प्रमुखा विकल्पसूचिः उद्घाट्यताम्

सङ्गीतरत्नाकरः‎

प्रथमः स्वरगताध्यायः
तत्रादिमं पदार्थसंग्रहाख्यं प्रकरणम्
ब्रह्मग्रन्थिजमारुतानुगतिना चित्तेन हृत्पङ्कजे
सूरीणामनु रञ्जकः श्रुतिपदं योऽयं स्वयं राजते ।
यस्माद् ग्रामविभागवर्णरचनाऽलङ्कारजातिक्रमो
वन्दे नादतनुं तमुद्धुरजगद्गीतं मुदे शङ्करम् १
अस्ति स्वस्तिगृहं वंशः श्रीमत्काश्मीरसंभवः ।
ऋषेर्वृषगणाज्जातः कीर्त्तिक्षालितदिङ्मुखः २
यज्वभिर्धर्मधीधुर्यैर्वेदसागरपारगैः ।
यो द्विजेन्द्रैरलञ्चक्रे ब्रह्मभिर्भूगतैरिव ३
तत्राभूद्भास्करप्रख्यो भास्करस्तेजसां निधिः ।
अलङ्कर्तुं दक्षिणाशां यश्चक्रे दक्षिणाऽयनम् ४
तस्याभूत्तनयः प्रभूतविनयः श्रीसोढलः प्रौढधी-
र्येन श्रीकरणप्रवृद्धविभवं भूवल्लभं भिल्लमम् ।
आराध्याखिललोकशोकशमनीकीर्त्तिः समासादिता
जैत्रे जैत्रपदं न्यधायि महती श्रीसिङ्घणे श्रीरपि ५
एकः क्ष्मावलये क्षितीश्वरमिलन्मौलीन्द्रनीलावलि-
प्रोदञ्चद्द्युतिचित्रिताङ्घ्रिनखरश्रेणिर्नृपालाग्रणीः ।
श्रीमत्सिङ्घणदेव एव विजयी यस्य प्रतापानलो
विश्वव्याप्यपि दन्दहीति हृदयान्येव द्विषामुद्धुरः ६
तं प्रसाद्य सुधीधुर्यो गुणिनं गुणरागिणम् ।
गुणग्रामेण यो विप्रानुपकारैरतीतृपत् ७
ददौ न किं न किं जज्ञौ न दधौ कां च सम्पदम् ।
कं धर्मं विदधौ नैष न बभौ कैर्गुणैरयम् ८
तस्माद्दुग्धाम्बुधेर्जातः शार्ङ्गदेवः सुधाकरः ।
उपर्युपरि सर्वान्यः सुदौदार्यस्फुरत्करः ९
कृतगुरुपदसेवः प्रीणिताशेषदेवः
कलितसकलशास्त्रः पूजिताशेषपात्रः ।
जगति विततकीर्त्तिर्मन्मथोदारमूर्तिः
प्रचुरतरविवेकः शार्ङ्गदेवोऽयमेकः १०
नानास्थानेषु संभ्रान्ता परिश्रान्ता सरस्वती ।
सहवासप्रिया शश्वद्विश्राम्यति तदालये ११
स विनोदैकरसिको भाग्यवैदग्ध्यभाजनम् ।
धनदानेन विप्राणामार्तिं संहृत्य शाश्वतीम् १२
जिज्ञासूनां च विद्याभिर्गदार्तानां रसायनैः ।
अधुनाऽखिललोकानां तापत्रयजिहीर्षया १३
शाश्वताय च धर्माय कीर्त्त्यै निःश्रेयसाप्तये ।
आविष्करोति संगीतरत्नाकरमुदारधीः १४
सदाशिवः शिवा ब्रह्मा भरतः कश्यपो मुनिः ।
मतङ्गो याष्टिको दुर्गाशक्तिः शार्दूलकोहलौ १५
विशाखिलो दत्तिलश्च कम्बलोऽश्वतस्तथा ।
वायुर्विश्वावसू रम्भाऽर्जुनो नारदतुम्बुरू १६
आञ्जनेयो मातृगुप्तो रावणो नन्दिकेश्वरः ।
स्वातिर्गणो बिन्दुराजः क्षेत्रराजश्च राहुलः १७
रुद्रटो नान्यभूपालो भोजभूवल्लभस्तथा ।
परमर्दी च सोमेशो जगदेकमहीपतिः १८
व्याख्यातारो भारतीये लोल्लटोद्भटशङ्कुकाः ।
भट्टाभिनवगुप्तश्च श्रीमत्कीर्त्तिधरः परः १९
अन्ये च बहवः पूर्वे ये संगीतविशारदाः ।
अगाधबोधमन्थेन तेषां मतपयोनिधिम् २०
निर्मथ्य श्रीशार्ङ्गदेवः सारोद्धारमिमं व्यधात् ।
गीतं वाद्यं तथा नृत्तं त्रयं संगीतमुच्यते २१
मार्गो देशीति तद् द्वेधा तत्र मार्गः स उच्यते ।
यो मार्गितो विरिञ्च्याद्यैः प्रयुक्तो भरतादिभिः २२
देवस्य पुरतः शंभोर्नियताभ्युदयप्रदः ।
देशे देशे जनानां यद्रुच्या हृदयरञ्जकम् २३
गीतं च वादनं नृत्तं तद्देशीत्यभिधीयते ।
नृत्तं वाद्यानुगं प्रोक्तं वाद्यं गीतानुवर्ति च २४
अतो गीतं प्रधानत्वादत्रादावभिधीयते ।
सामवेदादिदं गीतं संजग्राह पितामहः २५
गीतेन प्रीयते देवः सर्वज्ञः पार्वतीपतिः ।
गोपीपतिरनन्तोऽपि वंशध्वनिवशं गतः २६
सामगीतिरतो ब्रह्मा वीणाऽऽसक्ता सरस्वती ।
किमन्ये यक्षगन्धर्वदेवदानवमानवाः २७
अज्ञातविषयास्वादो बालः पर्यङ्किकागतः ।
रुदन्गीतामृतं पीत्वा हर्षोत्कर्षं प्रपद्यते २८
वनेचरस्तृणाहारश्चित्रं मृगशिशुः पशुः ।
लुब्धो लुब्धकसङ्गीते गीते यच्छति जीवितम् २९
तस्य गीतस्य माहाऽऽत्म्यं के प्रशंसितुमीशते ।
धर्मार्थकाममोक्षाणामिदमेवैकसाधनम् ३०
तत्र स्वरगताध्याये प्रथमे प्रतिपाद्यते ।
शरीरं नादसंभूतिः स्थानानि श्रुतयस्तथा ३१
ततः शुद्धाः स्वराः सप्त विकृता द्वादशाप्यमी ।
कुलानि जातयो वर्णा द्वीपान्याषं च दैवतम् ३२
छन्दांसि विनियोगाश्च स्वराणां श्रुतिजातयः ।
ग्रामाश्च मूर्छनास्तानाः शुद्धाः कूटाश्च संख्यया ३३
प्रस्तारः खण्डमेरुश्च नष्टोद्दिष्टप्रबोधकः ।
स्वरसाधारणं जातिसाधारणमतः परम् ३४
काकल्यन्तरयोः सम्यक्प्रयोगो वर्णलक्षणम् ।
त्रिषष्टिरप्यलङ्कारास्त्रयोदशविधं ततः ३५
जातिलक्ष्म ग्रहांशादि कपालानि च कम्बलम् ।
नानाविधा गीतयश्चेत्येतावान्वस्तुसंग्रहः ३६
अथ रागविवेकाख्येऽध्याये वक्ष्यामहे क्रमात् ।
ग्रामरागांश्चोपरागान्रागान्भाषा विभाषिकाः ३७
ततोऽप्यन्तरभाषाश्च रागाङ्गाण्यखिलान्यपि ।
भाषाऽङ्गाण्यप्युपाङ्गानि क्रियाङ्गाणि च तत्त्वतः ३८
ततः प्रकीर्णकाध्याये तृतीये कथयिष्यते ।
वागेयकारो गान्धर्वः स्वरादिर्गायनस्तथा ३९
गायनी गुणदोषाश्च तयोः शब्दभिदास्तथा ।
गुणदोषाश्च शब्दस्य शारीरं तद्गुणास्तथा ४०
तद्दोषा गमकः स्थाया आलप्तिर्वृन्दलक्षणम् ।
ततः प्रबन्धाध्याये तु धातवोऽङ्गानि जातयः ४१
प्रबन्धानां द्विधा सूडः शुद्धश्छायालगस्तथा ।
आलिक्रमप्रबन्धाश्च सूडस्था आलिसंश्रयाः ४२
विप्रकीर्णास्ततश्छायालगसूडसमाश्रिताः ।
गीतस्था गुणदोषाश्च वक्ष्यन्ते शार्ङ्गसूरिणा ४३
तालाध्याये पञ्चमे तु मार्गतालाः कलास्तथा ।
पाता मार्गाश्च चत्वारस्तथा मार्गकलाऽष्टकम् ४४
गुरुलघ्वादिमानं चैककलत्वादयो भिदाः ।
पादभागास्तथा मात्रास्ताले पातकलाविधिः ४५
अङ्गुलीनां च नियमो भेदा युग्मादयस्तथा ।
परिवर्तो लयास्तेषां यतयो गीतकानि च ४६
छन्दकादीनि गीतानि तालाङ्गनिचयस्तथा ।
गीताङ्गानि च वक्ष्यन्ते देशीतालाश्च तत्त्वतः ४७
निःशङ्कशार्ङ्गदेवेन तालानां प्रत्ययास्तथा ।
षष्ठे नानाविधं वाद्यमध्याये कथयिष्यते ४८
सप्तमे नर्तनं नानारसभावाः क्रमेण च ।
इति प्रथमे स्वराध्याये पदार्थसंग्रहाख्यमादिमं प्रकरणम् १
अथ द्वितीयं पिण्डोत्पत्तिप्रकरणम् ।
गीतं नादात्मकं वाद्यं नादव्यक्त्या प्रशस्यते ।
तद्द्वयानुगतं नृत्तं नादाधीनमतस्त्रयम् १
नादेन व्यज्यते वर्णः पदं वर्णात्पदाद्वचः ।
वचसो व्यवहारोऽयं नादाधीनमतो जगत् २
आहतोऽनाहतश्चेति द्विधा नादो निगद्यते ।
सोऽयं प्रकाशते पिण्डे तस्मात्पिण्डोऽभिधीयते ३
अस्ति ब्रह्म चिदानन्दं स्वयंज्योतिर्निरञ्जनम् ।
ईश्वरं लिङ्गमित्युक्तमद्वितीयमजं विभुः ४
निर्विकारं निराकारं सर्वेश्वरमनश्वरम् ।
सर्वशक्ति च सर्वज्ञम् तदंशा जीवसंज्ञकाः ५
अनाद्यविद्योपहिता यथाऽग्नेर्विस्फुलिङ्गकाः ।
दार्वाद्युपाधिसंभिन्नास्ते कर्मभिरनादिभिः ६
सुखदुःखप्रदैः पुण्यपापरूपैर्नियन्त्रिताः ।
तत्तज्जातियुतं देहमायुर्भोगं च कर्मजम् ७
प्रतिजन्म प्रपद्यन्ते तेषामस्त्यपरं पुनः ।
सूक्ष्मं लिङ्गशरीरम् तदामोक्षादक्षयं मतम् ८
सूक्ष्मभूतेन्द्रियप्राणावस्थात्मकमिदं विदुः ।
जीवानामुपभोगाय जगदेतत्सृजत्यजः ९
स आत्मा परमात्मा च विश्रान्त्यै संहरत्यथ ।
तदेतत्सृष्टिसंहारं प्रवाहानादि संमतम् १०
ते जीवा नात्मनो भिन्ना भिन्नं वा नात्मनो जगत् ।
शक्त्या सृजन्नभिन्नौऽसौ सुवर्णं कुण्डलादिव ११
सृजत्यविद्ययेत्यन्ये यथा रज्जुर्भुजङ्गमम् ।
आत्मनः पूर्वमाकाशस्ततो वायुस्ततोऽनलः १२
अनलाज्जलमेतस्मात्पृथिवी समजायत ।
महाभूतान्यमून्येषा विराजो ब्रह्मणस्तनुः १३
ब्रह्म ब्रह्माणमसृजत्तस्मै वेदान्प्रदाय च ।
भौतिकं वेदशब्देभ्यः सर्जयामास तेन तत् १४
तदाज्ञयासृजद् ब्रह्मा मनसैव प्रजापतीन् ।
तेभ्यस्तु रैतसी सृष्टिः शरीराणां निरूप्यते १५
स्वेदोद्भेदजराय्वण्डहेतुभेदाच्चतुर्विधम् ।
देहं यूकादिनः स्वेदादुद्भेदात्तु लतादिनः १६
जरायोर्मानुषादीनामण्डात्तु विहगादिनः ।
तत्र नादोपयोगित्वान्मानुषं देहमुच्यते १७
क्षेत्रज्ञः स्थित आकाश आकाशाद्वायुमागतः ।
वायोर्षूमं ततश्चाभ्रमभ्रान्मेघेऽवतिष्ठते १८
आहुत्याप्यायितो ग्रस्तरसो ग्रीष्मे च भानुभिः ।
भानुर्मेघे धनरसं निधत्ते तं वलाहकः १९
यदा वर्षति वर्षेण सह जीवस्तदा भुवः ।
वनस्पत्योषधीर्जाताः संक्रामत्यविलक्षितः २०
ताभ्योऽन्नं जातमन्नं तत्पुरुषैः शुक्लतां गतम् ।
शुद्धार्तवाया योषाया निषिक्तं स्मरमन्दिरे २१
सहार्तवेन शुद्धं चेद्गर्भाशयगतं भवेत् ।
जीवकर्मप्रेरितं तद् गर्भमारभते तदा २२
द्रवत्वं प्रथमे मासि कललाख्यं प्रजायते ।
द्वितीये तु घनः पिण्डः पेशीषद्धनमर्बुदम् २३
पुंस्त्रीनपुंसकानां स्युः प्रागवस्थाः क्रमादिमाः ।
तृतीये त्वङ्कुराः पञ्च कराङ्घ्रिशिरसो मताः २४
अङ्गप्रत्यङ्गभागाश्च सूक्ष्माः स्युर्युगपत्तदा ।
विहाय श्मश्रुदन्तादीञ्जन्मानन्तरसंभवान् २५
एषा प्रकृतिरन्या तु विकृतिः संमता सताम् ।
चतुर्थे व्यक्तता तेषां भावानामपि जायते २६
पुंसां शौर्यादयो भावा भीरुत्वाद्यास्तु योषिताम् ।
नपुंसकानां संकीर्णा भवन्तीति प्रचक्षते २७
मातृजं चास्य हृदयं विषयानभिकाङ्क्षति ।
अतो मातुर्मनोऽभीष्टं कुर्याद्गर्भसमृद्धये २८
तां च द्विहृदयां नारीमाहुर्दौहृविनीं बुधाः ।
अदानाद्दोहदानां स्युर्गर्भस्य व्यङ्गतादयः २९
मातुर्यद्विषयालाभस्तदार्तो जायते सुतः ।
गर्भः स्यादर्थवान्भोगी दोहदाद्राजदर्शने ३०
अलङ्कारेषु ललितो धर्मिष्ठस्तापसाश्रमे ।
देवतादर्शने भक्तो हिंस्रो भुजगदर्शने ३१
गोधाशने तु निद्रालुर्बली गोमांसभक्षणे ।
माहिषे शुकरक्ताक्षं लोमशं सूयते सुतम् ३२
प्रबुद्धं पञ्चमे चित्तं मांसशोणितपुष्टता ।
षष्ठेऽस्थिस्नायुनखरकेशरोमविविक्तता ३३
बलवर्णौ चोपचितौ सप्तमे त्वङ्गपूर्णता ।
पाल्यन्तरितहस्ताभ्यां श्रोत्ररन्ध्रे पिधाय सः ३४
उद्विग्नो गर्भसंवासादास्ते गर्भाशयान्वितः ।
स्मरन्पूर्वानुभूताः स नानाजातीश्च यातनाः ३५
मोक्षोपायमभिध्यायन्वर्ततेऽभ्यासतत्परः ।
अष्टमे त्वक्स्मृती स्यातामोजश्चैतच्च हृद्भवम् ३६
शुद्धमापीतरक्तं च निमित्तं जीविते मतम् ।
पुनरम्बां पुनर्गर्भं चञ्चलं तत्प्रधावति ३७
अतो जातोऽष्टमे मासि न जीवत्योजसोज्झितः ।
किंचित्कालमवस्थानं संस्कारात्खण्डिताङ्गवत् ३८
समयः प्रसवस्य स्यान्मासेषु नवमादिषु ।
मातू रसवहां नाडीमनुबद्धा पराऽभिधा ३९
नाभिस्थनाडी गर्भस्य मात्राहाररसावहा ।
कृताञ्जलिर्ललाटेऽसौ मातृपृष्ठमभि स्थितः ४०
अध्यास्ते संकुचद्गात्रो गर्भं दक्षिणपार्श्वगः ।
वामपार्श्वस्थिता नारी क्लीबं मध्यस्थितं मतम् ४१
क्रियतेऽधःशिराः सूतिमारुतैः प्रबलैस्ततः ।
निःसार्यते रुजद्गात्रो यन्त्रच्छिद्रेण बालकः ४२
जातमात्रस्य तस्याथ प्रवृत्तिः स्तन्यगोचरा ।
प्राग्जन्मबोधसंस्काराविति जीवस्य नित्यता ४३
भावाः स्युः षड्विधास्तस्य मातृजाः पितृजास्तथा ।
रसजा आत्मजाः सत्त्वसंभवाः सात्म्यजास्तथा ४४
मृदवः शोणितं मेदो मज्जा प्लीहा यकृद् गुदम् ।
हृन्नाभीत्येवमाद्यास्तु भावा मातृभवा मताः ४५
श्मश्रुलोमकचाः स्नायुसिराधमनयो नखाः ।
दशनाः शुक्लमित्याद्याः स्थिराः पितृसमुद्भवाः ४६
शरीरोपचयो वर्णो वृद्धिः सुप्तिर्बलं स्थितिः ।
अलोलुपत्वमुत्साह इत्यादीन्रसजान्विदुः ४७
इच्छा द्वेषः सुखं दुःखं धर्माधर्मौ च भावना ।
प्रयत्नो ज्ञानमायुश्चेन्द्रियाणीत्यात्मजा मताः ४८
ज्ञानेन्द्रियाणि श्रवणं स्पर्शनं दर्शनं तथा ।
रसनं घ्राणमित्याहुः पञ्च तेषां तु गोचराः ४९
शब्दः स्पर्शस्तथा रूपं रसो गन्ध इति क्रमात् ।
वाक्कराङ्घ्रिगुदोपस्थानाहुः कर्मेन्द्रियाणि तु ५०
वचनादानगमनविसर्गरतयः क्रमात् ।
क्रियास्तेषां मनो बुद्धिरित्यन्तःकरणद्वयम् ५१
सुखं दुःखं च विषयौ विज्ञेयौ मनसः क्रिया ।
स्मृतिभ्रान्तिविकल्पाद्या धियोऽध्यवसितिर्मता ५२
ब्रह्मयोनीनीन्द्रियाणि भौतिकान्यपरे जगुः ।
सत्त्वाख्यमन्तःकरणं गुणभेदात्त्रिधा मतम् ५३
सत्त्वं रजस्तम इति गुणाः सत्त्वात्तु सात्त्विकात् ।
आस्तिक्यशुद्धधर्मैकरुचिप्रभूतयो मताः ५४
सत्त्वात्तु राजसाद्भावाः कामक्रोधमदादयः ।
निद्राऽऽलस्यप्रमादार्तिवञ्चनाद्यास्तु तामसात् ५५
प्रसन्नेन्द्रियताऽऽरोग्यानालस्याद्यास्तु सात्म्यजाः ।
देहो भूतात्मकस्तस्मादादत्ते तद्गुणानिमान् ५६
शब्दं श्रोत्रं सुषिरतां वैविक्त्यं सूक्ष्मबोद्धृताम् ।
बिलं च गगनाद्वायोः स्पर्शं च स्पर्शनेन्द्रियम् ५७
उत्क्षेपणमवक्षेपाकुञ्चने गमनं तथा ।
प्रसारणमितीमानि पञ्च कर्माणि रूक्षताम् ५८
प्राणापानौ तथा व्यानसमानोदानसंज्ञकान् ।
नागं कूर्म च कृकरं देवदत्तम् धनञ्जयम् ५९
दशेति वायुविकृतीस्तथा गृह्णाति लाघवम् ।
तेषां मुख्यतमः प्राणो नाभिकन्दादधः स्थितः ६०
चरत्यास्ये नासिकयोर्नाभौ हृदयपङ्कजे ।
शब्दोच्चारणनिःश्वासोच्छ्वासकासादिकारणम् ६१
अपानस्तु गुदे मेढ्रे कटीजङ्घोदरेषु च ।
नाभिकन्दे वङ्क्षणयोरूरुजानुनि तिष्ठति ६२
अस्य मूत्रपुरीषादिविसर्गः कर्म कीर्तितः ।
व्यानोऽक्षिश्रोत्रगुल्फेषु कट्यां घ्राणे च तिष्ठति ६३
प्राणापानधृतित्यागग्रहणाद्यस्य कर्म च ।
समानो व्याप्य निखिलं शरीरं वह्निना सह ६४
द्विसप्ततिसहस्रेषु नाडीरन्ध्रेषु संचरन् ।
भुक्तपीतरसान्सम्यगानयन्देहपुष्टिकृत् ६५
उदानः पादयोरास्ते हस्तयोरङ्गसन्धिषु ।
कर्मास्य देहोन्नयनोत्क्रमणादि प्रकीर्तितम् ६६
त्वगादिधातूनाश्रित्य पञ्च नागादयः स्थिताः ।
उद्गारादि निमेषादि क्षुतप्रभृति च क्रमात् ६७
तन्द्राप्रभृति शोफादि तेषां कर्म प्रकीर्तितम् ।
अग्नेस्तु लोचनं रूपं पित्तं पाकं प्रकाशताम् ६८
अमर्षं तैक्ष्ण्यमूष्माणमोजस्तैजश्च शूरताम् ।
मेधावितां तथादत्ते जलात्तु रसनं रसम् ६९
शैत्यं स्नेहं द्रवं स्वेदं मूत्रादि मृदुतामपि ।
भूमेर्घ्राणेन्द्रियं गन्धं स्थैर्यं धैर्यं च गौरवम् ७०
श्मश्रुकेशानखं दन्तानस्थ्याद्यन्यच्च कर्कशम् ।
वातादिधातुप्रकृतिर्व्योमादिप्रकृतिस्तथा ७१
सप्तधा सात्त्विको यश्च ब्रह्मेन्द्रयमविग्रहः ।
वारुणश्चाथ कौबेर आर्षो गान्धर्वविग्रहः ७२
राजसः षड्विधो यश्च पैशाचो राक्षसस्तथा ।
आसुरः शाकुनः सार्पः प्रेतदेहस्तथा परः ७३
तामसस्त्रिविधो यश्च पशुमत्स्याङ्घ्रिपाकृतिः ।
तेषां लक्ष्माणि न ब्रूमो ग्रन्थविस्तरकातराः ७४
पिण्डस्याहुः षडङ्गानि शिरः पादौ करौ तथा ।
मध्यं चेति अथ वक्ष्यन्ते प्रत्यङ्गान्यखिलान्यपि ७५
त्वचः सप्त कलाः सप्त स्नायुश्लेष्मजरायुभिः ।
छन्नाः कोशाग्निभिः पक्वास्ता धातूनन्तरान्तरा ७६
सीमभूताश्च धातूनां काष्ठसारोपमा मताः ।
आद्या मांसधरा मांसे सिरा धमनयस्तथा ७७
स्नायुस्रोतांसि रोहन्ति पङ्के पङ्कजकन्दवत् ।
असृङ्मेदः श्लेष्मशकृत्पित्तशुक्लधराः पराः ७८
त्वगसृङ्मांसमेदोऽस्थिमज्जशुक्राणि धातवः ।
सप्त स्युस्तत्र चोक्ता त्वग्रक्तं जाठरवह्निना ७९
पक्वाद्भवेदन्नरसादेवं रक्तादिभिः परे ।
स्वस्वकोशाग्निना पक्वैर्जन्यन्ते धातवः क्रमात् ८०
रक्तश्लेष्मामपित्तानां पक्वस्य मरुतस्तथा ।
मूत्रस्य चाश्रयाः सप्त क्रमादाशयसंज्ञकाः ८१
गर्भाशयोऽष्टमः स्त्रीणां पित्तपक्वाशयान्तरे ।
प्रसन्नाभ्यां कफासृग्भ्यां हृदयं पङ्कजाकृति ८२
सुषिरं स्यादधोवक्त्रं यकृत्प्लीहान्तरस्थितम् ।
एतच्च चेतनस्थानं तदस्मिंस्तमसावृते ८३
निमीलति स्वपित्यात्मा जागर्ति विकसत्यपि ।
द्वेधा स्वप्नसुषुप्तिभ्यां स्वापो बाह्येन्द्रियाणि चेत् ८४
लीयन्ते हृदि जागर्ति चित्तं स्वप्नस्तदोच्यते ।
मनश्चेल्लीयते प्राणे सुषुप्तिः स्यात्तदात्मनः ८५
स्वमपीतः परात्मानं स्वपित्यात्मेत्यतो मतः ।
श्रवणे नयने नासे वदनं गुदशेफसी ८६
बहिर्मलवहानि स्युर्नव स्रोतांसि देहिनाम् ।
स्त्रीणां त्रीण्यधिकानि स्युः स्तनयोर्द्वे भगेऽसृजः ८७
अस्थिस्नायुसिरामांसस्थानि जालानि षोडश ।
षट् कूर्चाः करयोरङ्घ्र्योः कन्धरायां च मेहने ८८
पार्श्वयोः पृष्ठवंशस्य चतस्रो मांसरज्जवः ।
सीवन्यः पञ्च शिरसि द्वे जिह्वालिङ्गयोर्मते ८९
चतुर्दशाष्टादश वा संमता अस्थिराशयः ।
अस्थ्नां शरीरे संख्या स्यात्षष्टियुक्तं शतत्रयम् ९०
वलयानि कपालानि रुचकास्तरुणानि च ।
नलकानीति तान्याहुः पञ्चधास्थीनि सूरयः ९१
त्रीण्येवास्थिशतान्यत्र धन्वन्तरिरभाषत ।
द्वे शते त्वस्थिसन्धीनां स्यातामत्र दशोत्तरे ९२
कोरकाः प्रतरास्तुन्नाः सीवन्यः स्युरुलूखलाः ।
सामुद्गा मण्डलाः शङ्खावर्ता वायसतुण्डकाः ९३
इत्यष्टधा समुद्दिष्टा मुनीन्द्रैरस्थिसन्धयः ।
पेशीस्नायुसिरासन्धिसहस्रद्वितयं मतम् ९४
नव स्नायुशतानि स्युश्चतुर्धा स्नायवो मताः ।
प्रतानवत्यः सुषिराः कण्डराः पृथुलास्तथा ९५
बन्धनैर्बहुभिर्बद्धा भूरिभारक्षमा भवेत् ।
नौरम्भसि यथा स्नायुशतबद्धा तनुस्तथा ९६
पञ्च पेशीशतान्याहुः शरीरस्थानि सूरयः ।
अधिका विंशतिः स्त्रीणां तत्र स्युः स्तनयोर्दश ९७
यौवने ताः प्रवर्धन्ते दश योनौ तु तत्र च ।
द्वे अन्तः प्रसृते बाह्ये द्वे तिस्रो गर्भमार्गगाः ९८
शङ्खनाभ्याकृतिर्योनिस्त्र्यावर्ताऽत्र तृतीयके ।
आवर्ते गर्भशय्याऽस्ति पित्तपक्वाशयान्तरे ९९
रोहिताभिधमत्स्यस्य सदृशी तत्र पेशिका ।
शुक्रार्तवप्रवेशिन्यस्तिस्रः प्रच्छादिका मताः १००
सिराधमनिकानां तु लक्षाणि नवविंशतिः ।
सार्धानि स्युर्नवशती षट्पञ्चाशद्युता तथा १०१
दश मूलसिरा ओजोवाहिन्यो हृदयाश्रयाः ।
द्व्यङ्गुलं चाङ्गुलदलं यवं यवदलं तथा १०२
गत्वा द्रुमदलस्येव सीवन्यः प्रतता यदा ।
भिद्यन्ते तास्तदा सप्त शतानि परिसंख्यया १०३
तासु जिह्वास्थिते द्वे द्वे वाग्रसज्ञानकारणे ।
घ्राणे गन्धवहे द्वे द्वे मेषोन्मेषकृतौ दृशोः १०४
श्रोत्रयोः शब्दवाहिन्यौ तासु द्वे शार्ङ्गिणोदिते ।
धमन्यो रसवाहिन्यश्चतुर्विंशतिरीरिताः १०५
कुल्याभिरिव केदारास्ताभिर्देहोऽभिवर्धते ।
एताः प्रतिष्ठिता नाभ्यां चक्रनाभावरा इव १०६
ऊर्ध्वं दश दशाधस्ताच्चतस्रस्तिर्यगायताः ।
ऊर्ध्वगा हृदयं प्राप्ताः प्रतायन्ते पृथक् त्रिधा १०७
वातं पित्तं कफं रक्तं रसं द्वे द्वे विमुञ्चतः ।
शब्दं रूपं रसं गन्धं द्वे द्वे तत्रावगच्छतः १०८
द्वे द्वे च भाषणं घोषं स्वापं बोधं च रोदनम् ।
कुर्वाते द्वे नरे शुक्लं स्तन्यं तु स्रवतः स्त्रियाम् १०९
अधोगता अपि त्रेधा पृथक्पक्वाशयस्थिताः ।
प्रवर्तयन्ति तत्राद्या दश वातादि पूर्ववत् ११०
अन्नं भुक्तं धमन्यौ द्वे वहतोऽम्बुसमाश्रयात् ।
तोयं मूत्रं बलं द्वे द्वे नारीणामार्तवं त्विमे १११
विमुञ्चतो द्वे स्रोतांसि द्वे स्थूलान्त्रान्विते शकृत् ।
स्वेदं समर्पयन्त्यष्टौ तिरश्च्यो बहुधा मताः ११२
रोमकूपेषु सन्त्यासां मुखानि स्वेदमुक्तये ।
प्रवेशयन्ति चाभ्यङ्गलेपादिप्रभवान्रसान् ११३
जीवस्थानानि मर्माणि शतं सप्तोत्तरं विदुः ।
सार्धकोटित्रयं रोम्णां श्मश्रुकेशास्त्रिलक्षकाः ११४
स्रोतःसिराश्मश्रुकेशैः सह रोम्णां तु कोटयः ।
चतुःपञ्चाशदाख्याताः सप्तषष्ट्या च सार्धया ११५
लक्षाणां संहितामानं जलादेरधुनोच्यते ।
दशाञ्जलि जलं ज्ञेयं रसस्याञ्जलयो नव ११६
रक्तस्याष्टौ पुरीषस्य सप्त स्युः श्लेष्मणस्तु षट् ।
पित्तस्य पञ्च चत्वारो मूत्रस्याञ्जलयस्त्रयः ११७
वसाया मेदसो द्वौ तु मज्ज्ञ एकोऽञ्जलिर्मतः ।
अर्धाञ्जलिः शिरोमज्जा श्लेष्मसारो बलं तथा ११८
इति प्रत्यङ्गसंक्षेपो विस्तरस्त्विह तत्त्वतः ।
अस्मद्विरचितेऽध्यात्मविवेके वीक्ष्यतां बुधैः ११९
गुदलिङ्गान्तरे चक्रमाधाराख्यं चतुर्दलम् ।
परमः सहजस्तद्वदानन्दो वीरपूर्वकः १२०
योगानन्दश्च तत्र स्यादैशानादिवले फलम् ।
अस्ति कुण्डलिनी ब्रह्मशक्तिराधारपङ्कजे १२१
आब्रह्मरन्ध्रमृजुतां नीतेयममृतप्रदा ।
स्वाषिष्ठानं लिङ्गमूले षट्पत्रं चक्रमस्य च १२२
पूर्वादिषु दलेष्वाहुः फलान्येतान्यनुक्रमात् ।
प्रश्रयः क्रूरता गर्वनाशो मूर्च्छा ततः परम् १२३
अवज्ञा स्यादविश्वासः कामशक्तेरिदं गृहम् ।
नाभौ दशदलं चक्रं मणिपूरकसंज्ञितम् १२४
सुषुप्तिरत्र तृष्णा स्यादीर्ष्या पिशुनता तथा ।
लज्जा भयं घृणा मोहः कषायोऽथ विषादिता १२५
क्रमात्पूर्वादिपत्रे तु स्याद्भानुभवनं च तत् ।
हृदयेऽनाहतं चक्रं शिवस्य प्रणवाकृतेः १२६
पूजास्थानं तदिच्छन्ति दलैर्द्वादशभिर्युतम् ।
लौल्यप्रणाशः प्रकटो वितर्कोऽप्यनुतापिता १२७
आशा प्रकाशश्चिन्ता च समीहा समता ततः ।
क्रमेण दम्भो वैकल्यं विवेकोऽहंकृतिस्तथा १२८
फलान्येतानि पूर्वादिदलस्थस्यात्मनो जगुः ।
कण्ठेऽस्ति भारतीस्थानं विशुद्धिः षोडशच्छदम् १२९
तत्र प्रणव उद्गीथो हुंफड् वषडथ स्वधा ।
स्वाहा नमोऽमृतं सप्त स्वराः षड्जादयो विषम् १३०
इति पूर्वादिपत्रस्थे फलान्यात्मनि षोडश ।
ललनाख्यं घण्टिकायां चक्रं द्वादशपत्रकम् १३१
मदो मानस्ततः स्नेहः शोकः स्वेदश्च लुब्धता ।
अरतिः संभ्रमश्चोर्मिः श्रद्धातोषोपरोधिताः १३२
फलानि ललनाचक्रे स्युः पूर्वादिदलेष्विति ।
भ्रूमध्ये त्रिदलं चक्रमाज्ञासंज्ञं फलानि तु १३३
आविर्भावाः सत्त्वरजस्तमसां क्रमतो मताः ।
ततोऽप्यस्ति मनश्चक्रं षड्दलं तत्फलानि तु १३४
स्वप्नो रसोपभोगश्च घ्राणं रूपोपलम्भनम् ।
स्पर्शनं शब्दबोधश्च पूर्वादिषु दलेष्विति १३५
ततोऽपि षोडशदलं सोमचक्रमितीरितम् ।
दलेषु षोडशस्वस्य कलाः षोडश संस्थिताः १३६
कृपा क्षमार्जवं धैर्यं वैराग्यं धृतिसंमदौ ।
हास्यं रोमाञ्चनिचयो ध्यानाश्रु स्थिरता ततः १३७
गाम्भीर्यमुद्यमोऽच्छत्वमौदार्यैकाग्रते क्रमात् ।
फलान्युद्यन्ति जीवस्य पूर्वादिदलगामिनः १३८
चक्रं सहस्रपत्रं तु ब्रह्मरन्ध्रे सुधाधरम् ।
तत्सुधासारधाराभिरभिवर्धयते तनुम् १३९
अनाहतदले पूर्वेऽष्टमे चैकादशे तथा ।
द्वादशे च स्थितो जीवो गीतादेः सिद्धिमृच्छति १४०
चतुर्थषष्ठदशमैर्दलैर्गीतादि नश्यति ।
विशुद्धेरष्टमादीनि दलान्यष्टौ श्रितानि तु १४१
दद्युर्गीतादिसंसिद्धिं षोडशं तद्विनाशकम् ।
दशमैकादशे पत्रे ललनायां तु सिद्धिदे १४२
नाशकं प्रथमं तुर्यं पञ्चमं च दलं विदुः ।
ब्रह्मरन्ध्रस्थितो जीवः सुधया संप्लुतो यथा १४३
तुष्टो गीतादिकार्याणि सप्रकर्षाणि साधयेत् ।
एषां शेषेषु पत्रेषु चक्रेष्वन्येषु च स्थितः १४४
जीवो गीतादिसंसिद्धिं न कदाचिदवाप्नुयात् ।
आधाराद् द्व्यङ्गुलादूर्ध्व मेहनाद् द्व्यङ्गुलादधः १४५
एकाङ्गुलं देहमध्यं तप्तजाम्बूनदप्रभम् ।
तत्रास्तेऽग्निशिखा तन्वी चक्रात्तस्मान्नवाङ्गुले १४६
देहस्य कन्दोऽस्त्युत्सेधायामाभ्यां चतुरङ्गुलः ।
ब्रह्मग्रन्थिरिति प्रोक्तं तस्य नाम पुरातनैः १४७
तन्मध्ये नाभिचक्रं तु द्वादशारमवस्थितम् ।
लूतेव तन्तुजालस्था तत्र जीवो भ्रमत्ययम् १४८
सुषुम्णया ब्रह्मरन्ध्रमारोहत्यवरोहति ।
जीवः प्राणसमारूढो रज्ज्वां कोह्लाटिको यथा १४९
सुषुम्णां परितो नाड्यः कन्दादाब्रह्मरन्ध्रतः ।
कन्दीकृत्य स्थिताः कन्दं शाखाभिस्तन्वते तनुम् १५०
ताश्च भूरितरास्तासु मुख्याः प्रोक्ताश्चतुर्दश ।
सुषुम्णेडा पिङ्गला च कुहूरथ सरस्वती १५१
गान्धारी हस्तिजिह्वा च वारुणी च यशस्विनी ।
विश्वोदरा शङ्खिनी च ततः पूषा पयस्विनी १५२
अलम्बुसेति तत्राद्यास्तिस्रो मुख्यतमा मताः ।
सुषुम्णा तिसृषु श्रेष्ठा वैष्णवी मुक्तिमार्गगा १५३
कन्दमध्ये स्थिता तस्या इडा सव्येऽथ दक्षिणे ।
पिङ्गलेडापिङ्गलयोश्चरतश्चन्द्रभास्करौ १५४
क्रमात्कालगतेर्हेतू सुषुम्णा कालशोषिणी ।
सरस्वती कुहूश्चास्ते सुषुम्णायास्तु पार्श्वयोः १५५
इडायाः पृष्ठपूर्वस्थे गान्धारीहस्तिजिह्विके ।
क्रमात्पूषायशस्विन्यौ पिङ्गलापृष्ठपूर्वयोः १५६
विश्वोदरा मध्यदेशे स्यात्कुहूहस्तिजिह्वयोः ।
मध्ये कुहूयशस्विन्योर्वारुणी सस्थिता मता १५७
पूषासरस्वतीमध्यमधिशेते पयस्विनी ।
गान्धारिकासरस्वत्योर्मध्ये वसति शङ्खिनी १५८
अलम्बुसा कन्दमध्ये तत्रेडापिङ्गले क्रमात् ।
सव्यदक्षिणनासाऽन्तं कुहूरामेहनं पुरः १५९
सरस्वत्यूर्ध्वमाजिह्वं गान्धार्याः पृष्ठतः स्थिता ।
आवामनेत्रमासव्यपादाङ्गुष्ठं तु संस्थिता १६०
हस्तिजिह्वा सर्वगा तु वारुण्यथ यशस्विनी ।
आङ्गुष्ठाद्दक्षिणाङ्घ्रिस्था देहे विश्वोदराऽखिले १६१
शङ्खिनी सव्यकर्णान्तं पूषा त्वायाम्यनेत्रतः ।
पयस्विनी तु वितता दक्षिणश्रवणावधि १६२
अलम्बुसा पायुमूलमवष्टभ्य व्यवस्थिता ।
एवंविधे तु देहेऽस्मिन्मलसंचयसंवृते १६३
प्रसाधयन्ति धीमन्तो भुक्तिं मुक्तिमुपायतः ।
तत्र स्यात्सगुणाद्ध्यानाद्भुक्तिर्मुक्तिस्तु निर्गुणात् १६४
ध्यानमेकाग्रचित्तैकसाध्यं न सुकरं नृणाम् ।
तस्मादत्र सुखोपायं श्रीमन्नादमनाहतम् १६५
गुरूपदिष्टमार्गेण मुनयः समुपासते ।
सोऽपि रक्तिविहीनत्वान्न मनोरञ्जको नृणाम् १६६
तस्मादाहतनादस्य श्रुत्यादिद्वारतोऽखिलम् ।
गेयं वितन्वतो लोकरञ्जनं भवभञ्जनम् १६७
उत्पत्तिमभिघास्यामस्तथा श्रुत्यादिहेतुताम् ।
इति प्रथमे स्वराध्याये द्वितीयं पिण्डोत्पत्तिप्रकरणम् २
अथ तृतीयं नादस्थानश्रुतिस्वरजातिकुलदैवतर्षिच्छन्दोरसप्रकरणम्
चैतन्यं सर्वभूतानां विवृत्तं जगदात्मना ।
नादब्रह्म तदानन्दमद्वितीयमुपास्महे १
नादोपासनया देवा ब्रह्मविष्णुमहेश्वराः ।
भवन्त्युपासिता नूनं यस्मादेते तदात्मकाः २
आत्मा विवक्षमाणोऽयं मनः प्रेरयते मनः ।
देहस्थं वह्निमाहन्ति स प्रेरयति मारुतम् ३
ब्रह्मग्रन्थिस्थितः सोऽथ क्रमादूर्ध्वपथे चरन् ।
नाभिहृत्कण्ठमूर्धास्येष्वाविर्भावयति ध्वनिम् ४
नादोऽतिसूक्ष्मः सूक्ष्मश्च पुष्टोऽपुष्टश्च कृत्रिमः ।
इति पञ्चाभिधा धत्ते पञ्चस्थानस्थितः क्रमात् ५
नकारं प्राणनामानं दकारमनलं विदुः ।
जातः प्राणाग्निसंयोगात्तेन नादोऽभिधीयते ६
व्यवहारे त्वसौ त्रेधा हृदि मन्द्रोऽभिधीयते ।
कण्ठे मध्यो मूर्ध्नि तारो द्विगुणश्चोत्तरोत्तरः ७
तस्य द्वाविंशतिर्भेदाः श्रवणाच्छ्रुतयो मताः ।
हृद्यूर्ध्वनाडीसंलग्ना लाड्यो द्वाविंशतिर्मताः ८
तिरश्च्यस्तासु तावत्यः श्रुतयो मारुताहतेः ।
उच्चोच्चतरतायुक्ताः प्रभवन्त्युत्तरोत्तरम् ९
एवं कण्ठे तथा शीर्षे श्रुतिद्वाविंशतिर्मता ।
व्यक्तये कुर्महे तासां वीणाद्वन्द्वे निदर्शनम् १०
द्वे वीणे सदृशौ कार्ये यथा नादः समो भवेत् ।
तयोर्द्वाविंशतिस्तन्त्र्यः प्रत्येकं तासु चादिमा ११
कार्या मन्द्रतमध्वाना द्वितीयोच्चध्वनिर्मनाक् ।
स्यान्निरन्तरता श्रुत्योर्मध्ये ध्वन्यन्तराश्रुतेः १२
अधराधरतीव्रास्तास्तज्जो नादः श्रुतिर्मतः ।
वीणाद्वये स्वराः स्थाप्यास्तत्र षड्जश्चतुःश्रुतिः १३
स्थाप्यस्तन्त्र्यां तुरीयायामृषभस्त्रिश्रुतिस्ततः ।
पञ्चमीतस्तृतीयायां गान्धारो द्विश्रुतिस्ततः १४
अष्टमीतो द्वितीयायां मध्यमोऽथ चतुःश्रुतिः ।
दशमीतश्चतुर्थ्यां स्यात्पञ्चमोऽथ चतुःश्रुतिः १५
चतुर्दशीतस्तुर्यायां धैवतस्त्रिश्रुतिस्ततः ।
अष्टादश्यस्तृतीयायां निषादो द्विश्रुतिस्ततः १६
एकविंश्या द्वितीयायां वीणैकाऽत्र ध्रुवा भवेत् ।
चलवीणा द्वितीया तु तस्यां तन्त्रीस्तु सारयेत् १७
स्वोपान्त्यतन्त्रीमानेयास्तस्यां सप्त स्वरा बुधैः ।
ध्रुववीणास्वरेभ्योऽस्यां चलायां ते स्वरास्तदा १८
एकश्रुत्यपकृष्टाः स्युरेवमन्याऽपि सारणा ।
श्रुतिद्वयलयादस्यां चलवीणागतौ गनी १९
ध्रुववीणोपगतयो रिधयोर्विशतः क्रमात् ।
तृतीयस्यां सारणायां विशतः सपयो रिधौ २०
निगमेषु चतुर्थ्यां तु विशन्ति समपाः क्रमात् ।
श्रुतिद्वाविंशतावेवं सारणानां चतुष्ट्यात् २१
ध्रुवाश्रुतिषु लीनायामियत्ता ज्ञायते स्फुटम् ।
अतः परम् तु रक्तिध्नं न कार्यमपकर्षणम् २२
श्रुतिभ्यः स्युः स्वराः षड्जर्षभगान्धारमध्यमाः ।
पञ्चमो धैवतश्चाथ निषाद इति सप्त ते २३
तेषां संज्ञाः सरिगमपधनीत्यपरा मताः ।
श्रुत्यनन्तरभावी यः स्निग्धोऽनुरणनात्मकः २४
स्वतो रञ्जयति श्रोतृचित्तं स स्वर उच्यते ।
ननु श्रुतिश्चातुर्थ्यादिरस्त्वेवं स्वरकारणम् २५
त्र्यादीनां तत्र पूर्वासां श्रुतीनां हेतुता कथम् ।
ब्रूमस्तुर्यातृतीयादिः श्रुतिः पूर्वाऽभिकाङ्क्षया २६
निर्धार्यतेऽतः श्रुतयः पूर्वा अप्यत्र हेतवः ।
दीप्तायता च करुणा मृदुर्मध्येति जातयः २७
श्रुतीनां पञ्च तासां च स्वरेष्वेवं व्यवस्थितिः ।
दीप्तायता मृदुर्मध्या षड्जे स्यादृषभे पुनः २८
संस्थिता करुणा मध्या मृदुर्गान्धारके पुनः ।
दीप्तायते मध्यमे ते मृदुमध्ये च संस्थिते २९
मृदुर्मध्यायताख्या च करुणा पञ्चमे स्थिता ।
करुणा चायता मध्या धैवते सप्तमे पुनः ३०
दीप्ता मध्येति तासां च जातीनां ब्रूमहे भिदाः ।
तीव्रा रौद्री व्रजिकोग्नेत्युक्ता दीप्ता चतुर्विधा ३१
कुमुद्वत्यायता याऽस्याः क्रोधा चाथ प्रसारिणी ।
संदीपनी रोहिणी च भेदाः पञ्चेति कीर्तिताः ३२
दयावती तथालापिन्यथ प्रोक्ता मदन्तिका ।
त्रयस्ते करुणाभेदा मृदोर्भेदचतुष्टयम् ३३
मन्दा च रतिका प्रीतिः क्षितिर्मध्या तु षड्विधा ।
छन्दोवती रञ्जनी च मार्जनी रक्तिका तथा ३४
रम्या च क्षोभिणीत्यासामथ ब्रूमः स्वरस्थितिम् ।
तीव्राकुमुद्वतीमन्दाच्छन्दोवत्यस्तु षड्जगाः ३५
दयावती रञ्जनी च रक्तिका चर्षभे स्थिताः ।
रौद्री क्रोधा च गान्धारे वज्रिकाऽथ प्रसारिणी ३६
प्रीतिश्च मार्जनीत्येताः श्रुतयो मध्यमाश्रिताः ।
क्षिती रक्ता च संदीपन्यालापिन्यपि पञ्चमे ३७
मदन्ती रोहिणी रम्येत्येतास्तिस्रस्तु धैवते ।
उग्रा च क्षोभिणीति द्वे निषादे वसतः श्रुती ३८
ते मन्द्रमध्यताराख्यस्थानभेदात्त्रिधा मताः ।
त एव विकृतावस्था द्वादश प्रतिपादिताः ३९
च्युतोऽच्युतो द्विधा षड्जो द्विश्रुतिविकृतो भवेत् ।
साधारणे काकलीत्वे निषादस्य च दृश्यते ४०
साधारणे श्रुतिं षाड्जीमृषभः संश्रितो यदा ।
चतुःश्रुतित्वमायाति तदैको विकृतो भवेत् ४१
साधारणे त्रिश्रुतिः स्यादन्तरत्वे चतुःश्रुतिः ।
गान्धार इति तद्भेदौ द्वौ निःशङ्केन कीर्तितौ ४२
मध्यमः षड्जवद्द्वेधाऽन्तरसाधारणाश्रयात् ।
पञ्चमो मध्यमग्रामे त्रिश्रुतिः कैशिके पुनः ४३
मध्यमस्य श्रुतिं प्राप्य चतुःश्रुतिरिति द्विधा ।
धैवतो मध्यमग्रामे विकृतः स्याच्चतुःश्रुतिः ४४
कैशिके काकलीत्वे च निषादस्त्रिचतुःश्रुतिः ।
प्राप्नोति विकृतौ भेदौ द्वाविति द्वादश स्मृताः ४५
तैः शुद्धैः सप्तभिः सार्धं भवन्त्येकोनविंशतिः ।
मयूरचातकच्छागक्रौञ्चकोकिलदर्दुराः ४६
गजश्च सप्त षड्जादीन्क्रमादुच्चारयन्त्यमी ।
चतुर्विधाः स्वरा वादी संवादी च विवाद्यपि ४७
अनुवादी च वादी तु प्रयोगे बहुलः स्वरः ।
श्रुतयो द्वादशाष्टौ वा ययोरन्तरगोचराः ४८
मिथः संवादिनौ तौ स्तो निगावन्यविवादिनौ ।
रिधयोरेव वा स्यातां तौ तयोर्वा रिधावपि ४९
शेषाणामनुवादित्वं वादी राजाऽत्र गीयते ।
संवादी त्वनुसारित्वादस्यामात्योऽभिधीयते ५०
विवादी विपरीतत्वाद्धीरैरुक्तौ रिपूपमः ।
गीवणिकुलसंभूताः षड्जगान्धरमध्यमाः ।
पञ्चमः पितृवंशोत्थो रिधावृषिकुलोद्भवौ ५२
निषादोऽसुरवंशोत्थो ब्राह्मणाः समपञ्चमाः ।
रिधौ तु क्षत्त्रियौ ज्ञेयौ वैश्यजाती निगौ मतौ ५३
शूद्रावन्तरकाकल्यौ स्वरौ वर्णास्त्विमे क्रमात् ।
पद्माभः पिञ्जरः स्वर्णवर्णः कुन्दप्रभोऽसितः ५४
पीतः कर्वुर इत्येषां जन्मभूमीरथ ब्रुवे ।
जम्बूशाककुशक्रौञ्च शाल्मलीश्वेतनामसु ५५
द्वीपेषु पुष्करे चैते जाताः षड्जादयः क्रमात् ।
बह्निर्वेधाः शशाङ्कश्च लक्ष्मीकान्तश्च नारदः ५६
ऋषयो ददृशुः पञ्च षड्जादींस्तुम्बुरुर्धनी ।
बह्निब्रह्मसरस्वत्यः शर्वश्रीशगणेश्वराः ५७
सहस्रांशुरिति प्रोक्ताः क्रमात्षड्जादिदेवताः ।
क्रमादनुष्टुब्गायत्त्री त्रिष्टुप्च बृहती ततः ५८
पङ्क्तिरुष्णिक्च जगतीत्याहुश्छन्दांसि सादिषु ।
सरी वीरेऽद्भुते रौद्रे धो बीभत्से भयानके ५९
कायौ गनी तू करुणे हास्यशृङ्गारयोर्मपौ ।
इति प्रथमे स्वराध्याये तृतीयं नादस्थानश्रुतिस्वरप्रकरणम् ३
अथ चतुर्थं ग्राममूर्च्छनाक्रमतानप्रकरणम्
ग्रामः स्वरसमूहः स्यान्मूर्च्छनाऽऽदेः समाश्रयः ।
तौ द्वौ धरातले तत्र स्यात्षड्जग्राम आदिमः १
द्वितीयो मध्यमग्रामस्तयोर्लक्षणमुच्यते ।
षड्जग्रामः पञ्चमे स्वचतुर्थश्रुतिसंस्थिते २
स्वोपान्त्यश्रुतिसंस्थेऽस्मिन्मध्यमग्राम इष्यते ।
यद्वा धस्त्रिश्रुतिः षड्जे मध्यमे तु चतुःश्रुतिः ३
रिमयोः श्रुतिमेकैकां गान्धारश्चेत्समाश्रितः ।
पश्रुतिं धो निषादस्तु धश्रुतिं सश्रुतिं श्रितः ४
गान्धारग्राममाचष्ट तदा तं नारदो मुनिः ।
प्रवर्तते स्वर्गलोके ग्रामोऽसौ न महीतले ५
षड्जः प्रधानमाद्यत्वादमात्याधिक्यतस्तथा ।
ग्रामे स्यादविलोपित्वान्मध्यमस्तु पुरःसरः ६
एतत्कुलप्रसूतत्वाद् गन्धारोऽप्यग्रणीर्दिवि ।
क्रमाद् ग्रामत्रये देवा ब्रह्मविष्णुमहेश्वराः ७
हेमन्तग्रीष्मवर्षासु गातव्यास्ते यथाक्रमम् ।
पूर्वाह्णकाले मध्याह्नेऽपराह्णेऽभ्युदयार्थिभिः ८
क्रमात्स्वराणां सप्तानामारोहश्चावरोहणम् ।
मूर्च्छनेत्युच्यते ग्रामद्वये ताः सप्त सप्त च ९
षड्जे तूत्तरमन्द्रादौ रजनी चोत्तरायता ।
शुद्धषड्जा मत्सरीकृदश्वक्रान्ताभिरुद्गता १०
मध्यमे स्यात्तु सौवीरी हारिणाश्वा ततः परम् ।
स्यात्कलोपनता शुद्धमध्या मार्गो च पौरवी ११
हृष्यकेति
अथ तासां तु लक्षणं प्रतिपाद्यते ।
मध्यस्थानस्थषड्जेन मूर्च्छनारभ्यतेऽग्रिमा १२
अधस्तनैनिषादाद्यैः षडन्या मूर्च्छनाः क्रमात् ।
मध्यमध्यममारभ्य सौवीरी मूर्च्छना भवेत् १३
षडन्यास्तदधोऽधःस्थस्वरानारभ्य तु क्रमात् ।
षड्जस्थानस्थितैर्न्याद्यैरजन्याद्याः परे विदुः १४
हारिणाश्वादिका गाद्यैर्मध्यमस्थानसंस्थितैः ।
षड्जादीन्मध्यमादींश्च तदूर्ध्वं सारयेत्क्रमात् १५
चतुर्धा ताः पृथक् शुद्धाह् काकलीकलितास्तथा ।
सान्तरास्तद्द्वयोपेताः षट्पञ्चाशदितीरिताः १६
श्रुतिद्वयं चेत्षड्जस्य निषादः संश्रयेत्तदा ।
स काकली मध्यमस्य गान्धारस्त्वन्तरः स्वरः १७
यस्यां यावतिथौ षड्जमध्यमौ ग्रामयोः क्रमात् ।
मूर्च्छना तावतिथ्येव सा निःशङ्केन कीर्तिता १८
प्रथमादिस्वरारम्भादेकैका सप्तधा भवेत् ।
तासूच्चार्यान्त्यस्वरांस्तान्पूर्वानुच्चारयेत्क्रमात् १९
ते क्रमास्तेषु संख्या स्याद् द्वानवत्या शतत्रयम् ।
यक्षरक्षोनारदाब्जभवनागाश्विपाशिनः २०
षड्जग्रामे मूर्च्छनानामेताः स्युर्देवताः क्रमात् ।
ब्रह्मेन्द्रवायुगन्धर्वसिद्धद्रुहिणभानवः २१
स्युरिमा मध्यमग्राममूर्च्छनादेवताः क्रमात् ।
तासामन्यानि नामानि नारदो मुनिरब्रवीत् २२
मुर्च्छनोत्तरवर्णाऽऽद्या षड्जग्रामेऽभिरुद्गता ।
अश्वक्रान्ता च सौवीरी हृष्यका चोत्तरायता २३
रजनीति समाख्याता ऋषीणां सप्त मूर्च्छनाः ।
आप्यायनी विश्वकृता चन्द्रा हेमा कपर्दिनी २४
मैत्री चान्द्रमसी पित्र्या मध्यमे मूर्च्छना इमाः ।
नन्दा विशाला सुमुखी चित्रा चित्रवती सुखा २५
आलापा चेति गान्धारग्रामे स्युः सप्त मूर्च्छनाः ।
ताश्च स्वर्गे प्रयोक्तव्या विशेषात्तेन नोदिताः २६
तानाः स्युर्मूर्च्छनाः शुद्धाः षाडवौडुवितीकृताः ।
षड्जगाः सप्त हीनाश्चेत्क्रमात्सरिपसप्तमैः २७
तदाऽष्टाविंशतिस्ताना मध्यमे सरिगोज्झिताः ।
सप्त क्रमाद्यदा तानाः स्युस्तदा त्वेकविंशतिः २८
एते चैकोनपञ्चाशदुभये षडवा मताः ।
सपाभ्यां द्विश्रुतिभ्यां च रिपाभ्यां सप्त वर्जिताः २९
षड्जग्रामे पृथक्ताना एकविंशतिरौडुवाः ।
रिधाभ्यां द्विश्रुतिभ्याम् च मध्यमग्रामगास्तु ते ३०
हीनाश्चतुर्दशैव स्युः पञ्चत्रिंशत्तु ते युताः ।
सर्वे चतुरशीतिः स्युर्मिलिताः षाडवौडुवाः ३१
असम्पूर्णाश्च सम्पूर्णा व्युत्क्रमोच्चारितस्वराः ।
मूर्च्छनाः कूटतानाः स्युः तत्सङ्ख्यामभिदध्महे ३२
पूर्णाः पञ्च सहस्राणि चत्वारिंशद्युतानि तु ।
एकैकस्यां मूर्च्छनायां कूटतानाः सह क्रमैः ३३
षट्पञ्चाशन्मूर्च्छनास्थाः पूर्णाः कूटास्तु योजिताः ।
लक्षद्वयं सहस्राणि द्व्यशीतिर्द्वे शते तथा ३४
चत्वारिंशच्च सङ्ख्याता अथापूर्णान्प्रचक्ष्महे ।
एकैकान्त्यान्त्यविरहाद्भेदाः षट् षट्स्वरादयः ३५
एकस्वरोऽत्र निर्भेदोऽप्युक्तो नष्टादिसिद्धये ।
क्रमा अकूटतानत्वेऽप्युक्तास्तेषूपयोगिनः ३६
स्युः षाडवानां विंशत्या सह सप्त शतानि तु ।
औडुवानां तु विंशत्या सहितं शतमिष्यते ३७
चतुःस्वराणां कूटानां चतुर्विशतिरीरिताः ।
त्रिस्वराः षड् द्विस्वरौ द्वावेकस्त्वेकस्वरो मतः ३८
आर्चिको गाथिकश्चाथ सामिकोऽथ स्वरान्तरः ।
एकस्वरादितानानां चतुर्णामभिधा इमाः ३९
उक्ताः शुद्धादिभेदेन निगयुक्ताश्चतुर्विधाः ।
तयोरेकैकहीनास्तु द्वेधा मूलक्रमा मताः ४०
षड्जाद्यौ मध्यमाद्यौ च चत्वारः स्युर्द्विधा द्विधा ।
चतुर्धान्ये दशेत्यष्टाचत्वारिंशदमी क्रमाः ४१
संविशतिः सप्तशती प्रागुक्ता गुणिता क्रमैः ।
चतुस्त्रिंशत्सहस्राणि षष्ट्या पञ्च शतानि च ४२
इति षाडवसङ्ख्या स्यात् अथ पञ्चस्वरान्ब्रुवे ।
गाद्यौ धाद्यौ निषादाद्यौ चतुर्भेदाः षडौडुवाः ४३
आष्टावन्ये द्विधेत्येवं चत्वारिंशदिमे क्रमाः ।
सविंशतौ शते तैश्च गुणितेऽष्टौ शतानि तु ४४
चत्वारि च सहस्राणि सङ्ख्या पञ्चस्वरेष्विति ।
चतुःस्वरेषु न्याद्यौ द्वौ चतुर्धा द्वादशापरे ४५
क्रमा द्विधेति द्वात्रिंशच्चतुर्विंशतिताडिता ।
शतानि सप्ताष्टषष्ट्या स्याच्चतुःस्वरसंमितिः ४६
त्रिस्वरेषु तु माद्यौ द्वावभेदौ द्वादशापरे ।
द्विधा षड्विंशतिरिति क्रमास्ते षड्भिराहताः ४७
षट्पञ्चाशच्छतं च स्युः द्विस्वरेषु पुनर्द्विधा ।
रिगधन्यादयोऽष्टौ स्युः शुद्धास्तदितरे क्रमाः ४८
द्वाविंशतिस्ते तु चतुश्चत्वारिंशद् द्विताडिताः ।
एकस्वरास्त्वभेदत्वान्मौला एव चतुर्दश ४९
षड्जादेः शुद्धमध्याया भेदकं पञ्चमं विना ।
चतुःस्वरे क्रमद्वन्द्वेऽष्टाचत्वारिंशदीरिताः ५०
तानास्त्रिस्वरयोस्त्वेते द्वादश द्वस्वरे द्वयम् ।
एक एकस्वरस्ते त्रिषष्टिरौत्तरमन्द्रकैः ५१
पुनरुक्ता मतास्तानैर्न्यादिमार्गीक्रमाः पुनः ।
पञ्चस्वरा ये चत्वारस्तत्तानानां चतुःशती ५२
अशीत्यभ्यधिका चातुःस्वरी षण्णवतिर्भवेत् ।
द्वादश त्रिस्वरद्वन्द्वे चत्वारो द्विस्वरद्वये ५३
एक एकस्वरस्तानस्तेषां पञ्चशती त्वियम् ।
त्रिनवत्या युता तानैरभिन्ना रजनीगतैः ५४
धैवतादेस्तु पौरव्याश्चत्वारह् षट्स्वराः क्रमात् ।
तत्तानानां तु साशीतिः शताष्टाविंशतिर्मता ५५
औडुवानां चतुर्णां प्रागुक्ता सङ्ख्या चतुःस्वरौ ।
त्रिस्वरौ द्विस्वरावेकस्वरः प्रागुक्तसङ्ख्यकाः ५६
पञ्चविंशतिसंयुक्ता चतुस्त्रिंशच्छती त्वियम् ।
तानानां सदृशाकारा स्यात्तानैरौत्तरायतैः ५७
इत्येकाशीतिसंयुक्तं सहस्राणां चतुष्टयम् ।
तानानां पुनरुक्तानां पूर्णापूर्णैः सह क्रमैः ५८
अपनीयेत चेदेषा कूटतानमितिर्भवेत् ।
लक्षत्रयं सप्तदश सहस्राणि शतानि च ५९
नवत्रिंशद्युतानीति ज्ञानोपायोऽत्र कथ्यते ।
अङ्कानेकादिसप्तान्तानूर्ध्वमूर्ध्वं लिखेत्क्रमात् ६०
हते पूर्वेण पूर्वेण तेषु चाङ्के परे परे ।
एकस्वरादिसङ्ख्या स्यात्क्रमेण प्रतिमूर्च्छनम् ६१
क्रमं न्यस्य स्वरः स्थाप्यः पूर्वः पूर्वः परादधः ।
स चेदुपरि तत्पूर्वः पुरस्तूपरिवर्तिनः ६२
मूलक्रमक्रमात्पृष्ठे शेषाः प्रस्तार ईदृशः ।
सप्ताद्येकान्तकोष्ठानामधोऽधः सप्त पङ्क्तयः ६३
तास्वाद्यायामाद्यकोष्ठे लिखेदेकं परेषु खम् ।
वेद्यतानस्वरमितान्न्यस्येत्तेष्वेव लोष्टकान् ६४
प्राक्पङ्क्त्यन्त्याङ्कसंयोगमूर्ध्वाधःस्थितपङ्क्तिषु ।
शून्यादधो लिखेदेकं तं चाधोऽधः स्वकोष्ठकान् ६५
कोष्ठसङ्ख्यागुणं न्यस्येत्खण्डमेरुरयं मतः ।
स्वरान्मूलक्रमस्यान्त्यात्पूर्वं यावतिथः स्वरः ६६
उद्दिष्टान्त्यस्तावतिथे कोष्ठेऽधो लोष्टकं क्षिपेत् ।
लोष्टचालनमन्त्यात्स्यात्त्यक्त्वा लब्धं क्रमो भवेत् ६७
लोष्टाक्रान्ताङ्कसंयोगादुद्दिष्टस्य मितिर्भवेत् ।
यैरङ्कैर्नष्टसंख्या स्यान्मौलैकाङ्कसमन्वितैः ६८
तेषु लोष्टं क्षिपेन्मूले लोष्टस्थानमितं भवेत् ।
नष्टतानस्वरस्थानम् ततो यावतिथे पदे ६९
अधःक्रमादस्ति लोष्टः स्वरस्तावतिथो भवेत् ।
क्रमान्तिमस्वरात्पूर्वो लब्धत्यागादि पूर्ववत् ७०
तानस्वरमितोर्ध्वाधःपङ्क्तिगान्त्याङ्कमिश्रणात् ।
एकस्वरादितानानां संख्या संजायते क्रमात् ७१
अथात्र शुद्धतानानां नामानि व्याहरामहे ।
अग्निष्टोमोऽत्यग्निष्टोमो वाजपेयश्च षोडशी ७२
पुण्डरीकोऽश्वमेधश्च राजसूयस्ततः परः ।
इति स्युः षड्जहीनानां सप्त नामान्यनुक्रमात् ७३
स्विष्टकृद्बहुसौवर्णो गोसवश्च महाव्रतः ।
विश्वजिद्ब्रह्मयज्ञश्च प्राजापत्यस्तु सप्तमः ७४
क्रमाद्षभहीनानां तानानामभिधा इमाः ।
अश्वक्रान्तो रथक्रान्तो विष्णुक्रान्तस्ततः परः ७५
सूर्यक्रान्तो गजक्रान्तो वलभिन्नागपक्षकः ।
इति पञ्चमहीनानां संज्ञाः सप्त क्रमान्मताः ७६
चातुर्मास्योऽथ संस्थाऽऽख्यः शस्त्रश्चोक्थश्चतुर्थकः ।
सौत्रामणी तथा चित्रा सप्तमस्तूद्भिदाह्वयः ७७
संज्ञा निषादहीनानां षाडवानामिमाः क्रमात् ।
सावित्री चार्धसावित्री सर्वतोभद्रसंज्ञकः ७८
आदित्यानामयनश्च गवामयननामकः ।
सर्पाणामयनः षष्ठः सप्तमः कौणपायनः ।
नामानि षड्जहीनानां तानानामिति मेनिरे ७९
अग्निचिद् द्वादशाहश्चोपांशुः सोमाभिधस्ततः ।
अश्वप्रतिग्रहो वर्हिरथाभ्युदयसंज्ञकः ८०
ऋषभेण विहीनानामिति नामानि मन्वते ।
सर्वस्वदक्षिणो दीक्षा सोमाख्यः समिदाह्वयः ८१
स्वाहाकारस्तनूनपात्ततो गोदोहनो मतः ।
इति गान्धारहीनानां क्रमात्संज्ञाः प्रचक्षते ८२
इडा पुरुषमेधश्च श्येनो वज्र इषुस्ततः ।
अङ्गिराः कङ्क इत्येताः सपहीनाभिधाः क्रमात् ८३
ज्योतिष्टोमस्ततो दर्शो नान्द्याख्यः पौर्णमासकः ।
अश्वप्रतिग्रहो रात्रिः सौभरः सप्तमः स्मृतः ८४
एता निषादगान्धारहीनानामभिधाः क्रमात् ।
सौभाग्यकृच्च कारीरी शान्तिकृत्पुष्टिकृत्तथा ८५
वैनतेयोच्चाटनौ च वशीकरणसंज्ञकः ।
पञ्चमर्षभहीनानां तानानामभिधा इमाः ८६
त्रैलोक्यमोहनो वीरः कन्दर्पबलशातनः ८७
शङ्खचूडो गजच्छायो रौद्राख्यो विष्णुविक्रमः ।
तानानां रिधहीनानां नामान्येतान्यनुक्रमात् ८८
भैरवः कामदाख्यश्चावभृथोऽष्टकपालकः ।
स्विष्टकृच्च वषट्कारो मोक्षदः सप्तमो मतः ८९
संज्ञा निषादगान्धारहीनानामिति संमताः ।
यद्यज्ञनामा यस्तानस्तस्य तत्फलमिष्यते ९०
गान्धर्वे मूर्च्छनास्तानाः श्रेयसे श्रुतिचोदिताः ।
गाने स्थानस्य लाभेन ते कूटाश्चोपयोगिनः ९१
साधारणं भवेद् द्वेधा स्वरजातिविशेषणात् ।
स्वरसाधारणं तत्र चतुर्धा परिकीर्तितम् १
काकल्यन्तरषड्जैश्च मध्यमेन विशेषणात् ।
साधारणः काकली हि भवेत्षड्जनिषादयोः २
साधारण्यमतस्तस्य यत्तत्साधारणं विदुः ।
अन्तरस्यापि गमयोरेवं साधारणं मतम् ३
प्रयोज्यौ षड्जमुच्चार्य काकलीधैवतौ क्रमात् ।
एवम् मध्यममुच्चार्य प्रयुञ्जीतान्तरर्षभौ ४
षड्जकाकलिनौ यद्वोच्चार्य षड्जं पुनर्व्रजेत् ।
तत्परान्यतमं चैवं मध्यमं चान्तरस्वरम् ५
प्रयुज्य मध्यमो ग्राह्यस्तत्परान्यतमोऽथ वा ।
अल्पप्रयोगः सर्वत्र काकली चान्तरः स्वरः ६
निषादो यदि षड्जस्य श्रुतिमाद्यां समाश्रयेत् ।
ऋषभस्त्वन्तिमां प्रोक्तं षड्जसाधारणं तदा ७
मध्यमस्यापि गपयोरेवं साधारणं मतम् ।
साधारणं मध्यमस्य मध्यमग्रामगं ध्रुवम् ८
साधारणे कैशिके ते केशाग्रवदणुत्वतः ।
ते एव कैश्चदुच्येते ग्रामसाधारणे बुधैः ९
एकग्रामोद्भवास्वेकांशासु जातिषु यद्भवेत् ।
समानं गानमार्यास्तज्जातिसाधारणं जगुः १०
जातिसाधारणं केचिद्रागानेव प्रचक्षते ।
गानक्रियोच्यते वर्णः स चतुर्धा निरूपितः ।
स्थाय्यारोह्यवरोही च संचारीत्यथ लक्षणम् १
स्थित्वा स्थित्वा प्रयोगः स्यादेकस्यैव स्वरस्य यः ।
स्थायी वर्णः स विज्ञेयः परावन्वर्थनामकौ २
एतत्संमिश्रणाद्वर्णः संचारी परिकीर्तितः ।
विशिष्टं वर्णसन्दर्भमलङ्कारं प्रचक्षते ३
तस्य भेदास्तु बहवस्तत्र स्थायिगतान्ब्रुवे ।
येषामाद्यन्तयोरेकः स्वरस्ते स्थायिवर्णगाः ४
प्रसन्नादिः प्रसन्नान्तः प्रसन्नाद्यन्तसंज्ञकः ।
ततः प्रसन्नमध्यः स्यात्पञ्चमः क्रमरेचितः ५
प्रस्तारोऽथ प्रसादः स्यात्सप्तैते स्थायिनि स्थिताः ।
मन्द्रः प्रकरणेऽत्रे स्यान्मूर्च्छनाप्रथमः स्वरः ६
स एव द्विगुणस्तारः पूर्वः पूर्वोऽथ वा भवेत् ।
मन्द्रः परस्ततस्तारः प्रसन्नो मृदुरित्यपि ७
मन्द्रस्तारस्तु दीप्तः स्यान्मन्द्रो बिन्दुशिरा भवेत् ।
ऊर्ध्वरेखाशिरस्तारो लिपौ त्रिर्वचनात्प्लुतः ८
मन्द्रद्वयात्परे तारे प्रसन्नादिरुदीरितः ।
सं सं स॑ । १
तद्वैलोम्य प्रसन्नान्तः
स॑ सं सं । २
प्रसन्नद्वयमध्यगे ९
दीप्ते प्रसन्नाद्यन्तः स्यात्
सं स॑ सं । ३
तारयोर्मध्यगे पुनः ।
मन्द्रे प्रसन्नमध्याख्यमलङ्कारं विदो विदुः १०
स॑ सं स॑ । ४
आद्यन्तयोर्मूर्च्छनादिश्चेत्स्वरोऽन्तर्द्वितीयकः ।
सैका कलाऽथ चेन्मध्ये स्तस्तृतीयचतुर्थकौ ११
सा द्वितीया पञ्चमाद्यास्त्रयोऽन्तश्चेत्कला परा ।
एवं कलात्रयेणोक्तोऽलङ्कारः क्रमरेचितः १२
संरिसं संगमसं संपधनिसं । ५
दीप्तान्तश्चेत्प्रतिकलं प्रस्तारः सोऽभिधीयते ।
संरिस॑ संगमस॑ संपधनिस॑ । ६
तारमन्द्रविपर्यासात्तं प्रसादं प्रचक्षते १३
स॑रिसं स॑गमसं स॑पधनिसं । ७
स्यातां विस्तीर्णनिष्कषौ बिन्दुरभ्युच्चयः परः ।
हसितप्रेङ्खिताक्षिप्तसन्धिप्रच्छादनास्तथा १४
उद्गीतोद्वाहितौ तद्वत्त्रिवर्णो वेणिरित्यमी ।
द्वादशारोहिवर्णस्थालङ्काराः परिकीर्तिताः १५
मूर्च्छनादेः स्वराद्यत्र क्रमेणारोहणं भवेत् ।
स्थित्वा स्थित्वा स्वरैर्दीर्घैः स विस्तीर्णोऽभिधीयते १६
सा री गा मा पा धा नी । १
ह्रस्वैः स्वरैः स निष्कर्षो द्विर्द्विरुक्तैर्निरन्तरैः ।
सस रिरि गग मम पप धध निनि । २
त्रिश्चतुर्वा स्वरोच्चारे गात्रवर्णमिमं विदुः १७
ससस रिरिरि गगग ममम धधध निनिनि ।
सससस रिरिरिरि गगगग मममम पपपप धधधध निनिनिनि । २
निष्कर्षस्यैव भेदौ द्वौ केचिदेतौ बभाषिरे ।
प्लुतं ह्रस्वं प्लुतं ह्रस्वं प्लुतं ह्रस्वं प्लुतं स्वरम् १८
कुर्वन्क्रमाद्यदारोहेत्तदा विन्दुरर्यं मतः ।
स३
रि ग३
म् प३
ध नि३
। ३
एकान्तरस्वरारोहमाहुरभ्युच्चयं बुधाः १९
सगपनि । ४
यत्रैकोत्तरवृद्धाभिरावृत्तिभिरुदीरिताः ।
आरुह्यन्ते स्वराः प्राह हसितं तं शिवप्रियः २०
स रिरि गगग मममम पपपपप धधधधधध निनिनिनिनिनिनि । ५
स्वरद्वयं समुच्चार्य पूर्वं पूर्वयुतं परम् ।
यदान्दोलितमारोहेत्प्रेङ्खितोऽसौ क्रमोऽथ वा २१
सरि रिग गम मप पध धनि । ६
एकान्तरं स्वरयुगं तादृक्पूर्वयुतं परम् ।
क्रमादारोहति यदा तदाक्षिप्तं प्रचक्षते २२
सग गप पनि । ७
त्रिस्वराद्या कलान्ये च पूर्वपूर्वानित्मादिमे ।
कले स्तस्त्रिस्वरे यत्र सन्धिप्रच्छादनस्तु सः २३
सरिग गमप पधनि ।
यदाद्याद्यस्त्रिरावृत्तः कलयोस्त्रिस्वरात्मनोः ।
तदोद्गीतः
सससरिग मममपध । ९
मध्यमेन तादृशोद्वाहितो मतः २४
सरिरिरिग मपपपध । १०
अन्त्यस्य तु त्रिरावृत्तौ त्रिवर्णं वर्णयन्त्यमुम् ।
सरिगगग मपधधध । ११
त्रयाणां तु त्रिरावृत्तौ पृथग्वेणिरुदीरितः २५
ससस रिरिरि गगग ममम पपप धधध । १२
अवरोहक्रमादेते द्वादशाप्यवरोहिणि ।
मन्द्रादिर्मन्द्रमध्यश्च मन्द्रान्तः स्यादतः परम् २६
प्रस्तारश्च प्रसादोऽथ व्यावृत्तस्खलितावपि ।
परिवर्ताक्षेपबिन्दूद्वाहितोर्मिसमास्तथा २७
प्रेङ्खनिष्कूजितश्येनक्रमोद्घट्टितरञ्जिताः ।
संनिवृत्तप्रवृत्तोऽथ वेणुश्च ललितस्वरः २८
हुङ्कारो ह्रादमानश्च ततः स्यादवलोकितः ।
स्युः सञ्चारिण्यलङ्काराः पञ्चविंशतिरित्यमी २९
त्रिस्वराऽद्या कलैकैकमन्द्रत्यागेन चापराः ।
त्रिस्वराश्चेत्कला मन्द्राद्या मन्द्रादिस्तदा भवेत् ३०
सगरि रिमग गपम मधप पनिध १
ताः कला मन्द्रमध्यान्ताः क्रमाच्चेदपरौ तदा ।
मन्द्रमध्यो यथा
गसरि मरिग पगम धमप निपध । २
मन्द्रान्तो यथा
रिगस गमरि मपग पधम धनिप । ३
त्याक्तान्तरं स्वरयुगं त्याक्तादारभ्यते पुनः ३१
युगं तादृक्समारोहेत्तया प्रस्तार उच्यते ।
सग रिम गप मध पनि । ४
पूर्वः पूर्वः परस्योर्ध्वाधोवर्ती क्रियते स्वरः ३२
यदा तदा प्रसादं तमाह श्रीकरणेश्वरः ।
सरिस रिगरि गमग मगम पधप धनिध ।
चतुःस्वरा कला तत्राद्यात्तृतीयं द्वितीयकात् ३३
तुर्यं गत्वाऽदिमं गच्छेदेवमेकैकहानतः ।
चतुःस्वराः परा यत्र स व्यावृत्तः स्मृतो बुधैः ३४
सगरिमस रिमगपरि मपमधग मधपनिम्
कलां प्रयुज्य मन्द्रादेर्द्विरुक्तोर्ध्वस्वरान्विताम् ।
अवरुह्येत चेदेष स्खलिताख्यस्तदा भवेत् ३५
सगरिममरिगस रिमगपपगमरि गपमधधमपग
मधपनिनिपधम । ७
स्वरं द्वितीयमुज्झित्वा त्रिस्वराऽऽद्या कला यदि ।
त्यक्तादारभ्य तादृश्योऽन्यास्तदा परिवर्तकः ३६
सगम रिमप गपध मधनि । ८
त्रिस्वराश्चेत्कलाः पूर्वपूर्वत्यागोर्ध्वसंक्रैः ।
तदाऽऽक्षेपः
सरिग रिगम गमप मपद्य पद्यनि ।
अथ बिन्दुः स यत्र प्लुतमधः स्वरम् ३७
कृत्वाग्निवत्परं स्पृष्ट्वाधः स्पर्शेनाखिलाः कलाः ।
स३
रिस रि३
गरि ग३
मग म३
पम प३
धप ध३
निध । १०
कलायां त्रीन्स्वरान्गीत्वाऽवरुह्यैकं पराः कलाः ३८
यत्रैकैकोज्झिता गीतास्तद्वदुद्वाहितस्तु सः ।
सरिगरि रिगमग गमपम मपधप पधनि । ११
मूर्च्छनादेः स्वरात्तुर्यं प्लुतीकृत्याद्यमेत्य च ३९
तुर्यगाने कलैकैकहानाद्यत्रापरास्तथा ।
स ऊर्मिः स्यात्
सम३
सम रिप३
रिप गध३
गध मनि३
मनि ।
स तु समः कला यत्र चतुः स्वराः ४०
तुल्यारोहावरोहैकैकहानादपरास्तथा ।
सरिगममगरिस रिगमपपमगरि गमपधधपमग
मपधनिनिधपम । १३
कला गतागतवती द्विस्वरैकैकहानतः ४१
यत्रान्यास्तादृशः स स्यात्प्रेङ्खः
सरिरिस रिगगरि गममग मपपम पधधप धनिनिध । १४
निष्कूजितः पुनः ।
प्रसादस्य कलां गीत्वा तत्कलादेस्तृतीयकम् ४२
गत्वाद्यगानाद्भवति
सरिसगस रिगरिमरि गमगपग मपमधम वधपनिप । १५
श्येनः संवादियुग्मकैः ४३
क्रमात्सरिगमाद्यैः स्यात्
सप रिध गनि मस ।
कला द्वित्रिचतुःस्वराः ।
आद्यस्वराद्यास्तिस्रः स्युर्द्वितीयाद्यादयस्तथा ४४
यत्रासौ क्रम इत्युक्तः
सरिसरिगसरिगम रिगरिगमरिगमप गमगमपगमपध
मपमपधमपधनि । १७
स तूद्घट्टित उच्यते ।
यत्र स्वरद्वयं गीत्वा पञ्चमाच्चुतरः स्वरान् ४५
अवरोहेत्कला गायेत्तथैकैकोज्झनात्पराः ।
सरिपमगरि रिगधपमग गमनिधपम । १८
दिरुक्ता यदि मन्द्रान्ता मन्द्रादेः स्युः कलास्तदा ४६
रञ्जितः
सगरिसगरिस रिमगरिमगरि गपमगपमग मधपमधपम
पनिधपनिधप । १३
अथ भवेदेष संनिवृत्तप्रवृत्तकः ।
यत्राद्यपञ्चमौ गीत्वा तुर्यात्त्रीनवरोहति ४७
क्रमात्कला सा यत्रान्यास्तद्वदेकैकहानतः ।
सपमगरि रिधपमग गनिधपम । २०
यत्राद्यः स्याद् द्विर्द्वितीयचतुर्थकतृतीयकाः ४८
सकृत्कलान्याश्चैकैकहानाद्वेणुरसौ मतः ।
ससरिमग रिरिगपम गगमधप ममपनिध । २१
गीत्वाद्यौ द्वौ चतुर्थं च यस्यां ताववरोहति ४९
सा कलान्याश्च तादृश्यो यत्रासौ ललितस्वरः ।
सरिमरिस रिगपगरि गमधमग मपनिपम । २२
आदिमेन कला यत्र द्विस्वराद्या गतागतैः ५०
स्वरैरेकोत्तरं वृद्धैः स हुङ्कारो निगद्यते ।
सरिस सरिगरिस सरिगमगरिस सरिगमपमगरिस
सरिगमपधपमगरिस सरिगमपधनिधपमगरिस २३
ह्रादमाने प्रसन्नान्ता मन्द्रादेस्तु कला मताः ५१
सगरिस रिमगरि गपमग मधपम पनिधप २४
यदारोहेऽवरोहे च स्वद्वितीयं परित्यजेत् ।
चतुःस्वरा समाला तदा स्यादवलोकितः ५२
सगममरिस रिमपपगरि गपधधमग मधनिनपम २५
एवं सञ्चार्यलङ्कारा आरोहेण प्रदर्शिताः ।
एतानेवावरोहेण प्राह श्रीकरणाग्रणीः ५३
अन्येऽपि सप्तालंकारा गीतज्ञैरुपदर्शिताः ।
तारमन्द्रप्रसन्नश्च मन्द्रतारप्रसन्नकः ५४
आवर्तकः सम्प्रदानो विधूतोऽप्युपलोलकः ।
उल्लासितश्चेति तेषामधुना लक्ष्म कथ्यते ५५
कलास्तेषां द्वितीयाद्याः पूर्वैकैकप्रहाणतः ।
अष्टमस्वरपर्यन्तमारुह्याद्यं व्रजेद्यदि ५६
तारमन्द्रप्रसन्नोऽयमलङ्कारस्तदोच्यते ।
संरिगमपधनिस॑सं १
मन्द्रादष्टममुत्प्लुत्य सप्तकस्यावरोहणे ५७
मन्द्रतारप्रशन्नाख्यमाह माहेश्वरोत्तमः ।
संस॑निधपमगरिसं २
आद्यं द्वितीयमाद्यं च द्विर्द्विर्गीत्वा द्वितीयकम् ५८
सकृदाद्यं यत्कलायां गायेदावर्तकस्तु सः ।
ससरिरिससरिस रिरिगगरिरिगरि गगममगगमग
ममपपममपम पपधधपपधप धधनिनिधधनिध ३
एतस्यैव कलाऽन्त्यौ द्वौ स्वरौ संत्यज्य गीयते ५९
यदा तदा सम्प्रदानमलंकारं विदुर्दुधाः ।
ससरिरिसस रिरिगगरिरि गगममगग ममपपमम पपधधपप
धधनिनिधध ४
युग्ममेकान्तरितयोस्त्यक्तादप्येवमेव चेत् ६०
द्विर्द्विः प्रयुज्येत तदा विधूतो बुधसंमतः ।
सगसग रिमरिम गपगप मधमध पनिपनि ५
कलायामाद्ययोर्युग्मं चेत्तृतीयद्वितीययोः ६१
द्विर्द्विः प्रयुज्यते तज्ज्ञैरुपलोलस्तदोच्यते ।
सरिसरिगरिगरि रिगरिगमगमग गमगमपमपम
मपमपधपधप पधपधनिधनिध ६
द्विर्गीत्वाऽऽद्यं तृतीयं च प्रथमं च तृतीयकम् ६२
सकृद्गायेद्यत्कलायां तमुल्लासितमूचिरे ।
ससगसग रिरिमरिम गगपगप ममधमध पपनिपनि ७
इति प्रसिद्धालङ्कारास्त्रिषष्टिरुदिता मया ६३
अनन्तत्वात्तु ते शास्त्रे न सामस्त्येन कीर्तिताः ।
रक्तिलाभः स्वरज्ञानं वर्णाङ्गानां विचित्रता ६४
इति प्रयोजनान्याहुरलङ्कारनिरूपणे ।
इति प्रथमे स्वरगताध्याये षष्ठं वर्णालङ्कारप्रकरणम् ६
अथ सप्तमं जातिप्रकरणम्
शुद्धाः स्युर्जातयः सप्त ताः षड्जादिस्वराभिधाः ।
षड्ज्यार्षभी च गान्धारी मध्यमा पञ्चमी तथा १
धैवती चाथ नैषादी शुद्धतालक्ष्म कथ्यते ।
यासाम् नामस्वरो न्यासोऽपन्यासोऽशो ग्रहस्तथा २
तारन्यासविहीनास्ताः पूर्णाः शुद्धाभिधा मताः ।
विकृता न्यासवर्जैतल्लक्ष्महीना भवन्त्यभूः ३
सम्पूर्णत्वग्रहांशापन्यासेष्वेकैकवर्जनात् ।
भवन्ति भेदाश्चत्वारो द्वयोस्त्यागे तु षण्मताः ४
त्यागे त्रयाणां चत्वार एकस्त्यक्ते चतुष्टये ।
भेदाः पञ्चदशैवेते षड्ज्याः सद्भिर्निरूपिताः ५
तत्राष्टौ पूर्णताहीनाः सप्त त्वितरवर्जिताः ।
द्विधा स्युः पूर्णताहीनाः षडवौडुवभेदतः ६
अतोऽष्टावधिका आर्षभ्यादिष्वौडुवजातिषु ।
अतस्त्रयोविंशतिधा षट्सु प्रत्येकमीरिताः ७
विकृतानां तु संसर्गाज्जाता एकादश स्मृताः ।
स्यात्षड्जकैशिकी षड्जोदीच्यवाषड्जमध्यमा ८
गान्धारोदीच्यवा रक्तगान्धारी कैशिकी तथा ।
मध्यमोदीच्यवा कार्मारवी गान्धारपञ्चमी ९
तथाऽऽन्ध्री नन्दयन्तीति तद्धेतूनधुना ब्रुवे ।
षाड्जीगान्धारिकायोगाज्जायते षड्जकैशिकी १०
षाड्जिकामध्यमाभ्यां तु जायते षड्जमध्यमा ।
गान्धारीपञ्चमीभ्यां तु जाता गान्धारपञ्चमी ११
गान्धार्यार्षभिकाभ्यां तु जातिरान्ध्री प्रजायते ।
षाड्जी गान्धारिका तद्वद्धैवती मिलितास्त्विमाः १२
षड्जोदीच्यवतीं जातिं कुर्युः कार्मारवीं पुनः ।
उत्पादयन्ति नैषादीपञ्चम्यार्षभिका युताः १३
नन्दयन्तीं तु गान्धारीपञ्चम्यार्षभिका युताः ।
गान्धारी धैवती षड्जी मध्यमेति युतास्त्विमाः १४
गान्धारोदीच्यवां कुर्युर्मध्यमोदीच्यवां पुनः ।
एता एव विना षड्ज्या पञ्चम्या सह कुर्वते १५
कुर्युस्ता रक्तगान्धारॐ नैषादी च न धैवती ।
आर्षभीं धैवतीं त्यक्त्वा पञ्चभ्यः कैशिकी भवेत् १६
चतस्रः षड्जशब्दिन्यो नैषादी धैवती तथा ।
आर्षभो चेति सप्तैताः षड्जग्रामस्य जातयः १७
शेषाः स्युर्मध्यमग्रामे पूर्णत्वाद्यधुनोच्यते ।
कार्मारव्यथ गान्धारपञ्चमी षड्जकैशिकी १८
मध्यमोदीच्यवेत्येता नित्यपूर्णाः प्रकीर्तिताः ।
षड्जी च नन्दयन्त्यान्ध्री गान्धारोदीच्यवेत्यमूः १९
सम्पूर्णषाडवाः प्राह चतस्रः काश्यपो मुनिः ।
दशावशिष्टाः सम्पूर्णषाडवौडुविता मताः २०
पञ्चमीमध्यमाषड्जमध्यमाख्यासु जातिषु ।
स्वरसाधारणं प्रोक्तं मुनिभिर्भरतादिभिः २१
अंशेषु समपेष्वेतद्यथास्वनियमाद्भवेत् ।
एतदल्पनिगास्वाहुः कम्बलाश्चतरादयः २२
अल्पद्विश्रुतिके रागभाषादावपि तन्मतम् ।
निगयोरंशयोः षड्जमध्यमायां न तद्भवेत् २३
विकृता एव तत्रापि स्वरसाधारणाश्रयाः ।
एकांशा नन्दयन्ती च मध्यमोदीच्यवा तथा २४
गान्धारपञ्चमीत्येतास्तिस्रो द्व्यंशास्तु धैवती ।
गान्धारोदीच्यवा वाथ पञ्चमीत्युदिता इमाः २५
नैषाद्यार्षभिकाषड्जकैशिक्यस्त्र्यंशिका मताः ।
आन्ध्रोकार्मारवीषड्जोदीच्यवाश्चतुरंशिकाः २६
पञ्चांशा रक्तगान्धारी गान्धारी मध्यमा तथा ।
षाड्जीत्येताश्चतस्रः स्युः षडंशैकैव कैशिकी २७
सप्तांशा सूरिभिः षड्जमध्यमा परिकीर्तिता ।
इति त्रिषष्टिरंशाः स्युर्जातिष्वष्टादशस्विमे २८
ग्रहांशतारमन्द्राश्च न्यासापन्यासकौ तथा ।
अपि संन्यासविन्यासौ बहुत्वं चाल्पता ततः २९
एतान्यन्तरमार्गेण सह लक्ष्माणि जातिषु ।
षाडवोडुविते क्वापीत्येवमाहुस्त्रयोदश ३०
गीतादिनिहितस्तत्र स्वरो ग्रह इतीरितः ।
तत्रांशग्रहयोरन्यतरोक्तावुभयग्रहः ३१
यो रक्तिव्यञ्जको गेये यत्संवाद्यनुवादिनौ ।
विदार्यां बहुलौ यस्मात्तारमन्द्रव्यवस्थितिः ३२
यः स्वयं यस्य संवादी चानुवादी स्वरोऽपरः ।
न्यासापन्यासविन्याससंन्यासग्रहतां गतः ३३
प्रयोगे बहुलः स स्याद्वाद्यंशो योग्यतावशात् ।
बहुलत्वं प्रयोगेषु व्यापकं त्वंशलक्षणम् ३४
मध्यमे सप्तकेंऽशः स्यात्तस्मात्तारस्थितात्परान् ।
स्वरांश्चतुर आरोहेदेष तारावधिः परः ३५
अर्वाक्तु कामचारः स्यात्तारे लुप्तोऽपि गण्यते ।
आतारषड्जमारोहो नन्दयन्त्यां प्रकीर्तितः ३६
मध्यस्थानस्थितादंशादामन्द्रस्थांशमाव्रजेत् ।
आमन्द्रन्यासमथवा तदधःस्थरिधावपि ३७
एषा मन्द्रगतेः सीमा ततोऽर्वाक्कामचारिता ।
गीते समाप्तिकृन्न्यास एकविंशतिधा च सः ३८
षाड्ज्यादीनां तु सप्तानां न्यासः स्यान्नामकृत्स्वरः ।
द्वौ नामकारिणौ षड्जमध्यमायां तु तौ मतौ ३९
उदीच्यवात्रयं मान्तं निपगान्ता तु कैशिकी ।
कार्मारवी पञ्चमान्ता गान्ताः पञ्चापराः स्मृताः ४०
अपन्यासस्वरः स स्याद्यो विदारीसमापकः ।
कार्मारव्यां च नैषाद्यामान्ध्रीमध्यमयोस्तथा ४१
आर्षभ्यां च स्वरा येंऽशास्तेऽपन्यासाः प्रकीर्तिताः ।
उदीच्यवानां त्रितयेऽपन्यासौ षड्जधैवतौ ४२
मध्यमो रक्तगान्धार्यां गान्धार्यां षड्जपञ्चमौ ।
सनिपाः षड्जकैशिक्यां पञ्चम्यां निरिपाः स्मृताः ४३
रिपौ गान्धारपञ्चम्यां षड्ज्यां गान्धारपञ्चमौ ।
धैवत्यां रिमधाः प्रोक्ता नन्दयन्त्यां मपौ मतौ ४४
रिवर्ज्याः षट् च कैशिक्यां सप्तापीत्यूचिरे परे ।
सप्तस्वरापन्यासां तु भाषन्ते षड्जमध्यमाम् ४५
अत्र येंऽशा अपन्यासास्ते स्युरेकोनविंशतिः ।
सप्तत्रिंशत्परे ते च षट्पञ्चाशत्तु संयुताः ४६
कैशिक्यां सप्तपक्षे तान्सप्तपञ्चाशतं विदुः ।
अंशाविवादी गीतस्याद्यविदारीसमाप्तिकृत् ४७
संन्यासॐऽशाविवाद्येव विन्यासः स तु कथ्यते ।
यो विदारीभागरूपपदप्रान्तेऽवतिष्ठते ४८
अलङ्घनात्तथाऽभ्यासाद्बहुत्वं द्विविधं मतम् ।
पर्यायांशे स्थितं तच्च वादिसंवादिनोरपि ४९
अल्पत्वं च द्विधा प्रोक्तमनभ्यासाच्च लङ्खनात् ।
अनभ्यासस्त्वनंशेषु प्रायो लोप्येष्वपोष्यते ५०
ईषत्स्पर्शो लङ्घने स्यात्प्रायस्तल्लोप्यगोचरम् ।
उशन्ति तदनंशेऽपि क्वचिद्गीतविशारदाः ५१
न्यासादिस्थानमुज्झित्वा मध्ये मध्येऽल्पतायुजाम् ।
स्वराणां या विचित्रस्वकारिण्यंशादिसंगतिः ५२
अनभ्यासैः क्वचित्क्वापि लङ्घनैरेव केवलैः ।
कृता साऽन्तरमार्गः स्यात्प्रायो विकृतजातिषु ५३
षडवन्ति प्रयोगं ये स्वरास्ते षडवा मताः ।
षट्स्वरं तेषु जातत्वाद्गीतं षाडवमुच्यते ५४
वान्ति यान्त्युडवोऽत्रेति व्योमोक्तमुडुवं बुधैः ।
पञ्चमं तच्च भूतेषु पञ्चसंख्या तदुद्भवा ५५
औडुवी साऽस्ति येषां च स्वरास्ते त्वौडुवा मताः ।
ते संजाता यत्र गीते तदौडुवितमुच्यते ५६
तत्सम्बन्धादौडुवं च पञ्चस्वरमिदं विदुः ।
क्रमादल्पाल्पतरते षाडवौडुवकारिणोः ५७
सम्पूर्णत्वदशायां स्तः पञ्चम्यां तु विपर्ययः ।
वचनं विधिरप्राप्ताविहाल्पत्वबहुत्वयोः ५८
परिसंख्या द्वयोः प्राप्तावेकस्यातिशयाय यत् ।
अथ प्रत्येकमेतासां जातीनां लक्ष्म कथ्यते ५९
षाड्ज्यामंशाः स्वराः पञ्च निषादर्षभवर्जिताः ।
निलोपात्षाडवं सोऽत्र पूर्णत्वे काकली क्वचित् ६०
सगयोः सधयोश्चात्र संगतिर्बहुलस्तु गः ।
गान्धारेंऽशे न नेर्लोपो मूर्च्छना धैवतादिका ६१
त्रिधा तालः पञ्चपाणिरत्र चैककलादिकः ।
क्रमान्मार्गाश्चित्रवृत्तिदक्षिणा गीतयः पुनः ६२
मागधी संभाविता च पृथुलेति क्रमादिमाः ।
नैष्क्रामिकध्रुवायां च प्रथमे प्रेक्षणे स्मृतः ६३
विनियोगो द्वादशात्र कला अष्टलघुः कला ।
अस्यां षाड्ज्यां षड्जो न्यासः । गान्धारपञ्चमावपन्यासौ ।
वराटी दृश्यते । अस्याः प्रस्तारः
षाड्जी
१०
११
१२
तं भवललाटनयनाम्बुजाधिकं नगसूनुप्रणयकेलिसमुद्भवम् ।
सरसकृततिलकपङ्कानुलेपनं प्रणमामि कामदेहेन्धनानलम् ॥
आर्षभ्यां तु त्रयॐऽशाः स्युर्निषादर्षभधैवताः ६४
द्विश्रुत्योः संगतिः शेषैर्लङ्घनं पञ्चमस्य च ।
षाडवं षड्जलोपेन सपलोपादिहौडुवम् ६५
मूर्च्छना पञ्चमादिश्च तालश्चच्चत्पुटो मतः ।
अष्टौ कला भवन्तीह विनियोगस्तु पूर्ववत् ६६
अस्यामार्षभ्यामृषभो न्यासः । अंशा एवापन्यासाः । देशोमधुकयौ
दृश्येते । अस्याः प्रस्तारः
आर्षभी
री गा सा रिग मा रिम गा रिरि १
गु ण लो ०
च ना ०
धि
री री निध निध गा रिम मा पनि २
क म न ०
न्त म म र
मा धा नी धा पा पा सा गा ३
म ज र म ०
क्ष य
नी धनि री गरि सध॑ गरि री री ४
म जे ०
यं ०
री मा गरि सधं सस रि रिग मम ५
प्र ण ०
मा ०
मि दिव्य
निध पा री री रिप गरि सधं सा ६
म णि द ०
र्प णा ०
रिस रिस रिग रिग मा मा मा गरि ७
ल नि के ०
तं ०
पा नि री मा गरि तधं गरि गरि ८
भ व म मे ०
यं
मुणलोचनाधिकमनन्तममरमजरमक्षयमजेयम् ।
प्रणमामि दिव्यमणिदर्पणामलनिकेतं भवममेयम् ॥
पञ्चांशा रिधवर्ज्याः स्युर्गान्धार्यां संगतिः पुनः ।
न्यासांशाम्यां तदन्येषां त्रैदतादृषभं व्रजेत् ६७
रिलोपरिधलोपाभ्यां षाडवौडुविते क्रमात् ।
पञ्चमः षाडवद्वेषी निसमध्यमपञ्चमाः ६८
अंशा द्विषन्त्यौडुवितं कलाः षोडश कीर्तिताः ।
मूर्च्छना धैवतादिः स्यात्तालश्चच्चत्पुटो मतः ६९
विनियोगो ध्रुवागाने तृतीयप्रेक्षणे भवेत् ।
अस्यां गान्धार्यां गान्धारो न्यासः । पड्जपञ्चमावपन्यासौ ।
गान्धारपञ्चमदेशीवेलावल्यो दृश्यन्ते । अस्याः प्रस्तारः --
गान्धारी ३
गा गा सा नीं सा गा गा गा १
ए ०
तं ०
गा गम पा पा धप मा निध निस॑ २
र ज नि व धू ०
मु ख
निध पनि मा मपरि गा गा गा गा ३
वि ०
भ्र म ०
दं ०
गा गम पा पा धप मा निध निस॑ ४
नि शा म य व रो ०
रु
निध पनि मा मपरि मा गा मा सा ५
त व मु ख वि ला ०
गा सा गा गा गा गम गा गा ६
व पु श्चा रु ०
म म ल
गा गम पा पा धप मा निध निस॑ ७
मृ दु कि र ण ०
निध पनि मा मपरि गा गा गा गा ८
म मृ त भ वं ०
री गा मा पध री गा सा सा ९
र ज त गि रि शि ख र
नीं नीं नीं नीं नीं नीं नीं नीं १०
म णि श क ल शं ०
गा गम पा पा धप मा निध निस॑ ११
व र यु व ति दं ०
निध पनि मा मपरि गा गा गा गा १२
पं ०
क्ति नि भं ०
नी नी पा नो गा मा गा सा
प्र ण मा ०
मि प्र ण य
गा सा गा गा गा गम गा गा १४
र ति क ल ह र व नु
गा पा मा मा निध निस॑ निध पनि
दं ०
मा परिग गा गा गा गा गा गा
श शि ०
नं ०
एतं रजनिवधूमुखविभ्रमदं निशामय वरोरु
भवमुस्रविलासवपुश्चारुममलमृदुकिरणममृतभवम् ।
रजतगिरिशिखरमणिशकलशङ्खवरयुवतिदन्तपङ्क्तिनिभं
प्रणमामि प्रणयरतिकलहरवनुदं शशिनम् ॥
पञ्चांशा मध्यमायां स्युरगान्धारनिषादकाः ७०
षड्जमध्यमबाहुल्यं गान्धारोऽल्पोऽत्र षाडवम् ।
गलोपान्निगलोपेन त्वौडुवं स्यात्कलाष्टकम् ७१
ऋषभादिर्मूर्च्छना स्यात्तालश्चच्चत्पुटो मतः ।
विनियोगो ध्रुवागाने द्वितीयप्रेक्षणे भवेत् ७२
अस्यां मध्यमायां मध्यमो न्यासः । अंशा एवापन्यासाः ।
चोक्षषाडवदेश्यान्धाल्यो दृश्यन्ते । अस्याः प्रस्तारः--
मध्यमा ४
मा मा मा मा पा धनि नी धप १
पा ०
तु भ व मू ०
मा पम मा सा मा गा री री २
र्ध जा ०
न न ०
पा मा रिम गम मा मा मा मा ३
कि री ट ०
मा॑ निष निस॑ निध पम पघ मा मा
म णि द ०
र्प ०
णं ०
नीं नीं री री नीं री री पा
गौ ं! री ०
क र प ०
नीं मप मा मा सा सा सा सा ६
ल्ल वां ०
गु लि ०
सु
ग॑ नी सा॑ गा॑ धप मा धनि सा॑ ७
ते ०
जि तं
पा सा॑ पा निधप मा मा मा मा
सु कि र ०
णं ०
पातु भवमूर्धजाननकिरीटमणिदर्पणम् ।
गौरीकरपल्लवाङ्गुलिसुतेजितं सुकिरनम् ४
रिपावंशौ तु पञ्चम्यां सगमाः स्वल्पका मताः ।
रिमयोः संगतिर्गच्छेत्पूर्णत्वे गान्निषादकम् ७३
क्रमाद्गेन निगाभ्यां च षाडवौडुवता मता ।
ऋषभॐऽशस्त्वौडुवितं द्वेष्ट्यष्टौ च कला मताः ७४
मुर्च्छनादि तु पूर्वावत्प्रेक्षणं तु तृतीयकम् ।
अस्यां पञ्चम्यां पञ्चमो न्यासः । ऋषभपञ्चममिषादा
अपन्पासाः । चोक्षपञ्चमदेश्यान्षाल्यो दृश्यन्ते । अस्याः प्रस्तारः--
पञ्चमी ५
पा धनि नी नी मा नी मा पा १
ह रं मू ०
र्घ जा ०
गा गा सा सा मां मां पां पां २
नं म हे ०
श म म र
पां पां धां नीं नीं नी गा सा ३
प ति बा ०
हु स्तं ०
पा मा धा नी निध पा पा पा ४
न म नं ०
तं ०
पा पा री॑ री॑ री॑ री॑ री॑ री॑ ५
प्र ण मा ०
मि पु रु ष
मां निंग सा सध नी नीं नी नी ६
मु ख प द्म ०
ल ०
क्ष्मी
सा॑ सा॑ सा॑ मा पा पा पा पा
ह र मं ०
बि का ०
धा मा धा नी पा पा पा पा
ति म जे ०
यं ०
हरं मूर्धजाननं महेशममरपतिबाहुस्तम्भनमनन्तम् ।
तं प्रणमामि पुरुषमुखपद्मलक्ष्मीहरमम्बिकापतिमजेमम् ॥
स्तो धैवत्यां रिधावंशौ लङ्घ्यावारोहिणौ सपौ ७५
पलोपात्षाडवं प्रोक्तमौडुवं सपलोपतः ।
ऋषभादिर्मूर्च्छना स्यात्तालो मार्गश्च गीतयः ७६
विनियोगश्च षाड्जीवत्कला द्वादश कीर्तिताः ।
अस्यां धैवत्यां धैवतो न्यासः । ऋषभमध्यमधैवता अपन्यासाः ।
चोक्षकैशिकदेशीसिंहल्यो दृश्यन्ते । अस्याः प्रस्तारः--
धैवती ६
धा धा निध पध मा मा मा मा
त रु णा ०
म लें ०
दु
धा धा निध निस॑ सा॑ सा॑ सा॑ सा॑ २
म णि भू ०
षि ता ०
सध धा पा मध धा निध धनि धा ३
ल शि रो ०
जं ०
सा सा रिग रिग सा रिग सा सा ४
भु ज गा ०
धि पै ०
धां धां नीं पां धां पां मां मां ५
कुं ०
ड ल वि ला ०
घां धां पां मंधं धां निंधं धंनिं धां
कृ त शो ०
भं ०
धा धा निस॑ निस॑ निध पा पा पा
न ग सू ०
नु ल ०
क्ष्मी
रिग सा सा सा नीं नीं नीं नीं ८
दे हा ०
र्ध मि ०
श्रि
सा रिग रिग सा नीं सा धां धां ९
त श री ०
रं ०
रीं गंरिं मंगं मां मां मां मां मां १०
प्र ण मा ०
मि भू ०
नी नी धा धा पा रिग सा रिग ११
गी ०
तो ०
प हा ०
पा धा सा मा धा नी धा धा १२
प रि तु ०
ष्टं ०
तरुणामलेन्दुमणिभूषितामलशिरोजं
भुजगाधिपैककुण्डलविलासकृतशोभम् ।
नगसूनुलक्ष्मीदेहार्धमिश्रितशरीरं
प्रणमामि भूतगीतोपहारपरितुष्टम् ॥
नैषाद्यां निरिगा अंशा अनंशाबहुलाः स्मृताः ७७
षाडवौडुवलङ्घ्याः स्युः पूर्वावद्विनियोजनम् ।
चच्चत्पुटः षोडशात्र कला गादिश्च मूर्च्छना ७८
अस्यां नैषाद्यां निषादो न्यासः । अंशा एवापन्यासाः । चोक्ष-
साधारितदेशीवेलावल्यो दृश्यन्ते । अस्याः प्रस्तारः--
नैषादी ७
नी नी नी नी सा॑ धा नी नी १
तं ०
सु र वं ०
दि त
पा मा सा धां नीं नीं नीं नीं २
म हि ष म हा ०
सु र
सा सा गा गा नी नी धा नी
म थ न मु मा ०
प तिं
सा॑ सा॑ धा नी नी नी नी नी
भो ०
ग यु तं ०
सा सा गा गा मां मां मां मां ५
न ग सु त का ०
मि नी
नीं पां धां पां मां मां मां मां ६
दि ०
व्य वि शे ०
ष क
री॑ गा॑ सा॑ सा॑ री॑ गा॑ नी नी ७
सू ०
च क शु भ न ख
नी नी पा धनि नी नी नी नी
द ०
र्प ण कं ०
सा सा गा सा मा मा मा मा ९
अ हि मु ख म णि ख चि
मां मां मां मां नीं धां मां मां १०
तो ०
ज्ज्व ल नू ०
पु र
धा धा नी नी री गा मां मां ११
बा ल ०
भु जं ग ०
मां मां पां धां नीं नीं नीं नीं १२
र व क लि तं
पां पां नीं नीं री री री री १३
द्रु त म भि व्र जा ०
मि
री मा मा मा री गा सा सा १४
श र ण म निं ०
दि त
धा मा री गा सा धा नी नी १५
पा ०
द यु ग पं ०
पा॑ मा॑ री॑ गा॑ नी नी नी नी
ज वि ला ०
सं ०
तं सुरवन्दितमहिषमहासुरमथनमुमापतिं भोगयुतं
नगसुतकामिनीदिव्यविशेषकसूचकशुभनखदर्पणकम् ।
अहिमुखमणिखचितोज्ज्वलनूपुरबालभुजंगमरवकलितं
द्रुतमभिव्रजामि शरणमनिन्दितपादयुगपङ्कजविलासम् ७
अंशाः स्युः षड्जकैशिक्यां षड्जगान्धारपञ्चमाः ।
ऋषभे मध्यमेऽल्पत्वं धनिषादौ मनाग्बहू ७९
चच्चत्पुटः षोडशास्यां कलाः स्युर्विनियोजनम् ।
प्रावेशिक्यां ध्रुवायां स्यात्प्रेक्षणे तु द्वितीयके ८०
अस्यां षड्जकैशिक्यां गान्धारो न्यासः । षड्जनिषादपञ्चमा
अपन्यासाः । प्रागुक्ता गान्धारपञ्चमहिन्दोलकदेशीवेलावल्यो दृश्यन्ते ।
अस्याः प्रस्तारः --
षड्जकैशिकी
सा सा मां पां गरि मग मा मा १
दे ०
मा मा मा मा सां सां सां सां २
वं ०
धा धा पा पा धा धा री रिम
अ स क ल श शि ति ल
री री नीं नीं नीं नीं नीं नीं ४
कं ०
धा धा पा धनि मा मा पा पा ५
द्वि र द ग तिं ०
धा धा पा धनि धा धा पा पा ६
नि पु ण प्र तिं ०
सा सा सा सा सा सा सा सा ७
मु ०
ग्ध ०
मु खां ०
बु
धा धा पा धा धनि धा धा धा ८
रु ह दि ०
व्य कां ०
तिं
सा सा सा रिग सा रिग धा धा ९
ह र मं ०
बु दो ०
मा धा पा पा धा धा नी नी १०
धि नि ना ०
दं ०
री री गा सा सां सां सां गां ११
अ च ल व र सू ०
नु
धां रिंसं रीं संरिं रीं सां सां सां १२
दे ०
हा ०
र्ध मि ०
श्रि
सा सरि री सरि री सा सा सा १३
त श री ०
रं ०
मा मा मा मा निध पध मा मा १४
प्र ण मा ०
मि तम हं ०
नी नी पा पम पा पम पध रिग १५
अ नु प म मु ख क म
गा गा गा गा गा गा गा गा १६
लं ०
देवमसकलशशितिलकं द्विरदगतिं
निपुणमतिं मुग्धमुखाम्बुरुहदिव्यकान्तिम् ।
हरमम्बुदोदधिनिनादमचलवरसूनुदेहार्धमिश्रितशरीरं
प्रणमामि तमहमनुपममुखकमलम् ॥
अंशाः समनिधाः षड्जोदीच्यवायां प्रकीर्तिताः ।
मिथश्च संगतास्ते स्युर्मन्द्रगान्धारभूरिता ८१
षड्जर्षभौ भूरितारौ रिलोपात्षाडवं मतम् ।
औडुवं रिपलोपेन धैवतेंऽशे न षाडवम् ८२
षाड्जीवद्गीतितालादि गान्धारादिश्च मूर्च्छना ।
द्वितीये प्रेक्षणे गाने ध्रुवायां विनियोजनम् ८३
अस्यां षड्जोदीच्यवायां मध्यमो न्यासः । षड्जधैवतावपन्यासौ ।
अस्याः प्रस्तारः--
षड्जोदीच्यवा ९
सा सा सा सा मां मां गां गां १
शै ०
ले ०
गा मा पा मा गा मा मा धा २
श ०
सू ०
नु
सा सा मा गा पा पा नी धा ३
शै ०
ले ०
श सू ०
नु
धा नी सा सा धा नी पा मा ४
प्र ण य ०
प्र सं ०
गां सा सा सा सा सा सा गां ५
स वि ला ०
स खे ०
धा धा पा धा पा नी धा धा ६
न वि नो ०
दं ०
सा गां गां गां गां गां सा सा ७
अ ०
धि ०
क ०
नी धा पा धा पा धा धा धा ८
मु ०
र्खे ०
दु
सा॑ सा॑ मा गा पा पा नी धा ९
अ धि क ०
मु र्खे ०
दु
धा नी सा॑ सा॑ धा नी पा मा १०
न य नं ०
न मा ०
मि
गां सा सा सा सा सा सा गां ११
दे ०
वा ०
सु रे ०
धा धा पा धा मा॑ मा॑ मा॑ मा॑ १२
त व रु चि रं
शैलेऽक्षराभ्यां प्रथमा द्वितीया तु शसूनुना ।
तैः पञ्चभिस्तृतीया स्यात्सप्तमी त्वधिकाक्षरैः ८४
मुखेन्दुनाऽष्टमी त्वस्यां षड्भिस्तैर्नवमी कला ।
शैलेशसूनुप्रणयप्रसङ्गसविलासखेलनविनोदम् ।
अधिकमुखेन्दुनयनं नमामि देवासुरेश तव रुचिरम् ॥
अंशाः सप्त स्वराः षड्जमध्यमायां मिथश्च ते ८५
संगच्छन्ते निरल्पॐऽशाद्गादृते वादितां विना ।
निलोपनिगलोपाभ्यां षाडवौडुविते मते ८६
षाडवौडुवयोः स्यातां दिश्रुती तु विरोधिनौ ।
गीतितालकलाऽऽदीनि षाड्जीवन्मूर्च्छना पुनः ८७
मध्यमादिरिह ज्ञेया पूर्वावद्विनियोजनम् ।
अस्यां षड्जमध्यमायां षड्जमध्यमौ न्यासौ । सप्त स्वरा
अपन्यासाः । अस्याः प्रस्तारः--
षड्जमघ्यमा १०
मा गा सग पा धप मा निध निम १
र ज नि व धू ०
मु ख
मा॑ मा॑ सा॑ रिंग॑ म॑ग॑ निध पध पा
वि ला ०
स लो ०
मा गा री गा मा मा सा सा ३
नं ०
मा मगम मा मा निध पध पम गमम ४
प्र वि क सि त कु मु द
धा पध परि रिग मग रिग सधस सा ५
द ल फे न सं ०
नि
निध सा री मगम मा मा मा मा ६
भं ०
मां मां मंगंमं मंधं धंपं पंधं पंमं गंमंगं ७
का ०
मि ज न न य न
धा पध परि रिग मग रिग सधस ता ८
हृ द या भि नं ०
दि
मा मा धनि धस धप मप पा पा ९
नं ०
मां मंगंमं मां निंधं पंधं पंमंगं गां मां १०
प्र ण मा ०
मि दे वं ०
धा पध परि रिग मग रिग सधस सा ११
कु मु दा धि वा ०
सि
निध सा री मगम मा मा मा मा १२
नं ०
रजनिवधूमुखविलासलोचनं
प्रविकसितकुमुददलफेनसंनिभम् ।
कामिजननयनहृदयाभिनन्दिनं
प्रणमामि देवं कुमुदाधिवासिनम् ॥
गान्धारोदीच्यवायां तु द्वावंशौ षड्जमध्यमौ ८८
रिलोपात्षाडवं ज्ञेयं पूर्णत्वेंऽशेतराल्पता ।
अल्पा निधपगान्धाराः षाडवत्वे प्रकीर्तिताः ८९
रिधयोः संगतिर्ज्ञेया धैवतादिश्च मूर्च्छना ।
तालश्चच्चत्पुटो ज्ञेयः कलाः षोडश कीर्तिताः ९०
विनियोगो ध्रुवागाने चतुर्थप्रेक्षणे मतः ।
अस्यां गान्धारोदीच्यवायां मध्यमो न्यासः । षड्जधैवताव-
पन्यासौ । अस्याः प्रस्तारः--
गान्धारोदीच्यवा ११
सा सा पा मा पा धप पा मा १
सौ ०
धा पा मा मा सा सा सा सा २
भ्य
धा नी सा सा मा मा पा पा ३
गौ ०
री ०
मु खां ०
बु
नी नी नी नी नी नी नी नी ४
रु ह दि ०
व्य ति ल क
मा मा धा निस नी नी नी नी ५
प रि चुं ०
बि ता ०
र्चि
मा पा मा परिग गा गा सा सा ६
त सु पा ०
दं ०
गा भग पा पध मा धनि पा पा ७
प्र वि क सि त हे ०
री गा सा सध नी नी धा धा ८
क म ल नि भं ०
गा रिग सा सनि गा रिग सा सा ९
अ ति रु चि र कां ०
ति
सा सा सा मा मनि धनि नी नी १०
न ख द ०
र्प णा ०
मा॑ पा॑ मा॑ प॑रि॑ग॑ गा॑ गा॑ सा॑ सा॑ ११
ल नि के ०
तं ०
गा॑ सा॑ गा॑ सा॑ मा॑ पा॑ मा॑ प॑रि॑ग॑ १२
भ न सि ज श री र
गा॑ मा॑ गा॑ सा॑ गा॑ गा॑ गा॑ सा॑ १३
ता ०
ड नं ०
नी॑ नी॑ पा॑ धा॑ नी॑ गा॑ गा॑ गा॑ १४
प्र ण मा ०
मि गौ ०
री
नी॑ नी॑ धा॑ पा॑ धा॑ पा॑ मा॑ पा॑ १५
च र ण यु ग म नु प
धा॑ पा॑ सा॑ सा॑ मा॑ मा॑ मा॑ मा॑ १६
मं ०
सौम्यगौरीमुखाम्बुरुहदिव्यतिलकपरिचुम्बितार्चितसुपादं
प्रविकसितहेमकमलनिभम् ।
अतिरुचिरकान्तिनखदर्पणामलनिकेतं
मनसिजशरीरताडनं प्रणमामि गौरीचरणयुगमनुपमम् ॥
अंशाः स्यू रक्तगान्धार्यां पञ्च धर्षभवर्जिताः ९१
रिमतिक्रम्य सगयोः कार्ये संनिधिमेलने ।
रिलोपरिधलोपाभ्यां षाडवौडुवमिष्यते ९२
बहुत्वं निधयोरंशः पञ्चमो द्वेष्टि षाडवम् ।
द्विषन्त्यौडुवितं षड्जनिमपाः संगतौ सगौ ९३
पञ्चपाण्यादि षाड्जीवदृषभादिस्तु मूर्च्छना ।
तृतीयप्रेक्षणगतध्रुवायां विनियोजनम् ९४
अस्यां रक्तगान्धार्यां गान्धारो न्यासः । मध्यमोऽपन्यासः । अस्याः
प्रस्तारः
रक्तगान्धारी १२
पा नी सा सा गा सा पा नी १
तं ०
बा ०
ल र ज नि
सा॑ सा॑ पा पा मा मा गा गा २
क र ति ल क भू ०
मा पा धा पा मा पा धप मग
ण वि भू ०
मा मा मा मा मा मा मा मा
तिं ०
धां नीं पां मंपं धां नीं पां पां ५
मां पां मां धंनिं पां पां पां पां ६
री गा मा पा पा पा मा पा
प्र ण मा ०
मि गौ ०
री
री गा॑ मा॑ पा॑ पा॑ पा॑ मा॑ पा॑ ८
व द ना ०
र विं ०
पा पा पा पा शा पा पा पा ९
री गा सा सा री गा गा गा १०
प्री ०
ति क रं ०
गा॑ गा पा॑ ध॑म॑ धा॑ नि॑ध॑ पा॑ पा॑ ११
मा॑ पा॑ मा॑ प॑रि॑ग॑ गा॑ ग॑ गा॑ गा॑ १२
तं बालरजनिकरतिलकभूषणविभूतिम् ।
प्रणमामि गौरीवदनारविन्दप्रीतिकरम् ॥
कैशिक्यामृषभान्येंऽशा निधावंशौ यदा तदा ।
न्यासः पञ्चम एव स्यादन्यदा द्विश्रुती मतौ ९५
अन्ये तु निगपान्न्यासान्निधयोरंशयोर्विदुः ।
रिलोपरिधलोपेन षाडवौडुवितं मतम् ९६
रिरल्पो निपबाहुल्यमंशानां संगतिर्मिथः ।
षाडवौडुविते द्विष्टः क्रमात्पञ्चमधैवतौ ९७
षाड्जीवत्पञ्चपाण्यादि गान्धारादिस्तु मुर्च्छना ।
पञ्चमप्रेक्षणगतध्रुवायां विनियोजनम् ९८
अस्यां कैशिक्यां गान्धारपञ्चमनिषादा न्यासाः । रिवर्ज्याः षट्
सप्त वा स्वरा अपन्यासाः । अस्याः प्रस्तारः--
कैशिकी १३
पा धनि पा धनि गा गा गा गा १
के ०
ली ०
ह ०
त ०
पा पा मा निध निध पा पा पा २
का ०
म त नु ०
धा नी सा॑ सा री री री री ३
वि ०
भ्र म वि ला ०
सं
सा सा सा री गा मा मा मा ४
ति ल क यु तं ०
मां धां नीं धां मां धां मां पां ५
मू ०
र्धो ०
र्ध्व वा ०
गा री सा धनि री री री री ६
सो ०
म नि भं ०
गा री सा सा धा धा मा मा ७
मु ख क म लं ०
गा गा गा मा मा निधनि नी नी ८
अ स म ०
हा ०
ट ०
गा गा नी नी गा गा गा गा ९
क स रो ०
जं ०
गा॑ गा॑ नी॑ नी॑ नी॑ध॑ पा॑ पा॑ पा॑ १०
हृ दि सु ख दं ०
मा॑ पा॑ मा॑ पा॑ पा॑ पा॑ मा॑ मा॑ ११
प्र ण मा ०
मि लो च ०
सा॑ मा॑ गा॑ नि॑ध॑नि॑ नी॑ नी॑ मा॑ गा॑ १२
न वि शे ०
षं ०
केलीहतकामतनुविभ्रमविलासं तिलकयुतं मूर्धोर्ध्वबालसोमनिभम् ।
मुखकमलमसमहाटकसरोजं हृदि सुखदं प्रणमामि लोचनविशेषम् ॥
पञ्चमांशा सदा पूर्णा मध्यमोदीच्यवा मता ।
लक्ष्म शेषं विजानीयाद् गान्धारोदीच्यवागतम् ९९
मूर्च्छना मध्यमादिः स्यात्तालश्चच्चत्पुटो मतः ।
चतुर्थस्य प्रेक्षणस्य ध्रुवायां विनियोजनम् १००
अस्यां मध्यमोदीच्यवायां मध्यमो न्यासः । अस्याः प्रस्तारः --
मध्यमोदीच्यवा १४
पा धनि नी नी मा पा नी पा १
दे ०
हा ०
र्ध रू ०
री री री गा सा रिग गा गा २
म ति कां ०
ति म म ल
नी नी नी नी नी नी नी नी ३
म म लें ०
दु कं ०
नी नी घप मा निध निध पा पा ४
कु मु द नि भं ०
पा पा री री री री री री ५
चा ०
मी ०
क रां ०
बु
मा रिग सा सधं नीं नीं नीं नीं ६
रु ह दि ०
व्य कां ति
मा पा नी सा पा पा गा गा ७
प्र व र ग ण पू ०
जि
गा पां मां निंधं नीं नीं सा सा ८
त म जे ०
यं ०
पां पां मां धंनिं पां पां पां पां
सु रा भि ष्टु त म नि ल
मां पां मां रिग गा गा गा गा १०
म नो ज ०
व ०
मं बु
गा पा मा पा नी नी नी नी ११
दो ०
द धि नि ना ०
मा पा मा परिग गा गा गा गा १२
म ति हा ०
सं ०
गा गा॑ गा॑ गा॑ मा॑ नि॑ध॑ नी॑ नी॑
शि वं शां ०
त म सु र
नी नी धप मा निध निध पा पा १४
च मू म थ नं ०
री गा॑ सा॑ सा॑ मा॑ नि॑ध॑नि॑ नी॑ नी॑
वं ०
दे ०
त्रै लो क्य ०
नी॑ नी॑ धा॑ पा धा॑ पा॑ मा॑ मा॑ १६
न त च र णं ०
देहार्धरूपमतिकान्तिममलममलेन्दुकुन्दकुमुदनिभं
चामीकराम्बुरुहदिव्यकान्तिप्रवरगणपूजितमजेयम् ।
सुराभिष्टुतमनिलमनोजवमम्बुदोदधिनिनादमतिहासं
शिवं शान्तमसुरचमूमथनं वन्दे त्रैलोक्यनतचरणम् ॥
कार्मारव्यां भवन्त्यंशा निषादरिपधैवताः ।
बहवोऽन्तरमार्गत्वादनंशाः परिकीर्तिताः १०१
गान्धारोऽत्यन्तबहुलः सर्वांशस्वरसंगतिः ।
चच्चत्पुटः षोडशात्र कलाः षड्जादिमूर्च्छना १०२
पञ्चमस्य प्रेक्षणस्य ध्रुवायां विनियोजनम् ।
अस्यां कार्मारव्यां पञ्चमो न्यासः । अंशा एवापन्यासाः । अस्याः
प्रस्तारः--
कार्मारवी १५
री री री री री री री री १
तं ०
स्था ०
णु ल लि त
मा गा सा गा सा नी नी नी २
वा ०
मां ०
ग स ०
क्त
नीं मां नीं मां पां पां गा गा ३
म ति ते ०
जः प्र स र
गा पा मा पा नी नी नी नी ४
सौ ०
धां ०
शु कां ०
ति
री॑ गा॑ सा॑ नी॑ री॑ गा॑ री॑ मा॑
फ णि प ति मु खं ०
री गा री सा नी धनि पा पा ६
उ रो वि पु ल सा ०
मा॑ पा मा॑ त॑रि॑ग॑ गा गा गा गा ७
र नि के ०
तं ०
री री गा सम मा मा पा पा ८
सि त पं ०
न गें ०
द्र
मा पा मा परिग ग गा गा गा ९
म ति कां ०
तं ०
धा नी पा मा धा नी सा सा १०
ष ०
ण्मु ख वि नो ०
मी नी नी नी नी नी नी नी ११
क र प ०
ल्ल वां ०
गु
मां मां धां नीं सनिनि धा पा पा
लि वि ला ०
स की ०
मा पा मा परिग गा गा गा गा १३
न वि नो ०
दं ०
नी नी पा धनि गा गा गा गा १४
प्र ण मा ०
मि दे ०
सा॑ री॑ गा॑ सा॑ नी॑ नी॑ नी॑ नी॑ १५
य ०
ज्ञो ०
प वी ०
नी॑ नी॑ धा॑ धा॑ पा॑ पा॑ पा॑ पा॑ १५
कं ०
तं स्थाणुललितवामाङ्गसक्तमतितेजः-प्रसरसौधांशुकान्ति-फणिपति-
मुखमुरोविपुलसागरनिकेतं सितपन्नगेन्द्रमतिकान्तम् ।
षण्मुखविनोदकरपल्लवाङ्गुलिविलासकीलनविनोदं
प्रणमामि देवयज्ञोपवीतकम् ॥
अंशो गान्धारपञ्चम्यां पञ्चमः संगतिः पुनः १०३
कर्तव्याऽत्रापि गान्धारीपञ्चम्योरिव भूरिभिः ।
चच्चत्पुटः षोडशात्र कला गादिश्च मूर्च्छना १०४
तुर्यप्रेक्षणसम्बन्धिध्रुवागाने नियोजनम् ।
अस्यां गान्धारपञ्चम्यां गान्धारो न्यासः । ऋषभपञ्चमावपन्यासौ ।
अस्याः प्रस्तारः--
गान्धारपञ्चमी १६
पा मप मध नी धप मा धा नी १
कां ०
सनिनि धा पा पा पा पा पा पा २
तं ०
धा नी सा सा मा मा पा पा ३
वा ०
मै ०
क दे ०
नी नी नी नी नी नी नी नी ४
प्रें ०
खो ०
ल मा ०
नी नी धप मा निध निध पा पा ५
क म ल नि भं ०
पा पा री री री री री री ६
व र सु र भि कु सु म
मा रिग सा सध नी नी नी नी ७
गं ०
धा ०
धि वा ०
सि
नी नी सा॑ रि॑स॑ री॑ री। री॑ री॑ ८
त म नो ०
ज्ञ ०
नी गा सा निग सा नीं नीं नीं ९
न ग रा ०
ज सू ०
नु
नीं मां नीं मां पां पां गा गा १०
र ति रा ०
ग र भ स
गा पां मां पां नीं नीं नीं नीं ११
के ०
ली ०
कु च ०
ग्र
मा पा मा परिग गा गा गा गा १२
ह ली लं ०
तं ०
नीं नीं पां धां नीं गा गा गा १३
प्र ण मा ०
मि दे ०
वं
नीं नीं नीं नीं नीं नीं नीं नीं १४
चं ०
द्रा ०
र्ध मं ०
डि
मां मां धां नीं सनिनि धा पा पा १५
त वि ला ०
सकी ल ०
मा पा मा परिग गा गा गा गा १६
न वि नो ०
दं ०
कान्तं वामैकदेशप्रएङ्खोलमानकमलनिभं वरसुरभिकुसुमगन्धाधि-
वासितमनोज्ञनगराजसूनुरतिरागरभसकेलीकुचग्रहलीलम् ।
तं प्रणमामि देवं चन्दार्धमण्डितविलासकीलनविनोदम् ॥
आन्ध्र्यामंशा निरिगपा रिगयोर्निधयोस्तया १०५
संगतिर्न्यासपर्यन्तमंशानुक्रमतो व्रजेत् ।
षाडवं षड्जलोपेन मध्यमादिस्तु मूर्च्छना १०६
पूर्वावत्तु कलातालविनियोगाः प्रकीर्तिताः ।
अस्यामान्ध्र्यां गान्धारो न्यासः । अंशा एवापन्यासाः । अस्याः
प्रस्तारः--
आन्ध्री १७
गा री री री री री री री
त रु णें ०
दु कु सु म
री गा री गा री री री री २
ख चि त ज टं ०
री री गा गा री री मा मा ३
त्रि दि व न दी स लि ल
री गा सा धनि नीं नीं नीं नीं ४
धौ ०
त मु खं ०
नीं री नीं रीं धंनिं धंनिं पां पां ५
न ग सू ०
नु प्र ण यं
मां पां मां रिग गा गा गा गा ६
वे ०
द नि धिं ०
री री गा सस मा मा पा पा ७
प रि णा ०
हि तु हि न
मां पां मां रिग गा गा गा गा ८
शै ०
ल गृ हं ०
धां नीं गा गा गा गा गा गा ९
अ मृ त भ वं ०
पा पा मा रिग गा गा गा गा १०
गु ण र हि तं ०
नी नी नी नी री री री री ११
त म व नि र वि श शि
री री गा नी सा सा नी नी १२
ज्व ल न ज ल प व न
पा॑ पा॑ मा॑ रि॑ग॑ गा॑ गा॑ गा॑ गा॑ १३
ग ग न त नुं ०
री॑ री। गा॑ स॑म॑ मा॑ मा॑ पा॑ पा॑ १४
श र णं ०
व्र जा ०
मि
मा॑ मा॑ नीं नीं सा॑ री॑ गा॑ पा॑ १५
शु भ म ति कृ त नि ल
रि॑ग॑ गा॑ गा॑ गा॑ गा॑ गा॑ गा॑ गा॑ १६
यं ०
तरुणेन्दुकुसुमखचितजटं त्रिदिवनदीसलिलधौतमुखं
नगसूनुप्रणयं वेदनिधिं परिणाहितुहिनशैलगृहम् ।
अमृतभवं गुणरहितं तमवनिरविशशिज्वलनजलपवनगगनतनुं
शरणं व्रजामि शुभमतिकृतनिलयम् ॥
नन्दयन्त्यां पञ्चमॐऽशो गान्धारस्तु ग्रहः स्मृतः १०७
कैश्चित्तु पञ्चमः प्रोक्तो ग्रहोऽस्यां गीतवेदिभिः ।
मन्द्रर्षभस्य बाहुल्यं षाडवं षड्जलोपतः १०८
हृष्यका मूर्च्छना तालः पूर्वावद् द्विगुणाः कलाः ।
विनियोगो ध्रुवागाने प्रथमप्रेक्षणे भवेत् १०९
अस्यां नन्दयन्त्यां गान्धारो न्यासः । मध्यमपञ्चमावपन्यासौ
अस्याः प्रस्तारः--
नन्दयन्ती १८
गा गा गा गा पा पा धप मा १
सौ ०
धा धा धा धा धा नी सनिनि धा २
पां पां पां पां पां पां पां पां ३
म्यं ०
धां नीं मां पां गां गां गां गां
वे ०
दां ०
ग वे ०
मा री गा गा गा गा गा गा ५
क र क म ल यो ०
निं
मा मा पा पा धा निध पा पा ६
त मो र जो वि व ०
धा नी मा पा गा गा गा गा ७
र्जि तं ०
गम पा पा पा मा मा गा गा ८
हरं ०
धा नी मा पा गा गा गा गा ९
भ व ह र क म ल गृ
मा मा मा मा मा मा मा मा १०
हं ०
री गा मा पा पम पा पा नी ११
शि वं शां ०
तं सं ०
नि
रीं रीं रीं रीं पां पां मां मां १२
वे ०
श न म पू ०
र्वं
धां नीं सनिंनिं धां पां पां पां पां १३
भू ष ०
ण ली ०
लं
धां नीं मां पां गां गां गां गां १४
उ र गे ०
श भो ०
गा पा पा पा धा मा गा मा १५
भा ०
सु र शु भ पृ थु
धा धा नी धा पा पा पा पा १६
लं ०
री गा मा पा पम पा पा नी १७
अ च ल प ति सू नु
रीं रीं रीं रीं पां पां पां पां १८
क र पं ०
क जा ०
पा पा पा पा धा मा मा मा १९
ल वि ला ०
स की ०
नीं पां गां गमं गां गां गां गां २०
न वि नो ०
दं ०
रीं रीं गां गां मां मां मां मां २१
स्फ टि क म णि र ज त
नी पा नी मा नी धा पा पा २२
सि त न व दु कू ०
सा॑ सा॑ धनि धा पा पा पा पा २३
क्षी ०
रोद ०
सा ०
मा पा मा परिग गा गा सा॑ सा॑ २४
र नि का ०
शं ०
री री गा गा मा मा पा पा २५
अ ज शि रः क पा ०
री री री गा मा रिग मा मा २६
पृ थु भा ०
ज ०
नं
मा नी पा नी गा गा गा गा २७
वं ०
दे ०
सु ख ०
दं
मा मा पा पा धा धनि निध मा २८
ह र दे ०
ह म म ल
धा धा सा नी धा नी पा पा २९
म धु सू ०
द न ०
सु
री॑ री॑ री॑ री॑ मा पा धा मा ३०
ते ०
जो ०
धि क ०
सु
नी नी नी नी धा पा मा मा ३१
ग ति यो ०
मा परिग गा गा गा गा गा गा ३२
निं ०
सौम्यं वेदाङ्गवेदकरकमलयोनिं तमोरजोविवर्जितं हरं
भवहरकमलगृहं शिवं शान्तं सन्निवेशनमपूर्वं
भूषणलीलमुरगेशभोगभासुरशुभपृथुलम् ।
अचलपतिसूनुकरपङ्कजामलविलासकीलनविनोदं
स्फटिकमणिरजतसितनवदुकूलक्षीरोदसागरनिकाशम् ।
अजशिरःकपालपृथुभाजनं वन्दे सुखदं
हरवेहममलमधुसूदनसुतेजोऽधिकसुगतियोनिम् ॥
अनुक्ताविह तालः स्यात्त्रिधैवैककलादिकः ।
मार्गाः क्रमाच्चित्रवृत्तिदक्षिणा गीतयः पुनः ११०
मागधी संभाविता च पृथुलेत्युविताः क्रमात् ।
योक्तास्माभिः कलासंख्या सा दक्षिणपथे स्थिता १११
वार्त्तिके द्विगुणा ज्ञेया सैव चित्रे चतुर्गुणा ।
सर्वजातिषु जानीयादंशस्वरगतं रसम् ११२
दृश्यन्ते जन्यरागांशास्तज्ज्ञैर्जनकजातिषु ।
ब्रह्मप्रोक्तपदैः सम्यक्प्रागुक्ताः शङ्करस्तुतो ११३
अपि ब्रह्महणं पापाज्जातयः प्रपुनन्त्यमूः ।
ऋचो यजूंषि सामानि क्रियन्ते नान्यथा यथा ११४
तथा सामसमुद्भूता जातयो वेदसंमिताः ।
इति प्रथमे स्वराध्याये जातिलक्षणाख्यं सप्तमं प्रकरणं समाप्तम् ७
अथाष्टमं गीतिप्रकरणम्
शुद्धजातिसमुद्भूतकपालान्यधुना ब्रुवे ।
रागा जनकजातीनां तत्कपालेषु संमिताः १
षड्जो ग्रहॐऽशोऽपन्यासो गो न्यासोऽतिबहू गनी ।
अल्पा रिपनिधा लङ्घ्यो रिः कला द्वादशोदिताः २
यस्मिन्षाड्जीकपालं तद् गदितं गीतवेदिभिः ।
यत्रर्षभॐऽशोऽपन्यासो मोऽन्तो गनिपधाल्पता ३
सोऽत्यल्पोऽष्टकलं तत्स्यात्कपालं त्वार्षभीगतम् ।
मध्यमॐऽशो ग्रहो न्यासोऽपन्यासो धैवतो बहुः ४
यत्राल्पाः सरिगा लोपाद्रिपयोरौडुवं भवेत् ।
तद्गान्धारीकपालं स्यात्कलाष्टकविनिर्मितम् ५
मध्यमॐऽशो निरिगपाः स्वल्पा यत्र कला नव ।
तन्मध्यमाकपालं स्यादिति निःशङ्कसम्मतम् ६
ऋषभांशं सग्रहं च निधषड्जगमाल्पकम् ।
कपालं पञ्चमीजातिजातमष्टकलं विदुः ७
अत्यल्पर्षभगान्धारं पन्यासं मधभूरि च ।
षाड्ज्या इव कपालं तद्धैवत्याः सकलाष्टकम् ८
ग्रहांशन्यासषड्जं च रिगाल्पमतिभूरिभिः ।
निधमैरष्टकलकं स्यान्नैषादीकपालकम् ९
इति सप्त कपालानि गायन्ब्रह्मोदितैः पदैः ।
स्वरैश्च पार्वतीकान्तस्तुतौ कल्याणभाग्भवेत् १०
यत्र ग्रहॐऽशोऽपन्यासः पञ्चमो बहुलस्तु रिः ।
सो न्यासो मधगान्धारास्त्वल्पास्तत्कम्बलं मतम् ११
पञ्चमीजातिसञ्जातमल्पताबहुतावशात् ।
स्वराणां बहवो भेदास्तस्य पूर्वैरुदीरिताः १२
प्रीतः कम्बलगानेन कम्बलाय वरं ददौ ।
पुरा पुरारिरद्यापि प्रीयते तैरतः शिवः १३
कपालानां क्रमाद्ब्रूमो ब्रह्मप्रोक्तां पदावलीम् ।
झण्टुं झण्टुं १
खट्वाङ्गधरं २
दंष्ट्राकरालं ३
तडित्सदृशजिह्वं ४
हौ हौ हौ हौ हौ हौ हौ हौ ५
बहुरूपवदनं
धनघोरनादं ६
हौ हौ हौ हौ हौ हौ हौ हौ ७
ऊँ ऊँ ह्रां
रौं हौं हौं हौं हौं ८
नृमुण्डमण्डितम् ९
हूं हूं कह कह हूं हूं १०
कृतविकटमुखम् ११
नमामि देवं भैरवम् १२
इति षाड्जीकपालपदानि १
झण्टुं झण्टुं खट्वाङ्गधरम् १
दंष्ट्राकरालम् २
तडित्सदृशजिह्वम् ३
हौ हौ हौ हौ हौ हौ हौ हौ ४
वरसुरभिकुसुम ५
चर्चितगात्रम् ६
कपालहस्तम् ७
नमामि देवम् ८
इत्यार्षभीकपालपदानि २
चलत्तरङ्ग १
भङ्गुरम् २
अनेकरेणु ३
पिञ्जरंसु ४
रासुरैः सुसेवितं पु ५
नातु जाह्न ६
वीजलम् मां बिन्दुभिः ८
इति गान्धारीकपालपदानि ३
शूलकपालः १
पाणित्रिपुरविनाशि २
शशाङ्कधारिणम् ३
त्रिनयनत्रिशूलम् ४
सततमुमया सहि ५
तं वरदम् ६
हौ हौ हौ हौ हौ हौ हौ हौ ७
हौ हौ हौ हौ हौ हौ हौ हौ ८
नैमि महादेवम् ९
इति मध्यमाकपालपदानि ४
जय विषमनयन १
मदनतनुदहन २
वरवृषभगमन ३
त्रिपुरवहन ४
नतसकलभुवन ५
सितकमलवदन ६
भव मे भयहरण ७
भवशरणम् ८
इति पञ्चमीकपालपदानि ५
अग्निज्वाला १
शिखावली २
मांसशोणित ३
भोजिनि । सर्वाहारि ५
णि निर्मांसे ६
चर्ममुण्डे ७
नमोऽस्तु ते ८
इति धैवतीकपालपदानि ६
सरसग चर्मपटम् १
भीमभुजंगमानद्धजटम् २
कह-
कहहुंकृतिविकृतमुखम् ३
नम तं शिवं हरमजितम् ४
चण्ड-
तुण्डमजेयम् ५
कपालमण्डितमुकुटम् ६
कामदर्पविध्वंसकरम् ७
नम तं हरं परमशिवम् ८
इति नैषादीकपालपदानि ७
इति सप्त कपालपदानि ॥
वर्णाद्यलङ्कृता गानक्रिया पदलयान्विता १४
गीतिरित्युच्यते सा च बुधैरुक्ता चतुर्विधा ।
मागधी प्रथमा ज्ञेया द्वितीया चार्धमागधी १५
संभाविता च पृथुलेत्येतासां लक्ष्म चक्ष्महे ।
गीत्वा कलायामाद्यायां विलम्बितलयं पदम् १६
द्वितीयायां मध्यलयं तत्पदान्तरसंयुतम् ।
सतृतीयपदे ते च तृतीयस्यां द्रुते लये १७
इति त्रिरावृत्तपदां मागधॐ जगदुर्बुधाः ।
यथा-
मा गा मा धा
दे ०
वं ०
धनि धनि सनि धा
दे वं रु द्रं
रिग रिग मग रिस
देवं रुद्रं वं दे
पूर्वयोः पदयोरर्धे चरमे द्विर्यदोदिते १८
तदाऽर्धमागधीं प्राहुः
यथा--
मा री गा सा
दे ०
वं ०
सा सा धा नी
वं रु द्रं ०
पा धा पा मा
द्रं वं दे ०
द्विरावृत्तपदां परे ।
यथा--
मा मा मा मा
दे ०
वं ०
धा सा धा नी
दे वं रु द्रं
पा निध मा मा
रु द्रं वं दे
संक्षेपितपदा भूरिगुरुः संभाविता मता १९
यथा--
धा मा मा रि ग
भ ०
क्त्या ०
री गा सा सा
दे ०
वं ०
नी धा सा नी
रु ०
द्रं ०
धा नी मा मा
वं ०
दे ०
भूरिलघ्वक्षरपदा पृथुला संमता सताम् ।
यथा--
मा गा री गा
सु र न त
सा धनि धा धा
ह र प द
धा सा धा नी
यु ग लं ०
पा निधप मा मा
प्र ण म त
यद्वा यथाक्षरे युग्मे गुर्वोः प्रथमयोर्यदा २०
एकैकं चित्रमार्गादि प्रयुज्य चगणात्मकम् ।
मात्राभिरष्टभिर्युक्तं दक्षिणे ध्रुवकादिभिः २१
प्रयुज्यते तदा गीतिर्मागधीत्यभिधीयते ।
तृतीयं लघु युग्मस्य च्छगणार्धयुतं यदा २२
आद्याम्यामन्तिमाभ्यां च मात्राभ्यां संप्रयुज्यते ।
ततः प्लुतं सार्धगणयुक्तं कृत्वा प्रयुज्यते २३
ध्रुवकादिभिरष्टाभिर्द्विरुक्तान्त्यद्वयेन च ।
तदार्धमागधी ते द्वे तद्वत्तालान्तरेष्वपि २४
संभाविता भूरिगुरुर्द्विकले वार्तिके पथि ।
चतुष्कले भूरिलघुर्दक्षिणे पृथुला मता २५
इति प्रथमे स्वरगताध्यायेऽष्टमं गीतिप्रकरणम् ८
इति श्रीमदनवद्य-विद्याविनोद-श्रीकरणाधिपति-श्रीसोढलदेवनन्दननिःशङ्कश्रीशार्ङ्गदेवविरचिते संगीतरत्नाकरे स्वरगताध्यायः प्रथमः ।