ४३१
वंशस्य मुखरन्ध्रस्य ताररन्ध्रस्य चान्तरे
एकैकाङ्गुलवृद्ध्या स्युरन्ये वंशाश्चतुर्दश
अष्टादशाङ्गुलाद्वंशादेतदङ्गुलवर्धनम् ४३२
अर्धाङ्गुलान्तराणि स्यू रन्ध्राण्यन्यानि सप्त च
तान्यष्टौ बदरीबीजसंकाशानि प्रचक्षते ४२८
वंशोऽधः सर्वरन्ध्रेभ्यः परिशेष्योऽङ्गुलद्वयम्स्वरविभागाय सप्त रन्ध्राणि मन्वते ४२९
नादहेतोर्मारुतस्य निर्गमायाष्टमं मतम्
फूत्कारप्रभवो वायुः पूर्यते मुखरन्ध्रतः ४३०
वंशस्थैर्नवभी रन्ध्रैरेकवीरो निगद्यते ४३१
वंशस्य मुखरन्ध्रस्य ताररन्ध्रस्य चान्तरे
एकैकाङ्गुलवृद्ध्या स्युरन्ये वंशाश्चतुर्दश
अष्टादशाङ्गुलाद्वंशादेतदङ्गुलवर्धनम् ४३२
उमापतिर्द्व्यङ्गुलः स्यात्त्रिभिस्त्रिपुरुषोऽङ्गुलैः
चतुर्मुखश्चतुर्भिः स्यात्पञ्चवक्त्रस्तु पञ्चभिः ४३३
षडङ्गुलः षण्मुखः स्यान्मुनिः सप्ताङ्गुलो मतः
वसुरष्टाङ्गुलः प्रोक्तो नाथेन्द्रस्तु नवाङ्गुलः ४३४
दशाङ्गुलो महानन्दो रुद्रस्त्वेकादशाङ्गुलः ४३५
द्वादशाङ्गुल आदित्यो मनुर्वंशश्चतुर्दशः
कलानिधिः षोडशः स्यादन्वर्थोऽष्टादशाङ्गुलः ४३६
अविस्पष्टान्तरत्वेन नेष्टः सप्तदशाङ्गुलः
त्रयोदशाङ्गुलस्तद्वन्न च पञ्चदशाङ्गुलः ४३७
मुरल्याख्योऽपरैर्वंशो विंशत्यङ्गुलकः स्मृतः
द्वाविंशत्यङ्गुलोऽप्यन्यो वंशस्तज्ज्ञेषु दृश्यते ४३८
तं च श्रुतिनिधिं प्राहुर्वंशं वंशविदो जनाः
अतिमन्द्रध्वनित्वेन नेष्यतेऽसौ विचक्षणैः ४३९
विरलाश्चातितारत्वाद्वंशाः पञ्चाङ्गुलादधः ४४०
अष्टादशाङ्गुले वंशे स्वररन्ध्रेषु सप्तसु ४४१
मुद्रितेषु भवेत्षड्जो मन्द्रसप्तकसंस्थितः
षट्स्वेवमन्यवंशेषु स्युः क्रमादृषभादयः ४४२
आरभ्याष्टाङ्गुलादेवमधो वंशेषु सप्तसु
मध्यस्थानगताः सप्तोद्यन्ति षड्जादयः क्रमात् ४४३
तारस्थानस्थितः षड्जस्त्वेकवीरस्य जायते ४४४
सर्वेष्वेतेषु वंशेषु मुक्ते रन्ध्रद्वयेऽन्तिमे
स्वरो द्वितीयो जायेत तृतीयाद्यास्ततः क्रमात्
सप्तमान्ताः प्रजायन्ते त्र्यादिरन्ध्रविमोचनात् ४४५
मुक्ते तु ताररन्ध्रेऽन्यरन्ध्रेषु पिहितेषु च
अष्टमस्वरसंभूतिः पूर्वाचार्यैरुदीरिता ४४६
व्यक्तमुक्ताङ्गुलित्वेन समग्रो जायते स्वरः
अङ्गुल्याः कम्पने तत्र श्रुतिरेकाऽपचीयते ४४७
श्रुतिद्वयं त्वर्धमुक्ते तत्कम्पे तु श्रुतित्रयम्
अन्यथा वर्णयन्तीह केचित्सप्तस्वरोदयम् ४४८
अर्धेन्दुनागफणवद्वंशे स्थाप्यं करद्वयम्
वामस्यानामिकाङ्गुल्या षड्जो मध्यमया पुनः ४४९
ऋषभः स्यात्प्रदेशिन्या गान्धार इति वामतः
त्रयः स्वराः प्रजायन्ते चत्वारो दक्षिणात्करात् ४५०
कनिष्ठया मध्यमः स्यात्पञ्चमोऽनामया स्वरः
धैवतः स्यान्मध्यमया प्रदेशिन्या निषादवान् ४५१
स्थानत्रयस्य निष्पत्ति ते चास्मिन्नन्यथा जगुः ४५२
सुशिक्षितेन रचितात्फूत्कारान्मध्यसप्तके
जायन्ते वैणशारीरस्वरसंवादिनः स्वराः ४५३
तारस्था मुखसंयोगसंकटे मुखरन्ध्रके
तं वादनप्रकारं च टीपामाचक्षते जनाः ४५४
तया यद्वाद्यते रन्ध्रे तत्स्वरो द्विगुणो भवेत्
रन्ध्रस्य मुखसंयोगविप्रकर्षात्तु मन्द्रगाः ४५५
तीव्रातीव्रतया वायोः शीघ्रमन्थरभावतः
पूरणापूरणाभ्यां चोपचयापचयाद्ध्वनेः
कुर्वन्त्येकत्र रन्ध्रेऽपि तज्ज्ञा नानास्वरोदयम् ४५६
कम्पिता वलिता मुक्तार्ऽर्धमुक्ता च निपीडिता
इति वंशे गतिः प्रोक्ता शार्ङ्गदेवेन पञ्चधा ४५७
अधरस्थस्य वंशस्य कम्पनात्कम्पिता मता
वर्णालंकारनिष्पत्तिः प्रयोगेऽस्याः प्रयोजनम् ४५८
इति कम्पिता
भवेत्संचारिनिष्पत्तौ वलिताऽङ्गुलिचालनम्
इति वलिता
रन्ध्रेऽधिलेऽङ्गुलीमुक्ते मुक्ता स्यान्मुक्तशब्दकृत् ४५९
इति मुक्ता
अर्धमुक्ताऽर्धमुक्तेः स्याद्घृतशब्दविधायिनी ४६०
इत्यर्धमुक्ता
समन्तात्सर्वरन्ध्राणि पिधायाङ्गुलिभिर्यदा
वंशं पूरयते तज्ज्ञस्तदा ज्ञेया निपीडिता ४६१
इति निपीडिता
अत्र कीर्तिधरस्त्वन्यां व्यवस्थामभ्युपागमत् ४६२
षट्सप्ताष्टाङ्गुला वंशास्तारस्वरविधायकाः
मध्यस्वरा नवदशैकादशाङ्गुलकास्त्रयः ४६३
अङ्गुलैर्यो द्वादशभिः स्यात्त्रयोदशभिश्च यः
हेतू मन्द्रखराणाम् तौ सर्ववंशमयः पुनः ४६४
चतुर्दशाङ्गुलो वंशस्त्रिस्थानस्वरसाधकः
वर्णालंकारधात्वादिवाद्यसंवादनक्षमः
एवं वंशा नवैवेति युक्तायुक्तविदो विदुः ४६५
केचिद्देशीविदो वंशानेकवीरादिकानमून्
मानान्तरेणाभिदधुस्तेषां मतमिदं ब्रुवे ४६६
प्राक्चतुर्दशवंशान्तेऽङ्गुलं पञ्चयवं जगुः
चतुर्दशादिवंशेषु सार्धपञ्चयवं त्विदम् ४६७
चतुर्दशाङ्गुलं दण्डमेकवीरे प्रचक्षते
सार्धाङ्गुलौ शिरःप्रान्तौ पृथग्जातिमुखेऽङ्गुलम् ३६८
मानं तारादिरन्ध्राणि प्रत्येकं त्रियवानि तु
त्रियवान्यन्तरालानि पृथक्स्थानेषु मूलतः
पञ्चमांशोनितं मानं कनिष्ठापर्वमध्यतः ४६९
उभापतेस्तु वंशस्य दण्डः पञ्चदशाङ्गुलः
पादोनेन यवद्वंद्वेनाधिकोऽस्यान्तरेषु तु ४७०
सपादत्रियवं मानं पृथगन्यत्तु पूर्ववत्
अङ्गुलैः सप्तदशभिर्यवयुग्माधिकैर्मतः ४७१
दण्डस्त्रिपुरुषे वंशे पृथगन्तरसप्तके
यवोनमङ्गुलं मानमपरं लक्ष्म पूर्ववत् ४७२
यवद्वयाधिकैः सार्धैरष्टादशभिरङ्गुलैः
मितश्चतुर्मुखे दण्डे शिरोन्तौ तु मितौ पृथक् ४७३
पादोनाभ्यामङ्गुलाभ्यां लक्षणं पूर्ववत्परम्
यवस्य सार्धपादेन न्यूना द्वाविंशतिर्मता ४७४
अङ्गुलानां दण्डमानं पञ्चवक्त्रे शिरोन्तयोः
सार्धाङ्गुलद्वयं मानं पृथगन्तरसप्तके ४७५
चतुर्यवी सार्धपादाभ्यधिकाऽन्यत्तु पूर्ववत्
षण्मुखे यवपादाभ्यां सपादाभ्यां सहाङ्गुलैः ४७६
चतुर्विशतिसंख्यैः स्याद्दण्डः परिमितस्ततः
ताराद्यष्टसु रन्ध्रेषु सपादत्रियवा मितिः ४७७
प्रत्येकमन्तरालेषु षोडशांशोनिता यवाः
पञ्चमानमिताः शेषं लक्ष्म स्यात्पञ्चवक्त्रवत् ४७८
अतः परेषु वंशेषु सप्तस्वभ्यधिको यवः
स्वमानाद्दृश्यते ताररन्ध्रे जातिमुखान्तरे ४७९
युक्ता यवेन सार्धेनाङ्गुलषड्विंशतिर्भवेत्
प्रमाणं मुनिदण्डस्य मानं रन्ध्राष्टके पुनः ४८०
यवत्रयं सार्धपादाधिकं प्रत्येकमीरितम्
पृथक्पञ्चयवी सार्धान्तरेष्वन्यत्तु पूर्ववत् ४८१
वसुवंशे तु दण्डस्याङ्गुलाष्टाविंशतिर्मितिः
यवाधिका जातिमुखं यवेनाधिकमङ्गुलम् ४८२
यवाधिकाङ्गुला ज्ञेयाऽन्तरालेषु मितिः पृथक्
शेषं तु पूर्ववद्वंशे नाथेन्द्रे दण्डसंमितिः ४८३
यवपादाधिका त्रिंशदङ्गुलानां शिरोन्तयोः
पादोनत्र्यङ्गुलं मानं पृथगन्तरसप्तके ४८४
सपादमङ्गुलं मानं खानिमानं तु मूलतः
षष्ठभागविहीनं स्यात्कनिष्ठापर्व मध्यमम् ४८५
अपरं पूर्ववद्दण्डे महानन्दस्य संमितिः
पादन्यूनेन पादेन यवस्याभ्यधिका भवेत् ४८६
द्वात्रिंशदङ्गुलानां तच्छिरोन्तौ त्र्यङ्गुलौ पृथक्
सपादाङ्गुलकं जातिमुखमन्तरसप्तके ४८७
पृथक्सपादपादेनाभ्यधिकं मानमङ्गुलम्
मूलतः सप्तमांशोनकनिष्ठामध्यपर्वणा ४८८
मिता खानिः परं लक्ष्म पूर्वोक्तं तैरुदीरितम्
सपादानि चतुस्त्रिंशदङ्गुलानि मितिर्भवेत् ४८९
यवार्धसहिता रुद्रदण्डस्यान्तरसप्तके
सार्धाङ्गुलं पृथङ्मानं कनिष्ठामध्यपर्वणा ४९०
खानिः परिमिता शेषं पूर्ववंशवदिष्यते
सप्तत्रिंशद्यवार्धेनाभ्यधिकान्यङ्गुलानि तु ४९१
आदित्ये दण्डमानं स्यात्पादोनं त्वङ्गुलद्वयम्
अन्तरेषु पृथङ्मानमपरं रुद्रवंशवत् ४९२
मनोर्दण्डे सपादैकोनचत्वारिंशदङ्गुलम्
यवाधिकं सपादेनाष्टमांशेन यवस्य च ४९३
सहितं मानमाख्यातं पादन्यूनाङ्गुलत्रयैः
शिरःप्रान्तौ पृथग्जातिमुखे स्यान्मानमङ्गुलम् ४९४
षोडशांशोनपादेनाधिकं रन्ध्राष्टके पुनः
यवत्रयं पृथक्सार्धमन्तरेषु च सप्तसु ४९५
प्रत्येकं यवपादेन न्यूनं स्यादङ्गुलद्वयम्
मानं लक्षणमन्यत्तु भवेदादित्यवंशवत् ४९६
यवस्य सार्धपादाभ्यां द्वात्रिंशांशे नवाधिकैः
चतुश्चत्वारिंशता स्यात्पादोनैरङ्गुलैर्मितः ४९७
दण्डः कलानिधौ वंशे शिरोन्तौ त्र्यङ्गुलौ पृथक्
अन्तरेष्वङ्गुलद्वंद्वं समादयवसंयुतम् ४९८
प्रत्येकं मानमाख्यातं लक्ष्मान्यन्मनुवन्मतम्
यवस्याष्टमभागेन सपादेन समन्वितैः ४९९
अष्टाचत्वारिंशता स्यात्पादोनैः संमितोऽङ्गुलैः
अष्टादशाङ्गुले दण्डः सार्धं त्वङ्गुलयोर्द्वयम् ५००
अन्तरेषु पृथङ्मानं वेद्यमन्यत्कलानिधेः
नात्र त्रयोदशो वंशो नव पञ्चदशाङ्गुलः ५०१
इष्यतेऽल्पान्तरत्वेन नव सप्तदशाङ्गुलः
एवं पञ्चदशैवैते वंशास्तेषामिमे मताः ५०२
माधुर्यरक्तिसंयुक्ता रागाभिव्यक्तिहेतवः
यदिदं लक्ष्म शास्त्रोक्तं यच्च देशीगतं मतम्
ते द्वे रञ्जयितुं शक्ते न मनांसि कलाविदाम् ५०३
वक्त्रे फूत्काररन्ध्रस्थे कस्य वा वितताकृतेः
स्वररन्ध्राण्याप्नुयातामपि दीर्घतरौ करौ ५०४
अन्तरं स्वररन्ध्राणामुक्तमर्धाङ्गुलं च यत्
शास्त्रेण तेन कस्यापि स्वरस्य व्यक्तिरीरिता ५०५
ये पूर्वोक्तक्रमाः सप्त स्वराः सरिगमादयः
मान्तेऽत्र दृश्यते तेषां नासौ क्रमपरिक्रमः ५०६
मूर्छनारागभाषादेः सुदूरोत्सारिता कथा
किंच्छिआ!स्त्रकृतां प्राचामाचार्याणां महात्मनाम् ५०७
उपालम्भोऽपि दोषायकिं तया कथयाऽपि नः
तदास्तामुच्यते किंतु किंचिद्देशीविदः प्रति ५०८
माने पञ्चयवे कस्माद्दृश्यतेऽत्र यवोऽधिकः
सप्ताङ्गुलादिवंशेषु कथं चोर्ध्वं चतुर्दशात् ५०९
पूर्वमानाधिकाः सन्ति ते सप्ताष्ट न वा यवाः
सार्धपञ्चयवे माने लक्ष्म स्यादव्यवस्थितम् ५१०
त्रयोदशादयो ये च त्रयो वंशा निराकृताः
न तत्र युक्तिलेशोऽस्ति येन तुष्यन्ति सूरयः ५११
अल्पान्तरत्वमुक्तं यत्तदसारतरं पुनः
वंशान्तरान्तरैस्तुल्यमन्तरं तेषु दृश्यते ५१२
द्वादशार्धस्वरन्यूनो यथैकादशवंशतः
मुद्रितः स्वररन्ध्रः स्यात्तथा तस्मात्त्रयोदश ५१३
एवं चतुर्दशात्पञ्चदशो वंशात्तु षोडशात्
वंशः सप्तदशो लक्ष्माप्रसिद्धमिति चेन्न तत् ५१४
वक्तुं तदुक्तरीत्या हि शक्यं तेष्वपि लक्षणम्
त्रयोदशाङ्गुलो वंशो विश्वमूर्तिरुदाहृतः ५१५
अधिकं यवपादेन स्याच्चत्वारिंशदङ्गुलम्
विश्वमूर्तौ दण्डमानं तारादौ सुषिराष्टके ५१६
प्रत्येकं त्रियवी सार्धा मानमन्तरसप्तके
अङ्गुलद्वितयं मानं पृथगादित्यवत्परम् ५१७
युक्तैर्यवेन पादेन द्वाचत्वारिंशदङ्गुलैः
यवस्य चाष्टमांशेन सपादेनाधिकैर्मतः ५१८
दण्डः श्रीशार्ङ्गिदेवोक्तो वंशे पञ्चदशाङ्गुले
अङ्गुलत्रितयं मानं शिरःप्रान्ते प्रदेशयोः ५१९
प्रत्येकमन्तरालेषु सप्तस्वर्धयवाधिकम्
अङ्गुलद्वितयं मानं मनुवल्लक्षणं परम् ५२०
यवस्य सार्धपादेन द्वात्रिंशांशयवाधिकः
षट्चत्वारिंशता पादन्यूनैः स्यादङ्गुलैर्मितः ५२१
दण्डः सप्तदशे वंशेऽन्तरेषु त्वङ्गुलद्वयम्
पृथक्सद्वियवं मानं स्यात्कलानिधिवत्परम् ५२२
एवंम् प्रसिद्धलक्ष्माणो रागादिव्यक्तिहेतवः
त्रयोदशादयो वंशा निषिध्यन्ते मुधा परैः ५२३
अपि पञ्चयवं मानं वंशेष्वष्टादशस्वपि
व्यक्तं प्रगल्भते वक्तुं सूरिः श्रीकरणाग्रणीः ५२४
तस्माद्देश्यनुसारेण लक्ष्यलक्षणतत्त्ववित्
शार्ङ्गदेवोऽन्यथा वंशस्वरूपं प्रत्यपादयत् ५२५
अङ्गुलं निबबन्धासौ सिद्धं गणितशास्त्रतः
न ह्यङ्गुलं पञ्चयवं दृश्यते शास्त्रलोकयोः ५२६
अङ्गुलं निस्तुषैः षड्भिस्तिर्यग्भिः स्याद्यवोदरैः
दक्षिणस्य करस्य स्यात्खानिमाने कनिष्ठिका ५२७
न स्थूला न कृशाऽत्यन्तं गृह्यते किंतु मध्यमा
मूलशब्दोऽन्वयं याति मध्यमेनात्र पर्वणा ५२८
समा सर्वत्र खानिः स्याद्विषमः स्वरभङ्गकृत्
चतुर्दशाङ्गुलो दण्ड एकवीरस्य दृश्यते ५२९
तच्छिरःप्रान्तयोर्मानमङ्गुलद्वितयं पृथक्
मानं जातिमुखाख्ये स्यात्फूत्कारसुषिरेऽङ्गुलम् ५३०
ताररन्ध्रं ततोऽधस्तादङ्गुलान्तरितं मतम्
षोडशांशाधिकं तस्य मानमर्धाङ्गुलं विदुः ५३१
तदधोऽधश्च तावन्ति सप्त रन्ध्राणि कल्पयेत्
तेष्वष्टासूर्ध्वरन्ध्राणि सप्त स्युः स्वरसिद्धये ५३२
अन्तिमं वायुरन्ध्रं स्यादन्तरालानि सप्त च
पृथगर्धाङ्गुलान्येषां गर्भरन्ध्रं तु संमितम् ५३३
मूलतः पञ्चमांशेन कनिष्ठामध्यपर्वणा
खानिस्तदुच्यते देश्यां पूर्वोक्तोक्तस्वरोदयः ५३४
त्रयोदशापरे ताररन्ध्रजातिमुखान्तरे
एकैकाङ्गुलवृद्ध्या स्युराचतुर्दश वंशतः ५३५
उभापतौ दण्डमानं भवेत्पञ्चदशाङ्गुलम्
एकवीरवदन्यत्तु लक्ष्म त्रिपुरुषे पुनः ५३६
दण्डः सार्धैः षोडशभिः सयचार्धैर्मितोऽङ्गुलैः
सप्तान्तराण्यधस्तारात्पृथक्सार्धैस्त्रिभिर्यवैः ५३७
मितानि लक्षणं शेषं पूर्ववंशवदिष्यते
दण्डश्चतुर्मुखे सार्धाष्टादशाङ्गुलसंमितः ५३८
पृथक्सप्तान्तरालानि चतुर्भिः साङ्घ्रिभिर्यवैः
मितानि पूर्ववच्छेषं पञ्चवक्त्रे तु संमितिः ५३९
दण्डश्च यवयुग्मेनाभ्यधिकाङ्गुलविंशतिः
सप्तानामन्तरालानां पृथक्पञ्चयवा मितिः ५४०
अन्यत्तु पूर्ववल्लक्ष्म दण्डमानं तु षण्मुखे
अङ्गुलानां यवार्धानां द्वाविंशतिरुदीरिता ५४१
सार्धपञ्चयवं मानं पृथगन्तरसप्तके
शेषं तु पूर्ववद्वंशे मुनौ दण्डमितिः पुनः ५४२
त्रयोविंशत्यङ्गुलानां सार्धयाऽन्तरसप्तके
प्रत्येकमङ्गुलं मानं शेषं पूर्ववदिष्यते ५४३
वंशे वसौ दण्डमानं चतुर्भिरधिका यवैः
पञ्चविंशतिराख्याताऽङ्गुलानामन्तराणि तु ५४४
पृथक्सप्तयवानि स्युः शेषं पूर्वोक्तमिष्यते
नायेन्द्रदण्डमानं स्यात्सपादा सप्तविंशतिः ५४५
अङ्गुलानामन्तराणि स्युः सपादाङ्गुलानि तु
प्रत्येकं मूलतः षष्ठांशोनमध्यमपर्वणा ५४६
कनिष्ठाय् मिता खानिरन्यल्लक्ष्म तु पूर्ववत्
मानं महानन्ददण्डे त्रिंशदङ्गुलकं मितम् ५४७
पृथक्सार्धाङ्गुलानि स्युरन्तरालानि सप्त च
नायेन्द्रवत्परं लक्ष्म रुद्रे दण्डमितिः पुनः ५४८
सपादानि त्रयस्त्रिंशदङ्गुलान्यन्तरेषु तु
प्रत्येकं मानामाख्यातं पादन्यूनाङ्गुलद्वयम् ५४९
रन्ध्रेष्वष्टसु तारादिष्वष्टमांशसमन्वितम्
अङ्गुलार्धं पृथङ्मानं खानेर्मानं तु मूलतः ५५०
सप्तमांशविहीनं स्यात्कनिष्ठापर्व मध्यमम्
पूर्वोक्तमन्यदादित्ये वंशे दण्डस्तु कथ्यते ५५१
अष्टमांशाधिकैः पञ्चत्रिंशता संमितोऽङ्गुलैः
अन्तरेष्वष्टमांशोनमङ्गुलद्वितयं पृथक् ५५२
मानं खानौ त्वष्टमांशन्यूनमामूलदेशतः
कनिष्ठामध्यपूर्वोक्तमपरं रुद्रवंशवत् ५५३
षोडशांशोनितैः सार्धैः सप्तत्रिंशन्मिताङ्गुलैः
मितो दण्डो विश्वमूर्तावन्तरेष्वङ्गुलद्वयम् ५५४
षोडशांशाधिकं माने प्रत्येकं मध्यपर्वणा
कनिष्ठाया मिता खानिः शेषमादित्यवंशवत् ५५५
मनौ दण्डस्तु पादोनैकचत्वारिंशताऽङ्गुलैः
मितः शिरः पृथक्प्रान्तदेशौ सार्धाङ्गुलद्वयौ ५५६
प्रत्येकमन्तरालेषु सपादद्व्यङ्गुला मितिः
विश्वमूर्तिवदन्यत्तु लक्ष्म श्रीशार्ङ्गिणोदितम् ५५७
वंशाश्चतुर्दशैवैवं प्रोक्ताः सोढलसूनुना
नातः परं तु वंशानामीदृशामस्ति संभवः ५५८
तेषु रन्ध्राङ्गुलीप्राप्तिर्न कस्यापि हि दृश्यते
अतिमन्द्रध्वनित्वाच्च न ते तत्त्वविदां मताः ५५९
गतानुगतिकत्वेन त्वेकवीरादयस्त्रयः
कथिता न तु तेष्वस्ति रक्तिमाधुर्यधुर्यता ५६०
चतुर्मुखादयस्तस्मादेकादश मनोहराः
स्वमतेऽभ्युपगम्यन्ते वंशाः सोढलसूनुना ५६१
शार्ङ्गदेवोऽन्यमाङ्गेन वंशरूपं न्यरूपयत्
तिर्यग्यवोदरैः सार्धैश्चतुर्भिर्निस्तुषैरिह ५६२
अङ्गुलं तेन पूर्वोक्तरीत्याऽरभ्यैकवीरतः
सन्ति द्वाविंशतिर्वंशविशेषास्तेषु चक्ष्महे ५६३
वंशश्रेणीमिमामाह निःशङ्कोनुपमाभिधाम्
एकवीरे दण्डमानं स्यात्षोडशभिरङ्गुलैः ५६४
सार्धेन यवपादेनाभ्यधिकैस्तच्छिरोन्तयोः
सार्धाङ्गुलद्वयं मानं प्रत्येकं परिकीर्तितम् ५६५
सपादमङ्गुलं जातिमुखे रन्ध्राष्टके पुनः
पृथक्तृतीयभागोनमङ्गुलं मानमिष्यते ५६६
अर्धाङ्गुलानि प्रत्येकमन्तरालानि सप्त च
मूलतः पञ्चमांशोनकनिष्ठामध्यपर्वणा ५६७
मिता खानिर्भवेत्ताररन्ध्रजातिमुखान्तरम्
एकवीरादिसंज्ञाभिः सर्ववंशेषु वेदितम् ५६८
अष्टमांशविहीनेन यवार्धेनाधिकैर्भवेत्
अङ्गुलैः सप्तदशभिर्दण्डमानमुमापतौ ५६९
एकाङ्गुलाधिकस्तस्माद्दण्डस्त्रिपुरुषे मतः
अनयोर्वंशयोः शेषंलक्ष्म स्यादेकवीरवत् ५७०
मानं स्याद्यवपादोनविहीनाङ्गुलविंशतिः
चतुर्मुखस्य दण्डस्यान्तरालेष्वर्धम्ङ्गुलम् ५७१
अष्टमांशाधिकं मानं पृथगन्यत्तु पूर्ववत्
सद्वात्रिंशांशपादोनद्वियवाधिकया मितः ५७२
दण्डोऽङ्गुलैकविंशत्या पञ्चवक्त्रस्य कीर्तितः
अङ्गुलस्य त्रिभिः पादैः पादोनैरन्तराणि तु ५७३
मितानि सप्त प्रत्येकं पूर्ववल्लक्षणं परम्
सार्धत्रयोविंशतिः स्यादङ्गुलानां यवाधिका ५७४
मानं षण्मुखदण्डस्य पादोनं त्वङ्गुलत्रयम्
पृथक्शिरोन्तयोर्मानमन्तरेषु तु सप्तसु ५७५
यवपादाधिकं मानं पृथक्पादोनमङ्गुलम्
शेषं तु पूर्ववद्वंशे मुनौ स्याद्दण्डसंमितिः ५७६
यवपादोनपादोनाङ्गुलषड्विंशतिर्मता
अङ्गुलं यवपादेन न्यूनमन्तरसप्तके ५७७
प्रत्येकं मानमाख्यातं शेषं षण्मुखवंशवत्
वसौ वंशे यवार्धेन द्वात्रिंशांशयुजाऽधिका ५७८
स्यात्सप्तविंशतिः सार्धाङ्गुलानां दण्डसंमितिः
सपादेन तु पादेन द्वात्रिंशांशयुतेन च ५७९
यवस्याभ्यधिकं मानमन्तरेष्वङ्गुलं पृथक्
शेषं तु मुनिवद्दण्डे नाथेन्द्रस्य तु संमितिः ५८०
यवाष्टमांशसहितैरेकोनत्रिंशदङ्गुलैः
सार्धपादाधिकैरुक्ता पृथक्तु सुषिराष्टके ५८१
तारादौ यवयुक्तेनार्धाङ्गुलेन मितिर्भवेत्
अन्तरेषु पृथङ्मानमष्टमांशाह्दिकाङ्गुलम् ५८२
शेषं तु पूर्ववद्दण्डे महानन्दस्य संमितिः
उक्ता यवाष्टमांशोनाङ्गुलैकत्रिंशदिष्यते ५८३
सपादावन्तरालेषु प्रत्येकं मानमुच्यते
सपादमङ्गुलं शेषं पूर्वोकं शार्ङ्गिणोदितम् ५८४
अङ्गुलानि त्रयस्त्रिंशदष्टमांशयुतानि तुआ!ष्टमांशयुक्तानि रुद्रे दण्डमितिर्भवेत् ५८५
युक्तं सार्धेन पादेनाङ्गु लमन्तरसप्तके
प्रत्येकं मानमाख्यातं खानेर्मानं तु मूलतः ५८६
षष्ठांशोनं मध्यपर्व कनिष्ठायाः प्रकीर्तितम्
शेषं प्राग्वदथाऽऽदित्ये स्यात्पञ्चत्रिंशताङ्गुलैः ५८७
यवाष्टमांशसहितैर्दण्डमानमथान्तरम्
सार्धाङ्गुलकमेकैकं खानिमानं तु कीर्तितम् ५८८
मूलतः सप्तमांशोनं कनिष्ठापर्व मध्यमम्
प्राग्वत्परम् विश्वमूर्तौ वंशे दण्डस्य संमितिः ५८९
यवाष्टमांशसहितैः स्यात्सप्तत्रिंशताऽङ्गुलैः
सार्धपादाधिकैः शीर्षं प्रान्तौ त्र्यङ्गुलकौ पृथक् ५९०
अन्तरेष्वष्टमांशोनाह्दिकं सार्धाङ्गुलं पृथक्
मानं खानेस्त्वष्टमांशन्यूनमामूलतो मतम् ५९१
मध्यपर्व कनिष्ठायाः पूर्वोक्तं शेषमिष्यते
दण्डमानं मनोरेकोनचत्वारिंशताङ्गुलैः ५९२
सपादैरष्टमांशेन यवस्य सहितैरपि
पादोनमङ्गुलद्वंद्वं पृथगन्तरसप्तके ५९३
मानं खानिस्तु मातव्या कनिष्ठामध्यपर्वणा
पूर्वोक्तमपरं सार्धैकचत्वारिंशताऽङ्गुलैः ५९४
युक्तैर्यवस्य पादोनपादद्वंद्वेन संमितिः
दण्डे पञ्चदशस्य स्यात्ततः सार्धयवत्रया ५९५
प्रत्येकमष्टरन्ध्री स्यादन्तरेष्वङ्गुलद्वयम्
अष्टमांशोनितं मानं प्रत्येकं मनुवत्परम् ५९६
कलानिधौ सपादैः स्यात्त्रिचत्वारिंशताऽङ्गुलैः
यवाधिकैर्दण्डमानमन्तरालेषु सप्तसु ५९७
प्रत्येकमङ्गुलद्वंद्वं सपादं पूर्ववत्परम्
दण्डोऽष्टादशवंशस्याष्टाचत्वारिंशताङ्गुलैः ५९८
यवान्वितैः सपादेन सपादेनाधिकैर्मितः
प्रत्येकं षोडशांशोनसार्धाङ्गुलयुगं मतम् ५९९
प्रमाणमन्तरालेषु परं पूर्ववदिष्यते
दण्डे त्वेकोनविंशस्य साङ्घ्रि पञ्चाशदङ्गुलम् ६००
यवेनाभ्यधिकं मानमन्तरेषु तु सप्तसु
प्रत्येकं षोडशांशोनाधिकं सार्धाङ्गुलद्वयम् ६०१
प्राग्वत्परं मुरल्यास्तु दण्डमानं यवाधिकम्
द्वापञ्चाशद्भवेत्सार्धाङ्गुलानामन्तराणि तु ६०२
पादोनत्र्यङ्गुलानि स्युः प्रत्येकं पूर्ववत्परम्
एकविंशे दण्डमानं पञ्चपञ्चाशदङ्गुलम् ६०३
सपादं षोडशांशेनाभ्यधिकं यवसंयुतम्
अङ्गुलान्यन्तराणि स्युः प्रत्येकं पूर्ववत्परम् ६०४
दण्डमानं श्रुतिनिधावष्टापञ्चाशदङ्गुलम्
सार्धं यवाधिकं तस्य त्वन्तरेष्वङ्गुलत्रयम् ६०५
सपादषोडशांशोनाधिकं मानं पृथङ्मतम्
पूर्वोक्तमपरं लक्ष्म शार्ङ्गदेवेन कीर्तितम् ६०६
सर्वेषामपि वंशानां पिण्डः सार्धयवो भवेत्
रक्तिमाधुर्यविरहात्पञ्चवक्त्रादधस्तनाः ६०७
चतुर्मुखादयो वंशा नेष्टाः श्रीशार्ङ्गिसूरिणा
देशीवंशेषु सर्वेषु मुद्रितात्पूर्ववंशतः ६०८
उत्तरो मुद्रितो वंशः स्वरार्धेनाधिको भवेत्
वंशानामल्पमानानां सर्वत्रोत्तरता मता ६०९
स्वरार्धं स्यादूर्ध्वतया दक्षिणस्य कनिष्ठया
अतस्तस्या मुद्रितायां पूर्ववंशस्य जायते ६१०
उत्तरो मुद्रितो वंशः पूर्वतुल्यस्वरोदयः
उद्धृताङ्गुलिवृद्धौ तु तस्मादप्युत्तरोत्तरे ६११
मिलन्ति मुद्रिता वंशा यथासंख्यं पुरातनैः
स्वरोदय्ऽप्यङ्गुलयः शात्रीये लौकिके तथा ६१२
यंशे तुल्यप्रकाराः स्युरिति श्रीशार्ङ्गिणोदितम्
एकस्वराणि रन्ध्राणि संनिधौ व्यवधावपि ६१३
मिलन्ति सर्ववंशानामिति ब्रूते हरप्रियः
मानहीनं तु यद्रन्ध्रं खानिर्वा यत्र तादृशी ६१४
न तद्रन्ध्रैः स्वजातीयैर्मिलन्ति स्वरभङ्गतः
चतुर्दशादिवंशानामावंशादेकवीरतः ६१६
इदानीं तादृशीं वंशस्वरूपरचनामिमाम्
शार्ङ्गदेवः समाचष्टे शिवानुग्रहशुद्धधीः ६१७
वंशपद्धतिरेषा च शार्ङ्गविद्वाभिधीयते
अङ्गुलं षड्यवं चात्र रन्ध्रादिमितये मतम् ६१८
एकवीरे दण्डमानं सपादद्वादशाङ्गुलम्
यवार्धेनाधिकं तस्य शिरोन्तौ द्व्यङ्गुलौ पृथक् ६१९
मुखरन्ध्रेऽङ्गुलं मानं तारादौ सुषिराष्टके
प्रत्येकमङ्गुलदलं तेषां त्वन्तरसप्तेके ६२०
यद्द्वयं पृथङ्मानमुक्तं श्रीशार्ङ्गिसूरिणा
सर्ववंशेषु तारस्य मुखरन्ध्रस्य चान्तरे ६२१
एकवीरादिसंज्ञाभिर्विज्ञेयाऽङ्गुलसंमितिः
उमापतौ त्रिपुरुषे चैकैकाङ्गुलवर्धितम् ६२२
दण्डमानं परं लक्ष्म त्वेकवीरवदिष्यते
चतुर्मुखे दण्डमानं पादन्यूनयवाधिकैः ६२३
अङ्गुलैः पञ्चदशभिः सार्धैरस्यान्तरेषु तु
सपादद्वियवी मानं पृथगन्यत्तु पूर्ववत् ६२४
सपादैः सप्तदशभिः पादन्यूनयवाधिकैः
अङ्गुलैर्दण्डमानं स्यात्पञ्चवक्त्रेऽन्तरेषु तु ६२५
षोडशांशाधिका मानं पादोनत्रियवी पृथक्
शेषं तु पूर्ववद्दण्डे षण्मुखस्य तु संमितिः ६२६
युक्ता यवेन सार्धेनाष्टमांशरहितेन च
एकोनविंशतिः प्रोक्ताऽङ्गुलानामन्तरेषु तु ६२७
यवस्य सार्धपादाभ्यां युक्तमर्धाङ्गुलं पृथक्
पूर्वोक्तमपरं लक्ष्म दण्डे तु स्यान्मितिर्मुनेः ६२८
अङ्गुअलिरेकविंशत्या सार्धपादद्वयाधिकैः
यवस्य चाष्टमांशेन सपादेन समन्वितैः ६२९
सपादयवपादेन द्वात्रिंशांशयुतेन च
युक्तमन्तरमानं स्यात्पृथक्पादोनमङ्गुलम् ६३०
शेषं तु पूर्ववल्लक्ष्म ज्ञेयं वंशे वसौ पुनः
अष्टमांशविहीनेन यवेनाधिकया भवेत् ६३१
चतुर्विंशत्यङ्गुलानां चरणन्यूनया मितिः
पृथगष्टासु रन्ध्रेषु सपादत्रियवी मितिः ६३२
प्रत्येकमन्तरालेषु साष्टमांशचवाधिकम्
पादोनमङ्गुलं मानमपरं लक्ष्म पूर्ववत् ६३३
सपादयवसंयुक्ताऽङ्गुलषड्विंशतिर्भवेत्
मानं नाथेन्द्रदण्डस्यान्तरालेषु तु सप्तसु ६३४
अष्टमांशाधिकं मानमङ्गुलं पूर्ववत्परम्
यव्ष्टाअमांशसहिता सार्धाष्टाविंशतिर्मता ६३५
अङ्गुलानां दण्डमानं महानन्देऽन्तरेषु तु
सपादमङ्गुलं सार्धयवपादाधिकं पृथक् ६३६
प्राग्वत्परं रुद्रदण्डे त्वङ्गुलानां यवाधिका
एकत्रिंशन्मिता मानमथ सार्धयवत्रया ६३७
प्रत्येकमष्टरन्ध्री स्यादन्तरालेषु सप्तसु
सार्धाङ्गुलं पृथङ्मानं पूर्वोक्तं शेषमिष्यते ६३८
दण्डस्य मानमादित्ये स्याच्चतुस्त्रिंशदङ्गुलम्
यवेन च सपादेन द्वात्रिंशांशयुजाऽधिकम् ६३९
द्वात्रिंशाशोनपादाभ्यां यवस्य सहितं पृथक्
पादोनमङ्गुलद्वंद्वं मानमन्तरसप्तके ६४०
प्राग्वत्परं विश्वमूर्तौ स्यात्सप्तत्रिंशदङ्गुलम्
दण्डमानं युतं सार्धयवपादद्वयेन च ६४१
प्रत्येकमन्तरालेषु त्वङ्गुलद्वितयं मतम्
यवस्य सार्धपादेनाभ्यधिकं पूर्वत्परम् ६४२
दण्डो यवाष्टमांशेन सपादेन समन्वितैः
चतुश्चत्वारिंशता स्यादङ्गुलैः संमितो मनोः ६४३
सार्धाङ्गुलद्वयमितौ शिरःप्रान्तौ मतौ पृथक्
साधेन षोडशांशेन यवस्याभ्यधिकैस्त्रिभिः ६४४
पादोनैरङ्गुलैर्मानमन्तरालेषु सप्तसु
पूर्वोक्तं लक्षणं शेषमवोचत्करणाग्रणीः ६४५
खानिः सर्वेषु वंशेषु कनिष्ठामध्यपर्वणा
मूलेन संमिता कार्येत्युक्तं सोढलसूनुना ६४६
सर्वमन्यत्तु वंशानां देशीशास्त्रभुवां समम्
एकवीरादयोऽत्रापि त्रयः प्राग्वन्न संमताः ६४७
धातून्वृत्तित्रयं तत्त्वानुगतौधांश्च यान्पुरा
वाद्यान्याश्रावणादीनि वीणायां यान्यवादिषम् ६४८
गेयं श्रुतिस्वरग्राममूर्छनादि च यन्मतम्
तत्सर्वं वंशवाद्येऽत्र विशेषेणोपदर्शयेत् ६४९
वंशवीणाशरीराणि त्रयोऽमी स्वरहेतवः
ललितो मधुरः स्निग्धस्तेषु वंशः प्रशस्यते ६५०
वंशवीणाशरीराणामेकीभावेन यो ध्वनिः
तत्र रक्तिविशेषस्य प्रमाणं विबुधा विदुः ६५१
अध्वन्यानां प्रवासेषु कामिनीनिर्जितेषु च
शोकार्तेषु प्रयुञ्जीत मृदुमध्यलयध्वनिम् ६५२
वंशं युञ्जीत शृङ्गारे द्रुतादिललितध्वनिम्
कम्पितस्फुरितध्वानं वंशं द्रुतलयाश्रयम्
क्रोधाभिमानयोः कुर्यान्मतङ्गेनेति कीर्तितम् ६५३
स्निग्धता घनता रक्तिव्यक्तिः प्रचुरता ध्वनेः
लालित्यं कोमलत्वं च नादानुरणनं तथा ६५४
त्रिस्थानत्वं श्रावकत्वं माधुर्यं सावधानता
द्वादशेति गुणाः प्रोक्ताः फूत्कारे सूरिशार्ङ्गिणा ६५५
तत्र शब्दगुणेष्वेवैकादश प्रोक्तलक्षणाः
फूत्कृतेः सावधानत्वं न्यूनताधिक्यवर्जनम् ६५६
इति द्वादश फूत्कारगुणाः
फूत्कात्रो यमलः स्तोकः कृशः स्खलित इत्यमी
फूत्कारदोषा यमलं ब्रुवते प्रतिफूत्कृतिम्
एवमन्वर्थनामत्वान्नोच्यते लक्षणं पृथक् ६५७
कपिलस्तुम्बकी काकी संदष्टश्चाव्यवस्थितः
पञ्चेति फूत्कृतेर्दोषानपरानूचिरे परे ६५८
यः कफोपहताद्वक्त्राद्विस्वरः स्फुटितो भवेत्
कपिलोऽसौ तुम्बुध्वानप्रायः प्रोक्तस्तु तुम्बकी ६५९
तारन्यूनतया काकस्वरः काकीति कथ्यते
अल्पः संदष्टवद्भाति योऽसौ संदष्ट उच्यते
ऊनोऽधिको वा यो रूक्षः कथ्यते सोऽव्यवस्थितः ६६०
कण्ठस्य गुणदोषा ये पुरोक्तास्तेषु केचन
फूत्कारेऽपि यथायोगं योजनीया मनीषिभिः ६६१
इति दश फूत्कारदोषाः
अङ्गुलीसारणाभ्यासः सुस्थानत्वं सुरागता
सुरागव्यक्तिमाधुर्यान्विता वेगाद्गतागते
गीतवादनदक्षत्वं गातॄआं! स्थानदायिता
तद्दोषाच्छादनं मार्गदेशीरागेषु कौशलम् ६६३
ना!वदपस्थाने रागोद्भूतिप्रगल्भता
वांशिकस्य गुणानेतान्वक्ति श्रीकरणाग्रणीः ६६४
इति वांशिकगुणाः
मिथ्याप्रयोगबाहुल्यमेतद्गुणविपर्ययः
इष्टस्थानानवाप्तिश्च शिरसः कम्पनं तथा
वांशिकस्येति दोषाः स्युर्वर्जनीयाः प्रयत्नतः ६६५
इति वांशिकदोषाः
एकः स्याद्वांशिको मुख्यश्चत्वारोऽस्यानुयायिनः
वांशिकानामिति प्रायस्तज्ज्ञैर्वृन्दं निगद्यते ६६६
इति वांशिकवृन्दम्
अधुना मुग्धबोधार्थमुदाहरणमात्रतः
वंशे देशीस्थरागाणां केषांचिद्वादनं ब्रुवे ६६७
मध्यमं स्थायिनं कृत्वा तृतीये कम्पिते स्वरे
विलम्बिते द्वितीयेऽथ स्थायिनि न्यस्यते यदा
स्वस्थानं प्रथमं प्रोक्तं मध्यमादेस्तदा बुधैः ६६८
तृतीयकम्पनादूर्ध्वं चतुर्थं पञ्चमं ततः ६६९
तुर्यस्वरं द्वितीयं च कृत्वा न्यासो ग्रहे यदा
तदा द्वितीयं स्वस्थानं शार्ङ्गदेवेन कीर्तितम् ६७०
चतुर्थस्वरमाहत्य स्थायिनं तत्परं ततः
समुच्चार्य स्वरं तुर्यं पञ्चमं तु विलम्ब्य च ६७१
षष्ठं च पञ्चमं कृत्वा द्वितीयं च ग्रहे यदा
न्यासस्तदा तृतीयं स्यात्स्वस्थानमिति तद्विदः ६७२
ग्रहद्वितीयतुर्यांश्च पञ्चमं सप्तमं ततः
कृत्वाऽष्टमं बिलम्ब्याथ द्वितीयं तत्परं ततः ६७३
द्वितीयं सप्तमं कृत्वा पञ्चमं च चतुर्थकम्
द्वितीयं च ग्रहे न्यासः स्वस्थानं तुर्यमिष्यते ६७४
दृश्यते मध्यमादेस्तु ग्रहो वंशेषु मुद्रितः ६७५
इति मध्यमादिः
षड्जे ग्रहे ममाहत्य षड्जं कृत्वा हतौ रिमौ
पमान्दोल्य प्रकम्यापि पमगां द्विः प्रयुज्य च ६७६
आन्दोल्य मं प्रकम्प्यापि लघुषड्जं विधाय च
कम्पयित्वा रिमौ द्वित्रान्वारानावर्त्य षड्जगौ ६७७
स्थायिन्यासाध्बवेदाद्यं स्वस्थानं मालवश्रियः
आद्यस्वस्थानविधिना विधाय स्वरपञ्चकम् ६७८
निं विलम्ब्यावरोही चेत्पूर्वः स्वस्थानगः कृतः
तदा द्वितीयं स्वस्थानं धान्तमान्दोल्य सप्तमम्
आहत्य च द्वितीयस्य स्वस्थानस्यावरोहणम् ६८०
कृतं यत्र तृतीयं तत्स्वस्थानमुदितं बुधैः
आहत्य मं द्विगुणसं कृत्वा रिं तत्परं ततः ६८१
तं सं प्रोच्य निमाहत्य विलम्ब्य पुनरप्यमुम्
कृत्वा तृतीयं स्वस्थानावरोही क्रियते यदा
तदा चतुर्थं स्वस्थानमाख्यातं मालवश्रियः ६८२
षड्जोऽन्यो वा स्वरो वंशे ग्रहोऽस्या मुद्रितः स्वरः ६८३
प्रकल्ल्प्य तस्य षड्जत्वं परेषामृषभादितम्
लक्ष्मेदं योजयेत्सर्वमित्युक्तं सूरिशार्ङ्गिणा ६८४
इति मालवश्रीः
स्थायिनं मध्यमं कृत्वा कम्पयित्वा परं स्वयम्
तुर्यं विलम्ब्य कृत्वा च तृतीयं तं द्रुताहतम् ६८५
विधाय तं पुनः प्रोच्य ग्रहन्यासेन जायते
स्वस्थानं प्रथमं तोड्याः प्रोक्तं मुनिवरैरिति ६८६
प्राक्स्वस्थानवदारुह्य पञ्चमादवरुह्यते
स्थायिस्वरान्तं यत्रादः स्वस्थानं स्याद्द्वितीयकम् ६८७
प्राग्वा षष्ठमारोहावरोही च ग्रहावधिः
अस्यास्तृतीये स्वस्थाने चतुर्थे त्वष्टमावधौ ६८८
आरोहिण्यवरोही स्यात्पूर्ववत्तद्विदां मतः
मुद्रितस्तु ग्रहः प्रोक्तो लक्ष्ये स्याल्लक्ष्मवेदिभिः ६८९
इति तोडी
मध्यमं ग्रहमास्थाय प्राञ्चं प्रोच्य ततो ग्रहम् ६९०
सद्वितीयं कम्पयित्वा तृतीयं सचतुर्थकम्
लघूकृत्य तृतीयं चोच्चार्याऽऽहत्य च तं ततः ६९१
प्राचीनं स्वरमुच्चार्य स्थायिनि न्यस्यते यदा
भवेद्बङ्गालरागस्य स्वस्थानं प्रथमं तदा ६९२
आरोही पञ्चमान्तः स्थात्स्वस्थानेऽस्याद्वितीयके
सप्तमान्तस्तृतीये स्यात्तुर्ये स्यादष्टमावधि ६९३
प्राक्प्राग्वदवरोही स्यात्स्वस्थाने तूत्तरोत्तरम्
लक्ष्ये तु सर्ववंशस्थो द्वितीयोऽस्य ग्रहो मतः ६९४
इति बङ्गालः
धैवतं स्थायिनं कृत्वा प्राञ्चं तं च तृतीयकम्
पुनः प्राञ्चं विधायाथ कम्पयित्वा तृतीयकम् ६९५
विलम्ब्य चाऽऽहतं कृत्वा द्वित्रिवारं द्वितीयकम्
ग्रहे न्यासाद्भैरवस्य स्वस्थानं प्रथमं भवेत् ६९६
द्वितीये पञ्चमान्तः स्यादारोहोऽथ तृतीयके
षष्ठोन्तः सप्तमान्तो वा चतुर्थे त्वष्टमावधिः ६९७
परे परेऽवरोही स्यात्स्वस्थाने पूर्वपूर्ववत्
द्वितीयोऽत्र स्वरः स्थायी सर्ववंशेषु दृश्यते ६९८
इति भैरवः
स्थायिनं द्विगुणं षड्जं कृत्वाऽर्धं वादयेत्ततः
पूर्वं ग्रहं द्वितीयं च तृतीयमथ वादयेत् ६९९
अथ द्वितीयमागत्य न्यस्यते स्थायिनि स्वरे
यदा वराट्याः स्वस्थानं प्रथमं जायते तदा ७००
इह भैरववत्कार्यं स्वस्थानत्रितयं परम्
स्वस्थानप्रक्रियैषैव ज्ञेया रागान्तरेष्वपि
द्वितीयोऽस्याः स्वरो लक्ष्ये ग्रहत्वेनोपलक्ष्यते ७०१
इति वराटी
ऋषभे स्थायिनि प्राञ्चं कम्पयित्वाऽर्धमस्य च ७०२
कृत्वा ग्रहं द्वितीयं च तृतीयं तदधः स्वरम्
ग्रहमेत्य ततः प्राञ्चं प्रकम्प्योक्तार्धमस्य च ७०३
ग्रहे न्यासेन गर्जर्याः स्वस्थानं प्रथमं भवेत्
तृतीयो दृश्यते प्रायो ग्रहोऽस्यां लक्ष्यगोचरे ७०४
इति गुर्जरी
षड्जे ग्रहे द्वितीयं च तृतीयं सकृदाहृतम्
वेगात्कृत्वाऽथ तुर्यं च तृतीयं तदधस्तनम् ७०५
उक्त्वा तृतीयतुर्यौ च तृतीयं तदधस्तनम्
ग्रहे न्यासो वसन्तस्य स्वस्थाने प्रथमे भवेत्
तृतीयस्त्वस्य वंशेषु स्थायित्वेनोपलभ्यते ७०६
इति वसन्तः
स्थायिनि द्विगुणे षड्जे तदर्धं लघु वादयेत्
ततस्तत्सकृदाहत्य ग्रहं तस्मात्तृतीयकम् ७०७
तुर्यं चोक्त्वा तृतीयं च सकृदाहत्य तत्परम्
द्रुतं कृत्वा पञ्चमं तु विलम्ब्यास्मादधस्तनौ ७०८
लघूकृत्य ग्रहे न्यासः स्वस्थाने प्रथमे भवेत्
धन्नास्या दृश्यते वंशे स्याद्द्वितीयस्वरो ग्रहः ७०९
इति धन्नासी
तमेव स्थायिनं कृत्वा द्वितीयं वादयेद्द्रुतम्
लघू ग्रहद्वितीयौ च कृत्वा ताभ्यां परं स्वरम् ७१०
विलम्ब्य स्फुरितं तु द्विर्विध्यात्पञ्चमं ततः
अधरांस्त्रीन्क्रमादुक्त्वा स्थायिनि न्यस्यते यदा
देश्यास्तदाऽऽद्यं स्वस्थानं द्वितीयोऽस्या ग्रहो जने ७११
इति देशी ।
गान्धारे स्थायिनि प्रोच्य द्वितीयं च तृतीयकम्
तुर्यं विलम्ब्य तत्प्राञ्चं कृत्वा स्पृष्ट्वा द्वितीयकम् ७१२
दीर्घीकृत्य तृतीयं चोक्त्वा द्वितीयं ग्रहस्वरे
न्यासो यदा स्यात्स्वस्थानं देशाख्यायास्तदाऽऽदिमम् ७१३
मुद्रितोऽस्या ग्रहो वंशे लक्ष्यते लक्ष्यवेदिभिः ७१४
इति देशाख्या
ग्रहं द्विगुणसं कृत्वा पूर्वं स्पृष्ट्वा तृतीयकम्
कृत्वा स्पृष्ट्वा ग्रहं प्रोच्य तत्परं स्फुरितौ वदेत् ७१५
द्विस्त्रिर्वा ग्रहतत्पूर्वो न्यस्यते कम्पिते ग्रहे
यदा डोम्बक्रियः प्रोक्तं स्वस्थानं प्रथमं तदा
सा भूपाली श्रुता लोके द्वितीयं ग्रहमाश्रिता ७१६
इति डोम्बक्रीः
धैवते स्थायितां नीते द्विरुच्चार्य परं लघुम्
तं चाथ प्राञ्चमस्यार्धं पूर्वं पूर्वं विधाय तम् ७१७
विलम्ब्य कम्पयित्वाऽर्धं तस्याऽऽहत्य च तन्मुहुः
पूवं प्रकम्प्य तस्यार्धं दीर्घीकृत्य ग्रहं व्रजेत् ७१८
अथोर्धप्रेरितौ पूर्वग्रहौ कृत्वा द्वितीयकम्
प्रोच्य स्पृष्ट्वा ग्रहं तस्मात्परं प्रोच्य प्रकम्प्य तु ७१९
तृतीयं ग्रहपाश्चात्यग्रहौ तूच्चारयेन्मुहुः
ततस्तृतीयमाकम्प्य विलम्ब्य तदधस्तनम् ७२०
ईषद्विरम्य स्पृष्ट्वा च द्वितीयं न्यस्यते ग्रहे
यदा तदाऽऽद्यं स्वस्थानं वेलावल्याः प्रकीर्तितम्
तृतीयग्रहता त्वस्या दृश्यते वंशगोचरे ७२१
इति वेलावली
पञ्चमं ग्रहमास्थायाऽऽरोहिणा पञ्चमं ततः
गत्वा विलम्ब्य तं तस्मादधरं द्रुततां नयेत् ७२२
ततोऽधः स्थं द्राघयित्वा स्पृष्ट्वा च द्राघितात्परम्
तत्परं दीर्घतां नीत्वा पुनः प्रोच्यावरोहिणा ७२३
तस्मादेत्य ग्रहन्यासे स्वस्थानं प्रथमं भवेत्
रागे प्रथममञ्जर्यां द्वितीयोऽस्या ग्रहो जने ७२४
इति प्रथममञ्जरी
स्थायिनोऽर्धात्समारुह्य तृतीयादिचतुःस्वरीम्
कम्पयित्वा विलम्ब्यापि षष्ठतुर्यं विधाय च ७२५
एत्य पञ्चममेतस्माद्ग्रहान्तमवरुह्य च
ग्रहार्धं ग्रहपूर्वं च गत्वा स्पृष्ट्वा ग्रहं ततः ७२६
द्वितीयं कम्पितं कृत्वा तृतीयं स्फुरितं ततः
स्थायिनि स्यस्यते यत्र स्वस्थानं स्यात्तदाऽऽदिमम्
आडीकामोदिकायाः स्याद्द्वितीयग्रहता जने ७२७
इत्याडीकामोदी
स्थायिनि द्विगुणे षड्जे द्विराहत्य तृतीयकम्
त्रिश्चतुर्वा ततः स्पृष्ट्वा ग्रहं पूर्वमुदीर्य च ७२८
कम्पिते स्थायिनि न्यासात्स्वस्थानं प्रथमं भवेत्
रागे शुद्धवराट्यां सा द्वितीयस्थायिका जने ७२९
इति शुद्धवराटी
तमेव स्थायिनं कृत्वा तं तदर्धं द्विराहतम्
द्विस्त्रिर्वोक्त्वाऽथ द्वितीयं कम्पयित्वा विलम्ब्य च ७३०
आहत्य द्विश्चतुर्वाऽस्मात्परं कृत्वा लघुं ग्रहम्
उक्त्वा ग्रहार्धपूर्वे तु दीर्घीकृत्य ग्रहे यदा ७३१
न्यस्यते शुद्धनट्टायाः स्वस्थानं प्रथमं तदा
वंशेष्वस्यामपि प्रायो द्वितीयो दृश्यते ग्रहः ७३२
इति शुद्धनट्टा
ग्रहं द्विगुणसं प्रोच्य तदर्धं च द्वितीयकम्
विलम्बिते तृतीयेऽथ द्वितीयं द्रुततां नयेत् ७३३
ग्रहार्धे च स्थिरीभूय कम्पयित्वा ग्रहं ततः
परौ स्वरौ द्रुतीकृत्य लघूकृत्य परं ग्रहे ७३४
न्यासे कृते रामकृतेः स्वस्थानं प्रथमं भवेत्
द्वितीयस्वरमेवास्या वंशे वीक्षामहे ग्रहम् ७३५
इति रामक्रीः
तस्मिन्नेव ग्रहे कृत्वा तृतीयं च द्वितीयकम्
ग्रहार्धं द्रुतमुच्चार्य स्पृष्ट्वा पूर्वं ग्रहस्य च ७३६
अर्धं प्रोच्य विरम्याथ पूर्वं स्पृष्ट्वा तृतीयकम्
लघूकृत्य लघोः पूर्वौ स्पृष्ट्वाऽथ स्थायिनः परौ ७३७
लघूकृत्य द्रुतं कृत्वा द्वितीयं न्यस्यते ग्रह
यदा तदा गौडकृतेर्भवेत्स्वस्थानमादिमम् ७३८
द्वितीयोऽस्यामपि प्रायो ग्रहो लक्ष्येषु दृश्यते ७३९
इति गौडक्रीः
धैवते स्थायिनि प्राञ्चं ग्रहं ग्रहतृतीयकम्
तुर्यं कृत्वा तमाहत्य द्वितीयं कम्पयेत्ततः ७४०
अवरुह्य तृतीयादिक्रमेण चतुरः स्वरान्
ग्रहन्यासाद्देवकृतेराद्यं स्वस्थानमादिशेत्
तृतीयग्रहतां त्वस्याः पश्यामो वंशगोचरे ७४१
इति देवक्रीः
धैवतं ग्रहमास्थाय तृतीयादवरुह्य च
स्वरत्रयं विरम्याथ ग्रहं परमथ ग्रहम् ७४२
पूर्वं कृत्वा तमाहत्य ग्रहन्यासेन जायते
स्वस्थानमाद्यं भैरव्यास्तृतीयोऽस्या ग्रहो जने ७४३
इति भैरवी
स्थायिनि द्विगुणे षड्जेऽधस्तृतीयं विधाय च
अधस्तनं प्रकम्प्याथ विलम्ब्य स्थायिनं ततः ७४४
प्राचीनं लघुतां नीत्वा द्विस्त्रिर्वाऽऽहत्य तं ग्रहम्
लघूकृत्याधरस्यार्धमास्पृश्य ग्रहपञ्चमम् ७४५
विलम्ब्य तं द्रुतीकृत्य तृतीयस्पर्शमाचरेत्
अथोक्त्वा पञ्चमं तं च दीर्घीकृत्याधरं मनाक् ७४६
कम्पयित्वा ग्रहन्यासाद्भवेत्स्वस्थानमादिमम्
छायानट्टाख्यरागस्य ग्रहो वंशे तृतीयकः ७४७
एतां सालगनट्टां तु भाषन्ते लक्ष्यवेदिनः ७४८
अन्ये तु पञ्चमं कृत्वा स्थायिनं रिं विधाय च
मं प्रकम्प्य स्थिरीभूय पञ्चमे द्विः पमध्यमौ ७४९
कृत्वा गमृषभार्धं च संस्पृश्यार्धं पुनर्व्रजेत्
ततो दीर्घौ रिमौ कृत्वा ग्रहे चेन्न्यस्यते तदा
आद्यं सालगनट्टायाः स्वस्थानं तद्विदो विदुः ७५०
मं विधाय ग्रहं तं च द्रुतीकृत्य परं ततः
उक्त्वा तुर्यं विलम्ब्याथ परमास्पृश्य पञ्चमम् ७५१
विलम्ब्यातोऽवरोहेण ग्रहमेति यदा तदा
स्वस्थानमादिमं रामकृतेर्वंशे द्वितीयकः
ग्रहश्चिन्धमरामक्रीः सा सिद्धा लोकवर्त्मनि ७५२
इति चिन्धमरामक्रीः
रिमेव ग्रहमाश्रित्य द्विस्त्रिर्वाऽऽहत्य मं ततः ७५३
तंविलम्बिततां नीत्वा दीर्घीकृत्य नु मध्यमम्
रिगौ रिदलमेतानि द्रुतीकृत्य विलम्ब्य निम् ७५४
पुनरुच्चार्य तं कृत्वा धैवतं सकृदाहतम्
वादयित्वा निषादं च ग्रहन्यासेन जायते ७५५
नाट्यरामकृतेराद्यं स्वस्थानमिति तद्विदः
अथवा मध्यमं कृत्वा ग्रहमाहत्य पञ्चमम् ६५६
द्विस्त्रिर्वाऽप्यवरोहेण धात्क्रमादृषभं द्रुतम्
एत्यार्धं तस्य षड्जं च रेरर्धं वादयेत्पुनः ७५७
अथोच्चार्य रिमौ पं तु विलम्ब्य न्यस्यते ग्रहे
यत्र स्वस्थानमाद्यं तन्नाट्यरामकृतेर्मतम् ७५८
इति नाट्यरामक्रीः
ग्रहं कृत्वा धमाहत्य सकृद्ग्रहपरं स्वरम्
कृत्वा ग्रहात्परौ द्विस्तु ग्रहमाहत्य पूर्वकम् ७५९
द्वितीयं च क्रमादुक्त्वा ग्रहे चेन्न्यस्यते तदा
स्वस्थानमाद्यं मह्लारे ग्रहो वंशे द्वितीयकः ७६०
इति मह्लारः
ग्रहं द्विगुणसं कृत्वा द्रुतीकृत्य ततोऽधरम् ७६१
तमान्दोल्य द्वितीयं तु विधायाथ तृतीयकम्
स्फुरितं ग्रहतत्पूर्वौ वादयित्वा ग्रहे यदा ७६२
न्यासः कणाटगौडस्य स्वस्थानं प्रथमं तदा
वंशे ग्रहस्तृतीयोऽस्य गृह्यते लक्ष्यवेदिभिः ७६३
इति कर्णाटगौडः
ग्रहं तमेव सं कृत्वा प्रोच्य तुर्यतृतीयकौ
स्थायिनं तद्दलं चोक्त्वा पूर्वस्थायिदलं ततः ७६४
स्थायिन्यासाद्देशवालगौडस्वस्थानमादिमम्
जायतेऽस्यापि वंशे तु द्वितीयो दृश्यते ग्रहः ७६५
इति देशवालगौडः
निषादे स्थायिनि प्रोच्य पूर्वं ग्रहमथोत्तरम्
तुर्यं द्वितीयतस्तु त्रीनवरुह्य ग्रहे यदा ७६६
न्यासस्तुरुष्कगौडस्य तदा स्वस्थानमादिमम्
लोके मालवगौडोऽसौ तृतीयोऽस्य ग्रहो गतः ७६७
इति तुरुष्कगौडः
निषादाद्ग्राहतां नीतादारोहेदाचतुर्थकम्
तं विलम्ब्य ततो गच्छेद्ग्रहे चेदवरोहिणा ७६८
तदा द्राविडगौडस्य स्वस्थानं प्रथमं भवेत्
लोके सालगगौडोऽयं द्वितीयोऽस्य ग्रहो मतः ७६९
इति द्राविडगौडः
पञ्चमं ग्रहमास्थाय तृतीयं च द्वितीयकम्
मुक्त्वा तृतीयं स्पृष्ट्वा च प्रान्तमुक्त्वा तृतीयकम् ७७०
स्पृष्ट्वा विलम्ब्य द्वितीये न्यस्यते कम्पिते ग्रहे
यदा भवङ्ति कैशिक्याः स्वस्थानं प्रथमं तदा ७७१
तृतीयोऽस्याः स्वरो वंशे ग्रहो लक्ष्येषु दृश्यते ७७२
इति कैशिकी
स्थायिनं द्विगुणं षड्जं द्रुतीकृत्य द्वितीयकम्
उक्त्वा द्वितीयतृतीयौ द्रुतीकृत्याधराधरम् ७७३
उदीर्य तं द्रुतीकृत्य द्वितीयं वादयेत्ततः
तृतीयं द्विस्त्रिराहत्य स्यायिनि न्यस्यते यदा ७७४
ललितायास्तदा प्रोक्तं स्वस्थानं प्रथमं बुधैः
अस्यामपि स्वरो लक्ष्ये तृतीयो दृश्यते ग्रहः ७७५
इति ललिता
ग्रहं द्विगुणसं कृत्वाऽधस्तनं स्थायिनं तथा
कृत्वा द्वितीयतुर्यौ च द्वितीयस्थायिनौ स्पृशेत् ७७६
विलम्बिते द्वितीयेऽथ स्थायिनि न्यस्यते यदा
श्रीरागस्य बुधैः प्रोक्तं तदा स्वस्थानमादिमम्
स्वरो वंशे द्वितीयोऽस्य ग्रहत्वेनोपलक्षितः ७७७
इति श्रीरागः
यो ग्रहः द्रियते वंशे तमपेक्ष्यात्र योजयेत्
लक्षणस्थं द्वितीयादि यदा किंतु ग्रहादयः ७७८
यावन्तो यत्र रागे स्युः स्वरा लक्ष्मणि तावताम्
संभवः स्थायिना येन स्थायिनं तत्र संश्रयेत् ७७९
अनुग्रहाय मुग्धानामित्येते कतिचिन्मया
रागाः प्रोक्ताः पथाऽनेन संपश्यध्वं बुधाः परान् ७८०
इति वंशप्रकरणम्
पावो वेणुसमुत्पन्नः स्यान्नवाङ्गुलवंशवत्
कृतावेष्टो वङ्गपत्रैर्लोकरीत्यैष वाद्यते ७८१
इति पावलक्षणम्
पाविका वैणवी कार्या द्वादशाङ्गुलदैर्घ्यभाक्
स्थौल्येऽङ्गुष्ठमिता गर्भे स्वदैर्घ्ये सुषिरं श्रिता ७८२
कनिष्ठाग्रमितस्थौल्यमस्या लोकानुसारतः
फूत्काररन्ध्रमेकं स्यात्पञ्च स्युः स्वरसिद्धये
वादनं विविधं नागयक्षावेशविधायकम् ७८३
इति पाविकालक्षणम्
हस्तद्वयाधिका माने मुखरन्ध्रसमन्विता
चतुःस्वरच्छिद्रयुता मुरली चारुनादिनी ७८४
इति मुरली
शृङ्गजा दारवी वा स्यात्काहलाकृतिधारिणी
अष्टाविंशत्यङ्गुला च दैर्घ्ये मधुकरी शुभा ७८५
मुखरन्ध्रं च तस्याः स्यात्तुवरीबीजसंनिभम्
मुखरन्ध्रादङ्गुलानि त्यक्त्वा चत्वारि वंशवत् ७८६
विधाय सप्त रन्ध्राणि कुर्वीत विवरान्तरम्
तेषां च मुखरन्ध्रस्य मध्येऽधोभागसंस्थितम् ७८७
मधुरध्वानसिद्ध्यै तन्मुखरन्ध्रे तु ताम्रजा
निधातव्या यवस्थूला नलिका चतुरङ्गुला ७८८
तदूर्ध्वं चक्रिका स्थाप्या दन्तजा शुक्तिजाऽथवा
रन्ध्रमध्ये काशमयीं यद्वा देवनलोद्भवाम् ७८९
शुक्तिकां किंचिदुन्निद्रमालतीकलिकाकृतिम्
मृदुलां क्षीरपाकेण क्षिप्त्वा मधुकरीं ततः ७९०
वंशवद्वादयेद्रन्ध्रं पिदधीताप्यधस्तनम्
वामाङ्गुष्ठाग्रभागेणेत्युक्तं निःशङ्कसूरिणा ७९१
इति मधुकरीलक्षणम्
ताम्रजा राजती यद्वा काञ्चनी सुषिरान्तरा
धत्तूरकुसुमाकारवदनेन विराजिता ७९२
हस्तत्रयमिता दैर्घ्ये काहला वाद्यते जनैः
हाहूवर्णवती वीरबिरुदोच्चारकारिणी ७९३
इति काहलालक्षणम्
हस्तद्वयकृता या सा सैव तुण्डकिनी मता
तुरुतुर्यपि सा लोके तित्तिरी च निगद्यते
यमलं तुण्डकिन्योश्च वाद्यं वाद्यविदो विदुः ७९४
इति तुण्डकिनीलक्षणम्
तुण्डकिन्येव चुक्का स्याद्दैर्घ्ये हस्तचतुष्टया ९७५
इति चुक्कालक्षणम्
करेणुवदनाकारवदनं दोषवर्जितम्
वृङ्गं यन्माहिषं श्लक्ष्णं स्निग्धं सुघटितं कृतम् ७९६
शृङ्गस्यानडुहश्चाथ धत्तूरकुसुमाकृति
खण्डमष्टाङ्गुलं न्यस्य मूलेऽस्य ध्वनिवृद्धये ७९७
अग्रं द्वित्राङ्गुलं तस्य च्छित्वा फूत्काररन्ध्रकम्
विधाय तुथुकारेण वादयेद्विविधध्वनिम्
एतद्वै ध्वानगम्भीरं वाद्यं गोपालकेलिषु ७९८
इति शृङ्गलक्षणम्
निर्दोषस्योत्खातनाभेः शङ्खस्यैकादशाङ्गुलम्
शिखरं निर्मितं धातुमिच्छकाभ्यां मनोहरम् ७९९
मूलतश्चाग्रपर्यन्तं ह्रस्वमानाकृपि क्रमात्
रन्ध्रमर्धाङ्गुलमितं शिखरस्य मुखे भवेत् ८००
अन्तस्तु माषमात्रं स्याच्छङ्कमेवंविधं सुधीः
धृत्वा कर्कटहस्तेन भूरिश्वासभृतोदरम्
हुंभुंथो दिगिदित्येतद्वर्णोद्बोधेन वादयेत् ८०१
इति शङ्कलक्षणम्
मार्गदेशीगतत्वेन पटहो द्विविधो भवेत्
मार्गस्थपटहस्यात्र लक्षणं तावदुच्यते ८०२
सार्धहस्तद्वयं तस्य दैर्घ्यं स्यात्परिधिः पुनः
षष्ट्यङ्गुलो मध्यदेशः पृथुलो दक्षिणं मुखम् ८०३
कर्तव्यं संमितं सार्धैरेकादशभिरङ्गुलैः
वामं तु दशभिः सार्धैः संमितं दक्षिणे मुखे ८०४
आयसं वलयं कार्यं वामे वल्लीसमुद्भवम् ८०५
षाण्मासिको मृतो वत्सो यस्तस्याऽऽदाय पारिकाम्
तयाऽवगुण्ठ्य वलयं वल्लीजं वामवक्त्रगम् ८०६
सप्तरन्ध्रान्वितं कृत्वा सुदृढैः सूक्ष्मदोरकैः
निक्षिप्तैस्तेषु रन्ध्रेषु बन्धव्याः कलशाः श्लथम् ८०७
ते हेमादिमयाः सप्त दैर्घ्येण चतुरङ्गुलाः
त्यक्त्वाऽङ्गुलानि चत्वारि वामे स्याल्लोहपत्रिकाम् ८०८
अङ्गुलत्रयविस्तारां पटहे वेष्टयेद्दृढम्
बाह्यकायस्य यच्चर्म पशोस्तेन घनेन च ८०९
कम्बलाख्येन बध्नीयात्पिहितं वदनद्वयम्
दक्षिणास्यस्य कवलं परितः कृतरन्ध्रकम् ८१०
रन्ध्रक्षिप्तैर्गुणैर्गाढमाकृष्येतरवक्त्रगैः
वलये तान्गुणान्सम्यग्बध्नीयाद्दार्ढ्यसिद्धये ८११
वामास्यकवलान्तस्थसप्तरन्ध्रनिवेशितैः
गुणैरावेष्ट्य कलशानायसैर्वलयैर्दृढैः ८१२
अन्तः क्षिप्त्वा समाकृष्टैर्वलये गाढतां नयेत्
कलशेभ्यो बहिर्वामवलयान्ते च बध्यते ८१३
वेष्टनाय कटेः कच्छेत्युक्तोऽयं स्कन्ददैवतः
श्रीयज्ञपुरवर्येण पटहो मार्गसंभवः ८१४
देशीस्थोऽप्येवमेव स्याद्दैर्घ्येऽसौ सार्धहस्तकः
सप्ताङ्गुलं दक्षिणास्यमन्यत्सार्धषडङ्गुलम् ८१५
आन्तरं जाठरं चर्म पशोर्गदितमुद्दली
तया तु स्वेच्छया वक्त्रं वाममस्य निबध्यते ८१६
विशेषोऽयं भवेदस्मिन्नुभौ खादिरदारुजौ
त्रिधोक्तोऽयं द्वयोरन्यैरुत्तमो मध्यमोऽधमः ८१७
उत्तमः प्रोक्तमानः स्याद्द्वादशांशोनितः पुनः
मध्यमः षष्ठभागेन विहीनस्त्वधमो भवेत् ८१८
अथाऽऽद्यवर्णाः
ङवर्जितः कवर्गश्च टतवर्गौ रहावपि
इति षोडश वर्णाः स्युरुभयोः पाटसंज्ञकाः ८१९
संयोगविप्रयोगाभ्यां क्रमव्युत्क्रमयोगतः
सस्वरत्वास्वरत्वाभ्यां पाटास्ते स्युरनेकधा ८२०
उद्दल्यामेव झेंकारो देंकारः कवलेऽधिकः
देशीपटहमेवाऽऽहुरिममड्डावजं जनाः ८२१
अष्टादशाङ्गुलः किंचिन्नताग्रो मध्यतःपृथुः
कोणः कार्यो मूलदेशे मदनाम्बरवेष्टितः ८२२
पद्मासनोपविष्टेन गोष्ठ्यामूरुद्वयोपरि
संस्थाप्य मार्गपटहो वाद्यो वर्णोद्भवे पटुः ८२३
नाटके त्वर्धवक्त्रोऽयं वाद्यते घटवाद्यवत्
कोणेन पाणिना वाऽस्य वादनं सूरयो विदुः ८२४
इति पटहलक्षणम्
ये पाटाः पटहे प्रोक्तास्तेषां विविधगुम्फनात्
हस्तोद्भवाः पाटभेदा हस्तपाटाः प्रकीर्तिताः ८२५
ते चानन्ता न शक्यन्ते प्रत्येकं वेदितुं जनैः
प्रदर्शनार्थमेतेषु कतिचित्प्रतिपादये ८२६
सद्योजातान्नागबन्धः स्वस्तिको वामदेवतः
अलग्नोऽभूदघोरात्तु शुद्धिस्तत्पुरुषाभिधात् ८२७
आसीदीशानवक्त्रस्तु समस्खलितसंज्ञकः
जाताः पञ्चेति पञ्चभ्यो मुखेभ्यः पार्वतीपतेः ८२८
अतस्ते सर्वपाटानां पाटा मुख्यतमा मताः
क्रमात्तद्देवता ब्रह्मविष्णुशर्वरवीन्दवः ८२९
नागबन्धश्च पवनस्तथैकैकसराभिधौ
ततो दुःसरसंचारविक्षेपा नागबन्धजाः ८३०
सप्तेत्यथ स्वस्तिकजाः स्वस्तिको बलिकोहलः
फुल्लपूर्वश्च विक्षेपः कुण्डलीपूर्वकश्च सः ८३१
संचारविलिखी खण्डनागबन्धश्च पूरकः
भेदाः सप्तेत्यलग्नस्य त्वेते सप्त प्रकीर्तिताः ८३२
अलग्नोत्सारविश्रामा विषमाद्या खली सरी
स्फुरी स्फुरणकश्चेति शुद्धे स्याच्छुद्धिरादिमः ८३३
स्वरस्फुरणकोच्छल्लवलतावघटास्ततः
तकारो माणिक्यवल्ली भेदाः सप्तेति संमताः ८३४
समस्खलितकस्याऽऽद्यः समस्खलितसंज्ञकः
विकटः सदृशः पाटखली चाडुखली ततः ८३५
अनुच्छल्लस्तथा खुत्तो भेदाः सप्तेति सन्त्यमी
पञ्चत्रिंशद्धस्तपाटास्तलपाटाश्च कीर्तिताः ८३६
कोणाहतश्च संभ्रान्तो विषमार्धसमाविति
चत्वारो हस्तपाटाः स्युर्नन्दिकेश्वरभाषिताः ८३७
उत्फुल्लः खलकस्तद्वत्पाण्यन्तरनिकुण्टकः
दण्डहस्तः पिण्डहस्तो युगहस्तोऽर्धहस्तकौ ८३८
स्थूलहस्तोऽर्धार्धपाणिः पार्श्वपाण्यर्धपाण्यपि
कर्तरीसमकर्तर्यौ ततो विषमकर्तरी ८३९
समपाणिश्च विषमपाणिः स्यात्पाणिहस्तकः
नागबन्धोऽप्यवघटः स्वस्तिकश्च समग्रहः
इत्येकविंशतिर्हस्तपाटाः स्युः पटहादिषु ८४०
उल्लोलः पाण्यन्तरश्च निर्घोषः खण्डकर्तरी
दण्डहस्तः समनखो बिन्दुर्यमलहस्तकः ८४१
रेचितो भ्रमरो विद्युद्विलासोऽप्यर्धकर्तरी
अलग्नाख्यस्ततो रेफः समपाणिरतः परम् ८४२
परिवृत्तः षोडशेति वाद्येषु पटहादिषु
एतान्प्रायो हुडुक्कायां कुर्वते वाद्यवेदिनः ८४३
अष्टौ विषमपाटाः स्युरपाटाख्यान्ब्रुवेऽधुना ८४४
तलप्रहारः प्रहरो वलितो गुरुगुञ्जितः
अर्धसञ्चस्त्रिसञ्चश्च विषमोऽभ्यस्त इत्यमी ८४५
स्यातामलगपाटौ द्वौ सञ्चविच्छुरिताभिधौ
भ्रमरः कुञ्चितश्चेति चित्रपाटावुभौ मतौ ८४६
अष्टाशीतिरिमे हस्तपाटा निःशङ्ककीर्तिताः ८४७
शिववक्त्रोत्थपाटानां स्वरूपं प्रतिपादये
तेषामुत्पादकान्पाणीँल्लोकतो लक्षयेत्सुधीः ८४८
कनिष्ठाङ्गुष्ठसंयोगाच्छेषाङ्गुलिविवर्धनात्
कोणाहतो हस्तपाटः शार्ङ्गदेवोदितो यथा ८४९
खुंखुंधरि खुंखुंधरि करगिड करगिड ।
इति कोणाहतः १
सर्वाङ्गुल्यग्रघातश्च सर्वाङ्गुलिविवर्तनम्
यस्य निष्पादकं सोऽत्र संभ्रान्तः कथितो यथा ८५०
दरगिडदरगिड गिरिगिडद दाणकिट मटटकु
इति संभ्रान्तः २
चलनं मणिबन्धस्य पताकस्याथ कम्पनम्
पादकम्पोऽथ जनको यस्यासौ विषमो यथा ८५१
दह्रें दह्रें खुंखुं दह्रें खुंखुं दह्रें ततकि ततकि
इति विषमः ३
पूर्वलक्ष्मविपर्यासाद्भवेदर्धसमो यथा ८५२
ददगिद गिगिरिकिटदगि थॐ थॐ गिदथॐगिद
इत्यर्धसमः ४
उत्फुल्लो नखराघातादलपद्मस्य जायते ८५३
कथें कथें इत्युत्फुल्लः १
यदा प्रसारिताङ्गुष्ठः शुकतुण्डस्य हन्यते
विरलाङ्गुलिभिर्वाद्यं क्रमेण खलकस्तदा ८५४
दांगिड गिडदगिदा इति खलकः २
यस्तु दक्षिणहस्तस्य तर्जन्यङ्गुष्ठघाततः
क्रमव्युत्क्रमघातात्तु वामहस्तेन रेफवत्
जायते शार्ङ्गिणोक्तोऽसौ पाण्यन्तरनिकुट्टकः ८५५
दगिडदां खरिक्कदां खरिक्क खरिक्कदांदां खरिखरिदां गिडदां
इति पाण्यन्तरनिकुट्टकः ३
ऊर्ध्वघातं पताकेन कृत्वैकमथ रेफतः
कृतौ यत्रोर्ध्वघातौ द्वौ दण्डहस्तो भवेदसौ ८५६
दातरिकिट दां खरिखरिदां इति दण्डहस्तः ४
क्रमाद्रेफोऽर्धहस्ताभ्यां पिण्डहस्तः प्रजायते
थरिकटझें थरिकटझें इति पिण्डहस्तः ५
रेफात्मभ्यां कराभ्यां चेदूर्ध्वघातद्वयं पृथक् ८५७
क्रियते पाटनिष्पत्त्यै युगहस्तस्तदा भवेत्
द्रेंद्रें दांदां इति युगहस्तः ६
ऊर्ध्वहस्तो दक्षिणेन तलेनोद्गाढघातकः ८५८
दरगिड दांदां इत्यूर्ध्वहस्तः ७
ऊर्ध्वघातद्वयं कृत्वा तलहस्तेन हन्यते
यदा वाद्यपुटद्वंद्वं स्थूलहस्तस्तदोदितः ८५९
खुंखुंदखुंखुंद इति स्थूलहस्तः ८
अर्धार्धपाणिरर्धाभ्यां करयोस्ताडनाद्भवेत्
खुदां खुदां इत्यर्धार्धपाणिः ९
वादनं नखराग्रेण पार्श्वपाणिरुदाहृतः ८६०
थरगिड दागिड दगिड दगिड इति पार्श्वपाणिः १०
अर्धपाणिर्भवेदेककराग्रकृतताडनात्
दगिड दगिड दरगिड दरगिड इत्यर्धपाणिः ११
प्रचालनाद्वामहस्ताङ्गुलीनां कर्तरी मता ८६१
टिरि टिरि टिरि किटथॐ दिगिदां तिरि टिरि किटझेंझे तकि-
किट इति कर्तरी
कर्तरीभ्यां समं घातः कराभ्यां समकर्तरी
झिंनकिट कनकिट किटझेंथॐ दिगिद तिरिटि तिरिटिकि इति समकर्तरी १३
क्रमेण ताडनाद्द्वाभ्यां भवेद्विषमकर्तरी ८६२
टिरि टिरि थॐ दिगिद टिरि टिरि किद इति विषमकर्तरी १४
अङ्गुष्ठाङ्गुलिसंघातौ हस्तयोर्युतपद्यदा
पीडयेतां पुटद्वंद्वं समपाणिस्तदा भवेत् ८६३
दां गिड गिड दांदां इति समपाणिः १५
व्यत्ययाद्व्यापृतौ हस्तौ साङ्गुष्ठाङ्गुलिभिः क्रमात्
यस्मिन्विषमपाणिं तं ब्रूते शंकरवल्लभः ८६४
दांदां गिड गिड दांदां इति विषमपाणिः १६
समपाणेस्तु विरलाङ्गुलित्वे पाणिहस्तकः ८३५
तरगिड दरगिड इति पाणिहस्तकः १७
नागबन्धो विपर्यासात्पुटयोः करघाततः
प्रत्येकं वा पुटद्वंद्वे कराभ्यां ताडनादयम् ८६६
इति नागबन्धः १८
तलेन हत्वा प्रहरेत्साङ्गुष्ठाङ्गुलिभिः क्रमात्
पुटमेकैकपाणिश्चेद्भवेदवघटस्तदा ८६७
ततगिड गिड दगिटन गिनगिननगि इत्यवघटः १९
पुटमेकं निहन्यातां स्वस्तिके स्वस्तिकौ करौ ८६८
तकिट तकिटतकि इति स्वस्तिकः २०
समं करतलाभ्यां तु पुटघातात्समग्रहः
तले केचिदिह प्राहुरङ्गुष्ठाङ्गुलिवर्जिते ८६९
तकिट किटतक इति समग्रहः २१
इत्येकविंशतिर्हस्तपाटाः
लोलो व्यवहिताङ्गुष्ठो दक्षिणो यस्य साधकः
वामश्चेच्छ्वसितो हस्तमुल्लोलं तं प्रचक्षते ८७०
अङ्गुष्ठमध्यमन्येऽत्र ब्रुवते दक्षिणं करम्
पुटमध्ये दक्षिणेन साङ्गुष्ठेन हतिं परे ८७१
व्यङ्गुष्ठो दक्षिणो हस्तः पुटे चेन्मुहुरुल्लसेत्
स्वपुटं पीडयेद्वामस्तदा पाण्यन्तरो भवेत् ८७२
विश्लिष्टाङ्गुलिसंचारमङ्गुष्ठार्धार्धताडनम्
पाण्यन्तरस्य जनकं केचिदाचक्षते बुधाः ८७३
अन्ये पाण्यन्तरं प्राहुर्व्यङ्गुष्ठाद्युक्तलक्षणम्
हस्तान्तरं ततो न्निं विश्लिष्टादिकलक्षणम् ८७४
नखें नखें नखें खेंखेंखें नखें नखें नखें खेंखेंखेंखें दखुं खुंद खुंद इति पाण्यन्तरः १
कोणघोआतेन निर्घोषं निःशङ्कः समभाषत ८७५
नखखि थॐथॐ दिगिदा इति निर्घोषः ३
घाताद्दक्षिणहस्तेन विरलाङ्गुलिना ततः
अङ्गुष्ठघातैर्वामेन पीडनात्खण्डकर्तरी ८७६
दां खुखुदां२
खुखुग थॐटझेंदें झेंदॐ गिथॐटे इति खण्डकर्तरी ४
अङ्गुल्यग्रैः पीडयित्वाऽङ्गुष्ठेन परिघट्टनात्
वामेन पीडनाद्वाद्य दण्डहस्तोऽभिजायते ८७७
खुखुणं खुखुणं झेंद्रझेंद्र टिरिटिरि इति दण्डहस्तः ५
समत्वं पाटवर्णानामङ्गुलीनखराहते
दृश्यते यत्र तं प्राहुः पाटं समनखाभिधम् ८७८
रह रह तरकिट किकिट तकिधकि टेंहेंटहेंत्रः इति समनखः ६
अवष्टभ्य पुटं वामपाणिना तर्जनीहते
बिन्दुरुत्पद्यते प्रोक्तमिति सोढलसूनुना ८७९
देंदिगि देंदिगि गिरिगिड २
इति बिन्दुः ७
समवष्टभ्य वामेन पुटं दक्षिणपाणिना
संपीडनं वादयेच्चेत्तदा यमलहस्तकः ८८०
कुंद कुंद झेंद्र झेंद्र झेंहें झेंहें इति यमलहस्तः ८
उत्तुङ्गीकरणं वाद्ये स्कन्धस्य स्फुरणं तथा
अङ्गुष्ठतर्जनीघातः पाटं कुर्वन्ति रेचितम् ८८१
देंदें थां थॐ देंदें नखझें३
नहनझें इति रेचितः ९
भ्रमरो हस्तपाटः स्यात्समस्ताङ्गुलिताडनात् ८८२
खेखेणं खुखुणं खु३
णं झेंद्र२
णह करें झें इति भ्रमरः १०
अङ्गुष्ठतर्जनीघाताद्वलितार्धार्धहस्तकः
विद्युद्विलासो भणितो विद्युद्विलसितोऽथवा ८८३
तणे३
तिर झॐझॐ द्रि३
त्रां इति विद्युद्विलासः ११
तर्जनीमध्यमानामा विरलाः प्रहरन्ति चेत्
श्रीश्रीकरणनाथेन तदा प्रोक्ताऽर्धकर्तरी ८८४
दोखुंखुं३
ग्रेह घेट३
झेंहें धिगिगि थॐटें इत्यर्धकर्तरी १२
हस्तौ न कुण्डलीलग्नौ यत्रालग्नं तमूचिरे
खुंखुं२
नखें झेहेगि२
थॐटें इत्यलग्नः १३
स्याद्रेफः स्कन्धसञ्चेन समस्ताङ्गुलिधाततः ८८५
हनथॐ झेंझें द्रं२
झेंद्र झेंहेंद्र इति रेफः १४
समपाणिरविश्रान्तविरलाङ्गुलिघाततः
ननगि२
देगि थॐ गिनह२
झें इति समपाणिः १५
परिवृत्तो हस्तपाटः स्यात्पुटद्वंद्वताडनात् ८८८६
झें थॐ४
गिणना३
इति परिवृत्तः १६
इति षोडश प्रायिकहौडुक्कहस्तपाटाः ।
तलप्रहारहेतुः स्याद्वामस्कन्धप्रचालनम्
मध्येवामपुटं वामपाणिना च निपीडनम् ८८७
दें थॐ द्रें धिकिट किट झेंधितिरि२
त्रा इति तलप्रहारः १
तलाङ्गुष्ठप्रहारेण प्रहरोऽभिहितो बुधैः
झेदां थॐ गिदिगिद२
किट धॐ धॐ इति प्रहरः २
ऊर्ध्वाग्रे पटहादौ तु तर्जन्यङ्गुष्ठधारिते
वादनेन समुद्भूतमपाटं वलितं विदुः ८८८
खुंखुदरि२
दां थॐगि थॐगि इति वलितः ३
अङ्गुष्ठानामिकाभ्यस्तवलनाद्दक्षिणे पुटे
उच्छ्वासाद्वामपाणेश्च जायते गुरुगुञ्जितः ८८९
थुकर४
थॐरगिडिदा२
धिकि थॐटें इति गुरुगुञ्जितः ४
कम्पनं वामपादस्य नितम्बचलनं तथा
उच्छ्वासनं करतलस्यार्धसञ्चप्रपञ्चकम् ८९०
खें खें दरि२
खें खेंटः२
इत्यर्धसञ्चः ५
त्रिकस्य चलनाद्वामागुष्ठस्य परिघट्टनात्स्कन्धसञ्चाच्च संजातं त्रिसञ्चं परिचक्षते ८९१
खेंद खें खें दखेंद इति त्रिसञ्चः ६
हस्तवैषम्यसंजातो विषमः संमतः सताम् ॥
खेंदंधरि२
थॐ दिगिधरिखें४
खरकट२
इति विषमः ७
अपाटोऽभ्यस्तसंज्ञस्तु भवेत्करविवर्तनात् ८९२
खणगिणखङ्गि२
तकिधिकित्त इत्यभ्यस्तः ८
इत्यष्टावपाटाख्या हस्तपाटाः ।
अर्धाङ्गुल्यग्रघातोत्थं सञ्चमाचक्षते यथा
थुकर२
गिणणं२
इति सञ्चः १
करसञ्चेन शुद्धेनाङ्गुष्ठधातेन च क्रमात्
उत्पन्नोऽलगपाटः स्यान्नाम्ना विच्छुरितो यथा ८९३
झेंद्र२
झेंगिरि गिडिदा नगिरि गिडनम् इति विच्छुरितः २
इत्यलगपाटद्वयम्
तलप्रहारो वलितभेदितो भ्रमरो यथा
दं थं द्रें झेंद्र ४
खुंखुंधरि दथॐगिं इति भ्रमरः १
संकरात्करपाटानां कुञ्चितः कथितो यथा ८९४
खुंखुंधरि२
धरिगिगिड२
दथें२
खुंखुं दथें२
गिरिगिडिद२
दत्थॐगि थॐगि२
इति कुञ्चितः २
इति चित्रपाटद्वयम्
पटहस्य हुडुक्कायाः पञ्च सञ्चान्ब्रुवेऽधुना
स्कन्दकूर्परयोस्तदुदङ्गुष्ठमणिबन्धयोः ८९५
वामस्य चरणस्यापि कम्पः सञ्चोऽभिधीयते
श्रेष्ठः पाटहिकः सञ्चादङ्गुष्ठमणिबन्धयोः ८९६
स्कन्धकूर्परसञ्चात्तु नीचः पटहवादकः
वरो हौडुक्किकोऽङ्गुष्ठकूर्परस्कन्धसञ्चतः ८९७
सञ्चाभ्यां मणिबन्धोत्थकौर्पराभ्यां तु मध्यमः
असौ वामाङ्घ्रिसञ्चेन वादनादधमो भवेत् ८९८
इति पञ्चसञ्चलक्षणम्
पाटविन्यासभेदाः स्युर्वाद्यानि पटहादिषु ८९९
वोल्लावणी च चल्लावण्युडुबश्च कुचुम्बिणी
चारुश्रवणिकाऽलग्नपरिश्रवणिका ततः ९००
समप्रहारः कुडुपवारणा करवारणा
दण्डहस्तो घनरवस्तानीति द्वादशावदन् ९०१
वल्लिश्च वल्लिपाटः स्याद्घत्ताभेदौ झडप्पणी
अनुश्रवणिका हस्तो जोडणी त्रिगुणा ततः ९०२
पञ्चहस्तः पञ्चपाणिर्वाद्यं स्यात्पञ्चकर्तरी
ततश्चन्द्रकला प्राहुर्वाद्यानीति त्रयोदश ९०३
प्रायेणैतानि दृश्यन्ते हुडुक्कावाद्यगोचरे
वाद्यानामुभयेषां स्यात्पञ्चविंशतिरित्यसौ ९०४
आदिमध्यावसानेषु देंकारबहुलं भवेत्
आद्यखण्डं द्वितीयं च तादृशं वाद्यते पृथक्
यत्र वोल्लावणी सोक्ता पटहे वाद्यवेदिभिः ९०५
अस्याः खण्डद्वयं वाद्यान्तरे स्याद्योजनान्वितम् ९०६
झेंकृतिर्देंकृतिस्थाने हुडुक्कायां भवेदिह
डक्कायां मर्दले चैव थॐ त्रिवल्ल्यां तु दॐ भवेत् ९०७
करटायां तु टेमेव प्रधानाक्षरयोजना
वाद्यान्तरेष्वपि प्राज्ञैः प्रोह्यतामनया दिशा ९०८
इति वोल्लावणी
मण्डले चाल्यते यत्र प्रोचुश्चल्लावणीममूम्
इति चल्लावणी
वामेन तलहस्तेन दक्षिणेन तु पाणिना
लुलितेन सकोणेन वादनादुडुवो भवेत् ९०९
इत्युडुवः
उद्दलीपिहिते वक्त्रे हस्तस्वस्तिकताडनात्
खुकारबहुलं वाद्यं कीर्तयन्ति कुचुम्बिणीम् ९१०
इति कुचुम्बिणी
वोल्लावण्येव पाणिभ्यां क्रमाद्वा युगपत्कृतैः
भूरिभिः संभृता पाटैश्चारुश्रवणिका भवेत्
शुद्धैश्चित्रैः क्रमात्पाटैः शुद्धा चित्रेति सा द्विधा ९११
इति चारुश्रवणिका
अलग्नः कुण्डलीस्पर्शं विना कोणप्रहारतः ९१२
इत्यलग्नः
कर्तरी समपाणिश्चावघटो यत्र तु क्रमात्
सोक्ता परिश्रवणिका श्रीयज्ञपुरसूरिणा ९१३
इति परिश्रवणिका
समप्रहारो युगपत्करद्वंद्वेन घाततः
इति सयप्रहारः
कुडुपोद्भवपाटाख्यं वाद्यं कुडुपवारणा
उच्यते वादनो दण्डः कोणः कुडुप इत्यपि ९१४
इति कुडुपवारणा
जाता हस्तजपाटैस्तु केवलैः करवारणा ९१५
इति करवारणा
अकैको यः करद्वंद्वान्मृदुदक्षिणपाणिकात्
जायते तादृशैः पाटैर्दण्डहस्तोऽभिधीयते ९१६
इति दण्डहस्तः
यः करेण कराभ्यां वा कृतैः पाटैर्निरन्तरैः
निरन्तरघनध्वानः स स्याद्घनरवाभिधः ९१७
इति घनरवः
स्कन्धेन मणिबन्धेन कुडुपेन च चालनात्
सोल्लासाज्जायते वल्लिस्त्रिविधा पटहादिषु ९१८
इति वल्लिः
अर्धं वाऽर्धद्वयं वल्ल्यां स्वैः स्वैः पाटैरयोजनम्
कृतसंयोजनं वा चेद्वल्लिपाटस्तदा भवेत् ९१९
इति वल्लिपाटः
निबद्धं वादयेदर्धं झेंकाराद्यं पुरातनम्
अनिबद्धं स्वबुद्ध्याऽर्धं कराभ्यां वादयेदथ ९२०
वाद्येनाऽऽद्यं निबद्धं चेत्पुनर्धत्ता तदोच्यते
इति धत्ता
योनेनैकेन निष्पन्नस्तदुपाङ्गभवोऽपरः ९२१
पाटोऽन्योन्याङ्गयोगस्तैः संमिश्रैः पादपूरणैः
नानावाद्योद्भवैः पाटैर्भेदस्त्रेधा लयत्रयात् ९२२
इति भेदः
यस्यामुपक्रमे मध्येऽन्येऽथ वाद्यैरनेकधा
सर्ववाद्यानि वाद्यन्ते जगदुस्तां झडप्पणीम् ९२३
इति झडप्पणी
पाटः पाटाक्षरं यद्वा श्रूयते चेत्पुनः पुनः
अनुश्रवणिकां प्राहं शंकरानुचरस्तदा ९२४
इत्यनुश्रवणिका
द्वे चत्वारि भवन्त्यष्टौ यद्वा खण्डानि षोडश
देंकारादीनि यत्रासौ हस्तः स तु चतुर्विधः ९२५
चतुरस्रत्र्यस्रमिश्रखण्डतालप्रयोगतः
इति हस्तः
तदर्धार्धादिभेदेन क्रमेण व्युत्क्रमेण वा
अखण्डतालाः पाटाश्चेद्युज्यन्ते जोडणी तदा ९२६
इति जोडणी
खण्डानि त्रीणि यत्र स्युरेकैकं त्रिगुणं तथा
वाद्यते यत्र सा प्रोक्ता त्रिगुणा त्रिविधा च सा ९२७
आदिमध्यान्तखण्डाणां त्रैगुण्यात्सा पुनर्द्विआ!
क्रमव्युत्क्रमतोऽथास्यास्तत्त्रैगुण्यमुदाहरेत् ९२८
प्रयुज्य त्रीणि खण्डानि प्रयुञ्जीताऽऽदिमद्वयम्
ततश्चाऽऽद्यमिति प्रोक्तं खण्डे त्रैगुण्यमादिमे ९२९
इत्यादित्रिगुणा मध्ये त्रिगुणा तु द्विधा भवेत्
त्रैगुण्यान्मध्यखण्डस्य द्विःप्रकारात्तदुच्यते ९३०
खण्डत्रयं ततः खण्डद्वयमाद्यं प्रयुज्यते
ततो मध्यममित्येवं यद्वा खण्डद्वयात्परम् ९३१
अन्त्यद्वयं वादयित्वा प्रयोज्यं मध्यमं दलम्
अथान्तत्रिगुणायां प्राक्खण्डत्रितयवादनम् ९३२
ततोऽन्तिमद्वयं खण्डमन्तिमं वादयेत्तथा
एवमष्टविधामाह त्रिगुणां भववल्लभः ९३३
अथवा चतुरस्रादौ क्वापि ताले दलत्रयम्
प्रयुज्यैकस्य खण्डस्य मानेनाथ दलद्वयम् ९३४
कुर्याद्दलत्रयं तावद्यत्र सा त्रिगुणा भवेत्
चतुरस्रत्र्यस्रमिश्रयुक्तैर्वैषा क्रमाद्दलैः ९३५
अन्ये त्वेककले ताले द्विकलेऽथ चतुष्कले
क्रमाद्विरचितैः खण्डैस्त्रिगुणामभणन्बुधाः ९३६
एकं चच्चत्पुटे खण्डद्वयं चाचपुटे ततः
मिश्रे खण्डत्रयं यत्र त्रिगुणां तां जगुः परे ९३७
पदैश्चतुर्भिरस्यां स्यात्खण्डमेकं पदं पुनः
मितं कलाभिरष्टाभिरित्युक्तं सूरिशार्ङ्गिणा ९३८
इति त्रिगुणा
पञ्चहस्तो हस्तपाटैर्हस्तशब्दान्विताभिधैः
इति पञ्चहस्तः
पञ्चपाणिस्तु पाटैः स्यात्पाणिशब्दयुताभिधैः ९३९
इति पञ्चपाणिः
कर्तरीपदवत्संज्ञैः पाटैः स्यात्पञ्चकर्तरी ९४०
इति पञ्चकर्तरी
वर्धन्ते च ह्रसन्ते चेन्मात्राश्चन्द्रकला इव
तालश्चन्द्रकलाख्यश्च तदा चन्द्रकला भवेत् ९४१
द्वात्रिंशन्मात्रिकामन्ये प्राहुश्चन्द्रकलामिमाम्
द्विमात्राः षोडशकला वृद्धिह्रासयुजो विदुः
तादृक्चतुःषष्टिकलां तामाहुर्दक्षिणे पथि ९४२
इति चन्द्रकला
उद्ग्राहादिनिबद्धाः स्युरत्र गीतप्रबन्धवत्
वाद्यप्रबन्धास्तद्भेदलक्ष्माण्यभिदधेऽधुना ९४३
यतिरोता च गजरो रिगोणी कवितं पदम्
मेलापकश्चोपशमोद्ग्राहप्रकरणान्यथ ९४४
अवत्सकश्छण्डणश्च तुडुका मलपं ततः
मलपाङ्गं च मलपपाटश्छेदोऽथ रूपकम् ९४५
अन्तरोऽन्तरपाटश्च खोजः खण्डयतिस्ततः
खण्डच्छेदोऽप्यवयतिः खण्डपाटश्च खण्डकः ९४६
खण्डहुल्लः समः पाटो ध्रुवकोऽङ्गाङ्गरूपके
तालो वितालः खलकः समुदायश्च जोडणी ९४७
उदवस्तलपाटश्चोट्टवणी तुण्डकस्ततः
अङ्गपाटश्च पैसारस्त्रिचत्वारिंशदित्यमी ९४८
उक्ताः श्रीकरणाग्रण्या प्रबन्धा वाद्यसंश्रयाः
शीतोदकास्तथा स्नानगर्वोऽन्यो गर्वनिर्णयः ९४९
उत्प्रेक्षामात्रजा लक्ष्महीनास्तेऽस्मदुपेक्षिताः
प्रायो वाद्यप्रबन्धानां देंकारोऽन्ते निधीयते ९५०
काभ्यांचित्कूटवर्णाभ्यां रचितोऽत्यन्तकोमलः
एकरूपाक्षरस्तालच्छन्दोभिव्यञ्जनोज्ज्वलः ९५१
यो वाद्यते वाद्यखण्डो विरामैर्बहुभिर्मुहुः
यतिर्जक्का च सा तज्ज्ञैर्वाद्या मण्ठादिसालगे ९५२
आदौ वाद्यप्रबन्धस्य कस्याप्यङ्गतया यदा
तद्विदो वादयन्त्येतां वदन्त्युटवणं तदा ९५३
गड्दगथॐ गक्कयॐटें गड्दगथॐ गक्कथॐटें गड्दगथॐ गक्कथॐटें ।
पाटानां रचनां केचिदत्र नेच्छन्ति सूरयः ९५४
इति यतिः
द्विरुद्ग्राहस्ततः खण्डः यस्यां द्विर्भूरिदेंकृति
तत्किंचिदधिकं वारे द्वितीयेऽथ तृतीयकम् ९५५
कियद्दीर्धं शुद्धकूटखण्डैः पाटैर्विमिश्रितैः
व्यस्तैः समस्तै रचितं ततो देंकृतिमत्पुनः ९५६
सकृत्तच्च प्रयोक्तव्यमथ वर्णसरात्मकम्
दीर्घं खण्डं ततोऽल्पं च प्राच्यं शुद्धादिनिर्मितम्
ओता सोक्ता छण्डणान्ता कैश्चिद्देंकृतिमुक्तिका ९५७
एषैककलयुग्मे स्यान्निःसारौ छण्डणो भवेत्
उद्धतो ध्वनिरत्र स्यात्प्रायो मानं विलम्बितम् ९५८
दीप्तं नृत्तं च तामाहुः केचित्केदार इत्यपि
इमामावहनीं प्राहुरेकेऽन्ये त्वन्यथा जगुः ९५९
पाटैर्बहुलदेंकारैस्तालैश्च निखिलैः कृता
बहुधा स्थापना यस्यामाहुराहवनीं बुधाः ९६०
आदौ देंकारखण्डं चेद्देंकारादिस्तदोच्यते ९६१
यथा--तद्धिट कत्थॐकट नगनथॐगकुथॐगदा२
धिक्कट्ट२
तकट-
थॐगक धिधिक थोरघट२
इत्युद्ग्राहो द्विवारं कर्तव्यः । तड्दगदे
गिनदेंगक् तु थं हं देंगक् देंगनथ गनतदिगि नत्तत्तेक्कटदेंदेंगिन-
तक्कट खुखुघंघं देंगक् । इति देंकारखण्डं द्विः ।
द्वितीयवारे त्वधिकं कथ्यते यथा--गड्पक् देंगक् गडड्दक् देंगक् इति । तदेंगडदक्टें थॐकदथॐगक् तटे कटदकट् दरे हॐकथोरे-
हेटैतक्कें धिकथॐटैं थॐ टैं थॐ टैं इति तृतीयखण्डे शुद्धादिपाटरचितम् ।
ततः पुनः प्राचीनदेंकारखण्डं सकृत् । ततः--गड्दक् दग्निन-
धिकाधिक तकदेंगि कथन हकदक दडक् दरगड धिरिगिड
धरगड्दक् । दरगरदग धिरगडदग२
तकधिंगथॐगटे धिकथॐ-
गटै थिक थोडिं खुं खुततक् थोरगड२
तक् थोरगडतक् थोतक्
थोतक् थोरगड थोरगड तक् धिकथॐगटें । इति वर्णसरात्मकं
खण्डम् ।
ततः प्राचीनं शुद्धादिनिर्मितं स्वल्पम् । एतावत्पर्यन्तं चच्चत्पुटे ।
गड्दग् टेंद्रग् थोहटें हेते दहं थो२
तद धिधि थॐ थॐ रघटे टैं
थॐ तथॐ तकथॐ धिकथॐटें । इति निःसारौ छण्डणः । टेंकारस्थाने
टेंकार इत्यन्ये ।
कृत्वैकवारमुद्ग्राहं नातिदीर्घो न चाल्पकः
वादकोद्घोषगम्भीरध्वनिमुच्चतरं दधत् ९६२
त्रिः खण्डोभ्यस्यते कूटैर्बद्धो वर्णसरेण वा
मुहुर्विधायोपशमं छण्डणो यत्र रज्यते ९६३
गजरोऽसावुट्टवणं स्यादस्याऽऽदौ पुनः पुनः
एकताल्यामुट्टवणं तस्यां निःसारुकेऽथवा ९६४
भवेदुपशमोऽन्यत्र नास्य तालो नियम्यते
गजरावयवाः सर्वे वाद्यन्ते ते निरन्तराः ९६५
यथा--तथोह तथोह धियॐ२
हटे । थॐहदग थोहट । इत्युट्टवणमेकताल्यां पुनः पुनः । थॐटें दंदगेन थॐगटें गें धिकतक । इत्युद्ग्राहः । प्रतिग्राहेण वोच्यते । अयं किलैकताल्यां कृतः ।
गड्दगत देंगगनग्दिहिक् । कथॐगतकधिक थॐगटेंहें थोदगक् ।
गिड्दक्थॐगक्कथॐ३
देंथॐहटगथॐ३
दें इति त्रिरेकताल्यां
खण्डः । केवलोऽप्ययं खण्डो गजर इत्युच्यते । गड्दक्थॐगक्थॐ-
गक्कथोहरघट थरे । इत्येकताल्यां पुनः पुनरुपशमः । थोहटें । इति च्छण्डणः । एतत्सर्वं नैरन्तर्येण वाद्यते । इति गजरः ।
प्रत्येकं द्विः प्रयुक्तेनोपशमेनान्तयोगिना
युक्तं खण्डत्रयं शुद्धैः कूटैः खण्डैश्च निर्मितम्
पाटैर्व्यस्तैः समस्तैश्च बद्धं वर्णसरेण वा ९६६
यस्यां स्याद्वादकस्थूलमिलत्कोलाहलाकुलम्
छण्डनान्ता रिगोणी सा दधती ध्वनिमुत्तमम् ९६७
अस्यामुट्टवणं कार्यं वैकल्पिकमुपक्रमे
दीप्तनृत्ते भवेदेषोपशमा ललिता मता ९६८
ललितं यद्युट्टवणं तदा तल्ललिते भवेत्
अन्त्यखण्डात्सोपशमच्छण्डणाद्दीप्तनर्तनम् ९६९
यथा--तक्कें धिक्कें तकधिक तककि थॐकटगेन२
थॐगक्कथॐ३
इति प्रथमखण्डम् ।
टैथोटेंगें त्थॐधिथॐहधिहटें । इत्युपशमो द्विः । तर्क्कर्ग दड-
रद कुथिकुर्गदडधिक्क दक्कर्ग दडग्दक्थॐगत्तकधिक कधिकत धिक-
कधि टेंगेंनथॐग२
थॐगक्कथॐ इति द्वितीयखण्डम् ।
टैं थॐ हटगें थॐटें । इत्युपशमो द्विः । थॐगटं दरगड धिरगड धित्थाः थॐकट तकथॐ कटधिक्कक् । थॐधिक तद्धितक् । इति तृतीयखण्डम् ।
कत्थॐटक्क थॐहकटगे धिकटै थौ हटगें थॐ हटें इत्युपशमो द्विः । तथॐ गिड्दक् दिगनदिगन दिगनक थॐगतद्धितक् । थॐहटें । इति च्छण्डणः ।
इत्येकताल्यामुदाहरणम् । इति रिगोणी ।
नातिदीर्घं द्विराद्यं स्यात्खण्डं शुद्धादिनिर्मितम्
यद्वा वर्णसरेणाथ तादृक्खण्डं सकृद्भवेत् ९७०
इत्युद्ग्राहध्रुवौ कृत्वा स्वोद्ग्राहान्त्यदलेऽथवा
स्वोद्ग्राहे यत्र मुक्तिस्तत्कवितं कवयो विदुः ९७१
अस्य नामान्तरं प्राहुरन्येऽवच्छेद इत्यपि
भवेदिह द्रुतं मानं वर्णाः प्रायः स्युरुद्धताः
बाहुल्यान्नर्तनं दीप्तं निःशङ्केनेति कीर्तितम् ९७२
यथा--गड्दक्दगिनदंदं गिनथॐग धिक्कट नकाधितक देंहकदर गडदरिक्थ रिक्थ रिदरगड थरिक थॐ गंडके । धिक्थॐटें२

इत्युद्ग्राहो द्विः । झेंकक नखखिन२
तहें हके नखखिनथॐ । इति ध्रुवाख्यं खण्डम्
ततो देंहकडरगडेत्यादिनोद्ग्राहान्त्यखण्डेनोद्ग्राहेण वा सकलेन गड्गतित्यादिना त्यागः । निःसारुताले चेदमुदाहरणम् ।
इति कवितम्
उद्ग्राहोऽल्पो ध्रुवो नातिदीर्घः शुद्धादिनिर्मितः
स्याद्वर्णसरबद्धो वा छण्डणोऽन्ते यदा तदा
पदं वदन्ति वाद्यज्ञाः प्रायस्तद्दीप्तनर्तने ९७३
यथा--तद्देहें तद्दें ततक्तद्दै । इत्युद्ग्राहः । तकट धिकट धिधिकिट धिकिटर्गाड्दगधिकतक धिकथॐगटें । इति ध्रुवः ।
गत कटधिधि कटधिक्किडदगधिधिकट धिक्किरडाडगधिगक्कि-
ग्डाहगथॐटैं हंधिक्कथॐगटें । इति च्छण्डणः । इदमुदाहरणं वर्णताले ।
वादयित्वा यतिं मध्ये प्रबन्धस्य विमुच्यते
पाटेन यत्र तत्प्रोक्तमपरैः सूरिभिः पदम् ९७४
इति पदम्
एकताल्यां द्रुते माने नर्तनारम्भगोचरे
समं च करटाटीपिकाहलावादने सति ९७५
अभ्यस्तो वाद्यखण्डोऽल्ल्पः कूटेनैकेन निर्मितः
तद्धीमितिच्छण्डणान्तः स्मृतो मेलापको बुधैः ९७६
विद्यावन्तः स्वसमये प्राहुर्मेलापनीमिमाम्
वर्णानां टिरिकीत्येषामावृत्तिष्टीपिरुच्यते ९७७
यथा--थॐगटें गड्दग्नं थॐगटें । इति यावत्प्रबन्धपूर्ति पुनः पुनर्वादनीयम् । तद्धीमिति । इति च्छण्डणः । इति मेलापकः ।
खण्डं शुद्धादिभिः पाटैर्बद्धं वर्णसरेण वा
अल्पं कोमलनादं च सुकुमाराक्षरान्वितम्
अभ्यस्तं कोमले नृत्ते भवेदुपशमाभिधम् ९७८
यथाक्--टेंथॐक्कगे थोटेटे थॐहटगे थाथें थॐटे । इत्युपशमः ।
आदौ वाद्यप्रबन्धानां शुद्धकूटादिनिर्मितः
यः खण्डो वाद्यते प्राहुरुद्ग्राहं तं महत्तमाः ९७९
उद्ग्राहोपशमादीनां यद्यप्यन्याङ्गतोदिता
यावत्पूरणमावृत्तेस्तथाऽपि स्यात्प्रबन्धता ९८०
द्विरावृत्तिरनावृत्तिर्वा स्यादङ्गतया स्थितौ ९८१
तें टें है तट्टें तक्कतटे इति यावत्प्रबन्धपूरणमभ्यासादुद्ग्राह-
प्रबन्धः । अङ्गत्वं तु द्विः सकृद्वा । प्राक्प्रयोगस्त्वङ्गप्रबन्धयोस्तुल्यः । इत्युद्ग्राहः ।
उद्धतं ध्वनितं कूटबद्धं खण्डं मुहुर्मुहुः
प्रयुक्तं स्यात्प्रहरणं ध्रुवाद्याभोगगोचरे
नृत्ते प्रायः प्रयोक्तव्यमन्यत्रापीच्छया भवेत् ९८२
यथा--कथॐगक्क थॐगत्थॐगटथॐगक्क थोग थोगथोक् कथोगक् थॐकट योगक्थोकटं थोगक् । गड्दक्काधिक थॐगक् । टगें दंथॐह । दिङ्-निकुकुधित्थो हधिक्कं धिटैं इति पुनः पुनः प्रयोज्यम् । एकताल्यामिदमुदाहरणम् । इति प्रहरणम् ।
उद्ग्राहः स्यात्ततः खण्डं शुद्धकूटादिनिर्मितम् ९८३
तद्वर्णसरबद्धं वा प्रयुज्य द्विरिदं द्वयम्
ततः प्राक्खण्डसहितं तादृक्कूटमयं दलम् ९८४
वाद्यते छण्डणोऽन्ते च यत्र सोऽवत्सको भवेत्
प्रयोज्य नर्तने दीप्ते शार्ङ्गदेवेन कीर्तितः ९८५
यथा-- गड्दग्दंदं गड्दक्थिक्कट तकधिक्कट तक्धिक्तक् । इत्युद्ग्राहः ।
खडि खडि खखनख खिदक् झेंखखनख खिदक्तदक्क धिक्कक-
कगिणनग थॐगदिहिकिं थोगदिहिक्कितक धिकथॐगटे गडक् ।
तकधिक थॐगटें । इति द्वितीयं खण्डम् । एतच्च सहोद्ग्राहेण पुनः पुनर्वादयेत् । झक झखिखिन्नखनखखित ह्रें खखनखझें खन खरिब तुडि हिदिहि । कथॐगक् । इति तृतीयखण्डं पूर्वखण्डेन
सह वादयेत् । तकधिक तक्करे घटथथॐगक्क थॐगक्कटें । इति छण्डणः । इदमुदाहरणं रङ्गविद्याधरताले ।
इत्यवत्सकः ।
कूटादिबद्धः खण्डः स्याच्छण्डणो वाद्यमोक्षकः ९८६
इति च्छण्डणः
शुद्धकूटादिभिर्बद्धः खण्डो वर्नसरेण वा
अभ्यस्तः स्याद्द्रुते माने तुडुका दीप्तनर्तने
द्रुताद्रुततरं मानमत्र लक्ष्येषु दृश्यते ९८७
यथा--टें दंदगि तथॐगटेंधिकतः रघटे हे कथोः टेगेधिक तटथॐगः गण नगिः थॐगतक धिकथॐगटें । एकताल्यामिदमुदाहरणम् ।
उद्ग्राहध्रुवकाभोगे यत्रान्यतमखण्डकम् ९८८
वादनीयं म्परे प्राहुरन्ये तु तुडुकां जगुः
उद्ग्राहध्रुवकाभोगोद्ग्राहाणां वादनं क्रमात् ९८९
इति तुडुका
यत्र शुद्धादिभिर्बद्धः खण्डो वर्णसरेन वा
विशालः स्याद्द्रुतलयः पर्यन्ते तु विलम्बितः ९९०
दीप्तैर्वर्णैः क्वचित्क्वापि कोमलैश्चारुगुम्फितः
यत्रासौ मलपः प्रोक्तः प्रायिको दीप्तनर्तने ९९१
यथा--गड्दक् तद्धित्थॐ हथॐहरे घटैं गणनगतक धिकक थौं हटें हैं थोदगक् । तक्क तहधिक थोकथोहक थो३
हट्टै डिं खिखरखिखिखेरथटैं हैं थोहगक् । दिहं कटदहं कटगड्द गथरिकटं२
थरिकटतक३
ततक धिधिक थोऽथॐदटें । इदमुदाहरणं मुद्रितमण्ठताले ।
यत्रोद्ग्राहः सकृद्द्विर्वा ध्रुवकोऽथ सकृद्भवेत्
व्यापकाक्षरमिश्रैस्तद्धिथॐटेंदेंभिरक्षरैः
बद्धं निरन्तरयतिं प्राहुस्तं मलपं परे ९९२
इति मलपम्
सोदाहरणलक्ष्माणि वालबोधार्थमभ्यधाम्
लक्ष्ममात्रमथो वक्ष्ये विस्तरत्रस्तमानसः ९९३
मलपाङ्गं तु मलपेनाङ्गेन मलपेन च
इति मलपाङ्गम्
पाटैर्मलपपाटः स्याद्विषमैर्मलपोपमः ९९४
इति मलपपाटः
द्रुतैः करतलाघातैविंकृतैर्यत्र वाद्यते
वाद्यं विच्छिद्य विच्छिद्य च्छेदमिच्छन्ति तं बुधाः
ओतां कृत्वा द्विरुद्ग्राहः सकृद्वा व्यापकाक्षरैः
सपाटैर्विहितो यत्र प्रान्ते रचितदेंकृतिः
मध्ये लये छण्डणः स्याद्रूपकं तन्निरूपितम् ९९६
इति रूपकम्
निबद्धो वादितो गीतवाद्यसंधौ मतोऽन्तरः ९९७
इत्यन्तरः
अन्तरं वादयित्वा चेदनिबद्धस्य वादनम्
क्रियतेऽन्तरपाटः स्यात्तदा निःशङ्कसंमतः ९९८
इत्यन्तरपाटः
समुश्लिष्टघनश्लक्ष्णपाटवर्णविनिर्मितः
हस्तलाघवसंपन्नः खोजः संजल्पितो बुधैः ९९९
इति खोजः
कृत्वा खण्डं पाटबद्धं यतिवद्वादनं भवेत्
एवमावृत्तिकरणादाहुः खण्डयतिं बुधाः १०००
इति खण्डयतिः
खण्डच्छेदसमायोगात्खण्डच्छेदप्रबन्धयोः
छेदैर्व्यक्तैः समायुक्तं खण्डच्छेदं परे जगुः १००१
इति खण्डच्छेदः
यस्यां विरतिरन्ते च तालस्य व्यापकाक्षरैः
सपाटैर्बद्धखण्डा या साऽऽख्याताऽवयतिर्बुधैः १००२
इत्यवयतिः
पाटस्य खण्डनाद्वाद्य खण्डपाटोऽभिधीयते
इति खण्डपाटः
खण्डः स्यात्खण्डमध्येऽपि खण्डशो वादने सति १००३
इति खण्डकः
श्रोतोगताख्यया यत्या खण्डडुल्लोऽभिधीयते
इति खण्डहुल्लः
गीतनृत्तसमो माने प्रबन्धः प्रोच्यते समः १००४
इति समः
निष्पन्नः केवलैः पाटैः पाट इत्यभिधीयते
इति पाटः
ध्रुवको भूरिवाद्येषु स्यादावृत्तोऽन्तरेऽन्तरे १००५
इति ध्रुवकः
अङ्गमङ्गीकृतं सान्द्रैरपाटैर्व्यापकाक्षरैः
इत्यङ्गम्
द्विरुद्ग्राहो ध्रुवाभोग ध्रुवाख्यः क्रमशस्ततः
यत्राङ्गरूपकं प्राह तत्तेजोन्वयदीपकम् १००६
इत्यङ्गरूपकम्
तालश्चतुःषष्टिकलो युग्मे मार्गे च दक्षिणे
इति तालः
वितालस्त्वादिमध्यान्तविकृतस्ताल इष्यते १००७
इति वितालः
हस्तेन वितताङ्गुष्ठविरलाङ्गुलिना क्रमात्
पताकेन हतैर्जातैः पाटैः स्यात्खलकाभिधः १००८
इति खलकः
समुदायो निजैः पापैः समस्तातोद्यवादनात्
इति समुदायः
पाटानां पृथगुक्तानां मिश्रणाज्जोडणी मता १००९
इति जोडणी
उडवः सलयात्तालाद्द्वितालाच्च लयोज्झितात्
इत्युडवः
तलपाटस्तु मलपोन्मिश्रपाटप्रबन्धजः १०१०
इति तलपाटः
निजैर्या तद्धिथॐटेभिर्व्यापकैरक्षरैस्तथा १०११
पाटैर्वा रचिता किंचिद्विलम्बितलयाश्रया
देकारालंकृताद्यन्ता वदन्त्युट्टवणीममूम् १०१२
इत्युट्टवणी
वाद्यैकदेशं वर्गान्तमयं वाद्यादिमध्ययोः
वादयेल्लघुहस्तत्वाद्यं तमाख्याति तुण्डकम् १०१३
इति तुण्डकः
पाटैरेव यतिः सान्द्रैः प्राञ्जलैरङ्गपाटकः
इत्यङ्गपाटकः
खण्डः स्यात्पृथगातोद्यवाद्यैः पैसारसंज्ञकः १०१४
इति पैसारः
प्रदर्शनार्थमित्युक्ताः प्रबन्धाः कतिचिन्मया
अन्यानपि पथाऽनेन विदांकुर्वन्तु तद्विदः १०१५
पाटभेदाश्च वाद्यानि प्रबन्धा वाद्यसंश्रयाः
यथायोगं मर्दलादिसर्ववाद्येष्विमे मताः १०१६
इति वाद्यप्रबन्धलक्षणम्
निर्दोषबीजवृक्षोत्थः पिण्डेऽर्धाङ्गुलसंमितः
एकविंशत्यङ्गुलः स्याद्दैर्घ्ये वामे मुखे पुनः १०१७
चतुर्दशाङ्गुलानि स्युर्दक्षिणे तु त्रयोदश
मानं यस्य मनाङ्मध्यः पृथुरेकाङ्गुलाधिके १०१८
वक्त्राभ्यां चर्मणी वृत्ते घने ये प्रान्तयोस्तयोः
चत्वारिंशत्पृथग्रन्ध्राण्यङ्गुलान्तरवन्ति च १०१९
वध्रे तद्रन्ध्रविन्यस्ते सीवनप्रक्रियावति
प्रोतोर्ध्वाधःस्थिता दृष्टोदरपृष्ठा च विग्निका १०२०
क्रियते वेष्ट्यते मध्ये त्रिभिर्बन्धैर्दृढं तथा
कार्यो गोमूत्रिकाबन्धस्तत्र वध्रद्वयेन च १०२१
तथा यथा पिनद्धास्ये भवेतां चर्मणी दृढे
कुण्डल्योः प्रान्तयोर्वामकुण्डल्यां संनिवेश्य च १०२२
कच्छां क्षिप्त्वा दक्षिणस्यां कृष्ट्वा द्विगुणतां नयेत्
साञ्चलद्वितयां पट्टमयीमष्टाङ्गुलायताम् १०२३
यद्वाऽन्यवस्त्रजां शोभानुगां न्यस्येत्कटीतटे
निगदन्ति मृदङ्गं तं मर्दलं मुरजं तथा १०२४
प्रोक्तं मृदङ्गशब्देन मुनिना पुष्करत्रयम्
अत्यन्ताव्यवहार्यत्वान्निःशङ्को न तनोति तत् १०२५
भूरिमिश्रेण भक्तेन चिक्कणेनातिमर्दनात्
पिण्डिकां पूरिकाकारां वामवक्त्रे निवेशयेत् १०२६
बोहणाख्येन तेनाऽऽस्यं लिम्पेदल्पेन दक्षिणम्
एवं जलधरध्वानगम्भीरो भवति ध्वनिः १०२७
निःशङ्केनात्र च प्रोक्ता देवता नन्दिकेश्वरः
रक्तचन्दनजो यद्वा खादिरोऽन्यैरयं मतः १०२८
त्रिंशदङ्गुलदैर्घ्यश्च पिण्डे त्वङ्गुलसंमितः
एतस्य वामं वदनं द्वादशाङ्गुलसंमितम् १०२९
दक्षिणं तु मितं सार्धैरेकादशभिरङ्गुलैः
पाटाश्च तद्धिथोटेंहेंनंदेमित्यत्र कीर्तिताः १०३०
तटहा दधलाश्चेति पाटानन्यत्र मन्वते
इह स्युः पटहोक्ताश्च वर्णाः षोडश कादयः १०३१
अधिकान्भझमान्वर्णान्वर्णयन्त्यपरे त्विह
तेषु तद्ध्यादयः सप्त केवलाः शुद्धसंज्ञकाः १०३२
सस्वरैरस्वरैर्युक्तैरयुक्तैर्वा कखादिभिः
व्यापकाख्यैः षोडशभिर्मिश्रास्ते कूटसंज्ञकाः
कूटमिश्रास्तु ते शुद्धा बुधैः खण्डाभिधा मताः १०३३
छन्दसा भूरिहृद्येन स्फूर्तिमूर्तिरुदारधीः १०३४
कविः कवयति श्लोकं श्रवणोत्सवदैः पदैः
यथा तथा क्वचित्ताले वर्णाल्लँ यमनोहरान् १०३५
विधाय वादको वाद्यप्रबन्धान्बद्धुमर्हति
एमं कवितकाराख्यं वादकं ब्रुवते मनाः १०३६
इति मर्दललक्षणम्
चतुर्विधो मार्दलिको वादिको मुखरी तथा
ततः प्रतिमुखर्याख्यस्तुर्यो गीतानुगो मतः १०३७
वादिको वादकर्ता स्याद्वादः पक्षपरिग्रहः
स्वपक्षसाधनं तद्वत्परपक्षस्य दूषणम् १०३८
येऽन्ये जल्पवितण्डाद्या वादभेदाः सलक्षणाः
न तान्ब्रवीम्यहं ग्रन्थप्रपञ्चभयभङ्गुरः
वादे च वादनं कार्यं प्रथमं त्राटनाभिधम् १०३९
मर्दले तालरहिते वोहणेन विना ध्वनिः
यो देहडडगित्यादि कृतोऽसौ त्राटनं मतम् १०४०
वोडवाडं घनरवं हस्तावत्यर्थमाचरेत्
मुक्तशब्दात्मकं रेहदडादप्रमुखं ततः
उधार स्थापनं पश्चाद्वादयेत्तदथोच्यते १०४१
मुखयोर्बोहणं दत्त्वा वादयेद्वाममाननम्
गड्दग्नेमिति वक्त्रं तु गड्दग्नामिति दक्षिणम् १०४२
ततो मध्यलये ताले द्वितीये मुखयोर्द्वयोः
कुर्यान्नादसमायोग्मथोच्चोच्चं दलत्रयम् १०४३
पृथग्विलम्बिते मध्ये द्रुते चैव लये क्रमात्
तथैकद्वित्रिथॐकाररचितं ग्रहमोक्षभाक् १०४४
आलप्तिवच्च त्रिस्थानशुद्धं हस्तद्वयेन यत्
मधुरं वाद्यते तज्ज्ञैःस्थापनं तदुदाहृतम् १०४५
ततस्थॐकारबहुलग्रहमोक्षोऽन्तरो भवेत्
चतुरस्रत्र्यस्रमिश्रखण्डेष्वेकेन केनचित् १०४६
तालेन टाकणीवादौ कर्तव्यौ तदनन्तरम्
तयोरेकसरो जोडा चेति भेदद्वयं मतम् १०४७
कृत्वा श्रमस्य वहनीं यस्तालेऽष्टकलादिके
वाद्यखण्डस्तालकलाप्रस्तारानुगतः कृतः
अखण्डितष्टाकिणी सैकसरत्वं सकृत्कृतेः १०४८
एकद्वित्रिचतुर्वारं शुद्धाभ्यसनतो भवेत्
इह श्रमवहन्याख्यः प्रकारो वादने यथा १०४९
तद्धितोटें ततधिधि थॐ थॐ टें टें तततधि धिधि थॐ थॐ थॐ टें टें टें । तततत धि धि धि धि थो थो थो थो टे टे टे टे । इति श्रमवहनीं कृत्वैकसरटाकिणी यथा । तकधिकट । तकधिकट । धिकटतक तकधिकट तकतकधिकट धिकटकतधिकट ।
इत्यष्टौ वाद्यखण्डस्य खण्डा अष्टासु कलासु । सैव द्विवारं जोडा ।
टाकणीवत्समस्तं प्राक्खण्डं कृत्वा ततः परम् १०५०
खण्डं खण्डं द्विर्द्विवारं वाद्यते वाद्यसंज्ञके
तत्रैकसरजोडात्वं टाकिणीवदुदाहृतम् १०५१
यथा--दंदं । टिरि । टिट्टिकड्द । कडदगझे२
। थरिकथरि । टगण-
गणधरि । गणगणधरि । दथरि गडदग । दथरिगडदग । दथरिगडदग । दथरि दथरितर्गड्दक्थरिक्कटतत्तक् । इति षोडशकले ताले षोडशकलासु षोडशखण्डकं वाद्यं कृत्वा तान्षोडश खण्डान्द्विर्द्विः कुर्यात्
इत्येकसरवादः
तकारेण च सर्वेषामेतेषां त्याग इष्यते
कुर्यात्ततो दिगिदिगिं ताटवादादिकं तथा १०५२
वर्णा दिगिदिगीत्येते प्रोक्ता दिगिदिगे बुधैः
यः खण्डोऽतिद्रुते माने ताटवादः स कथ्यते १०५३
अन्येऽपि वादविधयोऽभ्यूह्यन्तामध्वनाऽमुना
इति वादप्रकाराणां सम्यक्त्वे विजयो भवेत् १०५४
इति वादकः
कर्ता वाद्यप्रबन्धानां नृत्तशिक्षाविचक्षणः
गीतवादननिष्णातः सुरेखोऽन्तर्मुखश्च यः १०५५
अर्धाङ्गमिव नर्तक्या वादयेद्रङ्गभूमिगः
वादकैः प्रेक्षितमुखो वादनार्थं मुखर्यसौ १०५६
इति मुखरी
किंचिद्धीनो मुखरिणः प्रोक्तः प्रतिमुखर्यसौ १०५७
इति प्रतिमुखरी
शुद्धसालगगीतानां वर्णान्कठिनकोमलान्
समांश्च विषमान्नादं मन्द्रं मध्यं च तारकम् १०५८
प्रौढं वा मधुरं सम्यगनुगच्छति वादनात्
पूर्वभागे तथाऽऽभोगे जक्काप्रहरणे क्रमात् १०५९
कुर्याद्वैकल्पिके यद्वा समग्रं गीतमाश्रिते
समुत्थिते वाऽऽनुलोम्याद्वैलोम्याद्वोभयेन वा १०६०
निःसारो सालगे गीते यस्तं गीतानुगं विदुः
क्रमात्तकारथॐकारौ स कुर्याद्ग्रहमोक्षयोः १०६१
इति गीतानुगः
इति चतुर्विधमार्दलिकलक्षणम्
वर्णव्यक्तिः सुरेखत्वमनुयायप्रवीणता
मधुरोद्धतवाद्येषु विज्ञता हस्तलाघवम् १०६२
अवधानं श्रमजयो मुखवाद्येषु पाटवम्
रक्तिरावर्जिकस्यानुवृत्तिर्बहुलता तथा १०६३
यतिताललयज्ञत्वं गीतानुगमनं तथा
गुणा मार्दलिकस्यैते दोषः स्यात्तद्विपर्ययः १०६४
इति मार्दलिकगुणदोषाः
तद्वृन्दं द्वित्रिचतुरैस्तज्ज्ञैर्मर्दलधारिभिः
प्राधान्येन विधातव्यं तैर्मुखर्यनुवर्तनम् १०६५
या हस्तसंमिता दैर्घ्येऽष्टाविंशत्यङ्गुला पुनः
परिधावङ्गुलमिता पिण्डे सप्ताङ्गुले मुखे १०६६
मण्डल्यौ वक्त्रयोर्वल्लीमध्यावेकादशाङ्गुले
सपादाङ्गुलकस्थौल्ये उद्दलीकृतबन्धने १०६७
वदनाभ्यां सह स्यातां कुर्याद्रन्ध्राणि षट्तयोः
बद्धरज्जुनिवेशार्थं पुरोभागेऽर्गलात्रयम् १०६८
कलशाकलितद्व्यन्तं पश्चाद्भागेऽर्गलाद्वयम्
बन्धसूत्रान्तरे मध्ये भवेदुदरपट्टिका १०६९
अङ्गुलत्रयविस्तारा श्लक्ष्णा हृदयहारिणी
द्वात्रिंशत्तन्तुसंजातरज्ज्वा पक्षद्वयं दृढम् १०७०
बद्ध्वा तत्रोत्कक्षकौ च विधाय स्कन्धपट्टिकाम्
तयोर्द्विगुणतां न्यस्येदङ्गुलार्धार्धसंमितम् १०७१
छिद्रं यस्याश्चतुर्थांशे नादोद्बोधविधायकम्
हुडुक्का सा बुधैः प्रोक्ता तस्याश्च स्कन्धपट्टिकाम् १०७२
न्यस्य स्कन्धे दक्ष्णेन पाणिना वादनं भवेत्
उदरे पट्टिका योक्ता तस्यां वामं निवेशयेत् १०७३
देवता मातरः सप्त शार्ङ्गदेवेन कीर्तिताः
कुर्वीत पाटहान्वर्णानिह देंकारवर्जितान् १०७४
अत्रान्यैरधिकावुक्तौ मझेंकारौ मनीषिभिः
लक्षज्ञास्त्वावजं प्राहुरिमां स्कन्धावजं तथा १०७५
इति हुडुक्कालक्षणम्
बीजवृक्षोद्भवा पिण्डेऽङ्गुलतुर्यांशसंमिता
एकविंशत्यङ्गुला स्याद्दैर्घ्ये हस्तमिताऽथवा १०७६
परिधौ दधते मानं या चत्वारिंशदङ्गुलम्
चतुर्दशाङ्गुले वक्त्रे केषांचिद्द्वादशाङ्गुले १०७७
मण्डल्यु लोहजे सूत्रवेष्टिते चर्मबन्धने
परिधौ संमिते ते च द्वाचत्वारिंशताऽङ्गुलैः १०७८
तिस्रस्तिस्रस्तथा तन्त्रीर्मुखयोर्वलयद्वयम्
दधते केवलं व्याप्तं चतुर्दशभिरन्वितम् १०७९
रन्ध्रैस्तेष्वेकान्तरेषु विग्निकास्तावतीः क्षिपेत्
द्वाभ्यां द्वाभ्यां विग्निकाभ्यां बन्धो मत्स्याकृतिर्भवेत् १०८०
यस्यास्तां करटामाहुः प्रान्तयोः प्रान्तबद्धया
कच्छया स्कन्धदेशे तां कट्यां वा वादने वहेत् १०८१
चर्चिका देवता चास्यां पाटास्तु करटेत्यमी १०८२
वादनं कुडुपाभ्यां तु शार्ङ्गदेवेन कीर्तितम्
तिरिकितिरिकिरीति प्रायः पाटद्वयं मतम् १०८३
इति करटालक्षणम्
धनः श्लक्ष्णः सुपक्वश्च स्तोकवक्रो महोदरः
पाणिभ्यां वाद्यते तज्ज्ञैश्चर्मनद्धाननो घटः
कथिताः पाटवर्णा ये मर्दले ते घटे मताः १०८४
हुडुक्कयैव घडसो व्याख्यातः किंतु मण्डली १०८५
दक्षिणस्योद्दलीबद्धा वामा रज्ज्वा नियन्त्रिता
औदर्यां पट्टिकायां च वामोऽत्र न निवेश्यते १०८६
गॐकारबहुलं चामुं वादयेदिति तद्विदः
अङ्गुष्ठमध्यमाङ्गुल्यौ मदनाक्ताग्रभागतः १०८७
दक्षिणेन करेणाऽऽस्ये घर्षणाद्गॐकृतिर्भवेत्
घातोऽङ्गुलीभिर्वामस्य वामाङ्गुष्ठेन पीडनम् १०८८
इति घडसलक्षणम्
स्याद्धस्तदैर्घ्यः परिधौ सनवत्रिंशदङ्गुलः
द्वादशाङ्गुलके वक्त्रे वल्लीवलयसंयुते १०८९
यो धत्ते सप्त सप्तापि रन्ध्राणि वलयद्वये
तथा कवलयोस्ताभ्यां तुण्डे वलयसंयुते १०९०
पिधाय गाढं बध्येते रन्ध्रविन्यस्तदोरकैः
यस्यासौ ढवसः प्रोक्तः शार्ङ्गदेवेन सूरिणा १०९१
स्कन्धे निक्षिप्य कच्छान्तं वामहस्तेन वादयेत्
वामास्ये दक्षिणस्थेन कुडुपेन तु दक्षिणे
ढेंकारपाटवसते रूढोऽयं ढवसो जने १०९२
इति ढवसलक्षणम्
व्याख्याता ढवसेनैव ढक्का किंतु मुखद्वयम्
त्रयोदशाङ्गुलं तस्या धृत्वा तां वामपाणिना १०९३
तज्ज्ञो दक्षिणहस्तस्थकोणघातेन वादयेत्
ढेंकारः पाटवर्णाः स्युर्निशङ्केनेति कीर्तितम् १०९४
इति ढक्कालक्षणम्
हुडुक्कैवार्गलाहीना कुडुक्का किंतु वादनम्
अस्याः करेण कोणेन क्षेत्रपालस्तु देवता १०९५
इति कुडुक्कालक्षणम्
बीजदारुमयी सप्ताङ्गुलगर्भमुखद्वया
एकविंशत्यङ्गुला च यस्या दैर्घ्ये समाकृतिः १०९६
संहताग्नित्रयाकारत्र्यङ्गुलस्थूलतायुते
वृत्ते नवाङ्गुले गर्भे वलये वल्लिनिर्मिते १०९७
सप्तसप्तच्छिद्रयुते यस्याः स्यातां मुखद्वये
कवलाभ्यां पिनह्येते मुखे च वलयान्विते १०९८
सरन्ध्रे कवले रन्ध्रन्यस्ततन्त्रीसुयन्त्रिते
कुडुवा सा हुडुक्कोक्तवर्णात्क्रेंकारभूयसी १०९९
कोणाभ्यां मदनाक्ताभ्यां वाद्यते त्यक्तझेंकृतिः ११००
इति कुडुवालक्षणम्
अष्टादशाङ्गुला दैर्घ्ये दृढा रुञ्जा समाकृतिः
एकादशाङ्गुले तस्या वदने कुण्डलीयुते ११०१
तद्वद्ये चर्मणा वामवक्त्रान्तःकुण्डलीद्वयम्
तत्रैका वक्त्रमात्रा स्यादपरा चतुरङ्गुला ११०२
कुण्डल्योरन्तराले स्याज्जालिका स्नायुनिर्मिता
सैकच्छिद्रं वामवक्त्रं सूत्रतत्त्वञ्चनीयुतम् ११०३
पूर्ववद्विग्निकाः कार्या वक्त्रयोः सप्त सप्त च
पादोनहस्तमात्रां च नागपाशवतीं दृढाम् ११०४
कच्छां स्कन्धे निवेश्यास्या वादनं वेदितं बुधैः
रुंकारजननाद्रुञ्जा सा भवेद्भृङ्गिदैवता ११०५
मतङ्गोक्तास्त्विमे वर्णाः करगा धटनाः खहौ
विग्निका वाद्यशास्त्रेऽस्मिन्कर्कराः परिकीर्तिताः ११०६
इति रुञ्जालक्षणम्
वितस्तिमात्रदैर्घ्यः स्यादष्टाङ्गुलमुखद्वयः
योगस्य मण्डलीयुक्ते मुखे बद्धे च चर्मणा ११०७
त्रिवलीवत्क्षाममध्यो निबद्धः सूत्रदोरकैः
मध्ये च गाढतां नीते रञ्चन्यौ वादनाय च ११०८
भवेतां प्रान्तसंलग्नसम्यङ्मदनगोलकैः
असौ डमरुको मध्ये धृत्वा हस्तद्वयेन च ११०९
डघवर्णो वादनीयः प्रोक्तो निःशङ्कसूरिणा
अन्यैः कखरटा वर्णाः प्रोक्ता डमरुकऽधिकाः १११०
इति डमरुकलक्षणम्
वितस्तिमात्रं दैर्घ्यं स्यान्मध्यः किंचित्कृशो भवेत्
मुखे त्वष्टाङ्गुलैः पिण्डोऽर्धाङ्गुलस्तन्त्रिकाद्वयम् ११११
मुखे मुखे शङ्कवश्च चत्वारस्ताम्रनिर्मिताः
तेषामधोऽधावूर्ध्वं द्वौ तन्त्रीबन्धनसिद्धये १११२
तन्त्र्योस्तृणशलाकां च निदध्याद् ध्वनिपुष्टये
अन्यल्लक्ष्म हुडुक्कावद्यस्याः पाटाक्षराण्यपि १११३
स्याद्दशाङ्गुलदैर्घ्येण कुडुपेन तु वादनम्
निःशङ्कशार्ङ्गदेवेन डक्का सा परिकीर्तिता १११४
अन्येऽस्या वादनं प्राहुः करेण कुडुपेन च
हस्तघातेन डंकारो वादने कुडुपेन तु १११५
घटस्ततो डगिश्चेति मुखान्पाटान्वदन्त्यमी
नगौ खकरटा वर्णा मुख्याः प्रोक्ताः परैरिह १११६
अस्यां च सूरयः प्राहुर्देवतां विन्ध्यवासिनीम्
अङ्गुलोना मध्यमा सा द्व्यङ्गुलोना कनीयसी १११७
इति डक्कालक्षणम्
डक्कैव मण्डिडक्का स्यात्किं त्वस्याः षोडशाङ्गुलम्
दैर्घ्यमष्टाङ्गुलौ गर्भौ स्यातां वदनयोर्द्वयोः १११८
षोडशाङ्गुलको मध्यपरिधिर्नात्र चार्गला
न च कच्छोत्कक्षकस्तु मध्ये स्यादञ्चनीद्वयम् १११९
उत्कक्षं चाञ्चनीद्वंद्वं वामाङ्गुष्ठाङ्गुलित्रयात्
धृत्वा संपीड्य तर्जन्या मण्डलीप्रान्तमाननम् ११२०
अस्या दक्षिणजानुस्थं हन्याद्दक्षिणपाणिना
उत्कक्षं मणिबन्धोर्ध्वं यद्वाऽन्यस्याञ्चनीद्वयम् ११२१
कनिष्ठानामिकाङ्गुष्ठैः संयुज्याऽऽपीड्य मण्डलीम्
तर्जन्या मध्यया वाऽथ हस्तेनान्येन वादयेत् ११२२
वदन्ति वादनं तस्याः करेण कुडुपेन वा
चर्यागाने च पूजायां शक्तेः सा विनियुज्यते ११२३
इति मण्डिडक्कालक्षणम्
कांस्याद्गोशृङ्गतो दन्त्रिदन्ताद्वा डद्दुली भवेत्
दैर्घ्ये पञ्चाङ्गुला वक्त्रे तस्याश्च चतुरङ्गुले ११२४
मेषपार्युद्दलीबद्धे स्वस्वचक्रसमन्विते
चक्रे च कांस्यजे ताम्रमये वा लोहजे पृथक् ११२५
पञ्चरन्ध्रे तथोद्दल्यौ रन्ध्रविन्यस्तदोरकैः
सौत्रैर्गाढं निबध्येते मध्ये सूत्रेण वेष्टितम् ११२६
नातिश्लथं नातिगाढं मध्यं सूत्रे त्वनामिकाम्
निधाय मध्यतर्जन्यौ विवृते चक्रसंयुते ११२७
कृत्वाऽङ्गुष्ठं त्वन्यचक्रे न्यस्याथ मदनाञ्चिताम्
विधायाञ्चनिकामेकां तां दुंदुमिति वादयेत् ११२८
तुंतुमित्यपरे प्राहुः पाटा मर्दलसंभवाः
यथासंभवमेतस्यां शार्ङ्गदेवेन कीर्तिताः ११२९
इति डक्कुलीलक्षणम्
षड्विंशत्यङ्गुला दैर्घ्ये परिधौ त्रिंशदङ्गुला
समकाया सेल्लुका स्याद्बीजकाष्ठेन निर्मिता ११३०
दशाङ्गुले मुखे तस्याः मरैस्त्वेकादशाङ्गुले
उक्ते न बन्धनोद्दल्यौ ताभ्यामेकाङ्गुलाधिके ११३१
वल्लीजं तर्जनीस्थौल्यं मुखयोर्वलयद्वयम्
सरन्ध्रषट्कं रन्ध्रस्थरज्जुभिर्गाढयन्त्रितम् ११३२
एकाङ्गुलाधिकं तच्च वक्त्राभ्यां वदनं पुनः
तन्त्रिकागर्भितं वामं वामहस्तेन वादयेत् ११३३
मुखं दक्षिणपाणिस्थकुडुपेन तु दक्षिणम्
मुखे वामे तु झेंकारो धिंकारो दक्षिणे मुखे ११३४
इति सेल्लुकालक्षणम्
पलैः स्यात्पञ्चविंशत्या दैर्घ्ये तु द्वादशाङ्गुला ११३५
अष्टादशाङ्गुलमिता परिधौ समविग्रहा
ससूत्रकटकं रन्ध्रद्वयं कण्ठे च बिभ्रती ११३६
चर्मणाऽऽनद्धवदना झल्लरी परिकीर्तिता
वामहस्तधृता सा च वाद्या दक्षिणपाणिना ११३७
इति झल्लरीलक्षणम्
स्यात्तदर्धपलो भाणः परिधौ द्वादशाङ्गुलः
अन्यत्तु झल्लरीलक्ष्म तस्य श्रीशार्ङ्गिणोदितम् ११३८
इति भाणलक्षणम्
सप्ताङ्गुलमुखद्वंद्वात्त्रिवली हस्तदैर्घ्यभाक्
मुष्टिग्राह्यश्च मध्योऽस्या वदने कवलावृते ११३९
कवले लोहमण्डल्यौ सप्तरन्ध्रे पृथक्पृथक्
रन्ध्रन्यस्तैर्गुणैर्बद्धो मध्ये गाढं च वेष्टनम् ११४०
सूत्ररज्ज्वा हस्तमात्रा कच्छा स्कन्धावलम्बिनी
वादनं करयुग्मेण शार्ङ्गदेवेन कीर्तितम् ११४१
तदांदॐदेति वर्णाः स्युस्त्रिपुरा चात्र देवता
एकादशाङ्गुलमुखी विंशत्यङ्गुलदैर्घ्यभाक् ११४२
मुखार्धमानमध्याऽसौ मध्ये चाञ्चनिकायुता
तदर्धवर्णसंयुक्ता त्रिकुल्या चोच्यते बुधैः ११४३
इति त्रिवलीलक्षणम्
आम्रद्रुमसमुद्भूतो महागात्रो महाध्वनिः
कांस्यभाजनसंभारगर्भो वलयवर्जितः ११४४
चर्मनद्धाननो बद्धो वध्रैर्गाढं समन्ततः
दृढवर्णेन कोणेन वाद्यः प्राणेन दुन्दुभिः ११४५
मेघनिर्घोषगम्भीरघॐकारस्यात्र मुख्यता
मङ्गले विजये चैव बाद्यते देवतालये ११४६
इति दुन्दुभिलक्षणम्
वितस्तित्रयदैर्घ्या स्याद्भेरी ताम्रेण निर्मिता ११४७
चतुर्विंशत्यङ्गुले च वदने वलयान्विते
तस्याः सवलये चर्मच्छन्ने छिद्रसमन्विते ११४८
रज्ज्वा नियन्त्रिते गाढं मध्ये सूत्रेण बन्धनम्
दक्षिणस्थेन कोणेन वामहस्तेन ताडनात् १४४९
उद्भटो भवति ध्वानो गम्भीरोऽरिभयंकरः
तकारः पाटवर्णोऽस्यां मुख्यो निःशङ्ककीर्तितः ११५०
इति भेरीलक्षणम्
कांस्यजस्ताम्रजो लौहो वोत्तमो मध्यमोऽधमः
एकवक्त्रो महान्वक्त्रे स्वल्पोऽधोऽर्धयवाकृतिः ११५१
भृतगर्भः कांस्यपात्रभारैर्महिषचर्मणा
छन्नाननो बद्धचर्मा तद्रन्ध्रन्यस्तवध्रकैः ११५२
क्षिप्तोऽधो वध्रवलये निवेश्याऽऽवर्तितैर्मुहुः
द्विषद्वित्रासजननो निःसाणः शार्ङ्गिणोदितः ११५३
चार्मणेनास्य कोणेन सद्वितीयस्य वादनम्
दृढशब्देन भीरूणां भिनत्ति हृदयान्ययम्
स्यादस्माद्युद्धवीराणां रोमाञ्चोपचितं वपुः ११५४
इति निःसाणलक्षणम्
निःसाणवत्तम्बकी स्यात्ततोऽल्पा गात्रनादयोः ११५५
इति तम्बकीलक्षणम्
उक्तौ प्रकृतिदारूणामनुक्तौ वा विकल्पतः
ज्ञेयो दारववाद्यानां खदिरो रक्तचन्दनः ११५६
सर्वेषु स्युर्यथायोगं पाटाः पाटहमार्दलाः ११५७
नीरसोच्छ्रितभूजाताज्जीर्णाद्वाताहतात्तरोः ११५८
निर्भिद्योत्सारिते गर्भे शेषाद्वाद्यानि कारयेत्
पूर्वप्ररोहे छिन्नेऽन्यो यः प्ररोहः प्ररोहति ११५९
तदुद्भवद्रुमोद्भूतं वाद्यं सर्वं प्रशस्यते
गर्भस्योत्सारणं त्वेतद्वेणोरन्यत्र पादपे ११६०
तरूणां जातयस्तिस्रः पित्तला वातला तथा
श्लेष्मला चेति तत्र स्यात्पित्तला नीरसक्षितौ ११६१
अत्यल्परसभूजाता वातला श्लेष्मला पुनः
जलाशयसमीपस्थरससंप्लुतभूमिजा ११६२
पित्तलाऽत्युत्तमा जातिर्वातला त्वधमा भवेत्
श्लेष्मला वर्ज्यते शुष्के वृक्षेऽपि च्छेदनात्पुरा ११६३
इति काष्ठलक्षणम्कोमलत्वं व्रणग्रन्थिभेदान्दारुषु वर्जयेत् ११६४
इति काष्ठदोषाः
षाण्मासिकस्य वत्सस्य चर्म स्यात्पुटबन्धने
अन्ये द्विवत्सरस्याऽऽहुस्तन्न लक्ष्येषु दृश्यते ११६५
वृद्धस्य वृषभस्यास्य चर्मणा वध्रकल्पना
कुन्देन्दुहिमसंकाशमाम्रपल्लवसंनिभम् ११६६
स्नायुमांसविहीनं च चर्म गोसंभवं च यत्
शीतोदके निशामेकां वासयित्वा समुद्धृतम्
वाद्यावनहनार्थं तद्ग्राह्यं श्रीशार्ङ्गिणोदितम् ११६७
इति चर्मगुणाः
मेदोदुष्टं जराक्रान्तं क्लिन्नं काकमुखाहतम्
अग्निधूमहतं जीर्णं न वाद्ये चर्म कर्मकृत् ११६८
इति चर्मदोषाः
गुणैर्भूरितरोदारैर्यस्य नद्धं जगत्त्रयम्
अवनद्धमिदं तेन शार्ङ्गिदेवेन कीर्तितम् ११६९
अथ घववाद्यम्
कांस्यजे घनवाद्ये स्यात्कांस्यमग्नौ सुशोधितम् ११७०
कांस्यजो वर्तुलस्तालः सपादद्व्यङ्गुलाननः
मध्येऽस्याङ्गुलविस्तारो निम्नो रन्ध्रं च निम्नगम् ११७१
पादोनगुञ्जामात्रं स्यात्पिण्डस्तु यवमात्रकः
सार्धाङ्गुलः स्यादुत्सेधः समा श्लक्ष्णशुभाऽऽकृतिः ११७२
कार्या तथा यथा नादो भवेच्छ्रुतिमनोहरः
नेत्रवस्त्रांञ्चलाग्राणि रज्जूकृत्य निवेशयेत् ११७३
रन्ध्रेऽग्राणाम्ननिर्गत्यै ग्रन्थिं च रचयेद्दृढम्
ईदृक्तालयुगं कृत्वा तालमेकमथाञ्चलैः ११७४
आवेष्ट्य तर्जनीं वामामङ्गुष्ठेन च वेष्टनम्
आक्रम्य तलमध्यस्थं धृत्वा तिर्यङ्मुखीकृतम् ११७५
शेषाङ्गुलीः प्रसार्योर्ध्वाद्दक्षिणेन तु पाणिना
तालमन्यतरस्यान्तलम्बमानाचलावलिम् ११७६
तर्जन्यङ्गुष्ठयोरग्रभागतस्तिर्यगाननम्
धृत्वा तस्याग्रभागेण मध्यमन्यस्य ताडयेत् ११७७
अल्पनादो भवेच्छक्तिर्भूरिनादः शिवो भवेत्
शिवे स्निग्धे घनो नादः शक्तौ स्यात्तद्विपर्ययः ११७८
वामेन धारयेच्छक्तिं शिवं दक्षिणपाणिना
अश्वमेधफलं चैव प्राप्नुयाद्दोषमन्यथा ११७९
देवता तुम्बरुर्युग्मे शक्तिः शक्तौ शिवे शिवः
द्रुतादिसिद्ध्यै तन्नादधृतिरूर्ध्वाङ्गुलीकृता ११८०
कल्पनेत्युच्यते कार्यमस्य स्यात्तालधारणम्
निःशङ्कशार्ङ्गदेवेन पाटाः सर्वेऽत्र कीर्तिताः ११८१
इति ताललक्षणम्
नलिनीदलसंकाशौ कांस्यतालौ समाकृती
त्रयोदशाङ्गुलौ वक्त्रे कांस्यजे द्व्यङ्गुलौ तले ११८२
मध्येऽङ्गुलमितौ निम्नौ तयोरन्यत्तु तालवत् ११८३
पाटा झनकटा मुख्याः सन्ति पाटान्तराण्यपि
नारदो देवता चात्रेत्युक्तं सोढलसूनुना ११८४
इति कांस्यताललक्षणम्
अर्धाङ्गुलमिता पिण्डे घण्टा कांस्यमयी भवेत्
उच्छ्रायेऽष्टाङ्गुला वक्त्रे विशाला मूलतोऽल्पिका ११८५
सा च प्रासादसंबद्धा शलाकाकारधारिणी
मूले दण्डं त्रिशृङ्गाग्रं दधती मूलसंयुता ११८६
षडङ्गुलायतं सार्धाङ्गुलपिण्डं च लम्बितम्
लोहजं लालकं गर्भे दधानां तामधोमुखीम् ११८७
दण्डे धृत्वा टणत्कारबहुलं वादयेत्सुधीः
सा सर्वदेवता तज्ज्ञैर्वाद्यते देवतार्चने ११८८
इति घण्टालक्षणम्
तैक्ष्णगोलकगर्भाः स्युः कांस्योद्भवपुटद्वयाः ११८९
सघनाः सूक्ष्मजातीयबदरीबीजसंमिताः
शिरःसुषिरविन्यस्तरज्जवः क्षुद्रघण्टिकाः ११९०
ताश्च घर्घरिका लोके भाष्यन्ते घर्घरास्तथा
ताभिर्घर्घरभेदानां कृतिः पराणि नर्तने ११९१
इति क्षुद्रघण्टिकालक्षणम्
कांस्यजा हस्तमात्रा स्यात्पिण्डे त्वर्धाङ्गुला घना ११९२
जयघण्टा समा श्लक्ष्णा वृत्ता प्रान्ते द्विरन्ध्रभाक्
धृत्वा तद्रन्ध्रविन्यस्तरज्जौ तां वामपाणिना ११९३
दक्षिणो दक्षिणस्थेन दृढकोणेन वादयेत्
डेंकारबहुलाः पाटाः सर्वेऽस्याः शार्ङ्गिणोदिताः ११९३
इति जयघण्टालक्षणम्
खादिरं घनवेणूत्थं यद्वा कम्राचतुष्टयम् ११९४
श्लक्ष्णद्वय्ङ्गुलविस्तारं द्वादशाङ्गुलदैर्घ्यकम्
मध्ये पिण्डो यथाशोभं किंचिन्न्यूनस्ततोऽन्तयोः ११९५
यस्य तत्कम्रिकावाद्यं तत्र द्वे द्वे तु कम्रिके
एकैकहस्तन्यस्ते ये तयोरेकैककम्रिकाम् ११९६
मध्यमाङ्गुष्ठयोर्मूले धृत्वा प्रान्ते तयोः पुनः
अपरामपरां धृत्वा शिथिलां वादयेद्धिया ११९७
कम्पेन मणिबन्धस्य कम्रिकावादनं मतम्
पाटाः किटकिटामुख्यास्तत्र पाटान्तराण्यपि ११९८
कम्राणामन्तरं कृत्वाऽनामया दक्षिणस्थया
तलघाताङ्गुष्ठघृष्टी वामस्येत्यपरे जगुः ११९९
इति कम्रालक्षणम्
सर्पाकृतिरथो निम्ना कांस्यजा लोहजाऽथवा
शुक्तिस्त्र्यङ्गुलविस्तारा सार्धहस्तद्वया मता १२००
तिर्यग्रेखाराजिता च मृगशृङ्गोपमेन सा
ऋजुणा लोहकोणेन सरोषेण विघर्षणात् १२०१
वाद्यते किरिकिट्टेति पाठा यक्षास्तु देवताः
यतिमात्रावबोधेऽत्रेत्युक्तं निःशङ्कसूरिणा
किरिकिट्टकमित्युक्तं तल्लोके रुद्रवल्लभम् १२०२
इति शुक्तिवाद्यम्
श्रीपर्णीदारुजः पट्टश्चतुरस्रायतो भवेत् १२०३
द्वात्रिंशदङ्गुलो दैर्घ्येऽन्यैरुक्तस्त्रिंशदङ्गुलः
विस्तारे हस्तमात्रः स्यादूर्ध्वाधःस्थितयोर्द्वयोः १२०४
लोहमय्योः सरिकयोस्त्रिवृद्रज्जूपमायुजोः
क्षिप्ताभिस्तादृशक्षुद्रवलयाविलिभिर्युतः १२०५
वक्षोग्रे जानुनोर्मध्ये यद्वा संधार्य वाद्यते
अयं च करशाखाग्रै रालालिप्तो विघृष्यते १२०६
करवौ थडरटाः पाटाः पाटहाश्चेह संमताः
सप्तात्र देवमुनयो देवताः शार्ङ्गिणोदिताः १२०७
इति पट्टवाद्यम्
सन्त्यन्यान्यपि वाद्यानि लोके भूयांसि यानि च
तेषु विस्तारसंत्रासादुदास्ते सोढलात्मजः १२०८
इति घनवाद्यलक्षणम्
रक्तं विरक्तं मधुरं समं शुद्धं कलं घनम्
स्फुटप्रहारं सुलभं वुघुष्टं च गुणैरिति १२०९
दशभिः संयुतं वाद्यमुक्तं सोढलसूनुना
अन्वर्थान्यत्र नामानि समं त्वष्टविधं मतम् १२१०
अक्षराद्यङ्गपूर्वं च तालादि यतिपूर्वकम्
लयादि न्यासापन्यासपूर्वैः पाणिसमं तथा १२११
स्यादक्षरसमं गीतगुरुलघ्वक्षरानुगम्
गीतस्य ग्रहमोक्षादीन्यङ्गान्यत्रेति यत्पुनः १२१२
स्यात्तदङ्गसमं तालानुगं तालसमं मतम्
यतिर्लयस्य न्यासः स्यात्सन्यासस्य च साम्यतः
यत्यादिपूर्वकं ज्ञेयं क्रमात्समचतुष्टयम् १२१३
गीतग्रहैः पाणिसंज्ञैः समं पाणिसमं मतम्
वाद्यस्यैते गुणाः प्रोक्ता दोषः स्यात्तद्विपर्ययः १२१४
इति वाद्यगुणदोषाः
हस्तकोणप्रहारज्ञो गीतवादनकोविदः
यतिताललयाभिज्ञः पाटज्ञः पञ्चसञ्चवित् १२१५
दशहस्तगुणोपेतः पात्राभिप्रेतवादकः
आतोद्यध्वनितत्त्वज्ञः समादिग्रहवेदिता १२१६
गीतवादननृत्यस्थच्छिद्रच्छादनपण्डितः
ग्रहमोक्षप्रदेशज्ञो गीतनृत्तप्रमाणवित् १२१७
वाद्ये समस्तभेदज्ञो रूपरेखान्वितस्तथा
उद्घट्टनपटुः सर्ववाद्यभेदविवेचकः १२१८
नादवृद्धिक्षयापत्तिकोविदो वादको विदः
गुणैः कतिपयैर्हीनः सर्वैर्वा वादकोऽधमः १२१९
वाञ्छानुगौ दृढौ व्यक्तौ स्निग्धौ दृढनखौ लघू १२२०
विधायाङ्गुलिसंचारौ स्वदहीनौ जितश्रमौ
युक्तप्रहारौ च करौ प्रोक्तौ दशगुणाविति १२२१
इति हस्तगुणाः
इति श्रीमदनवद्यविद्याविनोदश्रीकरणाधिपतिश्रीसोढलदेवनन्दननिःशङ्कश्रीशार्ङ्गदेवविरचिते संगीतरत्नाकरे वाद्याध्यायः षष्ठः समाप्तः ६