सत्यसिद्धिशास्त्रम् भागः-२

सत्यसिद्धिशास्त्रम् भागः-२
[[लेखकः :|]]

१०१ दुश्चरितवर्गः

भगवानाह- त्रीणि दुश्चरितानि कायदुश्चरितं वाग्दुश्चरितं मनोदुश्चरितमिति । कायाभिसंस्कृतमकुशलं कायदुश्चरितम् । तत्द्विविधम् (१) एकं दशाकुशलकर्मपथसङ्गृहीतम् । (
२४३) यथा प्राणातिपातादत्तादानकाममिथ्याचाराः । अपरं तदसङ्गृहीतम् । यथा कशादण्डाधातबन्धनस्वदारगमनादयः अकुशलकर्मपथपूर्वोत्तरदुष्कर्माणि च । (पृ) प्राणातिपातादीनि त्रीण्यकुशलकर्माणि किं केवलकायिककर्मस्वभावानि । (उ) हननपापं हननाकुशलकर्मेत्युच्यते । पापमिदं स्वकायेनापि क्रियते यत्र स्वकायेन सत्त्वान् हन्ति । वाचापि क्रियते यत्न सत्त्वान् हन्तुं परमाज्ञापयति । मनसापि क्रियते यत्कश्चिच्चित्तमुत्पादयति येन परो म्रियते । एवमदत्तादानकाममिथ्याचारपापेऽपि । स्वकृतन्तु पूर्णं पापं लभते । कायाकुशलं कर्म कायात्मकं वागात्मकं वा । कदाचिच्चित्तोत्पादे परो जानाति अनेन प्रत्ययेनापि पापकरं प्राणातिपातादि कुर्यादिति । भूयसा कायकृतत्वात्कायिकं कर्मेत्याख्या । एवं वाङ्मिथ्याचरितमपि । वाचाभिसंस्कृतमकुशलं कर्म वाङ्मिथ्याचरितम् । तस्यापि द्वैविध्यम् । यत्केनचित्प्रश्ने स्थापिते तं पुरत एव वञ्चयति । तदकुशलकर्मपथसङ्गृहीतम् । अन्यत्तदसङ्गृहीतम् । अभिध्याव्यापादमिथ्यादृष्ट्यादयो मानसमिथ्याचरितम् ।

(पृ) दशाकुशलकर्मपथानां कस्मान्मिथ्यादृष्टिरित्याख्या त्रयाणामकुशलमूलानां संमोह इति । (उ) मिथ्यादृष्टिरिति संमोहस्य नामान्तरम् । संमोहविवृद्धि साररूपा मिथ्यादृष्टिः । न पुनः संमोहस्य लक्षणान्तरमस्ति । अभिष्वङ्गविपर्यासमात्रं संमोहः । (पृ) सूत्र उक्तं- सर्वाणि दुश्चरितानि अप्रियविपाककराणि सुचरितानि प्रियविपाककराणीति । प्रियाप्रियलक्षणञ्चानियतम् । यथैकमेव रूपं [कस्यचित्] प्रियं भवति [अन्यस्या] प्रियं भवति । अतस्तल्लक्षणं विवेचनीयं स्यात् । (उ) सुखमेव प्रियलक्षणम् । यथोक्तं सूत्रे- पुण्यविपाकः सुखमिति । दुःखमप्रियलक्षणम् । यथोक्तं सूत्रे- पापात्सञ्जातभीतिका भवथ । दुःखहेतुत्वातिति । (पृ) सुखमेव प्रियलक्षणम् । श्ववराहादयोऽन्नपुरीषेण सुखीभवन्ति । किमिदं पुण्यफलम् । (उ) इदमविशुद्धपुण्यफलम् । यथोक्तं कर्मसूत्रे- यदकाले ददाति अशुचिर्ददाति । लघुचित्तेन कलुषितचित्तेन अक्षेत्रे च ददाति । एवमादिदानेन तद्विपाकं लभत इति ।

(पृ) सम्यक्चरितानि प्रियविपाककराणीति सूत्र उक्त्वा कस्मात्पुनरुच्यते सुचरितप्रत्ययं स्वर्ग उत्पद्यत इति । (उ) मिथ्याचार्यपि स्वर्ग उत्पद्यते । केचिद्वदन्ति स्वर्ग उपपत्तिर्दुश्चरितविपाक इति । अतः सूत्रे पुनरुच्यते सुचरितप्रत्ययं स्वर्ग उपपद्यत इति । दुश्चरितसुचरिते कुशलाकुशलगतिककायं प्रापयतः गृहीतकायस्तत्र सुखं दुःखं वा (
२४४) वेदयते । यथा दुश्चरितप्रत्ययं दुर्गतौ दुःखं वेदयते । सुचरितप्रत्ययं देवेषु मनुष्येषु वा सुखं वेदयते ॥

दुश्चरितवर्ग एकोत्तरशततमः ।


१०२ सुचरितवर्गः

कायकृतं कुशलं कायसुचरितम् । तथा वाङ्मनसोरपि । प्राणातिपाताद्यकुशलकर्मत्रयविरतिः कायसुचरितम् । वाग्दोषचतुष्टयविरतिर्वाक्सुचरितम् । मानसाकुशलत्रयविरतिर्मनस्सुचरितम् । इवास्तिस्रो विरतयः संवरसङ्गृहीताः यदुत शीलध्यानानास्रवसंवराः । यद्वन्दनवस्त्रदानादि कुशलं कायिकं कर्म तत्कायसुचरितम् । यत्सत्यभाषणमृदुभाषणादि तत्वाक्सुचरितम् । अनभिध्यादि मानसं कर्म मनःसुचरितम् । इमानि त्रीणि सु चरितानि ।

(पृ) तीर्थिका ज्ञप्तिं विना प्रातिमोक्षशीलभाजो भवन्ति । ते शीलसंवरं लभन्ते न वा । (उ) तीर्थिकाश्चित्ततः शीलसंवरमुत्पादयन्ति । केचित्वाचापि गृह्णन्ति । अन्येऽपि शीलसंवरसङ्गृहीतं सुचरितं लभन्ते यथा दशवर्षायुष्कस्य पुरुषस्य प्राणातिपातविरतिसमादानाद्विंशतिवर्षायुष्कः पुत्र उत्पद्यते ।

(पृ) सूत्र उक्तं- सुचरितं विशुद्धचरितं व्युपशमचरितमिति । तेषां को भेदः । (उ) आभिधार्मिका आहुः- पृथग्जनानां यत्कायिकं वाचिकं मानसं कुशलं कर्म तत्सुचरितमित्युच्यते । शैक्षाणां संयोजनप्रहाणात्तदेव सुचरितं विशुद्धचरितमित्युच्यते । अशैक्षाणां प्रहीणसंयोजनानां विसंयोजनिकव्यवहारत्वात्[तदेव]व्युपशमचरितम् । अशैक्षा अत्यन्तानुत्पन्नाकुशलकर्मका इत्यतो व्युपशमचरिता इत्युच्यन्ते । यथोक्तं- कायव्युपशमो वाग्व्युपशमो मनोव्युपशम इति । केचिदाहुः- इमानि त्रीणि चरितानि एकस्यैवार्थस्यविभिन्नानि नामानि । किन्तु तद्भव्यतानुरूपत्वात्सम्यगिति शंस्यते । क्लेशैर्विविक्तत्वाद्विशुद्धमिति वदन्ति । सर्वाकुशलविविक्तत्वात्व्युपशम इति । तानि त्रीण्यपि नार्थतो भिन्नानि ।

(
२४५)
(पृ) आभिधर्मिका आहुः- चित्तमेव व्युपशमचरितं न चेतनेति । कथमयमर्थः । (उ) त्रीणि चरितान्यपि चित्तमेव । कस्मात् । चित्तव्यातिरिक्ता नास्ति चेतना । नास्ति च कायवाक्कर्म । (पृ) सूत्र उक्तंं- सुचरितदृष्टिसम्पन्नो देवदृशो वा भवति देवसंख्यातदृशो वा भवति । न सर्वे सुचरिता देवेषूपपद्यन्त इति । कस्मादेवं विनिश्चयः । (उ) देवसंख्यातेति वचनादिदं ज्ञापितम् । सुचरीतशाली यद्यपि नावश्यं देवेषूत्पद्यते तथापि य आर्यबहुमतस्थान उत्पद्यते । स देवसरूप इत्यतो देवसंख्यातदृश इत्युच्यते । सर्वे सुचरितवन्तो देवेषूत्पद्येरन् । केचिदन्यप्रत्ययैर्विनिष्टा नोत्पद्येरन् । यत्सम्यङ्मिथ्याव्यामिश्रं सुचरितं [तत्र] मिथ्याचरितस्य प्राबल्यान्न देवेषूत्पद्यन्ते । यथोक्तं सूत्रे- भगवानानन्दमवोचत्- पश्याम्यहं केचन त्रीणि सुरितानि चरन्तोऽपि दुर्गतावुत्पद्यन्ते । तत्तेषां पूर्वाध्वगतदुश्चरितस्य फलविपाक इति । इदानीं सुचरितस्यापि अपरिपूर्णत्वान्मरण उपस्थिते मिथ्यादृष्टेश्चित्ताभिमुख्याद्दर्गतौ पतन्ति । दुश्चरितशाली सुस्थान उत्पद्यत इतीद मप्येवम् । अतः पृथग्जनत्वमश्रद्धेयम् । प्रबलकर्मवशादुपपत्तिविभेदं वेदयत इति ज्ञातव्यम् ॥

सुचरितवर्गो द्वयुत्तरशततमः ।


१०३ प्रतिसंयुक्तकर्मवर्गः

(पृ) सूत्र उक्तं- त्रिविधं कर्म कामधातुप्रतिसंयुक्तं कर्म रूपधातुप्रतिसंयुक्तं कर्म अरूप्यधातुप्रतिसंयुक्तं कर्मेति । कानीमानि । (उ) यत्कर्म आनरकादाच परनिर्मितवशवर्तिदेवादन्तराले विपाकवेदकं तत्कामधातुप्रतिसंयुक्तं कर्म । आब्रह्मलोकादाकनिष्ठाच्चान्तराले विपाकवेदकं कर्म रूपधातुप्रतिसंयुक्तं कर्म । आकाशानन्त्यायतनादानैवसंज्ञानासंज्ञायतनाच्चान्तराले विपाकवेदकमारूप्यधातुप्रतिसंयुक्तं कर्म । (पृ) अव्याकृतं कर्म अनियतविपाकञ्च कर्म किमेतेषु नान्तर्गतम् । (उ) तत्कर्मविपाकश्च कामधातुप्रतिसंयुक्तः । कस्मात् । तस्य धर्मस्य कामधातुकविपाकत्वात् । (पृ) ननु कामधातुकधर्माः सर्वे तत्कर्मविपाकाः । अतो न युज्यते । (उ) सर्वे च कामधातुकधर्माः कामधातुककर्मविपाका एव । (पृ) तथा चेदिदं तीर्थिकशास्त्रं यदुत सर्वप्रतिसंवेद्यं सुखं दुःखञ्च पूर्वकर्महेतुप्रत्ययं भवतीति । पूर्वकर्मविपाको यदुत कुशलमकुशलं कर्म सविपाकमविपाकमिति व्यवसायगुणस्य नास्ति यत्किञ्चनप्रयोजनम् । यदि सर्वं कर्मविपाकः । कः पुनः प्रयासे गुणः । यस्य (
२४६) क्लेशाः कर्माणि कर्मविपाकाश्च सन्ति तस्य विमुक्तिर्नास्ति । कर्मविपाकस्याक्षीणत्वात् । उच्यते । यदुक्तमिदं तीर्थिकशास्त्रमिति । तदयुक्तम् । तीर्थिका हि वदन्ति सुखं दुःखं परत्वमपरत्वं पूर्वविपाकमात्रमिति । तथा च न स्यात्प्रत्युत्पन्नप्रत्ययापेक्षा । पश्यामस्तु वस्तुतः पदार्थाः प्रत्युत्पन्नेभ्यः प्रत्ययेभ्यः समुत्पद्यन्ते यथा बीजाङ्कुरादय इति । अतो न वक्तव्यं सर्वं पूर्वकर्मप्रत्ययाधीनमिति । हेतुप्रत्ययाभ्यञ्च वस्तून्युत्पद्यन्ते यथा बीजहेतुकाः पृथिव्यबाकाशकालादिप्रत्यया [अड्कुरादयः] । चक्षुर्विज्ञानञ्च
कर्महेतुकं चक्षूरूपादिप्रत्ययम् । अतो न तीर्थिकमिथ्याशास्त्रसाम्यम् । यद्ब्रवीषि पूर्वकर्मविपाक इत्यादि । तदयुक्तम् । प्रत्यक्षं खलु फलात्फलसन्ततिरुत्पद्यत इति । यथा ब्रीहिभ्यो ब्रीहयः । एवं विपाकाद्विपाकोत्पत्तौ को दोषः । यथा अजातपुत्रस्य च चटकचक्रवाकादीनाञ्च कामः, सर्पादिनां कोपः, तत्सर्वं पूर्वकर्मविपाक इति ज्ञेयम् ।

(पृ) यदि विपाकाद्विपाक उत्पद्यते । तदानवस्था स्यात् । (उ) कर्मविपाकास्त्रिविधाः कुशलोऽकुशलोऽव्याकृत इति । कुशलाकुशलाभ्यां विपाक उत्पद्यते नाव्याकृतादित्यतो नानवस्था । यथा ब्रीहिभ्यो व्रीहय उत्पद्यन्ते । तत्र बीजादङ्कुर उत्पद्यते न तु तुषादिभ्यः । एवं कुशलाकुशलविपाकाद्विपाक उत्पद्यते नाव्याकृतविपाकात् । यदुक्तं भवता प्रयासे न गुण इति । यद्यपि कर्मणो विपाक उत्पद्यते । तथापि अवश्यं यथाशक्ति पश्चात्संसिध्यति । यथा सस्यकर्मतः सस्यमुत्पद्यते । तथापि बीजाद्यपेक्ष्य तत्सिध्यति । यदाह भवान्- न विमुक्तिर्भवेदिति । तदप्ययुक्तम् । तत्त्वज्ञानलाभात्कर्माणि क्षीयन्ते । तद्यथा दग्धं बीजं न पुनः प्ररोहति । अतो नास्ति विमुक्तेर्दोषः । किञ्च य उत्पन्ना धर्माः सर्वे ते कर्ममूलकाः । यदि नास्ति कर्ममूलं, कथमुत्पद्येत । धर्माणामुत्पादेऽस्ति प्रतिनियतमङ्गम् । यथायं धर्मो नियमेन एतत्पुरुषकायादुत्पद्यते नान्यकायात् । यदि नास्ति कर्ममूलं, कथमेवं प्रतिनियतविभागः स्यात् ।

(पृ) धर्मा हेतुमात्रजाः । यथा माषान्माष उत्पद्यते । [एवं सति] को दोषः । (उ) तदपि कर्ममूलकम् । माषकर्मप्रत्ययलाभान्माषान्माष उत्पद्यते । केनेदं ज्ञायते । पुरा किल जनाः कुशलमाचरितवन्त इत्यतः शालितण्डुलाः स्वत अजायन्त । अतो ज्ञायते कर्मभूलकत्वात्माषान्माषो जायत इति । (पृ) ननु सत्त्वसंख्यातं वस्तु खलु पूर्वकर्मजम् । (उ) मैवमसत्त्वसंख्यातं वस्त्वपि कर्ममूलकम् । सर्वसत्त्वानां साधारणकर्मविपाको यदुत (
२४७) चङ्क्रमणास्थानकर्मप्रत्ययलाभात्क्षित्यादयो भवन्ति । प्रकाशकर्मप्रत्ययलाभाच्चन्द्रसूर्यादयो भवन्ति इति ज्ञातव्यं जन्यं वस्तु सर्वं कर्ममूलकमिति । (पृ) यदि जन्यधर्माः कर्ममूलकाः । संस्कृतोऽनास्रवः कथम् । (उ) सोऽपि कर्ममूलकः । कस्मात् । सर्वं पूर्वाध्वगतदानशीलादिवलाधीनम् । अतोऽपि कर्मादिसम्भूतम् । (पृ) यद्यनास्रवधर्मोऽपि कर्मसम्भूतः । सोऽपि प्रतिसंयुक्तधर्म इत्याख्या स्यात् । तत्तु न सम्भवति । उक्तं हि सूत्रे- अस्ति अप्रसंयुक्ता वेदेनेति । (उ) अनास्रवधर्मस्तत्त्वज्ञानहेतुकः कर्मप्रत्ययकः । हेतुबलमहिम्ना तु अप्रतिसंयुक्त इत्युच्यते ।

(पृ) किं कर्म कामधातुविपाकवेदकम् । किं रूपधातुविपाकवेदकम् । किमारूप्यधातुविपाकवेदकम् । (उ) यः कामरूपारूप्यधातुषु दशाकुशलकर्माणि समुत्पादयति स कामधातौ विपाकं वेदयते । (पृ) रूपारूप्यधातुगतोऽपि किमकुशलं कर्म समुत्पादयति । (उ) तत्राप्यकुशलं कर्म समुत्पादयति । यथोक्तं सूत्रे- तत्रास्ति मिथ्यादृष्टिरिति । मिथ्यादृष्टिः किं नाकुशला । (पृ) तत्र मिथ्यादृष्टिरव्याकृता नत्वकुशला । (उ) नाव्याकृता । केनैतत्ज्ञायते । उक्तं हि सूत्रे भगवता- मिथ्यादृष्टिर्दुःखक्लेशानां हेतुरिति । मिथ्यादर्शिना समुत्पादितानि कायवाङ्मनस्कर्माणि दुःखविपाकायभिसंस्क्रियन्ते । यथा तिक्तकारवेल्ले विद्यमानानि चत्वारि महाभूतानि सर्वाणि तिक्तरसानि भवन्ति । यथा कामधातौ मिथ्यादृष्टिरकुशला । रूपारूप्यधात्वोरपि तल्लक्षणा अकुशला स्यात् । लक्षणसाम्यात् । यथा बको ब्रह्मा ब्रह्माणमामन्त्रयाह- मोपगच्छ श्रमणं गौतमम् । अस्माल्लोकादुत्तारयाम इति । इदं मनोवागकुशलं रूपधातौ समुत्पन्नम् । अन्येऽपि ब्रह्म [कायिका] देवाः तत्र भवन्तं तादृशं पुरुषं दूषयन्ति । रूपारूप्यधातुगताः पुरुषा वदन्ति- इदमेव निर्वाणमिति । आयुषोऽन्ते कामरूपयोरन्तराभवमेव पश्यन्ति । इतोऽन्यन्निर्वाणं नास्तीति मिथ्यादृष्टिरुत्पन्नेति अनुत्तमधर्मापवादात्कथं नाकुशलम् । अनेन ज्ञातव्यं तत्रास्त्यकुशलं कर्मेति । (पृ) यदि तत्राकुशलं कर्मोत्पादयन्ति । तत्कर्म किंस्थानप्रतिसंयुक्तम् । (उ) यदीदमकुशलं कर्म तदा कामधातौ विपाकं वेदयत इत्यतः कामधातुप्रतिसंयुक्तम् ।

कुशलं कर्मास्ति उत्तमं मध्यममधममिति । अधमं कामधातुवेदनीयविपाकम् । मध्यमं रूपधातुवेदनीयविपाकम् । उत्तममारूप्यधातुवेदनीयविपाकम् । केचिदाहुः- (
२४८) चतुर्थध्यानसङ्गृहीतं कुशलं कर्म रूपधातुवेदनीयविपाकम् । चतुरारूप्यसमाधिसङ्गृहीतमारूप्यवेदनीयविपाकम् । अन्यद्विक्षिप्तचित्तसमुत्पादितं कर्म कामधातुवेदनीयविपाकम् । इति । (पृ) कथं तत्र समुत्पादितं कुशलं कर्म कामधातुवेदनीयविपाकं भवेत् । (उ) यथास्मिन् लोके समाहितचित्तसमुत्पादितकुशलकर्मणस्तत्र विपाकं वेदयते । तथा तत्र विक्षिप्तचित्तसमुत्पादितकुशलकर्मणोऽस्मिन् लोके विपाकं वेदयते । यथा च रूपारूप्यधातुसमुत्पादिताकुशलकर्मणः कामधातौ विपाकं वेदयते । तथा तत्र समुत्पादितकुशलकर्मणोऽपि ।

(पृ) यो रूपारूप्यधातुगतः न स उत्पादयति कामधातुप्रतिसंयुक्तं कुशलं कर्म । (उ) तत्र नास्त्ययं हेतुः यत्कामधातुगतो रूपारूप्य[प्रतिसंयुक्तं] कुशलं कर्मैव समुत्पादयति न रूपारूप्यधातुगतः कामधातुप्रतिसंयुक्तं कुशलं कर्म समुत्पादयति इति । उच्यते च युष्माभिः कामधातुगतः कामधातुकमव्याकृतं चित्तं समुत्पादयतीति । यद्यव्याकृतं चित्तं समुत्पादयति । कस्मान्न कुचलं चित्तम् । सूत्रे भगवान् हस्तकदेवपुत्रमेतदवोचत्- चित्तविहरणे औदारिकवेदनासंज्ञां मनसिकुरु इति । औदारिकसंज्ञा कामधातुप्रतिसंयुक्तं चित्तमेव । अयं कुशलचित्तेन यत्धर्मं शृणोति बुद्धं पूजयति तत्सर्वं कामधातुप्रतिसंयुक्तं चित्तम् । तथा नो चेतौदारिकसंज्ञेति नाख्या स्यात् । तत्रानुस्मृतिप्रार्थना पुण्यवस्तु । यथाह भगवान् त्रिषु वस्तुषु अतृप्तोऽस्मिन् लोके आयुषोऽन्तेऽनवतप्तदेवेषूपपत्स्ये यदुत तथागतं पश्यामि धर्मं शृणोमि सङ्घं सत्करोमीति । [तत्र] अनुस्मृतिप्रार्थना पुण्यवस्तु कामधातुप्रतिसंयुक्तं चित्तम् । तत्रास्ति बुद्धानुस्मृतिः न पुण्यवस्तु । अतो ज्ञेयं कामधातुप्रतिसंयुक्तं कुशलमस्तीति ।

प्रतिसंयुक्तमकर्मवर्गस्त्रयुत्तरशततमः ।


१०४ त्रिविधकर्मविपाकवर्गः

(पृ) सूत्रे भगवानाह- त्रिविधं कर्म दृष्टधर्मवेदनीयविपाकं, उपपद्यवेदनीयविपाकमूर्ध्ववेदनीयविपाकमिति । किमिदम् । यदेतत्कायाभिसंस्कृतं कर्म एतत्काय एव (
२४९) वेद्यते । तद्दृष्टधर्मवेदनीयविपाकम् । यदेतल्लोकाभिसंस्कृतं कर्म समनन्तरलोकमतीत्य वेद्यते तदूर्ध्ववेदनीयविपाकम् । [यत्] समनन्तरलोकातीतं तदूर्ध्वमित्युच्यते । (पृ) अन्तराभविककर्मविपाकः कस्मिन् स्थाने वेद्यते । (उ) स्थानद्वये वेद्यते । समनन्तरान्तराभविकं कर्म उपपद्यविपाकस्थाने वेद्यते । उपपत्तिविशेषस्यैवान्तराभवत्वात् । अन्यान्तराभविकं कर्म ऊर्ध्वविपाकस्थाने वेद्यते । (पृ) किमेतानि त्रीणि कर्माणि नियतविपाकानि नियतकालानि च । (उ) केचिदाहुः- नियतविपाकानीति । दृष्टविपाकं कर्मावश्यं दृष्ट एव वेदनीयविपाकम् । तथान्यत्द्वयमपि । सतोऽपीदृशवचनस्यार्थो न युज्यते । कस्मात् । तथा चेत्पञ्चानन्तर्याणि नियतविपाकानीति न स्यात् । षट्पादाभिधर्मे तूक्तं पञ्चानन्तर्याणि नियतविपाकानीति । लवणपलोपमसूत्रे पुनरुक्तम्- अनियतविपाकानीति यत्किञ्चनास्ति नरकवेदनीयविपाकम् । इहैकत्यः पुद्गलः भावितकायो भवति । भवितशीलो भावितचित्तो भावितप्रज्ञो भवति । तस्य तत्कर्म दृष्टधर्मवेदनीयं भवति । तस्मात्त्रिविधकर्मणां नियतकालतया भाव्यम् । दृष्टधर्मवेदनीयविपाकं कर्म नावश्यं दृष्टधर्म एव वेद्यते । वेद्यते चेत्दृष्टधर्म एव वेदनीयं स्यात्नान्यत्र । एवमन्यत्द्वयमपि ।

(पृ) केन कर्मणा दृष्टधर्मे विपाकं वेदयते । (उ) केचिदाहुः- व्याध्यर्थकर्मणो दृष्टधर्म एव विपाकं वेदयते । यथा तथागत आर्येषु मातापित्रादिषु समुत्पादितं यत्कुशलमकुशलं कर्म तत्दृष्टधर्मवेदनीयविपाकम् । यदनर्थगुरु तदुपपद्यवेदनीयविपाकम् । यथा पञ्चानन्तर्यादीनि । यदर्थ गुरु च तदूर्ध्ववेदनीयविपाकम् । यथा चक्रवर्तिनः कर्म बोधिसत्त्वस्य वा कर्म । केचिदाहुः- त्रिविधकर्मणामेषां यथाप्रणिधानं विपाकं वेदयत इति । यत्कर्म प्रणिदधाति इहैवाध्वनि वेदयेयमिति । तत्दृष्टधर्मवेदनीयम् । यथा मल्लिकादेवी स्वान्नभागदानेन प्रणिदधाति दृष्ट एवाध्वनि राजमहिषी भवेयमिति । एवमन्यत्कर्मद्वयमपि । यथाकर्मपरिपाकं पूर्वं वेदयते । (पृ) अतीतं कर्म कथं परिपच्यते । (उ) गुरुत्वलक्षणसम्पदेव परिपाक इत्युच्यते । (पृ) यस्मिन् क्षणे कर्मोत्पद्यते तत्समनन्तरक्षण एव किं विपाको वेद्यते । (उ) न । क्रमेणैव वेद्यते । यथा बीजात्क्रमेणाङ्कुरः प्ररोहति । कर्मापि तथा ।

(
२५०)
यो गर्भमध्यस्थो ये च मिद्धोन्मत्तादयः ते कर्म सञ्चिन्वन्ति न वा (उ) ते सचेतनाश्चेत्कर्मोपचिन्वन्ति । किन्तु न [ते चेतना] सम्पन्नाः । (पृ) योऽस्यां भूमौ वीतरागः स पृथिवीकर्म करोति न वा । (उ) सात्मचित्ताः सर्वेऽपि तत्कर्मोपचिन्वन्ति । आत्मचित्तविगतास्तु नोपचिन्वन्ति । (पृ) अर्हन्नपि वन्दनकर्माभ्यस्यति । तत्कर्म कस्मान्नोपचिनोति । (उ) यस्मात्सत्त्वचित्तः तस्मात्कर्माण्युपचिनोति । अर्हन्नात्मचित्तविहीन इत्यतः कर्माणि नोपचिनोति । अर्हन्ननास्रवचित्तः । योऽनास्रवचित्तः न स कर्माण्युपचिनोति । उक्तञ्च सूत्रे- प्रहीणपुण्यपापकर्मकोऽर्हन्निति स नोपचिनोति पुण्यकर्माणि अपुण्यकर्माण्यानेञ्ज्यकर्माणि च । अतो वेदनापर्यवसन्नं कर्मेति न नूत्नं कर्माभिसंस्करोति ।

(पृ) शैक्षाः कर्माण्युपचिन्वन्ति न वा । (उ) नोपचिन्वन्ति । कस्मात् । सूत्रे ह्युक्तं- स कर्माणि विध्वस्य न सञ्चिनोति नोपचिनोति निरुद्धं न तथा भवति इत्यादि । आभिधार्मिका वदन्ति- शैक्षाः सास्मिमानत्वात्कर्माण्यप्युपचिन्वन्ति । नैरात्म्यज्ञानबलेन परं नावश्यं वेदयन्ते विपाकमिति ।

(पृ) इमानि कर्माणि कस्मिन् धातावभिसंस्क्रियन्ते । (उ) सर्वत्र त्रिष्वपि धातुषु (पृ) अनियतं कर्म किमस्ति किं वा नास्ति । (उ) अस्ति । यत्कर्म दृष्टधर्मवेदनीयविपाकं वा उपपद्यवेदनीयविपाकं वा तदूर्ध्ववेदनीयविपाकं वा भवति । तद नियतमित्युच्यते । एवं कर्माणि बहूनि ।

(पृ) य इमानि त्रीणि कर्माणि प्रजानाति । तस्य क उपकारो भवति । (उ) य इमानि त्रिविधकर्माणि विवेचयति स सम्यग्दृष्टिमुत्पादयति । कस्मात् । पश्यामः खलु केचिदकुशलचारिणोऽपि प्रभूतं सुखमनुभवति । कुशलचारिणो दुःखम् । उदासीनस्य कदाचिन्मिथ्यादृष्टिर्भवेत्यदुत कुशलस्याकुशलस्य वा नास्ति विपाक इति । यस्तेषां कर्मणां विभागं प्रजानाति । तस्य सम्यग्दृष्टिर्भवति । यथोक्तं गाथायाम्-

पापोऽपि पश्यति भद्राणि यावत्पापं न पच्यते ।
यदा च पच्यते पापमथ पापो पापानि पश्यति ॥
भद्रोऽपि पश्यति पापानि यावद्भद्रं न पच्यते ।
यदा च पच्यते भद्रमथ भद्रो भद्राणि पश्यति ॥

(
२५१)
महाकर्मविभङ्गसूत्रमाह- अविरतप्राणिवधोऽपि स्वर्ग उत्पद्यते । यः पूर्वाध्वनि पुण्यवान् सनायुषोऽन्ते प्रबलकुशलचित्तमुत्पादयति इति । एवं प्रजानन् सम्यग्दृष्टिमुत्पादयति । अत एषां त्रयाणां कर्मणां लक्षणं प्रजानीयात् ॥

त्रिविधकर्मविपाकवर्गश्चतुरुत्तरशततमः ।


१०५ त्रिविधकर्मविपाकवेदनावर्गः

(पृ) सूत्रे भगवानाह- त्रिविधं कर्म सुखविपाकं, दुःखविपाकमदुःखासुखविपाकमिति । किमिदम् । (उ) कुशलं कर्म सुखविपाकप्रापकम् । अकुशलं कर्म दुःखविपाकप्रापकम् । अनेञ्ज्यं कर्म अदुःखासुखविपाकम् । तत्कर्म नावश्यं नियतवेदनम् । यदि वेदना भवति । तदा सुखविपाकं वेदयते । न दुःखविपाकमित्यादि । तथान्यत्द्वयमपि । (पृ) तानि कर्माणि रूपविपाकप्रापकान्यपि भवन्ति । कस्मादुक्तं [सुखादि]वेदनामात्रम् । (उ) विपाकेषु वेदना प्रधाना । वेदनैव वस्तुतो विपाकः । रूपादि तु तत्साधनम् । वेदनाप्रत्ययेषु वेदनेति व्यवहारः । यथोच्यते अग्निर्दुःखमग्निः सुखमिति । हेतौ फलोपचारः यथान्नस्य दाता पञ्चार्थानां दातेति । यथा चान्नं धनमित्यादि । (पृ) कामधातुमारभ्य यावत्तृतीयध्यानं किमदुःखासुखवेदनाविपाको लभ्यते । (उ) लभ्येतैव वेदना । (पृ) कस्य कर्मणो विपाकोऽयम् । (उ) अवरकुशलकर्मणो विपाकः । उत्तमकुशलकर्मणस्तु सुखवेदनाविपाकः । (पृ) तथा चेत्कस्माच्चतुर्थध्यान आरूप्यसमापत्तौ [अदुःखासुखवेदनाविपाक] उच्यते । (उ) स्वभूमिकः सः । कस्मात् । तत्रायमेव विपाकोऽस्ति । न पुनर्विपाकान्तरम् । सूपशान्तत्वात् ।

(
२५२)
केचिदाहुः- दौर्मनस्यं न विपाक इति । कथमिदम् । (उ) कस्मान्न भवति । (पृ) दौर्मनस्यं संज्ञाविकल्पमात्रादुत्पद्यते । [कर्म]

विपाकस्य संज्ञाविकल्पत्वा भावात् । यदि दौर्मनस्यं विपाकः । तदा लघुः स्यात्विपाकः । अतो न विपाकः । दौर्मनस्यं वितरागाणां व्यावर्तते । न विपाको वीतरागाणां व्यावर्तते । अतो दौर्मनस्यं न विपाकः स्यात् । उच्यते । दौर्मनस्यं संज्ञाविकल्पादुत्पद्यत इत्यतो न विपाकः । सुखन्तु विपाक इति ब्रवीषि । द्विविधं सुखम्- सुखं सौमनस्यञ्चेति । तत्र सौमनस्यमपि संज्ञाविकल्पादुत्पद्यत इति न विपाकः स्यात् । भवानाह विपाकस्तर्हि लघुः स्यादिति । दौर्मनस्यमिदं दुःखात्दुःखतरदोषः । कस्मात् । तद्धि मूढानां विद्यते । न तु ज्ञानिनाम् । अतो दुःश्शोधं परमसन्तापकरञ्च । किञ्च चतुश्शतकपरीक्षायामुक्तम्-

अग्र्याणां मानसं दुःखमितरेषां शरीरजमिति ।

तच्च दौर्मनस्यं ज्ञानप्रहेयं कायिकं सुखं दुःखमपि परिहरति । दौर्मनस्य त्रिष्वध्वसु क्लेशं जनयति यदुत पूर्वमहं दुःखी इदानीं दुःखी आयत्याञ्च दुःखीति । दौर्मनस्यं क्लेशानां प्रतिष्ठायतनम् । यथा सूत्रे क्लेशायतनत्वेनाष्टादश मनौपविचारा भवन्ति । पञ्चविज्ञानानां क्लेशाजनकत्वात् । उक्तञ्च सूत्रे- दौर्मनस्यं द्विशल्यरूपमिति । गुरुतरदुःखवेदनाभूतत्वात् । यथा कश्चिदेकत्र गुरुतरद्विशल्यविद्धो दुःखमधिकतरं प्रतिसंवेदयते । यथा च रोगी कश्चित्[रोग]दुःखाभिहतः पुनः कायचित्तपीडनयात्यधिकदौर्मनस्योपायासो भवति । अतो दुःखादधिकतरं [दौर्मनस्यम्] । मूढा नित्यदौर्मनस्याः । कस्मात् । ते हि प्रियविरहविप्रियसमागमप्रार्थितालभादिमत्त्वात्नित्यदौर्मनस्यपीडिताः ।

तद्दौर्मनस्यं द्वाभ्यां कारणाभ्यामुत्पद्यते एकं सौमनस्यादुत्पद्यते । द्वितीयं दौर्मनस्यात् । तदा प्रियवस्तु प्रणश्यति तदा सौमनस्यजं [दौर्मनस्यम्] । यथोक्तं सूत्रे- भगवान् (
२५३) प्रसेनजितं राजानमपृच्छत्- अपि त्वं [महाराज] काशीकोसलेषु प्रियोऽसि इति । उक्तञ्च- देवा रूपासक्ता रूपकामाः रूपे विनष्टे दौर्मनस्यजाता भवन्ति । इति । इदं सौमनस्यादुत्पन्नम् । दौर्मनस्यादुत्पन्नमिति यत्विप्रियवस्तुसमुत्पन्नम् । ईर्ष्यादिभ्योऽपि समुत्पद्यते । अवीतरागस्य ईर्ष्यादिसंयोजनानि सदा चित्तं पीडयन्ति । यथोक्तम्- ईर्ष्यामात्सर्य बहुला देवा इति । बहवश्च सत्त्वा दौर्मनस्यकरं परान् सम्पीडयन्तः सदौर्मनस्यसम्पीडनविपाकं लभन्ते । यथोक्तम्- यथाबीजं फलं प्रवर्तत इति । अतो ज्ञायते दौर्मनस्यं कर्मविपाक इति ।

यदुक्तं भवता- वीतरागाणां व्यावृत्तत्वान्न विपाक इति । तदयुक्तम् । स्रोत आपन्नोऽवीतरागोऽपि व्यावृत्तनरकादिविपाकः । नरकादिविपाको न विपाक इति किं सम्भवेत् । अतो न सम्भवति वीतरागाणां व्यावृत्तमविपाक इति ।

(पृ) अदुःखासुखं कर्म आनेञ्ज्यम् । तत्कर्म कुशलं सत्सुखवेदनीयविपाकं स्यात् । कस्माददुःखासुखवेदनीयविपाकम् । (उ) वेदनेयमानेञ्ज्येति वस्तुतः सुखम् । उपशमरूपत्वाददुःखासुखेत्युच्यते । उक्तञ्च सूत्रे- सुखवेदनायां रागोऽनुशय इति । यत्र रागः तद्वेदनायां [सोऽ]नुशयः । इति ज्ञायत इदं सुखमिति ॥

त्रिविधकर्मविपाकवेदनावर्गः पञ्चोत्तरशततमः ।


१०६ त्रिविधावरणवर्गः

(पृ) सूत्र उक्तं- त्रीण्यावरणानि कर्मावरणं क्लेशावरणं विपाकावरणमिति । कानीमानि । (उ) कर्माणि क्लेशा विपाकाश्च विमुक्तिमार्गमावृण्वन्तीति आवरणानि । (पृ) किमित्यावृण्वन्ति । (उ) दानशीलकुशलाभ्यासस्त्रिषु भवेषु परिवर्तयतीति स मार्गमावृणोति । समापत्तिवेदनीयं कर्माप्यावरणम् । यथोक्तं सूत्रे- योऽयं पुरुषो नितयं समापत्तौ वेदनीयविपाकं कर्मोपचिनोति न स सुपदेऽवतरति इति । इदं कर्मावरणम् । यत्कस्यचित्क्लेशा घनास्तीव्राश्चित्तगताः तत्क्लेशावरणम् । यत्कस्यचित्क्लेशा अनिवार्याः तद्यथा षण्डादीनां कामः । तदपि क्लेशावरणम् । यन्नरकादौ पापाकुशलोपपत्त्यायतने यथोपपत्त्यायनञ्च न मार्गं भावयति । तत्विपाकावरणम् ।

(
२५४)
(पृ) केचित्पूर्वं विद्याविहीनेभ्यः पूर्वपुरुषेभ्यो न प्रजानन्ति इदं कुशलमिति । तदा ते न ददन्ति यत्स यदि मत्तो दानं लब्ध्वा अकुशलानि करोति तदा अहं भागी स्यामिति । यथा ब्राह्मणादयः परिव्राजकाः । अतः परिव्राजको न दद्यात् । नूत्नकर्मणा मार्गप्रतिबन्धात् । (उ) न युक्तमिदम् । नान्यकृतस्य पुण्यं पापमात्मनो भागो भवति । कस्मात् । प्रत्ययानां पुण्यपापवत्त्वे बहून्यवद्यानि सन्ति । किमिति । यथा सत्त्वो वधस्य प्रत्ययः । यदि नास्ति सत्त्वः । कस्य वधः स्यात् । तथा च मृतेन पापिना भाव्यम् । यथा च घनिकश्चौर्यस्य प्रत्ययः । सूरूपं काममिथ्याचारस्य प्रत्ययः । परपुरुषा मृषावादादीनां प्रत्ययाः । कूटमानादयः कुहनायाः प्रत्ययाः इति क्रेतारः पापिनः स्युः । प्रतिग्रहीता दानस्य प्रत्यय इति पुण्यभाक्स्यात् । ये कूपतटाकाद्युपभोक्तारः ते सर्वे पुण्यभाजः स्युः । तथा च स्वस्य पुण्यं न स्यात् । न तत्वस्तुतो युज्यते । अतः प्रत्ययानां न स्यात्पुण्यपापवत्ता ।

[अथ यदि] प्रतिग्रहीतुः स्वपुण्यभागः क्षीयमाणः स्यात् । तदा न कश्चिदन्यस्मात्दानं प्रतिगृह्णीयात् । कस्मात् । स्वपुण्यभागेनान्नपानयोः क्रीयमाणत्वात् । दाता च पापबहुलोऽल्पपुण्यः स्यात् । कस्मात् । कियत्कुशलं ब्राह्मणाः कुर्युरिति । भूयसा ते त्रिविधविषकलुषितचित्ताः पञ्चकामगुणासक्ता न व्यवस्यन्ति कुशलभावनाम् । अतो दाता पापबहुलोऽल्पपुण्यः स्यात् । ब्राह्मणादय आत्मानं सुजनभावितधर्मचय इति कीर्तयन्तो न सम्यक्पश्यन्ति समापत्तिचित्तसमाधानानि धर्मान् । ये ध्यानसमापत्तिविनिर्मुक्ताः ते चित्तदुर्विनेयाः । अतो दाता अवीतरागाय ददन् पापबाहुल्यं लभेत । जनाः पितॄन् पूजयन्तः पुत्रभार्याबन्धून् समाराधयन्तः [यदि] ज्ञात्वा विजानन्ति सर्वे पापं प्रापयेयुरिति । तदा न कोऽपि पुण्यभाक्स्यात् । न तु वस्तुतस्तथा युज्यते । अतः पुण्यं पापञ्च न प्रत्ययगतम् । शीलादिधर्मोपि परेषां हितकरः । प्राणातिपातविरतः सर्वेषां जीवितं प्रयच्छति । शीलधारी तदा महापापभागं लभेत । प्राणातिपातविरत्या पुरोवर्तिजनो जीवितलब्धो यदकुशलं करोति । तत्शीलवतो भागः स्यात् । अतः पुण्यार्थी पुनः प्राणिनं हन्यात्, न शीलं धारयेत् ।

किञ्च कश्चिद्धर्ममुपदिशति । तेन परः पुण्यमभ्यस्यति । पुण्याभ्यासप्रत्ययं पश्चात्प्रभूतघनं लभते । प्रभूतघनेन प्रमत्तो भवति । प्रमत्तः सन् पापानि करोति । तेषां पापानां धर्मभाणको भागी स्यात् । दानप्रत्ययं परो घनिको भवति । घनिकत्वहेतोः कृतानां पापानामपि दाता भागी स्यात् । तथा च ब्राह्मणा न दानं प्रतिगृह्णीयुः । नापि प्रयच्छेयुः । इदानीन्तु ब्राह्मणाः केवलं प्रतिगृह्णन्ति न प्रयच्छन्ति । अतो ज्ञायते स दुष्टः पन्था इति । (
२५५) यथा च राजानो यथाधर्मं प्रजाः पालयन्तः पापिनोऽपि स्युः । यदि पुत्रः पापं करोति । तदा पितरौ भागिनौ स्याताम् । तदा न पुत्रमुत्पादयेताम् । वैद्यश्चिकित्समानोऽपि पापभाक्स्यात् । तच्चिकित्सालब्धजीवितेन पापकरणात् । देवे वर्षति पञ्चसस्यान्यायतानि प्ररोहन्ति । तदा देवः पापभाक्स्यात् । दुष्टसत्त्वानां पोषणपरित्राणकरत्वात् । अन्नदातापि पापभाग्स्यात् । भोक्तुरन्नमजीर्णं कदाचिन्मरणाय भवेत् । अवीतराग आस्वादाभिनिविष्ट इत्यतो दाता पापी स्यात् । तथा च दाता, त्वदन्नं भुक्त्वा नाकुशलं करिष्यामीति भोक्तारं सदा प्रतिज्ञाप्य पश्चाद्दास्यति । तथा नो चेत्दातुरुभयं नश्येत् ।

(पृ) ननु सूत्रेऽप्युक्तम्- यदि भिक्षुर्दानपतेरन्नं भुक्त्वा चीवरञ्च परिधायाप्रमाणसमाधिमुपसम्पद्य विहरति तत्प्रत्ययात्स दानपतिरप्रमाणपुण्यं प्रसूत इति । तत्प्रत्ययेन पुण्यलाभी चेत्कथं न पापभाक्भवति । (उ) यदि स भिक्षुर्दानपतेरन्नं भुक्त्वा चीवरञ्च परिधायाप्रमाणसमाधिमुपसम्पद्य विहरति । तदा दानपतेर्दानपुण्यं स्वत एवाधिकं वर्धते । न तु तत्समाधेः पुण्यभाक्भवति । यथा क्षेत्रस्य सारवत्त्वादायफलं बहु भवति । बन्ध्येऽल्पम् । एवं पुण्यक्षेत्रस्य सारवत्त्वे दानविपाको महान् । वन्ध्ये पुण्यमल्पम् । न तु प्रतिग्रहीतुः पुण्ये पापे वा दाता भागं लभते । अतो न तत्पुण्यपापप्रत्ययेन दाता पुण्यपापभाक्भवति । स यद्यपि प्रत्ययो भवति । तथापि स्वं पुण्यं पापं वा स्वकृतत्रिविधकर्मापेक्ष्य भवति ।

(पृ) अवीतरागस्य चित्तं न स्ववशवर्ति, अवश्यं कामासक्तम् । अतः प्रव्रजितो न दानमाचरेत्[तस्य] । (उ) तथा चेत्प्रव्रजिनः शीलादिन् धृत्वा सपुण्यो भवतीदमुपेक्षितं स्यात् । न वस्तुतस्तत्सम्भवति । अतो दानमपि नोपेक्ष्यम् । त्रिभवानां कृते केबलं नाचरेत् । निर्वाणाय परमाचरेत् । किन्तु क्लेशानकुशलकर्माणि च वर्जयेत् । कस्मात् । तानि हि कर्माणि हेतुकाल एव वार्याणि । फलकाले न कथमपि शक्यते [वारयितुम्] । अतो बुद्धा [भगवन्तो] हेतुकाल एव विनयाय धर्ममुपदिशन्ति । न तु यमराजवत्फलकालेऽपराधमन्यथयेयुः ।

(पृ) त्रिष्वावरणेषु किं गुरुतरम् । (उ) केचिदाहुः- विपाकावरणं गुरुतरमिति । अन्यथयितुमशक्यत्वात् । [अन्ये] केचिदाहुः- पुद्गलानुसरणतः सर्वं गुरुतरम् । (पृ) किं निवर्त्यं भवति । (उ) सर्वं हापयितुं शक्यम् । यन्निवर्त्यं न तदावरणमित्युच्यते ॥

त्रिविधावरणवर्गः षडुत्तरशततमः ।


(
२५६)
१०७ चतुःकर्मवर्गः

(पृ) सूत्रे भगवतोक्तम्- चत्वारीमानि कर्माणि । [कतमानि] । अस्ति कर्म कृष्णं कृष्णविपाकम् । अस्ति कर्म शुक्लं शुक्लविपाकम् । अस्ति कर्म कृष्णशुक्लं कृष्णशुक्लविपाकम् । अस्ति कर्म अकृष्णमशुक्लमकृष्णाशुक्लविपाकम् । कर्म कर्मक्षयाय संवर्तत इति । कानि तानि । (उ) अस्ति कर्म कृष्णं कृष्णविपाकमिति । येन कर्मणा सव्याबाध्ये लोके यथावैवर्तिनरक उपपद्यते । अन्यत्र च सव्याबाध्येऽकुशल विपाकायतने समुपपद्यते यदि वा तिर्यञ्च एकत्याः प्रेता वा । एतद्विपरीतं द्वितीयं कर्म । येन कर्मणा अव्याबाध्ये लोक उपपद्यते यथा रूपारूप्यधात्वोः कामधातौ च देवा मनुष्या एकत्याः । कृष्णशुक्लव्यामिश्रं कर्म तृतीयम् । येन कर्मणा समुत्पद्यते सव्याबाध्येऽव्याबाध्ये च लोके यदि वा तिर्यञ्चः प्रेता देवा मनुष्या एकत्याः । चतुर्थमनास्रवं कर्म त्रीणि कर्माणि क्षपयति ।

यत्कर्मलोकद्वयविगर्हितमिह विगर्हितममुत्र च विगर्हितम् । तत्पापं कर्म पुरुषः कृत्वा तमसि पतितः सन्न यशः श्रुतवान् भवतीति कृष्णमित्युच्यते । इह दुःखममुत्र दुःखमित्यध्वद्वयेऽपि दुःखविषमिति कृष्णम् । (पृ) इदं कर्म किमिति सव्याबाध्यलोकजनकम् । (उ) निमित्तक्रमेणाकुशलं कृत्वा न चित्तं परितपति । अन्तराले चाकुशलव्यावर्तकं कुशलं नास्ति । इदं कर्म सव्याबाध्यलोकजनकम् । मिथ्यादृष्टिचित्तेन हि क्रियन्तेऽकुशलानि । अकुशलक्रिया च गुरुजनेषु यन्मातापितृषु अन्येषु सज्जनेषु च । सत्त्वानामहितं कृत्वा न किञ्चिदपि कृपां करोति । यथा सत्त्वान् हन्ति समस्तं तद्धनं वापहरति । कारागारे वा बध्वा पुनराहारमपि निषेधयति । गुरुतरं वा ताडयति । तेन न भवति सुखान्तरमपि । एवमादि कर्म एकान्तसव्याबाध्यलोकजनकम् ।

शुक्लं शुक्लविपाकं कर्मेति । यः कश्चिदेकान्ततः कुशलान्युपचिनोति । अकुशलवांश्च न भवति । तत्कर्मद्वयातिशयबलं महत्तमम् । नान्यत्तदतिशेते । न कृष्णविपाकं प्रतिसंवेदयतः शुक्लविपाकस्य प्रसङ्गोऽस्ति । नापि शुक्लविपाकं प्रतिसंवेदयतः कृष्णविपाकस्य प्रसङ्गः । कस्मात् । सर्वे सत्त्वाः कुशलमकुशलञ्चोपचिन्वन्ति । कर्मबलस्य परस्परमावरणत्वान्न युगपत्प्रतिसंवेदयन्ते । यथा द्वयोर्मल्लयो बलीयानग्रे विनिपातयति [दुर्बलम्] । तृतीयं कर्म दुर्बलं कुशलाकुशलव्यामिश्रत्वात्तद्विपाकं युगपत्प्रतिसंवेदयते । अन्योन्यं स्पर्धित्वात् ।

(
२५७)
(पृ) केचिदाहुः- यदकुशलं कर्म दुर्गतौ विपाकप्रतिसंवेदकं तदाद्यं कर्म । यद्रूपधातुप्रतिसंयुक्तं कुशलं तत्द्वितीयं कर्म । यत्कामधातुप्रतिसंयुक्तं देवमनुष्येषु व्यामिश्रविपाकप्रतिसंवेदकं तत्तृतीयं कर्म । अनावरणमार्गे सप्तदशशैक्षचेतना चतुर्थं कर्म इति । कथमयमर्थः स्यात् । (उ) भगवान् स्वयमवोचदेषां कर्मणां लक्षणम् । यदुत एकत्यः सव्याबाध्यं कायसंस्कारमभिसंस्करोति, सव्याबाध्यं वाक्संस्कारमभिसंस्करोति, सव्याबाध्यं मनः संस्कारमभिसंस्करोति । स सव्याबाध्यं कायसंस्कारमभिसंस्कृत्य सव्याबाध्यं वाक्संस्कारमभिसंस्कृत्य सव्याबाध्यं मनःसंस्कारमभिसंस्कृत्य सव्याबाध्ये लोके उत्पद्यते । तत्र सव्याबाध्ये लोक उत्पन्नं सन्तं सव्याबाध्याः स्पर्शाः स्पृशन्ति इति । अतो ज्ञायते यत्सत्त्वानां कृष्णदुःखलोकोत्पादकं तदाद्यं कर्मेति । रूपारूप्यधात्वोस्तु एकान्तसुखवेदनैव । कामधातुकदेवमनुष्या अप्येकान्तसुखवेदिनः । यथोक्तं सूत्रे- सुखिनां मनुष्याणामपि सन्ति षट्स्पर्शा इति । देवमनुष्यैरनुभूयमाना विषया येन अमनोरूपा न भवन्ति तत्द्वितीयं कर्म । कृष्णशुक्लव्यामिश्रसमुदाचरणं तृतीयं कर्म । सर्वाण्यनास्रवकर्माणि कर्माणां क्षयाय संवर्तन्ते । मिथो विरोधात् । न सप्तदशशैक्षचेतनामात्रं चतुर्थं कर्म ।

(पृ) अनास्रवं वस्तुतः शुक्लम् । कस्मादशुक्लमित्युच्यते । (उ) तत्शुक्ललक्षणाद्भिन्नम् । न द्वितीयशुक्लकर्मसमानम् । अस्मादतिशयितमशुक्लस्य, तदनपेक्षत्वात् । यथा राज्ञश्चक्रवर्तिनः सुविशुद्धातिक्रान्तदेवमानुषचक्षुः सम्पत् । वस्तुतस्तु तन्मानुषमेव चक्षुः । अन्यपुरुषातिशायित्वादतिमानुषमित्युच्यते । तथा तत्कर्मापि अन्यशुक्लकर्मातिशायित्वादशुक्लमित्युच्यते । केचिदाहुः- अकृष्णं शुक्लविपाकं कर्मेति वक्तव्यमिति । तत्त्वदुष्टम् । निर्वाणञ्च न शुक्लम् । अतस्तत्कर्माशुक्लमिति वाच्यम् । वक्तव्यञ्चाकृष्णमशुक्लमिति । कस्मात् । निर्वाणं ह्यधर्मः । निर्वाणार्थत्वात्तत्कर्माकृष्णमशुक्लम् । लोके श्लाध्यतरं सास्रवं कुशलं कर्म शुक्लमित्युच्यते । चतुर्थं कर्म तत्कर्म व्यावर्तयतीति अशुक्लम् । तस्य कर्मणोऽकृष्णलक्षणत्वादशुक्ललक्षणतापि प्राप्यते । विपाकस्य शुक्लत्वात्कर्म शुक्लमित्याख्यायते । इदं कर्म त्वविपाकमित्यतो न शुक्लमित्याख्यायते ॥

चतुःकर्मवर्गः सप्तोतरशततमः ।


(
२५८)
१०८ पञ्चानन्तर्यवर्गः

[एत]त्कायसमनन्तरं विपाको वेद्यत इत्यानन्तर्यमित्युच्यते । यदि दृष्ट एव धर्मे वेद्यते तदा सव्याबाधविपाको लघुर्भवति । तस्य गुरुत्वात्क्रमेण क्षिप्रं वा अवैवर्तिके नरके पतति । त्रीण्यानन्तर्याणि पुण्यक्षेत्रगुणगौरवादानन्तर्याणीत्युच्यन्ते यदुत सङ्घभेदः तथागतशरीरे दुष्टचित्तेन लोहितोत्पादनमर्हद्वधः । मातृपितृवध आनन्तर्यमकृतज्ञत्वात् । तदानन्तर्यं मनुष्यगतावेव सम्भवति । नान्यगतिषु । मनुष्याणामेव विवेकज्ञानवत्त्वात् । (पृ) अन्येषामार्यजनानां वध आनन्तर्यं लभते न वा । (उ) आर्यजनानां वधिता प्रायो नरके पतति । यस्त्वर्हन्तं हन्ति सोऽवश्यं नरके पतेत् । यस्तथागतं ताडयति न तु लोहितमुत्पादयति स गुरुतरं पापं लभते । इच्छया भगवत्याघातात् ।

(पृ) यद्येकमानन्तर्यं करोति । तदा नरके पतति । यदि द्वे त्रीणि वा करोति । तदा एकस्मिन्नेव काये विपाकवेदना क्षीयते न वा । (उ) पापानां प्राचुर्यात्स चिरं गुरुतरदुःखान्यनुभवति । ततश्च्युतः पुनस्तत्रैव जायते । (पृ) सङ्घभेदे कथं गुरुतरं भवति [पापम्] । (उ) यद्यधर्ममधर्मतो ज्ञात्वा इमं धर्मं धर्मतो जानाति । एवंमनस्कारो गुरुतरो भवति । यद्यधर्मं धर्ममिति वदति धर्मञ्चाधर्ममिति । नेदं पूर्ववत् । यत्कश्चित्बुद्धात्सङ्घं प्रभिद्य आत्मानं प्रशंसति महान् शास्ता देवमनुष्याणां पूज्य इति । इदमपि गुरुतरम् । (पृ) यः प्राकृतजनभेद्यः, नायमार्यः । [तद्भेदः] किमिति गुरुतरं पापम् । (उ) सद्धर्मस्य विघ्नितत्वाद्गुरु गुरुतरं पापम् ।

(पृ) सङ्घधर्मभेदः कदा भवति । (उ) धर्मेऽचिरप्रतिष्ठिते नैकामपि रात्रिमतिवाहयति स्म । ब्रह्मादयो देवाः शालिपुत्रादिमहाश्रावकाः पुनः [सङ्घं] समीचक्रुः । केचिदाहुः इमानि पञ्च भिक्षुशतानि पूर्वाध्वनि परान् विघ्नयन्तः कुशलमूलमार्गलब्धास्तत्प्रत्ययमिदानीं तद्विपाकं विन्दन्त इति । प्राकृता लघुचलचित्तत्वात्सुभेद्याः । यो लौकिकानात्मशून्यतामात्रं लब्धवान् तस्य चित्तमेवाभेद्यम् । कः पुनर्वादोऽनास्रवं [चित्तम्] । चित्तगतामिध्यात्वात्सङ्घभेदप्रत्ययं करोति । अतः पुण्यार्थी सन् त्यजेदभिध्याम् ॥

पञ्चानन्तर्यवर्गोऽष्टोत्तरशततमः ।

(
२५९)
१०९ पञ्चशीलवर्गः

भगवानाह- उपासकस्य पञ्चशीलानीति । (पृ) केचिद्वदन्ति- समादानसमन्वितस्तु शीलसंवरं लभते इति । कथमिदम् । (उ) समात्तबह्वल्पत्ववशात्संवरं लभते नावश्यं पञ्चमात्राणि गृह्णाति । (पृ) आप्तिविरत्यादयः कस्मान्न शीलम् । केवलं प्राणातिपातविरत्यादय उच्यन्ते । (उ) सपरिबारत्वात् । (पृ) कस्मान्नोच्यते कामचारवर्जनम् । काममिथ्याचारविरतिः केवलमुच्यते । (उ) अवदातवसनानामावसथे लोकव्यवहारस्य सदा दुष्परिहारत्वात् । स्वभार्यागमनञ्च नावश्यं दुर्गतिषु पातयति । यथा स्रोतआपन्नादयोऽपीमं धर्ममाचरन्ति । अतो नोक्तं कामचारवर्जनम् ।

(पृ) पैशुन्यादिविरतिः कस्मान्न शीलम् । (उ) वस्त्विदमतिसूक्ष्मं दुष्परिपालम् । पैशुन्यादिर्मृषावादस्याङ्गम् । यदि मृषोच्यते तदा सामान्यतः [पैशुन्य]मुक्तमेव । (पृ) किं मद्यपानं प्रकृतिसावद्यम् । (उ) न । कस्मात् । मद्यपानस्य सत्त्वाव्याबाधात्केवलं पापहेतुः । यो मद्यं पिबति सोऽकुशलद्वारमपावृणोति । अतो मद्यपानं यः शास्ति स पापाङ्गं लभते । समाध्यादिकुशलधर्माणां विघ्नकृत्त्वात् । यथा तरुषण्डोऽवश्यं भित्त्यावरणार्थः । एवमिमे चत्वारो धर्माः प्रकृतिसावद्याः । तद्विरतयः प्रकृतिपुण्यानि । तत्पालनायैतन्मद्य [संवर]शीलं योज्यते ॥

पञ्चशीलवर्गो नवोत्तरशततमः ॥


११० षट्कर्मवर्गः

षड्विधं कर्म- नरक[वेदनीय]विपाकं कर्म, तिर्यग्योनि[वेदनीय]विपाकं कर्म, प्रेत[वेदनीय]विपाकं कर्म, मनुष्य[वेदनीय]विपाकं कर्म, देव[वेदनीय]विपाकं कर्म, असमाधिवेदनीयविपाकं कर्म इति । (पृ) कानीमानि । (उ) नरकवेदनीयविपाकं कर्मेति (
२६०) यथा षट्पादाभिधर्मे लोकप्रज्ञप्तौ विस्तृतम् । प्राणातिपातपापेन नरकं भवति । यथोक्तं सूत्रे- यः प्राणातिपातनिरतः स नरक उत्पद्यते । यो मनुष्येषु भवति सोऽल्पायुर्विन्दते । इति । एवं यावन्मिथ्यादृष्टि [वक्तव्यम्] ।

(पृ) जानीम एव दशाकुशलकर्मपथैर्नरकविपाकं विन्दते । तिर्यक्प्रेतमनुष्यगतिर्वोत्पद्यत इति । भवांस्तु केवलमाह नरकेषु मनुष्येषु वोत्पद्यत इति । इदानीं विशिष्य वक्तव्यं किं कर्म नरकविपाकमात्रवेदकमिति । (उ) तदेव पापकर्म गुरुतरं सत्नरकविपाकवेदकम् । यद्यल्पं लघु तदा तिर्यगादिविपाकवेदकम् । यः सम्पन्नत्रिविधमिथ्याचारः तस्य नरकं भवति । असम्पन्नान्यकर्मणः तिर्यगादयो भवन्ति । अतश्च गुरुतरपापक्रियायां नरकं भवति । शीलभेदिना दृष्टिभेदिना च कृतमकुशलं कर्म नरकाय भवति । चित्तभेदचर्याभेदाकुशलेऽधिचित्तो यस्तत्कृतमकुशलं कर्म नरकाय भवति । योऽकुशलं कर्म कृत्वा अकुशलस्यानुचरो भवति । तस्य नरकं भवति । आर्येषु योऽकुशलं कर्म करोति । तस्य नरकं भवति । अकुशलं कर्म कुर्वतोऽकुशलं कर्मोपचीयते । यथा कश्चिदकुशलं कर्म कृत्वा पश्चात्प्रीया प्रशंसन्न परित्यक्तुमिच्छति । तस्य नरकं भवति । यो विद्वेषव्यापादचित्तेन पापकं करोति । तस्य नरकं भवति । यो घनार्थं [पापं] करोति । स विपाकान्तरं वेदयते । मिथ्यादृष्टिचित्तेनाकुशलं कर्म कुर्वतो नरकं भवति । शीलदूषिणा कृतं पापकर्म नरकाय भवति । अह्रीकेणापत्रपेण कृतं पापकर्म नरकाय भवत्ति । अकुशलस्वभावेन जनेन कृतं पापकर्म नरकाय भवति । तद्यथा क्लिन्ना भूमिरल्पवृष्टापि कर्दमं साधयति । सदाकुशल कर्मचारिणा कृतमकुशलं कर्म नरकाय भवति । यः सम्भ्रमकारणं विना [ससंभ्रम]मकुशलं कर्म करोति । तस्य नरकं भवति । योऽनात्मशून्यताङ्गमन्यत्राभिनिवेशान्न लभते । तेन कृत पापकर्म नरकाय भवति । यः कायेन शीलं मनसा च प्रज्ञां नाभ्यस्यति । तेन कृतमकुशलं कर्म
नरकाय भवति । प्राकृतेन कृतमकुशलं कर्म नरकाय भवति । कस्मात् । न ह्ययं प्रजानाति स्कन्धधात्वायतनद्वादशनिदानादीनि । अज्ञानादकार्यं कुर्यात् । कार्यञ्च न कुर्यात् । अवाच्यं वदेत् । वाच्यञ्च न वदेत् । अननुस्मरणीयमनुस्मरेत् । अनुस्मरणीयञ्च (
२६१) नानुस्मरेत् । तेन कृतं पापमल्पमपि नरकाय भवति । यो न पश्यत्यकुशलस्यादीनवम् । स गुरुकं पापकर्म कृत्वा नरकविपाकं वेदयते । यः पापं कृत्वा न कुशलं प्रतिश्रयते । तस्य नरकं भवति । यथाधमर्णो न राजानं शरणीकरोति । तदोत्तमर्णोऽवकाशभाग्भवति । यस्य कुशलं कर्म दुर्बलम् । तेन कृतमल्पमपि पापं नरकाय भवति । यथा कस्यचित्काये पाचनशक्तिरल्पा । स दुष्परिपाचनमाहारं भुङ्क्त्वा न परिपक्तुं शक्नोति । अकुशलकर्मव्यामिश्रमकुशलमात्रमाचरतो नरकं भवति । यथा कश्चिच्चौर्यं कृत्वा लघुतरं गुरुतरं वा बध्यते । यः सर्वकुशलमूलविविक्तः यथा हस्तिना युध्यमानः [तस्य] हस्तं न परिरक्षति । तत्पुरुषकृतं पापं नरकाय भवति । यो हीनधर्ममाचरन् हीनाचार्याच्छिक्षां समादत्ते । तेन कृतं पापं नरकाय भवति । यथा दरिद्रोऽधर्मण आह्रियते । योऽकुशलं सदा वर्धयति अधमर्णस्येव वृद्धिम् । तद्यथा सौनकपुत्रव्याधादयः । तेषां कर्म नरकाय भवति । गण्डस्यान्तः स्राववत्पापस्य म्रक्षणे नरकं भवति । यो दीर्घकालं चित्तगतमकुशलं न सहसा नियच्छति । तस्य नरकं भवति । यथा चिकित्सायै दत्तं विषमेव पुरुषं हन्ति । यः स्वयमकुशलं कृत्वा परानपि शास्ति । तेन बहूनां सत्त्वानां दुःखोपायासद्वारस्योद्धाटनान्नरकं भवति । यथा राष्ट्रपाला बहवो विज्ञाः पूर्णादिवदकुशलमिथ्याचारमाचरन्तोन्यान्यपि बहून् शिक्षयन्ति
। यच्च कृतं कर्म भूयसा सत्त्वानां ब्याबाधाय भवति यथा वनदाहादि । बहूनां शासनं येन अधर्मे ते पतन्ति । यथा केदारव्याधादयः । योऽकुशलकर्मणा जीवति यथा चोरामात्यसूनिकव्याधादयः । अत्यन्तशीलदूषिणा कृतं पापकर्म नरकाय भवति । यदामरणं न त्यजन्ति तदत्यन्तमित्युच्यते । यथाह गाथा-

यस्यात्यन्तदौःशील्यं मालुःसालमिवातता ।
करोति स तथात्मानं यथैनमिच्छन्ति द्विषः ॥ इति ।

अवस्तु कुप्यति । अनेन कोपेन यत्पापं करोति । तन्नरकाय भवति । यस्तु सवस्तु कुप्यस्ति । तत्कृतं पापं न तादृशं भवति । यो द्वेषेण कर्म करोति । अस्य गुरुसंयोजनत्वान्नरकं भवति । यथोक्तं सूत्रे- द्वेषः पापीयानपि सुनिग्रह इति । योऽकुशलचित्तस्वभावः तस्य नरकं भवति । यथेतुप्रत्ययैः पापं कर्म करोति तदणीयो भवति । यः प्रमादाय व्युत्सृष्टः तेन कृतमशुभं कर्म नरकाय भवति । यो विज्ञैः परिपालितो भवति स देवेषूत्पद्यते । वासवयक्षे आयुषोऽन्ते म्रियमाणे शारिपुत्रः तदन्तिकमागतः । सोऽकुशलेन्द्रियेण शालिपुत्रमभिसभीक्ष्य नान्यथाभूत् । पुरत आगतं मन्दमाहूय पुनरौच्छ्वसत् । (
२६२) शारिपुत्रप्रभास्वरमाहात्म्यमवलोक्याचिन्तयतयं महात्मा न हन्तव्य इति विशुद्धचित्तेन सप्तकृत्वः शारिपुत्रमूर्ध्वमधो व्यवालोकयत् । अनेनैव हेतुना सप्तकृत्वो देवेषूदपद्यत । सप्तकृत्वो मनुष्येषु चोदपद्यत । अथ प्रत्येकबुद्धमार्गमलभत । यथा चाङ्गुलिमालः पापकं कर्म बहुकृत्वा मातर[मपि]हन्तुमैच्छत् । भगवान् तत्कुशलाभिज्ञत्वात्तस्य विमुक्तिं प्रापयति स्म । यथा च कश्चिद्दानपति रग्निघादविषान्नभोजनैर्मध्ये [गृहं] हन्तुमैच्छत् । भगवान् तत्कुशलाभिज्ञत्वात्तस्य विमुक्तिं प्रापयत् । एवमादयः पुरुषाः अकुशलकर्मका अपि न नरके पतन्ति । अत उक्तं यः प्रमादाय व्युसृष्टः तेन कृतं पापं कर्म नरकाय भवतीति ।

यः समुच्छिन्नकुशलमूलो देवदत्तादिवत्पुनरचिकित्स्यो भवति । तद्यथा कश्चिद्रोगी दृष्टमरणनिमित्तः । तेन कृतं पापं नरकाय भवति । यः कुशलं कर्तुमगणयन्म्रियमाणो दुरुत्पादकुशलचित्तो भवति । स चित्तपरितापान्नरके पतति । यो म्रियमाणो मिथ्यादृष्टि चित्तमुत्पादयति । स पूर्वाकुशलहेतुकं मिथ्यादृष्टि प्रत्ययञ्च नरके पतति । एवं बहूनि कर्माणि नरकविपाकाय भवन्ति । आभिधर्मिका वदन्ति- सर्वाण्यकुशलानि नरकनिदानानीति । एभ्योऽकुशलेभ्योऽन्यैस्तिर्यगादिषूत्पद्यन्ते । यथोक्तं सूत्रे- भगवान् भिक्षूनामन्त्र्यावोचत्- यान् सत्त्वान् पश्यथ कायिकमिथ्याचारान् वाचिकमिथ्याचारान्मानसिकमिथ्याचारान् तान् जानीत नरकप्रेक्षकानिति ।

(पृ) नरकविपाकं कर्माधिगतम् । किं पुनस्तिर्यग्विपाकं कर्म । (उ) यः कुशलव्यामिश्रमकुशलं कर्म करोति । स ततः तिर्यक्षु पतति । अनुशयसंयोजनौत्कट्याच्च तिर्यक्षु पतति । यथा कामरागौत्कट्याच्चटकपारावतचक्रवाकादिषूत्पद्यते । द्वेषौत्कटयात्सर्पवृश्चिकादिषूत्पद्यते । मोहौत्कट्यात्वराहादिषूत्पद्यते । मदौत्कट्यात्सिंहव्याघ्रश्वापदादिषूत्पद्यते । औद्धत्यचाञ्चल्यौत्कट्यान्मर्कटादिषूत्पद्यते । ईर्ष्यामात्सर्यौत्कट्यात्श्वादिषूत्पद्यते । एवमादीनामन्येषामपि क्लेशानामौत्कट्यान्नानातिर्यक्षूत्पद्यते । यः कश्चिद्दानभागी भवति । स तिर्यक्षूत्पन्नोऽपि सुखमनुभवति । सुवर्णपक्षगरुडहस्त्यश्वादयः । वाचिककर्मणो विपाको भूयसा तिर्यक्षु पतनम् । यथा कश्चित्कर्मविपाकमज्ञात्वा श्रद्धया च नानावाक्कर्म तथा करोति यथा वदन्ति अयं पुरुषो मर्कटवदतिचपल इति । स मर्कटेषूत्पद्यते ।

(
२६३)
यद्वदन्ति वायसवदाहारलोलुपः । श्वबुक्कवद्भाषते । अजवराहवद्धावति । गर्दभवच्छब्दायते । उष्ट्रवत्याति । हस्तिवदात्मानमुन्नमयति । मत्तबलीवर्दवदशुभयति । चटकवद्यभति । विडालवत्सारज्यति । शृगालवद्वञ्चयति । कृष्णोरभ्रवज्जडो भवति । गोवत्द्रोणबहुलो भवति । एवमाद्यकुशलं वाचिकं कर्म कृत्वा यथाकर्म विपाकं वेदयते । सत्त्वाः सुखलोभान्नानाप्रणिधान्युत्पादयति । तद्यथा कामसुखरागे सति पक्षिषूत्पद्यते । यो नागगरुडादीनां शक्तिबलं श्रुत्वा प्रणिदधाति स तत्रोत्पद्यते । उक्तञ्च सूत्रे- यो निबिडस्थाने म्रियमाणः प्रणिदधाति विपुलं स्थानं लभ इति । स पक्षिषूत्पद्यते । यः परितर्षितो म्रियते स जलार्थितया जलेषूत्पद्यते । क्षुधितो म्रियमाणोऽन्नरागार्द्वचः कुट्यामुत्पद्यते ।

व्योमाहात्लघु कर्माणि कुर्वन् व्यामिश्रकुशलत्वात्मक्षिकालीक्षाकृमिकीटादिषूत्पद्यते । यः परानुपदिशनसद्धर्मे पातयति सोऽविद्वत्पद उत्पद्यते । अन्धो जायते । मृत्वा च शवे कृमिर्भवति । व्यामिश्रकर्माचरणाच्च तिर्यक्षूत्पद्यते । यथोक्तं सूत्रे- तिर्यञ्चो नानाचित्तवशान्नानाकाराननुप्राप्नुवन्ति इति । यस्तृणमद्यामिति कर्म करोति । यथा कश्चिन्मिथ्या वदति अहं मन्त्रानध्येमीति । यो वा इदमन्नमत्त्वा तृणमद्भीति प्रकटयति । अथ वा वदति मृदं भक्षयामीत्येयमादि । यश्च कश्चिद्वाक्पारूष्येणाधिक्षिपति । किं तृणमनत्त्वा मृदं भक्षयसीति । सोऽभिलापवशात्तृणमृदादिभक्षकेषूपपत्तिं वेदयते । अविशुद्धदानामाचारन् तृणादिभक्षकेषु विपाकं वेदयते । य ऋणमादाय न प्रत्यर्पयति । स गवाजकृष्णमृगाश्वगर्दभादिषु पतित्वा ऋणरात्रीर्यापयति । एवमादिकर्मणा तिर्यक्षु पतति ।

(पृ) तिर्यद्विपाकं कर्म परिज्ञातम् । केन कर्मणा प्रेतेषु पतति । (उ) अन्नपानादिषु सञ्जातमत्सरलोभचित्तः सन् प्रेतेषु पतति । (पृ) यदि कश्चित्स्वद्रव्यं न ददाति । कस्मात्स पापभाग्भवति । (उ) अयं कदर्यो यदि कश्चिद्याचनां करोति । सापेक्षत्वात्तस्मै कुप्यति । अनेनावद्येन प्रेतेषूत्पद्यते । स कृपणः याचनां कुर्वति कस्मिंश्चित्नास्तीति वदननृतवादित्वात्प्रेतेषु पतति । स चिरात्कदर्यसंयोजनामभ्यस्यति । परस्य हितलाभं दृष्ट्वा ईर्ष्यासूयाचित्तमुत्पादयति । अतः प्रेतेषु पतति । कदर्योऽयं दानचारिणं परं दृष्ट्वा तं दानपतिं द्विप्यति । याचकोऽयं लाभाभ्यासान्मत्तोऽवश्यं याचेतेति । चिरादारभ्य कदर्यचित्तवासनया न स्वयं ददाति परमपि निषेधति । यत्किञ्चिदस्ति विहारे सङ्घद्रव्यं यज्ञे च ब्राह्मणद्रव्यम् । (
२६४) तत्कश्चित्स्वयं केवलमभिलषति न परस्य दातुमिच्छति । अतः प्रेतेषु पतति । यः परस्यान्नपानमपहरति नाशयति वा । स निरशनस्थान उत्पद्यते । यो दानपुण्यविगतः स तदुपपत्त्यायतने विपाकालाभी ततो याचकाधिक्षेपकर्मणो दुःखं तत्रैवानुभवति । अयं कृपणः क्षुत्तृष्णार्दितं परं दृष्ट्वा निर्दयचित्तो भवति । अतो यत्रोत्पद्यते तत्र सदा क्षुत्तृष्णामनुभवति । यथा दयया देवेषूत्पद्यते । तथा द्वेषोपनाहाभ्यां दुर्गतावुत्पद्यते । बन्धुपरिवारप्रियजनेषु सुप्रतिष्ठिते देशे च परमासक्तत्वात्कलिङ्गादिप्रेतेषूत्पद्यते, रागतृष्णाप्रत्ययत्वात् । एवमादि यथा विस्तृतं कर्मविपाकसूत्रे ।

(पृ) परिज्ञातानि त्रीणि दुर्गतिविपाकानि । केन कर्मणा देवेषूत्पद्यते । (उ) यो दानसंवरकुशलादिकर्माभ्यस्यति । स उत्तमः सन् देवेषूत्पद्यते । अधमः सन्मनुष्येषूत्पद्यते । यश्च तीक्ष्णेन्द्रियः स मनुष्येषूत्पद्यते । मनुष्यधर्ममाचरतीति मनुष्यः । व्यामिश्रकुशलकर्मणा च मनुष्येषूत्पद्यते । तत्कर्म [त्रिविध]मुत्तमं मध्यममधममिति । एकाग्रतानैकाग्रता विशुद्धमविशुद्धमित्यादि । केनेदं ज्ञायते । मनुष्याणां नानाविभागश्रेणीनां वैषम्यात् । यथोक्तं सूत्रे- प्राणातिपात्यल्पायुष्को भवति । चौर्ये दरिद्रः । काममिथ्याचारे हीनासत्कुलः । मृषावादे सदा परिभाष्यते । पैशुन्ये कुलपांसुलः । पारुष्ये सदा परुषशब्दं शृणोति । संम्भिन्नप्रलापे जनानामश्रद्धेयः । रागेर्ष्यायां कामचारबहुलः । क्रोधे दुःखभावभूयिष्ठः । मिथ्यादृष्टौ मोहबहुलः । मानेऽवरजन्मा । आत्मन उन्माने खर्वः । ईर्ष्यायामते[ज]स्वी । मात्सर्ये दारिद्र्यपीडितः । द्वेषे विरूपी भवति । परपीडायां व्याधिबहुलः । व्यामिश्रचित्तेन दानेऽमधुररसाभिलाषी । अकालदाने न यथेष्टभाक् । पश्चात्तापविमतौ पर्यन्तभूमौ जायते । अविशुद्धदानचर्यायां दुःखतो विपाकलाभी भवति । अमार्गेण कामचर्यायामपुरुषाकारं लभते । मनुष्येषु एवमादीनि सङ्कीर्णान्यकुशलकर्माणि । तद्विपरीतानि तु कुशलकर्माणि । यथा प्राणातिपातविरतिर्दीर्घायुष्यप्रापिणीत्यादि । मनुष्यगतावेवमादि नानावैषम्यमस्तीत्यतो ज्ञायते व्यामिश्रकर्मविपाकोऽयमिति ।

प्रणिधानेन हि मनुष्येषु जायते । केचिदप्रमादरता अपि न कामबहुला भवन्ति । (
२६५) ये प्रज्ञास्वधिमुक्तिका मनुष्यदेहप्रणिधानं कुर्वन्ति । ते मनुष्येषूत्पद्यन्ते । यः पित्रोः पूज्यानाञ्च सत्कारे स्वभिरुचिको भवति । ब्राह्मणश्रमणादीनामपि सत्कारवित्तत्कर्मक्रियातुष्टश्च पुण्यं सम्यगभ्यस्यति । सोऽपि मनुष्येषूत्पद्यते । मनुष्येषु च यो विशुद्धकर्मप्रत्ययः स उत्तर[कुरुषू]त्पद्यते । यश्च क्षेत्रगृहकुटीष्वात्मीयविशेषेषु द्विष्यति । स उत्तरासूत्पद्यते । यः शुक्लकर्म सम्यगाचरन् परानपीडयित्वा धनमादत्ते दानाय नाभिष्वङ्गाय । स्वयञ्च शीलमाचरन्न पूर्वापरपरिवारेषु शीलं भेदयति । स उत्तरकुरुषूत्पद्यते । ततः किञ्चिदूनकुशलो गोदानीय उत्पद्यते । ततोऽपि किञ्चिदूनश्च अयथावत्(?) पूर्वविदेह उत्पद्यते ।

देवविपाकं कर्मेति । अतिशुद्धदानशीलत्वात्देवेषूत्पद्यते । यः प्रज्ञाङ्गं लब्ध्वा संयोजनानि समुच्छेदयति । स देवेषूत्पद्यते । व्यामिश्रकर्मवशाच्च विशिष्यते । मनुष्येषूक्तवत्प्रणिधानहेतुना च विश्रुतदेवेषु सुखवेदनाप्रत्ययं कृतकुशलकर्मकाः सर्वे तत्र जन्मगतिं प्रणिदधति । यथोक्तं- अष्टपुण्यसर्गस्थाने यः करुणामुदितोपेक्षासु विहरति स उत्पद्यते ब्रह्मलोके यावद्भवाग्रम् । अत्र ध्यानसमापत्तेर्विशिष्टरूपत्वात्विपाकोऽपि विशिष्यते । यस्य स्त्यानमिद्धौद्धत्यादीनि न सम्यक्प्रहीणानि । सोऽनाभास्वरदेहप्रभो भवति । यस्य सम्यक्प्रहीणानि स विशुद्धतरप्रभो भवति । अत्युत्तमकुशलकर्मविपाको देवेषूत्पद्यते । अमीप्सितानां यथामनस्कारमेव प्रतिलाभात् । यो विविक्तरूपैररूप्यसमाधिमुपसम्पद्य विहरति । स आरूप्यस्थान उत्पद्यते । एवमादि देवविपाकं कर्माख्यायते ।

अनियतविपाकं कर्मेति । यदवरं कुशलमकुशलं कर्म । इदं कर्म नरकेषु प्रेतेषु तिर्यक्षु देवेषु मनुष्येषु वा वेद्यते । (पृ) अन्यासु चतसृषु गतिषु कुशलकर्मविपाको वेदयितुं शक्यते । नरके कथम् । (उ) कश्चिन्नरकान्मुहूर्तं निवर्तते । यथा [कश्चि]दर्चिर्नरकाद्विमुक्तो दूरतो वनषण्डं दृष्ट्वा मुदितचित्त आशु तस्मिन् वने प्रविशति । शीतवातकम्पिते तस्मिन् वने [यावत्] असितोमराणि न पतन्ति । तस्मिन् समये मुहूर्तं सुखी भवति । अथवा क्षारनदीं दृष्ट्वा इदं प्रसन्नसलिलमिति द्रुतगति प्रधाव्य मुहूर्तं सुखभाग्भवति । एवं नरकेऽपि कुशलकर्मणो विपाकभागोऽस्ति । इदमनियतं कर्मेत्युच्यते ॥

षट्कर्मवर्गो दशोत्तरशततमः ।


(
२६६)
१११ सप्ताकुशलसंवरवर्गः

सप्ताकुशलसंवराः यदुत हिंसास्तेयकाममिथ्याचारपैशुन्यपारुष्यमृषावादसम्भिन्नप्रलापाः । य एषां सप्तानां वस्तुनां समग्रो वा असमग्रो भवति । सोऽकुशलसंवर इत्युच्यते । (पृ) कोऽकुशलसंवरसमन्वागतः । (उ) हिंसाकुशलसमन्वागतो यदुत सौनिकव्याधादयः । स्तेयसमन्वागतो यदुत चोरादयः । काममिथ्याचारसमन्वागतो यदुतामार्गमैथुनचारिणो गणिकादयः । मृषावादामन्वागता गायकनटपुत्रादयः । पैशुन्यसमन्वागतो दूषणपरिवादानन्दी राष्ट्रवृत्त्यादिसन्धिलिपिदूषणाध्येता च । पारुष्यसमन्विता नरकपालादयः पारुष्योपजीव्यादयश्च । सम्भिन्नप्रलापसमन्विताः शब्दसन्दर्भयोगेन जनहास्यकरादयः । केचिदाहुः- राजानः प्रतिपक्षिणो राज्ञः शासनावसरे एतदकुशलसंवरसमन्विता इति । तदयुक्तम् । यः पापसन्ततिं कृत्वा न विरमति । स खलु एतदकुशलसंवरसमन्वित इत्युच्यते । न तथा राजादयः ।

(पृ) अयमकुशलसंवर इति कथं लभ्यते । (उ) यस्मिन् काले पापकर्माचरति । तदा लभ्यते । (पृ) किं वधितसत्त्वात्संवरमिमं लभते किं वा सर्वसत्त्वेभ्यः । (उ) सर्वसत्त्वेभ्यः । यथा कश्चित्शीलधारी सर्वसत्त्वेभ्यः शीलसंवरं लभते । तथा अकुशलसंवरमपि । प्राणातिपातानुवर्तिनः वधपापसङ्गृहीताकुशलसंवरसङ्गृहीतरूपद्विविधाविज्ञप्तिलाभे अन्यसत्त्वेभ्योऽकुशलसंवरसङ्गृहीतापि लभ्यते । (पृ) अयमकुशलसंवरः कियत्कालं समन्वितो भवति । (उ) यावदुपेक्षाचित्तं न प्रतिलभ्यते । तावत्सदा समन्वितो भवति । (पृ) योऽवरमृदुचित्तादकुशलसंवरं प्रतिलभते । यो वा लोभादिचितात्प्रतिलभते । स सदा एतत्समन्वितो भवति । पुनः किं प्रतिलभते । (उ) यथाचित्तं यथाक्लेशप्रत्ययञ्च पुनरेतदकुशलसंवरं प्रतिलभते । प्रतिक्षणं सदा प्रतिलभते । सर्वसत्त्वेषूत्पन्नः सप्तविधो भवति । सप्तविधोऽयमुत्तममध्याधम इति एकविंशतिधा भवति । एवं प्रतिक्षणं सर्वसत्त्वभूमिषु प्रतिलभते ।

(
२६७)
(पृ) अकुशलसंवरमिमं कदा त्यजति । (उ) कुशलसंवरसमादानकाले त्यजति । मरणकालेऽपि त्यजति । अद्यप्रभृति न पुनः करोमीति यदाध्याशयमुत्पादयति । तस्मिन् कालेऽपि त्यजति । अभिधर्मिका आहुः- इन्द्रियपरावृत्तो त्यजतीति । तदयुक्तम् । कस्मात् । अशक्ता अपि समन्वागमं लभन्ते । विनयेऽप्युक्तम् । यो भिक्षुः परावृत्तेन्द्रियः न स विनष्टसंवरो भवति इति । अतो ज्ञायते नेन्द्रियपरावृत्त्या त्यजतीति ।

(पृ) पञ्चसु गतिषु कस्यां गतौ सत्त्वा अकुशलसंवरसमन्विता भवन्ति । (उ) मनुष्या एव समन्विता नान्यगतिस्थाः । केचिदाहुः- [तथा नोचेत्] सिंहव्याघ्रादयः सदा दुष्कर्मणोपजीविनोऽपि समन्विताः स्युरिति ॥

सप्ताकुशलसंवरवर्ग एकादशोत्तरशततमः ।


११२ सप्तकुशलसंवरवर्गः

सप्त कुशलसंवराः प्राणातिपातविरतिर्यावत्सम्भिन्नप्रलापविरतिः । (पृ) असत्त्वाख्येभ्य इमं कुशलसंवरं लभते न वा । (उ) लभते । केवलं सत्त्वमुपादाय भवति । कुशलसंवरोऽयं त्रिविधः- शीलसंवरो ध्यानसंवरः समाधिसंवर इति । (पृ) कस्मान्नोच्यतेऽनास्रसंवरः । (उ) अनास्रवसंवरोऽन्त्यद्वये सङ्गृहीत इत्यतः पृथङ्नोच्यते । आभिधर्मिका आहुः- अस्ति पुनः प्रहाणसंवरो यदुत कामधातुवीत[रागः] तस्मिन् काले कुशलसंवरं लभते । शीलभेदाद्यकुशलं प्रजहातीति प्रहाणमिति । वस्तुतस्तु सर्वे संवरास्तिषु सङ्गृहीताः ।

(पृ) तीर्थिका इमं शीलसंवरं लभन्ते न वा । (उ) लभन्ते । तेषामपि अकुशलचित्तेभ्यो विरतावधिचित्तत्वात् । आचार्यः शीलमुपदिशति अद्यप्रभृति प्राणातिपातादिपापं मा कुर्या इति । (पृ) अन्यासु गतिषु इमं शीलसवरं लभन्ते न वा । (उ) उक्तं हि सूत्रे- नागादयोऽपि दिनमेकं शीलमुपाददते । इति । अतो ज्ञायते भवेदिति । (पृ) केचिदाहुः- अशक्तादिनां न शीलसंवरोऽस्तीति । कथमिदम् । (उ) अयं शीलसंवरश्चित्तभूमिजः । (
२६८) अशक्तादीनामपि कुशलचित्तमस्ति । कुतो न लभन्ते । कुतो न शृण्वन्ति भिक्षुक्रियाम् । अतिगहनसंयोजनानुशयानामेषां दुर्लभमार्गत्वात् । तादृशाः पुरुषा न भिक्षुमध्ये वर्तते(न्ते) नापि भिक्षुणीमध्ये । अतो न शृण्वन्ति । तेषु चान्ये प्रतिषिद्धाः यथा काणादयः । तेऽपि कुशलसंवरस्यास्यार्हाः । (पृ) अस्ति च प्रतिषेधो विनये पातकिनीचवृत्तिकभिक्षुणीदूषकादयो न भिक्षुचर्यां शृण्वन्ति इति । तेषामपि किं कुशलसंवरोऽस्ति । (उ) स यद्यवदातवसनो भवति । कदाचित्कुशलसंवरं लभते । यथा ते दानदयादिसद्धर्मचर्याभ्यासे न प्रतिषिद्धाः । एवं लौकिकशीलसंवरवत्त्वे को दोषः । केवलं दुष्कर्मदूषितत्वात्ते प्रतिहतार्यमार्गाश्च भवन्ति । अतो न प्रव्रज्यां शृण्वन्ति ।

(पृ) किं वध्यादिसत्त्वेभ्यः किं कुशलसंवरं लभते किं वा सर्वसत्त्वेभ्यः । (उ) सर्वसत्त्वानां सामन्ताल्लभते । तथा नो चेत्संवरः प्रादेशिकः स्यात् । प्रादेशिको विकलः स्यात् । अयं तु संवर उपचीयमानोऽपचीयमानो निर्ग्रन्थपुत्रधर्मसमश्च यदुत शतयोजनेष्वन्तः प्राणातिपातादिभ्यो विरतिः इति । तादृशदोषवत्त्वात्संवरो न प्रादेशिको भवति । य आह अस्य पुरुषस्य वधाद्विरमामि न तस्य पुरुषस्येति । न स इमं शीलसंवरं लभते । आभिधर्मिकाः आहुः- प्रादेशिकेऽपि दानचर्याकरुणाचित्तादौ पुण्यगुणोऽस्ति । तथा शीलमपि भवेत् । यथैकमपि शीलधारणं शीलपुण्यं प्रसूते । तथैकसत्त्वे संवरं लभेत इति ।

(पृ) शीलसंवरोऽयं द्विविधः यावज्जीवक एकदिनाहोरात्रक इति । यावज्जीवक इति यत्भिक्षोरूपासकस्य वा । एकाहोरात्रक इति यथा एकाहोरात्रमष्टशीलान्युपादत्ते । कथमिदम् । (उ) अनियतमिदम् । एकाहोरात्रं वा एकदिनमात्रं वा एकरात्रिमात्रं वा अर्धदिनमात्रं वा अर्धरात्रं वा यथशक्ति कालं स्वीकरोति । प्रव्रज्यालब्धस्य तु यावज्जीवमात्रं भवति । य आह- आहमेकमासमात्रं मासद्वितयमात्रं वा एकवत्सरमात्रं वा [शीलं समादद इति] । न स प्रव्रज्यालब्ध इत्युच्यते । तथा पञ्चशीलान्यपि । (पृ) यः कुशलसंवरं लभते स पुनः संवराद्भ्रश्यति न वा । (उ) न भ्रश्यति । केवलमकुशलधर्मेण संवरमिमं दूषयति । (पृ) किं प्रत्युत्पन्नसत्त्वेभ्यः शीलसंवरं लभते किं वा त्रैकालिकसत्त्वेभ्यः । (उ) त्रैकालिकसत्त्वेभ्यो लब्धस्यः । यथा (
२६९) कश्चिदतीतान् पूज्यान् पूजयित्वापि पुण्यगुणो भवति । तथा संवरोऽपि । अतः सर्वे बुद्धाः समानैकशीलस्कन्धाः ।

अप्रमाणोऽयं संवरः । यथैकस्य सत्त्वस्य सप्तविध उत्पद्यते । अलोभादिकुशलमूलेभ्य उत्पद्यते । उत्तममध्याधमचित्तेभ्यश्चोत्पद्यत इति बहुविधो भवति । यथैकस्य पुरुषस्य तथा सर्वसत्त्वानां समन्तादपि प्रतिक्षणं सदा प्रतिलाभादप्रमाणः ।

(पृ) शीलसंवरः कदा लभ्यः । (उ) कश्चिद्दिनमेकं शीलमुपादत्ते । अयमाद्यसंवरः । तस्मिन्नेव दिने उपासकशीलमुपादत्ते । अयं द्वितीयसंवरः । तस्मिन्नेव दिने प्रव्रज्य श्रामण्यं करोति । अयं तृतीयसंवरः । तस्मिन्नेव दिने समग्रशीलमुपादत्ते । अयं चतुर्थः संवरः । तस्मिन्नेव दिने ध्यानसमापत्तिं लभते । अयं पञ्चमः संवरः । तस्मिन्नेव दिन आरूप्यसमाधिं लभते । अयं षष्ठः संवरः । तस्मिन्नेव दिनेऽनास्रव[संवरं] लभते । अयं सप्तमः संवरः । मार्गफललाभमनुसरन् पुनः संवरं लभते । लब्धमूलो न नश्यति । प्रत्युत विशिष्ट इत्याख्यां गृह्णाति । एवं पुण्यगुणोऽभिवर्धते । यस्मादयं शीलसंवरः सर्वसत्त्वेषु सदा प्रतिक्षणं लभ्यते । तस्मादुच्यते चत्वारो रत्नाकरा नार्हन्ति षोडशीं कलां दिनमेकं संवरस्येति ।

ध्यानसंवरोऽनास्रवसंवरश्च यथाचित्तं समुदाचरति । शीलसंवरो न यथाचित्त[मात्रं] समुदाचरति । (पृ) केचिद्वदन्ति- समाधिप्रविष्टस्यास्ति ध्यानसंवरः । न समाधिव्युत्थितस्येति । कथमिदम् । (उ) समाधिव्युत्थितस्य सदास्ति । लब्धतत्त्वोऽयं न करोति शीलभेदनविरुद्धमकुशलम् । अकुशलं कदाप्यकुर्वद्भिः कुशलचित्तप्रकर्षप्रवृत्तैः सदा भवितव्यम् । (पृ) यद्यारूप्ये ध्यानस्य शीलभेदकता नास्ति । कस्य विरोधात्कुशलसंवर इत्याख्या । (उ) धर्मता ईदृशी स्यात् । [यत्] आर्या महर्षयः सर्वे कुशलसंवरलाभिन इति । यदि शीलभेदनविरोधादेव ते संवरवन्तः । तदा सम्पीडनीयसत्त्वेभ्य एव कुशलसंवरो लभ्येत इत्ययमस्ति दोषः । अतो न युज्यते ।

सप्तकुशलसंवरवर्गो द्वादशोत्तरशततमः ।


(
२७०)
११३ अष्टाङ्गोपवासशील वर्गः

अष्टाङ्ग उपवास उपासकस्योच्यते । स कुशलचेतसा शीलभेदाद्विरत उपवसतीति उपवसथः । (पृ) कस्मातष्ट विरतयो मुख्यत उच्यन्ते । (उ) अष्टावेता द्वारं भवन्ति । एभिरष्टधर्मैः सर्वाकुशलेभ्यो विरमति । तत्र चत्वारि द्रव्यतोऽकुशलानि । सुरापानं सर्वाकुशलानां मूलम् । अन्यानि त्रीणि प्रमादकारणानि । पञ्चाकुशलेभ्यो विरतिः पुरुषस्य पुण्यकारणम् । त्रिभ्योऽन्येभ्यो विरतिर्मार्गकारणम् । अवदातवसनानां कुशलधर्मो भूयसा हीनः मार्गस्य कारणतामात्रं करोति । अत एभिरष्टभिर्धर्मैः समन्वागतानि पञ्च यानानि ।

(पृ) किमेतान्यष्टोपवासाङ्गानि सहोपादेयानि किं वा पृथक् । (उ) यथाबलं धर्तुं शक्यते । केचिदाहुः- एमे धर्मा एकमुपवासदिनं रात्रिञ्च भवन्ति इति । तदयुक्तम् । बह्वल्पं शीलं यथा [बलं] उपादाय अर्धदिनं वा यावदेकं मासं वा सम्भवतीति को दोषोऽस्ति । केचिदाहुः- अवश्यमन्यस्मादुपादत्त इति । अयमप्यनियमः । असत्यन्यस्मिन्मनसा स्मरन् वाचा वदति- अहमष्टशीलानि धारयामीति । शीलस्य पञ्च शौचानि- (१) दशकुशल[कर्म]पथाचारणम् । (२) पूर्वान्तापरान्तयो दुःख[संज्ञा] । (३) अकुशलचित्तेन न कस्यचिदुपघातः । (४) स्मृत्वा संवररक्षणम् । (५) निर्वाणप्रवणता । य इदृशोपवाससमर्थः तस्य चत्वारो महारत्नाकरा नैकामपि कलामर्हन्ति । देनावामिन्द्रस्य पुण्यविपाकोऽपि नार्हति । शक्रो गाथामवोचत् । भगवान् तं विगर्ह्य [अवोचत्]- यःक्षीणास्रवः तेन हीयं गाथा वक्तव्या । यथोक्तम्-

मासे षडुपावासार्द्ध अष्टाङ्गेषु प्रपन्नकः ।
स पुमान् पुण्यमाप्नोति मया च सदृशो भवेत् ॥ इति ।

यो दिनमुपवसति स उपवासपुण्यमुपभुञ्जानः शक्रतुल्यो भवति । इममुपवासधर्ममुपादातुर्निर्वाणफलं स्यात् । अतः क्षीणास्रवेण सा गाथा वक्तव्येति ।

(
२७१)
उपवासधर्मसमादाने सुनिबद्धाः शृङ्खलाः सर्वा मोचयितव्याः । सर्वाकुशलप्रत्ययोऽपि प्रहातव्यः । इदं शौचमित्युच्यते । (पृ) आर्यश्चक वर्ती राजा उपवासधर्मसमादानमभिलषति [चेत्] कस्तं समादापयति । (उ) भदन्ता ब्रह्मा देवा भगद्द्रष्टारस्तं शासयित्वा ग्राहयेयुः ॥

अष्टाङ्गोपवासशीलवर्गस्रयोदशोत्तरशततमः ।


११४ अष्टविधवादवर्गः

अष्टविधवादेषु चत्वारोऽशुद्धाः चत्वारः शुद्धाः । चत्वारोऽशुद्धा इति । यो वदति दृष्ट्वा नाद्राक्षमिति । अदृष्ट्वा वदति अद्राक्षमिति । अदृष्ट्वा अद्राक्षमिति वन् [व्यवहारे] पृष्टो वदति नाद्राक्षमिति । दृष्ट्वा नाद्राक्षमिति ब्रूवन् पृष्टो वदति- अद्राक्षमिति । एवं वस्तुविपर्यासेन चित्तविपर्यासादशुद्धाः । चत्वारः शुद्धा इति । दृष्ट्वा वदति अद्राक्षमिति । अदृष्ट्वा वदति नाद्राक्षमिति । दृष्ट्वा नाद्राक्षमिति ब्रूवन् पृष्ठो वदति नाद्राक्षमिति । अदृष्ट्वा अद्राक्षमिति ब्रुवन् पृष्ठो वदति अद्राक्षमिति । एवं वस्तुतत्त्वेन चित्ततत्त्वात्शुद्धाः । श्रुतिबुद्धिज्ञानेष्वपि ।

(पृ) दृष्टिश्रुतिबुद्धिज्ञानानां को भेदः । (उ) त्रिविधाः श्रद्धाः । दृष्टिः प्रत्युत्पन्ने श्रद्धा । श्रुतिराप्तवचने श्रद्धा । ज्ञानमनुमितिज्ञानम् । बुद्धिस्त्रिविधश्रद्धाविवेचनी प्रज्ञा । इमास्त्रिविधाः प्रज्ञाः कदाचित्सत्या भवन्ति । कदाचिद्विपरीत्ताः । उत्तमपुरुषा अशुद्धवादमकृत्वा शुद्धवादमात्रं कुर्वन्ति । अतोऽवरजनैः प्रयुज्यमानोऽशुद्ध इत्युच्यते । उत्तमजनैः प्रयुज्यमानस्तु शुद्ध इति । केचिदाहुः- अर्थस्यास्य सम्यगभिज्ञातारः उत्तमा भवन्ति । न मार्गमात्रलाभिन [उत्तमाः] । अतः प्राकृता अपि शुद्धवादिन इति ॥

अष्ठविधवादवर्गश्चतुर्दशोत्तरशततमः ।


११५ नवकर्मवर्गः

नवविधं कर्म- कामधातुप्रतिसंयुक्तं कर्म त्रिविधं विज्ञप्तिरविज्ञप्तिर्नविज्ञप्ति नाविज्ञप्तिरिति । रूपधातुप्रतिसंयुक्तं कर्माप्येवम् । आरूप्यधातुप्रतिसंयुक्तं द्विविधञ्चानास्रवं कर्म । (
२७२) कायवाग्भ्यां कृतं कर्म विज्ञप्तिः । विज्ञप्तिमुपादाय [यः] पुण्यपापसञ्चयः सदानुयायी । अयं चित्तविप्रयुक्तधर्मोऽविज्ञप्तिरित्युच्यते । चित्तमात्रजाविज्ञप्तिरप्यस्ति । नविज्ञप्ति नाविज्ञप्तिरिति मन एव । मनश्च चेतनैव । चेतना च कर्मेत्युच्यते । तस्माद्यन्मनसा प्रणिधाय पश्चात्काय[कृतं] तन्मानसं कर्मापि चेतनेत्युच्यते । चेतनया चिन्तयित्वा काय[कृत]मित्यतः कर्मेत्युच्यते ।

(पृ) तथा चेदनास्रवचेतना न [स्यात्] । (उ) यदिदं चेतनात्मकं सैवानास्रवचेतना । (पृ) अविज्ञप्तेः कायजाताया अपि किं तारतम्यविभागो भविष्यति न वा । (उ) यत्सर्वे कायावयवाः विज्ञप्तिकर्म कुर्वन्ति । तदुपादाय सञ्चिताविज्ञप्तिर्महती महाविपाकप्रापिणी । (पृ) अविज्ञप्तिरियं कस्मिन् स्थाने विद्यते । (उ) कर्मपथस्वरूपं नियतमविज्ञप्तिसञ्चायकम् । विज्ञप्तिः सती असती वा भवति । अन्या तु चित्तापेक्षिणी । यदि चित्तं सुदृढं भवति । तदा सती । यदि चित्तं मृदु भवति । तदा असती । अविज्ञप्तिरियं प्रणिधानादपि उत्पद्यते । यदि कश्चित्प्रणिदधाति- अवश्यमहं दास्यामीति । यदि वा चैत्यं करोमीति । सोऽवश्यमविज्ञप्तिं प्रतिलभते । (पृ) कदा प्रतिलभ्यतेऽविज्ञप्तिरियम् । कदा प्रणश्यति । (उ) यथाविज्ञप्ति वस्तु वर्तते । यदि चैत्यारामादिदानं करोति । यावद्दत्तं वस्तु न प्रणश्यति । तावत्कालं सदानुवर्तते । चित्तञ्चानुसरति । नोपरमति । यथा कश्चिच्चित्तमुत्पादयति- मयेदं सदा कर्तव्यम् । यदि वा समैः मेलयामि, यदि वा चीवरं ददामीति । एवमादि वस्तु चित्तगतं नोपरमति । तस्मिन् समये सदा प्रतिलभ्यते । यावजीवमनुरति च । यथा प्रव्रज्याशीलं समाददाति । तस्मात्कालात्सदा प्रतिलभ्यते ।

(पृ) केचिदाहुः- कामधातावेव विज्ञप्तेरविज्ञप्तिरुत्पद्यते । न रूपधाताविति । कथमिदम् । (उ) धातुद्वयेऽप्युत्पद्यते । कस्मात् । रूपधातुकदेवा अपि धर्मं प्रवदन्ति । बुद्धं सङ्घञ्च वन्दन्ते । यथा मनुष्यादय इति कथं विज्ञप्तिकर्मतोऽविज्ञप्तिर्नोत्पद्यते । केचिदाहुः- विलीनाव्याकृता नास्त्यविज्ञप्तिरिति । इदमयुक्तम् । विलीनाव्याकृता गुरुतरक्लेशः । क्लेशोपचयोऽयमनुशय इत्युच्यते । अविलीनाव्याकृता परं नास्त्यविज्ञप्तिः । कस्मात् । चित्तमिदमवरं मृदु सत्नोपचयमुत्पादयति । यथा पुष्पं तिलं वासयति न तृणवृक्षादि । केचिदाहुः- ब्रह्मलोकादूर्ध्वं नास्ति विज्ञप्तिकर्मचित्तमुत्पादकमिति । कस्मात् । वितर्कविचारौ हि वाक्कर्म समुत्पादयतः । न तत्र स्तो वितर्कविचारौः । ब्रह्मलोकोपभोगचित्तमात्रं (
२७३) वाक्कर्म समुत्पादयति । इति । तदयुक्तम् । सत्त्वाः कर्मानुसारेण शरीरमुपाददते । य ऊर्ध्वलोक उत्पद्यते । न स ब्रह्मलोके विपाकमुपभुञ्ज्यात् । अतो ज्ञायते स्वभूमिकचित्तेन वाक्कर्म करोतीति । यदुक्तं भवता न तत्र वितर्कविचारौ स्त इति । तत्पश्चाद्वक्ष्यते स्त इति ।

(पृ) आर्या अपर्यवसन्नसंयोजनप्रहाणा विज्ञप्तिकर्म कुर्वन्ति न वा । (उ) आर्याः प्रकृतितो नावद्यं कर्म कुर्वन्ति । (पृ) श्वादीनां सत्त्वानां [वाग्]ध्वनिः वाक्कर्म भवति न वा । (उ) असत्यप्यालापविशेषे चित्ततः समुत्थानात्कर्मेत्यप्युच्यते । यदि वा व्यक्तलक्षणं यदि वाह्वानं यदि वा वेण्वादि सर्वं [तत्] वाक्कर्मेत्युच्यते । इदं कायिकं वाचिकं कर्मावश्यं मनोविज्ञानादुत्पद्यते । नान्यविज्ञानात् । अतः पुरुषाः स्वकायिकं कर्म पश्यन्ति स्ववाचिकं कर्म शृण्वन्ति च । मनोविज्ञानसमुत्पन्नं कर्म सन्तत्याविच्छिन्नं सत्स्वयं पश्यन्ति शृण्वन्ति च ॥

नवकर्मवर्गः पञ्चदशोत्तरशततमः ।


११६ दशाकुशलकर्मपथवर्गः

सूत्रे भगवानाह- दशाकुशलकर्मपथा यदुत प्राणातिपातादि । पञ्चस्कन्धकलापः सत्त्व इत्युच्यते । तदायुषश्छेदः प्राणातिपातो नाम । (पृ) यदीमे पञ्चस्कन्धाः प्रतिक्षणविनाशिनः । केन वधो भवति । (उ) पञ्चस्कन्धाः प्रतिक्षणविनाशिनोऽपि पुनः पुनः सन्तत्या समुत्पद्यन्ते । तत्सन्ततिसमुच्छेद एव प्राणातिपातो भवति । प्राणातिपातचित्तेन च प्राणातिपातपापं लभते पुरुषः । (पृ) किं प्रत्युत्पन्नपञ्चस्कन्धानां समुच्छेदः प्राणातिपातो भवति । (उ) पञ्चस्कन्धसन्ततावस्ति सत्त्व इत्याख्या । तत्सन्ततिविनाशः प्राणातिपातः । न क्षणिकेषु सत्त्व इत्याख्यास्ति । (पृ) केचिदाहुः कश्चिदनुचरानवलम्ब्य सत्त्वान् हन्ति । अथ वा दृढासिनाभिहत्य सहसा सत्त्वान् हन्ति । तदा तस्य पापं नास्तीति । कथमिदम् । (उ) तेऽपि पापं लभेरन् । कस्मात् । ते वधपापसमन्विताः । चतुर्भिः प्रत्ययैः खलु प्राणातिपातपापं लभन्ते । (१) सत्त्वसत्ता, (२) सत्त्वसत्ताज्ञानम्, (३) जिघत्साचित्तम्, (४) तज्जीवितोच्छेद इति । एभिश्चतुर्भिर्हेतुभिर्मण्डितः पुमान् कथमपापी स्यात् ।

अदत्तादानमिति यद्वस्तु यत्पुरुषसम्बन्धी तत्तस्मात्पुरुषाच्चौर्येण गृह्णाति । तददत्तादानमित्युच्यते । अत्रापि सन्ति चत्वारः प्रत्ययाः- (१) द्रव्यस्य परसम्बन्धिता, (
२७४) (२) परसम्बन्धिताज्ञानम् । (३) चौर्यचित्तम्, (४) चौर्येण ग्रहणमिति । (पृ) केचिदाहुः- निधिः राजसम्बन्धी । य इमं गृह्णाति । स राज्ञः पापं लभत इति । कथमिदम् । (उ) भूमध्यगतद्रव्यस्य न विचारः । भूमावुपरि गतं द्रव्यं परं राजसम्बन्धि स्यात् । कस्मात् । अनाथपिण्डदादय आर्या अपि हीदं द्रव्यं गृह्णन्ति । अतो ज्ञायते नास्ति पापमिति । यः स्वाभाविकद्रव्यस्य लाभः न तत्चौर्यम् ।

(पृ) यदि सर्वे पदार्थाः साधारणकर्मभिरुत्पद्यन्ते । कस्मात्चौर्येण पापं लभन्ते । (उ) साधारणकर्महेतोः समुत्पत्तावपि अस्ति हेतोः प्राबल्यदौर्बल्यम् । यत्[यस्य] पुरुषस्य कर्महेतुबलतिशयाधिष्ठितं तत्द्रव्यं तत्सम्बन्धि । (पृ) यदि कश्चिच्चैत्यात्सङ्घाद्वा किञ्चित्क्षेत्रगृहादिद्रव्यमपहरति । कतरस्मात्पापं लभते । (उ) भगवतः सङ्घस्य वा द्रव्ये नास्ति ममताचित्तम् । असत्यपि ततः पापं लभते । द्रव्यमिदं नियमेन भगवतः सङ्घस्य वा सम्बन्धि । तस्य चौर्ये अदत्तादाने वा अकुशलचित्तं समुत्पन्नमित्यतः पापं लभते ।

काममिथ्याचार इति । या [यस्य] सत्त्वस्य जाया न भवति । तया सह कामचारः । [तस्य] काममिथ्याचारः । स्वजायायामपि अमार्गेण कामचारोऽपि काममिथ्याचार इत्युच्यते । सर्वासां स्त्रीणां सन्ति पालकाः यन्मातृपितृभ्रातृगणस्वामिपुत्रवध्वादयः । प्रव्रजितस्त्रीणां राजादयः पालकाः । (पृ) गणिका न [कस्यचित्] जाया भवति । तया सह कामचारः कथं न काममिथ्याचारः । (उ) अल्पवयस्का हि जाया । यथोक्तं विनये- अल्पवयस्का जाया यावदेकेन श्मश्रृणान्तरिता इति । (पृ) यदि काचिदस्वामिनी स्त्री स्वयमागत्य प्रार्थयते जाया भवामीति । कथमिदम् । (उ) या वस्तुतोऽस्वामिनी कस्यचित्सत्त्वस्य पुरतो यथाधर्ममागता, [तया सह गमनं] न काममिथ्याचारः । (पृ) प्रव्रजितस्य जायापरिग्रहेण काममिथ्याचारादुन्मोकोऽस्ति न वा । (उ) नोन्मोकोऽस्ति । कस्मात् । न ह्यस्ति स धर्मः । प्रव्रजितस्य धर्मः सदा काममिथ्याचाराद्विरतिः । परस्त्री- [गमन]आपत्तितोऽतिजघन्यं पापं भवति ।

मृषावाद इति । यत्कायबाङ्मनोभिः परसत्त्वान् वञ्चयित्वा मृषा प्रतिपादयति । अयं मृषावादः । पापस्य गुरुतरत्वाद्भगवानाह बहूनां पश्नसमाधिः मृषावादः । यावदेकस्मिन् पुरुषे पृच्छत्यपि मृषावादः । किमुत बहूनामिति । यो वञ्चयितुमभीष्टः, (
२७५) तस्मात्पापं लभते । यदि कश्चित्परं वदति अहममुकमीदृशं वदामीति । तद्वस्तुनोऽतत्त्वेऽपि न मृषावादः । किञ्च संज्ञामनुसृत्य मृषावादः । यः पश्यन्न पश्यति संज्ञाम् । स पृष्टो वदति नाद्राक्षमिति । तस्य नास्ति मृषावादपापम् । इति यथा वर्णितं विनये ।

(पृ) यदि कश्चिद्वस्तुविपर्ययातदृष्ट्वा वदति अद्राक्षमिति तस्य कथं न मृषावादः । (उ) सर्वाणि पुण्यपापानि चित्ताधीनानि उत्पद्यन्ते । स पुरुषोऽदृष्टवस्तुनि दृष्टसंज्ञामुत्पादयतीत्यतो नास्ति पापम् । यथा [यस्य] तात्त्विकसत्त्वे नास्ति सत्त्वसंज्ञा । असत्त्वे च सत्त्वसंज्ञोत्पन्ना । स न वधपापं लभते । (पृ) यथा वस्तुसति सत्त्व उत्पन्नसत्त्वसंज्ञो वधपापं लभते । तथा यदि दृष्टे दृष्टसंज्ञामुत्पादयति । तदा न पापं स्यात् । नत्वदृष्टे दृष्टसंज्ञामुत्पादयन्न पापं लभत इति । (उ) पापमिदं सत्त्वोपादानकचित्तमुपादायोत्पद्यते । अतः सत्त्वे सत्यपि सत्त्वसंज्ञाविहीनो न लभते पापम् । [तादृश]चित्ताभावात् । असति सत्त्वे सत्त्वसंज्ञावान् [वस्तुतः] सत्त्वस्याभावादपि न पापं लभते । सति सत्त्वे सत्त्वसंज्ञावान् प्राणातिपातपापं लभत एव । हेतुप्रत्ययानां समग्रत्वात् । यस्य दृष्टे वस्तुनि अदृष्टसंज्ञोत्पद्यते । स पृष्टो वदति नाद्राक्षमिति । स संज्ञाविपर्ययाभावात्न सत्त्वान् वञ्चयति । वस्तुविपर्ययेऽपि सत्यमित्येवोच्यते । यस्यादृष्टे वस्तुनि दृष्टसंज्ञोत्पद्यते । स पृष्टो वदति नाद्राक्षमिति । स संज्ञाविपर्ययात्सत्त्वान् वञ्चयति । वस्त्वविपर्ययेऽपि मृषावाद इत्युच्यते ।

पैशुन्यमिति । यत्कश्चित्परविभेदयिषया वाक्कर्म करोति । तत्पैशुन्यमित्युच्यते । यस्य नास्ति सम्भेदबुद्धिः । परः श्रुत्वा स्वयं भेदयति । स न पापभाग्भवति । यस्तु विनयकुशलबुद्धया दुर्जनान् सम्भेदयति । स सम्भेदे कृतेऽपि न पापभाग्भवति । यः संयोजनानुशयेन कलुषितचित्तो न भवति । स वाचं वदन्नपि न पापभाग्भवति ।

पारुष्यमिति । यत्कश्चित्कटु वदति हितकरञ्च न भवति परस्योपायासमात्रमिच्छति । तत्पारुष्यमित्युच्यते । यस्तु करुणाचित्तेन हितं कुर्वन् कटु वदति । न तस्यास्ति पापम् । यथा निरर्थकप्रयुक्त उपायासे पापमस्ति । [चिकित्सार्थं] कस्मिंश्चित्कायदेशे सूच्या वेधनं कट्वपि न पापं भवति । तथा कटुवचनमपि । बुद्धा आर्या अपि कुर्वन्ती दम् । यथा रूग्णादीनामुपदेशः । यः संयोजनानुशयकलुषितचित्तो न भवति । तेन कृतं कटुवचनं न पापमित्युच्यते । यथा वीतरागादयः । यः कलुषितचित्तेन कटु वदति । स क्लेशोत्पत्तिकाल एव पापं लभते ।

सम्भिन्नप्रलाप इति । यदनृजु असत्यार्थभाषणं स सम्भिन्नप्रलापः । अकाण्डे सत्यवचनमपि (
२७६) सम्भिन्नप्रलापः । सत्यमपि काले विपत्त्यानुलोम्येनाहितकरत्वात्सम्भिन्नप्रलाप इत्युच्यते । सत्यवचनेऽपि काले चाहिते अमूलमनर्थमक्रमं वचनं सम्भिन्नप्रलापः । मोहादिक्लेशविक्षिप्तचित्ततया वचनं सम्भिन्नप्रलापः । कायमनसोरनार्जवमपि सम्भिन्नं कर्म । किन्तु भूयसा वाक्कृतमेव व्यवहारतः सम्भिन्नप्रलाप इत्युच्यते । अन्यानि त्रीणि वाक्कर्माणि सम्भिन्नप्रलापसंमिश्राणि भवन्ति न विवेकभागीनि । यदि मृषावादः कटुवचनाञ्चाविविक्तम् । तदा द्विधा भवति मृषावादः सम्भिन्नप्रलाप इति । यदि मृषावादोऽपि संबिभेदयिषया अकटुवचनः । तदा त्रिधा भवति मृषावादः पैशुन्यं सम्भिन्नप्रलाप इति । यदि मृषावादः कटुवचनः सम्बिभित्सा च । तदा चतुर्धा भवति । यदि नास्ति मृषावादः । कटुवचनमपि अविविक्तं केवलमकाण्डवचनमहितवचनमनर्थवचनम् । तदा सम्भिन्नप्रलापमात्रम् । अयं सम्भिन्नप्रलापोऽपि सूक्ष्मो दुस्त्यजः । केवलं बुद्धा एव तदिन्द्रियं समुच्छेदयन्ति । अतो बुद्धा एव भगवद्वादप्रसाधने श्रद्धेयाः नान्ये ।

(पृ) उक्ताः सप्तविधाः कर्मपथाः । क उपयोगः पुनस्त्रिविधमानसकर्मकथनेन । (उ) केचिद्वदन्ति- पुण्यं पापमवश्यं कायवागधीनं न चित्तमात्रातिति । अतो वदन्ति चित्तमपि कर्मपथः । त्रिविधस्यास्य मानसकर्मणो बलादुत्पद्यते कायिकं वाचिकमकुशलकर्म इति । इदं त्रिविधं यद्यपि गुरुतरम् । मानसकर्मणः सूक्ष्मत्वातिति पश्चाद्वक्ष्यते । सर्वेषां लेशानामकुशलकर्मोत्पादकत्वेऽपि इदं त्रिविधं परं सत्त्वानामुपायासकरत्वादकुशलकर्मपथ इत्युच्यते । यदि रागो मध्यमोऽवरो वा न स कर्मपथो भवति । रागोऽयमधिमात्रः परमधिरज्य संपीडेच्छया सोपायः कायिकवाचिककर्मोत्पादकत्वात्रागेर्ष्या कर्मपथो भवति । प्रतिघमोहावपि तथा । यदि मोह एव सर्वक्लेशात्मक उच्यत इति मतम् । तस्यैव कायवाग्भ्यां सत्त्वानामुपद्रवोत्पादकत्वात्त्रैविध्यमुच्यते ।

(पृ) कस्मान्मोहो मिथ्यादृष्टिर्भवति । (उ) अस्ति [स]मोहविशेषः । कस्मात् । न हि सर्वो मोहोऽकुशलः । यो मोहो मिथ्यादृष्टिप्रवृत्तावधिपतिः सोऽकुशलः कर्मपथः । सर्वाण्यकुशलानि एतत्त्रिमुखाधीनानि भवन्ति । यदि [वा] कश्चिद्धनलाभायाकुशलं कर्म करोति तद्यथा सुवर्णकार्षापणाय प्राणिनं हन्ति । द्वेषेण वा [अकुशलं कर्म करोति] तद्यथा अमित्रं चोरं वा हन्ति । अथ वा न धनलाभाय न द्वेषेण, अपि तु मोहबलेनैव परापराविज्ञानात्प्राणिनं हन्ति । (पृ) चत्वारो दुर्गतिप्रत्ययाः सूत्र उक्ता (
२७७) रागतो द्वेषतो भयतो मोहतश्च दुर्गतिषु पतन्तीति । इदानीमत्र कस्मान्नोक्तं भयतोऽकुशलं कर्मोत्पद्यत इति । (उ) भयं मोहसङ्गृहीतम् । यदुच्यते भयत इति तन्मोहत एव भवति । कस्मात् । न ज्ञानी यावदायुर्विनाशप्रत्ययमपि अकुशलं कर्म करोति । इदञ्च पूर्वं प्रत्युक्तमेव ।

यत्क्लेशविवृद्धिः कायिकवाचिकर्मोत्पादयति स कालोऽकुशलकर्मपथ इत्युच्यते । अस्य त्रिविधस्य भूयसा अकुशलोत्पादकत्वात् । (पृ) कस्मात्कर्मपथ इत्युच्यते । (उ) मन एव कर्म । तत्र चरतीति कर्मपथ इत्युच्यते । अन्तिमत्रितये पूर्वं चरति । आद्यसप्तके पश्चाच्चरति । त्रीणि कर्मपथाः न कर्म । सप्त कर्माणि कर्म च पन्थाश्च । (पृ) कशाताडनसुरापानादीन्यकुशलकर्माण्युक्तानि । कस्माद्दशैवोक्तानि । (उ) गुरुतरपापत्वादिमानि दशोक्तानि । कशाताडनादीनि सर्वाणि तत्परिवाराः पौर्वापरिकाः । न सुरापानं प्रकृतिसावद्यम् । नापि परोपद्रवकृत । परोपद्रवकृदिति स्वीकारेऽपि न सुरापानं तद्भवति ।

(पृ) अकुशलकर्मपथा इमे कुत्र वर्तन्ते । (उ) सर्वत्र पञ्चगतिषु वर्तन्ते । उत्तरकुरुषु केवलं न सन्ति । मिथ्याकामचारस्त्रिभिर्वस्तुभिरुत्थापितः कामरागेण संसिद्धः । अन्ये त्रिभिर्वस्तुभिरुत्थापितः त्रिभिर्वस्तुभिः संसिद्धः । (पृ) आर्याः किमकुशलं कर्म कुवन्ति न वा । (उ) मानसाकुशलकर्मोत्पत्तावपि न कायिकवाचिककर्मोत्पादयन्ति । मानसकर्मण्यपि द्वेषचित्तमात्रमुत्पादयन्ति न वधचित्तम् । (पृ) सूत्र उक्तम्- शैक्षा अन्यान् शपमाना आहुः समुच्छिन्नवृषणो भव इति । तत्कथम् । (उ) [अन्यत्] किञ्चित्सूत्रमाह- अर्हन् शपत इति । अयं क्षीणास्रव पुरुषः प्रहीणक्लेशमूलः चित्तमेव नोत्पादयति । किं पुन शपेत इति । शैक्षस्य शापवचनमपि तथैव स्यात् । आर्या अकुशलकर्मसु अविज्ञप्तिसंवरं लभन्त । कथं कुर्युरकुशलम् । न च ते दुर्गतौ पतन्ति । यद्यकुशलमुत्पादयन्ति । पतेयुरपि । यद्यार्या इहाध्वनि अकुशलं कर्म कृत्वा दुर्गतौ न पतन्ति । अतीताध्वनि अकुशलकर्मवन्त इति कस्मान्न पतन्ति । (उ) आर्याणां मनसि तत्त्वज्ञाने समुत्पन्ने सर्वेऽकुशलकर्मपथा मन्दा भवन्ति यथा दग्धं बीजं न पुनः प्ररोहति ।

(
२७८)
त्रीणि च विषाणि द्विविधानि- दुर्गतिप्रापकाणि तदप्रापकाणीति । यानि दुर्गतिप्रापकाणि तानि आर्याणां प्रक्षीणानि । कर्मक्लेशाभ्यां हि शरीरमुपादीयते । आर्याः कर्मयुक्ता अपि क्लेशविकलत्वान्न पतन्ति । किञ्च ते रत्नत्रयाख्यमहास्थानबलमवष्टभ्य महदकुशलं क्षपयन्ति । यथा कश्चिद्राजाश्रित उत्तमर्णेन न पीड्यते । ते च तीक्ष्णप्रज्ञाविद्या अकुशलं कर्म क्षपयन्ति । यथा कश्चित्कायेऽग्निशक्तिविवृद्ध्या दुष्परिपाचं परिपाचयति । तेषां सन्ति बहव उपायाः । कदाचिद्बुद्धान् स्मृत्वा कदाचित्करुणां स्मृत्वा कुशलकर्महेतुभि[र्वा] अकुशलेभ्यो विमुक्तिं लभन्ते । यथा चोरो वह्वलीकैररण्यदुर्गमाश्रित्य नोपलभ्यते । आर्या इमे ज्ञानेन विमुक्तिमार्गं लभन्ते । यथा गौः स्वामिनं याति । विहग आकाशं निश्रयते । दीर्घरात्रं कुशलधर्माणामभ्यासान्न दुर्गतौ पतन्ति । यथोक्तं सूत्रे- यो नित्यं कायेन शीलं चित्तेन प्रज्ञामभ्यस्यति स नरकवेदनीयं कर्माभिमुखीभूय लघु वेदयते इति । यथा चाह गाथा-

चरन्तं करुणाचित्तेऽप्रमाणेऽनिरावृते ।
गुरुकर्माणि सर्वाणि न किञ्चिदुपयन्ति च ॥ इति ।

आर्याणामेषाञ्चित्तेऽकुशलं कर्म न स्थिरीभवति । सन्तप्तायसि पतितैकजलबिन्दुवत् । आर्याणां कुशलं कर्म सुदूरगामि खदिर वृक्षमूलवत् । आर्याश्चेमे बहुकुशला अल्पाकुशलाः । अल्पमकुशलं बहुकुशलेषु वर्तमानं न बलवत्यथा गङ्गायां क्षिप्तमेकपललवणं न विकारयति तद्रसम् । आर्यास्ते पुण्यश्रद्धादिना धनिकाः । यथा दरिद्र एककर्षापणाय पापं स्वीकरोति । न [तथा]धनिकः शतसहस्रेभ्योऽपि पापं प्राप्नोति । आर्यमार्गप्रवेशाब्दहुमता भवन्ति । यथार्याः सत्यपि पापे न नरकं प्रविशन्ति । यथा व्याघ्रशार्दूलजाश्ववराहानां(णां) सह विवदमानानां बलिष्ठो जयं लभते । आर्याणामेषां चित्तामार्यमार्गोषितम् । दुर्गतिकपापानि न पुनरुपायासयन्ति । यथा राजाध्युषित एकान्तगृहे नान्ये प्रविशन्ति । आर्याः स्वविहृतिस्थानविहारिणः । न [तेषु] दुर्गतिकपापकर्माण्यवकाशं लभन्ते । तद्यथा गृध्रो वा कङ्क इति दृष्टान्तः । किञ्चार्याश्चतुस्मृत्युपस्थानेषु चित्तं प्रतिबध्नन्ति । अतो दुर्गतिककर्माणि नावकाशं लभन्ते । शाखानिवेशितवृत्तघटवत् । द्विविधसंयोजनसमन्वागमाद्धि दुर्गतौ पतितो यथाकर्म विपाकं वेदयते । आर्यास्तु एक [संयोजन]प्रहाणान्न दुर्गतौ पतन्ति । ते सदा कुशलकर्मविपाकं समाददत इत्यतो (
२७९) दुर्गतिककर्माणि नावकाशं लभन्ते । यथा पूर्वं षट्कर्मवर्गे प्रतिपादितं नरक[वेदनीयं] कर्मलक्षणम् । [तादृश]कारणाभावादार्या न दुर्गतौ पतन्ति ॥

दशाकुशलकर्मपथवर्गः षोडशोत्तरशततमः ।


११७ दशकुशलकर्मपथवर्गः

दशकुशलकर्मपथा यदुत प्राणातिपातविरतिः यावत्सम्यक्दृष्टिः । इमे दशशीलसंवरसङ्गृहीता ऐककालिकाः । ध्यानमरूपसंवरसङ्गृहीतमपि ऐककालिकम् । विरतिर्नाम कर्मपथः । साविज्ञप्तिरेव । (पृ) वन्दनादीनि पुण्यानि अन्ये कर्मपथाः सन्ति । कस्माद्विरतिमात्रं कर्मपथ इत्युच्यते । (उ) विरतिप्राधान्यात् । इमानि दश कर्माणि दानादिभ्य उत्कृष्टानि । कस्मात् । दानादिना लब्धः पुण्यविपाको न शीलधारणस्य [तुला]मर्हति । यथा दशवार्षिकः पुमान् प्राणातिपातविरतिप्रत्ययमायुर्वर्धयति । दशाकुशलकर्मणां पापत्वात्तद्विरतिः प्रकृतितः पुण्यम् । अन्तिमानि त्रीणि कुशलकर्माणि कुशलकर्माणां मूलम् । तस्माद्दानादीनि कुशलानि कर्मपथसङ्गृहीतानि । अस्मिन् कर्मपथेऽस्ति पौर्वापर्येणोपनिध्योक्तकशाताडनादिविरतिः । अतः सर्वाणि कुशलानि अत्र सङ्गृहीतानि ॥

दशकुशलकर्मपथवर्गः सप्तदशोत्तरशततमः ।


११८ आदीनववर्गः

(पृ) अकुशलकर्मणां किमादीनवम् । (उ) अकुशलकर्मभिर्नरकादिदुःखं वेदयते । यथोक्तं सूत्रे- प्राणातिपातप्रत्ययं नरके पतति । यदि मनुष्येषूत्पद्यते । अल्पायु र्विन्दते । यावदेवं मिथ्यादृष्टिः । अकुशकर्मप्रत्ययं चिरं दुःखमनुभवति । यथावीचिनरकेऽप्रमाणवर्षाण्यतिवाहयन्नायुः क्षपयति इति । सत्त्वानां विद्यमानाः सर्वा अकुशलपराभवहानिपीडा अकुशलैः [कर्मभि]रेव भवन्ति । अदृष्टाकुशलकर्मणां महोपकारोऽस्ति । यथा सैनिकव्याधादयो नानेन कर्मणा बहुमानं लभन्ते । चोरवधप्रत्ययं धनभानं लभत इति यत्भवत आशयः । तदिदं पूर्वमेव त्रिकर्मवर्गे प्रत्युक्तम् । अकुशलचारी गर्हानिर्भत्सनादीनि (
२८०) दुःखोपायासाङ्गानि विन्दते । परेषामनिष्टप्रापकं क्रूरमित्यत एभ्योऽकुशलकर्मभ्यो विरमितव्यम् । उक्तञ्च सूत्रे- प्राणातिपातस्य पञ्चावद्यानिः- (१) जनानामश्रद्धेयता, (२) दुर्यशःप्राप्तिः, (३) कुशलाद्विप्रकृष्याकुशलप्रत्यासत्तिः, (४) मरणकाले चित्तविप्रतिसारः, (५) अन्ते दुर्गतिपतनमिति । प्राणातिपातप्रत्ययमल्पसुखं बहुद्दुःखं भवति । अकुशलकर्माचरणं पुरुषचित्तं संक्लेशयति । अध्वन्यध्वनि समुपचितसमुदयश्चिरं दुश्चिकित्सो भवति । अकुशलचारी तमसस्तमः प्रविष्टः प्रवृत्तिमार्गत्रितयान्न निर्याणं लभते । अकुशलचारी मनुष्यदेहोपादानं वृथाकरोति । यथोषधिनिचिताथिमगिरेर्विषतृणस्य समाहर्तातिमूढो भवति । एवं दशकुशलकर्मपथैर्मनुष्यदेहं लभते । कुशलमनाचरन् केवलं महतीं हानिमेव करोति । किं पुनरकुशलकर्मसमादाने । किञ्चाकुशलचारी स्वकायं कामयन्नपि न वस्तुतः स्वात्मानं कामयते । स्वात्मानं
रक्षन्नपि नात्मानं रक्षति । आत्मपीडाकरकर्मप्रत्ययत्वात् । पुरुषोऽयं कायसङ्गतः तद्यथामित्रचोरेण [सङ्गतः] स्वात्मन एव दुःखकारकत्वात् । योऽकुशलमाचरति । स स्वयमेव तत्कायं चोरयति । किं पुनः परः । अकुशलकर्मचर्या यद्यपीदानीं नाभिव्यज्यते विपाके तु अध्यवसीयते । तस्मादल्पीयस्यपि अश्रद्धा न कर्तव्या । यथाल्पीयोऽपि विषं पुरुषं हन्ति । यथा वा ऋणमल्पमपि क्रमेण वृद्ध्या वर्धते । परस्य कृतं पापं परः सदा न विस्मरति । अतः कृतं चिरविप्रकृष्टमपि न श्रद्धातव्यम् । अकुशलचारी न सुखे रमते । अकुशलाचरणाद्देवमनुष्यसुखाद्भ्रश्यति । असुखरतो मूढः श्रेष्ठः । अकुशलचारिणो दुःखं गाढशोचनीयं भवति । विप्रतिसारादिदुःखं प्रत्यक्षं वेदयते । अन्ते तु दुर्गतिदुःखं वेदयते । अकुशलकर्मफलात्विहायसा गत्वा समुद्रे निमज्यापि न विमुक्तिस्थानं लभते । यथा सुवर्णतोमरो बुद्धमन्वधावत् । सर्वमकुशलं मोहोत्थितम् । अतो विद्वान्नानुस्मरेत् । उक्तञ्च सूत्रे- प्रमादः शत्रुवत्कुशलधर्मान् हन्ति इति । अतो नानुस्मरेत् । किञ्चाकुशलं कर्म बुद्धबोधिसत्त्वैरर्हद्भिरार्यैः पञ्चभिज्ञैर्महर्षिभिः पुण्यपापवेदिभिरविगीतं न भवति । अतो न कुर्वीत । पश्यामः खलु प्रत्यक्षमकुशलचित्तवैपुल्य एव भावव्यामोहविक्षेपोपायासाधिदुःखैर्विकृतमुखवर्णः पुमानप्रीतो दृश्यत इति । किं पुनः कायिकवाचिककर्मोत्पादने । एभिः प्रत्ययैर्ज्ञायते अकुशलानामप्रमाणान्यवद्यानि सन्तीति ॥

आदीनवर्गोऽष्टादशोत्तरशततमः ।


(
२८१)
११९ त्रिकर्मगौरवलाघववर्गः

त्रिषु कर्मसु किं गुरुतरं- किं कायिकं कर्म, वाचिकं कर्म किं वा मानसं कर्म । (पृ) केचिदाहुः- कायिकं वाचिकञ्च कर्म गुरुतरम् । न मानसं कर्मेति । कस्मात् । कायिकवाचिककर्मणोर्नियमेन सत्यत्वात् । यथा पञ्चानन्तर्याणि कायं वाचञ्चोपादाय क्रियन्ते । कायो वाक्च कर्म निष्पादयति । यथा कश्चिदिमं सत्त्वं हन्मीति चित्तमुत्पाद्य कायवाग्भ्यां तत्कर्म साधयति । न मानसकर्ममात्रेण प्राणिवधपापं विन्दते । नापि चित्तोत्पादमात्रेण चैत्यनिर्माणब्राह्मपुण्यं विन्दते । कायवचस्यसति मानसिककर्ममात्रस्य न विपाकोऽस्ति । यथा कश्चिच्चित्तमुत्पादयति दानं दास्यामीति । न तु प्रयच्छति । न तस्यास्ति दानपुण्यम् । नापि प्रणिधानमात्रेण वस्तु परिनिष्पद्यते । यथा कश्चित्सङ्घस्य महादानं करोमीति प्रणिदधाति । न तु ददाति । तस्य नास्ति सङ्घदानपुण्यम् । मानसं कर्म महत्तरमिति चेत्[तदा] दानपुण्यं लभेत । तथा च कर्मविपाकः व्यामोहः स्यात् । विनये च नास्ति मानस्यापत्तिः । यदि मानसं कर्म महत्तरम् । कस्मान्नास्त्यापत्तिः । यदि चित्तमुत्पादयितुः पुण्यं लभ्यत इति । तदा पुण्यं सुलभं स्यात् । आचरिता कस्मात्सुलभमिदं कर्म त्यक्त्वा दुराचरणं दानादिकर्म कुर्यात् । तथा चेदक्षीणपुण्यः स्यात् । यथा कश्चिद्वृथा चित्तमात्रमुत्पादयति । नात्यन्तं व्याप्रियते । [तदा] कस्य क्षयः । धनं परिमितमित्यतः पुण्य[मपि] क्षीयते । न चित्तोत्पादमात्रं परस्योपकरोति । अपकरोति वा । यथा तर्षितो बुभुक्षितः सत्त्वः पानमाहारमभिलषति । न मानसकर्मणा वार्यते । लौकिकानां हानिलाभावतिमात्रौ । चित्तं लघु चलं दुर्दममित्यतोऽकुशलाकरणं न किञ्चित् । तदा गुर्वी हानिं विन्देरन् । ये पुण्यचिकीर्षया कुशलचित्तमुत्पादयन्ति । ते महालाभमेवाप्नुयुः । इदन्तु अत्यन्तं
दुष्टम् । यदि मानसं कर्म महत्तरम्, प्राणातिपातचिकीर्षाचित्तमुत्पादयन्नरके पतेत् । एवं चिरोपचितेनापि शीलादिना किमुपकृतं स्यात् । शीलादिकुशलाचाराणां गुणा अव्यवस्थिता भवेयुः । कस्मात् । एकचित्तोत्पादमात्रेण पापलाभात् । उक्तञ्च सूत्रे- कायिकं वाचिकं कर्म औदारिकम् । अतः पूर्वं प्रजह्यात् । औदारिकक्लेशप्रहाणाच्चित्तं समाधीयत इति । योऽब्रह्मचर्यचित्तमुत्पादयति । तस्य मैथुनं कृतमिति शीलं विपद्येत । यश्चित्तोत्पादः न तन्मैथुनम् । एतन्मैथुनचित्तव्यतिरिक्तः को धर्मो मैथुनमित्युच्यते । उत्पद्यमानं विज्ञप्तिकर्म सर्वं कायवचसा भवति न मानसकर्मणा । यथा परपुरुषनिन्दा अवश्यं वाक्कर्माधीना मृषावादपापं गमयति । यत्पूर्वमुक्तं चतुर्भिः प्रत्ययैः (
२८२) प्राणातिपातपापं लभते यदुत सत्त्वसत्ता, सत्त्वसत्ताज्ञानं, जिघत्साचित्तं तज्जीवितोच्छेद इति चतुर्भिर्वस्तुभिः पापं सिध्यति । [अतो] ज्ञातव्यं न मानसं कर्म गुरुतरमिति । यथा चाह भगवान्- यो बालक आजन्म करुणामभ्यस्यति । स किमकुशलं कर्मोत्पादयितुं शन्कोति अकुशलं कर्म चेतयते वा इति । अतो ज्ञायते कायिकं कर्मैवोत्पादयति न मानसं कर्म इति ।

अत्रोच्यते । यत्भवानाह- कायिकं वाचिकं कर्मैव गुरुतरं न मानसमिति । तदयुक्तम् । कस्मात् । सूत्रे भगवानाह-

चित्तं धर्मस्य वै मूलं चित्तं प्रभुश्च किङ्करः ।
शुभाशुभं तत्स्मरति वचनं चरणञ्च तत् ॥ इति ।

अतो ज्ञायते मानसं कर्मैव गुरुतरमिति । मनोविशिष्टत्वेन कायिकवाचिककर्मणो र्विशेषोऽस्ति । यथा उत्तमं मध्यममधममित्यादि । विना चित्तं नास्ति कायिकं वाचिकं कर्म । सूत्रे वचनाच्च विज्ञप्तिकर्म कृत्वा नियमेन विपाकं वेदयते । आह च- सप्तविशुद्धिपुण्यानां त्रिविधमानसकर्ममात्रमुपयोजयति । इमानि सप्तविशुद्धिपुण्यानि पुण्यसम्पत्सूत्तमानि भवन्ति । करुणा च मानसं कर्म । सूत्रमाह- करुणाचित्तं विपाकप्रापकमिति । यथाह सूत्रम्- पुराहं सप्तवर्षाणि करुणासमुदाचरणान्नेएमं लोकं सप्तमहाकल्पान् प्रतिनिवर्तामीति । अतो ज्ञायते मानसं कर्मेव गुरुतरमिति । तदेव सर्वान् लोकान् व्याप्तुं शक्नोति । मानसं कर्म गुरुतरम् । यथा मानसकर्मविपाकादशीतिमहाकल्पहस्राण्यायुर्भवति । मानसकर्मणः शक्ति कायिकं वाचिकं कर्मातिशेते । यथा कुशलचारी आयुषोऽन्ते मिथ्यादृष्टिमुत्पादयन्नरके पतति । अकुशलचारी मरणकाले सम्यग्दृष्टिमुत्पादयन् देवेषूत्पद्यते । [ततो] ज्ञातव्यं मानसं कर्म महत्तरमिति । उक्तञ्च सूत्रे- पापेषु मिथ्यादृष्टिर्गुरुतरेति । आह- यो लोकोत्तरां सम्यग्दृष्टिमुत्पादयति स वर्षशतसहस्याणि संसारे संसरन्नपि न दुर्गतौ पतति इति । मानसकर्मणो बलं कायिकं वाचिकं कर्मातिशेते । यथोक्तमुपालिसूत्रे- तीर्थिको महर्षिः [आगत्य वदेत्] एकेन मनोदण्डेन नालन्दं भस्मीकरोमीति इति । यथा दण्डकारण्यानि ऋषिणां मनोदण्डेन [भस्मी]कृतानि इति । मानसं कर्मैव विपाकप्रापकम् । यथोक्तं (
२८३) सूत्रे- योऽयमत्र मृतः स एव नरकं प्रविशति । स एव देवेषूत्पद्यते हस्तमुक्तेषुवतिति । यथा मानसकर्मणोपचित्तैर्मलधर्मैर्यावदवैवर्तिकनरकं प्रविशति । [तथा] उपचितैः कुशलधर्मैर्यावन्निर्वाणम् । चैतसिकस्य सविपाकत्वादेव कायिकं वाचिकं विपच्यते । अभावे कर्मणो
विपाकाभावात् । न विना मानसं कर्म कायवाक्कर्मणोर्विपाकोऽस्ति । यन्मनसा कायं वाचञ्च निश्रित्य कुशलमकुशलं वा चरति तत्कायिकं वाचिकं कर्मेत्युच्यते । विनापि कायिकवाचिककर्मणनसकर्मणो विपाकोऽस्ति । न तु विना मानसं कर्म कायिकस्य वाचिकस्य वा विपाकः । अतो ज्ञायते मानसं कर्म गुरुतरं न कायिकं वाचिकम् । इति ।

यद्भवतोक्तं कायिकवाचिककर्मणोर्नियमेन सत्यत्वात्यथा पञ्चानन्तर्याणि कायं वाच[ञ्चोपादाय] क्रियन्त इत्यतो गुरुतराणीति । तन्न युज्यते । यस्मात्चेतना गुर्वी वस्तु च गुरु तस्मात्कर्म गुरु । न कायवचसी गुरुणी इति । चित्तनैयत्यात्कर्म नियमेन सत्यम् । यथा चित्तबलमात्रेण सद्धर्मपदं प्रविशति तथा चित्तबलेनैव चानन्तर्यपापं सम्पादयति । असति चित्ते मातापितृवधोऽपि नानन्तर्यम् । अतो ज्ञायते कायवचसी न बलवतीति ।

उक्तं भवता काये वाक्च कर्म वस्तु निष्पादयतीति । तन्न युक्तम् । कर्मसमापनं निष्पत्तिः । परस्यायुरपहरन् प्राणातिपातपापं लभते । न कायिकवाचिककर्मोत्पत्तिकाले । कर्मसमापने चित्तबलमवश्यमपेक्षते । न कायवचसी । यदुक्तं भवता- वृथाचित्तोत्पादमात्रेण नास्ति विपाक इति । तदयुक्तम् । यथोक्तं सूत्रे- दृढचित्तमुत्पाद्य तदैव देवेषूत्पद्यते नरके वाधः पतति इति । कथमाह मानसकर्मणो न विपाकोऽस्तीति । यदुक्तं भवता- नापि प्रणिधानमात्रेण वस्तु साधयतीति । तदप्ययुक्तम् । कस्यचिदुत्पन्नं गभीरं कुशलचित्तं महासङ्घ[दान]पुण्यमप्यतिशेते । यदाह भवान्- नास्ति मानस्यापत्तिरिति । तदयुक्तम् । यदाकुशलचित्तमुत्पादयति तदैव पापं लभते । यथाह भगवान्- सन्ति विविधानि पापानि कायिकवाचिकमानसपापानीति । अतो ज्ञायतेऽकुशलचित्तोत्पादमात्रम पापमिति न लभ्यते । असंयोजनमात्रं शीलम्, दुर्धरत्वात् । औदारिकं पापं शीलधारणेन वारयति । सूक्ष्मं पापं समाध्यादिना परिहरति ।

यदुक्तं भवता पुण्यं पापञ्च सुलभं स्यादिति । तदयुक्तम् । चित्तबलस्य तनुत्वात्जनाः सुलभं त्यक्त्वा दुर्लभं कुर्वन्ति । यथा करुणाचित्तादि, तत्पुण्यमतिमात्रबहुलम् । न तु दानं [तथा] । सत्त्वा अवरज्ञानबलाः करुणादि मानसं कर्म चरितुं न समर्था इत्यतो (
२८४) दानादि कुर्वन्ति । प्रकीर्णकुसमगन्धादिषु पूजोपकरणेषु विशुद्धचित्तस्य दुर्लभत्वात् । यदुक्तमक्षीणपुण्यः स्यादिति । तत्प्रतिब्रूमः । स यदि बोधिबलयुक्तः तदा अक्षीणं कुशलधर्मं लभेतैव । यदुक्तं मानसं कर्म न कस्यचिदुपकरोति अपकरोति वा इति । तन्न युज्यते । कायिकवाचिकर्माणि मानसकर्मणाहृतानीति न प्रधानानि भवन्ति । यद्बलादुत्पद्यते तत्[ततः] प्रधानम् । सर्व उपकाराः करुणाचित्तविहाराधीना भवन्ति । कस्मात् । करुणाविहारबलात्समीरणवृष्टयोः ऋतुमनुवर्तमानयोरपि बीजशतानि पच्यन्ते । यथा कल्पादौ तण्डुलानि स्वयमुत्पद्यन्ते पुरुषाणां दशवर्षायुःकाले प्राप्ते तत्सर्वं नाभूत । कथमाह- करुणाचित्तमनुपकारकमिति । करुणाविहारी सर्वाण्यकुशलमूलानि क्षपयति । अकुशलकर्माधीना हि सर्व उपद्रवाः । कथमाह- करुणाविहारो महोपकारक इति । यदि सर्वे सत्त्वाः करुणाचित्ते विरहन्ति । तदा सर्वे सुस्थान उत्पद्येरन् । न हि सर्वे प्रकृतितः पुण्यप्रयोगमभिलषन्ति । अतो ज्ञायते करुणापुण्यं परमगभीरगहनमिति । कदाचित्करुणादानाभ्यां सत्त्वानुपकुर्वन्ति । कदाचित्करुणामात्रेण । करुणाविहारिणः सत्त्वा यदि कायं स्पृशन्ति । यदि वा तच्छायायां निपतन्ति । सर्वथा निवृतिं लभन्ते । ज्ञातव्यं करुणापुण्यं दानादिभ्य उत्तममिति ।

यदुक्तं भवता- हानिलाभावतिमात्राविति । तत्प्रत्युक्तपूर्वं यन्मनोबलेन सत्त्वानुपकरोति अपकरोति चेति । अतो ज्ञायते मानसं कर्म गुरुतरमिति । यदुक्तं चिरोपचितेनापि शीलादीना न किञ्चिदुपकृतमिति । तदप्ययुक्तम् । कस्मात् । मनोविशुद्धया हि शीलविशुद्धिः । यदि मनो न विशुद्धम् । शीलमपि न विशुद्ध्यति । यथेदं सप्ताब्रह्मचर्यसूत्र उक्तम् । विशुद्धशीलश्च महाविपाकं प्रतिलभते । यथाह सूत्रम- शीलव्रतः प्राणिहितं मनोऽनुयायि भवति । यदुत शीलविशुद्ध्या इति । शीलविशुद्धौ च चित्तं प्रशाम्यति । नान्यधर्मे [सति] । यदुक्तं कायिकं वाचिकं कर्मादौरिकम् । अतः पूर्वं प्रजहातीति । तदयुक्तम् । सूक्ष्मकुशलेन महाविपाकं लभते । यथा ध्यानसमापत्तौ चेतना । यदुक्तं यद्यब्रह्मचर्यचित्तमुत्पादयति तदा शीलं विपद्येतेति । तदयुक्तम् । यस्य मानसं कर्माविशुद्धम्, तस्य शीलमपि अविशुद्धम् । पुण्यपापयोर्भेदे लब्धे संयोजनशीलधर्मयोर्भेदः । यदुक्तं त्वया- उत्पद्यमानं विज्ञप्तिकर्म कायवाग्भ्यां भवतीति । तत्सामान्यतः प्रत्युक्तं यदुत कायिकवाचिककर्मधर्मभेदे मानसकर्मधर्मभेदः । कायिकं वाचिकं कर्म अवश्यं विज्ञापयित्रा सिध्यति । यथा चतुर्भिः प्रत्ययैः सिद्धं प्राणातिपातपापं न मानसकर्म विना भवति । लौकिकाः सत्वा वदन्ति कायिकं वाचिकं कर्माकुशलं न तथा मानसमिति । (
२८५) मानसं कर्म च न जनेषूपप्रयुज्यते नाप्युपलभ्यतेऽस्तीति । पूर्वञ्चोक्तं पुण्यपापयोर्लक्षणम् । तल्लक्षणत्वान्मानसं कर्मैव गुरुतरं न कायिकं वाचिकं वा ॥

त्रिकर्मगौरवलाघववर्ग एकोनविंशत्युत्तरशततमः ।


१२० कर्महेतुप्रकाशनवर्गः

शास्त्रमाह- संक्षिप्योक्तानि कर्माणि । कर्मेदं कायोपादानस्य कारणम् । कायो दुःखस्वभावः । अतस्तं निरोधयेत् । एतत्कायनिरोद्धुकामेन तत्कर्म प्रहातव्यम् । हेतुनिरोधे फलस्यापि निरोधात् । यथा बिम्बमुपादाय प्रतिबिम्बम् । बिम्बनिरोधे प्रतिबिम्बं निरुध्यते । अतो दुःखनिरोधकामिना तद्धेतुकर्मप्रहाणाय वीर्यमारब्धव्यम् ।

(पृ) कर्मतः काय उत्पद्यत इतीदं प्रतिपादयितव्यम् । कस्मात् । केचिदाहुः- कायः प्रकृतित उत्पद्यत इति । केचिदाहुः- महेश्वरादुत्पद्यत इति । केचिदाहुः- महापुरुषात्सम्भूत इति । अन्ये केचिदाहुः- स्वभावज इति । अतो वक्तव्यं कारणं कथं ज्ञायते कर्मत उत्पद्यत इति । (उ) इदं विविधैः कारणैर्दूषितम् । ज्ञातव्यं कर्मतः कायमुपादत्त इति । पदार्था नानाविप्रकीर्णजातय इति ज्ञातव्यं हेतुरपि भिद्यत इति । यथा पश्यामः अलकसन्दुककोद्रवादीनां भेदः तद्बीजमसमं ज्ञापयति इति । महेश्वरादीनां भेदाभावात्न हेतुरिति ज्ञातव्यम् । कर्मणस्तु अप्रमाणविभक्तत्वात्नानाकाया उपादीयन्ते । किञ्च सज्जनाः श्रद्धधन्ते यत्कर्मोपादाय काय उपादीयत इति । कस्मात् । ते हि सदाचरन्ति दानशीलक्षान्त्यादिकुशलधर्मान् । विरम्यन्ते च प्राणातिपाताद्यकुशलधर्मेभ्यः । अतो ज्ञायते कर्मतः शरीरमुपादीयत इति । यदि कर्मोपादाय शरीरमुपादीयते तदा तत्निवर्तनीयम् । तत्त्वज्ञानलाभान्मिथ्याज्ञानं प्रहीयते । मिथ्याज्ञानप्रहाणात्कामक्रोधादयः क्लेशाः प्रहीयन्ते । क्लेशानां प्रहाणादूर्ध्वजन्मोत्पादकं कर्मापि प्रहीयते । तदा त्वयं कायो निवर्त्यते । ईश्वरादीनां कारणत्वे तु न निवर्तयितुं शक्यते । ईश्वरादीनामप्रहातव्यत्वात् । अतो ज्ञायते कर्मतः शरीरमुपादीयत इति । प्रत्यक्षं प्रश्यामः खलु हेतुसदृशं फलम् । यथा क्रोद्रवात्कोद्रव उत्पद्यते शालेश्च शालिः । एवमकुशलकर्मतोऽनिष्टविपाको लभ्यते । कुशलकर्मत इष्टविपाकः । ईश्वरादीषु तु नेदृशमस्ति । अतः कर्म कायस्य मूलम् । नेश्वरादयः ।

(
२८६)
पश्यामः खलु प्रत्यक्षं पदार्थाः कर्मसम्भूता इति । अकुशलकर्मणा हि ताडननिग्रहबन्धनकशाधातादिदुःखान्यनुभवन्ति । कुशलकर्मप्रत्ययञ्च यशोलाभसत्कारादिसुखान्यनुभवन्ति । मनोज्ञप्रियवादी मनोज्ञप्रियविपाकं विन्दते । अतो ज्ञायते कर्मतः शरीरमुपादीयते न महेश्वरादिभ्य इति । लौकिकाः स्वयं जानन्ति पदार्थाः कर्महेतसम्भूता इति । अत एव कृष्यादिकर्म कुर्वन्ति । दानशीलक्षान्त्यादिपुण्यकर्माणि च कुर्वन्ति । नान्त[र्गृह]मुपविशन्ति ईश्वरादिभ्य ईप्सितमाकांक्षमाणाः । अतो ज्ञायते कर्मतो विपाको लभ्यत इति । जना ईश्वरादीन् कारणं वदन्तोऽपि कर्माणि निश्रयन्ते यदुत स्वदेहं खेदयन्त उपवासादीन् स्वीकुर्वन्ति च । अतो ज्ञायते कर्महेतुकमिति । यददृष्टं वस्तु तत्र परशासनमनुसरेत्यदार्याणामाचरितम् । सर्वे चार्याः शीलादिकुशलधर्मान्निश्रयन्ते यतो जानन्ति कर्महेतोर्लोकोऽस्तीति । यदि शीलादिविरतः न [स] आर्यो भवति । न कश्चिदार्यः शासनप्रतिद्वन्द्विकर्मको भवति । अतो ज्ञायते कर्मणः शरीरमुपादीयत इति । किञ्च शीलादि कर्मणामाचरणादृध्यभिज्ञानिर्मितादीनि साधयन्ति । अतो ज्ञायते कर्महेतुक इति । नरकादिदुर्गतिषु द्वेषप्रदाशादयो बहुलाः । अतो ज्ञायते द्वेषप्रदाशादिना दुर्गतयो भवन्तीति । यथा उपरि वृक्षे फलं दृष्ट्वा जानन्ति वृक्षस्तद्धेतुरिति । अतो ज्ञायते कर्म देहस्य मूलमिति । दुर्गतौ मोहादयः प्रबला इति ज्ञातव्यं क्लेशाः दुर्गतिकारणम् । सर्वेषामकुशलानां मोहाधीनत्वातिति । दुर्गतिषूत्पन्ना बहवः, सुगतिषूत्पन्ना अल्पाः । चक्षुषा पश्यामः खलु वधाद्यकुशलचारिणो बहवः । कुशलचारिणोऽल्पा इति । अतो ज्ञायते हिंसादिवृत्तिर्दुर्गतिकारणमिति । वधादि सज्जना विगर्ह्य न कुर्वन्ति । यदि जानन्ति नाशुभफलानीति कस्मात्निराकुर्वन्ति । सज्जानानां चित्ते यद्यकुशलमुत्पद्यते तदैव प्रयत्नेन निगृह्यते । अकुशलविपाकभीरुत्वात् । [अतो] ज्ञातव्यं वधादयो
ऽवश्यमकुशलविपाका इति । तथा नोचेत्यथेष्टं कुर्यः इदमेव परमं सुखमिति । तदा हत्वा सत्त्वानां भोजनं परद्रव्यापहारः यदि वा परस्त्रीगमनमिमान्यपि सुखानि भवेयुः । आगामिदुःखभीरुत्वात्तानि दूरतः परिहरन्ति । अतो ज्ञायते कर्मतः कायो भवतीति । सम्यक्ज्ञानभावनया सास्रवं कर्म क्षीयते । न तदा काय उपादीयते । अतो ज्ञायते कर्म तस्य मूलमिति । अर्हतो यद्यपि सास्रवकर्माणि सन्ति । सम्यक्ज्ञानभावनया तु [तानि] नोपचिनोति । अतो ज्ञायते कर्म कायस्य हेतुरिति । कायहेतुनिरोधात्कायोऽपि निरुध्यते । चतुस्सत्यज्ञानात्सत्याश्रयाः क्लेशा न कदापि पुनरुद्भवन्ति । अनुद्भवान्न भवति कायवान् । विद्वानेवं चिन्तयन् चतुस्सत्यानि जिज्ञासति । अतो ज्ञायते कर्म कायस्य हेतुरिति । प्रत्यये विकले च न (
२८७) कायमुपादत्ते । यथा शुष्कभूमौ बीजे च दग्धे न सर्वोऽङ्कुरः प्ररोहति । एवं विज्ञानस्थितिक्षेत्रे तृष्णास्नेहानभिष्यन्दिते कर्मबीजे च तत्त्वज्ञानदग्धे नोर्ध्वदेहाङ्कुरः प्ररोहति । विद्वानेतद्वस्तु प्रज्ञाय विज्ञानस्थितिक्षेत्रं शोषयितुं कर्म बीजं दग्धुञ्च वीर्यमधिष्ठाय प्रयतते । अतो ज्ञायते कर्म कायोपादानस्य प्रत्यय इति ॥

कर्महेतुप्रकाशनवर्गो विंशत्युत्तरशततमः ।
कर्माधिकारः समाप्तः ॥


(
२८८)
१२१ समुदयसत्यस्कन्धे क्लेशाधिकारे आद्यक्लेशलक्षणवर्गः

शास्त्रमाह- उक्तानि कर्माणि । क्लेशा इदानीं वक्ष्यन्ते । मलिनचित्तसमुदाचारः क्लेश इत्युच्यते । (पृ) किं मलमुच्यते । (उ) यत्संसारसन्तानस्य प्रवर्तकं तन्मलिनचित्तमित्युच्यते । तन्मलिनचित्तप्रभेदा एव रागद्वेषमोहादयः । इदं मलिनचित्तं क्लेश इत्युच्यते । पापधर्म इत्यपि, परिहाणिधर्मः तिरोभावधर्म परितपनधर्म अनुपतनधर्म इत्यादिनाम्नाप्युच्यते । एतन्मलिनचित्ताभ्यासोपचयोऽनुशय इत्युच्यते । न तु मलिनचित्त उत्पन्नमात्रेऽनुशयः । क्लेशा नाम रागद्वेषमोहविचिकित्सामानपञ्चदृष्टयः । तत्प्रभेदा अष्टनवतिरनुशयाः ।

रागः प्रीतिसुखाख्यस्त्रिविधः । विभवप्रीतिसुखमपि राग इत्युच्यते । यथोक्तं सूत्रे- कामतृष्णा भवतृष्णा विभवतृष्णा इति । विभवो नाम प्रहाणं निरोधः । सत्त्वा दुःखाभिहता स्कन्धकायं परिजिहीर्षवो विभवं सुखं मन्यन्ते ।

(पृ) प्रीतिसुखं वेदनालक्षणं न नन्दिरागः । यथोक्तं सूत्रे- ऐहिकं सौमनस्यमामुष्मिकं सौमनस्यमिहलौकिकसुखवेदना आमुष्मिकसुखवेदना इत्यर्थमभिदधाति इति । किञ्चाह- ऐहिकं दौर्मनस्यमामुष्मिकं दौर्मनस्यमिहलौकिकदुःखवेदना आमुष्मिकदुःखवेदना इत्यर्थमभिदधाति । यथोक्तं देवताप्रश्ने- किं नन्दति पुत्रैः पुत्रवान् । भगवानाह- शोचति पुत्रैः पुत्रवानित्यादि ।

(
२८९)
अत्रोच्यते । रागो नन्द्यङ्गम् । यथोक्तं सूत्रे- वेदनाप्रत्यया तृष्णा । सुखवेदनायां रागोऽनुशयः । कबलीकाराहारेऽस्ति नन्दिरस्ति रागः । नन्दिक्षयाद्रागक्षय इति । अतो ज्ञातव्यं रागः प्रीत्यङ्गमिति । इदं त्वनवद्यम् । केन तत्ज्ञायते । यथोक्तं सूत्रे- समुदयसत्यं यदुत तर्षणमिति । कस्याभिधानं तर्षणम् । यत्पुनर्भवलिप्सा । किंलक्षणमिदं तर्षणम् । यत्रागं निश्रित्य विविधलिप्सा । (पृ) यद्युच्यते पुनर्भवलिप्सा तर्षणलक्षणमिति । कस्मात्पुनरुच्यते रागं निश्रित्य विविधलिप्सेति । (उ) अस्ति पुनस्तर्षणलक्षणम् । विविधलिप्सेति विशिष्टलक्षणवचनम् । वीतरागस्याप्यस्ति विविधलिप्सातर्षणं यदुत सलिलादिलिप्सा । नेयं समुदयसत्यसङ्गृहीतम् । यद्रागमुपदाय पुनर्भवलिप्सा, तत्तर्षणं समुदयसत्यसङ्गृहीतम् ।

(पृ) यदि तर्षणमपि नन्दिः, रागोऽपि नन्दिः कस्मादुच्यते रागं निश्रित्येति । (उ) आद्योत्पन्नं तर्षणम् । विवृद्धो रागः । अतस्तं निश्रित्येत्युच्यते । यथोक्तं सूत्रे- नन्दिसम्बन्धो लोक इति । अतो नन्दिरेव रागः । उक्तञ्च सूत्रे- निरोधं वर्जयित्वा रागो दौर्मनस्यञ्च सर्वेऽकुशला धर्मा इति । तत्र राग एव नन्दिः । दौर्मनस्यं द्वेषः । यथोच्यते द्वेषो दौर्मनस्यमिति तदा ज्ञायते नन्दिः राग इत्युप्युच्यत इति । अतोऽष्टादशमनौपविचारेषु न क्लेशा उच्यन्ते केवलं वेदना उच्यन्ते । अतो ज्ञायते नन्द्यङ्गं राग इति । पृथग्जना वीतरागा न वेदयन्ते सुखम् । वीतद्वेषाश्च न दुःखं वेदयन्ते । वीतमोहा नादुःखमसुखं वेदयन्ते । केन तत्ज्ञायते । तृतीयवेदनायामुच्यते पृथग्जना अस्या वेदनाया न जानन्ति समुदयं, न जानन्ति निरोधं, न जानन्ति आस्वादं, न जानन्ति आदीनवं न जानन्ति निस्सरणम् । अतोऽदुःखासुखवेदनायामविद्यानुशयोऽनुशेते । इमे पृथग्जनाः सदा पञ्चधर्मान् तान्न जानन्तीत्यतोऽदुःखासुखवेदनायां सदाविद्यानुशयं र्वन्ति । योऽविद्यानुशयः तद्वेदनोपविचारस्वभावाज्ञानम् । एवं पृथग्जनानां सुखदुःखमनौपविचारावेव (
२९०) रागप्रतिघौ । यदादावागत्य चित्ते वर्तते [सा] वेदनेत्युच्यते । तदेव चित्तमधिमात्रं क्लेश इत्युच्यते ।

समुदयसत्यस्कन्धे क्लेशाधिकारे आद्यक्लेशलक्षणवर्गमेकविंशत्युत्तरशततमः ।


१२२ रागलक्षणवर्गः

शास्त्रमाह- नवसंयोजनेषु रागोऽयमात्रिधातुप्रतिप्रतिसंयुक्तस्तृष्णेत्युच्यते । सप्तानुशयानामङ्गं द्विधा भवति- कामरागो भवराग इति । कस्मात् । केचिदूर्ध्वधातुद्वये विमुक्तिसंज्ञामुत्पादयन्ति । अतो भगवानाह- स्थानमिदं भव इति । भवो नाम जन्म । असति रागे न जन्म भवति इत्यतः पृथगुच्यते भवराग इति । न तु कामरागमात्रम् । केचिदाहुः- कामरागमात्रं क्लेशः । क्षीणकामरागो विमुक्तो नाम इति । अतो भगवानाह- आरूप्यध्यानेऽप्यस्ति भवराग इति । प्रदर्शयति च भगवान् तत्र[आपि] भवः सूक्ष्मः प्रवर्तत इति । अतः पृथगुच्यतेऽयं रागः । दशाकुशलकर्मपथेषु चतुर्षु बन्धनेषु च कामराग इत्याख्या भवति । कामरागस्य परद्रव्यलिप्येत्याख्या । पञ्चनीवरणानां पञ्चावरभागीयसंयोजनानाञ्च कामकामनेत्याख्या भवति । [तत्र]कामकामना नाम पञ्चकाम [गुणा]नां कामकामना । त्रयाणामकुशलमूलानामकुशलमूलराग इत्याख्या । अकुशलमूलरागो नाम अकुशलमूलानामुपचयनम् । अयं रागो यद्यधमाचरणः तदा अकुशलराग इत्याख्या । यथा परद्रव्यापहरणं, यावच्चैत्यसङ्घद्रव्यादानम् । यद्यमृतसत्त्वस्य मांसबुभुक्षा, यदि वा मातृभगिनीस्वस्राचार्यपत्नीः प्रव्रजितपत्नीं स्वपत्नीं वामार्गेण जिगमिषति । अयमकुशलराग इत्युच्यते । यत्स्वद्रव्यं न त्यक्तुमिच्छति । तत्कार्पण्यम् । कार्पण्यं राग एव । वस्तुतोऽसति गुणे अस्तीति वक्तुमन्यप्रेरणमकुशलरागः । सति गुणे अन्यस्य तद्विजिज्ञापयिषा रागोत्पादनम् । बहुदानस्य बहुद्रव्यस्य वा लिप्सा, सा बहुरागता । यदल्पद्रव्यस्याल्पदानं लब्ध्वा प्रियतरं कामयते न तृप्यति । [इय]मसन्तुष्टिः । गोत्रकुलबन्धुयशोरूपसम्पद्यौवनजीवितादिषु यदभिष्वङ्गः [स] मद इत्युच्यते । यच्चतुःसत्काररागः [तत्] तृष्णाचतुष्टयमित्युच्यते ।

अयञ्च रागो द्विविधः कामरागः उपकरणराग इति । पुनर्द्विविधः आत्मराग आत्मीयराग इति । आद्य आद्यात्मिकप्रत्ययः । अपरो बाह्यप्रत्ययः । ऊर्ध्वधातुद्वये राग एकान्तेनाध्यात्मिकप्रत्ययः । (
२९१) पुनः पञ्चविधः- रूपरागः, संस्थानरागः, स्पर्शरागः, इर्यापथप्रलापरागः, सर्वराग इति । रूपरसगन्धशब्दस्पर्शरागः पञ्चकामगुणरागः । षट्सु स्पर्शेषूत्पन्ना तृष्णा षड्विषयरागः । तिसृषु वेदनासु रागोऽस्ति सुखवेदनायामस्ति लिप्सारागः, तत्परिपालनरागः । दुःखवेदनायामस्ति अलिप्सारागः तत्परिजिहीर्षारागः । अदुःखासुखवेदनायामस्ति मोहरागः । सन्ति चास्य रागस्य नवाङ्गानि । यथोक्तं महानिदानसूत्रे- तृष्णां प्रतीत्य यथेष्टवस्तुपर्येषणा । यथा कश्चितनेन वस्तुना दुःखितो वस्त्वन्तरं पर्येषते । यथोक्तम्- सुखी न पर्येषते दुःखी तु बहु पर्येषते । रागविवृद्धिः पर्येषणा । पर्येषणाकाले यल्लभ्यते [स] तृष्णालाभः । लाभं प्रतीत्य विनिश्चयः । इदं ग्राह्यमिदमग्राह्यमिति यच्चित्तनिर्धारणं स विनिश्चयः । विनिश्चयं प्रतीत्य छन्दरागः । छन्दरागं प्रतीत्याध्यवसानम् । अध्यवसानं नाम प्रगाढच्छन्दः । अध्यवसानं प्रतीत्य परिग्रहः । परिग्रहो नाम उपादानम् । उपादानं प्रतीत्य मात्सर्यम् । मात्सर्यं प्रतीत्य आरक्षा । आरक्षाधिकरणं दण्डादानशस्त्रादानादि । इमानि नवाङ्गानि पुनरपि नवाङ्गगानि । रागोऽयं कालमनुसृत्य अधमः, मध्यमः, उत्तमः, अधमाधमः, अधममध्यमः, अधमोत्तमः, मध्यमाधमः, मध्यममध्यमः,
मध्यमोत्तमः, उत्तमाधमः, उत्तममध्यम, उत्तमोत्तम इति । रागस्य चास्य लौकिकाङ्गानि दश भवन्ति । तद्यथा प्रियरूपं दृष्ट्वा चित्ते इदं [प्रिय]मिति वचनं करोति । ततो रागं जनयति । प्रणिधानं करोति । अनुस्मरति । यथाशिक्षितं प्रकटयति । ह्र्यपत्रपां विस्मरति । सदा स्वयं पुरोवर्तते । प्रमत्तो भवति । उन्मत्तो भवति । मुर्च्छामरणं [करोति] । इदं रागलक्षणम् ॥
रागलक्षणवर्गो द्वाविंशत्युत्तरशततमः ।


१२३ कामहेतुवर्गः

(पृ) कामोऽयं कथमुत्पद्यते । (उ) स्त्रीरूपाध्यालम्बने यदि मिथ्यामनस्कारमुत्पादयति । यदि वा तद्रूपे यदि वाकारे यदि वा स्पर्शे यदि वा सुभाषिते [मिथ्यामनस्कारमुत्पादयति] । तदा कामराग उत्पद्यते । चक्षुः श्रोत्रादिद्वारासंवरणे कामराग (
२९२) उत्पद्यते । भोजने चामात्रताज्ञाने कामराग उत्पद्यते । स्त्रीरूपसंस्तवे कामराग उत्पद्यते । सुखानि वेदयतः कामराग उत्पद्यते । मोहात्कामराग उत्पद्यते । अशुचिसंज्ञाजननात्, दुर्विज्ञानात्कामराग उत्पद्यते । यथा शुद्धं वस्त्र [मपगतकलङ्कं] सम्यङ्मलेन दूष्यते । रागबहुलानां पुरुषाणां संवासेन कामराग उत्पद्यते । कायादिषु चातुर्भौतिकेषु मिथ्यामनस्कारमुत्पादयन् कामाहृतो भवति । अप्रगृहीतवृत्तघटवदग्रथितकुसुमवच्च । यदि कौसीद्यान्न कुशलं भावयति । तदा कामरागोऽवकाशं लभते । अगम्यस्थाने गच्छन् रागेणा भिभूयते । यदुत वेश्याङ्गनामद्यविक्रयवधककुट्यादयः । तद्यथा गृध्रो वा कङ्को वा इति दृष्टान्तः । अशुच्यादि विलोक्य अप्रतिहतालम्बनस्य कामरागो वेगं लभते । सुचिरादारभ्य सदा कामरागाभ्यासात्रागानुशयः सिध्यति । तदा सूत्पादोऽयं भवति । स्त्रीरूपाद्यलम्बने प्रीतो निमित्तं गृह्णाति परिच्छेदञ्च गृह्णाति । निमित्तग्रहणं नाम पाणिपादमुखनयनालापमन्दहासकटाक्षरोदननयनबाष्पादिनिमित्तानां ग्रहणम् । परिच्छेदग्रहणं नाम स्त्री पुमानिति संस्थानविशेषविकल्पः । एवं गृहीतानुस्मरणविकल्पस्य कामराग उत्पद्यते । दुर्बलविचारणाचित्त आलम्बनमनुधावति न निगृह्णाति । तदा कामराग उत्पद्यते । यः प्रवृत्तकामरागः [तत्]क्षान्तिं वेदयन्न परित्यजति । स क्रमशो वर्धयति । अधमान्मध्यममुत्पादयति । मध्यमादधममुत्पादयति ।

कामरागस्य हितास्वादमात्रं दृष्ट्वा तदानीनवमजानतः कामराग उत्पद्यते । ऋतुना च कामराग उत्पद्यते यथा वसन्तादयः । स्थानवशेन च कामराग उत्पद्यते यथा किञ्चित्स्थानं यत्र चिरादारभ्य कामचारो बहुशोऽभ्यस्तः । देहस्या [वस्था]वशाच्च कामरागो भवति । यथा यूनोऽरोगस्य धनसम्पन्नस्य । बलशक्त्या च कामरागो भवति । यथा पानौषधादिः । शुभान्मनोहारिणः पञ्चकामगुणान् यदुत सुपुष्पितसरारामप्रसन्नस्निग्धवापीकूपनवमेघतटित्सुरभिवातव्यजनानि लब्धवतः, पक्षिणां कलरवं स्त्रीणां सुकुमारभूषणरुतानि सुभाषितानि वा शृण्वतः कामराग उत्पद्यते । कर्मप्रत्ययेन च कामराग उत्पद्यते । यथा विशुद्धदाता विशुद्धप्रणीतेषु पञ्चकामगुणेषु संप्रहर्षति । पापी तु अविशुद्धेषु । जातितश्च कामरागो (
२९३) भवति । यथा पुरुषः पुरुषमिच्छति । प्रज्ञप्तावत्यासङ्गे च कामराग उत्पद्यते । [यथा] कश्चिदन्तःपुंलक्षणो बहिस्तु स्त्रीलक्षणो वस्त्रवेषवैरमैत्र्यादिलक्षणश्च । अलब्धचित्तसमाधानस्य अन्तः सत्त्वं पश्यतो बहिः रूपादि पश्यतश्च कामरागो भवति । यस्य रागानुशोऽक्षीणः तृष्णाप्रत्ययश्च सम्मुखी भवति । तस्य मिथ्यामनस्कार उत्पद्यते । एवमादिप्रत्ययैः कामरागौत्पद्यते ॥

कामहेतुवर्गस्त्रयोविंशत्युत्तरशततमः ।


१२४ कामदोषवर्गः

(पृ) कामरागस्य के दोषाः सन्तीति कामः प्रहातव्यः । (उ) कामरागो वस्तुतो दुःखम् । पृथग्जना विपर्ययेण मृषा [तत्र] सुखसंज्ञामुत्पादयन्ति । ज्ञानी तु दुःखं पश्यति । दुःखं पश्यन् प्रजहाति । कामोपादाने नास्ति तृप्तिः । यथा मद्यपानं तत्परितर्षणमनुवर्धयति । परितर्षणविवृद्ध्या कः सुखी भवति । कामोपादानादकुशलानि सहोपचीयन्ते । असिशस्त्रादीनां कामाधीनत्वात् । उक्तञ्च सूत्रे- कामः पापो लघुर्दूस्त्यजः । व्यापाद[गतो] लघुपापः, वस्तुतः स [ततोऽपि] लघुत्तरः इति । कामः पुनर्भवस्य हेतुः । यथोक्तं- तृष्णाप्रत्ययमुपादानं यावन्महतो दुःखस्कन्धस्य समुदय इति । तृष्णां प्रतीत्य कायो भवति । आह च दुःखहेतुस्तृष्णा भवतीति । किञ्चाह- विद्यमानानि दुःखानि भिक्षवः कस्माद्भवन्तीति मनसिकृत्वा जानीध्वं [तानि] कामहेतुकानि । तृष्णायाश्च कायो हेतुरिति । किञ्चाह- कबलीकारे [भिक्षव] आहारेऽस्ति नन्दि अस्ति रागः । अतो विज्ञानं तत्र प्रतिष्ठितमिति । ज्ञातव्यं तृष्णा कायवेदनायाः प्रत्यय इति । अयञ्च रागः सदा अशुचौ समुदाचरति । यथा स्त्र्यादिषु । स्त्रीणां कायचित्तमशुचि शकृन्मृत्सु [विद्यमान]वृश्चिकवत्दष्ट्वा दूषयति । स कामरागः सदा मोहे समुदाचरति । यथोक्तं सूत्रे- यथा श्वा रक्तलिप्तमस्थिकङ्कालं स्वादयित्वा [स्व]लालायोगान्मन्यते यन्मधुर[मिद]मिति । तथा राग्यपि नीरसे कामे मिथ्याविपर्यासबलेन मन्यते यदिदं रसास्वादमिति । (
२९४) यथा मांसपेश्यादयः ससोपमा [उक्ताः] । केषाञ्चिदतीतेऽतागते वा वस्तुनि कामराग उत्पद्यते । अतो ज्ञायते मोहे सदा समुदाचरतीति । सत्त्वानां कामरागप्रत्ययं सुखमल्पं दुःखं बहु केन किम् [स्यात्] ।

कामतृष्णावान् सुखहेतोः सर्वदुःखान्यनुभवति यदुतार्जनकाले दुःखं रक्षणकाले दुःखमुपभोगकालेऽपि दुःखम् । यथा कृषिवाणिज्यसंग्रामराजसेवापरिचर्यादीनि अर्जने दुःखं हानभीत्या रक्षणे दुःखं, प्रत्युत्पन्ने तृप्त्यभावाद्दुःखम् । इष्टसङ्गमे प्रीतिरल्पा विरहे च दुःखं बहु । यथो ज्ञायते कायो बहुदोष इति । यथाह भगवान्- कामतृष्णायाः पञ्चादीनवाः- अल्पास्वादो बहुदुःखं, संयोजनादीपनमामरणतृप्तिरार्यविगर्हणमकुशलं विना न करणमिति । अनेन कामरागेण सत्त्वाः संसारस्रोतानुगामिनो निर्वाणाद्दूरीभवन्ति । एवमादीन्यप्रमाणान्यवद्यानि सन्ति । इति ज्ञातव्यं कायो बहुदोषः इति ।

क्लेशा रागमुपादाय भवन्ति यथा कामरागात्क्लेशाः सर्वे समुद्भवन्ति । तृष्णानुशयेऽनुन्मूलिते पुनः पुनर्दुःखमनुभवति । यथा विषवृक्षोऽनुच्छिन्नः सदा पुरुषं हन्ति । रागेण सत्त्वा गुर्वी धुरं वहन्ति । उक्तञ्च सूत्रे- कामतृष्णा बन्धनमित्युच्यते । यथा कृष्णशुक्ला गौः स्वयमबद्धा रज्जुना परमबद्धा । एवं चक्षुर्न रूपबद्धं, रूपञ्च न चक्षुर्बद्धम्, कामरागस्तु तत्र बद्धः । इमं बन्धमवलम्बयतो न विमुक्तिर्लभ्यते । किञ्चोक्तं सूत्रे- पूर्वा कोटिर्न [प्रज्ञायते] अविद्यानीवरणानां सत्त्वानां तृष्णासंयोजनानां सन्धावतां संसरतामिति । अपि चोक्तं सूत्रे- रागप्रहाणाद्रूपं प्रहीयते यावद्विज्ञानं प्रहीयत इति । रागोऽयमनित्यतादिभावनया प्रहीयते । प्रहीणेऽस्मिन् कामरागे चित्तं विमुच्यते । रूपरागप्रहाणे (
२९५) नास्ति रूपम् । असति रूपे दुःखं निरुध्यते । यावद्विज्ञानेऽप्येवम् । ज्ञायते कामरागाः सुदृढं बन्धनमिति ।


कामरागश्चोरोपमः । सत्त्वास्तु तदकुशलं न पश्यन्ति । कामरागः सदा कुसुमारमुखतः समुदाचरतीत्यतः परममकुशलं नाम । किञ्च सत्त्वाश्चित्तप्रमोदेन कामरागे प्रवर्तन्ते यावन्मशकपिपीलिका[दय]ः सर्वेऽपि आहारमैथुनयोः प्रवर्तन्ते । स कामरागो नानाकारणैः पुरुषाणां चित्तं बध्नाति यदुत मातृपितृस्वसृभगिनीपत्नीसंज्ञा धनादयः । सत्वा आहारमैथुनादिकामरागनीवृतचित्ताः सन्तो जन्मोपाददते । ध्यानसमापत्तिराग ऊर्ध्वभूमावुत्पद्यते । कामरागोऽयं सङ्गमं करोति । सर्वेषां लोकानां रुचयः प्रत्येकं विभिन्नाः । रागात्सङ्गच्छन्ते । यथा शुष्काः सिकताः सलिलयोगे संयुज्यन्ते । संसारे कामतृष्णां रसं मन्यन्ते । यथा रूपाणामास्वादाध्यवसानमित्युक्तं यदुत रूपं प्रतीत्योत्पद्यते सुखं सौमनस्यम् । असति रागे नास्वादः । आस्वादेऽसति संसारमाशु प्रजहाति । स च कामरागो विमुक्तिविरुद्धः । कस्मात् । यस्मात्सत्त्वाः कामः सुखं ध्यानं सुखं समापत्तिः सुखमिति संरज्यन्ते । तस्मात्विमुक्तिरसुखम् । [यत्] रागाङ्गप्रहाणं तदेव सुखं परिणमति । यथोक्तं- यस्य वैराग्यं स परमं सुखमनुप्राप्नोति इति । किञ्चाह- यः सर्वसुखलाभमिच्छति तेन सर्वाणि कामसुखानि त्यक्तव्यानि । सर्वकामानां त्यागादात्यन्तिकनित्यसुखं लभत इति । यो महासुखं लिप्सति तेनाल्पसुखमुपेक्षितव्यम् । अल्पसुखोपेक्षया अप्रमाणसुखं प्रतिलभते ।

विदुषश्च नास्ति प्रत्येकलाभ इत्युक्तम् । यथा वीतरागतृष्णचित्तस्य । यस्य चित्तं रागतृष्णाविविक्तं तस्य सर्वे दुःखोपायासा निरुद्धाः । कामरागोऽयं सद्धर्मं विहन्ति । कस्मात् । न हि परमरागी शीलजातिधर्मशासनेर्यापथशांस्यपेक्षते । नाववादमादत्ते । नादीनवं पश्यति । नापि पुण्यपापमालोचयति । उन्मत्तवत्प्रमत्तवच्च न जानाति कुरूपं सुरूपम् । अन्धवच्च न पश्यति धनलाभम् । यथोक्तं- कामरागो न पश्यति हितम् । कामरागो न विजानाति धर्ममन्धतमसि अज्ञानवत् । रागानपगमात् । किञ्चोक्तम्-

कामरागः समुद्रो [ऽय]मपर्यन्तश्चाप्यगाधकः ।
सोर्मिः सवीचिः सावर्तः सग्रहश्च सराक्षसः ॥
(
२९६)
एवं दुर्गा अशेषाश्च मनुष्याणामतारणाः ।
विशुद्धशीलनौकास्थः सद्दृष्टिवायुवेगवान् ॥
नाविकश्च महान् बुद्धः सन्मार्गान् सम्प्रदर्शयन् ।
यथोक्तभावनायोगी सोऽयं तरति वै तदा ॥ इति ।

नास्ति कस्यचित्क्लेशानां संज्ञाविकल्पास्वादो यथा कामरागिणः । स च कामरागोऽत्यन्तं दुष्प्रजहः । यथोक्तं- द्वे इमे आशे दुष्प्रजहे । कतमे द्वे । लाभाशा जीविताशा इति ।

कामरागस्येदृशा दोषाः सन्ति । कथं ज्ञायते कामरागिणो लक्षणम् । (उ) कामरागबहुलः स्त्रीरूपकुसुमगन्धमालनृत्तवाद्यगीतेषु प्रमुदितो वेश्यागृहपानगोष्ठीगामी महासमाजनाटकरसिकः सानुरागालापानन्दितः सदा परितोषितचित्तः प्रसन्नवदनः साकूतसकाकुसस्मिताभिलाषी दुर्लभकोपः सुलभप्रमोदो भूयसा दयालुचित्तः पुनः पुनर्व्याधितचपलगात्रः स्वदेहाध्यासक्त इत्येवमादि रागबहुलस्य लक्षणम् । लक्षणमिदं स्वभावबन्धेनानु गतमित्यतो दुष्प्रजहम् । सर्वे च कामरागा आत्यन्तिकदुःखाः । कस्मात् । रागाभिलषितस्य विप्रयोगोऽवश्यभावी । विप्रयोगप्रत्ययं दौर्मनस्यदुःखमवश्यभावि । यथोक्तं- रूपसुखिनो [भिक्षवो] देवमनुष्या रूपरागिनो रूपमुदिता रूपविपरिणामे दुःखचित्ता विहरन्ति इति । एवं वेदनासंज्ञासंस्कारविज्ञानेष्वपि । भगवान् तत्र तत्र सूत्रे नानादृष्टान्तैरिमं कामरागं गर्हयति यदुत [आशी] विषोपमः, प्रज्ञायुःक्षयकरत्वात् । शल्योपमः चित्तगतदुःखत्वात् । असिशूलोपमः कुशलमूलसमुच्छेदकत्वात् । अग्निस्कन्धोपमः कायचित्तपरिदाहत्वात् । अमित्र [भूतः] दुःखानामुत्पादकत्वात् । अन्तःसपत्नभूतः मनसि (
२९७) जातत्वात् । रूढमूलोपमः दुरुन्मूलनत्वात् । पङ्कभूतः यशोदूषकत्वात् । विघ्नभूतः कुशलमार्गाणामावरणत्वात् । हृद्गतशल्यभूतः अन्तर्व्यथनात् । अकुशलमूलभूतः सर्वाकुशलानामुत्पादकत्वात् । ओघभूतः संसारार्णवे संप्लाबनात् । चोरभूतः कुशलसम्पदपहारात् । एवमाद्यप्रहाणानामादीनवानां सत्त्वात्कामरागः प्रहातव्यः ।

कामानामादिनववर्गश्चतुविंशत्युत्तरशततमः ।


१२५ रागप्रहाणवर्गः

(पृ) कामरागस्येदृशा दोषाः सन्ति । कथं प्रहातव्यः । (उ) अशुचि भावनादिभिः प्रतिषेधयति । अनित्यतादिभावनादिभिः प्रजहाति । (पृ) केषाञ्चिदनित्यतादिबोधनात्कामरागो वर्धते । कथमिदम् । (उ) यः सर्वमनित्यमिति प्रजानाति न तस्य कामरागोऽस्ति । यथोक्तं सूत्रे- अनित्यसंज्ञा [भिक्षवः] भाविता बहुलीकृता तदा सर्वः कामरागः पर्यादीर्यते सर्वः रूपरागः पर्यादीर्यते सर्वो भवरागः पर्यादीर्यते सर्वाविद्या पर्यादीर्यते सर्वोऽस्मिमानः पर्यादीर्यते समुद्धन्यते इति । यः पश्यति लोको दुःखं दुःखहेतुः राग इति । तस्यायं रागः प्रहीयते । यो नित्यं स्मरति मया जातिजराव्याधिमरणान्यनुभवितव्यानीति स इमं रागं प्रजहाति । विशुद्धसुखे लब्धे अविशुद्धसुखं त्यजति । यथा प्रथमध्यानलाभे कामतृष्णां त्यजति । कामानामादीनवानुदर्शी इमां त्यजति । आदीनवश्च यथापूर्वमुक्तः । बहुश्रुतादिप्रज्ञाविवृध्या च कामरागं त्यजति । ज्ञानस्य क्लेशभेदनस्वभावत्वात् । कुशलप्रत्ययसम्पन्नस्य कामरागः प्रहीयते यदुत शीलविशुद्ध्या दीन्येकादशसमाध्युपकरणानीति पश्चान्मार्गसत्ये वक्ष्यते । रूपज्ञानादीनि धर्मज्ञानादीन्युपायाः । भगवान्महाभिषक् । सब्रह्मचारिणोऽनुचराः । सद्धर्म औषधम् । आत्मना (
२९८) यथोक्तवदाचरणं विरेचनम् । तदा कामरागव्याधिः प्रहीयते । यथा ज्ञायते रूग्णस्य त्रिवस्तुसम्पन्नस्य तस्मिन्नेव समये व्याधिः शाम्यति इति ।

(पृ) यथोक्तं सूत्रे- अशुभ[भावनया] रागं निर्वापय इति । कस्मात्भवान् ब्रवीति अशुभादि अनित्यतादि च । (उ) सर्वाणि बुद्धशासनानि क्लेशानां भेदकानि । तथापि प्रत्येकमस्ति बलविशेषः । आदौ अशुभया रागो वार्यते पश्चादनित्यताज्ञानेन प्रहीयते । अशुभया औदरिको रागोऽपनीयत इतीदं बहूनां ज्ञातमेव । रागानुशयः सूक्ष्म इति अनित्यतया प्रहीयते । केवलमेकस्मिन् सूत्र ईदृशं वचनमुक्तम् । सर्वेषु सूत्रेष्वन्येऽपि प्रहाणधर्मा उक्ताः । ईदृशप्रत्यये सति कामरागः प्रहीयते ।

रागप्रहाणवर्गः पञ्चविंशत्युत्तरशततमः ।


१२६ व्यापादवर्गः

शास्त्रमाह- व्यापादो द्वेषलक्षणमिति । यो द्विष्यति स विनाशं कर्तुमिच्छति । परस्य ताडनबन्धनमारणविहिंसनानि कर्तुं प्रणिदधाति । एकान्ततो निराकृत्य नैव द्रष्टुमिच्छति । अयं द्वेषः प्रतिध इत्याख्यायते । गुरुतरो द्वेष इत्यर्थः । कश्चित्द्वेषी परान्निन्दितुं दण्डेन ताडयितुञ्चेच्छति । [अयं द्वेषो] विहिंसा इत्यभिधीयते । मध्यमद्वेष इत्यर्थः । कश्चित्द्वेषी [परं] परिहर्तुं नेच्छति । कदाचित्तत्पुत्रभार्यादीन् विद्विषति । तत्रोत्पद्यमानो [द्वेषः] क्रोध इत्युच्यते । अधमद्वेष इत्यर्थः । कश्चित्द्वेषी सदाक्लिष्टचित्तः [स]म्रक्ष इत्यभिधीयते । अविपक्वेन्द्रिय इत्यर्थः । कश्चित्द्वेषी चित्तगतमकुशलमत्यक्त्वा पुनर्विपाकायेच्छति । [स] उपनाह इत्युच्यते । विपक्वेन्द्रिय इत्यर्थः । कश्चित्द्वेषी सहसा किञ्चित्गृहीत्वा नानाकारणै[र्न] त्यक्तुमिच्छति । यथा सिंहो नदीं विगाह्य (
२९९) तत्तीरनिमित्तं गृहीत्वा आमरणं न [ततो] विनिवर्तते । [स] प्रदाश इत्युच्यते । आग्रह इत्यर्थः । कश्चित्द्वेषी हितलाभिनं परं दृष्ट्वा चित्ते मात्सर्यमुत्पादयति । इयमीर्ष्यत्युच्यते । कश्चित्द्वेषी सदा कलहप्रियो धृष्टमनोवाग्भवति । [अयं] संरम्भ इत्युच्यते । रोषकलह इत्यर्थः । कश्चित्द्वेषी चिरमात्सर्येण शीलमुपदिष्टोऽपि पुनः प्रतिलोमयति । अयं द्वेष इत्याख्यायते । क्रौर्यमित्यर्थः । कश्चित्द्वेषी किञ्चिदभीष्टस्य अमनःप्रह्लादनस्य वस्तुनो लाभे क्षुभितचित्तो भवति । इयमक्षान्तिरित्युच्यते । अक्षमेत्यर्थः । कश्चित्द्वेषी असुकुमारवचनः सदा भ्रुकुटिलालसो न मनः पूर्वमालापं योजयति । इयमपकीर्तिरित्युच्यते । अनात्तमनस्कतेत्यर्थः
। कश्चित्द्वेषी सहवासिषु सदाधिक्षेपलोलुपो भवति । इदमसौरत्य मित्यभिधीयते । अदान्त इत्यर्थः । कश्चित्द्वेषी कायवाङ्मनोभिः सतीर्थ्यं संस्पृष्टोपायासं करोति । इअयं जिगीषा इत्यभिधीयते । उपायासस्पर्श इत्यर्थः । कश्चित्द्वेषी सदा गर्हाप्रकटनप्रीतो विगीतवस्तुप्रियश्च भवति । इयं तोदनता इत्युच्यते । उपालम्भ इत्यर्थः ।

द्वेषोऽयं द्विविधः- कदाचित्सत्त्वमुपादाय भवति कदाचिदसत्त्वमुपादाय इति । सत्त्वमुपादयोत्पद्यमानो गुरुतरः पापः । उत्तममध्यमाधमविकल्पेन नवराशयो भवन्ति । नवक्लेशानुपादाय नवधा विभज्यते । विना वस्तु द्वेषपरिणाहो दशमो भवति । इदं द्वेषलक्षणम् ।

(पृ) कथं द्वेष उत्पद्यते । (उ) अमनोज्ञाद्दुःखोपायासादुत्पद्यते । दुःखवेदनास्वभावस्य असम्यक्परिज्ञानाद्व्यापाद उत्पद्यते । गर्हावधतडनादिभ्यो वा समुत्पद्यते । दुर्जनसहवृत्त्या वा व्यापाद उत्पद्यते यथा सौनिकव्याधादयः । मन्दज्ञानबलाद्वा द्वेष उत्पद्यते यथा वृक्षाणां शाखोपशाखा वातेरिता भवन्ति । चिरसमुपचितद्वेषानुशयस्य आनिर्यातनभावं द्वेष उत्पद्यते सौनिकव्याधसर्पाणामागमाद्वा द्वेष उत्पद्यते । परदोषानुस्मृतिप्रेम्णा वा द्वेष उत्पद्यत इति यथा नवक्लेशेषूक्तम् । कालवशाद्वा द्वेष उत्पद्यते यथा दशवयस्कादीनाम् । जात्या वा द्वेष उत्पद्यते यथा सर्पादीनाम् । देशस्थानाद्वा द्वेष उत्पद्यते यथा कान्यकुब्जदेशादौ । पूर्वमुक्तो रागजननप्रत्ययः । तद्विरोधे द्वेष उत्पद्यते । आत्मबुद्धिमध्ययस्य [तत्र] मानपरिपोषणं पदार्थाध्यवसानञ्चेत्येवमादिप्रत्ययेषु सत्सु द्वेष उत्पद्यते ।

(
३००)
(पृ) द्वेषस्य के दोषाः । (उ) उक्तं सूत्रे- द्वेषः कामरागाद्गुरुतरं पापमिति । अतः सुविमोकः । वस्तुतस्तु दुर्विमोकः । किन्तु रागवन्न चिरं चित्तमनुवर्तते । द्वेषो द्विधा सन्तापकः । आदावात्मानं सन्तापयति अन्ते परं सन्तापयति । किञ्च द्वेषो नियमेन नरकाय भवति । द्वेषोत्थकर्मणां भूयसा नरके पातनात् । द्वेषः कुशलपुण्यानि विनाशयति यदुत दानशीलक्षान्तयः । इमास्त्रिस्रः करुणाचित्तजाः । द्वेषस्य करुणाविरोधित्वात्[ताः] विनाशयति । द्वेषजञ्च कर्म सर्वमन्ते चित्तं परितापयति । द्वेषेन्द्रियवान्निर्दयत्वात्क्रूरचण्डाल इत्युच्यते । सत्त्वाः सदा दुःखिनः पुनर्द्वेषेण पीडिताः व्रणे प्रयुक्तक्षारवत् । किञ्च सूत्रे भगवान् स्वयं द्वेषदोषानाह- द्वेषबहुलः कुत्सितः खर्वाकारोऽप्रशान्तबुद्धिशयः सदा भीरुचित्तो जनानामश्रद्धेय इति ।

(पृ) व्यापादबहुलस्य कानि लक्षणानि । (उ) धृष्टवाङ्मनाः सदा अनात्तमना भवति । भ्रुकुटिक्षेपेण दुरभिगमोऽसंश्लिष्टमुखवर्णो दुर्विमोकसुलभकोपः सदा व्यापादोपनाहमुदितो विग्रहभूषणायुधेषु प्रीतो दुर्मित्रपक्षपाती सज्जनविद्वेषी, जनानां भीषणायातथ्यध्यानचिन्तनोऽल्पह्रयपत्रप इत्येवमादीनि द्वेषलक्षणानि । इमान्यन्येषां विप्रियकराणि । अतः प्रहातव्यानि ।

(पृ) कथं स प्रहातव्यो भविष्यति । (उ) सदा करुणामुदितापेक्षाभावनायां द्वेषः प्रहीयते । द्वेषस्यादीनवं पश्यन् द्वेषं प्रजहाति । तत्त्वज्ञानलाभिनो द्वेषः प्रहीयते । क्षान्तिबलाच्च द्वेषः प्रहीयते । (पृ) किं नाम क्षान्तिबलम् । (उ) यः परगर्हादिदुःखं क्षमते स कुशलधर्मपुण्यं लभते । नाक्षान्तिजमकुशलं लभते । इदं क्षान्तिबलम् । क्षान्तिविहारी श्रमण इत्युच्यते । क्षान्तिर्हि मार्गस्याद्यं द्वारं भवति । अतः श्रमणधर्मणः कोपेऽपि न कोपविपाकः । निन्दायाञ्च न निन्दाविपाकः । ताडने च न ताडनविपाकः । यो भिक्षुः क्षमावान् स प्रव्रज्याधर्मा स्यात् । व्यापादवतो न प्रव्रजितधर्धो भवति । क्षान्तिरियं प्रव्रजितधर्मः । य आकारवेषाभ्यां भिक्षुः भिन्नव्यवहारो द्वेषचित्तसहगतश्च न स भव्यो भवति । यस्तु क्षमाविहारी स एव करुणागुणसवन्वितः । क्षमाविहारी स्वहितं साधयति । कस्मात् । द्वेषकारी परान् व्याबाधितुं कामयानः स्वात्मानमेव व्याबाधते । यानि कायवाग्भ्यां परत्र प्रत्युक्तान्यकुशलानि । [तेषा]मकुशलानां दोषाः शतसहस्रगुणमात्मनैव लभ्यन्ते । अतो ज्ञायते द्वेषो महान्तमात्मापकर्षं करोति इति । अतः प्राज्ञेनात्मनो हितं कर्तुकामेन महद्दुःखं महत्पापञ्चापाकुर्वता क्षान्तिराचरितव्याः ।

(
३०१)
(पृ) को निन्दादिदुःखं खमते । (उ) योऽनित्यतां भावयति बहुलीकरोति प्रतिबुध्यते सर्वधर्मा क्षणिकाः, निन्दको वेदकः सर्वोऽपि क्षणिक इति । तस्य कुत्र द्वेष उत्पद्येत । शून्यताचित्तस्य सम्यक्भावनया क्षममाण एवं चिन्तयति धर्मेषु वतुस्तः शून्येषु को निन्दकः को वा निन्दावेदक इति । यदि वस्तु सत्यं तदा [त]द्वेदना क्षन्तव्या । अहं सत्यतो दोषवानिति पूर्वपुरुषाः सत्यं वदन्ति, कस्मात्द्विषामि । यदि वस्तु सत्यम् । ते पुरुषाः स्वयमेव मृषावादपापं लभेरन् । कस्मादहं द्विषामीति । अशुभनिन्दां शृण्वनेवं चिन्तयेत्सर्वे लोका यथाकर्म विपाकं वेदयन्ते । मया पुरा इदं निन्दाकर्म समुपचितमासीत् । तदिदानीं प्रत्यनुभवितव्यम् । कस्माद्द्विष्यामीति । यदि चाशुभनिन्दां शृणोति तद्दोषमात्मनि भावयेत् । आत्मवशेनैव कायमनुभवामि । कायश्च दुःखभाजनम् । अतो निन्दानुभवितव्येति । क्षान्तिविहारी एवं चिन्तयेत्पदार्थाः प्रतीत्यसमुत्पन्नाः । इदमशुभं निन्दाकर्म श्रोत्रविज्ञानमनोविज्ञानशब्दादिसमुत्पन्नम् । एषु अहं द्व्यङ्गसमन्वितः । परस्तु शब्दमात्रसमन्वितः । एवञ्च ममैव पापाङ्गं बहु । कस्मात्द्विषामि । मया शब्दस्यास्य निमित्तग्रहणादेव दौर्मनस्योपायासाः सम्भवन्ति इत्यहमेव दुष्टः । क्षान्तिमान्न परान् दोषयति । कस्मात्द्वेषादीनि पापानि न सत्त्वानां दोषाः, सत्त्वा व्याधिसमुत्थापितचित्तत्वादनीश्वराः । यथा भूतचिकित्सको भूतोच्चाटनाध्यवसितो भूतमेव द्विषति न तु रोगिणम् । अयं वीर्योत्सुकः कुशलधर्माणां सञ्चय आरज्यते । अतः परप्रवादान्न गणयति । बुद्धानार्यसङ्घञ्च स्मृत्वा न निन्दाः प्रमोचयति
। यथा निन्दापटवो ब्राह्मणादयो बुद्धं विविधं निन्दन्ति । यथा वा शारिपुत्रादिषु ब्राह्मणैः प्रयुज्यन्तेऽपवादनिन्दाः । कः पुनर्वादोऽस्मासु तनुपुण्येषु ।

किञ्चेदं चिन्तयेत्लोका अकुशबहुला आत्मजीवितमहृत्वैव कटुकं कुर्वन्ति । किं पुनस्ताडननिन्दामिति । किञ्चैवं चिन्तयेत्- अशुभनिन्दादिना न मम दुःखमिति वेदना क्षन्तव्या । यथा भगवान् भिक्षून् शास्ति- काये क्रकचेण विदीर्णेऽपि वेदना क्षन्तव्या । का पुनर्निन्दा इति । इदमाचरन् सदा संसारान्निर्विद्यते । निन्दायां लब्धायां निर्वेदं भूयसा मात्रया सुनिश्रितमवगम्याकुशलमाचरति । स जानाति च निन्दाया अक्षमा अन्ते दुःखंविपाकवेदना इत्येवं चिन्तयन्नरके मा भूत्पात इति गुर्वीमपि निन्दां वेदयते । सोऽतीव ह्र्यपत्रपासापेक्षः चिन्तयति अहं महापुरुषस्य भगवतः श्रावको मार्गभावयिता । [मम]कथमुत्पादयेदकार्यं कायवाक्कर्म इति । क्षान्तिचारिभिर्बोधिसत्त्वैः शक्रादिभिश्च लभ्यं क्षान्तिबलं श्रूयते च । अतः क्षान्तिः कार्या ॥

व्यापादवर्गः षड्विंशत्युत्तरवशततमः ।

(
३०२)

१२७ अविद्यावर्गः

शास्त्रमाह- प्रज्ञप्त्यनुवर्तनमविद्या । इति । यथाहुः- पृथग्जना आत्मरुतमनुवर्तन्ते । तत्र नास्ति वस्तुत आत्मा नात्मीयम् । धर्माणां समवायः केवलं प्रज्ञप्त्या पुरुष इत्युच्यते । पृथग्जनानामविवेकादात्मचित्तं प्रवर्तते । आत्मचित्तप्रवृत्तिरियमविद्यैव ।

(पृ) भगवानाह- पूर्वान्ताज्ञानविद्या इति । कस्मादुच्यते । आत्मचित्तमात्रमियमविद्येति । (उ) अतीतादौ बहवो भ्रान्ताः । अत आह- तत्राज्ञानमविद्येति । अत आह तस्याज्ञानमविद्येति । सूत्रे च विद्याया अर्थो विवृतः- यस्य कस्यचित्ज्ञानं विद्येति । केषां धर्माणां ज्ञानम् । रूपमनित्यमिति यथाभूतज्ञानम् । वेदना संज्ञा संस्कारा विज्ञानमनित्यमिति यथाभूतज्ञानम् । विद्याया विरुद्धा विद्याविद्या । तथा च यथाभूता विद्या अविद्यैव ।

(पृ) यथाभूताविद्या यद्यविद्या । तरुपाषाणादिधर्मा अपि अविद्या स्यात् । यथाभूतविद्याया अभावात् । (उ) मैवम् । तरुपाषाणानि चाचित्तकानि न पूर्वान्तादि विकल्पयन्ति । अविद्या तु विकल्पिनीति न तरुपाषाणयोः समाना । (पृ) अविद्या नाम धर्माभावः । यथा पुरुषस्य चक्षुषा रूपादर्शनं नादर्शनधर्मो भवति । अतो विद्याया अभावमात्रमविद्या । न धर्मान्तरम् । (उ) मैवम् । यद्यभावोऽविद्या । पञ्चस्कन्धेषु अस्ति पुद्गल इति मिथ्याकल्पना घटशकले च सुवर्णसंज्ञोत्पद्यत इति कस्माद्भवति । अतो ज्ञायते मिथ्याविकल्पस्वभावाविद्या । न तु विद्याया अभावोऽविद्येति । अविद्याप्रत्ययाः संस्कारादयः सन्तत्या प्रवर्तन्ते । यद्यभावः कथमुत्पादयेत् । (पृ) न विद्या अविद्या इति चेतिदानीं विद्यां विहाय सर्वे धर्मा अभावाः स्युः । अतो नैको धर्मोऽविद्या भवति । (उ) अविद्येयं स्वलक्षणत उच्यते नान्यधर्मतः । यथोच्यते अकुशलमेवाकुशलस्वरूपं नाव्याकृतम् । (
३०३) तथाविद्यापि । कुसूलं पुरुषाकारमपि पुरुषगत्यभावातपुरुष इत्युच्यते । एवमियं विद्या सविकल्पापि यथाभूतं न प्रजानातीत्यविद्येत्युच्यते । न तरुपाषाणयोरपि तथा ।

(पृ) यान्युक्तानि अरूपमप्रतिघमनास्रवमसंस्कृतमिति तानि सर्वाणि तदन्याभिधायकानि । कस्मादविद्यापि नैवम् । (उ) अस्ति कदाचिदयं न्यायः । अकुशलादिषु तु नैवं भवति । (पृ) केचिदाहुः- विद्याया अभावमात्रमविद्येति । यथा प्रकाशाभावे तम इति । (उ) लोके द्विधा वदन्ति- विद्याया अभावोऽविद्येति । कदाचिद्विपरीता विद्या अविद्येति । विद्याया अभावोऽविद्येति यथा वदन्ति लोके- अधोऽरूपदर्शी, बधिरोऽशब्दश्रोतेति । विपरीता विद्या अविद्येति- यथा रात्रौ स्थाणुं दृष्ट्वा पुरुष इति बुद्धिर्भवति । पुरुषं वा दृष्ट्वा स्थाणुबुद्धिः । यदि कश्चिदिदमिति यथाभूतं न प्रजानाति । तदज्ञानम् । मिथ्याचित्तं क्लेशः । अयं संस्काराणां प्रत्ययः । अर्हतः समुच्छेदान्न सन्ति अविद्याप्रत्ययाः संस्काराः । यदि न विद्या अविद्येति । अर्हतो बुद्धधर्मेषु विद्या नास्तीति विद्याविद्या स्यात् । योऽविद्यावान्न सोऽर्हन् । [अतो] ज्ञातव्यं पृथगस्ति अविद्यास्वरूपम् । इदं मिथ्याचित्तमिति ।

सर्वे क्लेशा अस्या अविद्याया अङ्गानि । कस्मात् । सर्वेषां क्लेशानां मिथ्याचार [रूप]त्वात् । ते पुरुषाणां चित्तावरणा अन्धतमोरूपाः । यथाह- कामरागी न धर्मं पश्यति, कामरागी न पुण्यं पश्यति इति । तत्कामोपादाता अन्धतमोभूमः । एवं क्रोधमोहावपि । सर्वे क्लेशाः संस्काराणामुत्पादकाः । उक्तन्तु सूत्रे- अविद्याप्रत्ययाः संस्कारा इति । अतो ज्ञायते सर्वे क्लेशा अविद्या इति । अशून्यतादर्शिनो नित्यमस्त्यविद्या । क्लिष्टाविद्यामात्रं सर्वसंस्काराणां प्रत्ययः । विपरीता विद्या अविद्येत्युच्यते । अदृष्टशून्यभावस्य नित्यमस्तीयमविद्या । अतो ज्ञायते अविद्याङ्गानि सर्वे क्लेशा इति ।

(पृ) अविद्या कथमुत्पद्यते । (उ) असद्धेतुं श्रुत्वा चिन्तयतोऽविद्योत्पद्यते । यथा अस्ति द्रव्यमस्त्यवयवी अस्ति चित्, सर्वे धर्मा अक्षणिकाः, नास्ति पुनर्भवः । शब्द आत्मा, स च नित्यः, तृणवृक्षादयः सचेतना इत्येवमादिमिथ्याग्रहे सति अविद्योत्पद्यते । असत्कारणैर्वाविद्योत्पद्यते । यदुत दुर्मित्रसंस्तवोऽसद्धर्मश्रवणं मिथ्यामनस्कारो मिथ्यासमुदाचार (
३०४) इत्येभिश्चतुर्भिः कारणैरविद्योत्पद्यते । अन्यक्लेशजननप्रत्ययाः सर्वेऽविद्याजननहेतवः । अविद्याहेतुभ्यश्चाविद्योत्पद्यते । यथा यवेभ्यो यवाः शालिभ्यः शालयः । एवं यत्रास्ति सत्त्वकल्पना, तत्राविद्योत्पद्यते । किञ्चोक्तं सूत्रे- मिथ्यामनस्कारप्रत्ययेऽविद्योत्पद्यत इति । मिथ्यामनस्कारश्चाविद्याया नामान्तरमेव । पुरुषं दृष्ट्वा अस्तीति बुद्धेः पूर्वमेव पुरुषमनस्कार उत्पद्यते पश्चान्निश्चय इत्यतोऽविद्येत्युच्यते । इदमुभयं पूर्वापरलक्षणमन्योन्यसहायमुत्पद्यते । यथा वृक्षात्फलं भवति फलाद्वृक्षः ।

अविद्यायाः के दोषाः । (उ) सर्वे विपत्त्युपायासा अविद्याधीनाः । कस्मात् । [यस्मात्] अविद्यातः समुत्पद्यन्ते रागादयः क्लेशाः । तेभ्योऽकुशलं कर्म । ततः कायानुभवः । तत्प्रत्ययो विविधविपत्युपायासानां प्रतिलाभः । यथोक्तं सूत्रे- अविद्यानिवृतस्य [भिक्षवो वालस्य] तृष्णासम्प्रयुक्तस्यैवमयं कायः समुदागत इति । सिंह नादसूत्रे चोक्तम्- उपादानानि तृष्णानिदानानीति । गाथा चाह-

याः काश्चिदिमा दुर्गतयोऽस्मिंल्लोके परत्र च ।
अविद्यामूलकाः सर्वा इच्छालोभसमुच्छ्रयाः ॥ इति ।

अविद्यासमुत्पन्नत्वात्सर्वक्लेशानाम् । पृथग्जना वेदयन्ते [सुखत] इमान् स्कन्धान् पञ्च [ये]ऽशुचयोऽनित्या दुःखाः शुन्या अनात्मकाः । य आर्याः ते तान् दुःखान् वेदयन्ते । सम्यङ्मनस्कारात्पञ्च स्कन्धान् प्रजहाति । यथोक्तं सूत्रे- आत्मसंज्ञा मिथ्याविपर्यास इति प्रजानतो न पुनरुत्पद्यत इति । अतोऽविद्याप्रत्ययो बन्धो विद्याप्रत्ययो मोक्ष इति । लोके सत्त्वा अविद्याबलादल्पादभिनिवेशाद्बहूनादीनवान्न पश्यन्ति । यथा शलभा अग्नौ पतन्ति । यथा वा मत्स्या अङ्कुशं गिलन्ति । तथा सत्त्वा अपि दृष्टेऽल्पास्वादगृद्धा बहूनादीनवान्न प्रतीक्षन्ते । तीर्थिकग्रन्थैरुत्पन्नमिथ्यादृष्टिका वदन्ति न सन्ति पुण्यादीनि इति । सर्वमियमविद्या । असतां मार्गोऽकुशलहेतुः । अकुशलहेतुः सर्वोऽविद्या । (
३०५) मिथ्यादृष्ट्या कृतकर्मणा भूयसा नरके पतन्ति । मिथ्यादृष्टयः सर्वा अविद्ययोत्पद्यन्ते । बुद्धो भगवान् सर्वज्ञः शास्ता त्रयाणां धातूनां सम्यक्चर्याविशुद्ध आर्यविनीत इत्यादि तीर्थिका न विविच्य प्रजानन्ति । यथा सद्रत्नमन्धा निराकुर्वन्ति । इमेऽविद्याया दोषाः ।

किञ्च सर्वसत्त्वानां विपत्त्युपायसविप्रलोपादयः सर्वेऽविद्याधीनाः । सर्वे च लाभसंसिद्धिप्रकर्षा विद्याधीनाः । यो वर्धिताविद्यः स एकान्ततोऽवीचिनरके पतति । यथा कल्पादौ जना आस्वादस्तुच्छ इत्यनभिज्ञाय [तत्र] रागाध्यवसायमुत्पादयामासुः । अतो रूपबलायुरादयो विनष्टाः । अतो ज्ञातव्यमविद्यया सर्वे लाभाः प्रमुषिता इति । इयमविद्या च तत्प्रज्ञानमात्रेण प्रहीयते । रागादिभिस्तु न तथा । रागचित्ते नास्ति क्रोधः । क्रोधचित्ते नास्ति रागः । अविद्या तु सर्वचित्तेषु वर्तते । अभावितप्रज्ञस्य चाविद्या सदा चित्ते वर्तते । सर्वक्लेशेषु अविद्या प्रबला । यथोक्तं सूत्रे- अविद्या पापीयसी गुर्वी दुर्विमोका च इति । अविद्या च द्वादशनिदानानां मूलम् । असत्यामविद्यायां कर्माणि नोपचीयन्ते न संसिध्यन्ति । कस्मात् । नह्यस्ति अर्हतां सत्त्व[संज्ञा]लक्षणम् । अविद्याविरहान्न कर्माण्यु पचीयन्ते । कर्मणामनुपचयाद्विज्ञानादीन्यङ्गानि न पुनः प्रादुर्भवन्ति अतो ज्ञायते अविद्या सर्वदुःखानां मूलमिति ।

प्रत्यक्षं दृश्यते खलु अस्मिन्नशुचिकाय आसङ्गः, अनित्ये नित्यसंज्ञा च । यथा रिक्तमुष्टिर्बालानामुल्लापनाय । यथा च माया मूढानां पुरः प्रदर्शयति मृदं सुवर्णमिति । प्राकृता मूढा दृष्टे पापाधिष्ठिता अभिधानेनोल्लपनीया भवन्ति । तथा लोका अपि चक्षुषा अशुचि दृष्ट्वा तद्वञ्चिता भवन्ति । चैत्ता धर्मा क्षणिकाः, निमित्तग्रहणादुत्पद्यन्ते । क्षणिके रूपे मोहान्निमित्तं गृह्णन्ति । तथा शब्दादावपि । तस्माद्दुर्विमोका । इमेऽविद्याया दोषाः ।

(पृ) अविद्याबहुलस्य पुंसः कानि लक्षणानि । (उ) अयं भयस्थाने निर्भयो भवति । सुस्थाने प्रीतिविगतः सज्जनद्वेषी दुर्जनस्निद्घोऽभिप्रायस्य विपर्ययग्राही प्रियमित्रे सदा प्रतिकूलः तुच्छवस्तुषु सारग्राही अल्पह्रयपत्रपो न विचिकित्साप्रतीक्षी, न परेषां तर्पण आत्मनापि दुर्निषेवणो मूढोऽविज्ञाता सुजीर्णमलिनवस्त्रो भ्रमति । रम्यप्रदेशादशुचिप्रदेशमन्धकारे प्रयाति । आत्मनैवात्मानं महानिति श्लाघमानः परस्य लघूकरणे तृप्यति । अपथेनात्मगुणान् प्रकटयति । दोषं दोष इति न विजानाति । हितं हितमिति न विजानाति । अपरिशुद्धोऽनैर्याणिको भाषणेऽपटुः सदा क्रोधोपनाहमुदितः परोपदेशं विपर्ययतो गृहीत्वा [तत्र] परमाध्यावसितो दुर्लभमभ्यस्य सुविनश्वरं लभते । लब्धस्यापि (
३०६) नार्थ वेत्ति । विदितमपि मिथ्या विपर्ययति । एवमादिलक्षणानि सर्वाण्यविद्याधीनानि । अतो ज्ञायतेऽविद्याप्रमाणदुष्टा अतः प्रहातव्येति ।

(पृ) कथं प्रहातव्या । (उ) तत्त्वज्ञानं भावयतोऽविद्या प्रहीयते । (पृ) स्कन्धधात्वायतनानां ज्ञानमपि तत्त्वज्ञानम् । कस्मात्सूत्र उक्तम्- अविद्याया भैषज्यं प्रतीत्यसमुत्पादः प्रतीत्यसमुत्पादभावना वा इति । (उ) तीर्थिका बहवो भ्रान्ताः । हेतौ भ्रान्ता वदन्ति- ईश्वरा दयो लोककारणमिति । वस्तुतस्तु भ्रान्ता वदन्ति- अस्ति द्रव्यमस्त्यवयवीत्यादि । प्रतीत्यसमुत्पादा[दि]द्वयं भावयतो [ऽविद्या] प्रही यते । (पृ) प्रतीत्यसमुत्पादोऽविद्याया भैषज्यम् । कस्मादुच्यते द्वयमिति । (उ) अन्यज्ञानसंजिहीर्षया । स्कन्धधात्वायतनादि भावयन्नपि अविद्यां भिनत्ति । मिथ्यादृष्टिमात्रं गुरुतराविद्या । मिथ्यादृष्टिश्च प्रतीत्यसमुत्पादप्रहेया । अतो द्वयमित्युच्यते । एवं रागद्वेषावपि । लौकिका भूयसा घटादिपदे भ्रान्ताः । यथा घटपदं शृण्वतो मनसि संशय उदेति किं रूपादिः घटः किंवा रूपादिव्यतिरिक्तोऽन्योऽस्ति घट इति । एवं पञ्चस्कन्धात्मकः पुरुषः किं वा तद्व्यतिरिक्तोऽन्योऽस्ति पुरुष इति । समाहितचित्तः काय एवात्मा कायादन्य आत्मा इति शाश्वतोच्छदाख्येऽन्तद्वये न पतति । यः प्रजानाति घटः प्रतीत्यसमुत्पन्नो रूपरसगन्धस्पर्शमय इति । एवं रूपादयः स्कन्धः पुरुष इति । [स] एवं प्रजानन्नामजं संशयं प्रजहाति । इदं नाम धर्माणां परमार्थं सञ्छादयति । यथाह देवतापरिपृच्छासूत्रम्-

नाम सर्वमध्वभावि नाम भूयो न विद्यते ।
एकधर्मस्य नाम्नोऽस्य सर्वे धर्मा वशानुगाः ॥ इति ।

किञ्चाह- लोकस्य समुदयं पश्यतोऽभावदृष्टिर्निरुध्यते । लोकस्य निरोधं पश्यतो भावदृष्टिर्निरुध्यते । इति । अपि चोक्तम्- संस्काराणां सन्ततिं पञ्चस्कन्धानां संसरणं वदन्ति । इमेऽविद्यादीनवाः प्रतीत्यसमुत्पादं भावयतो निरुध्यन्त इति । उक्त ञ्च सूत्रे- यः प्रतीत्यसभुत्पादं पश्यति स धर्मं पश्यति । यो धर्मं पश्यति स बुद्धं (
३०७) पश्यतीति । एवं यो नामजं संशयं प्रजहाति सोऽपरप्रत्ययः परमार्थतो बुद्धं पश्यति । अतस्तत्त्वज्ञानादविद्या क्षीयते । प्रतीत्यसमुत्पादं सम्यक्प्रजानन् तत्त्वज्ञानं प्रतिलभते । संक्षेपत उक्तं चतुरशीतिधर्मस्कन्धे- या काचन प्रज्ञा सर्वा साविद्याव्यावर्तिनीति । अविद्या च सर्वक्लेशानां मूलं सर्वक्लेशानां सहकारिणी चेत्येवं प्रतीत्यसमुत्पाद [ज्ञाने] अविद्या प्रहीयते ॥

अविद्यावर्गः सप्तविंशत्युत्तरशततमः ।


१२८ मानवर्गः

(पृ) त्रयः क्लेशाः संसारस्य मूलमित्युक्तम् । अतोऽन्यः पुनरस्ति न वा । (उ) अस्ति मानाख्यः । (पृ) कतमो मानः । (उ) मिथ्याचित्तेनात्मन उन्नतिर्मान इत्युच्यते । मानोऽयंबहुविधः । अवर आत्मनि उन्नतिर्मानः । समेषु समतामन्यतापि मान इत्युच्यते । तत्रात्मबुद्धिनिमित्तग्रहदोषसत्त्वात् । समेषु आत्मन उन्नतिर्महामानः । विशिष्टेषु आत्मन उन्नतिरभिमानः । पञ्चसु स्कन्धेषु आत्मनिमित्तग्रहोऽस्मिमानः । अस्मिमानो द्विविधो निमित्तप्रदर्शनोऽनिमित्तप्रदर्शन इति । निमित्तप्रदर्शनः पृथग्जनानामात्ममानो यदुत रूपमात्मा, रूपवानात्मा, आत्मनि रूपं, रूप आत्मा इति दर्शनम्, एवं यावद्विज्ञानमपि । इति विंशतिधा प्रदर्शनात्निमित्तप्रदर्शनः । अनिमित्तप्रदर्शनः शैक्षजनानामस्मिमानः । यथा स्थविरः क्षेमक आह- न खल्वायुष्मन् रूपमस्मीति वदामि, न वेदना, न संज्ञा, न संस्कारा, न विज्ञानम्, [नाप्यन्यत्र विज्ञानादस्मीति वदामि] । अपि च म आयुष्मन् पञ्चसूपादानस्कन्धेषु अनुसहगतोऽस्मीति मानः अस्मीतिच्छन्दः अस्मीत्यनुशयोऽसमुद्धतः । [इत्यादि] । अयमस्मिमान इत्युच्यते ।

(
३०८)
यः स्रोतआपत्त्यादिफलविशेषानप्रतिलभ्य प्रतिलब्धवानिति वदति सोऽधिमानः । (पृ) अलाभे कस्माद्भवति लाभबुद्धिः । (उ) ध्यानाभ्यासेऽल्पास्वादलाभात्संयोजना नुशयं व्यावर्तयति न पुनश्चित्ते समुदाचरति । अतोऽयं मानो भवति । श्रुतचिन्तामयप्रज्ञाबलेन च सदा कल्याणमित्रमुपसद्य [त]त्समुदाचारविवेकमभिरोचयति । पञ्चस्कन्धानां लक्षणमल्पं ज्ञात्वा स्रोतआपत्त्यादिफलसंज्ञामुत्पादयति । [अय]मधिमानः ।

(पृ) अधिमानस्य के दोषाः । (उ) अन्ते दौर्मनस्योपायासैर्भवितव्यम् । यथोक्तं सूत्रे- यो भिक्षुः कथयति अहं समुद्धतविचिकित्सः प्रतिलब्धमार्ग इति । [तस्य] पुरत एवं कथयेत्- अतिगभीरः प्रतीत्यसमुत्पादो लोकोत्तरधर्म इति । यद्ययं भिक्षुर्वस्तुतोऽप्रतिलब्धमार्गः । [तदास्य] इमं धर्मं शृण्वतः कौकृत्योपायासो भवति । अतो यत्नेनाधिमानमिमं समुच्छिन्द्यात् । अधिमानिनि बुद्धा भगवन्तो महाकारुणिका अपि [तं] दूरीकृत्य न धर्माववादं कुर्वन्ति । अतः समुच्छिन्द्यात् । किञ्चाधिमानी धर्मस्य मिथ्यादर्शने विहरति । अतो नास्ति तात्त्विको गुणः । तद्यथा वणिक्गभीरमहासमुद्रगतो रत्नाभासेष्वासक्तो भवति । तथायमपि बुद्धशासनार्णवगतः अल्पं ध्यानसुखं प्रतिलभ्य पारमार्थिकमार्ग इति तत्रासङ्गं जनयति । अधिमानी अन्ते मरणकाले न मार्गं वेदयते । अतो यत्नेन पारमार्थिकतत्त्वज्ञानमन्विष्यात् । अधिमानी स्वार्थं विनाशयति सम्मोहञ्च बर्धयति । अलब्धे लब्धसंज्ञावत्वात् । अतो नात्मानमात्मनैव वञ्चयेत् । इति क्षिप्रं विसृजेत् ।

यदुत्तमं पुरुषमवरं वदन्ति । तदयथा भवतीति अयथामान इत्युच्यते । अयं स्वयमुच्चोऽपि स्वात्मभावमवनमयति । यदगुणाः सन्त आत्मानमुन्नमयन्ति । तन्मिथ्यामान इत्युच्यते । अकुशलधर्मैरात्मन उच्चकरणमपि मिथ्यामानः । यत्सुजने पूज्ये पृष्ठतोऽसत्कार उद्धतमानः सः । इत्यादि मानलक्षणम् ।

(पृ) कथं मान उत्पद्यते । (उ) स्कन्धानां परमार्थलक्षणमजानानां मान (
३०९) उत्पद्यते । यथोक्तंसूत्रे- ये केचित्[श्रमणा ब्राह्मणा वा] अनित्येन रूपेण [दुःखेन विपरिणामधर्मेण] श्रेष्ठोऽहमस्मीति समनुपश्यन्ति । सदृशो [ऽहमस्माति समनुपश्यन्ति] हीनो [ऽहमस्भीति समनुपश्यन्ति] किमन्यत्र यथाभूतस्यादर्शनात् । एवं यावद्विज्ञानमिति । स्कन्धानां परमार्थलक्षणं जानतां नास्ति मानः । कायानुस्मृतिं भावयतो नास्ति मानः । यथा गौः शृङ्गमपेक्ष्य तीक्ष्णो भवति । तच्छृङ्गे गते न भवति । कायोऽशुचिः नवद्वारेषु मलप्रस्रावी । कः प्राज्ञ इममपेक्ष्य उच्चोऽस्मीति [मन्येत] एवमादिकायानुस्मृतिप्रत्यये तु नास्ति मानः । प्राज्ञो जानाति सर्वे सत्त्वा यदि वा दरिद्री यदि वा धनी यदि वा पूज्यो यदि वा जधन्यः सर्वेऽपि अस्थिमांसस्नायुसिरापञ्चसन्धिपेशीकललसमवायमयकायाः, जातिजराव्याधिमरणदौर्मनस्यपरिदेवदुःखोपायाससमन्विता रागक्रोधादिपुण्यपापकर्मयुक्ता नरकादिदुर्गतिभागिनश्चेति । कथमुत्पादयेन्मानम् । आभ्यन्तरं बाह्यं चित्तं प्रतीत्यसमुत्पन्नं सर्वं क्षणिकमिति पश्यतो न भवति मानः । चित्तसमाधिञ्च सम्यक्भावयतो न भवति मानः । कस्मात् । निमित्तेऽनुगते हि मान उत्पद्यते । असति निमित्ते कुत्र मानमुत्पादयेत् । किञ्च प्राज्ञस्य शीलादिषु सत्सु न भवति मानः । कस्मात् । शीलादयो हि सर्वे एषां क्लेशानां क्षयकराः । असत्सु गुणेषु कः प्राज्ञोऽसद्वस्तुनि मानमुत्पादयेत् । अनित्यतादिलक्षणं भावयतो मानो निरुध्यते । कः प्राज्ञोऽनित्येन दुःखेन अशुचिना पदार्थेन मानं कुर्यात् ।

(पृ) मानस्य के दोषाः । (उ) मानात्कायो भवति । कायात्सर्वं दुःखं प्रवर्तते । यथाह भगवान् सूत्रे- यदाहं माणवकोऽभूवम्, न तदा मानलक्षणमाज्ञासिषमहमिति वेदनाव्याकरणं कुत्रचिदुत्पत्स्यत इति । अन्यमानानामप्रहीणत्वात् । सर्वे क्लेशा निमित्तग्रहानुवर्तिनः । अहमिति निमित्तेषु महत् । अतो ज्ञायते मानात्कायो भवतीति । मानोऽयं मोहभागीयः । कस्मात् । चक्षुषा रूपं दृष्ट्वा अहं पश्यामीत्याह । मानोऽयमनीत्या च प्रवर्तते । कस्मात् । सर्वे लोका अनित्या दुःखा अनात्मकाः । कथमनेन मानो भवति । अतो रागद्वेषमोहाः परमानीतयः । मनोद्धितं कर्म तीक्ष्णं गुरुकञ्च । (
३१०) गभीरासक्तत्वात् । रागोद्धितन्तु नेदृशं भवति । मानबलाद्रागादयो वर्धन्ते । अनेन रागेण लब्धो गोत्रादिमानस्तु विपुलं वर्धते । अस्मिमानप्रत्ययं प्रवर्तते नीचकुलम् । सिंहव्याघ्र वृकेष्वपि भवति । अस्मात्प्रत्ययान्नरके पतति । मानस्य सन्त्येवमादीन्यप्रमाणान्यवद्यानि ।

(पृ) किं मानबहुलस्य लक्षणम् । (उ) अयं समुपात्तधार्ष्ट्यो दुःसहभाषणोऽसत्कारचित्तोऽल्पभयः स्वैराचारमुदितः स्वयञ्च महादुःशासनो यत्किञ्चिज्जधन्य[मपि]स्वयं बहुमानी, परकुत्सनप्रियालुरितीमे दोषा दुरपनेयाः । अतो ज्ञानिना नाचरितव्याः । मानोऽयं सर्वगुणानां विघटकतया प्रवर्तते ॥

मानवर्गोऽष्ठाविंशत्युत्तरशतत्तमः ।


१२९ विचिकित्सावर्गः

शास्त्रमाह- विचिकित्सा नाम तत्त्वार्थे बुद्ध्यविनिश्चः किमस्ति विमुक्तिः किं वा नास्ति । किमस्ति कुशलमकुशलम् । उत न । किमस्ति रत्नत्रयम् । उत न इति ।

(पृ) वृक्षे संशयो भवति किं स्थाणुः किं वा पुरुष इति । मृत्पिण्डे संशयो भवति किं मृत्पिण्डः उत कोकिल इति । मधुकरे संशयो भवति किं मधुकरः किं वा जम्बूफलमिति । सर्पे संशयो भवति किं सर्पः किं वा रज्जुरिति । घोटकमृगे संशयो भवति किं प्रभा किं वा सलिलमिति । एवमादयः संशयहेतवश्चाक्षुषविज्ञानजनकाः । ध्वनौ संशयो भवति किं मयूरकृत उत मनुष्यकृत इति । गन्धे संशयो भवति किमुत्पलगन्धः उत संपर्कगन्ध इति । रसे संशयो भवति किं मांसरस उत मांसाभासरस इति । स्पर्शे संशयो भवति किमौत्पत्तिकतन्तव उत परिपक्वतन्तव इति । मानसविज्ञानन्तु नानाविधसंशयजनकम् । यथा किमयं धर्मो द्रव्यवानुत गुणमात्रम् । विमस्त्यात्मा उत न इत्येवमादयः किं संशया न सन्ति ।

अत्र ब्रूमः । स्थाणुर्वा पुरुषो व इत्येवमादिभिस्तु न क्लेशा भवन्ति । न च ते पुनर्भवस्य प्रत्यया भवन्ति । क्षीणास्रवाणामप्येतत्सम्भवात् ।

(पृ) विचिकित्सेयं कथमुत्पद्यते । (उ) द्विविधधर्मदर्शनश्रवणज्ञानैर्विचिकित्सा भवति । कस्मात् । पूर्वं द्विधावस्थितं पदार्थं स्थाणुं पुरुषञ्च दृष्ट्वा पश्चाद्दूरतः पश्यति (
३११) पुरुषादि वस्तु तदा संशेत स्थाणुर्वा पुरुषो वेति । तदा मृदादावपि । द्विधाश्रवणम्- यदि कश्चिच्छृणोति अस्ति पुण्यं पापमिति । पश्चाच्छृणोति लोके नास्तीति । अतः संशयो भवति । द्विधाज्ञानम्- यदा देवे वर्षति नदी समृद्धा भवति । जलसेतुभेदेऽपि नदी समृद्धा । यथा देवे विवृक्षति पिपीलिकापोतान्यण्डवाहीनि । कस्मिंश्चित्[कुत्रचित्] खनत्यपि अण्डसंक्रान्तो गच्छति । मयूरकूजनं पुरुषोऽपि कर्तुं शक्नोति । किञ्चिद्वस्तु दृश्यं यथा घटः । किञ्चिददृश्यं यथालातचक्रम् । अदृश्यं वस्तु यथा वृक्षमूलं पृथिव्यामधस्तात्जल[स्थं]वा । किञ्चिदवस्तु अदृश्यञ्च यथा द्वितीयं शिरः तृतीयो बाहुः । एवमादिभिर्द्विधाधर्मदर्शनश्रवणज्ञानैः संशयो भवति ।

अपरीक्ष्य दर्शनाच्च संशयो भवति । यथातिदूरादिभिरष्टप्रत्ययैः । द्विधाश्रद्धावत्त्वेन च संशयो भवति । यथा कश्चिद्वदति- अस्ति परलोक इति । [अन्यः] कश्चिद्वदति नास्तीति । उभयोरपि पुरुषयोः श्रद्धावतः संशयो भवति । विमते वस्तुनि यावद्विशिष्टलक्षणं न पश्यति तावत्संशयो भवति । विशिष्टलक्षणं पश्यतस्तु संशयो न भवति । (पृ) कथं विशिष्ठलक्षणं पश्यति । (उ) दर्शनश्रवणज्ञानानां विनिश्चयाद्विगतसंशयो भवति । भगवच्छासने यः कायेन धर्मतालक्षणं साक्षात्करोति । सोऽत्यन्तविगतसंशयो भवति । यथा बोधिसत्त्वो बोधिमण्डे निषण्णोऽवदत्व्यवसायेन ब्राह्मणलब्धं गमीरं धर्ममभिसमेत्य प्रत्ययान् जानन् पश्यंश्च प्रक्षीणसंशयजालो भवेयमिति । सद्युक्तिप्रज्ञालाभिनश्च संशयः प्रहीयते । यथा ज्ञानी संस्काराणां प्रतीत्यसमुत्पादं श्रुत्वा विज्ञाय च निर्धास्यति संसारोऽनादिरित्येवमादि ।

(पृ) विचिकित्सायाः के दोषाः । (उ) विचिकित्साबहुलस्य लौकिकं लोकोत्तरं सर्वं न सिध्यति । कस्मात् । सन्दिद्घः पुमान्न कार्यं कर्म करोति । यत्करोति तत्जघन्यं भवति । साधयितुमक्षमत्वात् । उक्तञ्च सूत्रे- विचिकित्सा चित्तस्यानुप्ररोहः । तद्यथा सतृणक्षेत्रेऽनुप्ररोहबहुलत्वादन्यतृणान्येव न प्ररोहन्ति । किः पुनः शालिसस्यादीनि । (
३१२) एवं चित्तं विचिकित्साप्रसृष्टमसद्वस्तुन्येव समादधाति । किं पुनः सम्यक्समाधौ इति । किञ्चाह भगवान्- विचिकित्सा नाम तमसो राशिरिति । स तमसो राशिस्त्रिविधः अतीतोऽनागतः प्रत्युत्पन्न इति । स तमसो राशिरात्मदृष्टीनामुत्तिस्थानम् । पुरुषोऽयं चित्तं समादधानोऽपि मिथ्या समादधाति । विना भगवच्छासनं न सम्यक्समाधिमानिति वक्तुं शक्यते । बहवः सत्त्वा आमरणं विचिकित्साविनष्टाः । तद्यथाह- अष्टकादयः पञ्चाभिज्ञा महर्षयः संशयालीढा विपन्ना इति । संशयानस्य दानादि कुर्वतः पुण्यमविपाकं वा स्यादल्पविपाकं वा । कस्मात् । इमानि पुण्यकर्माणि चित्तोद्गतानि । तस्य पुरुषस्य चित्तं सदा विचिकित्साकलुषितमित्यतो नास्ति कुशलम् । उक्तञ्च सूत्रे- विचिकित्सितचित्तो दानं दत्वा प्रत्यन्तभूमौ विपाकं वेदयत इति । कस्मात् । विचिकित्साबहुलो नैकाग्रचित्तो यथाकालं पाणिभ्यां प्रयच्छति । नापि विविधं सत्कारचित्तमुत्पादयति । अतः प्रत्यन्तभूमौ क्षुद्रं विपाकं वेदयते । तद्यथा पायास्यादयः क्षुद्रराजाः ।

(पृ) नास्तीयं विचिकित्सा । कस्मात् । विचिकिकित्सा नाम चैतसिकधर्मः । चैतसिकाश्च क्षणिकाः । सन्न विचिकित्सा । असनपि न विचिकित्सा । नैकं चित्तं सतसदिति भवति । अतो नास्तीति ज्ञायते । (उ) नाहं वदामि क्षणिकेष्वस्ति विचिकित्सेति । अनिर्धारितचित्तसन्तानो विचिकित्सेत्याख्यायते । न तस्मिन् समये चित्तं निर्धारयति अयं स्थाणुरयं पुरुष इति । सतन्यमानमिदं चित्तमश्रद्दधानत्वादाविलम् । मिथ्यादर्शनादस्ति वा नास्ति वेति विचिकित्सन्न श्रद्दधते ।

अश्रद्धेयं द्विविधा विचिकित्सासम्भवा मिथ्यादर्शनसम्भवा इति । विचिकित्सासम्भवा लघुतरा । मिथ्यादर्शनसम्भवा तु गुरुतरा । श्रद्धा च द्विविधा सम्यद्गर्शनसम्भवा श्रवणसम्भवेति । सम्यद्गर्शनसम्भवा श्रद्धा दृढा भवति श्रवणसम्भवा तु नैवं भवति ॥

विचिकित्सावर्ग एकोनत्रिंशदुत्तरशततमः ।


(
३१३)
१३० सत्कायदृष्टिवर्गः

पञ्चसु स्कन्धेषु आत्मबुद्धिः सत्कायदृष्टिः । वस्तुत आत्मनोऽभावात्पञ्चस्कन्धालम्बिनीत्युच्यते । कायः पञ्चस्कन्धात्मकः । तत्रोत्पन्ना [आत्म]दृष्टिः सत्कायदृष्टिरित्युच्यते । निरात्मक आत्मनिमित्तग्रहणात्दृष्टिरित्याख्यायते ।

(पृ) पञ्चसु स्कन्धेषु आत्मेति नामकरणे को दोषः । यथा घटादयः पदार्थाः प्रत्येकं स्वलक्षणाः । न तत्रास्ति दोषः । तथात्मापि । स्कन्धव्यतिरिक्त आत्मास्तीति ब्रूवतस्तु दोषः स्यात् । (उ) यद्यपि न स्कन्धव्यतिरिक्त आत्मेत्युच्यते । तथापीदं दुष्टम् । कस्मात् । तीर्थिका हि वदन्ति- आत्मा नित्यः । अस्मिन्नध्वनि कृतकर्मणामन्ते विपाकवेदनातिति । एवं ब्रुवतः पञ्चस्कन्धा एव नित्याः स्युः । आत्मवादी मन्यते आत्मा एक इति । तथा सति पञ्चस्कन्धा एक एव स्युः । इत्ययं दोषः । आत्मग्रहश्च दुष्टः । कस्मात् । आत्मबुद्धौ हि आत्मीय [बुद्धि]रस्ति । आत्मीये सति रागद्वेषादयः सर्वे क्लेशाः समुद्भवन्ति । अतो ज्ञायत आत्मबुद्धिः क्लेशानामुत्पत्तिस्थानमिति । यद्यपीमे न वदन्ति स्कन्धव्यतिरिक्त आत्मेति । [तथापि] स्कन्धेषु निमित्तग्रहान्न [तेषां] शून्यतायामवचरन्ति । शून्य[ता]यामनवचरणात्क्लेशाः सम्भवन्ति । क्लेशेभ्यः कर्म सम्भवति । कर्मतो दुःखम् । एवं जननमरणसन्तानोऽविच्छिन्नो भवति । इम आत्मकल्पनया कायशिरश्चक्षुर्हस्तपादस्यौदारिकं विवेकमेव न लभन्ते । किं पुनः स्कन्धानां विवेकम् । एक आत्मा नित्य आत्मेति समादानात् । यो न विवेचयति । कोऽवक्रामति शून्य[ताया]म् । आत्मदर्शीनिर्वाणभीत आत्मा न भविष्यतीति । यथोक्तं सूत्रे- पृथग्जनाः शून्यानात्मतां श्रुत्वा महाभीतिमुत्पादयन्ति आत्मा न भविष्यति । अतो नास्ति किञ्चिदुपलभ्यमिति । एवं पृथग्जना यावत्पामोपहतं कायं प्रार्थयमाना न निर्वाणाय प्रयन्ते । यः शून्यताज्ञानप्रतिलाभी स पुनर्निर्भीतो भवति । यथोहोपसेनसूत्रम्-

ब्रह्मचर्यं सुचरितं मार्गश्चापि सुभावितः ।
तुष्ट आयुःक्षये भोति रोगस्यापगमे यथा ॥ इति ।

(
३१४)
आत्मास्तीति यो वदति स मिथ्यादृष्टौ पतति । यद्यात्मा नित्यः तदा सुखदुःखयोर्विकारो न स्यात् । असति विकारे नास्ति पुण्यं पापं वा । यद्यनित्य आत्मा । तदा नास्ति परलोकः । स्वभावतो विमुक्तस्यापि नास्ति पुण्यं पापं वा । अतो ज्ञायते सत्कायदृष्टिर्गुरुतरं पापमिति । किञ्च सत्कायदृष्टिकोऽत्यन्तमूढः । पृथग्जनाः सर्वे सत्कायदृष्ट्या विक्षिप्तचित्ता भवन्ति । अत्यासङ्गात्संसारे यातायाता भवन्ति । यो नैरात्म्यं पश्यति तस्य यातायातं समुच्छिद्यते ।

(पृ) यदि पञ्चस्कन्धा अनात्मकाः । कस्मात्सत्वानां तत्रात्मबुद्धिर्भवति । (उ) मर्त्यो देवः पुमान् स्त्री इति नामनिमित्तं शृण्वतः संज्ञाविकल्पादात्मबुद्धिरुत्पद्यते । न तु हेतुना । हेत्वभावेनात्मबुद्धिरुत्पद्यते यदुत यद्यात्मा नास्ति कः सुखं सुखं वेदयेत्, इर्यापथव्यवहारोद्धितपुण्यपापकर्मणा विपाकं [को] वेदयेतेति । अनादौ संसारे च चिरसञ्चितमात्मनिमित्तन्तु तदनुशयसाधनम् । यथा घटादिनिमित्तम् । अत आत्मबुद्धिरुत्पद्यते । सर्ववेदनास्कन्धेषु आत्मबुद्धिरुत्पद्यते न तु वेदनायाम् । अत उच्यत आत्ममतिर्यत्रोत्पद्यते तत्रात्मास्तीति । कस्मात् । न हि सर्वत्रात्ममतिर्भवति । व्यामोहादात्ममतिरुत्पद्यते । तद्यथा अन्ध[कल्प]स्य शकलादि लब्ध्वा सुवर्णमणिसंज्ञा भवति । किञ्चायं शून्यताविवेकज्ञानालाभी मोहात्पश्यत्यात्मानम् । तद्यथा माया[मरीची]गन्धर्वनगरालातचक्रादिषु अस्तीति मतिर्भवति ।

(पृ) पश्यामः खलु प्रत्यक्षं रूपकाये केशनखरोमाद्यवयवान् प्रत्येकं विभिन्नान् । कः सचेतनस्तानात्मानं मन्येत । (उ) केचित्पश्यन्ति आत्मानं यवसदृशं सर्षपादिसमानं हृदयान्तर्वर्तिनञ्च । ब्राह्मणानामात्मा शुक्लः । क्षत्रियाणामात्मा पीतः । वैश्यानामात्मा रक्तः । शूद्राणामात्मा कृष्ण इति । उक्तञ्च वेदे-

(
३१५)
पुरासीन्महान् पुरुष आदित्यवर्णः तमसः परस्तात् । तमेवं विद्वानमृत इह भवति । नान्यः पन्था विद्यते [ऽयनाय] । अणोरणियान्महतो महीयानात्मा गुहायां निहितोऽस्य जन्तोः । तमक्रतुः पश्यति [वीतशोकः] सूत्रं मणिगणेष्विव ।

एवं केचिन्मन्यन्ते रूपमात्मेति । स्थूलचेतना आहुः वेदनात्मेति । वृक्षशिलादौ वेदनाया अभावात्ज्ञेयं वेदनैवात्मेति । मध्यमचेतना आहुः संज्ञा आत्मा, सुखदुःखयोरतीतयोरपि [तत्] संज्ञावदात्मेति बुद्धि[सत्त्वा]त् । सूक्ष्मचेतना आहुः संस्कार आत्मेति । घटादावतीतेऽपि [तत्] चेतनावानात्मेति बुद्धेः । परमसूक्ष्मचेतना आहु- विज्ञानमात्मेति । चेतनापि औदारिकी । चेतनायामस्यामतीतायामपि [तत्] विज्ञानवानात्मेति बुद्धेरिति जानन्ति । [यस्य] पञ्चसु स्कन्धेषु आत्मबुद्धिर्भवति । न स विवेचयति वेदनादीन् स्कन्धान् । रूपं चित्तञ्च सम्मिश्र्य आत्मसंज्ञा समुत्पद्यते । यथा रूपादिचतुर्धर्मसामान्ये घटसंज्ञोत्पद्यते । रूपादिविभागेन विंशतिभागैः पश्यति रूपमात्मेति । कस्मात् । रूपवानयमात्मेति प्रतीतो धर्मो वेदनादीनामाश्रयः । वेदनादय इमे रूपे प्रतिबद्धा इत्यत उच्यते रूप[वान्] आत्मेति । केचिद्वेदनादिगतं रूपं पश्यन्ति । वेदनादय इमेऽनुपलभ्यमानधर्मा इत्यतो रूपमाश्रयन्ते । यथा आकाशोऽनुपलभ्य इत्यतः पृथिव्यादय आश्रीयन्ते । एव [मात्मदृष्टे] विंशतिभागा मोहाद्भवन्ति ।

(पृ) चक्षुरादिषु कस्मान्नोच्यत आत्मेति भागः । (उ) अस्ति च । यथोक्तं सूत्रे- यद्याह कश्चित्यच्चक्षुरयमात्मेति । तन्न युज्यते । कस्मात् । चक्षुरुत्पन्नविनाशि । यदि चक्षुरयमात्मा । तदा आत्मा उत्पन्नविनाशी स्यात् । चक्षुरादीनि पृथक्पृथग्विशिष्टलक्षणानि । यद्युच्यते चक्षुरात्मेति । श्रोत्रादयो नात्मा स्युः । तत्तु न (
३१६) युज्यते । यदि श्रोत्रादयः पुनरा[त्मा] । तदा एक एव पुमान् बह्वात्मा स्यात् । रूपादीनां सविशेषत्वात्वक्तुं शक्यं रूपमेवा न वेदनादय इति ।

(पृ) नास्त्यात्मेति यद्वचनम् । सापि मिथ्यादृष्टिः । कथमिदम् । (उ) अस्ति सत्यद्वयम् । परमार्थतोऽस्त्यात्मेति यद्वचनं सा सत्कायदृष्टिः । संवृतितो नास्ति आत्मेति वचनं मिथ्यादृष्टिः । लोकसत्यतोऽस्त्यात्मा परमार्थतो नास्त्यात्मेति वचनं सम्यक्दृष्टिः । परमार्थतो नास्ति संवृतितोऽस्तीति वदन्न दृष्टौ पतति । एवमस्ति नास्तीति वचनं ज्ञेयम् । यथा व्याघ्री स्वपोतं मुखेनापहरति अतिनिष्ठुरग्रहणे क्षतं [भवेदिति] अतिशिथिलग्रहणे भ्रंशो [भवेदिति] । एवमास्तित्वं प्रतिपन्नश्चेत्सत्कायदृष्टौ पतति । आत्मनास्तित्वं प्रतिपन्नश्चेन्मिथ्यादृष्टौ पतति । कृतहानमकृताभ्यागम उभयं दुष्टम् । नास्तीति प्रतिपन्नस्य [कृत]हानम् । आत्मास्तीति प्रतिपन्नस्या [कृता]भ्यागमः । अतः सूत्र उक्तं- द्वावन्तौ परिहार्याविति । परमार्थतो नास्तीति वदन् संवृतितोऽस्तीति च वदनन्तद्वयं परित्यज्य मध्यमायां प्रतिपदि चरतीत्याख्यायते । बुद्धशासनमविवादमनुत्कर्षणम् । परमार्थतो नास्तीत्युक्तौ पण्डितो नोत्कर्षति । संवृतितोऽस्तीत्युक्तौ पामरो न विवदते । तथागतशासनेऽशाश्वतानुच्छेदा परिशुद्धा मध्यमा प्रतिपत् । परमार्थतो नास्तितया न शाश्वतः । संवृतितोस्तितया नोच्छेदः ।

(पृ) यो धर्मः परमार्थतो नास्ति स सुतरां नास्तीति स्यात् । केन पुनरुच्यते संवृतितोऽस्तीति । (उ) सर्वैर्लौकिकैर्व्यवह्रियते अस्तीति यदुत कर्म कर्मविपाको यदि वा बन्धो यदि वा मोक्ष इति । इमे सर्वे मोहजाः । कस्मात् । इमे पञ्चस्कन्धाः शून्या मायोपमाः ज्वालावच्च सन्तानेनोत्पन्नत्वात् । पृथग्जनानां तितीर्षया अस्तीतिवचनमनुवर्तते । यदि नास्तीति वदेत् । तदा पृथग्जना व्यामुह्य यदि वा उच्छेदवादे पतेयुः यदि वा स्कन्धानां नास्तीताकथने अविनेयाः स्युः । पुण्यपापादिकर्मभिर्बन्धो वा मोक्षो वा न सिध्येत् । यस्तं मोहवादं विनाशयति । सः स्वयमेव शून्यतायामवतरति । तदास्य सर्वा मिथ्यादृष्टयो न भवन्ति । अतः परमार्थसत्यं पश्चादुच्यते । यथा स्त्रीपुंनिमित्तव्यावृत्तये कायप्रत्यवेक्षणमादावुपदिश्यते । अथ केशरोमनखादिभिः कायविकल्पलक्षण[मुपदिश्यते] पञ्चस्कन्धमात्रमस्तीति । अथ शून्यतालक्षणेन पञ्चस्कन्धनिरोधलक्षण[मुपदिश्यते] । पञ्चस्कन्धनिरोधलक्षणं परमार्थसत्यमित्युच्यते । संवृत्यास्तीति कथने न तदा पुनः परमार्थतो (
३१७) नास्तीति वचनमपेक्ष्यते । उक्तञ्च सूत्रे- यः सर्वधर्मान्निःस्वभावान् प्रजानाति स शून्यतायामवतरति । इति । अतो ज्ञायते पञ्च स्कन्धा अपि न सन्तीति । उक्तञ्च परमार्थशून्यतासूत्रे- चक्षुरादि परमार्थतो नस्ति । अस्ति तु संवृतित इति । महाशून्यतासूत्र उक्तम्- यदिदं जरामरणमिति वचनं यदि वायं पुरुषो जरामरण[-लक्षण] इति वचनम् । यदि वा तीर्थिकानां वचनं काय एव जीवः, यदिवान्यः कायोऽन्यो जीव इतीदमेकार्थकं, व्यञ्जनमेव नाना । काय एव जीवः अन्यः कायोऽन्यो जीव इतीदं वचने न ब्रह्मचर्यं भवति । यः प्रतिषेधः अयं पुरुषो जरामरण[लक्षण] इति नैरात्म्यस्याभिधानम् । यः
प्रतिषेध इदं जरामरणमिति तत्जरामरणस्य व्यावर्तनम् । यावदविद्यायाः इति । अतो ज्ञायते परमार्थतो न जरामरणादि । संवृत्या तूच्यते जातिप्रत्ययं जरामरणम् । इयमुच्यते मध्यमा प्रतिपत् । किञ्चोक्तं राधसूत्रे- रूपं राध यूयं विकिरत विधमत विध्वंसत विक्रीडनकं कुरुत [तृष्णा]क्षयाय [प्रतिपद्यत] तद्यथा पांस्वागारिकाः । अवस्तुत्वात्क्षयाय भाव्या इति । स्कन्धा अपि क्षयाय [भाव्याः] । परमार्थतोऽभावात्स्कन्धवृत्तिलक्षणवृत्तिमनुसरतो नात्ममतिरत्यन्तं प्रहीयते । हेतुप्रत्ययानामनिरोधात् । यथा वृक्षः परशुना छिन्नो भस्मसात्कृतः । तथापि [तत्र] वृक्षसंज्ञामनुवर्तते । यदा तु महावाते ओपूयते जलेन वा प्रवाहितः तदा वृक्षसंज्ञा निरुध्यते । एवं यदा विध्वंसितानि विक्रीडनकं कृतानि विकीर्णानि विध्मातानि निरुद्धानि पञ्चस्कन्धलक्षणानि, तस्मिन् समये शून्यतालक्षणं सम्पन्नं भवति । यथाह सूत्रम्- राध यूयं [रूपं] विध्वंसत विक्रीडनकं कुरुत विकिरत विधमत भागशो विदलयत सत्त्वक्षयाय इति । अस्मिन् सूत्र उक्तम्- पञ्चस्कन्धा अनित्याः सत्त्वशून्याः न सन्तीति । पूर्वस्मिन् सूत्र उक्तम्- पञ्चस्कन्धा विकीर्णा निरुद्धाः ते धर्मशून्या भवन्ति इति ॥

सत्कायदृष्टिवर्गस्त्रींशत्युत्तरशततमः ।


(
३१८)
१३१ अन्त[ग्रह]दृष्टिवर्गः

धर्माः समुच्छिद्यन्ते वा शाश्वता वा इति यदिदं वचनं तदन्त[ग्रह]दृष्टिरित्युच्यते । केचिदाभिधर्मिका आहुः- यदा कश्चिदाह आत्मा शाश्वतो वा अशाश्वतो वेति इयमेवान्तग्रहदृष्टिः न सर्वे धर्माः[शाश्वता वा अशाश्वता वा] इति । कस्मात् । दृष्टं खलु प्रत्यक्षं [यत्] बाह्यं वस्तु समुच्छिद्यत इति । उक्तञ्च सूत्रे- अस्तीति दर्शनं शाश्वतग्रहः । नास्तीति दर्शनमुच्छेदग्रह इति । काय एव जीव इत्युच्छेददृष्टिः । अन्यः कायोऽन्यो जीव इति शाश्वतदृष्टिः । नास्ति कर्म परं मरणादिति उच्छेददृष्टिः । अस्ति कर्म परं मरणादिति शाश्वतदृष्टिः । अस्ति च नास्ति च कर्म परं मरणादित्यत्र यदस्तीति स शाश्वत[वादः] यन्नास्तीति स उच्छेदवादः । नैवास्ति न च नास्तीत्यप्येवम् ।

(पृ) अयं चतुर्थो ग्रहो न दृष्टिः स्यात् । (उ) लोकसत्यतोऽपि पुद्गलरहितत्वाद्धर्माणां दृष्टिरित्युच्यते । शाश्वतोऽशाश्वतः अन्तवाननन्तवानित्यादि चतुष्कोटिकमप्येवम् । उक्तञ्च सूत्रे- षट्स्पर्शायतनानि निरुध्यन्ते सन्त्यन्यानीति शाश्वतवादः । न सन्त्यन्यानीति उच्छेद[वाद] इति । आत्मा पूर्वमकरोत्पश्चात्करिष्यतीति यद्दर्शनं सा शाश्वतदृष्टिः आत्मा पूर्वं नाकरोत्पश्चान्न करिष्यतीतीयमुच्छेददृष्टिः । अपि चाह मिथ्यादृष्टिसूत्रम्- पुरुषस्य सप्तकायाः पृथिव्यप्तेजोवायवः सुखंदुःखं जीवितमिति । म्रियमाणस्य चत्वारि महाभूतानि तम्मूलप्रतिशरणानीन्द्रियाण्याकाशप्रतिशरणानि इति । किञ्चाह- क्षुरेण च क्रकचेन प्राणिनो हत्वा [एक]मांसपुंञ्च कुर्यात्नास्ति [ततो निदानं]पापं [नास्ति पापस्यागम] इति । इयमुच्छेददृष्टिः । ब्रह्मजालसूत्र उच्छेददृष्टिलक्षणमुक्तम् । अस्ति परलोकः यः कारकः स एव वेदक इति यद्वचनम् । इयं शाश्वतदृष्टिरित्युच्यते ।

(
३१९)
(पृ) शाश्वतोच्छेददृष्टिः कथमुत्पद्यते । (उ) येन हेतुना भवति तथागतः परं मरणादिति वदन्ति ततो निदानं शाश्वतदृष्टिर्भवति । येन हेतुना न भवति तथागतः परं मरणादिति वदन्ति ततो निदानमुच्छेददृष्टिर्भवति । (पृ) कथमियं दृष्टिः प्रहीयते । (उ) शून्यतां सम्यग्भावयतो नास्त्यात्मदृष्टिः । असत्यामात्मदृष्टौ नास्त्यन्तद्वयम् । यथोक्तं यमकसूत्रे- नास्त्यैककस्मिन् स्कन्धे तथागतः । नास्ति समुदिते स्कन्धे तथागतः । नास्ति चान्यत्र स्कन्धात्तथागतः । एवं दृष्ट एव धर्मे [तथागतो]ऽनुपलभ्यमानः । कथं वक्तव्यं [यथा] क्षीणास्रवोऽर्हन् कायस्य भेदा [दुच्छेत्स्यति विनंक्ष्यति] न भवति परं मरणादिति । अतो ज्ञायते नोपलभ्यते पुद्गल इति । पुद्गलस्यानुपलम्भादात्मदृष्टिः शाश्वतोच्छेददृष्टिश्च नास्ति । धर्माः प्रतित्यसमुत्पन्ना इति पश्यतो नास्त्यन्तद्वयम् । यथा पुनरुक्तम्- लोकसमुदयं पश्यतोऽभावदृष्टिर्निरुध्यते । लोकनिरोधं पश्यतो भावदृष्टिर्निरुध्यत इति । मध्यमायां प्रतिपदि विहरतश्चान्तद्वयं निरुध्यते । कस्मात् । धर्माणां सन्तत्योत्पादं पश्यत उच्छेददृष्टि र्निरुध्यते । [तेषां] क्षणिकतां पश्यतः शाश्वतदृष्टिर्निरुध्यते । किञ्चोक्तम्- न पञ्चस्कन्धास्तथागतः । न चास्ति अन्यत्र स्कन्धात्तथागत इति । अतो ज्ञायते नोच्छेदो न शाश्वत इति । कायादन्य उपलभ्यत इत्यतो नैकः कायेन भवति । सहायं सत्त्व इत्यतो नान्यो भवति । पञ्चस्कन्धाः पुनः सन्तन्यन्त इत्यतः सत्त्वो जायते म्रियत इति वक्तमेव न प्रभवति । सन्तानेन प्रवृत्तत्वादन्य इति न वक्तुं शक्यते । सन्तानस्यैकत्वेनाभिधानात् । (
३२०) इमे स्कन्धास्ते स्कन्धाश्चान्य इत्यभिधानात्शाश्वतवादो न भवति । स्वसन्तानप्रत्ययबलेन प्रवर्तत इत्यत उच्छेदवादो न भवति ।

अन्तग्रहदृष्टिवर्ग एकत्रिंशदुत्तरशततमः ।


१३२ मिथ्यादृष्टिवर्गः

वस्तुतः सत्सु धर्मेषु नास्तीति चित्तोत्पादनं मिथ्यादृष्टिः । यथा वदन्ति न सन्ति चतुस्सत्यानि त्रीणि रत्नानीत्यादि । ऊक्तञ्चसूत्रे- कतमा भिक्षवो मिथ्यादृष्टिः, नास्ति दत्तं नास्तीष्टं, नास्ति हुतं, नास्तिसुकृतदुष्कृतानां फलं विपाकः । नास्त्ययं लोकः नास्ति परो लोकः, नास्ति माता नास्ति पिता, न सन्ति सत्त्वा औपपातिकाः, न सन्ति श्रमणब्राह्मणाः सम्यग्गताः सम्यक्प्रतिपन्ना य इमं लोकं परञ्च लोकं स्वयमभिज्ञाय साक्षात्कृत्य प्रवेदयन्ति- क्षीणा मे जातिरुषितं ब्रह्मचर्यं कृतं करणीयं नापरमित्थत्वाय इति । दत्तं [यत्] परहिताय प्रयच्छति । इष्ठमिति वेदोक्तो देवानां कृते यागः । हुतमिति देवेभ्यो घृतादिद्रव्यहोमः । सुकृतमिति त्रयाणां सुकृतकर्मणामिष्टफलप्रतिलाभः । दुष्कृतमिति त्रयाणां दुष्कृतकर्मणामनिष्टफलप्रतिलाभः । सुकृतदुष्कृतकर्मणां [फलं] विपाकः इहलोकशुभाशुभकीर्त्यादिः देवकायादयः पारलौके विपाकश्च । अयं लोक इति वर्तमानः । परलोक इति अनागतः । माता पिता जनकौ । सत्त्व औपपातिक इति अस्माल्लोकात्परलोकगन्ता । अर्हन्निति क्षीणास्रवः । यदिदं सर्वं नास्तीति सा मिथ्यादृष्टिः । सत्त्वानां संक्लेशो व्यवदानं ज्ञानदर्शनमज्ञानदर्शनम्- इदं सर्वमहेतुकम् । नास्ति बलं नास्ति वीर्यम् । नास्ति च तेषां फलमित्यादि मिथ्यादृष्टिः । संक्षिप्येदं ब्रूमः- यद्विपर्ययचित्तं सर्वं तन्मिथ्यादृष्टिः इति । तद्यथा अनित्ये नित्यसंज्ञा, दुःखे
सुखसंज्ञा, अशुचौ शुचिसंज्ञा, अनात्मनि (
३२१) आत्मसंज्ञा अनुत्कृष्ट उत्कृष्टसंज्ञा, उत्कृष्टे चानुत्कृष्टसंज्ञा, व्यवदानमार्गे अव्यवदानमार्गसंज्ञा, अव्यवदानमार्गे च व्यवदानमार्गसंज्ञा, अभावे भावसंज्ञा, भावे चाभावसंज्ञा इत्येवमादीनि विपर्ययचित्तानि । अभिधर्मे याः पञ्चदृष्टयः ब्रह्मजालसूत्रे च द्वाषष्टिदृष्टयः सर्वा[स्ता] मिथ्यादृष्टयो भवति ।

मिथ्यादृष्टिः कथममुत्पद्यते । (उ) मोहादुत्पद्यते । अहेतौ हेत्वाभासे चासंक्लिष्टासक्तत्वाद्भवति । सुखहेतावासङ्गाद्वदति नास्ति दुःखमिति । भ्रष्टशून्यतामार्गत्वाद्वदन्ति नास्ति दुःखमिति । न हि दुःखवेदकोऽस्तीति । लौकिकाः पदार्था अहेतुका अप्रत्यया इति यद्वदन्ति । यदि वा वदन्ति ईश्वरादिहेतुका न तृष्णाहेतुका इति । इदं नास्ति समुदय इति । येन हेतुना वदन्ति नास्ति निर्वाणमिति । अन्यथा वा वदन्ति निर्वाणम् । इदं नास्ति निर्वाणमिति । असति निर्वाणमार्गे केन प्राप्येत । अथ वा वदन्ति अस्ति विमुक्तेर्मार्गान्तरमुपवासादिरिति । इदं नास्ति मार्ग इति । नास्ति बुद्ध इति । ते वदन्ति धर्मा अप्रमाणाः । कथमेकः पुरुषः सर्वान् जानीयातिति । अथ वा मन्यन्ते बुद्धः पुरुषाणां पूज्यो नास्ति पुरुष इत्यतो नास्ति [स] बुद्ध इति द्रष्टव्यम् । क्लेशानां क्षयाभावान्नास्ति धर्मः । सम्यक्चर्यया तद्धर्मप्रतिलाभिनो न सन्तीत्यतो नास्ति सङ्घः । दत्तस्य दृष्टफलानुपलम्भाद्वदन्ति नास्ति दत्तमिति । उक्तञ्च सूत्रे- नास्ति दत्तम् । तदनुमानमप्यनैकान्तिकम् । लोके कश्चिद्दानाभिरतो दरिद्रो भवति । कृपणस्तु धनिक इत्यादिभिः नास्ति कारणैर्वदन्ति दत्तमिति । नास्तीष्टं नास्ति हुतमित्यप्येवम् । यद्यग्नौ प्रक्षिप्तं द्रव्यं भस्मसाद्भवति । तस्य किं फलमस्ति । नास्ति सुकृतं दुष्कृतं, नास्ति च सुकृतदुष्कृतानां [फलं] विपाकः । यदि जीवो नित्यः तदा नास्ति सुकृतं दुष्कृतम् । यदि जीवोऽनित्यः तदा नास्ति परलोकः । नास्ति परो लोक इत्यतो नास्ति सुकृतं दुष्कृतं, नास्ति सुकृतदुष्कृतानां विपाकः, नास्त्ययं लोक इति । अवयवशः प्रविभज्यमाना धर्मा अत्यन्ताभावतां प्रतिगच्छन्ति । नास्ति परो लोक इति । मरणात्परं न भवति प्रतीत्यसमुत्पाद इत्यतो वदन्ति नास्ति परो लोक इति । नास्ति माता पिता । तेऽप्यवयवशः
प्रविभज्यमानाः प्रक्षीयन्ते । वदन्ति च गोमयमुपादाय क्रिमयो भवन्ति । न हि गोमयं क्रिमीणां पितरौ । ये मस्तकादयः शरीरावयवाः, न त एव मतापित्रोः शरीरावयवाः । धर्माणां क्षणिकत्वात्माता पिता च किं करोति । न सत्त्वा औपपातिका इति । सत्त्वधर्माभावादयं लोक एव नास्ति । किं पुन[स्तदूर्ध्व]कायं वेदयत इति ।

(
३२२)
चेतनाख्यः सत्त्वोऽयं किं कायात्मकः किमकायात्मकः । यदि कायात्मकः । तदा चक्षुषा परिदृश्यमानोऽयं कायः खन्यमानो मृद्भवति । हूयमानो भस्म भवति । क्रिमिभुक्तः पुरीषं भवति । अतो नास्त्यौपपातिकः । अकायात्मक इत्ययं द्विविधो यदि चित्तात्मको यदि वा चित्तव्यतिरिक्त इति । यदि चित्तात्मकः, तदा चैत्तधर्मः । चैत्तधर्मश्च प्रतिक्षणमुत्पत्तिविनाशी, न स्थायी । किमुत परदेहं प्राप्नुयात् । यदि चित्तव्यतिरिक्तः तदा नात्ममतिः । परस्य चित्त एव नात्ममतिः, किमुताचित्तस्थाने । अतो नास्त्यौपपातिकः ।

नास्त्यर्हन्निति । स क्षुधितः सर्वान् दृष्ट्वा अन्नं प्रार्थयते । शीते सत्यौष्ण्यं प्रार्थयते । तापे शीतं प्रार्थयते । निन्दितः कुप्यति । सत्कृतस्तृप्यति । अतो नास्ति क्षीणास्रवः । सूत्रे केचिद्वदन्ति- नास्त्यर्हन्निति । इदं सूत्रमनुसृत्य सा मिथ्यादृष्टिर्भवति । संक्लेश इति । काय एव संक्लेशः । अतो वदन्त्यकारणमिति । ज्ञानदर्शनमज्ञानदर्शनमप्येवम् । नास्ति बलं नास्ति वीर्यमिति । पश्यामः खलु सर्वे सत्त्वाः प्रज्ञप्तिकारणका इति । केचिद्वदन्ति ईश्वरः [स्वातन्त्र्येण] करणीयं करोतीति । पश्यामश्च सर्वान् सत्त्वान् कर्मकारणतन्त्रान्न स्वतन्त्रान् । अतो वदन्ति नास्ति बलं नास्ति वीर्यं [नास्ति] च तत्फलमिति ।

अनित्ये नित्यसंज्ञेति । येन कारणेन क्षणिक[वादः] खण्ड्यते । तेन कारणेन शाश्वतदृष्टिरुत्पद्यते । वदन्ति च धर्मा निरुध्यमानाः पुनः परमाणवो भवन्तीति । [अन्ये] केचिद्वदन्ति मूलप्रकृतौ प्रतियन्तीति । धर्माणां विनाशेऽपि संज्ञानुस्मरणात्सुखदुःखे वेदयते । तस्य शाश्वतदृष्टिरुत्पद्यते । आहुश्च जीवो नित्यः । शब्दोऽपि नित्य इति । एभिः कारणैः शाश्वतदृष्टिर्भवति ।

दुःखे सुख[संज्ञे]ति । येन कारणेन वदन्ति अस्ति सुखमिति । यथा पूर्वमुक्तं त्रिवेदनावर्गे । अनेन कारणेनोत्पद्यते सुखसंज्ञा । अशुचौ शुचिसंज्ञेति । कायेऽभ्यासङ्गात्चक्षुषा अशुचि दृष्ट्वा शुचिसंज्ञामुत्पादयन्ति । केचिच्चिन्तयन्ति- आत्मा पुरुषलक्षणलब्धः । अस्य पुरुषस्य कायमशुचिं पश्यामः । अस्ति पुनः सत्त्वो येन शुचीक्रियत इति । एभिः कारणैः शुचिसंज्ञोत्पद्यते ।

अनात्मनि आत्मसंज्ञेति । स्कन्धानां सन्तानेन प्रवृत्तिं दृष्ट्वा एकलक्षणं गृह्णाति । (
३२३) तदा आत्मेति मन्यन्ते । यथा च पूर्वमुत्पन्नं सत्कायदृष्टेः कारणम् । अनेनैव कारणेनात्मसंज्ञा सम्भवति । अनुत्कृष्ट उत्कृष्टसंज्ञेति । पूरणादिषु तीर्थिकाचार्येषु उत्कृष्टसंज्ञामुत्पादयन्ति । ब्रह्मा स्वयमाह- अहमस्मि महाब्रह्मा प्रभुर्देवानां कर्ता जगत इत्येवमादि । केचिदाहुः- यदि कश्चित्पञ्चकामानां सुखवेदनासम्पन्नः अयमुत्कृष्ट धर्म इति । केचित्पुनराहुः - यदि कश्चिद्विरक्तः प्रथमध्यान[मारभ्य]यावच्चतुर्थध्यानमुपसम्पद्य विहरति अयमुत्कृष्ट धर्म इति । केचिदाहुः- लोके प्रत्यक्षदृष्टेषु ब्राह्मणाः पूज्याः । परेक्षेषु सत्त्वेषु देवाः पूज्या इति । इयमनुत्कृष्ट उत्कृष्टसंज्ञेति । उत्कृष्टे चानुत्कृष्टसंज्ञेति । सर्वेषु सत्त्वेषु बुद्धः परमपूज्यः । केचित्तस्मिननुत्कृष्टसंज्ञामुत्पाद्य वदन्ति- अयं क्षत्रियः अल्पकालिकशिक्षामार्गः । बुद्धवचनञ्च न चाटुकाव्य[वत्] क्लेशगुरुकं न वेदसदृशम् । तदुत्कृष्टमिति न वदन्ति । सन्ति सङ्घे चतुष्कोटिकाः पुद्गला इत्यतोऽनुत्कृष्टः । एवमुत्कृष्टेऽनुत्कृष्टसंज्ञामुत्पादयन्ति ।

अव्यदानमार्गे व्यवदानमार्गसंज्ञेति । यत्केचिदाहुः- भस्मतीर्थादिस्नानैः पुरुषः शुध्यतीति । केचिदाहुः- जननमरणयोः क्षयोऽवसानं व्यवदानमार्ग इति । शीलधारण ब्रह्मचर्यमात्र आसज्य देवपूजादयश्च [व्यवदानमार्ग आख्यायेत] ईश्वर [प्रसादेन] च विशुद्धिं लभत इति च वदन्ति । केचिदाहुः- तपश्चर्यया पूर्वतनीनकर्मक्षयो व्यवदानमार्ग इति । [केचिदाहुः]- लशुनं त्यक्त्वा दधिनवनीतादिना विशुद्धिं लभते । पुनः प्रयतः स्नात्वा ब्रह्मयज्ञपठनतदूर्ध्वभोजनं विशुद्धिमार्ग इति । एभिर्नानाविधैरसन्मार्गैर्विमुक्ति र्लभ्यते नत्वष्ठाङ्गिकविशुद्धिमार्गेणेति ।

भावेऽभावसंज्ञेति । यत्धर्मा लोकसत्यतः सन्तोऽपि अभाव इत्युच्यन्ते । अभावे भावसंज्ञेति यदुच्यते सन्ति द्रव्याणि अस्त्यवयवीति । सन्ति संख्यापरिमाणादयो गुणा इत्यपि वदन्ति । सामान्यलक्षणं पृथक्त्वलक्षणं समवायञ्च वदन्ति । प्रकृतिकालादयोऽसत्पदार्थाः सन्तीति च वदन्ति । एभिः कारणैरुत्पन्नानि विपर्ययचित्तानि मिथ्यादृष्टयो भवन्ति । आसु मिथ्यादृष्टिषु विशिष्य चतस्रो दृष्टयः । अन्या य उग्रक्लेशा सा मिथ्यादृष्टिः ।

(
३२४)
(पृ) इयं मिथ्यादृष्टिः कथं प्रहीयते । (उ) सूत्रे भगवता प्रोक्तसम्यक्दृष्ट्या प्रजहाति । (पृ) सम्यग्दृष्टिः कथमुत्पद्यते । (उ) यो दर्शनश्रवणान्वयज्ञानैः सम्यग्विनिश्चिनोति । तस्य सम्यग्दृष्टिर्भवति । सम्यक्समाधिं भावयतः सम्यग्दृष्टिरुत्पद्यते । यथाह सूत्रम्- समाहितो यथाभूतं प्रजानातीति । न विक्षिप्तचित्त [इत्यर्थः] ।

(पृ) अस्या मिथ्यादृष्टेः के दोषाः । (उ) सर्वे दोषा विपत्तिव्यसनानि च मिथ्यादृष्ट्या भवन्ति । स आह- नास्ति पापं नास्ति पुण्यं सुकृतदुष्कृतानां फलं विपाक इति । अतो दृष्टधर्म एव न सन्ति सुवृत्तानि । किं पुनरनागतानि । एवं दूषितसुकृतदुष्कृतः पुमान् समुच्छिन्नकुशलमूल इत्युच्यते । स नियतमवीचौ पतिष्यति । यथोक्तं षट्पादाभिधर्मे- क्रिमिपिपीलिकाहननं पुरुषहननाद्गुरुतरमिति । स मिथ्यादृष्टिकः पुरुषः लोकदूषकः सत्वानां भूयसापकाराय प्रवर्तते । यथा विषवृक्षो हिंसायै प्ररोहति । तेन कृतं कायिकं वाचिकं मानसं कर्म सर्वमशुभविपाकाय भवति । यथोक्तं सूत्रे- मिथ्यादृष्टिकस्य [भिक्षवः] पुरुषपुद्गलस्य यत्कायकर्म यथादृष्टिसमात्तं समादत्तं यच्च वाक्कर्म........यच्च मनःकर्म या चेतना या प्रार्थना यः प्रणिधिः ये च संस्काराः सर्वे तेऽनिष्टाय अकान्ताय अमनापाय अहिताय दुःखाय संवर्तते । तद्यथा तिक्तकालाबुबीजं कोषातकीबीजं पिचुमन्दबीजमाद्रायां पृथिव्यां निक्षिप्तं यच्चैव पृथिवीरसमुपादीयते यच्चापोरसं तेजोरसं वायुरसमुपादीयते सर्वं तत्तिक्तकत्वाय कटुकत्वाय असातत्वाय संवर्तते । [तत्कस्य हेतोः] बीजं हि भिक्षवः पापकम् । एवमेव मिथ्यादृष्टिकस्य पुरुषपुद्गलस्य चित्तचैतसिका धर्मा अनिष्टाय [अकान्ताय (
३२५) अमनापाय अहिताय दुःखाय] संवर्तते । [तत्कस्य हेतोः] दृष्टिर्हि भिक्षवः पापिका इति । अतस्तस्य पुरुषपुद्गलस्य
कृतमपि दानादि नेष्टफलं भवति । पूर्वकृतमिथ्यादृष्टिचित्तेन विनष्टत्वात् । तत्कृतस्याशुभमेवाधिमात्रं भवति । पापकचित्तस्य चिरसञ्चितत्वात् ।

संवरेण च कश्चिदसद्धर्मं प्रतिरोद्धुं शक्नोति । अस्य पुरुषपुद्गलस्य नास्ति सुकृतं दुष्कृतमित्यतो न यतः कुतश्चित्प्रतिविरतिः । अत्यन्तप्रमत्तोऽसद्धर्म चरति । ह्र्यपत्रपाख्यद्विविधशुक्लधर्मसभिन्नः पशुसमो भवति । यश्च वदति नास्ति सुकृतं दुष्कृतं वेति स सदा चित्तेऽकुशलमेव काङ्क्षते । तस्य सद्धर्मसमादापनकारणमेव नास्ति । कस्मात्न हि स सज्जनमुपगच्छति । ना[पि] सद्धर्मं शृणोति । तस्य दुष्कृतचित्तं सूत्थानं भवति । सुकृतचित्तं दुरुत्पादम् । दुष्कृतस्य सूत्थानत्वात्सुकृतस्य कारणमेव नास्ति । एवं क्रमेण दुष्कृतोपचये समुच्छिन्नकुशलमूलो भवति ।

मिथ्यादृष्टिकस्य पुरुषपुद्गलस्य दुस्थानगत इत्याख्या । यथा नारकाः सत्त्वा न मार्गप्रतिलाभप्रवणाः । तथा च पुद्गलो मध्यमदेश उत्पन्न इष्टानिष्टविवेकाय षडिन्द्रियसम्पन्नोऽपि न मार्गप्रतिलाभप्रवणो भवति । मिथ्यादृष्टिकस्य नास्ति [यत्किञ्चित्] दुष्कृतमकुटम् । नास्ति विरतिर्लघोरल्पाद्वा [दुष्कृतात्] । अल्पमप्यकुशलं कुर्वन्नरके पतति । कर्मणोऽस्य गुरुपापकचित्तेन समुत्पन्नत्वात् । यथा कर्मवर्गे नरकविमोचकं कर्म इत्यनेन कारणेन तत्पुरुषकृतं सर्वं नरकाय संवर्तते । न च स पापकमकुशलं कर्म क्षपयति । अकुशलधर्मस्य सदा चित्तगतत्वात् । दुर्लभा च तस्योत्तरोत्तरान्नरकाद्विमुक्तिः । कस्मात् । समुच्छिन्नकुशलमूलस्य हि यदा कुशलं न प्रवर्तते तदनन्तरं नरकान्नैव विमुक्तिः । चित्ते मिथ्यादृष्टिकत्वात्तस्य कुशलमूलं कथं प्रवर्तेत । मिथ्यादृष्टिकः पुद्गलोऽचिकित्स्यः तद्यथा समुपस्थितमरणनिमित्तो रोगी । चिकित्सकः सन्नपि न चिकित्सितुं शक्नोति । एवमयमपि । अन्यकुशलरहितत्वाद्यावद्बुद्धा अपि न चिकित्सन्ते । अतोऽवश्यमवीच्यां पतति ॥

मिथ्यादृष्टिवर्गो द्वात्रिंशदुत्तरशततमः ।


(
३२६)
१३३ परामर्शद्वयवर्गः

अभूतवस्तुनि इदमेव सत्यमन्यन्मिथ्येति वचनं दृष्टिपरामर्श इत्युच्यते । पूर्वोक्तेऽनुत्कृष्टधर्म उत्कृष्टसंज्ञाविनिश्चयोऽपि दृष्टिपरामर्शः ।

(पृ) दृष्टिपरामर्शस्य के दोषाः । (उ) स पुरुषो न्यूनगुणं लब्ध्वा आत्मानं पूर्णं मन्यते । तस्य गुणञ्चातिवक्ति । कस्मात् । अकुशले वस्तुनि अत्यन्तकुशलसंज्ञामुत्पाद्य वीर्यमारभते । तेन हेतुना च पश्चात्परितपति । विदुषां परिहास्यश्च भवति । अनुत्कृष्टे उत्कृष्टसंज्ञायाः कृतत्वात् । योऽनुत्कृष्टमुत्कृष्टं वदति स बालो मूढसंज्ञः । यथान्धो घटशकले सुवर्णसंज्ञामुत्पाद्य चक्षुष्मतां लघु हास्यो भवति । दृष्टिपरामर्शस्येदृशा दोषाः ।

यत्कश्चित्बोधिमुपेक्षमाणः स्नानादिशीलेन विशुद्धिप्राप्तिं काङ्क्षते तत्शीलव्रतपरामर्श इत्युच्यते । (पृ) ननु शीलेन न विशुद्धिलाभः । (उ) प्रज्ञयैव विशुद्धिलाभः । शीलन्तु प्रज्ञेन्द्रियस्य मूलम् । (पृ) के दोषाः शीलव्रतपरामर्शस्य । (उ) ये दोषा उक्ता दृष्टिपरामर्शस्य "न्यूनं वस्तु [लब्ध्वा] सम्पूर्णं मन्यते इत्यादिना त एव दोषाः । शीलव्रतपरामर्शप्रत्ययमत्यधिकं दुःखान्यनुभवति । यदुत शीतोष्णवेदना, भस्मभूमितरुकण्टकादिषु शयनं जलह्रदाग्निप्रवेशो भृगुपतनमित्यादि । परलोकेऽपि अतिमात्रदुःखविपाकः । यथोक्तं सूत्रे- गोव्रतिकः संसिद्ध[व्रत]ः [कायस्य भेदात्परं मरणात्] गवां सहव्यतामुपपद्यते । असंसिद्धो नरके पतति इति । स तमसः तमः प्रविशति । यतस्तं धर्मं समाददानो दृष्टधर्मे दुःखमनुभवति । ऊर्ध्वमपि दुःखम् । स गुरुतरं पापञ्च विन्दते । कस्मात् । अधर्मं धर्मं मत्वा सद्धर्मं विनाशयति । सद्धर्मचर्यापबादकश्च बहून् सत्त्वान्नरके पातयति । सुविशुद्धधर्मस्य पृष्ठीकृतत्वात् । सञ्चितमहापापोऽवश्यमवीचिनरके विपाकमनुभवति ।

[अतो] अनाचाराद्विरम । मा चर मिथ्यामार्गम् । कस्मात्य आदितो नाचरति तस्य मार्गचरणं सुकरम् । मिथ्याचारपराहतचित्तस्य तु दुष्करो मार्गप्रवेशः । शत्रुरपि (
३२७) न तथा पुद्गलं ग्लपयति यथा मिथ्यादृष्टिः । कस्मात् । न हि शत्रुस्तथा पुद्गलं परिभावयति यथा मिथ्यादृष्टयनुगामिनां तीर्थिकाचरितानां नानादुःशीलानां नग्नतानिर्लज्जताभस्मरजःकायताकेशोल्लुञ्च्छनादीनां समादानम् । मिथ्यादृष्टिकः सर्वस्माल्लौकिकहितकामात्भ्रश्यति । दृष्टधर्मे पञ्चकामगुणेभ्यो भ्रश्यति । तदूर्ध्वं सुगतिसुखान्निर्वाणाच्च भ्रश्यति । सुखं प्रार्थयित्वा दुःखं लभमानो विमुक्तिं प्रार्थयित्वा बन्धं लभमानः पुरुषः किं न मत्तः । तत्कस्मात् । [य] एकेनान्नदानप्रत्ययेन स्वर्गे जन्मलाभार्हो भवति । तस्य पुरुषस्य मिथ्याचारचारित्वात्दानाय कायजीविते सत्यपि न किञ्चन हितं भवति ॥

परामर्शद्वयवर्गस्त्रयस्तिंशदुत्तरशततमः ।


१३४ उपक्लेशवर्गः

गुरुचित्तस्य स्वापकामता मिद्धम् । चित्तसमाधानाय प्रबोधविरतिः स्वापः । विषयेषु विक्षिप्तचित्तता औद्धत्यम् । चित्ताकांक्षिते दौर्मनस्यबन्धः कौकृत्यम् । तद्यथा कृतमकर्तव्यमकृतञ्च कर्तव्यमिति । कुशलकुहनकुटिलचित्तं माया । मायाचित्तवृत्तिनिर्वर्तनं शाठ्यम् । स्वकृताकुशलस्याह्रेपणमाह्रीक्यम् । सङ्घे कृताकुशलस्याह्रेपणमनपत्राप्यम् । अकुशलानुगं चित्तं प्रमादः । यदसन्तं गुणं ख्यापयति तेन जना वदन्ति अस्तीति । [सा] कुहना । लाभसत्कारायाद्भुतं प्रख्याप्य परेषां मनःप्रह्लादिनी वाक्लपना । परद्रव्यलिप्सया तल्लिप्सामुपगूह्य वदति इदं वस्तु सुन्दरमित्यादि । तन्नैमित्तिकता । यदेतत्पुरुषनिन्दायै अन्यं स्तौति- तव पिता व्यवसायी त्वन्तु नेति । [तत्] निष्पेषिकता । यत्दानेन दानं प्रार्थयमानो वदति- इदं दानवस्तु अमुकात्पत्यन्ताल्लब्धमित्यादि । (
३२८) तत्लाभेन लाभजिगृक्षा । यत्पुरुषस्य निद्राव्याधौ निरतिः सा तन्द्रीत्युच्यते । या मार्गचर्याकारणसुदेशसंपत्तावपि सदोत्कण्ठितता [सा] अरतिरित्युच्यते । यत्पुरुषस्य कायस्य जृम्भणा अदमनं स्त्यानमिद्धस्य प्रत्ययः सा विजृम्भिका । य आहारे बह्वल्पतादमनानभिज्ञः । [स] आदितोऽदम इत्युच्यते । यो नातिमात्रव्यवसायी भवति । [स] विवर्त्यचित्त इत्युच्यते । यो महामात्राणां वचनं न सत्करोति न बिभेति । सोऽबहुमानीत्युच्यते । अकुशलरुचिकः पुरुषः पापमित्र इत्युच्यते । इत्यादय उपक्लेशाः । क्लेशेभ्य उत्पन्नत्वात् ॥

उपक्लेशवर्गश्चतुस्त्रिंदुत्तरशततमः ।


१३५ अकुशलमूलवर्गः

त्रीण्यकुशलमूलानि यदुत लोभद्वेषमोहाः । (पृ) मदमानाद्यपि अकुशलमूलं स्यात् । कस्मात्तीण्येवोक्तानि । (उ) सर्वेऽपि क्लेशा स्त्रयाणां क्लेशानामङ्गान्येव । मानादिकं मोहाङ्गम् । अतो न पृथगुच्यते । त्रयः क्लेशा सावानां चेतसि भूयसा वर्तन्ते । न मानादि । सर्वेषामवीतरागाणां मशकपिपीलिकापर्यन्तानामिमे त्रयः क्लेशा एव चित्तवर्तिनः । नैवं मदमानादिः । रागे सति द्वेषोऽकुशलमूलं भवति । अनुरक्तस्य विरोधे द्वेषोऽनुप्रवर्तते । मोहस्तु द्वयोर्मूलम् । कस्मात् । यस्य नास्ति मोहः न तस्य रागद्वेषौ । यथोक्तं सूत्रे- दशाकुशलकर्माणि त्रिविधानि लोभद्वेषमोहजानीति । न तूक्तं मानादिजानीति । सन्ति च तिस्र एव वेदना न पुनरस्ति चतुर्थी । आसु तिसृषु वेदनासु त्रयः क्लेशा अनुशया भवन्ति । यद्यस्ति पृथङ्मानादिः । कस्यां वेदनायामनुशयः स्यात् । तद्वस्तुतो नाभिधातुं शक्यते । [इति] ज्ञातव्यं तानि त्रीण्येव क्लेशमूलानीति ।

(
३२९)
(पृ) कस्मात्सुखवेदनायां रागोऽनुशयः । (उ) प्रत्यक्षं हि तत्र तस्योत्पत्तिः । यथोक्तं सूत्रे- सुखवेदनीयस्पर्शं लभमानस्य भवति प्रीतिः । दुःखवेदनीयस्पर्शं लभमानस्य भवति अप्रीतिः । तस्य वेदनानामुदयव्ययास्वादादीनवनिस्सरणानां यथाभूताप्रज्ञानात् । इति । अदुःखासुखवेदनायामविद्यानुशयः । कस्मात् । नह्ययमारूप्यधात्वाप्तानां स्कन्धानां सन्तानं यथाभूतं प्रजानाति । तदा [खल्वस्य] तत्र भवति निर्वाणसंज्ञा वा विमुक्तिसंज्ञा वा अदुःखासुखसंज्ञा वा आत्मसंज्ञा वा । अत उक्तं- अदुःखासुखवेदनायां मोहोऽनुशयो भवतीति ।

(पृ) अनुशयाः किं धर्मेऽनुशेरते कि वा सत्त्वेऽनुशेरते । (उ) धर्मानुपादाय सत्त्वबुद्धिर्भवति । सत्त्वबुद्धिमनुसृत्य वेदना वेद्यन्ते । वेदना अनुसृत्य लोभादयः क्लेशानुशयाः । अतो ज्ञायते धर्मानुपादायोत्पन्नोऽनुशयः सत्त्वेऽनुशेत इति । कस्मात्तत्ज्ञायते । यस्य सत्त्वस्याप्रहीणः सोऽनुशयः तस्य सोऽनुशयोऽनुशेते । यस्य तु प्रहीणः न तस्यानुशेतेऽनुशयः । यदि धर्मेऽनुशयोऽस्ति । धर्माणां नित्यसत्त्वादनुशया नित्यानुशयाः स्युः । नित्यस्याप्रहातव्यत्वात् । असत्त्वसंख्यातोऽपि सानुशयः स्यात् । तथा चेत्पुरुषस्यानुशयोऽस्तीति भित्त्यादिरनुशयवान् स्यात् । पुरुषस्य विज्ञानमस्तीति भित्त्यादिरपि विज्ञानवान् स्यात् । नेदं वस्तुतोऽस्ति । तथार्हन्न स्यात् । अन्येषां पुरुषपुद्गलानामनुशयोऽस्तीति [सो]ऽनुशयवान्[स्यात्] ।

(पृ) अयमनुशयः अप्रहीणः सननुशेते । प्रहीणस्सन्नानुशेते । (उ) द्विधानुशयोऽनुशेते । (१) आलम्बनतोनुशयनम् (२) सम्प्रयोगतोऽनुशयनमिति । अयमनुशयो यदि प्रहीणो यदि वाप्रहीणः स आलम्बनतः संप्रयोगतश्च । कस्मादुच्यते प्रहीणः सन्नानुशेत इति । तथा चेत्तृतीयानुशयनलक्षणं वक्तव्यम् । अनभिधानात्ज्ञातव्यं नास्तीति । अनुशयो भूम्यन्तरालम्बनो नानुशेते । अतो ज्ञायते सत्त्वमात्रेऽनुशयो न धर्म इति ।

(पृ) द्विधानुशयोऽनुशेत (१) आलम्बनतोऽनुशयः (२) सम्प्रयोगतोऽनुशय इति । एषां सत्त्वानामनुशया नालम्बनतो न सम्प्रयोगतः । कथं भविष्यत्यनुशयः । (
३३०) (उ) प्रत्युक्तपूर्वमिदम्- अनुशया धर्ममुपादायोत्पन्नाः सत्त्वेऽनुशेरत इति । यथोक्तमभिधर्मकाये- कामधातुकसत्त्वानां कत्यनुशया इत्यादि । यदि सत्त्वेषु नानुशयीरन् । कथमेतादृशः प्रश्नः स्यात् ।

(पृ) यद्यनुशयः सत्त्वेऽनुशेते । सुखायां वेदनायां रागोऽनुशय इति सूत्रोक्तं विरुध्येत । (उ) नेदं पार्यन्तिकं वचनम् । वक्तव्यं खलु सुखायां वेदनायां समुत्पन्नो रागः सत्त्वेऽनुशेत इति । (पृ) स रागो रूपादीनुपादायापि भवति । कुतोऽत्रोच्यते केवलं सुखवेदनामुपादाय भवतीति । (उ) संज्ञानुस्मरणविकल्पप्रीत्यादिना राग उत्पद्यते न तु रूपादिमात्रात् । (पृ) दुःखवेदनामुपादायापि रागो भवति । यथा वदन्ति- सुखी न प्रार्थयते दुःखी तु बहु प्रार्थयते । कस्मात्केवलमुक्तं सुखवेदनातो भवतीति । (उ) न दुःखवेदनया राग उत्पद्यते । दुःखस्य पीडनात्मकत्वात्पुरुषस्य सुखायां वेदनायामेव राग उत्पद्यते ।

(पृ) अदुःखासुखायां वेदनायामपि रागानुशयोऽनुशेते । कस्मादुक्तं केवलं सुखायां वेदनायामिति । (उ) अदुःखासुखवेदनाः सुख[रूप]त्वात्[तत्र] पुरुषस्य राग उत्पद्यते । अत उच्यते सुखायां वेदनायां रागानुशय इति । तासु त्रिषु वेदनासु त्रयः क्लेशा अनुशया इत्यतस्त्रय एवोच्यन्ते ॥

अकुशलमूलवर्गः पञ्चत्रिंशदुत्तरशततमः ।


१३६ सङ्कीर्णक्लेशवर्गः

(पृ) सूत्र उक्तम्- त्रय आस्रवाः- कामास्रवो भवास्रवोऽविद्यास्रव इति । कतमे इमे । (उ) कामधातावविद्यां वर्जयित्वा अन्ये सर्वे क्लेशाः कामास्रवा इत्युच्यन्ते । एवं रुपारूप्यधात्वोर्भवास्रवः । त्रैधातुकी चाविद्या अविद्यास्रवः ।

(पृ) आस्रवाः कथं वर्धन्ते । (उ) उत्तमाधमध्यमधर्मैः क्रमशो वर्धन्ते । रूपादिविशिष्टालम्बनलाभाच्च वर्धन्ते । (पृ) इमे त्रय आस्रवाः; कथं वदन्ति सप्तास्रवा इति । (उ) वस्तुत आस्रवा द्विविधाः सत्यदर्शनहेया [ये] आस्रवाणां मूलभूताः । भावनाहेया [ये] आस्रवाणां फलभूताः । पञ्चभिरारास्रवसहकारिभिः प्रत्ययै मिलित्वा सप्त भवन्ति । ते क्लेशा एव । भगवानर्थत आह- त्रय आस्रवाः, चत्वार ओघाः, चत्वारो बन्धाः, चत्वार्युपादानानि, चत्वारो ग्रन्था इत्यादि ।

(
३३१)
(पृ) चत्वार ओघाः कामौघो भवौघो दृष्ट्योधोऽविद्यौघ इति । कतम इमे । (उ) दृष्टिमविद्याञ्च वर्जयित्वा तदन्ये कामधातुकक्लेशाः सर्वे कामौघ इत्युच्यते । रूपारूप्यधातुकभबौघोऽप्येवम् । सर्वा दृष्टयो दृष्टयौघः । अविद्या अविद्यौघः । (पृ) ओघेषु कस्मात्दृष्ट्यौघः पृथगुच्यते । नास्रवेषु । (उ) तीर्थिका बहवो दृष्टिवाहिताः । अत ओघेषु पृथगुच्यते । च्युतिं बहतीति ओघः । त्रीन् भवान् बध्नातीति बन्धः ।

(पृ) चत्वार्युपादानानि- कामोपादानं दृष्ट्युपादानं शीलव्रतोपादानमात्मवादोपादानमिति । कतमानीमानि । (उ) आत्मनोऽभावात्तद्वादोपादानमात्मवादोपादानम् । अस्त्यात्मेति पश्यतोऽन्तद्वयं भवति- अयमात्मा नित्योऽनित्योवेति । अनित्य इत्यवधारयन् पञ्चकामगुणानुपादत्ते । नास्ति परलोक इति दृष्टसुख आसज्यते । नित्य इत्यवधारयन्मन्देन्द्रियः पारलौकिकसुखमाकांक्षमाणः शीलव्रतमुपादत्ते । किञ्चित्तीक्ष्णेन्द्रिय एवं चिन्तयति- यदि जीवो नित्यः तदा अदुःखसुखविकारः, तदा पुण्यपापाभावादिति मिथ्यादृष्टिमुत्पादयति । एवमात्मवादमुपादायैव चत्वार्युपादानानि भवन्ति ।

(पृ) चत्वारो ग्रन्थाः अभिध्याकायग्रन्थो व्यापादः कायग्रन्थः शीलव्रतपरामर्शः कायग्रन्थः इदं सत्याभिनिवेशः कायग्रन्थ इति । कतम इमे । (उ) परद्रव्याभिध्यया अन्यस्मिन्नददति द्वेषबुद्धिमुत्पादयति, कशाशस्त्रादिना [गृह्णाति] । गृहस्थानामिदं विग्रहमूलम्, सुखान्तनुवर्तनमित्युच्यते । यः शीलव्रतपरामर्शकः कामयते अनेन शीलव्रतेन विशुद्धिं लभेय इति । तस्येदमेव तथ्यमन्यन्मिथ्येति दृष्टिर्भवति । इदं प्रव्रजितानां विवादमूलं, दुःखान्तानुवर्तनमित्युच्यते । पञ्च स्कन्धाः काय इत्युच्यन्ते । चत्वार इमे ग्रन्था अवश्यं कायवाङ्मया इति कायग्रन्थ इत्युच्यन्ते । केचिदाहुः- चत्वार इमे धर्मा जननमरणे सङ्ग्रऽथ्नन्तीति ग्रन्थाः ।

(पृ) पञ्च नीवरणानि- कामच्छन्दो व्यापादः स्त्यानमिद्धमौद्धत्यकुकृत्यं विचिकित्सा चेति । कतमानीमानि । (उ) पुरुषस्य कामेषु अभिनिवेशाद्व्यापादोऽनुवर्तते । यथोक्तं सूत्रे- तृष्णात उत्पद्यते व्यापादः । ईर्ष्यादयः क्लेशाः कशाशस्त्रादिदुश्चरितानि च कामच्छन्दादुत्पद्यन्ते इति । पुरुषोऽयं कायचित्तयो रागद्वेषपरिक्षिप्यमाणयोर्बहुव्यापारैः (
३३२) परिच्छिन्नयोश्च स्त्यानमिद्धमिच्छति । स्त्यानमिद्धेन किञ्चिद्विश्रम्य पुना रागद्वेषविक्षिप्तचित्तो न ध्यानसमाधिं लभते । चित्तस्य बाह्यालम्बनानुवर्तनादौद्धत्यं भवति । अशुद्धकर्मकस्य पुरुषस्य चित्ते सदा दौर्मनस्यकौकृत्यं भवति । विक्षिप्तचित्तत्वात्कौकृत्यचित्तत्वाच्च सदा विचिकित्सते- विमुक्तिरस्ति नवेति । यथा राजकुमारोऽचिरवतं श्रमणोद्देशमवोचत् ।

(पृ) कस्मान्नीवरणमित्याख्या । (उ) कामच्छन्दो व्यापादश्च शीलस्कन्धं निवृणुतः । औद्धत्यकुकृत्यं समाधिस्कन्धं निवृणोति । स्थानमित्थं प्रज्ञास्कन्धम् । केचित्तेषां नीवरणानां वर्जनाय वदन्ति- इदं कुशलमिदमकुशलमिति । स तत्र विचिकित्सते किमस्ति किं वा नास्तीति । सा विचिकित्सा सिद्धा स्कन्धत्रयं निवृणोति । एषु पञ्चसु नीवरणेषु त्रीणि दृढबलानीति केवलं नीवरणमित्युच्यन्ते । अन्ये द्वे नीवरणे तनुबले इति द्वौ धर्मौ सांसर्गिकौ । इमे द्वे नीवरणे जननकारणसहिते इत्यतः सांसर्गिके इत्युच्येत । स्त्यानमिद्धस्य पञ्चधर्माः प्रत्यया यदुत चाञ्चल्यमरतिर्विजृम्भिका, आहारेऽमात्रता चेतसोऽवलीनता इति । औद्धत्यकौकृत्यस्य चत्वारो धर्माः प्रत्ययाः- ज्ञातिवितर्को जनपदःवितर्कोऽमरणवितर्कः, पूर्वतनीनक्रीडितसुखितालापितहसितानुस्मरणमिति । इमानि जननकारणानि । प्रतिपक्षोऽपि समानः । स्त्यानमिद्धस्य प्रज्ञा प्रतिपक्षः । औद्धत्यकुकृत्यस्य समाधिः प्रतिपक्षः । निवारणमपि समानम् । इमे द्वे सांसर्गिके नीवरणे । इमे पञ्चधर्मा नीवरणानि वा भवन्ति । अनीवरणानि वा भवन्ति । कामधात्वाप्ता अकुशला नीवरणानि । अन्यात्रानीवरणानि ।

पञ्चावरभागीयेषु संयोजनेषु कामच्छन्दो व्यापादः शीलब्रतपरामर्शः अवरगमनार्थत्वादवरभागीयानि । तद्यथा गोव्रतिकः संसिद्धः कायस्य भेदात्परं मरणात्(
३३३) गवां सहव्यतामुपपद्यते । असंसिद्धो नरके पतति । विचिकित्सा वैराग्यस्य विघ्नभूता । सत्कायदृष्टिश्चतुर्णां मूलम् । इतीमानि पञ्च । कामच्छन्दव्यापादौ कामधातोर्नातिवर्तेते । सत्कायदृष्टिरात्मबुद्धेर्नातिवर्तते । शीलव्रतपरामर्शोऽवरधर्मान्नातिवर्तते । विचिकित्सा पृथग्जनत्वान्नातिवर्तते । कामच्छन्दव्यापादौ कामधातुं नातिक्रामतः । अतिक्रमे पुनराक्षिप्यते । अन्यानि त्रीणि पृथग्जनत्वं नातिक्रामन्ति । अत उच्यन्तेऽवरभागीयानीति ।

पञ्चोर्ध्वभागीयानि [औद्धत्यं मानोऽविद्या रूपरागः अरूपरागः ।] औद्धत्यस्य ध्यानसमाधिविधातित्वान्न चित्तमुपशाम्यति । इदमौद्धत्यस्य निमित्तग्रहानुवर्तनान्मानः प्रवर्तते । निमित्तग्राहि चित्तमिदमविद्यासम्भूतमित्यतो रूपरागोऽरूपरागश्च स्तः । तानि पञ्च संयोजनानि शैक्षजनानामूर्ध्वसमुदाचरणार्थत्वादूर्ध्वभागीयानीत्युच्यन्ते । तानि शैक्षजनानां चित्त उच्यन्ते न पृथग्जनानाम् । (पृ) औद्धत्यं कस्मात्रूपारूप्यधातुकं संयोजनं न कामधातुकम् । (उ) तत्र स्थूलक्लेशाभावादौद्धत्यं व्यक्तं भवति । तदौद्धत्यं समाधिभङ्गे बलवदित्यतः संयोजनमित्युच्यते । तदूर्ध्वभागीयं समुच्छेदयतो विमुक्तिर्लभ्यते । केषाञ्चित्रूपे आरूप्ये च विमुक्तिसंज्ञा भवति । तत्प्रतिषेधायोच्यते सन्त्यूर्ध्वभागीयानि संयोजनानीति ।

पञ्च मात्सर्याणि- आवासमात्सर्यं, कुलमात्सर्यं, लाभमात्सर्यं, वर्णमात्सर्यं धर्ममात्सर्यमिति । [तत्र] आवासमात्सर्यम्- अहमेव अत्र वसामीति नान्यान् प्रयोजयति । कुलमात्सर्यम्- कुलमिदमहमेव प्रविशामीति नान्यान् प्रयोजयति । सत्स्वप्यन्येषु अहमेवोत्कृष्ट इति । लाभमात्सर्यमिति- अहमेवात्र दानं लप्स्य मान्येभ्यः प्रयच्छतु इति । अन्ये सन्त्योऽपि मा मामतिक्रामन्तु । वर्णमात्सर्यम्- मामेव वर्णय, मान्यान् । अन्यान् वर्णयन्नपि मा मामतिरिच्यतु इति । धर्ममात्सर्यम्- अहमेव द्वादशाङ्गप्रवचनार्थं जानामि । गभीरमर्थरहस्यं जानन्नपि न प्रवदामीति ।

(पृ) पञ्च मात्सर्याणां के दोषाः । (उ) इम आवासादयो बहूनां पुरुषाणां साधारणाः । अयन्तु स्वकुलं त्यक्त्वा साधारणभूतेषु मात्सर्यमुत्पादयति । इत्ययं दोषक्लेशः । स विमुक्तेर्नैव भागी भवति । कस्मात् । स साधारणभूतान् धर्मानेव न त्यजति । कः पुनर्वादः (
३३४) स्वीयान् पञ्च स्कन्धान् त्यजतीति । स च प्रेतादीनां दुरुपपत्त्यायतनेषु पतति । लाभनिवृत्तचित्तस्य मान उत्पद्यते । सज्जनानन्यान् लघूकृत्य नरके पतति । अन्येभ्यो दानभङ्गान्मनुष्यदेहं लाभमानो दरिद्रो भवति । मात्सर्यचित्तेन दातर्गुणं प्रतिग्रहीतुर्देयञ्च समुच्छेदयतीत्यतो गुरुतरं पापं लभते । धर्ममत्सरोऽन्धादिपापभाग्भवति । तद्यथा जात्यन्धस्य सपत्नबहुलानाञ्च जन्म न स्वातन्त्रयप्रापकम् । आर्यगर्भाच्च परिहीयते । त्रिषु अध्वसु दशसु दिक्षु [गतानां] बुद्धानां शत्रुः सन् संसारे संसरन् सदा मूढो भवति । सज्जनान् दूरीकरोति । सज्जनदूरीकरणादकुशलं विना न वर्तते । अकुशलं त्रिविधम्- अकुशलाकुशलं महाकुशलमकुशलमध्याकुशलमिति । अकुशलं प्राणातिपातादत्तादानादि । महाकुशलं यदात्महननं, परस्त्यात्महननसमादापनं, स्वयं मात्सर्य[करणं] परस्य मात्सर्यसमादापनम् । स धर्ममात्सर्येण बहून् पुरुषानुकुशले पातयति । बुद्धधर्ममार्गञ्च क्षपयति । यथोक्तं सूत्रे- सन्त्यावासमात्सर्यस्य पञ्च दोषाः- अनागतस्य सुभिक्षोरागमनाय नेच्छति । आगतं पुनस्तर्जयन्न तृप्यति । गमनायानुचिन्तयति । सङ्घदेयं गोपयति । सङ्घदेयेषु आत्मीयबुद्धिं करोति । कुलमात्सर्यस्य पञ्च दोषाः- कुलाभिनिवेशादवदातवसनैस्तुल्यसुखदुःखो भवति । धनायावदातवसनं प्रजहाति । प्रतिग्रहीतुर्दानं लभते । तदुभयप्रहाणात्तस्मिन् कुले वर्चः कुट्यां भूतत्वायोत्पद्यते
। लाभमात्सर्यस्य पञ्च दोषाः- सदा सम्भारसम्भवाय क्लमति । द्वयोर्भेदेन लाभी भवति । सज्जनान्निन्दति सदा दौर्मनस्यचित्तः । वर्णमात्सर्यस्य पञ्च दोषाः- अन्येषां वर्णं श्रुत्वा व्याकुलकषायचित्तो भवति । शतसहस्रेषु लोकेषु अशुद्धचित्तः सज्जनानधिक्षिपति । आत्मोन्नत्या परानवनमति । दुर्यशोऽन्तर्धापयति इति । सर्वेषां मात्सर्याणां सामान्यत इमे दोषाः सन्ति- प्रभूतधनसञ्चयः । परिषद्भीरुता, बहुजनविद्वेषिता, सदा व्याकुलचित्तता, आत्मनः सदैकाकिता, अवरकुले जन्म इत्येवमादयोऽप्रमाणाः पञ्चमात्सर्याणां दोषाः ।

पञ्च चेतः खिलाः- [इहायुष्मन्तो भिक्षुः] शास्तरि विचिकित्सते, धर्मे विचिकित्सते, शीले विचिकित्सते, शिक्षायां विचिकित्सते । यो भिक्षुः शास्तुर्महापुरुषाणाञ्च (
३३५) वर्णवादी, तस्मिन् जने अनात्तमना आहतचित्तो भवति । अयं पञ्चमः । शास्तरि विचिकित्सक एवं चिन्तयति- किं शास्ता महान्, किं वा पूरणादयः इति । धर्मे विचिकित्सक [एवं चिन्तयति] किं शास्तुः प्रवचनमुत्कृष्टमुत वेदस्येति । शीले विचिकित्सते किं शास्तृप्रोक्तं प्रवचनमुत्कृष्टं, किं वा कुक्कटश्वादिव्रतमिति । शिक्षायां विचिकित्सते किं मानपानादि धर्मो निर्वाणं गमयति उत नेति । अनात्तमना आहत [चित्तो] व्यापादबुद्ध्या भयगौरवचित्तं विना सज्जनान् गर्हयति । एभिः पञ्चभिः धर्मैर्विप्रलुप्तचित्तो, न नानाकुशलेन्द्रियाण्यवष्टम्भयति । अतश्चेतः खिल इत्युच्यते ।

(पृ) कस्माच्छास्त्रादौ विचिकित्सते । (उ) सोऽबहुश्रतत्वाद्विचिकित्सते । बहुश्रुतस्य तु विचिकित्सा आल्पीयसी भवति । स च बालो मूढोऽज्ञो न तथागतधर्मान्यधर्मयोर्विवेकं प्रजानाति । अतो विचिकित्सते । धर्मे च नास्वादं लभते । अतश्च । विचिकित्सते । न च वेददीन् ग्रन्थान् शृणोति अध्येति वा । जनैर्वर्णितं श्रुत्वा उत्कृष्टचित्तमुत्पादयति । अध्वन्यध्वनि बहुलमिथ्याविचिकित्सः सदा कलुषितचित्ततया शास्त्रादौ विचिकित्सते । यथा शास्तुरुपस्थायकः सुनक्षत्रः । स च मिथ्यादृष्टिबहुलैः पुरुषैः समानकृत्यतया विचिकित्सते । किञ्च वेदव्याकरणादीनि मिथ्यादृष्टिसूत्राण्यधीयानः परिभिन्नसम्यक्प्रज्ञो भवति इत्यतो विचिकित्सते । धर्माणां [यथाश्रुते]ऽर्थे प्रीतः कुस्मृतिं जनयन्न सूत्रकृदाशयं लब्धुं शक्नोति । अतो विचिकित्सते सर्वदा स्वहितालाभप्रत्ययतः शास्त्रादिषु विचिकित्सते ।

पञ्च चेतसो विनिबन्धाः- यः कायोऽविगतरागो स काय आसज्यते । कामेष्ववीतरागः कामेष्वासज्यते । गृहस्थेन प्रब्रजितस्य समागमः । आर्यवचने चेतो न प्रहृष्यति । अल्पहितवस्तुनात्मानं पूर्णं मन्यते । तत्र चत्वारो विनिबन्धाः कामरागमुपादायोद्भवन्ति । य आध्यात्मिकात्मभावेऽविगतरागः स बाह्यरूपादिकामेष्वासज्यते । अत उभयोः समागममभिलषति । अभिलाषाव्याकुलतया आर्यवचने उपशमप्रदर्शने धर्मे न प्रहृष्यति । अतः शीलबाहुश्रुत्यध्यानसमाध्यादिष्वल्पं हितं वस्तु लब्ध्वा तेनात्मानं पूर्णं मन्यते । तदल्पहितवस्त्वभिनिवेशान्महाहितं विस्मरति । प्राज्ञस्तु नाल्पहिताभिनिविष्टो महाहितं विघ्नयेत् । (
३३६) अयं यद्यष्टाक्षणविहीनः [सः] पुरुषकायं दुष्करं लब्ध्ववानित्यतश्चित्तैकाग्र्येण वीर्यमारभेत । पृथग्जनता चाश्रद्धेया । अस्य समग्रस्य प्रत्ययस्य विगमेऽन्ये प्रत्यया भवन्ति । [इति] नैवार्यमार्गेऽवतरति [पृथग्जनः] । अल्पहितमकामयमानः प्रव्रज्याफलविपाकं लभते । म्रियमाणश्च न विप्रतिसरति । स्वपरहितञ्च करोति । सगुणेष्वेव नाभिनिविशते । कः पुनर्वादोऽकुशले धर्मे । अतः [स] सम्यगाचार इत्युच्यते । पृथग्जनादीनवा न किमपि संक्लेशयन्ति ।

(पृ) के पृथग्जनानामादीनवाः । (उ) सूत्र उक्तं- पृथग्जनो विंशतिधा स्वचित्तं निगृह्यैवं चिन्तयेत्- मम विभिन्नाकारवेषमात्रस्य वृथा, न किञ्चिल्लभ्यम्, अशुभेन [पथा] मरिष्यामि, महाभयार्णवे पतिष्यामि, तद्भयस्थाने न ज्ञास्याम्यभयस्थानं, नापि ज्ञास्यामि मार्गं, न ध्यानसमाधीन् लप्स्ये, असकृत्कायदुःखमनुभविष्यामि, दुष्परिहारा भविष्यन्त्यष्टावक्षणाः, शत्रुः सदानुसरिष्यति, सर्वे मार्गा विवृताः, दुर्गतेरविमोक्षः, अप्रमाणदृष्टिभिः सदा विनिबन्धः, पञ्चस्वानन्तर्येषु अप्रतिबन्धः, अनादिः संसारो नान्तवान्, अकुर्वतो न पुण्यपापप्रतिलाभः । कुशलाकुशलयोर्न प्रतिनिधिलाभः । न सद्धर्म करोमि, नैवास्ति सुखलयः कृतयोः कुशलाकुशलयोर्नैव विस्मृतिर्विनाशो वा आमरणं न दान्तो भविष्यामि इति । एते विंशतिधर्माः कं न दूषयन्ति । कर्तव्यमयं कृतवानित्यतश्चित्तं न विप्रतिसरति । [कामा]भिनिविष्ठस्य गार्हस्थ्यधर्मः प्रव्रज्याधर्मश्चन सिध्यतः । अतो नाल्पहितेऽभिनिवेशेत् ।

सप्तानुशयाः । (पृ) क्लेशाः कस्मादनुशय इत्युच्यन्ते । (उ) जननमरणसन्ताने सदा सत्त्वमनुर्वर्तत इत्यनुशयः । तद्यथा धात्री सदा बालमनुवर्तते । यथा वाविमुक्तो वातज्वरः । यथा वा ऋणी अनुदिनमुच्छवसति । यथा वा अनपगतमाखुविषम् । तप्तायसः कृष्णलक्षणम् । यथा वा यवस्याड्कुरः । स्वयंदत्तदासपत्रत्वम् । यथा वा प्रणष्टस्य वस्तुनः साक्षिजनः । यथा प्रज्ञा क्रमशः समुपचीयमाना[स्ति] । यथा कर्म सदोपचीयामानम् । यथा ज्वाला सन्तन्यते । एवं क्रमेण सन्तत्या वर्धत इत्यनुशय इत्युच्यते ।

(
३३७)
(पृ) अयमनुशयः किं चित्तसम्प्रयुक्तः किं वा चित्तविप्रयुक्तः । (उ) चित्तसम्प्रयुक्तः । कस्मात् । रागादयोऽनुशयलक्षणाः । इमेऽनुशयलक्षणाः सौमनस्यसम्प्रयुक्ताः । यदिदं सौमनस्यं चित्तविप्रयुक्तमितीदं न युज्यते । सौमनस्यमिदं यदि सुखायां वेदनायां वर्तते [तदा] रागानुशय इत्युच्यते । रागो नामासङ्गः । चित्तविप्रयुक्ते नासङ्गभावोऽस्ति । अतो ज्ञायतेऽनुशयाश्चित्तसम्प्रयुक्ता इति ।

(पृ) न युक्त[मिद]म् । अनुशया न चित्तसम्प्रयुक्ताः । कस्मात् । उक्तं हि सूत्रे- बालानां मैथुनचित्तमेव नास्ति । कः पुनर्वादो मैथुनरागसामर्थ्यम् । रागानुशयानुशयिताश्च भवन्ति इति । किञ्चाह- नास्ति चेतना नास्ति विकल्पः । विज्ञाप्रतिष्ठितमालम्बनञ्चास्ति इति । किञ्चोक्तं सूत्रे- सत्कायदृष्टिसमुच्छेदेऽनुशयाः सहैव समुच्छिद्यन्ते इति । आर्यमार्गश्च न क्लेशानां यौगपद्यं लभते । अत आर्यमार्गसमुत्पादश्चित्तविप्रयुक्तानुशयसमुच्छेदकः । तथा नोचेतार्यमार्गेण कस्य समुच्छेदः स्यात् । यदि नास्ति चित्तविप्रयुक्तोऽनुशयः । पृथग्जनाः शैक्षजनाश्च यदा कुशलचित्तेऽव्याकृतचित्ते च वर्तन्ते । तदा अर्हन्तः स्युः । अनुशयश्च पर्यवस्थानहेतुः । अनुशयात्पर्यवस्थानमुत्पद्यते । पर्यवस्थानलब्धोऽनुशयो वर्धते । अतो ज्ञायतेऽनुशयाश्चित्तविप्रयुक्ता इति । यदि कश्चित्कुशलाव्याकृतचित्तोऽपि सानुशय इत्युच्यते । यस्य नास्ति चित्तविप्रयुक्तोऽनुशयः । कुतोऽनुशयवान् भवति । अतो जायतेऽनुशयश्चित्तविप्रयुक्त इति ।

अत्रोच्यते । न युक्तमिदम् । यदुक्तं बालानामसति रागे रागानुशयोऽस्तीति । तदयुक्तम् । बालानां रागापनयनौषधालाभादप्रहीणकामरागा इत्यतो रागानुशयोऽनुशेते । यथा भूतसमाविष्टोऽनुद्भवकालेऽपि भूतसमाविष्ट इत्युच्यते । कस्मात् । तद्व्याधिप्रशमनमन्त्रोषधानामलाभात् । यथा च चतुर्दिनज्वरार्तो दिनद्वये [ज्वरा]नुद्भवेऽपि ज्वरार्त इत्युच्यते । यथा वा आखुविषमनपनीतव्याधित्वाद्धनगर्जने प्रादुर्भवति । एवं यस्मिन् चित्तेऽनुशयापनयनमोषधमप्रतिलब्धम् । [तत्] अप्रहीणा[नुशय]मित्युच्यते । अन्येऽपि प्रश्नाः सामान्यतः प्रत्युक्ता एव । यदुच्यते भवता नास्ति चेतना नास्ति विकल्पः विज्ञानस्यमालम्बनमस्ति इति । तदपि अप्रहीणानुशयत्वात् । यदाह भवान्- सत्कायदृष्टिरनुशयेन सह समुच्छिद्यत इति । भवतः पर्यवस्थानं चित्तसम्प्रयुक्तम् । अनुत्पत्तिकाले । (
३३८) प्रहीणमेव । एवमनुशयोऽपि । आर्यमार्गकालेऽविद्यमानमपि प्रहीणमित्युच्यते । विरोधिधर्मप्रतिलम्भात् । यद्ब्रवीषि- मार्गः क्लेशैः सह नैककालिकोऽस्तीति । [तत्]अप्रहीणत्वादस्तीत्युच्यते । यदवोचः पृथग्जनाः शैक्षजनाश्च यदि कुशलाव्याकृतचित्तगताः, तदा अर्हन्तः स्युरिति । प्रहीण[क्लेशो]ऽर्हन् । तेषान्त्वप्रहीण[क्लेश]त्वात् । यथा कश्चिन्मासवर्जनधर्ममसमादानो मांसमभुञ्जन्नपि न वर्जितमांस इत्युच्यते । अविद्यामिथ्यास्मृतिमिथ्यासङ्कल्पादयः सन्तीत्यतोऽप्रहीणाः क्लेशास्तदा समुत्पद्यन्ते । अर्हतस्तु नास्ति सहेतुरिति नान्यैः साम्यम् । यदुक्तं त्वया पर्यवस्थानलब्धोऽनुशयस्तु वर्धत इति । तदयुक्तम् । सर्वे क्लेशा उत्तममध्यमावरधर्मैर्वर्धन्ते, न पर्यवस्थानलाभात् । यद्ब्रषीषि कुशलाव्याकृतचित्तगतोऽनुशयवान् स्यादिति । तदपि अप्रहीणत्वादनुशयवानित्युच्यते । एभिः कारणैर्ज्ञायतेऽनुशया न [चित्त]विप्रयुक्ता इति ।

अष्ट मिथ्यामार्गाः- मिथ्यादृष्टिर्यावन्मिथ्यासमाधिरिति । अयथाभूतविपर्यय ज्ञानदर्शनान्मिथ्यादृष्टिः यावन्मिथ्यासमाधिः । (पृ) सम्यगाजीवो मिथ्याजीवश्च न कायवाक्कर्मव्यतिरिक्तौ । कस्मात्पृथगुच्यते । (उ) मिथ्याजीवः प्रव्रजितानां दुस्समुच्छेदत्वात्पृथगुच्यते । मिथ्याजीवो [येन] मायाशाठ्यादयः पञ्चधर्माः पुष्टिं लभन्ते स मिथ्याजीवः । संक्षिप्येदमुच्यते- प्रव्रजितानामकार्यं धनार्जनकर्म यदुत राजसेवावाणिज्यरोगचिकित्सादिकर्म । अनादेयञ्च प्राणिधधनधान्यादि । आदाने मिथ्याजीवः । विनये यत्प्रतिषिद्धं तेन च स्वात्मजीवनं मिथ्याजीवः । यथोक्तं सूत्रे- पञ्च वाणिज्यान्युपासकेनाकरणीयानीति । (पृ) केन कुर्याज्जीवितम् । यथाधर्मभिक्षया जीवेत् । न मिथ्याजीवं जीवेत् । कस्मात् । अविशुद्धचेतसा सद्धर्मं प्रणाशयति । मार्गयोगानवष्टम्भात् । मार्गावचर एवं चिन्तयेत्- भगवतः शासनेऽवतारो मार्गाचरणार्थः न (
३३९) जीवनार्थ इति । अतः सद्धर्माभिरतः परिशुद्धजीवनमाचरेत् । भिक्षुर्भिक्षधर्मे सुनिष्णातः स्यात् । यो मिथ्याजीवनमाचरति, न [स] भिक्षुधर्मा भवति ॥

सङ्कीर्णक्लेशवर्गः षट्त्रिंशदुत्तरशततमः ।


१३७ नवसंयोजनवर्गः

तृष्णादीनि नवसंयोजनानि । (पृ) कस्माद्दृष्टिषु द्विधा परामर्श उच्यते । (उ) शीलव्रतपरामर्शस्य दुर्विमोकत्वात् । यथा उडुपमोघपतितं दुस्तरं भवति । तथायमपि । एवं चिन्तयति- अहमनेन शीलेन स्वर्ग उत्पत्स्य इति । तदर्थञ्च जलमज्जन दहनप्रवेशभृगुपतनादीनि नाना दुःखान्यनुभवामीति । लौकिका न शीलव्रतपरामर्शस्य दोषं पश्यन्ति । अत उक्तं भगवता संयोजनमिति । तं शीलव्रतपरामर्शं निश्रित्य अष्टाङ्गमार्गमुपेक्षन्ते । सोऽसम्यङ्मार्गोऽव्यवदानमार्गो दुःखान्तानुवर्तनमित्युच्यते । शीलव्रतपरामर्शः प्रव्रजितानां विनिबन्धः । कामा गृहस्थानाम् । शीलव्रतपरामर्शी यद्यपि नानाप्रव्रज्याधर्मानाचरति । तथापि वृथा न किञ्चिदनेन लभ्यते । स नैहिकं सुखं विन्दते, परत्र च महद्दुःखमनुभवति । यथागोव्रतिकः संसिद्धव्रतिको गौर्भवति । विक्षिप्तव्रतो नरके पतति । तच्छीलव्रतपरामर्शमुपादाय सम्यङ्मार्गं सम्यङ्मार्गचारिणञ्चापवदति । शीलव्रतपरामर्शः तीर्थिकानां मानोत्पत्तिस्थानम् । [त] एवं चिन्तयन्ति- अहमनेन धर्मेणान्यमतिशेय इति । शीलव्रतपरामर्शहेतुना षण्णवतिधा विभक्ता धर्मा सन्ति । शीलव्रतपरामर्शः स्थूलदर्शन इत्यतो बहूनां सत्वानां गोचरः । प्रज्ञामार्गस्त्वतिसूक्ष्मो दुर्दर्शनः । लौकिका न प्रजानन्ति तदाचरणहितम् । सा च दृष्टिर्जनानां चित्तं हरति । अतो बाला बहवस्तं धर्ममाचरन्ति । सा गुर्वी पापिका दृष्टिरित्युच्यते । सम्यङ्मार्गाचारस्य प्रतिलोम्येनामार्गत्वात् ।

(
३४०)
दृष्टिपरामर्शो येनासद्धर्माभिनिविष्टस्तत्परिहर्तुमसमर्थो भवति । तदृष्टिपरामर्शस्य बलम् । तद्वलेन च संयोजनानि दृढानि भवन्ति । (पृ) शक्नप्रश्ने कस्मात्केवलमुक्तमीर्ष्यामात्सर्यसंयोजना देवामनुष्या इति । (उ) इदं क्लेशद्वयमतिग्राम्यं जवन्यम् । कस्मात् । पश्यामः खलु परसत्त्वान् क्षुत्पिपासापीडितान्, मात्सर्यचित्तत्वान्नातिक्रान्तान् । [ते] परतो लब्धं दृष्ट्वापि ईर्ष्यासूयाचित्तमुत्पादयन्ति सोत्कण्ठासन्तापम् । अनेन कारणेन च दरिद्राणां नीचानां कुत्सितानामतेजस्विनाञ्च स्थाने पतन्ति । शक्रस्य देवानामिन्द्रिस्यैतत्संयोजनं बहुतरमसकृदागत्य चित्तं पीडयति । अतो भगवान् वचनमाह । तत्संयोजनद्वयं गुरुपापकस्य निदानम् । कस्मात् । तदुपादाय गुरूणि पापकर्माण्युद्भवन्ति ।

त्रिषु विषेषु रागः प्रतिघश्च गुरुपापकमुत्पादयति । तयोर्विवृध्या तत्संयोजनद्वयमुत्पद्यते । तत्संयोजनद्वयं स्त्रियं पुरुषञ्च पीडयति । दुरुत्सर्गञ्च भवति । कस्मात् । यः कुशलचित्तं निभृतं भावयति । सोऽत्यन्तमीर्ष्यासूयं समुच्छेदयति । दानञ्च निभृतमभ्यस्यान्ते सर्वमात्सर्यचित्तं समुच्छेदयति । कर्मविपाकमपश्यन् तद्गुरुतरवस्तु त्यजतीदमति दुष्करम् । यथा कस्यचित्स्वत उत्कृष्टवस्तुलाभिनं पुत्रमेव पश्यतश्चित्तं दुष्प्रीतिकं भवति । कः पुनर्वादः शत्रुम् । तत्संयोजनद्वयोः प्रियविप्रयनिश्चितत्वादतिदुष्करः परित्यागः । अस्मात्कर्मप्रत्ययात्भगवता केवलमुक्तम् ॥

नवसंयोजनवर्गः सप्तत्रिंशदुत्तरशततमः ।


१३८ प्रकीर्णप्रश्नवर्गः

शास्त्रमाह- सर्वे क्लेशा भूयसा दशानुशयसङ्गृहीताः । अतो दशानुशयानुपादाय शास्त्रं रचितव्यम् । दशानुशया इति रागप्रतिघभानाविद्याविचिकित्साः पञ्चदृष्टयश्च । (पृ) दशक्लेशमहाभूमिकधर्माः तद्यथा अश्राद्धयं कौसीद्यं मुषितस्मृतिता विक्षेपोऽविद्यासम्प्रजन्यमयोनिशोमनस्कारो मिथ्याधिमोक्ष औद्धत्यं प्रमादश्च । इमे धर्माः सर्वक्लेशचित्तैः सदा सम्प्रयुक्ताः । कथमिदम् । (उ) सत्प्रयोगः पूर्वं खण्डित एव । चैतसिकश्चैकैक एवोत्पद्यते । अतो न युज्यते । न च सन्न्यायो भवति । केनेदं ज्ञायते । (
३४१) किञ्चिदकुशलचित्तकुशलश्रद्धासमन्वितमस्ति । किञ्चिदकुशलचित्तं श्रद्धासमन्वितं नास्ति । तथा वीर्यादिकमपि । अतो ज्ञायते न सर्वक्लेशचित्तेषु ते दश धर्माः सन्तीति । यद्भवानाह- मिद्धमौद्धत्यं सर्वक्लेशचित्तेषु वर्तत इति । तदयुक्तम् । यदा चित्तं लीनं भवति । तस्मिन् समये मिद्धसमन्वितं स्यात् । नौद्धत्यचित्ते स्यातितीदृशा दोषाः सन्ति ।

(पृ) कामधातौ सकला दशक्लेशाः सन्ति । रूपधातावारूप्यधातौ च द्वेषवर्जिता अवशिष्टाः सन्ति । कथमिदम् । (उ) तत्रापि सन्तीर्ष्यादयः । केनेदं ज्ञायते । सूत्र उक्तम्- महाब्रह्मा ब्रह्मकायिकानामन्त्र्याह मा भवन्तो श्रमणं गौतममुपसङ्क्रमन्तु । इहेव तिष्ठत जरामरणस्यान्तं लप्स्यध्वे इति । इयमीर्ष्या । ईर्ष्यासत्त्वाद्वेषोऽपि भवेत् । उक्तञ्च सूत्रे- [अथ खलु केवधं] महाब्रह्मा तं भिक्षुं बाहौ गृहीत्वा एकमन्तमपनयित्वा तं भिक्षुमेतदवोचत्- अहमपि न जानामि यत्रेमानि चत्वारि महाभूतान्यपरिशेषाणि निरुध्यन्ते इति । एवं मायाचित्तेन ब्रह्मकायिकानां वञ्चनं मायेत्युच्यते । यदाह- अहमस्मि [महाब्रह्मा] कर्ता निर्माता श्रेष्ठ.......इति । अयं प्रमादः । इत्यादीनि छिद्राणि सन्ति । ईदृशानां पापकानां क्लेशानां सत्त्वात्ज्ञातव्यमस्ति च [तत्रा] अकुशलमिति ।

केचिदाभिधर्मिका आहुः- मातापित्रुपाध्यायाचार्यादिषु यो रागः स कुशलरागः । अन्यपदार्थादिषु रागोऽकुशलरागः । अन्येषामुपकारोऽपकारो वा यन्न क्रियते । [अय]मव्याकृतरागः । असद्धर्मे दुर्विज्ञादिषु द्वेषः कुशलद्वेषः । सद्धर्मद्वेषः प्राणिद्वेषश्च अकुशलद्वेषः । योऽसत्त्वपदार्थद्वेषः अव्याकृतद्वेषो [ऽयम्] । यन्मानं निश्रित्य मानं समुच्छेदयति अयं कुशलमानः । अन्यस्य सत्त्वस्यावमानमकुशलमानः । अविद्यादिष्वप्येवं [वक्तव्यम्] ।

किञ्चाहुराभिधर्मिकाः- यः कुशलः न [स] क्लेशो भवति । (पृ) कामधातौ सत्कायदृष्टिमव्याकृता वदन्ति । कस्मात् । यदि सत्कायदृष्टिररकुशला । सर्वे पृथग्जना आत्मचित्तमुत्पादयन्ति । ना[नेन] नरके पतनीया भवन्ति । अतोऽव्याकृतेति (
३४२) वदन्ति । कथमिदम् । (उ) सत्कायदृष्टिरियं सर्वक्लेशानां मूलम् । कथमव्याकृता । स परेषामात्मास्तीति वदन् पतति । तदा कथमव्याकृता भवेत् । एवमन्तग्रहदृष्टिरपि [वक्तव्या] । (पृ) यदि मिथ्यादृष्टिं प्रवर्तयित्वा संशये पातयति । किमिदमकुशलम् । (उ) नेदमकुशलम् । कस्मात् । वरं संशय एव पातयति न मिथ्यादृष्टावतारयति ।

केचिदाहुः- कामधात्वाप्ताः क्लेशाः सर्वे कामभवसन्तानकराः । एवं रूपरूप्यधात्वाप्ता अपि । कथमिदम् । (उ) तृष्णैव भवसन्तानकरी । नन्दिपूर्विका हि जातिः । आह च- दुःखसमुदयस्तृष्णेति । अपि चाह- भोजनकामरागादितृष्णा सुखमिति । अतो यथास्थानं जन्म वेदयते । मिथ्यादृष्ट्यादिषु नैवमर्थोऽस्ति । सूत्रे यद्युप्युक्तं- मानप्रत्यया जातिरिति । तथापि मनापूर्वकतृष्णयोत्पद्यते । एवं द्वेषोऽपि । अतो ज्ञायते तृष्णया सर्वे भवसन्तानां भवन्तीति ।

(पृ) क्लेशेषु कति सत्यदर्शनहेयाः कति भावनाहेयाः । (उ) रागप्रतिघमानाविद्या द्विधा सत्यदर्शनहेया भावनाहेयाश्च । अन्ये षट्सत्यदर्शनमात्रहेयाः । (पृ) शैक्षजनस्याप्यस्त्यहंबुद्धिः । अतो ज्ञायतेऽनिमित्तनिरूपणसत्कायदृष्टिभागः शैक्षजनस्याहेय इति । (उ) [अहं] मानोऽयं दृष्टिः । निमित्तनिरूपणा हि दृष्टिः । (पृ) केचिदाहुः- ईर्ष्यामात्सर्यकौकृत्यमायादयो भावनाहेया इति । कथमिदम् । (उ) इमे सर्वे द्विधापि भवन्ति सत्यदर्शनहेया भावनाहेयाश्चेति । केनेदं ज्ञायते यथा नाथपुत्रादयो भगवच्छ्रावकान् सत्कारला भिनो दृष्ट्वा ईर्ष्याचित्तमुत्पादयमासुः । इयमीर्ष्या मार्गदर्शिनो निरुद्धेत्यतो ज्ञायते सत्यदर्शनहेयेति । कश्चित्पूर्वं भगवच्छ्रावकेषु मत्सरी सन्नाददत् । मार्गदर्शनलब्धः परं प्रायच्छत् । तदा मात्सर्यमिदं सत्यदर्शनहेयम् । यथा सुनक्षत्रादीनां कौकृत्यं सत्यदर्शनहेयमपि । यथा स्रोतआपन्नस्य नरकपतनप्रत्ययः अष्टमलोके कायवेदकमाया च सत्यदर्शनहेयापि ।

(पृ) क्लेशेषु कति दुःखदर्शनहेयाः कति समुदयनिरोधमार्गदर्शनहेयाः कति भावनाहेयाः । (उ) पूर्वोक्ताः सत्यदर्शनहेयाः षडनुशयाश्चतुर्धा भवन्ति दुःखदर्शनहेयाः समुदयनिरोधमार्गदर्शनहेयाः । अन्ये चत्वारोऽनुशयाः पञ्चधा भवन्ति । (पृ) सत्कायदृष्टिरन्तग्रहदृष्टिर्दुःखदर्शनमात्रहेयाः । शीलव्रतपरामर्शो द्विधा दुःखदर्शनमार्गदर्शनहेयाः । कथमिदम् । (
३४३) (उ) सर्वे क्लेशा वस्तुतो निरोधसत्यदर्शनकाले प्रहीयन्ते । अतः सत्कायदृष्ट्यादयो न दुःखदर्शनमात्रहेयाः स्युः । सत्कायदृष्टिश्चतुर्षु सत्येषु भ्रमति । पञ्चस्कन्धा अनित्याः प्रतीत्यसमुत्पन्नाः । आत्मा तु नानित्यो न प्रतीत्यसमुत्पन्नः । पञ्चस्कन्धाः सनिरोधाः, आत्मा त्वनिरोधः, मार्ग आत्मदृष्टेर्विरोधिधर्मः । अतः सत्कायदृष्टिश्चतुर्धा हेया । अन्तग्रहदृष्टिरपि चतुर्धा हेया । कस्मात् । योगी समुदयसम्भूतं दुःखं दृष्ट्वा उच्छेददृष्टिं व्यावर्तयति । मार्गलब्धं निरोधं दृष्ट्वा शाश्वतदृष्टिं व्यावर्तयति । शीलव्रतपरामर्शोऽपि चतुर्धा । हेतौ सति फलमस्ति । अतो दुःखं पश्यन् प्रजानाति- शीलं दुःखं, नानेन विशुद्धिर्लभ्यत इति । इदं समुदयदर्शनहेयम् । मिथ्यादृष्ट्या निर्वाणमपोद्यते, यदनया दृष्ट्या विशुद्धिर्लभ्यत इति । इदं निरोधदर्शनहेयम् । अनया मार्गोऽपोद्यते- इदं मार्गदर्शनहेयम् । यथा दृष्टिपरामर्शो मिथ्यादृष्ट्याश्रितेति चतुर्धा हेयः । एवं शीलव्रतपरामर्शोऽपि स्यात् ।

(पृ) तथा चेन्न स्युरष्टनवतिरनुशयाः । सर्वेऽनुशया भूमिवशात्प्रहीयन्ते न धातुवशात् । अष्टनवतिरनुशया इति नान्तो भवति । (पृ) रागो मानो मिथ्यादृष्टिं वर्जयित्वा अन्याश्चतस्रो दृष्टयो दुःखदौर्मनस्येन्द्रिये वर्जयित्वा [तदन्य]त्रिविधेन्द्रियसम्प्रयुक्ताः । द्वेषोऽपि सुखसौमनस्येन्द्रिये वर्जयित्वा [तदन्य]त्रिविधेन्द्रियसम्प्रयुक्तः । अविद्या पञ्चेन्द्रियसम्प्रयुक्ता । मिथ्यादृष्टिर्विचिकित्सा च दुःखेन्द्रियवर्जं चतुरिन्द्रियसम्प्रयुक्ता । द्वेषम्रक्षपापमात्सर्येर्ष्याश्च दौर्मनस्येन्द्रियमात्र सम्प्रयुक्ताः । कथमिदम् । (उ) सम्प्रयोगो नास्तीति पूर्वमेव दूषितम् । पश्चादपि वक्ष्यते पञ्चसु विज्ञानेषु नास्ति क्लेश इति । भवतः शासने रागः सौमनस्येन्द्रियसम्प्रयुक्तः । मात्सर्यन्तु न तथा इत्यत्र नास्ति हेतुः । मात्सर्यस्य रागाङ्गत्वात् । एवं मानो न दौर्मनस्येन्द्रियसम्प्रयुक्त इत्यत्रापि नास्ति हेतुः । अतो ज्ञायते भवद्भिरुक्तं सर्वं स्वसंज्ञानुस्मरणविकल्पमात्रमिति ।

(पृ) केचिदाहुः- दुःखहर्शनहेयाः पञ्चमिथ्यादृष्टयो विचिकित्सा रागप्रतिघमानविप्रयुक्ताविद्याः । समुदयसत्य[दर्शन]हेयाश्च मिथ्यादृष्टिदृष्टिपरामर्शविचिकित्सा रागप्रतिघमानविप्रयुक्ताविद्याश्च इमे सर्वत्रगानुशया अन्येऽसर्वत्रगानुशयाः । कथमिदम् । (उ) सर्वे सर्वत्रगाः । कस्मात् । सर्वेषां मिथोहेतुप्रत्ययत्वात् । मम[शासने]मिथ्यादृष्टौ रागो भवति, नास्ति दुःखं यावन्नास्ति मार्गः । तस्यां दृष्टावभिनिविष्ट आत्मानमुन्नमयति । यदि शृणोति दुःखमिति, तदा विद्विषति । स च रागो निरोधसत्यालम्बनः । द्वेषो (
३४४) निर्वाणद्वेष्यपि भवति । निर्वाणेनाप्यात्मन उच्चमतिर्भवति । तद्वन्मार्गेणापि, अन्येऽप्यनुशयाः सर्वत्रगा इति द्रष्टव्यम् । कामधात्वाप्ताः क्लेशा रूपधात्वालम्बनाः । यथा रागेण सुखमभिनन्दति । द्वेषेणाशुभं विद्विषति । तेन धर्मेणात्मानमुन्नमयति, तत्प्रधाना भवन्ति [रूपधातौ] न कामधातौ । यथा कामधातुकक्लेशारूपधात्वालम्बनाः तथा रूपधातुकादृष्टयादयः क्लेशा अपि कामधात्वालम्बनाः । एवमारूप्यधातावपि । किञ्चेमे क्लेशाः सामान्यविशेषलक्षणालम्बनाः । कस्मात् । रागः सामान्यलक्षणालम्बनोऽपि चतुरो देवान् तदधस्तनांश्च संक्लेशयति । यथाह दीर्घनखसूत्रम्- सर्वं क्षमत इतीदं संरागाय । सर्वं न क्षमत इतीदमसंरागाय इति । सर्वं न क्षमत इतीदं संरागाय । सर्वं क्षमत इतीदमसंरागाय । तेन क्लेशेनात्मानमुन्नमयति । क्लेशोऽयं कायवाक्कर्म प्रवर्तयति । कस्मात् । उक्तं हि सूत्रे- ईदृशीं दृष्टिमुत्पाद्य ईदृशं वस्तु वदति यदस्ति जीव इत्यादि ।

ते सर्वे क्लेशाः षष्ठविज्ञाने वर्तन्ते । न पञ्चसु विज्ञानेषु । कस्मात् । षष्ठविज्ञानस्य संज्ञोपगत्वात् । सर्वे च क्लेशाः संज्ञासम्भूताः । तथा नो चेत्सत्कायदृष्ट्यादयोऽपि पञ्चसु विज्ञानेषु वर्तेरन् । कस्मात् । चक्षुषा रूपं दृष्ट्वा वदति अहं पश्यमीति । तथा मानविचिकित्सादिष्वपि । (पृ) सूत्र उक्तम्- षट्तृष्णाकाया इति । कथमुच्यते पञ्चसु विज्ञानेषु न क्लेशाः सन्तीति । (उ) यथा षण्मनौपविचारा मनोविज्ञाने वर्तन्ते । केवलं चक्षुरादिभिराहृता इत्यतः षण्मनौपविचारा इत्युच्यन्ते । तथेदमपि । मनोविज्ञाने हि विद्यमानं विकल्पकारणं न पञ्चसु विज्ञानेषु । अतो ज्ञायते पञ्च विज्ञानेषु न सन्ति क्लेशा इति ॥

प्रकीर्णप्रश्नवर्गोऽष्टस्त्रिंशदुत्तरशततमः ।


१३९ दोषप्रहाणवर्गः

(पृ) केचिदाहुः- क्लेशा नवविधा- अधममध्यमोत्तमा अधमाधमाधममध्यमाधमोत्तमा मध्यमाधम मध्यममध्यममध्यमोत्तमा उत्तमाधमोत्तममध्यमोत्तमोत्तमा इति । ज्ञानमपि नवविधम् । क्लेशेषूत्तमोत्तमः पूर्वं प्रहेयः । अधमाधमोऽन्ते प्रहेयः । अधमाधपज्ञानेनोत्तमोत्तमक्लेशं प्रजहाति । यावदुत्तमोत्तमज्ञानेन अधमाधमक्लेशं प्रजहाति इति । कथमिदम् । (उ) अप्रमाणचित्तैः क्लेशान् सर्वान् प्रजहाति । कस्मात् । सूत्रे भगवानाह- तद्यथा दक्षः (
३४५) कर्मकरो हस्तेन परशुमादाय चक्षुषा मुष्टिप्रदेशं दृष्ट्वा यान्यंशसहस्रानि प्रतिदिनं क्षीयमाणानि तान्यगणयनन्नपि क्षीणमात्रं दृष्ट्वा प्रजानाति इदं क्षीणमिति । तथा स भिक्षुरपि मार्गचर्यां भावयन् कान्यद्य क्षीणाण्यास्रवसहस्राणि कानि ह्यः क्षीणान्यास्रवहस्राणीति अगणयन्नपि क्षीणमात्रे प्रजानाति क्षीण आस्रव इति । अतो ज्ञायतेऽप्रमाणै ज्ञानैः क्लेशाः क्षीयन्त नत्वष्ठ नव वा इति ।

(पृ) कं समाधिं निश्रित्य कः क्लेश प्रहीयते । (उ) सप्तप्रतिशरणान्युपादाय क्लेशान् समुच्छेदयति । यथोक्तं सूत्रे भगवता- प्रथमध्यानमुपादायास्रवाणां क्षयो यावदाकिञ्चन्यायतनमुपादायास्रवाणां क्षय इति । तानि सप्तप्रतिशरणानि विनापि आस्रवाणां क्षयं करोति । यथोक्तं सुसीमसूत्रे- अतिक्रम्य सप्तनिश्रयानास्रवक्षयमनुप्राप्नोतीति । अतो ज्ञायते कामधातुकसमाधिं निश्रित्यापि आस्रवक्षयं प्रतिलभत इति ।

(पृ) सत्यदर्शनहेयाः क्लेशा नारूप्यसमाधिं निश्रित्य प्रहीयेरन् । तस्य योगिनो रूपलक्षणभङ्गात् । (उ) इदं पूर्वमेव प्रयुक्तम् । यदारूप्यसमाधि[रपि] रूपमवलम्बत इति । (पृ) पूर्वं प्रथमध्यानाद्वीतरागः किं क्रमेण द्वितीयध्यानादीन् प्राप्नोति किं वा एककालमेव । (उ) क्रमेण भवितव्यम् । प्रथमध्याने वीतरागस्य द्वितियध्यानादीनामुत्पत्तेः । (पृ) किं कामधातावस्ति क्रमः । (उ) क्लेशानां प्रतिक्षणनिरुद्धत्वात्स्यादपि क्रमः । यथा च याम्या देवाः परिष्वङ्गे कामं साधयन्ति । तुषिता देवाः पाणिं गृहीत्वा कामं साधयन्ति । निर्माणरता वागालापेन कामं साधयन्ति । परनिर्मितवशवर्तिनो देवा आकारं दृष्ट्वा कामं साधयन्ति । [एवं] ज्ञातव्यं कामधातुकक्लेशाः क्रमेणापि क्षीयन्त इति । केचिदाहुः- पुण्यगुणप्रत्ययं तत्रोत्पद्यन्ते । न क्लेशप्रहाणेन । प्रणीतकामत्वात्तत्साधने विशेषः । मृद्विन्द्रियत्वात्परिष्वङ्गेन कामं साधयन्ति । तीक्ष्णेन्द्रियत्वादाकारं दृष्ट्वा कामं साधयन्ति इति ।

(पृ) केचिदाहुः- भावनाहेयाः क्लेशाः क्रमेणा प्रहीयन्ते । पूर्वं कामधात्वाप्ताः पञ्चाद्रूपारूप्याप्ताः । सत्यदर्शनहेयास्त्वेककालं प्रहीयन्त इति । कथमिदम् । (उ) यथा सत्यदर्शनहेयाः सर्वे क्लेशा निरोधसत्यदर्शनेन प्रहीयन्ते । उक्तपूर्वमिदं यत्निरोधदर्शनप्रहेयाः (
३४६) सत्कायदृष्ट्यादयः क्लेशाः सर्वे निरोधसत्यदर्शनेन प्रहीयन्ते । ऊष्मधर्मादारभ्य अनित्याद्याकारैः पञ्चस्कन्धलक्षणानि भावयित्वा आदौ प्रहेयाः क्लेशा निरोधदर्शनेन क्षीयन्ते ।

(पृ) कामधात्वाप्तदुःख[सत्य]भावनया कामधातुकसंयोजनानि प्रजहाति । समुदयसत्यभावनायाप्येवम् । यथा कामधातौ तथा नैवसंज्ञानां संज्ञायतनेऽपि । कामधातुकनिरोध[सत्य]भावनया त्रैधातुकसंयोजनानि प्रजहाति । एवं मार्ग[भावनया]पि । कथमिदम् । (उ) निरोधज्ञः क्लेशान् प्रजहाति । अतो भवदुक्तं न युज्यते । (पृ) [ननु] सूत्र उक्तम्- पञ्चस्कन्धाननित्यादिना भावयित्वा स्रोतआपत्तिपलं यावदर्हत्फलं विन्दते इति । कथमाह भवान्निरोधसत्यदर्शनमात्रेण क्लेशान् प्रजहातीति । (उ) इमान् पञ्चस्कान् भावयन् प्रजानाति निरोधमिश्रभावनाम् । अतः प्रजहाति क्लेशानुशयान् । यथोक्तं सूत्रे- भिक्षुर्भावयति इदं रूपं, अयं रूपसमुदयः, अयं रूपनिरोध इति सर्वदा मम पश्यतो धर्मं विजानतः क्लेशाः प्रहीयन्त इति । ज्ञातव्यंनिरोधसत्यदर्शनेन क्लेशानां क्षय इति । पञ्चस्कन्धा दुःखं ततः क्लेशाः समुत्पद्यन्ते । यदा पञ्चस्कन्धानां निर्वाणमुपशमं पश्यति । तदा दुःखसंज्ञा सम्पन्ना भवति । अतो ज्ञायते स्कन्धानां निरोधं पश्यतः क्लेशाः क्षीयन्त इति । यथोक्तम्- धर्मानुपादायाकायस्वभावमेकमुपेक्षाचित्तमाश्रित्य प्रहाणमिति । अकायस्वभाव एव निरोधः । यो रूपमकायस्वभावं यावद्विज्ञानमकायस्वभावं पश्यति सोऽत्यन्तविसंयोगभाग्भवति । त्रीणि विमोक्षमुखानि निर्वाणस्य प्रत्ययाः । विमोक्षमुखैरेभिरेव क्लेशान् प्रजाहाति । नान्योपायैः । अतो ज्ञायतेऽसंस्कृतालम्बनो मार्ग एव क्लेशान् प्रजहातीति । अतो भवदुक्तो [यः] क्लेशप्रहाणधर्मो नायं युक्तः ।

शास्त्रमाह- क्लेशानामेवंजातीयानामप्रमाणानि विक्लपस्वभावानि भवन्ति [इति] विमुक्तिप्रार्थिभिर्ज्ञातव्यम् । कस्मात् । एतद्बन्धदोषज्ञानबलाद्विमुच्यते । यदा कश्चिच्छत्रुं विज्ञाय दूरीकरोति । यथा वा विषममार्गं ज्ञात्वा वर्जयति । एवं क्लेशानपि । क्लेशबन्धोऽतिसूक्ष्मो वेमचित्रमसुरराजं बवन्ध । यावद्भवाग्रं सत्वाः क्लेशबद्धाः । अतो ज्ञातव्यं तेषामादीनवम् । सत्त्वा यादद्भवाग्रमाजवञ्जवपतिताः । यतः क्लेशानामादीनवज्ञानं न पश्यन्ति । अप्रहीणसंयोजनत्वादप्रहीण आत्ममानो वर्धते । ततस्तु विमतिकौकृत्ये भवतः । अतः क्लेशदोषैर्मा वञ्चितः स्यामिति ज्ञातव्यम् । यत्सत्वा विशुद्धं परमं निर्वाणसुखमुपेक्षन्ते प्रत्युतातितुच्छं कामसुखं भवसुखं कामयन्ते तदिदं सर्वं क्लेशानां दोषः । यदा क्लेशान् (
३४७) प्रजहाति तदा महाहितं प्रतिलभन्ते । अतः क्लेशदोषाणां ज्ञानदर्शनं कुर्यात् । विमुक्तेरावरणधर्मा यदुत क्लेशाः । क्लेशानामप्रहाणे नैवास्ति विमुक्तिनिदानम् । कस्मात् । क्लेशाः कामनिदानम् । क्लेशानुयायी कायो भवति । कायानुयायि दुःखम् । अतो दुःखवियोगार्थी क्लेशानां प्रहाणाय वीर्यमारभेत ॥

क्लेशप्रहाणवर्ग एकोनचत्वारिंशदुत्तरशततमः ।


१४० विद्याहेतुवर्गः

(पृ) क्लेशाः कायस्य निदानमित्येतद्विद्या स्यात् । कस्मात् । तीर्थिका हि नेदं श्रद्दधन्ते । केचिदाहुः- कायोऽहेतुकोऽप्रत्ययः, तृणवृक्षवत्स्वयंभूत इति । केचिदाहुः - पदार्था महेश्वरादिभिः सृष्टा इति । केचिदाहुः- पदार्थाः कालस्वभावजाः इति । केचिदाहुः- परमाणुसमवायजा इति । एवंजातीयवचनानि विद्या स्युः । (उ) कर्मणः कायो भवतीदं पूर्वमेव साधितम् । तत्कर्म क्लेशेभ्यः सम्भूतम् । अतः क्लेशाः कायस्य निदानम् ।

(पृ) कथं ज्ञायते क्लेशहेतुकं कर्मेति । (उ) प्रज्ञप्तिचित्तमविद्येत्युच्यते । प्रज्ञप्तिचित्तकः कर्माण्युपचिनोति । अतो ज्ञायते क्लेशप्रत्ययं कर्म भवतीति । अर्हन्न कर्माण्युपचिनोति न निष्पादयति । अतो ज्ञायते कर्माणि क्लेशसिद्धानीति । यथोक्तं भगवतासूत्रे- यः प्रतिलब्धविद्यः सन्यस्ताविद्यः स किं पापकं कर्म पुण्यं कर्म आनेञ्ज्यञ्च कर्म करोति न वा । नो भगवनिति । नास्ति चानास्रवं कर्म । अतो ज्ञायते प्रज्ञप्त्यनुयायी केवलं कर्माणि करोतीति । अनास्रवं चित्तं न प्रज्ञप्तिमवलम्बत इति न कर्माणि करोति । शैक्षस्य नास्ति चर्या । यथोक्तं सूत्रे- शैक्षजनः प्रत्यागतं नाचरति, निरुद्धं न करोतीति । क्रियालक्षणा हि चर्या । चर्यैव कर्मेत्युच्यते । अनास्रवं चित्तञ्च न चर्यालक्षणमित्यतो नास्त्यनास्रवं कर्म । तस्मात्सर्वाणि कायवेदनीयकर्माणि क्लेशहेतुसम्भूतानि । प्रहीणक्लेशो न पुनर्जन्मानुभवति । अतो ज्ञायते विद्यमानः कायः क्लेशहेतु[क] इति ।

(पृ) सर्वे सत्त्वा अक्लेशतया जायन्ते । पश्चात्तु क्लेशाः समुद्भवन्ति । यथा पुरुषस्य जननकालेऽविद्यमानं दशनं पश्चादुत्पद्यते । (उ) न युक्त[मिद]म् । क्लेशवानेव (
३४८) [जायते] यत्र भवलक्षणं क्वरोदनादि जननकाले प्रत्यक्षमस्ति । अतो ज्ञायते क्लेशैः सहैव सर्वे जायन्त इति । प्रत्यक्षं पश्यामः खलु सत्त्वा बहवो वर्चःकुट्यादिषु प्रसूयन्ते न तु शिलादिषु । गन्धरसाद्यासङ्गात्तत्र प्रसूयन्त इति द्रष्टव्यम् । अतो ज्ञायते क्लेशवशादुत्पद्यन्त इति । (पृ) नरकादौ न जन्म लभेरन् । कस्मात् । न हि कश्चिनरकादौ सुखं कामयेत । (उ) मोहबलाद्विपर्ययचित्ता उत्पद्यन्ते । म्रियमाणा दूरतो नरकं दृष्ट्वा इदं पद्मसर इति तदासङ्गात्तत्रोत्पद्यन्ते । यथोक्तं सूत्रे- यो निबिडितस्थाने विपुलं स्थानं लभेयमिति म्रियते स पक्षिषूत्पद्यते । यः परितर्षितो म्रियते स जलजन्तुर्जायते । यः शीतार्तो म्रियते स तपननरके जायते । यस्तापतर्षितो म्रियते स शीतनरके जायते । यो मैथुनकामासक्तः स चटकेषु जायते । य आहारासक्तः स कुणपेषु कीटो जायते । इति । कामासङ्गहेतुना अकुशलानि करोति । अकुशलप्रत्ययदार्ढ्यात्फलविपाकं वेदयते । कायासक्त्या कर्माणि विपाकजनकानि । कस्मात् । कायासक्तस्य मोहबलान्मानादयः क्लेशा जायन्ते । ततः कर्मणि सञ्चिनोति । कर्मबलाद्गतिषूत्पद्यते ।

(पृ) यदि क्लेशप्रत्ययेन कायो भवति । प्रहीणक्लेशस्य पञ्चस्कन्धसन्तानो न स्यात् । (उ) कायोऽयं पूर्वं क्लेशजातः । [इदानीं] क्लेशेषु प्रहीणेष्वपि तद्वेगबलात्कायः पुनर्न प्रहीयते । यथा दण्डेन चक्रभ्रमणम् । मुहूर्तं दण्डे विरमत्यपि [चक्रम्] भ्रमत्येव न तु शाम्यति । (पृ) यदि पूर्वकर्मक्लेशवेगात्कायो भवति । तदा प्रहीणक्लेशः पूर्वकर्मक्लेशवेगात्पुनः कायमुपादद्यात् । (उ) निमित्तग्रहाद्विज्ञानमवश्यं तिष्ठति । अयं प्रक्षीणपूर्वकर्मवेगः । इदानीमनिमित्तविमोक्षमुखं भावयन्नोर्ध्वदेहमुपादत्ते । यथा तत्पपाषाणे न बीजानि प्ररोहन्ति । एवं ज्ञानाग्निना विज्ञानस्थितिषु दग्धासु न विज्ञानबीजं प्ररोहति । (
३४९) ऊर्ध्वसन्तानः समुच्छिद्यते । संस्कारप्रत्ययवैकल्यात्न पुनः सन्तानो भवति । यथोक्तं सूत्रे भगवता- विज्ञानं बीजम् । कर्मसंस्काराः क्षेत्रम् । रागतृष्णा सलिलम् । अविद्या अवकिरणम् । एभिः प्रत्ययैरायत्यां कायमुपादत्त इति । अर्हतस्त्वेषां प्रत्ययानां वैकल्यान्नायत्यां कायो भवति इति ज्ञातव्यं क्लेशप्रत्यया कायवेदनेति । विगतक्लेशस्य दुःखज्ञानादिचित्तमस्ति । इदानीमुपपत्तिवेदको न पश्यति तच्चित्तमस्तीति । अतो ज्ञायते विगतक्लेशो नोपपतिं वेदयत इति । (पृ) स्रोतआपन्नादिनां दुःखादिचित्तमस्ति । त उपपत्तिकालेऽपि न पश्यन्ति अस्तीति । (उ) अर्हतां ज्ञानबलं सुदृढम् । सर्वेऽपि क्लेशा नोत्कर्षन्ति । अतो म्रियमाणा उपपत्तिवेदनां प्रतिघ्नन्ति । स्रोतआपन्नादीनां ज्ञानबलन्तु न तथा । अतो न दृष्टान्तः स्यात् ।

भवतोक्तं यथा दशनं पश्चात्क्रमेण भवति तथा क्लेशा अपीति । इदमयुक्तम् । कस्मात् । अर्हन्तोऽनास्रवप्रज्ञादद्घक्लेशा इत्यतो नोत्पद्येरन् । यथा दग्धं बीजं न पुनः प्ररोहति । प्रत्यक्षं खलु लोकेऽस्मिन् क्लेशजः काय इति । यथा कामरागात्कायरूपं विक्रियते । तथा द्वेषादपि । अतो ज्ञायते आयत्यां पञ्चस्कन्धा अपि क्लेशजा इति ।

(पृ) पश्यामः खलु आहारप्रत्ययाः पञ्चस्कन्धा उत्पद्यन्ते । तथापि नोच्यते आहारः कायवेदनाप्रत्यय इति । (उ) आहारश्चित्तप्रज्ञप्तितो रूपादीनां जनकः । क्लेशास्तु न तथा, अप्रज्ञप्तितो रूपादिजनकाः । अतो ज्ञायते क्लेशाः कायप्रत्यया इति । प्रत्यक्षं खलु चटकादयः कामबहुलाः, सर्पादयो द्वेषबहुलाः, सूकरादयो मोहबहुलाः । ज्ञातव्यमिमे सत्त्वा अवश्यं पूर्वाभ्याससञ्चितमैथुनरागादिक्लेशा इत्यतस्तेषूत्पद्यन्त इति । (पृ) उत्पत्तिस्थान धर्मस्तथा न तु पूर्वाभ्याससञ्चितक्लेशहेतुकम् । (उ) तथा चैन्मैथुनरागादयो निर्हेतुकाः स्युः । नेदं सम्भवति । इति ज्ञातव्यं पूर्वाभ्याससञ्चितहेतुना भवतीति । कामक्रोधादिषु क्लेशेषूद्दीपितेषु हननादिपापानि कुर्वन्ति । तेभ्यः पापेभ्यो दृष्ट एव बधबन्धनादिदुःखमनु भवन्ति । क्लेशेष्वल्पेषु शीलधारणकुशलाभ्यासादिहितं लभन्ते । तत्कुशलशीलमुपादाय दृष्ट एव ख्यातियशोलाभसत्कारादिसुखं लभन्ते । यथेह लोके लाभो हानिश्च क्लेशहेतुका, तथामुष्मिन्नप्येवमिति ज्ञायते ।

(पृ) यदि क्लेशहेतुकः कायो भवति । तदा समुच्छिद्येत संसारे गतागतम् । कस्मात् । क्लेशविवृद्ध्या दुर्गतौ पतति स एव पापकायमनुभूय क्लेशान् पुनर्वर्धयति । सदा च विमुक्तिहेतुरहितः । एवञ्च न सुस्थाने जन्म लभेत । यदि पुण्यवर्धनाय (
३५०) पुण्यकायमुपादते । तदा पुनरपि न दुस्थान उत्पद्येत । एवञ्च न स्यात्संसारे गतागतम् । (उ) जनोऽयं दुर्गतौ पतितोऽपि कदाचित्कुशलचित्तभाग्भवति । सुस्थान उत्पन्नोऽपि कदाचिदकुशलचित्तमुत्पादयति । अतः संसारे गतागतं न समुच्छिद्यते । रागादिक्लेशानां तनुत्वतः सुस्थाने जन्मानुवर्तते । तेषामेव महत्वतो दुःस्थाने जन्मानुवर्तते यथा सूकरश्वादयः । अल्पकेशत्वतः सुस्थाने जायत इति यथा [कश्चित्] क्लेशतनुत्वात्दानशीलादिकर्माचरन् षट्सु कामदेवेषूत्पद्यते । प्रहीणाब्रह्मचर्यारागत्वाद्विशिष्टध्यानसुखं प्रतिलभते । प्रहीणरूपसंक्लेशत्वाद्विशिष्टसमाधिसुखं प्रतिलभते । सर्वसंयोजनानां क्षयेऽनुपमं निर्वाणसुखं प्रतिलभते । अतो ज्ञायते कायोऽयं क्लेशहेतुक इति ।

पश्यामः खलु सत्त्वा कुदेशभूमौ रता दुर्जनैः सह कुत्सितमधिवसन्तीति सर्वमासङ्गाद्भवति । अतो ज्ञायते संसारे सत्त्वानामधिवासोऽप्यासङ्गाद्भवति । यथा शलभा भास्वररूपरागात्प्रदीपदग्धा भवन्ति । आसक्तिरियं न ज्ञानद्भवति । कस्मात् । शलभा इमे न जानन्ति अग्निर्दुःखस्पर्श इत्यतस्तत्र पतन्ति । तथा सत्त्वाः पौनर्भविकदुःखपतिता अविद्याप्रत्ययकामतृष्णार्त उत्पद्यन्ते । यथा मत्स्या अङ्कुशं ग्रसन्तः, हरिणाः शब्दानु चारिणः । ते सर्वे कामासङ्गान्म्रियन्ते । यथा च कश्चित्कामासक्त्या विप्रकृष्टां विदिशं गच्छन्न प्रतिनिवर्तते । तत्सर्वं क्लेशाज्जातमिति द्रष्टव्यम् । यथा वृक्षस्य मूलेऽनुन्मूलिते स वृक्षः पुनः प्ररोहति । तथा रागमूलेऽनुन्मूलिते दुःखवृक्ष सदा वर्तते । यथाह भगवान्-

यथापि मूलेऽनुपद्रुते दृढे च्छिन्नोऽपि वृक्षः पुनरेव रोहति ।
एवमपि तृष्णानुशयेऽनुद्धृते निर्वर्तयति दुःखमिदं पुनः पुनः ॥ इति ।

कायोऽयमशुचिरनित्यो दुःखं शून्योऽनात्मकः । स्वतोऽविद्यां विना को ज्ञानी तत्व्ययदुःखं कामयमानो वेदयेत । यथान्धो मलिनवासो रत्नाभरणमिति प्रलोभितः स्यात् । तथाविद्यान्धीभूत आदीनवबहुलानशुचीन् पञ्चस्कन्धाननुभवति । आत्ममत्या दुःखमपि कायमनुभवन्न त्यजति । अनात्मबुद्धौ तु प्रजहाति । यथाह शारिपुत्रः- विशुद्धसंवर- प्रतिलब्धमार्गो म्रियमाणोऽभिनन्दति । तद्यथा विषकुम्भे भग्ने । अतो (
३५१) ज्ञायते क्लेशप्रत्ययोऽयं काय इति । अज्ञानादस्मिन् काय आसज्यते । यथा चित्रकारण्डोऽशुचिसमृद्धः । अनपावृतो रमणीयः । अपावृते तु पूतितृणानि [दृश्यन्ते] । यथा विषसर्पसम्पूर्णे गृहप्रकोष्ठेऽप्रज्वलिते च दीपे सुखाध्यवसानं भवति । [विषसर्प]दर्शने तु तदपैति । तथा सत्त्वा अपि अविद्यायां सत्यां लोकेऽभिरमन्ते । उत्पन्नायान्तु विद्यायां चित्तं निर्विद्यते । एवं कामतृष्णा भवस्य मूलम् । कस्मात् । कामतृष्णया हि प्रार्थयते । प्रार्थना हि द्विविधा- कामप्रार्थना भवप्रार्थना इति । प्रत्युत्पन्नेषु कामेषु प्रार्थना कामप्रार्थना । पुनर्भवप्रार्थना भवप्रार्थना । अतो ज्ञायते कामतृष्णा भवस्य मूलमिति । पञ्चस्कन्धासक्तौ सत्कायदृष्टिरुत्पद्यते यदुताहमित्यात्मवादोपादानम् । तदुपादानमुपादायान्यानि त्रीण्युपादानानि भवन्ति । उपादानप्रत्ययो भवः । भवप्रत्यया जातिरिति ज्ञातव्यं क्लेशाः कायस्य मूलमिति ।

कायोऽयं दुःखम् । दुःखकायेऽस्मिन् सुखसंज्ञाविपर्यय उत्पद्यते । तेन सुखविपर्ययेण विपरीततृष्णा प्रवर्तते । तथा विपरीततृष्णया पुनर्भवं वेदयते । अतो ज्ञायते कामतृष्णाप्रत्ययः कायो भवतीति । कायोऽयमाहारप्रत्ययात्तिष्ठति । कबलीकाराहारासक्त्या न कामधातुमतिवर्तते । यथोक्तं कर्मस्कन्धे- गन्धरसासक्त्या वर्चःकुट्यादिषूत्पद्यते । स्प्रष्टव्यासक्त्या गर्भावास उत्पद्यते । शीतोष्णस्पर्शासक्त्या अण्डजः स्वेदजो वा भवति । इति सर्वे न कामधातुमतिक्रामन्ति । धातुस्पर्शमुपादाय तिस्रो वेदना भवन्ति । अतः स्पर्शप्रत्यया वेदनेत्युच्यते । मनःसञ्चेतनाहारोऽप्येवम् । पुनर्भवसमुत्थानाय प्रणिदधाति इदमहं करिष्यामीति । ज्ञादर्शनविहीनं विज्ञानं पुनर्भवप्रापककामतृष्णामूलं भवति । एवं चत्वार आहाराः कामतृष्णाधीनाः । सर्वे हि सत्त्वा आहारेण जीवन्ति । अतो ज्ञायते तृष्णाप्रत्यया जातिरिति ।

चतस्रो जातयः- अण्डजो जरायुजः संस्वेदज उपपादुक इति । मैथुनकामतृष्णया अण्डजो जरायुजश्च । गन्धरसाद्यासङ्गात्संस्वेदजोपपत्तिं वेदयते । यथाभिलषितं गुरुकर्मोपचीय उपपादुकजन्म वेदयते । अतो ज्ञायते चत्वारो जातिविभागाः कामतृष्णाधीना इति । चतस्रः कायवेदनाः- कश्चिदात्मघातको न परघातक इत्यादयश्चतस्रः । ताः (
३५२) सर्वाः कामतृष्णाविशेषा भवन्ति । अतो ज्ञायते कामतृष्णाप्रत्ययः कायो भवतीति । चतस्रो विज्ञानस्थितयः- रूपोपगं विज्ञानं तिष्ठत्रूपप्रतिष्ठितं रूपारम्बणं नन्द्युपसेवनम् । वेदनासंज्ञासंस्कारेष्वप्येवम् । न तूच्यते विज्ञानमेव विज्ञानस्थितिरिति । विज्ञानकाले क्लेशाभावात् । अतो ज्ञायते क्लेशप्रत्ययः कायो भवतीति ।

द्वादशनिदानानि चाविद्याधीनानि । कस्मात् । प्रज्ञप्त्यनुयायिचित्तमविद्या । तामविद्यामुपादाय प्रवर्तते [कर्म]पुण्योपगमपुण्योपगमानेञ्ज्योपगम् । कामसंलालितं पुण्योपगम् । दुःखसम्पीडितमपुण्योपगम् । मैत्रीकरुणादिचित्तसङ्गृहीतमानेञ्ज्योपगम् । तेषां कर्मणामनुगामिविज्ञानं पुनर्भवे तिष्ठति । विज्ञानं निश्रित्य भवन्ति नामरूपषडायतनस्पर्शवेदनाः । इमानि चत्वारि पूर्वाध्वनीनकर्मक्लेशविपाकाः । पुनरिमां वेदनामुपादाय प्रवर्तते तृष्णोपादानं भवः । इमे कर्मक्लेशा आयत्यां जातिजरामरणादीन्युत्पादयन्ति । एवं द्वादशाङ्गभवसन्ततिरविद्यामूलिका । अतो ज्ञायते क्लेशप्रत्ययः कायो भवतीति ।

संसारोऽनादिः । केनेदं ज्ञायते । उक्तं हि सूत्रे- कर्मप्रत्ययानि चक्षुरादीनीन्द्रियाणि । कर्म तृष्णाहेतुकम् । तृष्णा अविद्याहेतुका । अविद्या अयोनिशोमनस्कारहेतुका । अयोनिशोमनस्कारश्चक्षुर्हेतुको रूपप्रत्ययो मोहात्प्रवृत्त इति । अतो ज्ञायते संसारचक्रमनादीति । ईश्वरादयः कारणमिति वदतो न भवत्यनादिः । तत्तु न सम्भवति । अतो ज्ञायते क्लेशप्रत्ययः काय इति । क्लेशानामात्यन्तिकनिरोधे विमुक्तिर्लभ्यते । सत्त्वानां देहा नाना विजातीयाः । ईश्वरादीकारणत्वे वैजात्यं न स्यात् । क्लेशकर्मणां बहुविधत्वात्देहा अपि नैके ।

द्वाविंशताविन्द्रियेषु षडिन्द्रियाण्युपादाय षड्विज्ञानानि भवन्ति । तत्रास्ति स्त्रीपुरुषेन्द्रियम् । सर्वधर्माणामेषां सन्तत्यविच्छेदात्जीवितमित्युच्यते । जीवितं कस्येन्द्रियं भवति, यदुत कर्मणः । कर्मेदं क्लेशानां हेतुः । क्लेशा वेदनानिश्रिता इत्यतः पञ्च वेदना इन्द्रियाणि भवन्ति । एवमन्योन्य[हेतु] प्रवृत्ता संसारसन्ततिः । श्रद्धादीनीन्द्रियाणि (
३५३) निश्रित्य सन्ततिं विच्छेदयति । एवं द्वाविंशतीन्द्रियैः संसारे यात्यायाति च । अतो ज्ञायते क्लेशैः कायो भवतीति ।

किञ्च विमुक्त्यर्थी शीलसमाधिप्रज्ञा विमुक्तिज्ञानदर्शनस्कन्धानुत्पादयति । एषां क उपयोगः । [ते] सर्वे क्लेशानां निरोधाय भवन्ति ज्ञानी तद्धितं दृष्ट्वा तान् स्कन्धानुपाश्रयते । अतो ज्ञायते क्लेशप्रत्ययः काय इति । क्लेशाश्च क्रमेण निरुध्यन्ते । प्रहीणत्रिविधसंयोजनः स्रोतआपत्तिफलभाग्भवति । तनुकामच्छन्दादिकः सकृदागामिफलभाक् । प्रक्षीणकामधातुसंयोजनोऽनागामिफलभाक् । ध्यानसमाधिष्वपि अयं क्रमः । अत्यन्तक्षीणसर्व[संयोजनः] अर्हत्फलभाग्भवति । एवं क्लेशानां क्रमशो निरोधात्कायोऽपि क्रमशो निरुध्यते । ईश्वरादिकारणत्वे न स्यात्क्रमनिरोधः । अतो ज्ञायते क्लेशप्रत्ययः काय इति । सुजना रागादीनां क्लेशानां प्रहाणं प्रार्थयन्ते । द्रष्टव्यमवश्यं रागादिप्रत्ययमिदानीमायत्याञ्च ग्लान्युपायासान् लभन्त इत्यतोऽवश्यं [तेषां] प्रहाणं प्रार्थयन्ते । तथा नो चेन्न प्रहाणप्रार्थना स्यात् । ये वदन्ति ईश्वरादयः कायस्य हेतुरिति । तेऽपि प्रार्थयन्ते कामच्छन्दादीनां प्रहाणम् । अतो ज्ञायते कामच्छन्दादिप्रत्ययः काय इति । विद्वान् प्रज्ञया विमुक्तिं लभन्ते । [अतो] अज्ञानाद्वध्यत इति ज्ञेयं भवति । तस्मात्ज्ञायते क्लेशप्रत्ययः कायो भवतीति ।

भगवानाह- तत्र तत्र सूत्रे नन्दिरागक्षयात्सम्यग्विमुक्तिं लभत इति । कस्मात् । चक्षूरूपादयो हि न बन्धा इत्युच्यन्ते । नन्दिरागादयस्तु बन्धाः । नन्दिरागभङ्गात्चित्तं सम्यग्विमुच्यते । सम्यग्विमुक्तं चित्तं निर्वाणेऽवतरति । अतो ज्ञायते क्लेशप्रत्ययः कायो भवतीति । अनिमित्तानाकारशून्यतया हि विमुक्तिं प्रतिलभते । अतो ज्ञायते क्लेशप्रत्ययः काय इति । कस्मात् । धर्माणां शून्यतादर्शनमेवानिमित्तप्रतिलाभः । निमित्तनिरोधान्न पुनर्भवं प्रणिदधाति । अतः शून्यता विमोक्षमुखमित्युच्यते । तद्विपर्यये बन्धः । इत्यादिना क्लेशाधीनः कायो भवतीति प्रदर्शितम् ॥

विद्याहेतुवर्गश्चत्वारिंशदुत्तरशततमः ।

[इति] समुदयसत्यस्कन्धः समाप्तः ।

(
३५४)
अथ निरोधसत्यस्कन्धः


१४१ निरोधसत्यस्कन्धे आद्यः प्रज्ञप्तिस्थापनवर्गः

शास्त्रमाह- त्रिविधचित्तानां निरोधो निरोधसत्यं यदुत प्रज्ञप्तिचित्तं धर्मचित्तं शून्यताचित्तम् । (पृ) कथमेषां त्रयाणां चित्तानां निरोधः । (उ) प्रज्ञप्तिचित्तं बहुश्रुतप्रत्ययज्ञानेन वा निरुध्यते । चिन्तनाप्रत्ययज्ञानेन वा निरुध्यते । धर्मचित्तमूष्मगतादिधर्मेषु शून्यताबुद्धया निरुध्यते । शून्यताचित्तं निरोधसमापत्त्यवतरणेन निरुध्यते । यदि वानुपधिशेषनिर्वाणेऽवतरतः सन्तानसमुच्छेदे निरुध्यते ।

(पृ) कतमा प्रज्ञप्तिः । (उ) स्कन्धानुपादाय ये विकल्पा तद्यथा पञ्चस्कन्धानुपादाय पुरुष इत्युच्यते । रूपरसगन्धस्पर्शानुपादाय घट इत्युच्यते इत्यादि । (पृ) कस्मादियं प्रज्ञप्तिः । (उ) सूत्रे भगवानाह-

यथाह्यङ्गसम्भाराद्भवति शब्दो रथेति च ।
एवं स्कन्धेषु सत्स्वेव भवति सत्त्वेति संवृतिः ॥ इति ।

यथा च भगवान् भिक्षूनवोचत्- धर्मा अनित्या दुःखाः शून्या अनात्मानः प्रतीत्यसमुत्पन्ना अनियतस्वभावा नाममात्रमनुस्मरणमात्रं भोगमात्रम् । इमानेव पञ्चस्कन्धानुपादाय नाना नाम प्रवर्तते सत्त्वो मनुष्यो देव इत्यादि इति । सूत्रेऽस्मिन् वस्तुसतो धर्मस्य प्रतिषेधादुच्यते नाममात्रमिति ।

किञ्चाह भगवान्- द्वे सत्ये परमार्थसत्यं संवृतिसत्यमिति । परमार्थसत्यं यदुत (
३५५) रूपादयो धर्मा निर्वाणञ्च । संवृतिसत्यं यत्प्रज्ञप्तिमात्रं निःस्वभावम् । यथा रूपादिप्रत्ययो घटः सिध्यति । तथा पञ्चस्कन्धप्रत्ययः पुरुषः सिध्यति । (पृ) यदि परमार्थतो नास्तीदम् । लोकसत्यस्य क उपयोगः । (उ) लौकिकाः सत्त्वा लोकसत्यमुपादायोपयोजयन्ति । केनेदं ज्ञायते । यथा चित्रितोऽग्निरित्युक्तौ जनाः श्रद्दधन्ते । बुद्धा भगवन्तो लौकिकानां प्रज्ञप्तितो वियोजनाय लोकसत्येन व्यवहरन्ति । यथोक्तं सूत्रे- नाहं [भिक्षवो] लोकेन विवदामि । लोकश्च मया विवदति । न [भिक्षवः] धर्मवादी [केनचिल्लोके] विवदति । इति ।

पुरा किल जना वस्तूपभोगकामनया वहुवस्तुनामुत्पत्तिकाले घट इत्यादि नाम स्थापयाञ्चक्रुः । सद्धर्मे सति नोपयोगो लभ्येत । अतो लोकसत्यमित्युच्यते । सत्यद्वय उक्ते भगवतः शासनं सुविशुद्धम् । परमार्थतस्तु विद्वान्न विशिष्यते । लोकसत्यतो बालैर्न विवदन्ते । सत्यद्वयं वदन्न शाश्वतोच्छेद [दृष्टौ] पतति । न पतति मिथ्यादृष्टौ सुखान्ते दुःखान्ते च । कर्मविपाकादि सर्वं सिध्येत् । लोकसत्यं बुद्धानां शासनविनयमूलम् । यदुत दानशीलयोर्विपाकः सुस्थान उपपत्तिः । अनेन धर्मेण तच्चित्तं दमयित्वा मार्गशासनं ग्राहयित्वा पश्चात्परमार्थसत्यमुपदिशति । एवं जिनशाअनमादावगाधगभीरम्- तद्यथा महासमुद्रः क्रमशो गभीरः । अतो लोकसत्यं वदन्ति । यो मार्गस्य लाभज्ञानं साधयति [स] परमार्थधर्मोपदेशार्हो भवति । यथा भगवत एवं चेतः परिवितर्क उदभुत्- परिपव्काः खलु राहुलस्य [भिक्षोः] विमुक्तिपरिपचनीया धर्माः यन्नूनमहं राहुलमुत्तर आस्रवानां क्षये विनयेयमिति । तद्यथा घ्राणपाकः तद्विनाशे सुखं जनने दुर्भेदनम् । एवं लोकसत्येन चित्तं दमयित्वाथ परमार्थज्ञानेन विनाशयति । उक्तञ्च सूत्रे- धर्माणां प्रविचयपूर्वकं निर्वाणं परिज्ञातव्यमिति । योगी पूर्वं धर्माः [किं] प्रज्ञप्तिसन्तः [किं वा] परमार्थसन्त इति ज्ञात्वा पश्चान्निरोधसत्यं साक्षात्करोति । क्लेशाः स्थूलसूक्ष्मक्रमेण निरुध्यन्ते । यथा केशरोमादिनिमित्तेन स्त्रीपुरुषादिनिमित्तं निरुध्यते । रूपादिनिनिमित्तेन केशरोमादिनिमित्तं निरुध्यते । (
३५६) अथ शून्यतादिनिमित्तेन रूपादिनिमित्तं निरुध्यते । यथा कीलेन किलोऽपनीयते । अतो लोकसत्यमुच्यते ।

लोकसत्येन मध्यमा प्रतिपत्साध्यते । कस्मात् । पञ्चस्कन्धाः सन्तानेन प्रवर्तन्त इति नोच्छेदः । क्षणिका इति न शाश्वतः । शाश्वतोच्छेदविनिर्मुक्त इति मध्यमा प्रतिपत् । यथोक्तं सूत्रे- लोकसमुदयं पश्यतः नास्तीति दृष्टिर्न भवति । लोकनिरोधं पश्यतः अस्तीति दृष्टिर्न भवति इति । अत उच्यते लोकसत्यम् । लोकसत्यतो भगवतः शासनं सर्वं सत्यमेव यदुत अस्त्यात्मा नास्त्यात्मा इत्यादि पर्यायाः । लोकसत्यतोऽस्त्यात्मेति वदतो नास्त्यवद्यम् । परमार्थतो नास्त्यात्मेति वदतश्च सत्यम् ।

लोकसत्येन प्रतिदूषणं स्थाप्यते । परमार्थतस्तु प्रतिवचनम् । अस्ति वस्तुतः सत्त्व इति या दृष्टिः अयं महामोहः । नास्तीति यद्वचनं तदपि मोहतमसि पातयसि । कस्मात् । इयं भावाभावदृष्टिः शाश्वतोच्छेदात्मिका । येन योगिनो भावान्तान्निर्गम्य अभावान्ते पतन्ति । लोकसत्येऽसति केन निर्गमं लभेरन् । यदप्रतिलब्धशून्यताप्रज्ञो वदति नास्ति सत्त्व इति । इयं मिथ्यादृष्टिः । जननमरणवेदकः सत्त्वो नास्तीति वचनं हि मिथ्यादृष्टिः । यदि शून्यताबुद्धिप्रतिलाभी वदति नास्ति सत्त्व इति । न तदा दोषः । यथोक्तं सूत्रे- अर्हन्ती भिक्षुणी पापीयांसं मारमवोचत्-

किं नु सत्त्व इति प्रत्येषि मारदृष्टिगतं नु ते ।
शुद्धसंस्कारपुञ्जोऽयं नेह सत्त्व उपलभ्यते ॥ इति ।

किञ्चाह-

कायोऽयं स्कन्धसन्तानः शून्यश्चाप्यकिञ्चनः ।
मायावत्निर्मितवच्चापि प्राकृतानामक्षिमोहनः ॥
(
३५७)
शल्यवद्गण्डवच्चापि सपत्नोऽमित्रहारकः ।
दुःखं शून्यो निरात्मा च जातिव्ययविनाशनः ॥
इति ।

(पृ) सर्वस्यापि नास्ति यत्किञ्चन चित्तम् । कस्मात्केषाञ्चिन्मिथ्यादृष्टिरित्युच्यते केषाञ्चित्परमार्थदृष्टिरिति । (उ) यस्य पुरुषस्य शून्यतातत्त्वज्ञानं नोत्पन्नं तस्यास्त्यात्मेति मतिर्भवति । अतो नास्त्यात्मेति श्रुत्वैव सन्त्रासमुत्पादयति । यथाह भगवान्- ये बालाः पृथग्जनाः शून्यो नास्त्यात्मा, न पुनः करोति इति श्रुतवन्तः ते महाभीता भवन्ति । इति । अतो ज्ञायते अप्रतिलब्धशून्यताज्ञानः अस्त्यात्मेति मत्या निर्वाणाद्बिभेति । तदा मिथ्यादृष्टिर्भवति । प्रतिलब्धशुन्यताज्ञानस्तु नास्ति मूलत आगतिरिति प्रजानाति । तदा नास्ति किञ्चन भयमिति । अप्रतिलब्धशून्यतातत्त्वो नास्ति किञ्चनेतिदृ ष्ट्या दुर्गतौ पतति यदुतोच्छेददृष्टि[रूप]मिथ्यादृष्टिः । योऽयं लोकसत्यतोऽस्त्यात्मेति प्रज्ञाय अस्ति कर्मफलमिति श्रद्दधानः पश्चात्संस्कारा अनित्या उत्पत्तिनिरोधलक्षणा इति भावयित्वा निरोधं साक्षात्करोति । [तस्य] आत्मबुद्ध्यभावे कामचित्तं निरुध्यते । स यदि नास्ति किञ्चनेति वचनं शृणोति । तदा नास्ति कश्चन दोषः । अत उच्यते लोकसत्यम् ।

केचित्तीर्थिका अपवदन्ति श्रमणो गौतमः परमार्थत आत्मानं दूषयतीति । अतो भगवानाह- लोकसत्यतो वदामि अस्ति सत्त्व इति । सम्यग्दृष्टिं प्रकाशयन् वदामि सन्ति सत्त्वाः सन्धावन्तः संसरन्त इति । इयं सम्यग्दृष्टिरिति वदामि । पृथग्जन मिथ्यामनस्कारान्निःसत्त्वे वस्तुसदिति वचनं, तन्मिथ्यामनस्कारस्य दूषणम् । न सत्त्वस्य दूषणम् । यथा घटादयः प्रज्ञप्त्योच्यन्ते । तत्र न रूपादयो घटाः । न रूपादिव्यतिरिक्तो घटः । एवं न रूपादयः स्कन्धाः सत्त्वः । नापि रूपादिव्यतिरिक्तः सत्त्वः । यथा रूपादीनुपादाय प्रज्ञप्तिमतिक्रामति । एवं निरोधलक्षणेन रूपादीनतिक्रामति । दृष्टान्तेनार्थः सुविभज्यते । यथा चित्रितः प्रदीपः प्रदीप इत्युक्तोऽपि न प्रदिपवृत्तिको भवति । एवं घटोऽस्तीति कथितोऽपि न वस्तुसन् भवति । सन्ति पञ्चस्कन्धा इत्युक्ता अपि न परमार्थाः ॥

प्रज्ञप्तिस्थापनवर्ग एकचत्वारिंशदुत्तरशततमः ।


(
३५८)
१४२ प्रज्ञप्तिलक्षणवर्गः

(पृ) कथं घटादयः प्रज्ञप्तितः सन्ति न वस्तुतः । (उ) (१) प्रज्ञप्तौ निमित्तप्रदर्शनमस्ति न परमार्थे । यथा वदन्ति इदं रूपमिदं घटरूपमिति । न वक्तुं शक्यत [इदं] रूपरूपमिति । नापि वक्तुं शक्यत इदं वेदनादिरूपमिति । (२) प्रदीपो रूपसहगमात्प्रज्वलतीति [वदन्ति] स्पर्शसहगमात्प्रदहतीति । परमार्थधर्मस्तु नैवं दृश्यते । कस्मात् । विज्ञानं नान्यसहगमाद्विजानातीति । वेदनापि नान्यसहगमाद्वेदयत इति । अतो ज्ञायते सहभावः प्रज्ञप्तिसन्निति । (३) अन्यधर्ममुपादाय प्रज्ञप्तिसन् सिध्यति । यथा रूपादीनुपादाय घटः । परमार्थधर्मस्तु नान्यधर्ममुपादाय सिध्यति । कस्मात् । यथा वेदना नान्यधर्ममुपादाय सिध्यति । (४) प्रज्ञप्तिश्च नानाधर्मवती । यथा प्रदीपः प्रकाशते प्रदहति च । नैवं दृश्यते परमार्थधर्मः । कस्मात् । यथा वेदना न वेदयते विजानाति च । (५) रथशब्दो रथाङ्गादिषु भवति । रूपादिशब्दस्तु न पदार्थे वर्तत । इत्येवं विभागः । रथाङ्गादयो रथसाधनाः प्रत्ययाः । न तत्रास्ति रथशब्दः । तथा च रथकारणे नास्ति रथधर्मः । तदुपादाय तु रथः सिध्यति । अतो ज्ञायते रथः प्रज्ञप्तिरिति । (६) रूपादिशब्देनोक्ता रूपादयो लभ्यन्ते । घटादिशब्देनोक्ता घटादयस्तु न लभ्यन्ते । अतो ज्ञायते घटादयः प्रज्ञप्तय इति । (७) प्रज्ञप्तौ चित्तं विक्षिपति, न समादधाति । यथा कश्चिदश्वं दृष्ट्वा वदति- अश्वं पश्यामीति । कश्चिदश्वकायं पश्यामीति । कश्चिच्चर्म पश्यामीति । कश्चिद्रोमाणि वा पश्यामीति । कश्चिद्वदति वीणाशब्दं शृणोमीति । कश्चित्तन्त्रीनादं शृणोमीति । कश्चिद्वदति कुसुमं जिघ्रामीति । कश्चित्कुसुमगन्धं जिघ्रामीति । कश्चिद्वदति सुरां पिबामीति । कश्चित्सुरारसं पिबामीति । कश्चिद्वदति पुरुषं स्पृशामीति, कश्चित्पुरुषकायं स्पृशामीति, कश्चित्पुरुषभुजं स्पृशामिति, कश्चित्पुरुषहस्तं स्पृशामीति, कश्चित्पुरुषस्याङ्गुलिं
स्पृशामीति, कश्चित्पुरुषस्याङ्गुलिपर्व स्पृशामिति । मनोविज्ञानमपि सत्त्वादौ विक्षिपति यदुत कायः सत्त्वः चित्तं सत्त्व इति । एवं रूपादय एव घट अथवा रूपादिव्यतिरिक्तो घट इत्यादि । परमार्थवचने तु चित्तं समादधाति न विक्षिपति । रूपं पश्यामीति [वत्] शब्दमपि पश्यामीति न वक्तुं शक्यते ।

(
३५९)
(८) ज्ञेयादौ [सर्व]मव्यपदेश्यमपि अस्तीत्युच्यते । [यत्व्यपदिश्यते] इयं प्रज्ञप्तिः यथा घटादयः । अतो ज्ञायते घटादयः प्रज्ञप्तिसन्त इति । कस्मात् । रूपादयो धर्मा ज्ञेयादावनभिधेया इति न व्यपदिश्यन्ते । यथा रूपादयः स्वलक्षणेन व्यवदेश्याः । न घटादयः स्वलक्षणेन व्यपदिश्यन्ते । अत इमे प्रज्ञप्तिसन्त इति ज्ञायते । (९) केचितस्तीति प्रज्ञप्तिलक्षणं वदन्ति । इदं लक्षणमन्यत्र वर्तते न प्रज्ञप्तौ । यथोक्तं सूत्रे- कर्म विदुषोऽविदुषश्च लक्षणमिति । यः कायवाङ्मनोभिः कुशलं करोति स विद्वान् । यः कायवाङ्मनोभिरकुशलं कर्म करोति सोऽविद्वान् । कायवाक्कर्म चत्वारि महाभूतान्युपादाय तिष्ठति । मानसं कर्म चित्तमाश्रयते । इमानि त्रीणि कथं विदुषोऽविदुषश्च लक्षणम् । अतो ज्ञायते नास्ति प्रज्ञप्तेः स्वलक्षणम् । (१०) प्रज्ञप्तिलक्षणमन्यत्र वर्तमानमपि न पुनरेकम् । यथोक्तम्- शल्यविद्ध इव रूप्यते इति । रूप्यत इति रूपलक्षणम् । वेदयत इति वेदनालक्षणे पुरुष उच्यते । यथाह भगवान्- विद्वान्मूढश्च सर्वः सुखं दुःखं वेदयते । विद्वान् सुखे दुःखे न काममुत्पादयति । बह्वादिनिमित्तोद्ग्रहणं संज्ञालक्षणमित्यपि पुरुष एवोच्यते । यथाह- प्रभामहं पश्यामि रूपमहं पश्यामीति । [संस्कृत]मभिसंस्करोतीति संस्कारलक्षणेऽपि पुरुष एवोच्यते । यथाह- अयं पुरुषपुद्गलः पुण्योपगं संस्कारमभिसंस्करोति । अपुण्योपगं संस्कारमभिसंस्करोति । आनेञ्ज्योपगं संस्कारमभिसंस्करोतीति । विजानातीति विज्ञानलक्षणेऽपि पुरुष एवोच्यते । यथाह- [क्षिप्रं] धर्मं विजानाति विज्ञो जिह्वा सूपरसं
यथा । इति । अतो यदन्यत्रगतमुक्तमपि बहुलक्षणमुच्यते । इदं प्रज्ञप्तिलक्षणम् । रूपादि[स्व]लक्षणं नान्यत्रगतं नापि बहुलक्षणम् ।

(
३६०)
(११) यो धर्मः सर्वेषामनुशयकरः स प्रज्ञप्तिसन् । परमार्थधर्मस्तु नानुशयकरः । अनुशया हि पुरुषं कुर्वन्ति । (१२) प्रज्ञप्तौ च न ज्ञानोत्पादो भवति । पुरोवर्तिरूपादिषु ज्ञानोत्पादो भवति । तदुत्तरं मनोविज्ञानेन विकल्पयति घटमहं पश्यामीत्यादि । घटस्य ज्ञानमवश्यं रूपाद्यपेक्षम् । कस्मात् । रूपरसगन्धस्पर्शानुपादाय हि अयं घट इति व्यवहारः । परमार्थज्ञानन्तु न यत्किञ्चिदपेक्ष्य भवति ।
(१३) प्रज्ञप्तौ च भवति संशयः यथा स्थाणुर्वा पुरुषो वा इति । रूपादिषु तु न संशयो भवति रूपं वा किं वा शब्द इति । (पृ) रूपादावपि संशयो भवति किमस्ति रूपं किं वा नास्ति रूपमिति । (उ) नेदं युक्तम् । रूपं पश्यन्नैव संशेते अयं शब्द इति । अन्यस्मात्कारणात्संशयो भवति किमस्ति रूपं किं वा नास्ति रूपमिति । यथा रूपं शून्यमिति श्रुत्वा पुना रूपं पश्यन् संशेते किमस्ति किं वा नास्तीति । निरोधसत्यं पश्यतोऽयं संशयः प्रहीयते । (पृ) निरोधसत्येऽपि संशयो भवति किमस्ति निरोधः किं वा नास्ति निरोध इति । (उ) अभिनिविष्टेषु संशयो भवति न तु निरोधसत्ये । अस्ति निरोध इति मतं नास्ति निरोध इति मतञ्च यः शृणोति तस्य भवति संशयः किमस्ति किं वा नास्तीति । स तदा न निरोधसत्यं पश्यति । कस्मात् । निरोधसत्यं पश्यतो न पुनः संशयो भवति । अतो ज्ञायते संशयोत्पादस्थले प्रज्ञप्तिरस्ति ।

(१४) एकस्मिन् वस्तुनि बहुविज्ञप्त्युत्पत्तिलाभे प्रज्ञप्तिरस्ति । यथा घटादौ । परमार्थधर्मे तु न तथा । कस्मात् । रूपादौ न भवन्ति श्रोत्रादिविज्ञप्तयः । (१५) बह्वायतनसङ्गृहीतं प्रज्ञप्तिसत् । यथा घटादयः । अतः केचिद्वदन्ति प्रज्ञप्तिसत्चतुर्महाभूतसङ्गृहीतम् । परमार्थधर्मस्तु न बह्वायतनसङ्ग्रहं लभते । (१६) यत्निःस्वभावं सत्क्रियासमर्थं भवति । इदं प्रज्ञप्तिसत् । यथा पुरुषः करोतीति । पुरुषस्वभावः कर्मस्वभावश्च न परमार्थ उपलभ्यते । स्नेहद्वेषादिविकल्पो यः कश्चन स सर्वः प्रज्ञप्तिसन् । न परमार्थसन् । कस्मात् । रूपादिधर्माणां साक्षाद्दर्शने न स्नेहद्वेषादिसंज्ञोत्पद्यते । (१७) गम्यते आगम्यत इत्यादि, उच्छिद्यते विनश्यति इत्यादि, दाह्यते (
३६१) प्रदाह्यते इत्यादि या काचन क्रिया सर्वा सा प्रज्ञप्तिसती । न परमार्थसती । कस्मात् । परमार्थधर्मास्यादाह्यत्वात् । अविनाश्यत्वात् । पुण्यपापादिकर्म सर्वं प्रज्ञप्तिसत् । कस्मात् । प्राणातिपातादि पापं प्राणातिपातविरत्यादि पुण्यं सर्वं न परमार्थसत् । (१८) प्रज्ञप्तिसदापेक्षिकम्- यथा इदं, तत्, गुरु लघु, दीर्घं ह्रस्वं, महदल्पं, आचार्यः अन्तेवासी, पिता पुत्रः आर्य अनार्य इत्यादि । परमार्थस्तु नापेक्षिकः । कस्मात् । रूपं नान्यपदार्थमपेक्ष्य शब्दादीन् साधयतीति । न शून्यतया प्रज्ञप्तिखण्डनं प्रज्ञप्तिसत् । यथा वृक्षान्निश्रित्य वनं खण्ड्यते । मूलकाण्डं निश्रित्य वृक्षः खण्डयते । रूपादि निश्रित्य मूलकाण्डं खण्ड्यते । तथा शून्यतया यत्खण्डनं तत्तु परमार्थसत् । यथा रूपादि शून्यतया खण्ड्यते ।

(१९) शून्यताचार्यायतनानुवर्तनं प्रज्ञप्तिसत् । नैरात्म्यचर्यायतनानुवर्तनन्तु परमार्थसत् । (२०) सन्ति चत्वारो वादाः- एकत्वं, नानात्वं, अनिर्वचनीयत्वं, अभाव इति । एते चत्वारो वादाः सावद्याः । अतो ज्ञायते घटादयः प्रज्ञप्तिसन्त इति ।

एकत्वम्- रूपरसगन्धस्पर्शा एव घट इति । नानात्वं रूपादीन् विहायान्योऽस्ति घट इति । अनिर्वचनीयत्वम्- रूपादय एव वा घटः किं वा तद्वयतिरिक्तो घट इति न निर्वक्तुं शक्यते । अभावः- नास्त्ययं घट इति । इमे चत्वारो वादा अयुक्ताः । अतो ज्ञायते घटः प्रज्ञप्तिरिति ।

प्रज्ञप्तिलक्षणवर्गो द्विचत्वारिंशदुत्तरशततमः ।


१४३ एकत्वखण्डनवर्गः

(पृ) एषामेकत्वादीनां चतुर्णां वादानां के दोषाः । (उ) एकत्ववादे दोषो यदुत रूपादीनां धर्माणां लक्षणं प्रत्येकं विभक्तम् । यदि घट एकः, तदा न सम्भवति । रूपादीनि नैकैकं पृथिवीधातुरित्युच्यन्ते । तत्समवायः कथं पृथिवी भवेत् । कस्मात् । यद्येकैकोऽश्वो न गौर्भवति । तत्समवायः कथं गौर्भवेत् । (पृ) यथा एकैकं तिलं न कलापं साधयति । तत्समवायस्तु साधयति । एवं रूपादीन्येकैकं न पृथिवीं साधयन्ति । तत्समवायस्तु साधयति । (उ) न युज्यते । कस्मात् । तिलकलापः प्रज्ञप्तिसन् । एकत्वादि तु परमार्थधर्मे विचार्यते । इति कथं दृष्टान्तः स्यात् ।

(
३६२)
रूपरसगन्धस्पर्शाश्चत्वारो धर्माः । पृथिवी तु एकधर्मः । न चत्वार एकः स्यात् । यदि चत्वार एकः । एकोऽपि चत्वारः स्यात् । तत्तु न सम्भवति । अतो ज्ञायते रूपादय एव न पृथिवीति । लौकिका वदन्ति- पृथिवीरूपं पृथिवीगन्धः पृथिवीरसः पृथिवीस्पर्शमिति । न पश्यामो रूपरूपमिति वदन्तं यं कञ्चन । अन्यधर्मलक्षणेनावश्यं प्रदर्श्यते- यथा अमुकस्य पुरुषस्य कुटीति । (पृ) इदं नान्यधर्मलक्षणेन प्रदर्शनं, स्वधर्मेणैव स्वात्मप्रदर्शनम् । यथा शिलापुरुषस्य हस्तपादमिति । कस्मात् । न हि हस्तपादव्यतिरिक्तः शिलापुरुषोऽस्ति । एवं रूपादिव्यतिरिक्ता पृथिवी यद्यपि नास्ति । तथापि स्वात्मरूपेणैव स्वात्मप्रदर्शनं [इति वदतः] को दोषः । (उ) यद्युच्यते पृथिवी रूपादिना स्वात्मानमेव प्रदर्शयतीति नायं न्यायो भवति । शीलापुरुषदृष्टान्तो यद्यपि भवतोक्तः । स दृष्टान्तस्तु न युक्तः । कस्मात् । शिलापुरुषस्य हस्त इति प्रदर्शने तदन्यः कायः शिलापुरुष इति स्यात् । शून्यतायामपि च अस्तीत्यभिधीयते । यथा वदन्ति शिलापुरुषस्य काय इति । तस्मिन् समये शिलापुरुष एव न पुनस्तदन्योऽस्तीत्युच्यते । यथा भगवानाह- सन्त्यस्मिन् काये केशा रोमाणि रक्तं मांसमित्यादि । तानि केशादीनि विहाय नास्त्यन्यः कायः । केशादीनां निश्रयस्थानमिदं पृथगसदपि [अस्तीति] अभिधीयते । अतो ज्ञायते शिलापुरुष इति वचनमपि मृषावचनम्, इति । यदि शिलापुरुषदृष्टान्तेन पृथिवीं साधयसि । तथापि नास्ति पृथिवी । भवतां सूत्रे उक्तं- रूपरसगन्धस्पर्शवती पृथिवीति । इयं पृथिव्येव नास्ति कायवत् । अतो ज्ञायते रूपरसगन्धस्पर्शा एव, नैवास्तीयं पृथिवीति ।

गुणानाञ्च न लक्षणं प्रदर्शयितुं शक्यते । रूपं गन्धवदिति न वक्तुं शक्यते । रूपरसगन्धस्पर्शवती पृथिवी इति तु वक्तुं शक्यते । अतो नैकत्वमिति । रूपादिबुद्धिः पृथिवीबुद्धिश्च पृथक् । अतो ज्ञायते रूपादीनि न पृथिवीति । अन्यद्रूपादीनां नाम अन्यत्पृथिव्या नाम । (पृ) बुद्धिभेदो नामभेदश्च सर्वः संयोगे भेदवान् । (उ) यदि बुद्धिर्नामसंयोगमात्रेणास्ति । [तदा] संयोगो नाममात्रं भवेत् । तथा च पृथिवी नाममात्रमस्ति । इति नास्त्येकत्ववादः ।

पृथिवी स सर्वेन्द्रियज्ञेया भवति । केनेदं ज्ञायते । पुरुष एवं चिन्तयति- पृथिवीं पश्यामि, पृथिवीं रसयामि, पृथिवीं स्पृशामि इति । यदि रूपरसगन्धस्पर्शाः पृथिवी । न (
३६३) स्यात्रूपमात्रे पृथिवीं पश्यामीति पृथिवीसंज्ञा । गन्धादावप्येवम् । वस्तुतस्तु न रूपमात्रे पृथिवी ज्ञायते । अतो ज्ञायते न रूपादीन्येव पृथिवीति । प्रज्ञप्तिसंज्ञाकारणे एकस्मिन्नवयवे च प्रज्ञप्तिसंज्ञाभिधीयते । यथा कश्चिद्वृक्षशाखां छिन्दन् वदति- वृक्षं छिन्दामि, वनं छिन्दामीति च । गुणानां सीमानि द्रव्याणि अन्यानि । तत्र यद्यस्ति कारणम् । नानेन सिध्यति एकत्ववादः ।

सांख्याः पुनराहुः- पञ्च गुणाः पृथिवीति । तदप्ययुक्तम् । कस्मात् । यथा पूर्वमुक्तं- शब्दो रूपादिव्यतिरिक्तः क्षणिकः सन्तानप्रवृत्तः । न चतुर्महाभूतसाधनहेतुरिति । अतो ज्ञायते न सर्वाणि भौतिकानि शब्दवन्तीति ॥

एकत्वखण्डनवर्गस्त्रिचत्वारिंशदुत्तरशततमः ।


१४४ नानात्वखण्डनवर्गः

(पृ) नानात्ववादे के दोषाः । (उ) रूपादीन् विहाय नास्ति पृथिवी । कस्मात् । केन तत्ज्ञायते । न हि रूपरसगन्धस्पर्शान् विहाय पृथिवीबुद्धिरुत्पद्यते । रूपादिधर्मेष्वेवोत्पद्यते । कस्मात् । यथा अन्यत्रूपमन्ये शब्दादयः । न च शब्दादीनपेक्ष्य रूपबुद्धिरुत्पद्यते । यदि रूपादिव्यतिरिक्ता पृथिवी । रूपादीन्यनपेक्ष्यापि पृथिवीबुद्धिः स्यात् । न वस्तुतस्तान्यनपेक्ष्य भवति । अतो नास्ति पृथिवी पृथक् । (पृ) नान्यधर्ममनपेक्ष्य भवति । अवश्यं रूपलक्षणमपेक्ष्य रूपबुद्धिर्भवति । (उ) सामान्यलक्षणखण्डनवर्गे वक्ष्यते । न रूपव्यतिरिक्तं रूपलक्षणं पृथगस्तीति । अतो न युज्यते ।

पृथिव्यादिपृथग्धर्मस्य नेन्द्रियं ज्ञापकम् । अतो ज्ञायते न पृथक्सन्ति पृथिव्यादयो धर्मा इति । (पृ) पृथिव्यादयो द्वीन्द्रियग्राह्या यदुत कायेन्द्रियग्राह्याश्चक्षुरिन्द्रियग्राह्याः । केन तत्ज्ञायते । चक्षुषा दृष्ट्वा जानीमोऽयं घट इति । कायेन्द्रियेण स्पृष्ट्वापि जानीमः अयं घट इति । अतो नेन्द्रियग्राह्या इति भवतो वचनमयुक्तम् । (उ) तथा चेत्घटोऽयमिन्द्रियचतुष्टयग्राह्यः स्यात् । घ्राणेनापि मृत जिघ्र्यते । रसनयापि मृत्रस्यते । (पृ) घ्राणरसनाभ्यां न गृह्णाति घटम् । कस्मात् । न ह्यन्धकारे विवेचयति घटो वा जिघ्रयते कपालं वा । घटो वा रस्यते कपालं वा इति । (उ) यद्यपि न विवेचयति किं घट उत कपालमिति । तथापि मृदि ज्ञानं भवति मृदं (
३६४) जिघ्रामि, मृदं रसयामीति । यदि घट उद्गतमुखं खन्यते । तदा दृष्ट्वा स्पृष्ट्वा वा न निर्धारयति किमयं घट शरावः किं वा घतशकलमिति । अतो ज्ञायते चक्षुरिन्द्रियं कायेन्द्रियञ्च न घटं गृह्णीयातिति । अन्धकारे घटबुद्धिरुत्पन्नापि न विवेचयति सुवर्णघटो रजतघटो वा इति । अतो ज्ञायते चक्षुरिन्द्रियं कायेन्द्रियमपि न घटं गृह्णीयात् । घ्राणेन्द्रियं जिह्वेन्द्रियं पुष्पफलक्षीरसुरादीन् धर्मान् गृह्णाति । चक्षुरिन्द्रियं कायेन्द्रियन्तु न गृह्णाति । यथा [चक्षुः] पुष्पादि पश्यति न विविच्य जानाति गन्धः सुरभिरसुरभिर्वा रसो मधुरोऽमधुरो वा इत्यादि । अतो यदि मतं चक्षुःकायेन्द्रियाभ्यां जानीमो द्रव्यं न घ्राणजिह्वाभ्यामिति । नेदं सम्भवति । यथा घ्राणजिह्वे द्रव्यं पृथक्कृत्य न विकल्पयतः । तथा चक्षुःकायेन्द्रिये अपि द्रव्यमपृथग्भूतमपि न विकल्पयतः ।

पञ्चेन्द्रियेषु प्रज्ञप्तिग्राहकं ज्ञानं नास्ति । अतो ज्ञायते प्रज्ञप्तिर्न चक्षुःकायघ्राणजिह्वेन्द्रियैर्लभ्यते । षष्ठस्य त्वस्ति प्रज्ञप्तिज्ञापकं ज्ञानम् । कस्मात् । मनोविज्ञानस्य सर्वधर्मालम्बनत्वात् । चक्षुर्यदि रूपं पश्यति अरुपञ्च पश्यति । तदा शब्दादीनमपि पश्येत् । तथा चेत्श्रोत्रादीनीन्द्रियाणि नावश्यकानि स्युः । न तु सम्भवति । अतश्चक्षुःकायेन्द्रियाभ्यां न द्रव्यं गृह्यते । (पृ) रूपेण द्रव्योपलब्धौ चक्षुः पश्यति । न तु सर्वो रूपात्पृथग्भूतो धर्मो दृश्यः । (उ) रूपेण घटोपलब्धिरितीदं न युज्यते । कस्मात् । कः करोति घटरूपम् । संयोगमात्रमिदम् । अतो न रूपेण घटोपलब्धिः । यदि च दृश्यधर्मेण तदन्यधर्म उपलभ्य दृश्यो भवति । घटादिनादृश्यधर्मेण रुपोलब्धिरिति रूपमपि अदृश्यं स्यात् । घटोऽपि द्विविधः स्यात्दृश्योऽदृश्य इति । दृश्यधर्मस्यादृश्योपलब्ध्यर्थत्वात् । यद्यवश्यं रूपादिधर्मस्योपलब्धत्वात्चक्षुरादीन्द्रयग्राह्यमिति । [तदा] रूपलक्षणं चक्षुरिन्द्रियग्राह्यमिति न स्यात् । कस्मात् । भवतां सूत्रे रूपमुपादाय (=रूपहेतुकं) इन्द्रियेण रूपं दृश्यमितीदं रूपलक्षणं पुनरलक्षणं भवति । तथा तु रूपलक्षणमदृश्यमिति स्यात् । अतो न युज्यते ।

यदि रूपोपलब्ध्या दृश्यमिति । [तर्हि] सर्वाणीन्द्रियाणि द्रव्यं जानीयुः । श्रोत्रेन्द्रियमपि आकाशं जानीयात्शब्दोपलम्भात् । कायेन्द्रियेण वायुं जानीयात्स्पर्शोपलम्भात् । (
३६५) भवतां मते तु न युज्यते । अतो नेदं धर्ममुपलम्भयति । (पृ) अन्ये धर्मा नोपलब्धिकराः । रूपमात्रमुपलब्धिकरम् । (उ) मैवम् । न तत्रास्ति विनिगमना रूपमात्रमुपलब्धिकरं नान्ये धर्मा इति । यथा भवानाह महत्यनेकद्रव्यवत्त्वात्रूपाच्चोपलब्धिरिति । एवं रूपहेतुकं रूपमुपलभ्यते । रूपलक्षणोपलम्भेन रूपं तदुत्तरमुपलभ्यम् । न रूपमात्रमुपलब्धिकरमिति । एवमुक्ते [ऽपि] न पूर्वोक्तदोषपरिहारः ।

अन्यकालं रूपबुद्धिरुत्पद्यते अन्यकालञ्च घटबुद्धिः । अतो रूपात्घटोपलम्भे क उपकारः । यथा अन्धोऽभ्यस्तघटपरिमाणो विनष्टचक्षुष्कोऽपि स्पृष्ट्वा घटं जानाति । अतो न रूपमात्रं दर्शनस्य कारणम् । अन्धः कायेन्द्रियेण च वायुं जानाति । अतो न रूपमात्रोपलम्भात्ज्ञानमुत्पद्यते । भवतां सूत्रेऽप्युक्तम्- कायागतस्पृष्टः स्पर्शो न पृथिव्यप्तेजसांमिति ज्ञातव्यम्- अदृष्टलिङ्गो वायुरिति । तदप्ययुक्तम् । कस्मात् । अन्ध इमं वायुं जानन्नपि न जानाति वायुरयं किं दृश्यः किंवा अदृश्य इति । पुरुषश्चक्षुषा संख्यापरिमाणादीन् धर्मान् पश्यति । न तत्रास्ति रूपोपलब्धिः । गन्धमाघ्रायापि अगन्धधर्मे ज्ञानं लभते । रसं रसयित्वापि अरसधर्मे ज्ञानं लभते । अतोऽवश्यं रूपोलम्भेन द्रव्यं तदूर्ध्व ज्ञेयमितीदमयुक्तम् ।

(पृ) यदि रूपोपलम्भो दर्शनस्य न कारणम् । ये संख्यापरिमाणादयो धर्माः [ते] अदृश्यद्रव्यगताः, वायुश्च दृश्यः स्यात् । (उ) अस्मन्मते रूपं विहाय नास्त्यन्यो धर्मो दृश्यः । अतो ज्ञायते मते [ऽस्मिन्] यत्र रूपमुत्पन्नमस्ति तत्र चक्षुः पश्यति । चक्षुषा दृष्टरूपस्यैव घटसंज्ञा भवति । यस्मिन् धर्मे नास्त्युत्पन्नं रूपम्, तत्र सचक्षुष्कस्यापि नोत्पद्यतेऽन्यघटसंज्ञा । अतो रूपदि विहाय पृथगस्ति घट इतीदं न न्याय्यम् ॥

नानात्वखण्डनवर्गश्चतुश्चत्वारिंशदुत्तरशततमः ।


(
३६६)
१४५ अनिर्वचनीयत्वखण्डनवर्गः

(पृ) अनिर्वचनीयत्वे के दोषाः । परमार्थधर्मो नैकत्वनानात्वाभ्यामनिर्वचनीयः । कस्मात् । न हेतुदृष्टान्तौ स्तः इदमनिर्वचनीयमिति ज्ञापयितुम् । रूपादयो धर्माः परमार्थसन्तः । अतो नानिर्वचनीयाः । धर्माः प्रत्येकं सस्वलक्षणाः । यथा रूपणलक्षणं रूपम् । न नानात्वलक्षणम् । कथमुच्यतेऽनिर्वचनीयमिति । विज्ञानविशेषाद्धर्मविशेषः । यथा चक्षुर्विज्ञानेन रूपं ज्ञायते, न शब्दादि । अतोऽस्य नानिर्वचनीयता । रूपं रूपायतनसङ्गृहीतं न शब्दादिसङ्गृहीतम् । यद्यनिर्वचनीयत्वमिच्छसि । इदं रूपमिदं रूपमिति निर्वचनीयमस्ति । रूपमिदमरूपमिदमिति अनिर्वचनीयम् । एवं शब्दादयोऽपि । धर्माणां क्रमः संख्या चास्ति । यद्यनिर्वाच्याः । तदा धर्मा असंख्याः स्युः । कस्मात् । प्रथमं द्वितीयमिति लक्षणभेदस्याभावात् । अतो ज्ञायते परमार्थतो नानिर्वाच्याः धर्माः प्रज्ञप्तावेव एकत्वनानात्वसत्वादुच्यतेऽनिर्वाच्य इति ॥

अनिर्वचनीयत्वखण्डनवर्गः पञ्चचत्वारिंशदुत्तरशततमः ।


१४६ अभावखण्डनवर्गः

(पृ) अभाववादे के दोषाः । (उ) अभावत्वे न पुण्यपापादीनां विपाको विमुक्त्यादयः सर्वे धर्माः । विद्यमानं नास्तीति ग्रहे स ग्रहोऽपि अभावः स्यात् । वक्तुः श्रोतुश्चाभावात् । अस्ति नास्तीति वादाः श्रद्धयोक्ताः प्रत्यक्षज्ञानश्रद्धया वा भवन्ति अनुमितिज्ञानश्रद्धया वा भवन्ति । सूत्रम्रन्थानुसारेण वा भवन्ति । यत्किञ्चन नास्तीति यत्वचनं तदेषु त्रिषु न भवति । सूत्रं वानुसराम इति भवतामाशयो [यः] नायं युज्यते । सूत्राशयोऽपि दुःसंवादः । कदाचिदस्तीत्याह कदाचिन्नास्तीत्याह । कथं श्रद्धां गृह्णीमः । यद्यनुमानज्ञानं श्रद्दध्यात् । अवश्यं प्रत्यक्षपूर्वकमनुमितिज्ञानं भवेत् । घटादयो धर्मा इदानीं प्रत्यक्षदृष्टाः सन्ति । ज्ञानजनकत्वात् । यो ज्ञानजनकः धर्मोऽस्ति नाभाव[रूपः] ।

(
३६७)
इदानीं घटशरावादयः सविशेषा दृश्यन्ते । यदि सर्वेऽभावाः । कः सविशेषः स्यात् । मिथ्यासंज्ञया सविशेषा इति भवतां मतम् । कस्माताकाशे घटादीन्न विकल्पयति । मोहात्पदार्थबुद्धिरुत्पद्यत इति भवतां मतम् । सर्वेषामभावत्वे मोहोऽप्यभावः स्यादिति केन प्रवर्तेत । सर्वे धर्मा अभावा इति भवत आशये ज्ञानमिदं किं प्रतीत्य भवति । न हि ज्ञानान्यभावप्रत्ययेनोत्पद्यन्ते । पदार्थान् जानातीति ज्ञानम् । नेदं ज्ञानमभाव इति वाच्यम् । यद्यत्यन्ताभावा इति । तदा सर्वे जना यथाभिप्रेतं यत्किञ्चन कुर्युः । किन्त्वार्या दानशीलक्षान्त्यादिकुशलकर्माभिरता अकुशलधर्मविविक्ताश्च भवन्ति । अतो ज्ञायते नाभावा इति । घटादयो धर्माः प्रत्यक्षज्ञेयाः । भवांस्त्वाह- प्रत्यक्षं सर्वमभावरूपमिति । अभावधर्मकत्वाच्च न सूत्रे श्रद्दधीत । तथा च केन कारणेनाह- सर्वमभाव इति । अतः सर्वमभाव इतीदं [न] स्पष्टं भवेत् । यदि कारणेन न प्रकाशयति [तदा] परगृहीतं प्रकृतितः सिध्येत् । परवादस्य सिद्धत्वात्भवतां धर्मो विनश्येत् । यो भावः कारणेन साध्यः न सोऽभाव इत्युच्यते ॥

अभावखण्डनवर्गः षट्चत्वारिंशदुत्तरशततमः ।


१४७ अभावस्थापनवर्गः

अभाववाद्याह- यद्यपि वचसा शून्यतां खण्डयसि । तथापि धर्मांः परमार्थतोऽभावाः । इन्द्रियैर्विषयाणामनुपलम्भात् । कस्मात् । न ह्यस्ति धर्माणामवयवी ग्राह्यः । अतः सर्वे धर्मा अग्राह्याः । अग्राह्यादभावा[त्मकाः] । अवयविन्यग्राह्येऽपि अवयवा ग्राह्या इति भवतो यन्मतम् । तन्न युक्तम् । नावयवेषु बुद्धिर्भवति । कस्मात् । स्थूलघटादीनां पदार्थानामेव ग्राह्यत्वात् । न चावयवा अवयविनं कुर्वन्ति । कस्मात् । अवयविनमुपादाय हि अवयवा उच्यन्ते । अवयविनोऽभावादवयवा अपि न सन्ति । द्रव्येषु गुणेषु असत्सु नावयवाः सन्ति । अतो न सन्त्यवयवाः । सूक्ष्मावयवान् पश्यतोऽवयवबुद्धिः सदा भवति न घटबुद्धिः । कस्मात् । अवयवान्नित्यं स्मरतो घटबुद्धिर्नैव भवेत् । यद्यवयवस्मरणपूर्वकं घटबुद्धिर्भवति । तदा घटबुद्धिर्विलम्ब्य भवेत् । न वस्तुतो विलम्ब्य (
३६८) भवति । अतो नावयवाः स्मर्यन्ते । घटं दृष्ट्वा यन्नावयवविकल्पबुद्धिर्भवति सैव घटबुद्धिः ।

सर्वे चावयवा अभावा[त्मकाः]ः । कस्मात् । सर्वेह्यवयवा अवयवशो भिद्यमाना अणुतां यान्ति । अणुशो भिद्यमाना अत्यन्ताभावतां प्रतियन्ति । सर्वेषां धर्माणां निष्ठा शून्यताबुद्धिजननमवश्यम् । अतोऽवयवाः परमार्थतोऽभावत्मकाः । अवयववादिनः सत्यद्वयभङ्गः स्यात् । कस्मात् । यो वदति नास्त्यवयवी केवलमवयवाः सन्तीति । तस्यातीतागामिदर्शनप्रहाणादीनि कर्माणि न स्युः । एवञ्च लोकसत्यं नास्ति । भवान् परमार्थं शून्यतां मन्यते । परमार्थे चाभावात्मका अवयवाः । अतो ज्ञायते अवयवमात्रवचनं न सत्यद्वयेऽवतारयति । सत्यद्वयेऽनवतारादभावः ।

यो धर्मोऽपनेयः सोऽभाबात्मकः । यथा अवयवानुपादाय अवयवी निराक्रियते । अवयवान्तराण्युपादाय पूर्वावयवा निराक्रियन्ते । अतोऽयमवयववादोऽभावात्मकः । रूपादीन्यपि अभावात्मकानि । कस्मात् । न हि चक्षुः सूक्ष्मं रूपं पश्यति । न च मनो गृह्णाति प्रत्युत्पन्नं रूपम् । अतो रूपमग्राह्यम् । चक्षुर्विज्ञानं न विकल्पयति इदं रूपमिति । मनोविज्ञानन्तु अतीते अनागते वर्तते न रूपे वर्तते । अतो नास्ति किञ्चिद्रूपविकल्पकं विकल्पकाभावाद्रूपमग्राह्यं भवति । नाद्यविज्ञानं रूपं विकल्पयति । तथा द्वितीयादिविज्ञानान्यपि । अतो नास्ति किञ्चिद्रूपविकल्पकम् ।

(पृ) चक्षुर्विज्ञानेन रूपे गृहीते ततो मनोविज्ञानमनुस्मरति । अतो न नास्ति विकल्पकमिति । (उ) चक्षुर्विज्ञानं रूपं दृष्ट्वा निरुद्धमेव । तत ऊर्ध्वं मनोविज्ञानमुत्पद्यते । मनोविज्ञानमिदं न रूपं पश्यति । अदृष्ट्वा कथमनुस्मरेत् । यद्यदृष्ट्वानुस्मरेत् । अन्धोऽपि रूपमनुस्मरेत् । न वस्तुतोऽनुस्मरति । अतो मनोविज्ञानं नानुस्मरति । (पृ) चक्षुर्विज्ञानान्मनोविज्ञानमुत्पद्यते । अतोऽनुस्मरति । (उ) मैवम् । कस्मात् । सर्वाणि चरमचित्तानि चक्षुर्विज्ञानमुपादाय समुत्पन्नानि अनुस्मरेयुः । नैव विस्मरेयुः । तस्मादुत्पन्नत्वात् । (
३६९) न वस्तुतो युज्यते । अतो ज्ञायते मनोविज्ञानमपि नानुस्मरति । यथाकाशानुस्मरणम्, रूपघटादिग्रहः । सर्वेऽपि पदार्थस्तुच्छा अभावात्मकाः मृषागृहीताः । अतः सर्वे पदार्था अभावात्मकाः ।

यदि वदसि चक्षुः पश्यतीति । किं रूपं प्राप्य पश्यति किं वाप्राप्य पश्यति । यदि प्राप्य [पश्यतीति] तदा न पश्यति । चक्षुर्नातीतलक्षणमितीदं पूर्वमेव प्रतिपादितम् । यद्यप्राप्य पश्यतीति । तदा सर्वस्थं रूपं पश्येत् । न वस्तुतः पश्यति । अतो ज्ञायते नाप्राप्य पश्यतीति । (पृ) रूपं ज्ञानगोचरगतं चक्षुः पश्यति । (उ) को नाम ज्ञानगोचरः । (पृ) यस्मिन् काले चक्षुः पश्यति । [स]ज्ञानगोचरः इत्युच्यते । (उ) यदि चक्षुरप्राप्तमपि ज्ञानगोचर इत्युच्यते सर्वस्थं रूपं ज्ञानगोचरः स्यात् । अतः प्राप्याप्राप्योभयथा न पश्यति । अतो ज्ञायते रूपमदृश्यमिति । यदि सति पूर्वमेव चक्षुषि रूपे च पश्चाच्चक्षुर्विज्ञानमुत्पद्यते । तदेदं चक्षुर्विज्ञानं निराश्रयं निष्प्रत्ययञ्च स्यात् । यद्येककाल[मुत्पद्यते] तदा न चक्षूरूपप्रत्ययं चक्षुर्विज्ञानमित्याख्यायते । ऐककालिकयोर्मिथो हेतुत्वाभावात् ।

किञ्च चक्षुश्चतुर्महाभूत[मयम्] । यदि चक्षुः पश्यति । श्रोत्रादीन्यपि पश्येयुः । चतुर्महाभूतसाम्यात् । एवं रूपमपि [पश्येत्] । चक्षुर्विज्ञानं स्यात्सायतनं निरायतनं वा । उभयथास्ति दोषः । तथा हि- यदि च चक्षुर्विज्ञानं चक्षुराश्रितं, तदा सायतनम् । यदि पदार्थो निरायतनः तदा आश्रित्य तिष्ठतीति न लभ्यते । यदि ब्रवीषि विज्ञानं चक्षुषोऽल्पभाग उत्पद्यते यदि वा व्याप्योत्पद्यते । यदि वोभयोश्चक्षुषोरेककालमुत्पद्यते । तदा सायतनं भवति । सायतनत्वे सावयवम् । एवं सति बहुभिर्विज्ञानैरेकं विज्ञानं सिध्यति । इत्ययं दोषः । बहूनां विज्ञानानामैककालिकत्वदोषश्चास्ति । एकैकविज्ञानावयवो न विजानाति अवयवी तु विजानाति । वस्तुतस्तु नास्त्यवयवी इत्ययं दोषः । यदि निरायतनं, तदा न चक्षुराश्रितं स्यात् ॥

अभावस्थापनवर्गः सप्तचत्वारिंशदुत्तरशततमः ।


(
३७०)
१४८ शब्दखण्डनवर्गः

अभाववाद्याह- एकत्वग्रह एव नास्ति । कस्मात् । चित्तं हि क्षणिकम् । शब्दोऽपि क्षणिकः । यथा वदन्ति पुरुष इति । अय [मेकत्व]वादो न श्राव्यः । कस्मात् । "पु" श्रवणमनु विज्ञानं न "रुं" शृणोति । "रुं" श्रुत्वा शृणोति षम् । इति नास्त्येकं विज्ञानमक्षरत्रयग्राहकम् । अतो नास्ति विज्ञानमेकत्ववादग्राहकम् । अतो ज्ञायते शब्दो न श्राव्य इति । विक्षिप्तचित्तः शब्दं शृणोति । समाहितचित्तस्तु न शृणोति । समाहितचित्तेन तत्त्वं ज्ञेयं भवति । अतः शब्दो न श्रवणीयः । शब्दोऽयं प्राप्य अप्राप्य वा उभयथापि न श्रवणीयः । उभयथाप्यश्रवणीयत्वान्नास्ति शब्दः ।

केचिदाहुः- श्रोत्रमाकाशस्वभावमिति । तम्य पदार्थाभावरूपत्वाताकाश इत्याख्या । अतो नास्ति श्रोत्रम् । श्रोत्राभावात्शब्दो नास्ति । शब्दकारणं नास्तीत्यतः शब्दो नास्ति । शब्दकारणं महाभूतसंश्लेषः । अयं संश्लेषधर्मो नोपलभ्यते । कस्मात् । ये धर्मा विभिन्नस्वभावाः, न ते संश्लिष्यन्ते । ये न विभिन्नस्वभावाः, कथं तेषां स्वतः संश्लेषः । एकत्र स्थितमपि क्षणिकम् । अतो न संश्लेषो लभ्यते ।

शब्दखण्डनवर्गोऽष्टचत्वारिंशदुत्तरशततमः ।


१४९ गन्धरसस्पर्शखण्डनवर्गः

न गन्धो ग्राह्यः । कस्मात् । न हि घ्राणविज्ञानं विकल्पयति । अयं चम्पकगन्धः इमेऽन्ये गन्धा इति । मनोविज्ञान[मपि] न गन्धं जिघ्रति । तस्मान्मनोविज्ञानमपि न विकल्पयति चम्पकगन्धमिमम् । (पृ) यद्यपि चमपकगन्धमिमं न विकल्पयति । किन्तु गन्धं गृह्णात्येव । (उ) मैवम् । यथा कश्चिच्चम्पकवृक्षमलब्ध्वा मोहाच्चम्पकबुद्धिमुत्पादयति । तथा गन्धमलब्ध्वा मोहाद्ग्रन्धबुद्धिमुत्पादयति । पूर्वोक्तवत्गन्धः प्राप्तो वा अप्राप्तो गृह्यत इत्युभयथास्ति दोषः । तस्मान्नास्ति गन्धः । तथा रसोऽपि स्पर्शोऽपि नास्ति । कस्मात् । सूक्ष्माद्यवयवेष्वेव स्पर्शज्ञानं नोत्पद्यत इति यथापूर्वं वक्तव्यम् । अतो नास्ति स्पर्शः ॥

गन्धरसस्पर्शखण्डनवर्ग एकोनपञ्चाशदुत्तरशततमः ।


(
३७१)
१५० मनोविज्ञानखण्डनवर्गः

मनोविज्ञानमपि धर्मान्न गृह्णाति । कस्मात् । मनोविज्ञानं हि न प्रत्युत्पन्नान् रूपरसगन्धस्पर्शान् गृह्णाति । [यत्] अतीतमनागतं तन्नास्तीति पूर्वमुक्तमेव । अतो मनोविज्ञानं न रूपादीन् गृह्णाति । (पृ) यदि मनोविज्ञानं रूपादीन् धर्मान्न जानाति । स्वात्मानं [वा] जानीयात् । (उ) न [कश्चित्] धर्मः स्वात्मानं जानाति । कस्मात् । न प्रत्युत्पन्ने स्वात्मवेदनं सम्भवति । तद्यथा असि[धारा] न स्वात्मानं छिनत्ति । अतीतानागतयोरसद्धर्मत्वात्नान्यच्चित्तमस्ति । अतो मनोविज्ञानं न खात्मानं विजानाति ।

(पृ) यदि कश्चित्परचित्तं जानाति । तदा तन्मनोविज्ञानं चैत्तधर्मं जानात्येव । (उ) यथा कस्यचित्चित्तं स्वात्मानमज्ञात्वापि चिन्ता भवति अहं चित्तवानिति । एवं परचित्तेऽपि । योऽनागतधर्मोऽभाव[रूपः] सोऽपि ज्ञानजनकः । परचित्तमप्येवमिति चेत्को दोषः । धर्मालम्बनं मन इति [मतं] बहुधा दुष्टम् । यथा मनः प्राप्यालम्बते विजानाति । [वा] अप्राप्यालम्बते । मनश्च न रूपादीननुस्मरेत् । एभिर्दोषैर्न मनोविज्ञानं धर्मान् विजानाति ॥

मनोविज्ञानखण्डनवर्गः पञ्चाशदुत्तरशततमः ।


१५१ हेतुफलखण्डनवर्गः

अभाववाद्याह- यद्यस्ति फलम् । हेतौ पूर्वं सन् वा गुण उत्पद्येत । पूर्वमसन्[वा] गुण उत्पद्येत । उभयथा चास्ति दोषः । यथा द्वयोर्हस्तयोः पूर्वमसन् शब्दो भवति । दधिहेतौ पूर्वमसत्दधि, दधि उत्पादयति । शकटहेतौ पूर्वमसमत्शकटं, शकटमुत्पादयति । अतो न हेतौ पूर्वं सन् गुणः फलमुत्पादयति ।

भवतो यदि मतं हेतौ पूर्वमसन् गुणः फलमुत्पादयतीति । तदा रूपरहितवायुसूक्ष्मरेणू रूपमुत्पादयेत् । तथा चेत्वायू रूपवान् स्यात् । वज्रादीनां गन्धवत्ता स्यात् । दृष्टे पश्यामः खलु शुक्लतन्तुः शुक्लपटं साधयति । कृष्णतन्तुः कृष्णपटं साधयति । यदि (
३७२) हेतौ पूर्वमसन् गुणः फलं साधयति । कस्मात्शुक्लतन्तुः शुक्ल[पट]मेव साधयति न कृष्णम् । अतो न हेतौ पूर्वमसन् गुणः फलमुत्पादयति ।

इमौ द्वावपि दृष्टान्तौ दुष्टौ । अतो नास्ति फलम् । यदि हेतौ सत्कार्यम्, तदा नोत्पद्येत । कथं सदुत्पद्येत । यद्यसत् । तदपि नोत्पद्येत । असत्कथमुत्पद्येत । (पृ) दृष्टे पश्यामः खलु घटं कियमाणं कथं नास्ति घट इति । (उ) घटोऽयं पूर्वमकृतः कथं करणीयः । तस्यैवाभावात् । यदि पूर्वं कृत एव । कथं करणीयः । तस्य सत्त्वात् । (पृ) क्रियमाणः क्रियत इत्युच्यते । (उ) नास्ति क्रियमाणम् । कस्मात् । यः कृतभागः स कृतकोटौ पतति । योऽकृतभागः [सो]ऽकृतकोटौ पतति । अतो नास्ति क्रियमाणम् । यदि घटः क्रियावान्, अतीतोऽनागतः प्रत्युत्पन्नो वा स्यात् । अतीतो न क्रियावान् । निरुद्धत्वात् । अनागतो न क्रियावानसत्त्वात् । प्रत्युत्पन्नोऽपि न क्रियावान्, भूयमानत्वात् ।

कारकमुपादाय क्रियावतः कर्म सिध्यति । तत्र कारक एव वस्तुतो नोपलभ्यते । तथा हि । शीर्षाद्यवयवेषु क्रियावृत्त्यभावान्नास्ति कारकः । कारकाभावात्क्रियावृत्तिरपि नास्ति । हेतुः कार्यस्य पूर्वं वा, किं वा पश्चात्, किं वा समकालम्, सर्वथा न युज्यते । कस्मात् । यदि पूर्वं हेतुः पश्चात्कार्यम् । हेतौ निरुद्धे केन फलमुत्पद्येत यथा अविद्यमानः पिता कथं पुत्रमुत्पादयेत् । यदि पश्चाद्धेतुः पूर्वं फलम् । हेतुः स्वयमनुत्पन्नः कथं फलमुत्पादयेत् । यथा अनुत्पन्नः पिता कः पुत्रमुत्पादयति । यदि हेतुः फलञ्च समकालं न तर्हि अयं न्यायः । यथा द्वे शृङ्गे युगपदुद्भूते नोच्येते वामदक्षिणेऽन्योन्यहेतुके । सिद्धान्ता इमे त्रयोऽपि अयुक्ताः । अतो नास्ति फलम् ।

हेतुफले इमे यद्येकं, यदि वा नाना । उभयथास्ति दोषः । कस्मात् । यदि नाना । तदा तन्तून् विहाय पटः स्यात् । यद्येकम् । तन्तुपटयोर्विभागो न स्यात् । लौकिका न पश्यन्ति कञ्चन धर्मं हेतुफलयोरपृथग्भावरूपम् ।

यद्यस्ति फलम् । स्यात्स्वकृतं परकृतमुभयकृतमहेतुकृतं वा । सर्वमिदमयुक्तम् । कस्मात् । न कश्चिद्धर्मः स्वात्मानं करोति । यद्यस्ति स्वरूपतः । किं स्वात्मक्रियया । यदि नास्ति स्वरूपतः । कः करोति स्वात्मक्रियाम् । न च पश्चामः कञ्चन धर्मं स्वात्मानं (
३७३) कुर्वन्तम् । अतो नास्ति स्वकृतन् । परकृतमयुक्तम् । कस्मात् । चक्षूरूपयोर्विज्ञानोत्पत्तौ वृत्त्यभावात्न परकृतम् । कर्तृत्वसंज्ञाभावात्सर्वे धर्मा अकर्तृकाः । यथा "बीजस्य नैवं भवति- अहमङ्कुरमभिनिर्वर्तयामीति । चक्षुषो रूपस्य नैवं भवति- आवां सह विज्ञानमभिनिर्वर्तयाव इति । अतः सर्वधर्माणां नास्ति कर्तृत्वसंज्ञा । उभयकृतमप्ययुक्तम् । स्वकृतपरकृतदोषसत्त्वात् । अहेतुकृतमपि न युक्तम् । हेतावासति फलमपि नास्तीत्युच्यते । यदि चतुर्धापि नास्ति । कथमस्ति फलम् । यद्यस्ति, उच्येत ।

फलमिदं यदि क्रियाचित्तपूर्वकं स्यात्, यदि वाक्रियाचित्तपूर्वकं स्यात् । यदि क्रियाचित्तपुर्वकम् । गर्भेऽपि बालानां चक्षुरादिकायावयवेषु कः सचित्तत्वं करोति । ईश्वरादयोऽपि न कुर्वन्ति । पूर्वकृतस्य कर्मणोऽपि नास्ति क्रियाचित्तम् । कर्मेदमतीतगतम् । कथं क्रियाचित्तं भवेत् । अतो न कर्मणोऽप्यस्ति चित्तम् । यद्यक्रियाचित्तपूर्वकमिति । कथं परस्य दुःखकृत्दुःखं लभते । परस्य सुखकृत्सुखं लभते । दृष्टे च कर्मकरणे चित्ते विकल्पयति- एवं कर्तव्यं, एवं न कर्तव्यमिति । यदि नास्ति क्रियाचित्तम् । कथमयं विभागो भवेत् । अतः सचित्तपूर्वकमचित्तपूर्वकं सर्वमयुक्तम् । एवमादयः सर्वेऽपीन्द्रियविषया नोपलभ्यन्ते । अतो नास्ति धर्मः ।

हेतुफलखण्डनवर्ग एकपञ्चाशदुत्तरशततमः ।


१५२ लोकसत्यवर्गः

उत्तरमुच्यते । यत्भवान्नानाकारणैर्ब्रवीति- सर्वे धर्माः शून्या इति । तन्मतमयुक्तम् । कस्मात् । पूर्वमेवोक्तं मया- यदि सर्वमभाव[रूप]म् । शास्त्रमिदमप्यभावरूपम् । नापि सर्वधर्मेषु इत्यादिशून्यतादूषणमप्रतिवदन्नपि शून्यतां स्थापयसि । अतो न सर्वधर्मा अभावात्मकाः । यद्भवतोक्तं- नास्तीन्द्रियं, नास्तिप्रत्यय इत्यादि । न तदस्माभिः प्रतिपादितम् । कस्मात् । भगवान् सूत्रे स्वयमिदं न्यषेधीत् । यदुत पञ्च वस्तून्यचिन्त्यानि (
३७४) लोकवस्तु, सत्त्ववस्तु, कर्मप्रत्ययतावस्तु, ध्याननिष्ठावस्तु, तथागतवस्तु इति । इदमसर्वज्ञः पुरुषोऽभ्यूह्य न नितीरयितुं शक्नोति । तथागताः केवलं धर्मविवेचनज्ञानसमर्थाः । श्रावकाः प्रत्येकबुद्धाश्च निर्वाणज्ञानमात्रगतिंगता धर्माणां विवेचनज्ञानस्येकदेशलाभिनः । तथागताः परं सर्वधर्माणां सर्वाकारं प्रकृतितो नैस्स्वाभाव्यं विशेषसामान्यलक्षणानि सर्वाणि प्रतिविध्यन्ति । यथा पुरुषालयादयः पदार्थाः सुविनाशा दुष्कल्पाः । एवं शून्यताज्ञानं सुलभम् । धर्माणां प्रविचयज्ञानं दुरुत्पादम् ।

(पृ) यथा भगवता बोधिमण्डगतेन धर्माणां लक्षणं प्रतिलब्धम् । यथा च भगवतोपदिष्टम् । तत्तथैव भविष्यति । (उ) भगवान् सर्वधर्मानुपदिशन्नपि न सर्वाकारमुपदिशति । विमुक्त्यर्थत्वाभावात् । तद्यथा भगवानुपदिशति सर्वधर्माः प्रतीत्य समुत्पन्ना इति । नोपदिशत्येकैकशः किंप्रत्यय इति ।

दुःखनाशनप्रयोजनमात्रमपेक्षितमिति[तत्]- उपदिशति । विचित्राङ्कादीनि रूपाणि नृत्तगीतादयो नादा गन्धरसस्पर्शा अप्रमाणविशेषा नोपदेश्याः । उपदेशेऽपि नास्ति महद्धितमित्यत ईदृशं वस्तु नोपदिशति भगवान् । न [तानि] न सन्तीति वक्तुं शक्यते । यथा कश्चित्चित्राङ्कनादिधर्मविकल्पमज्ञात्वा वदति तानि न सन्तीति । तथा भवानपि यत्किमप्यसाधयित्वा वदति नास्तीदं- वस्तु इति । ज्ञातुस्तु अस्ति । अज्ञातुः पुनर्नास्ति । यथा जात्यन्धो वदति नास्ति कृष्णमवदातं वा, मयादृष्टत्वात् । न चादृष्टत्वाद्रूपाणि न सन्तीति सम्भवति । यद्येवम्, प्रतीत्यसिद्धत्वान्न सन्ति सर्वे धर्मा इति वक्तुं पार्यते ।

तथागताः सर्वज्ञा इति श्रद्धेयमस्माभिः । तथागतस्तु आह- सन्ति पञ्च स्कन्धा इति । अतो ज्ञायते रूपादयः सर्वधर्माः सन्ति यथा घटादयः संवृतितः सन्तीति ॥

लोकसत्यवर्गो द्विपञ्चाशदुत्तरशततमः ।


(
३७५)
१५३ धर्मचित्तनिरोधवर्गः

(पृ) पूर्वमुक्तं- भवता त्रिविधचित्तनिरोधो निरोधसत्यमिति । हेतुप्रत्ययाख्य प्रज्ञप्ति [चित्त]निरोधो ज्ञात एव । इदानीं वक्तव्यं किं धर्मचित्तं, कथं तस्य निरोध इति । (उ) सन्ति वस्तुतः पञ्चस्कन्धा इति चित्तं धर्मचित्तमित्युच्यते । पञ्चस्कन्धान् शून्यान् दृष्ट्वा सम्यग्भावयतो धर्मचित्तं निरुध्यते । (पृ) योगी पश्यति पञ्चस्कन्धान् शून्यान् यदुत पञ्चस्कन्धेषु नास्ति नित्यधर्मः स्थिरधर्मोऽविनाशधर्मोऽविपरिणामधर्म आत्मामीयधर्म इति । ते शून्या इत्युच्यन्ते । न तु स्कन्धानेव न पश्यतीति । (उ) योगावचरो नैव पश्यति पञ्चस्कन्धान् । कस्मात् । योगावचरः संस्कृतालम्बनचित्तं प्रहाय असंस्कृतालम्बनचित्तं प्रतिलभते । अतो योगावचरः पञ्चस्कन्धान्न पश्यति, स्कन्धनिरोधमात्रं पश्यति । पञ्चस्कन्धानां दर्शने न शून्या इत्युच्यन्ते । स्कन्धानामेवाशून्यत्वात् । एवं शून्यताज्ञानन्तु विकलं स्यात् ।

(पृ) योगावचरो रूपं नैरात्म्यतः शून्यं पश्यति । यथोक्तं सूत्रे- योगावचर इदं रूपं पश्यति यावदिदं विज्ञानं शून्यं षश्यति इति । न तु रूपादयः पञ्चस्कन्धा न सन्तीति ज्ञातव्यम् । (उ) अस्तीदं वचनं, न तु व्यवदाना[र्थक]म् । यथोक्तं धर्ममुद्रासूत्रे- योगावचरः पश्यति रूपादीन् धर्माननित्यलक्षणान् विक्षेपलक्षणान् विनाशलक्षणान्मायालक्षणान्निर्वेदलक्षणानिति । इदं शून्याख्यमपि न व्यवदानात्मकम् । पुरुषोऽयं [य]दन्ते पञ्चस्कन्धानां निरोधं पश्यति । तद्दर्शनं तावद्वयवदाना[त्मकम्] अतो ज्ञायते पञ्चस्कन्धानां निरोधं पश्यतीति ।

(पृ) संस्कृतालम्बनज्ञानेन कस्मान्न व्यवदानं लभते । (उ) योगावचरस्य पञ्चस्कन्धसंज्ञाप्रवृत्तस्य कदाचित्प्रज्ञप्तिचित्तं पुनर्भवेत् । अतः संस्कृतालम्बनचित्तेन न व्यवदानं लभते । पञ्चस्कन्धानां निरोधं साक्षात्कुर्वतस्तु न तत्पुनरभिमुखीभबति । प्रज्ञप्तिकारणनिरोधस्य (
३७६) प्रसाधितत्वात्प्रज्ञप्तिसंज्ञा नानुवर्तते । तद्यथा कश्चन वृक्षः क्रकचकृत्तो भस्मसात्कृतः प्रक्षीणः । न [तत्र] वृक्षसंज्ञा प्रहीणा पुनरनुवर्तते । तथा इदमपि । भगवान् राधमाह- सत्त्वं तथा विभिद, विधम, यथा नोपतिष्ठति इति । किञ्चाहैकं सूत्रम- रूपं राध तथा विभिद, विधम यथा नोपतिष्ठति इति । अतो ज्ञायते यः सत्त्वपरिभेदः इयं प्रज्ञप्तिशून्यता । यो रूपपरिभेदः इयं धर्मशून्यतेति ।

भावना च द्विविधा- शून्य[ता]भावना नैरात्म्यभावना इति । शून्यताभावना च यत्प्रज्ञप्तिसत्त्वादर्शनम् । यथा कश्चित्जलं नास्तीति घट शून्यं पश्यति । तथा पञ्चस्कन्धेषु पुद्गलो नास्तीति [तान्] शून्यान् पश्यति । यत्धर्मान्न पश्यति । इदं नैरात्म्यमित्युच्यते । उक्तञ्च सूत्रे- नैरात्म्यज्ञानलाभी सम्यग्विमुच्यते इति । अतो ज्ञायते रूपस्वभावनिरोधो वेदनासंज्ञासंस्कारविज्ञानस्वभावनिरोधो नैरात्म्यमित्युच्यते । नैःस्वाभाव्यमेव नैरात्म्यम् । (पृ) यदि नैःस्वाभाव्यं नैरात्म्यमित्युच्यत इति । किमिदानीं न सन्ति वस्तुतः पञ्चस्कन्धाः । (उ) न सन्ति वस्तुतः । सन्ति तु संवृतितः । कस्मात् । भगवानाह- संस्काराः संवृतितः सन्ति मायावत्निर्मितवत् । न तु परमार्थतः । परमार्थतः शून्यमिति वचनम्- अयमर्थसत्यतः शून्यो न संवृतिसत्यत इति । परमार्थश्च यदुत रूपं शून्यमकिञ्चनं यावद्विज्ञानं शून्यमकिञ्चनम् । अतो यद्रूपादीनां धर्माणां शून्यतादर्शनं तत्परमार्थशून्यतादर्शनमित्युच्यते ।

(पृ) यदि पञ्च स्कन्धाः संवृतिसत्यतः सन्ति । कस्मादुच्यन्ते रूपादयो धर्माः परमार्थसत्या इति । (उ) सत्त्वानां कृत उच्यन्ते । सन्ति केचित्पञ्चस्कन्धेषु समुत्पन्नपरमार्थसंज्ञाः । तदर्थमुच्यन्ते पञ्च स्कन्धाः परमार्थतः शून्या इति । (पृ) किं नु खलु सूत्रे नोक्तमस्ति कर्म अस्ति फलम्, कारकस्तु नोपलभ्यते इति । (उ) अयं हेतुः धर्मणां कारकाख्यो नोपलभ्यत इतीदं प्रज्ञप्तिशून्यताभिधानम् । यथोक्तं सूत्रे- धर्माः प्रज्ञप्तिसंज्ञामात्रम् । प्रज्ञप्तिसंज्ञा च यदुत अविद्याप्रत्ययाः संस्कारा यावज्जरामरणदुःखसमुदयनिरोधो भवति इति । अस्माद्वचनात्ज्ञायते पञ्चस्कन्धा अपि परमार्थतो न सन्तीति । (
३७७) महाशून्यतासूत्रेऽप्युक्तम्- य आह इदं जरामरणं, तस्य जरामरणमिति । य आह- स एव जीवः तदेव शरीरम्, अन्यो जीवोऽन्यत्शरीरमिति । इदमेकार्थकम्, व्यञ्जनमेव नाना । येषामेषा दृष्टिः न ते मच्छ्रावका न ब्रह्मचारिण इति । यत्तस्य जरामरणं प्रतिषिध्यते तत्प्रज्ञप्तिखण्डनम् । यदिदं जरामरणं प्रतिषिध्यते । तत्पञ्चस्कन्धखण्डनम् । किञ्चाह- जातिप्रत्ययं जरामरणं मध्यमा प्रतिपदित्युच्यते । नास्ति जरामरणं परमार्थत इत्युक्तमिति ज्ञातव्यम् । संवृतित उच्यते जातिप्रत्ययं जरामरणमिति । यथा घटसंज्ञात्यये नास्ति घटः परमार्थतः । एवं रूपादिधर्माणामत्यये नास्ति रूपं परमार्थतः । उक्तञ्च सूत्रे- यो धर्मो माया स मृषा । यो धर्मोऽमाया, स एव परमार्थः इति । सर्वे संस्कृतधर्मा विपरिणामित्वात्माया इत्युच्यन्ते । मायात्वादभूताः । अभूतत्वान्न परमार्थसन्तः । यथाह गाथा-

अभूतबद्धो लोकोऽयं सुनिश्चितवत्प्रभासते ।
असत्दृष्टं सदाभासमसद्वै परया धिया ॥ इति ।

[अतो] ज्ञातव्यं स्कन्धा अपि शून्या इति ।

निरोधसत्यदर्शनं मार्गलाभ इत्युच्यते । अतो ज्ञायते निरोधः परमार्थसन्, न स्कन्धा इति । यदि स्कन्धाः परमार्थसन्तः, योगावचरोऽपि दृष्ट्वा मार्गलाभी स्यात् । वस्तुतस्तु न तथा । अतो ज्ञायते पञ्चस्कन्धा न परमार्थसन्त इति । स्कन्धनिरोधश्च सत्यम् । अतो ज्ञायते स्कन्धा न सत्यमिति । न सम्भवति स्कन्धाः सत्यं स्कन्धाभावोऽपि सत्यमिति वक्तुम् । दृश्यस्य सर्वस्य मोहहेतुकत्वात् । यथा न कश्चिदवञ्चितलोचनो मायां पश्यति । तथा योऽमुग्धः न स पश्यति स्कन्धान् । अतः स्कन्धा न परमार्थसन्तः । उक्तञ्च सूत्रे- यत्रास्मीति तत्रेञ्जितम् । स्कन्धेषु चास्ति अस्मीति । यथाहानन्दः- धर्मानुपादाय अस्मीति सिध्यति यदुत रूपस्कन्धं यावद्विज्ञानस्कन्धमुपादायेति । स्थविरा भिक्षवः क्षेमकमाहुः- किमस्मीति वदसि । क्षेमकः प्रत्याह- न खल्वायुष्मन्तो रूपमस्मीति वदामि । नाप्यन्यत्ररूपादस्मीति वदामि । एवं यावद्विज्ञानमपि । अपि च मे आयुष्मन्तः पञ्चसूपादानस्कन्धेषु (
३७८) अस्मीति अधिगतम् । [अयमहमस्मीति न समनुपश्यामि] । इति । अयं सूत्राशयः- शैक्षजनाः कदाचित्स्मृतिविक्षेपादस्मिमानमुत्पादयन्ति । समाहितस्मृतिकस्य पञ्चसूपादानस्कन्धेषु अस्मिमानं निरुद्धमेव । पुष्पवत् । न मूलकाण्डशाखापत्राण्येव पुष्पम् । नाप्यन्यत्र तेभ्य पुष्पम् । एवमेव न रूपा दीनि अस्मीति [वदामि] । नाप्यन्यत्र रूपादिभ्यः अस्मीति [वदामि] । एवमस्मिनिरोधप्रत्ययमस्मिमानं न प्रवर्तते । अतो ज्ञायते पञ्चोपादानस्कन्धा अपि शून्या इति ।

योगावचरः सर्वनिमित्तानि निरुध्यानिमित्तं साक्षात्कुर्यात् । यदि वस्तुसत्निमित्तम्, किमर्थं नानुस्मरति । न तीर्थिकानामिव रूपप्रहाणकाले ज्ञायते वस्तुसत्रूपं, परन्तु नानुस्मर्यत इति । योगी अवश्यं रूपादीनां स्कन्धानां निरोधं पश्यति निरोधदर्शनातनिमित्तेऽवतरति । अतो ज्ञायते रूपादयो न परमार्थसन्त इति । यत्र सन्ति पञ्चस्कन्धाः तत्रास्मीति बुद्धिर्भवति । पञ्चस्कन्धा न सन्तीत्यतोऽस्मीति बुद्धिर्निरुध्यते । अतः स्कन्धाः सर्वे शुन्याः । फेनसूत्रे भगवानाह- यदि पुरुषः फेनपिण्डं पश्येत्योनिश उपपरीक्षेत । स[तत्]तुच्छकञ्चैव जानीयात् । एवमेव भिक्षुर्यदि रूपस्कन्धं सम्यगुपपरीक्षते । स[तं] रिक्तकञ्चैव जानाति, तुच्छकञ्चैव[जानाति], असारकञ्चैव[जानति], विक्षेपलक्षणञ्चैव जानाति । वेदनामुपपरीक्षते यथा बुद्धुदम्, संज्ञा [मुपपरीक्षते]यथा मरीचिकाम्, संस्कारा[नुपपरीक्षते] यथा कदलीम्, विज्ञान[मुपपरीक्षते] यथा मायाम् । तत्र पञ्च दृष्टान्ताः शून्यार्थनिरूपणाः । कस्मात् । पश्यामः खलु चक्षुषा फेनमपचीयमानमभावतां याति । तथा बुद्बुदादीन्यपि । अतो ज्ञायते स्कन्धा न परमार्थसन्त इति । ये जिनपुत्राः संसारात्परमनिर्विण्णाः । [ते]धर्माणां प्रकृतितोऽनुत्पादमाकिञ्चन्यञ्च पश्यन्ति । अतो येऽनित्यं (
३७९) पश्यन्ति । [तेषां] विक्षेपविनाशदुःखलक्षणमेव भवति । ये निःस्वभावं पश्यन्ति, अन्यलक्षणाभावात्ते दुःखचर्यां परिपूरयन्ति । एतत्त्रिविधदुःखपरिपूरणं विमुक्तिप्रापकमित्युच्यते । [अतः] सर्वधर्माः शून्या इति ज्ञातव्यम् ।

शून्यता च विमोक्षमुखम् । शून्यता चेयं न केवलं सत्त्वशून्यतात्मिका । धर्मशून्यता[त्मिका]पि चास्ति । यथोक्तम्- चक्षुरुत्पद्यमानं न कुतश्चिदागच्छति । निरुध्यमानं न क्वचिद्गच्छति । तदा प्रजानाति अतीतमनागतं चक्षुः शून्यमिति । प्रत्युत्पन्नं चक्षुरपि चतुर्महाभूतविकल्पितमित्यतः शून्यमिति । यथाह भगवान्- यच्चक्षुषि मांसपिण्डे खक्कटं खरगतं स पृथिवी [धातु]ः इत्यादि । य इमां शून्यतां प्रतिलभते स वदति नास्ति यत्किञ्चिदिति । किञ्चाह- सर्वसंस्काराः प्रहीयन्त इति प्रहाणस्वभावाः । विमुच्यन्त इति विमुक्तिखभावाः । निरुध्यन्त इति निरोधस्वभावाः इति । अतो ज्ञायते सर्वे संस्कारा निरुद्धा भवन्तीति । यदि वस्तुसन्तः संस्काराः तदा न स्युः सम्यक्प्रहाणविमुक्तिनिरोधाः । निरोधश्चाभाव इत्युच्यते । अतो द्रष्टव्यं परमार्थतः संस्काराः सर्वेऽभावात्मकाः संवृतितस्तु सन्ति संस्कारा इति ॥


धर्मचित्तनिरोधवर्गस्त्रिपञ्चाशदुत्तरशततमः ।

१५४ निरोधवर्गः

यन्निर्वाणालम्बनं तत्शून्यचित्तमित्युच्यते । (पृ) निर्वाणमसद्धर्मः । चित्तं किमालम्बते । (उ) चित्तमिदं यत्किञ्चताभावमालम्बते । इदं पूर्वमेव प्रतिपादितम् । निर्वाणज्ञानत्वात् । (पृ) शून्यचित्तमिदं कुत्र निरुध्यते । (उ) स्थानद्वये [निरुध्यते] (१) अचित्तकसमाधिमुपसम्पन्नस्य (२) अनुपधिशेषनिर्वाणं प्रविष्ठस्य सन्तानसमुच्छेदे वा निरुध्यते । कस्मात् । हेतुप्रत्ययनिरोधात् । अचित्तकसमाधावालम्बननिरोधात्[तत्] निरुध्यते । सन्ताने समुच्छिद्यमाने पुनः कर्मक्षयात्[तत्] निरुध्यते ।

(
३८०)
शास्त्रमाह- एतानि त्रीणि चित्तानि निरोधयतो योगावचरस्य कर्मक्लेशा नैव पुनः समुदाचरन्ति (पृ) कस्मात्न समुदाचरन्ति । (उ) पुरुषोऽयं नैरात्म्यसम्पन्न इत्यतः कर्मक्लेशा निरुध्यन्ते । यथा प्रदीपो धर्मश्च सति निश्रये वर्तते । असति निश्रये न वर्तते । एवमात्मचित्ते निश्रये सति कर्मक्लेशानां समुदयः । असति तु न समुदयः । अनास्रवा सम्यग्दृष्टिः सर्वाणि निमित्तानि तथा प्रदहति यथा न किञ्चिदवशिष्यते । यथा कल्पाग्निः पृथिव्यादिन्निःशेषं दहति । निमित्ताभावात्कर्मक्लेशानां न पुनः समुदयो भवति । अस्मिचित्तकस्य तु कर्मक्लेशाः समुद्यन्ति । अर्हतः शून्यताज्ञानगतिंगतस्य अस्मिमानरहितस्य न पुनः समुद्यन्ति ।

अस्य नूत्नकर्मानुपचयेऽपि प्राक्तनकर्महेतुना कस्मान्नोपपत्तिर्भवति । (उ) सम्यक्- प्रज्ञया तत्कर्मविनाशान्न विपाकभाग्भवति । यथा दग्धं बीजं न पुनः प्ररोहति । असति च तृष्णाचित्ते न कर्माणि पच्यन्ते । यथा अनभिष्यन्दितायां भूमौ बीजं न प्ररोहति । योगावचरस्यास्य सर्वविज्ञानस्थितिषु सर्वनिमित्तनिरोधे विज्ञानं निराश्रयं भवति । अतो नास्त्युपपत्त्यायतनम् । यथा बीजमनाश्रयं नोत्पद्यते । कर्मक्लेशपौष्कल्यात्कायमुपादत्ते । अपौष्कल्ये तु निरुध्यते ।

स क्लेशाभावात्विकलहेतुप्रत्ययः सत्स्वपि कर्मसु नोपपत्तिं वेदयते । सत्त्वाः क्लेशहेतोर्गतिषु कायं वेदयन्ते । कायं वेदयत इत्यतः तस्य कर्माणि विपाकं प्रयच्छन्ति । असति क्लेशे कायो न वेद्यते । कायवेद्यभावात्कर्माणि कस्य विपाकं प्रयच्छन्ति । यथा अधर्मेण प्रबलमधितिष्ठति उत्तमर्णो नावकाशं लभते । तथा योगावचरोऽपि । संसारेऽवर्तमानस्य सन्त्यपि कर्माणि न विपाकं प्रयच्छन्ति । यथा बद्धं पुरुषमन्ये जना यथेष्टं निन्दन्ति । एवं क्लेशबद्धानां सत्त्वानां कर्मतारतम्यवशात्[क्लेशाः] विपाकं प्रयच्छन्ति । प्रतिलब्धविमोक्षे तु नावकाशं लभन्ते ।

स्वीयं कर्म च विपाकं प्रयच्छति । शून्यचर्याविहारित्वादस्य पुरुषस्य धर्मेषु स्वलक्षण[संज्ञा] नास्तीत्यतः कर्माणि न विपाकं प्रयच्छन्ति । यथा दत्तीकृतस्य पुत्रस्य दायभागो नास्ति । तथेदमपि । क्लेशबलेन च कर्माणि प्रवर्तन्ते । क्लेशवेगे क्षीणे तु न तानि प्रवर्तन्ते । यथा चक्रं गतिस्थमपि वेगक्षयान्न पुनः प्रवर्तते । क्लेशबले च कर्माणि (
३८१) विकारयन्ति । यथा सुतवत्सलाया मातुः रक्तं स्तन्यं परिणमते । निरुद्धवात्सल्यचित्तायास्तु न पुनः परिणमते । एवं क्लेशबलात्कर्म विपाकं प्रयच्छति । [क्लेश]विरहे तु न प्रयच्छति । अयञ्च पुरुषः शीलसमाधिप्रज्ञादिगुणैर्भावितकायः । तत्प्रभावमाहात्म्यात्कर्माणि नावकाशं लभन्ते । अतः सदपि प्राक्तनं कर्म न विपाकं प्रयच्छति । एवमस्य प्राक्तनं कर्म प्रत्युत्पन्ने किञ्चि[द्विपाक]मर्पयति । नूत्नं तु कर्म न करोति । यथाग्निरिन्धनानां भस्मीभावे शाम्यति । एवमयं पुरुषोऽपि वेदनीयाभावान्निरुध्यते । [इति] त्रिविधचित्तानां निरोधात्सर्वदुःखेभ्योऽत्यन्तं विमुच्यते । अतो विद्वान् त्रिविधचित्तानि निरुन्ध्यात् ॥

निरोधवर्गश्चतुःपञ्चाशदुत्तरशततमः ।

[निरोधसत्यस्कन्धः समाप्तः ।]


(
३८२)
अथ मार्गसत्यस्कन्धः

१५५ मार्गसत्यस्कन्धे समाध्यधिकारे समाधिहेतुवर्गः

शास्त्रमाह- इदानीं मार्गसत्यं विचार्यते । मार्गसत्यम्- आर्योऽष्टाङ्गिको मार्गः सम्यक्दृष्टिर्यावत्सम्यक्समाधिः । आर्योऽष्टाङ्गिको मार्गः संक्षिप्य द्विविधः (१) समाधिः परिकरश्च (२) ज्ञानमिति ।

इदानीं समाधिर्विचारयितव्यः । (पृ) किंलक्षणा समाधिः । (उ) चित्तस्यैकत्रावस्थानं समाधिलक्षणम् । (पृ) कथं चित्तमेकत्रावतिष्ठते । (उ) बहुलीकृतभावनया तत्रावतिष्ठते । यदि बहुवारं न भावयति तदा क्षिप्रमेव विक्षिप्यते । (पृ) कथं भावयितव्यम् । (उ) यथासुखं भावयितव्यम् । (पृ) कथं सुखयति । (उ) कायचित्तयोर्दौष्ठल्यं दुःखम् । प्रश्रब्धिधर्मेण कायचित्तयोर्दौष्ठल्येऽपनीते सुखं भवति । (पृ) कथं प्रश्रब्धिर्भवति । (उ) प्रीतिप्रत्ययं कायचित्ते दान्ते भवतः । (पृ) कथं प्रीतिर्भवति । (उ) त्रिरत्नस्मरणधर्मश्रवणादिना चित्तप्रामोद्यात्भवति । (पृ) कथं चित्तप्रामोद्यं भवति । (उ) परिशुद्धशीलधारणात्चित्तस्यौकौकृत्ये भवति ।

(पृ) उक्तः समाधिहेतुः । इदानीं कस्य समाधिर्हेतुः । (उ) अयं यथाभूतज्ञानस्य हेतुः । यथाभूतज्ञानं शून्यताज्ञानम् । यथोक्तं योगावचरः समाहितचित्तो विशुद्धचित्तो विनीवरणचित्तश्चित्तरथोऽचलचित्तो यथाभूतं प्रजानाति दुःखमार्यसत्यं दुःखसमुदयं दुखनिरोधं दुःखनिरोधगामिमार्गमार्यसत्यमिति । अतो यथाभूतज्ञानलिप्सुना समाधि भावनायां वीर्यमारब्धव्यम् । विक्षिप्तचित्तस्य लौकिकसूत्रशिल्पादिहितमेव न भवति । किं पुनर्लोकोत्तरं हितम् । अतो ज्ञायते लौकिकं लोकोत्तरञ्च हितं समाहितचित्तेनैव लभ्यते । सर्वञ्च सत्कुशलं सम्यक्ज्ञानाधीनम् । सर्वमसदकुशलं मिथ्याज्ञानाधीनम् । यथोक्तं सूत्रे अविद्या भिक्षवः पूर्वङ्गमाकुशलानां धर्माणां समापत्तये । अन्वगेवाह्रीक्यमनपत्राप्यम् । (
३८३) विद्या भिक्षवः पूर्वङ्गमा कुशलानां धर्माणां समापत्तये अन्वगेव ह्रीः अपत्राप्यम् । इति । समाधिस्तु सम्यग्ज्ञानस्य हेतुः । अतो ज्ञायते सर्वं सत्कुशलं समाधिमुपादाय भवतीति । तस्मात्भावनायां योगः कर्तव्यः ॥

समाधिहेतुवर्गः पञ्चपञ्चादुत्तरशततमः ।


१५६ समाधिलक्षणवर्गः

(पृ) उक्तं भवता चित्तस्यैकत्रावस्थानं समाधिलक्षणमिति तत्र समाधिश्चित्तञ्चैकमुत भिन्नम् । (उ) न ते भिन्ने । केचिदाहु- समाधिश्चित्तञ्च भिन्ने । समाधिलब्धचित्तमेकत्रावतिष्ठत इति । सदपीदं वचनमयुक्तार्थकम् । यदि चित्तं समाधिलब्धमालम्बनेऽवतिष्ठत इति । समाधिरियमपि आलम्बनेऽवतिष्ठमाना समाध्यन्तरमुपादायावतिष्ठेत । एवमनवस्था भवति । तत्तु न सम्भवति । यदीयं समाधिः प्रकृतितोऽवस्थानमिति । चित्तमपि न समाधिमुपादायावतिष्ठेत । अतः समाधेरन्यत्चित्तमिति यद्वचनं तदप्रकृष्टार्थकम् । वेदनासंज्ञादयश्चेतसिकधर्मा अप्यालम्बनेऽवतिष्ठन्ते । तेऽपि कं धर्ममुपादायावतिष्ठन्त इतीदं वक्तव्यम् । यदि वेदनासंज्ञादीनां प्रत्येकं समाधिरस्ति । तुल्यः पूर्वदोषः स्यात् । सूत्रे च चित्तस्यैकाग्रता समाधिलक्षणमिति केवलमुक्तम् । न तु चित्तं समाधिलब्धमवतिष्ठत इति । अतो ज्ञायते न युक्तमिति । चित्तस्यैकाग्रतेत्युक्ते नान्यधर्मः प्रकाशितो भवति । यथा पूर्वमुक्तम्- यत्र चित्तं सुखि भवति तस्मिन्नालम्बनेऽवतिष्ठत इति । चित्तस्य कोटिः समाधिर्न पृथग्भवतीति द्रष्टव्यम् । यथा चित्तं दीर्घकालावस्थानं समाधिरित्युच्यते ।

(पृ) समाधिरियं किं सास्रवा उतानास्रवा । (उ) समाधिर्द्विविधा सास्रवा अनास्रवा चेति । लौकिका ध्यानसमाधयः सास्रवाः । धर्मावस्थामुपसम्पन्नस्य समाधयोऽनास्रवा इत्युच्यन्ते । कस्मात् । कालोऽयं यथाभूतज्ञानदर्शनमित्युच्यते । तस्य कालस्य द्विविधं नाम समाधिरिति प्रज्ञा चेति । चित्तसमाधानात्समाधिः । यथाभूतप्रज्ञानात्(
३८४) प्रज्ञा । चित्तसमाधानं त्रिविधं कुशलमकुशलमव्याकृतमिति । तत्र कुशलेन चित्तसमाधानमेव समाधिः । नत्वकुशलेन अव्याकृतेन वा । सा समाधिर्द्विविधा एका विमुक्तिहेतुः अपरा अविमुक्तिहेतुः । विमुक्तिहेतुर्नाम नियतमूलकम् । केचिदाभिधर्मिका आहुः- अनास्रवसमाधिरेव नियतमूलमिति । स वादो न युक्तः । सास्रवानास्रवा यदि विमुक्तिं करोति । सा सर्वापि नियतमूलमित्युच्येत ।

समाधिरियं यथालम्बनावस्थानं त्रिधा विभज्यते । परीत्ता विपुला अप्रमाणा चेति । चित्तं किञ्चित्कालमवस्थाय यदि परीत्तमालम्बनं पश्यति[तदा] परीत्तेत्युच्यते । अन्ये द्वे अपि तथा । समयवशात्रिविधं लक्षणं भवति । प्रग्रहलक्षणं व्युत्थानलक्षणं त्यागलक्षणमिति । चित्तेऽबलीने व्युत्थानलक्षणमुपयोक्तव्यम् । चित्त उद्धत प्रग्रहलक्षणं प्रयोक्तव्यम् । दान्ते च चित्ते त्यागलक्षणं प्रयोक्तव्यम् । यथा सुवर्णकारः सुवर्णं द्रवयति तापयति सेचयति काले च स्थपयति । यदि सदा तापयति । तदा द्रवीभवति । सदा सेचने घनीभवति । सदा स्थपनेस्फूर्यते । एवं योगावचरस्य चित्तमपि । कम्पितस्याप्रग्रहे सदा विक्षेपः । अवलीनस्याव्युत्थाने कौसीद्यम् । दान्तस्यात्यागे पुनरदमनम् । यथा च दान्तोऽश्वः प्रवेगे प्रगृह्यते । दन्धः [कशया]ताड्यते । दान्तः परित्यज्यते । एवं योगावचरस्य दान्तं चित्तमपि ।

समाधेरस्यास्त्रिविध उपायः समाध्यवतारोपायः समाध्यवस्थानोपायः समाधिव्युत्थानोपाय इति । यथाधर्मं समाधावतरति । अयं समाध्यवतारोपायः । समाधिस्थितो न चलति । अयं समाध्यवस्थानोपायः । यथाधर्मं समाधेर्व्युत्तिष्ठते । अयं समाधिव्युत्थानोपायः । (पृ) कथमिमान् त्रिविधानुपायान् प्रतिलभते । (उ) योगावचरः स्वचित्तलक्षणं गृह्णनेवं प्रगृह्णनेवं व्युत्तिष्ठनेवं परित्यजन् समाधाववतरति । तथा निर्गच्छति च । (पृ) साक्षादेव समाधिग्रहे क उपयोग उपायस्य । (उ) त्रिविधोपायान् प्रवर्तमानस्य आदीनवो भवति । यथेप्सितञ्च न विन्दते । अवतरितुमिच्छन् व्युतिष्ठेत व्युत्थातुमिच्छन् पुनरवतरेत् । इतीदृशा दोषाः सन्ति । लाभं हानिं मन्येत । हानिञ्च लाभम् । यथा किञ्चिद्विशुद्धरूपं किञ्चित्प्रकाशरूपञ्च दृष्ट्वा वदेत- महाहितं लब्धमिति । अनित्यं दुःखं शून्यमित्याद्यनुस्मरतः चित्तं न सुखि भवति । प्रत्युत हानिकरमिति वदेत् ।

(
३८५)
(पृ) योगावचरस्य कस्मात्कदाचित्समाधिलाभोऽस्ति कदाचिन्नास्ति । (उ) समाधिलाभस्य चत्वारः प्रत्ययाः- (१) इहाध्वनि युनक्ति, (२) पूर्वकायप्रत्ययः (३) समाधिलक्षणं सुगृह्णाति, (४) श्रुत्वा समाधिधर्माननुवर्तयति इति । समाधिभावनाश्चतुर्विधाः- (१) सदाप्रयोगी नैकाग्रं चरति । (२) एकाग्रं चरति न सदाप्रयुक्तो भवति । (३) सदाप्रयुक्तश्च भवति एकाग्रञ्च चरति । (४) न सदा प्रयुक्तो नैकाग्रं चरति । किञ्च सन्ति चतुर्विधाः बहुकुशलः अल्पप्रज्ञः, अल्पकुशलो बहुप्रज्ञः, बहुकुशलो बहुप्रज्ञः, अल्पकुशलोऽल्पप्रज्ञ इति । एषुतृतीयो योगावचरोऽवश्यं लभते । चतुर्थो नावश्यं लभते । प्रथमद्वितीयौ यदि दान्तौ समौ तदा लभेते ॥

समाधिलक्षणवर्गः षट्पञ्चाशदुत्तरशततमः ।


१५७ त्रिसमाधिवर्गः

(पृ) उक्तं सूत्रे- त्रयः समाधयः एकाङ्गभावनसमाधिः, उभयाङ्गभावनसमाधिः अर्यः सम्यक्समाधिरिति । किमिदम् । (उ) एकाङ्गभावन इति यत्समाधिं भावयति न प्रज्ञाम् । प्रज्ञां वा भावयति न समाधिम् । उभयाङ्गभावन इति समाधिं भावयति प्रज्ञाञ्च भावयति । अयं लौकिकसमाधिरूष्मादिधर्मगतः । आर्यः सम्यक्समाधिरिति यद्धर्मावस्थामुपसम्पन्नो निरोधसत्यं साक्षात्करोति । स आर्यः सम्यगित्युच्यते । केनेदं ज्ञायते । यथा स्थविरो भिक्षुराह- योगावचरः समाधिना चित्तं भावयन् प्रज्ञामुपादाय क्लेशान् प्रतिषेधयति । प्रज्ञया चित्तं भावयन् समाधिमुपादाय क्लेशान् प्रतिषेधयति । समाधिना प्रज्ञया च चित्तं भावयन् स्वभावमुपादाय विमुच्यते । स्वभावो नाम यः प्रहाणस्वभावः वियोगस्वभावो निरोधस्वभावः । समाधिप्रज्ञयोर्युगपत्प्रपूरणादार्यः सम्यगित्युच्यते । यथा समाधिप्रज्ञाभ्यां विमुक्तिलब्धः सर्वशो विमुक्तैत्युच्यते ।

(पृ) केचिदाहुः- एकाङ्गभावन इति यदि समाधिमुपादाय रश्मिं पश्यति न रूपाणि । यदि(वा)रूपाणि पश्यति न रश्मिम् । उभयाङ्गभावन इति यत्रूपञ्च पश्यति रश्मिञ्च पश्यति । आर्यः सम्यक्समाधिरिति यत्शैक्षाशैक्षाभ्यां प्रतिलब्धः समाधिः (
३८६) इति । कथमिदम् । (उ) रश्मिमात्रं पश्यति न रूपमिति नास्ति किञ्चन सूत्रं सूत्रे केवलमुक्तम्- अहं प्रकृतितो रश्मिमपश्यं रूपमप्यपश्यम् । इदानीं रश्मिर्विनष्टः, रूपमपि न पश्यामीति । भवता च वक्तव्यं केन कारणेन रश्मिं पश्यति न रूपमित्यादि । इति नावोचः ।

(पृ) सूत्र उक्तं- त्रयः समाधयः शून्यतोऽनिमित्तोऽप्रणिहित इति । एषां त्रयाणां समाधीनां को भेदः । (उ) यदि योगावचरो न पश्यति सत्त्वं नापि धर्मम् । अयमुच्यते शून्यतः [समाधि]रिति । ईदृशे शून्ये[यदि]ग्राह्यनिमित्तं नास्ति । अयं शून्य एवानिमित्तः । शून्ये च नास्ति प्रणिहितं किञ्चन । अयं शून्यः[समाधि]रेवाप्रणिहित इत्युच्यते । अतस्त्रयोऽप्येकार्थकाः । (पृ) तथा चेत्कस्मात्त्रय इत्युच्यन्ते । (उ) शून्यं भावयेदिति शून्यतासमर्थ आह । शून्यं भावयन् हितं लभते यदुत निमित्तं न पश्यतीति । निमित्तादर्शनादनिमित्तः । अनिमित्तत्वादप्रणिहीतः । अप्रणिहितत्वान्न कायं वेदयते । कायावेदनात्सर्वदुःखान्मुच्यते । इत्यादि हितानि शून्यताभावनया लभते । अत उच्यते त्रय इति ।

केचिदाभिधर्मिका आहुः यः समाधिः शून्यानात्माकारेण भवति अयं शून्य इत्युच्यते । य आकारोऽनित्यतो दुःखतो हेतुतः समुदयतो जनकतः प्रत्ययतो मार्गतो यथावदाचरतो निर्याणतो भवति । अयमप्रणिहितः । य आकारो निरोधत उपशमतः प्रणीततो वियोगतो भवति । अयमनिमित्त इति । कथमिदम् । (उ) यदाह भवान्- अनित्यतो दुःखत आकारः अप्रणिहित इति । तदयुक्तम् । कस्मात् । भगवान् सदा वदति यदनित्यं तदेव दुःखम् । यत्दुखं तदेवानात्मकमिति । नैरात्म्यं प्रजानन्न पुनः प्रणिदधाति । अतो ज्ञायते शून्यत्वाच्च न प्रणिदधातीति । हेतुतः समुदयतो जनकतः प्रत्ययत आकार इति मतम् । तत्तथैव स्यात् । कस्मात् । उक्तं हि सूत्रे- यत्किञ्चित्समुदयलक्षणं सर्वं तन्निरोधलक्षणमिति पश्यन्निर्विद्यते इति । मार्गे च न भवेदप्रणिहित आकारः । कस्मात् । प्रणिधानं हि तृष्णाङ्गम् । यथासूत्रमुक्तं हीनं मध्यमं प्रणिधानं न मार्ग आसक्तिजनकम् । अतो न भवेदप्रणिहित आकारः । किञ्चोक्तं सूत्रे- पञ्चानां स्कन्धानां निरोधान्निरोध इत्युच्यते इति ज्ञातव्यम् । शून्य एव निरोध इत्युच्यते । न (
३८७) तत्रास्ति प्रणिधानम् । कायतृष्णा हि प्रणिधानं भवति । अतो ज्ञायते इमे त्रय एकार्थका इति न स्याद्भेद इति ।

(पृ) किञ्चोक्तं सूत्रे- त्रयः समाधयः शून्यशून्यः, अप्रणिताप्रणिहितः, अनिमित्तानिमित्त इति । कथमिदम् । (उ) शून्येन पञ्चस्कन्धान् शून्यान् दृष्ट्वा एकेन शून्येन पुनरिमं शून्यं शून्यीकरोति । अयं शून्यशून्य इत्युच्यते । अप्रणिहितेन पञ्चस्कन्धान्निर्विद्य अप्रणिहितेन पुनरिममप्रणिहितं निर्वेदयति । अयमप्रणिहिताप्रणिहितः । अनिमित्तेन पञ्चस्कन्धान् प्रशान्तान् दृष्ट्वा अनिमित्तेन पुनरनिमित्तं न गृह्णाति । अयमनिमित्तानिमित्तः ।

(पृ) आभिधर्मिका आहुः- त्रय इमे समाधयः सास्रवा इति । कथमिदम् । (उ) इमे न सास्रवाः । कस्मात् । समयस्यास्या नास्रवानुशयत्वात् । समाधिरयं शून्यादिप्रधानः । कथं सास्रवो भवेत् । (पृ) यदि शून्यादयः समाधयो वस्तुतः प्रज्ञात्मकाः । कथं समाधिरित्युच्यते । (उ) समाधीनां भेदात् । समाधिश्च यथाभूतज्ञानदर्शनाधायकत्वात्समाधिरित्युच्यते । फले हेतूपचारात् ।

(पृ) केचिदाभिधर्मिका आहुः- शून्यशून्यादयः समाधयोऽशैक्षजनमात्रलभ्या नान्यैरिति । कथमिदम् । (उ) शैक्षजना अपि लभेयुः । कस्मात् । योगावचरेण हि सास्रवाणामनास्रवाणां सर्वेषां धर्माणां निरोधोऽधिगन्तव्यः । अतः शैक्षजनैरपि अनास्रवधर्माणां निरोधोऽधिगन्तव्यः स्यात् ॥

त्रिसमाधिवर्गः सप्तपञ्चाशदुत्तरशततमः ।


१५८ चतुस्समाधिभावनावर्गः

अस्ति समाधिभावना दृष्टधर्मसुख [विहार]आयं संवर्तते । अस्ति समाधिभावना ज्ञानदर्शन[प्रतिलाभ]आय संवर्तते । अस्ति समाधिभावना स्मृतिसम्प्रजन्याय संवर्तते । अस्ति समाधिभावना आस्रवाणां क्षयाय संवर्तते । यः समाधिः दृष्टधर्मसुखप्रापको यदुत द्वितीयध्यानादयः । [सा प्रथमा भवना ।]केनेदं ज्ञायते । भगवानाह- द्वितीयध्यानं समाधिजं प्रीतिसुखं नाम्ने संवर्तते अन्यधर्माय संवर्तते यथा पिण्डपाताय श्रावस्त्यां प्रवेश इति ।

(
३८८)
(पृ) प्रथमं ध्यानमपि सप्रीतिसुखम् । कस्मान्नोच्यते स दृष्टधर्मसुखविहार इति । (उ) प्रथमध्यानस्य चित्तविक्षेपकवितर्कविचारव्यामिश्रितत्वात्न तदुच्यते दृष्टधर्मसुखमिति (पृ) द्वितीयध्यानस्यापि सन्ति प्रीत्यादयश्चित्तविक्षेपका धर्माः । कस्मादुच्यते सुखमिति । (उ) सर्ववितर्कविचारपूर्वकं चित्तपरिग्रहात्प्रीत्यादयः सुखमित्युच्यन्ते, दुःखाकारतः परं सर्वं दुःखमित्युच्यते । प्रथमध्याने दुःखमौदारिकम् । द्वितीयध्यानादिषु दुःखं सूक्ष्मम् । सूक्ष्मदुःखत्वात्सुखमित्याख्यां लभते ।

(पृ) द्वितीयध्यानादयः सांपरायिकसुखविहारा अपि भवन्ति । कस्मात्दृष्टधर्मसुखविहारमात्रमुच्यते । (उ) यथाजातशत्रोः सान्दृष्टिकं श्रामण्यफलमुक्तम् । प्रत्यासत्योच्यते [तथा] । पञ्चकामसुखानां भेदायोच्यते दृष्टधर्मसुख[विहार इ]ति । यदि पञ्चकामसुखासक्तः कश्चित्, अतो न ध्यानभाग्भवति । तदर्थमाह- पञ्चकामसुखानां वियोगे परमं दृष्टधर्मसुखं प्रतिलभध्व इति । बुद्धा न सांपरायिककायवेदनं प्रशंसन्ति । अतो नाभिदधति साम्परायिकं सुखम् । लौकिका वदन्ति सुखं गृहस्थस्य न प्रव्रजितस्येति । अतो भगवानाह- इदं प्रव्रजितस्य दृष्टधर्मे सुखमिति ।

इमाश्चतस्रः समाधिभावनाः सर्वा दृष्टधर्मसुख[विहारा]य संवर्तन्ते । प्रथमाया नामोपचारात्केवलमुच्यते दृष्टधर्मसुख[विहाराये]ति ।

(पृ) यदीमाश्चस्रः समाधिभावना नानाहितानि साधयन्ति । कस्मात्केवलमुच्यन्ते चत्वारीमानि हितानि । (उ) हितं द्विविधं लौकिकं लोकोत्तरमिति । द्वितीया समाधिभावना लौकिकहिताय भवति यदुत ज्ञानदर्शनम् । ज्ञानं नामाष्टविमोक्षायतनदशकृत्स्नायतनादिहितम् । दर्शनं पञ्चाभिज्ञादिहितम् । कस्मात् । चक्षुषा दृश्यमानत्वाथितमिदं दर्शनमित्युच्यते । इदं रश्मिग्रहमुपादाय सिद्धत्वात्ज्ञानदर्शनमिति भवति । यत्रश्मिलक्षणमित्युच्यते द्वितीयमिदं लोकोत्तरं हितम् ।

पञ्चस्कन्धान् सम्प्रजानातीति सम्प्रजन्यम् । अतः सूत्र उक्तम्- सस्मृतिसम्प्रजन्यो (
३८९) योगावचरो या वेदना वितर्काः संज्ञा उत्पद्यन्ते सर्वा[स्ताः] प्रतिजानाति इति । वेदनानां प्रज्ञानं नाम स्पर्शप्रत्यया वेदना, नास्ति तु वेदक इति । वितर्कानां प्रज्ञानं नाम अहमिति वितर्कः; कथं [स] न भवेत् । यः स्त्रीपुरुषादिप्रज्ञप्तिसंज्ञाविकल्पः, तत्संज्ञाप्रतिभेदना वितर्का न भवति । यथोक्तं सूत्रे- वितर्कः किं निदानः । [वितर्कः] [प्रपञ्च] संज्ञा [संख्या] निदान इति । अतो ज्ञायते प्रज्ञप्तिसंज्ञाप्रतिभेदनात्स्मृतिसम्प्रजन्यं नाम । स्मृतिसम्प्रजन्येनास्रवक्षयो लभ्यते । यथोक्तं सूत्रे- योगावचरः पञ्चानां स्कन्धानामुदयव्ययानुदर्शी स्कन्धानां निरोधं साक्षात्करोति इति । अतो ज्ञायते । सर्वाणि लौकिकानि लोकोत्तराणि हितानि चतुर्षु सङ्गृहीतानीति ।

(पृ) केचिदाभिधर्मिका आहुः- चतुर्थध्यानेऽर्हत्फलं प्रतिलभमानस्य आनन्तर्यमार्ग आस्रवक्षय इत्युच्यते इति । कथमिदम् । (उ) न हि तत्रास्ति विशिष्टहेतुः चतुर्थध्यानमात्रस्यानन्तर्यमार्ग आस्रवक्षयो नान्यस्येति । अत[स्त]न्न युज्यते ।

समाधिभावना च त्रिविधहिताय संवर्तते- (१) दृष्टधर्मसुख[विहारा]य, (२) ज्ञानदर्शन [प्रतिलाभा]य, (३) आस्रवक्षयाय च । द्विविधाय वा संवर्तते । उक्तवदेकान्तक्षयार्थत्वात्सुविशुद्ध्यर्थत्वात्, संसारक्षयार्थत्वात्, नानास्वभावविवेकार्थत्वात्मार्गमुपदिशति चक्षुष्मान् । तत्र पूर्वे त्रयः प्रहाणस्याभिधानम्, अन्तिमो ज्ञानस्य । नात्र भगवान् दृष्टधर्मसुख[विहार]माह ।

चतुस्समाधिभावनावर्गोऽष्टपञ्चाशदुत्तरशततमः ।


१५९ चतुरप्रमाणसमाधिवर्गः

मैत्री करुणा मुदिता उपेक्षा । [तत्र] मैत्री नाम व्यापादविरुद्धं कुशलचित्तम् । यथा सुविज्ञः सुविज्ञाय सदा हितं प्रार्थयते । तथा योगावचरोऽपि सर्वसत्वानां कृते सदा सुखं प्रार्थयते । अतोऽयं सर्वसत्त्वानां सुविज्ञो भवति । (पृ) किं नाम सुविज्ञस्य (
३९०) लक्षणम् । (उ) नित्यं लक्ष्यत ऐहिकामुष्मिकहितसुखप्रकर्षप्रार्थनां कुर्वन्नैव विरुद्धासुखप्रार्थनाम् । तथा योगावचरोऽपि सत्त्वानां सुखमेव प्रार्थयते नासुखम् ।

करुणा विहिंसाविरुद्धं मैत्रचित्तम् । कस्मात् । सत्त्वानां सुखप्रार्थनत्वात् । (पृ) द्वेषविहिंसयोः को भेदः । (उ) चित्ते द्वेषस्मृतिमुत्पाद्य सत्वान् ताडयितुं विहिसितुं वा इच्छति । द्वेषोद्धितं कायवाक्कर्म विहिंसेत्युच्यते । द्वेषो विहिंसाया हेतुः । द्वेषाकांक्षी अवश्यं प्रदाशमाचरति ।

मुदिता ईर्ष्याविरुद्धं मैत्रचित्तम् । ईर्ष्या नाम परस्योत्कर्षं दृष्ट्वा अक्षममाणस्योत्पन्नोऽसूयाव्यापादः । योगावचरस्य सर्वसत्त्वानां लाभप्रकर्षं दृष्ट्वा महती प्रीतिर्भवति यथात्मनो हितलाभे ।

(पृ) किमिमानि त्रीणि मैत्री[रूपाणि]आ (उ) मैत्रचित्तस्यैव त्रयः प्रकाराः । कस्मात् । अव्यापादो मैत्री । न कश्चिदद्विषन् दुःखिनं सत्त्वं दृष्ट्वा दयते । यदा सर्वेषु सत्त्वेषु परमं मैत्रचित्तं कश्चिद्दुःखोपद्रवसम्भ्रान्तं पुत्रं दृष्ट्वेव समाचरतितस्मिन् समये प्रवृत्तं मैत्रचित्तं करुणेत्युच्यते । अथ वा कश्चित्परस्य दुःखे करुणामुत्पादयन्नपि न परस्योत्कर्षे प्रमुदितचित्तो भवति । केनेदं ज्ञायते । कश्चित्सपत्नस्य दुःखं दृष्टवैव करुणायते । किं पुनर्लब्धविजयं पुत्रं दृष्ट्वा [न] प्रमोद्यत इति । योगावचरः सर्वसत्त्वान् समृद्धिलाभिनो दृष्ट्वा स्वाभेदतः प्रमुदितचित्तो भवति । इयं मुदितेत्युच्यते । अतो ज्ञायते मैत्रीचित्तविशेषः करुणा मुदिता चेति ।

(पृ) कस्योपेक्षया उपेक्षा । (उ) शत्रुं मित्रञ्च पश्यतो मैत्रचित्तं न सममस्ति । मित्रेऽधिकम् । उदासीने न तुल्यम् । शत्रौ तु अल्पम् । तथा करुणा मुदितापि । अतो योगावचरो मित्रे मैत्रमुपेक्ष्य शत्रौ शात्रवमुपेक्ष्य चित्तसाम्यं चिकीर्षति । पश्चात्सर्वसत्त्वेषु समचित्तो भवति । तथा करुणा मुदितापि । अतः सूत्र उक्तम्- रागप्रतिघप्रहाणायोपेक्षां भावय इति । (पृ) तथा चेत्न पृथगस्त्युपेक्षाचित्तम् । चित्तसाम्यमात्रमुपेक्षां भवति । (उ) पूर्वमेवोक्तं मया मैत्रचित्तविशेषाः करुणामुदितादय इति । मैत्रचित्तञ्चोत्तमाधममध्यधर्मैस्त्रिविधम् । त्रयाणामेषां समभाव उपेक्षा । यथा वदन्ति उत्तममैत्रचित्तेन त्रीणि ध्यानानि भावयतीति ।

(
३९१)
(पृ) केनोपायेन तन्मैत्रचित्तं प्रतिलभते । (उ) उत्तरत्न वक्ष्यन्ते प्रतिघस्यादीनवाः । तानादीनवान् प्रज्ञाय मैत्रचित्तं भावयति । मैत्रचित्तस्य हितगुणञ्च पश्यति । यथोक्तं सूत्रे मैत्रचेतोविहारी सुखं स्वपिति । सुखंप्रतिपद्यते । न पापकं स्वप्नं पश्यति । देवता रक्षन्ति । मनुष्याणां प्रियो भवति । [अमनुष्याणां प्रियो भवति ।] नास्मै अग्निर्वा विषं वा शस्त्रं वा क्रमते । [उत्तरमप्रतिविध्यन् ब्रह्मलोकोपगो भवति] इति । इमान्यानिशंसानि श्रुत्वा भावयति । योगावचरोऽनुस्मरति- अहं व्यापादमुत्पाद्य अहमेव विपाकमनुभवामि नान्य इति । अतो व्यापादमकृत्वा मैत्रचित्तं भावयति । किञ्च योगावचरो मनसि करोति अहमल्पकेन पापकेन अन्यस्य कृतेन बहूनि पापकानि तच्छतगुणानि तदभिन्नान्यनुभवामि । अतः पापकानि परिवर्जयेदिति । उक्तञ्च सूत्रे- पञ्च द्वेषप्रहाणकारणानि सदानुस्मर्तव्यानीति । व्यापादश्च योगावचरस्य नालं भवति । अष्ट कुशलानिंशसानि पूर्वमनुस्मरेत् । पापकानि वर्जयतो व्यापादः शाम्यति । पुरुषस्य पूर्वाध्वनि माता वा स्यात्, गर्भिणी प्रसवित्री च मदर्थः दुःखं व्यवस्यमाना स्यात् । अथ वा स्यात्मम पिता भ्राता भार्या पुत्रो वा । कथं द्वेष्टव्यम् । इति । अनुस्मरेच्चागामिन्यध्वनि मम पिता माता भ्राता वा भवेतिति । अर्हन् प्रत्येकबुद्धो बुद्धो वा भवेदिति [अनुस्मरणं] कुर्यात् । कथं द्वेष्टव्यम् । दुर्जनान् दृष्ट्वा पापकमाचरनुभयोरध्वनोर्दुःखं वेदयते । अतो न द्वेष्टव्यम् । पूर्वञ्च निभृतं पश्येत्जनस्य स्वभावः कुशलोऽकुशल इति । यदि दुर्जनो मम [अकुशल]मादधाति, कस्मादहं द्विषामि । यथाग्निना दग्धो ना[ग्निं]द्विषेत् । क्लेशोपहतः पिशाचपीडित इव न स्वातन्त्र्यभाग्भवति । इति पूर्वं पश्यन् किमर्थं द्विषति । येन प्रत्ययेन क्षान्तिं भावयति । तं धर्ममनुस्मरेत् । तदा व्यापादः
शाम्यति, मैत्रचित्तञ्च वर्धते । क्षान्तिगुणो योगावचरोऽनुविचिन्तयति- अहं यदि परं द्विषामि । तदा पृथग्जनस्य ग्रामीणस्य तस्य [मम] च नास्ति भेदः । अतः क्षन्तव्यमिति । यथाह भगवान् गाथाम्-

(
३९२)
सुविनीतो यथा हस्ती सहते शरमस्त्रकम्
तथा चाहमपीहैव तितिक्षे सर्वपापकम् ॥ इति ।

अपि चाह गाथाम्-

अश्लीलमपवादञ्च विगर्हां प्रतिघं तथा ।
न क्षमेताधमः सत्त्वः शिलवृष्टिं यथा खगः ॥
अश्लीलमपवादञ्च विगर्हीं प्रतिघं तथा ।
क्षमेत हि माहसत्त्वः पुष्पवृष्टिं यथा गजः ॥ इति ।

अतः क्षन्तव्यम् । तदकुशलं गुणः परिणमते । अकुशलेभ्यो गुणसंसिद्धेः । योगावचर इमे सत्त्वा मूढा अविज्ञा बालसमाना न विद्वेष्या इति प्रजानाति । इत्यनेनोपायेन मैत्रचित्तं भावयति ।

(पृ) कथं करुणां भावयति । (उ) योगावचरोऽल्पसुखिनो दुःखबहुलान् दृष्ट्वा करुणायते । कथमहं दुःखिनि सत्त्वे पुनर्दुःखमाअध्यामिति । अत्यन्तसुखासक्तान् दृष्ट्वा च चिन्तयति- कथमहं परप्रणिहितं हापयेयमिति । अतः करुणायते । दुःखिनं सत्त्वं दृष्ट्वा दृष्टधर्मे दुःखित्वात्दुःखी भवति । सुखिनं सत्त्वं दृष्ट्वा अनित्य[सुख]त्वात्दुःखी भवति । अतः सर्वे सत्त्वा दुःखभागिन आदावन्ते वा न विमुक्तिलाभिन इत्यनेन प्रत्ययेन करुणायते ।

(पृ) कथं मुदितां भावयति । (उ) योगावचरः परहितेर्ष्यालुता पृथग्जनलक्षणमिति दृष्ट्वा मुदितां भावयति । चिन्तयति चैवम्- सत्त्वानां सुखमुत्पादयेयमिति । [यदि] परः स्वयं लभते । तदा स मां सत्करोति । अतो मुदितामुत्पादयेत् । तदेर्ष्यादृष्टिर्वृथा नास्ति किमपि हितम् । न परमुपहन्ति । प्रत्युतात्मानमेव हिंसति । यथोक्तञ्च सूत्रे- ईर्ष्या संयोजना इति । तत्संयोजनपरिजिहीर्षया मुदितामुत्पादयति ।

(पृ) कथमुपेक्षां चरति । (उ) विषमचित्ते दोषं दृष्ट्वा चित्तसाम्यचिकीर्षया उपेक्षां चरति । योगावचरो रागप्रतिघचित्ते दोषदर्शनादुपेक्षाचर्यां भावयति ।

(पृ) इदमप्रमाणचित्तं कस्यां भूमौ वर्तते । (उ) त्रिषु धातुषु वर्तते । (पृ) आभिधर्मिकाः केचिदाहुः- तृतीयध्यानादूर्ध्वं नास्ति सौमनस्येन्द्रियमिति । कथमिदम् । (
३९३) (उ) नाहं वदामि मुदितचित्तं सौमनस्येन्द्रियस्वभावमिति । किन्तु परहितेऽकलुषमुदितचित्तता मुदितेत्युच्यते । चत्वारीमान्यप्रमाणानि प्रज्ञास्वभावानि ।

(पृ) कथमारूप्यधातौ चत्वार्यप्रमाणानि भवन्ति । रूपलक्षणेन हि सत्त्वो विकल्प्यते । तत्र रूपणे रूपलक्षणं कथं भवेत् । (उ) अरूपसत्त्वा अपि विकल्पनीयाः । यथोक्तंसूत्रे- सरूपारूप्यादिषु कुर्यादिति । किञ्चोक्तंसूत्रे- शुभविपाकप्रतिलाभपरमां मैत्रचेतोविमुक्तिं भावयति । आकाशानन्त्यायतनप्रतिलाभपरमां करुणा[चेतोविमुक्तिं] भावयति । विज्ञानानन्त्यायतनप्रतिलाभपरमां मुदिता[चेतोविमुक्तिं]भावयति । आकिञ्चन्यायतनप्रतिलाभपरमामुपेक्षा[चेतोविमुक्तिं]भावयति । इति । अतो ज्ञायते आरूप्येऽपि सन्त्यप्रमाणानीति । (पृ) एकैकस्यां भूमावेकमप्रमाणमस्ति । किं नैवसंज्ञानासंज्ञायतने किमपि नास्ति । (उ) सर्वेष्वप्यायतनेषु सर्वाणि सन्ति । अत्यधिमैत्रीभावनया परं शुभायतनमुत्पद्यते । कर्मणां सरूपविपाकजनकत्वात् । यः सत्त्वानां सुखाकांक्षी स सुखविपाकं लभते । तथा करुणापि । कायाधीनतया भूयसा दुःखानां समुदयः । आकाशे च रूपं नास्तीत्यतो विज्ञानानन्त्यायतनचित्तस्यालम्बने परमसुखविहारित्वात् । आकिञ्चन्यायतनपरमा उपेक्षेति । योगावचरः संज्ञापरिक्लान्तत्वादाकिञ्चन्यायतनमुपसम्पद्य विहरति । नैवसंज्ञानासंज्ञायतनेऽपि अप्रमाणमस्ति । अतिसूक्ष्मात्वान्नोपलभ्यत इति नोच्यते । सर्वेष्वप्यायतनेषु सर्वमस्ति इति बाहुल्यवशातुच्यते । शुभे मैत्र्यांः परमाधिक्यातित्येवमादि । ध्यानसमाधिषु चत्वार्यप्रमाणचित्तानि विपाकवेदनाप्रधानानि सत्त्वालम्बनत्वात् ।

(पृ) आभिधर्मिका आहुः- चत्वार्यप्रमाणानि कामधातुकसत्त्वमात्रालम्बना नीति । तत्कथम् । (उ) कस्मान्नान्यसत्त्वालम्बनानि तानि । वक्तव्योऽत्र हेतुः । भगवानप्रमाणसूत्र आह- इह भिक्षुर्मैत्रसहगतेन चेतसा एकां दिशं[स्फुरित्वा विहरति । तथा] द्वितीयां तथा तृतीयां चतुर्थी इत्यूर्ध्वमधस्तिर्यक्[सर्वदा सर्वत्रतायै] सर्वावन्तं लोकं [मैत्रसहगतेन चेतसा] स्फुरित्वा विहरति इति । रूपारूप्यकधातुकसत्त्वा अनित्या भङ्गुरा दुर्गति गामिन इत्यस्ति हेतुः ।

(
३९४)
(पृ) आभिधर्मिका आहुः- कामधातुगतो योगावचर एवाप्रमाणान्युपसम्पद्य विहरतीति । कथमिदम् । (उ) सर्वायतनजाताः सर्व उपसम्पद्य विहरन्ति । (पृ) यदि तन्न जाता अपि उपसम्पद्य विहरन्ति । तदा न पुण्यं क्षीयेत । तत्र नित्यमुत्पद्येरन् । (उ) यथा तत्र ध्यानादीन् कुशलधर्मानुसम्पद्य विहरन्तोऽपि[ततो]निवर्तन्ते । तथा मैत्रादीनपि (पृ) यद्ययं न्यायः । कस्मान्न क्षिप्रं निवर्तन्ते । (उ) अस्तीदृशं कर्म सत्यपि निवृत्तिहेतौ न निवर्तन्ते । यथा काम[धातुक]देवादयः सत्यपि कुशलकर्मणि दुर्गतावुपपद्यन्ते । तथेदमपि ॥

(पृ) मैत्रसमाधिविहारिणं कस्मान्न विषंशस्त्रमग्निर्वा क्रमते । (उ) कुशलपुण्यघनगभीरमकुशलानि नाधितिष्ठन्ति देवैः सुरक्षितत्वात् । (पृ) सूत्रमाह- मैत्रसहगतं स्मृतिसम्बोध्यङ्गं भावयति इति । सास्रवानास्रवयोः कथं सहभावना । (उ) मैत्री[स्मृति]सम्बोध्यङ्गेनानुगता भवति । यथोक्तं सूत्रे- यदि कश्चिदेकाग्रचित्तेन धर्मं शृणोति । तदा पञ्चनीवरणानि प्रहाय सप्तसम्बोध्यङ्गानि भावयति । धर्माश्रवणेऽपि सम्बोध्यङ्गानि भावयति । इति । किञ्चोक्तं सूत्रे- भावयथ भिक्षवो मैत्रचित्तम्, प्रतिजानामि अनागामिफलं प्राप्स्यथेति । मैत्रचित्तं यद्यपि न संयोजनं हापयति । [तथापि]पूर्वमेव मैत्रचित्तेन पुण्यगुणज्ञानहितसञ्चयादार्यमार्गप्रज्ञां लब्ध्वा संयोजनानि प्रजहाति । अत उच्यते मैत्री भावनया अनागामिफलं लभत इति । मैत्री भावनया सम्बोध्यङ्गमप्येवम् ।

(पृ) अर्हन् प्रहीणसत्त्वसंज्ञः । कथमप्रमाणानि भावयति । (उ) अर्हन्मैत्रचित्तमुपसम्पद्य विहरन्नपि नमैत्रकर्मसिद्धिं सञ्चिनोति । उपपत्तिवेदनाभावात् । (पृ) बुद्धानां भगवतां महाकरुणा कथम् । (उ) बुद्धानां भगवतां नैव मीमांसाज्ञानमस्ति । धर्माणामत्यन्तशून्यतां प्रजानन्तोऽपि पृथग्जनेषु गभीरं महाकरुणामाचरन्ति ।

(पृ) करुणाया महाकरुणायाश्च को भेदः । (उ) कृपाचित्तमात्रं करुणा । क्रियां साधयतीति महाकरुणा । कस्मात् । बोधिसत्त्वः सत्त्वानां दुःखं दृष्ट्वा तत्क्षयाय वीर्यमारभते । अप्रमाणकल्पेषु भावनासाध्यत्वान्महाकरुणेत्युच्यते । आज्ञेन्द्रियेण सत्त्वानां (
३९५) दुःखं दृष्ट्वा [तत्] अपनेष्यामीति नियमेन चित्तोद्धापनं महाकरुणा । उपकारबहुलेति महाकरुणा । अप्रतिहतेति महाकरुणा । कुतः । करुणाचित्तं हि परस्य पापकं स्मृत्वा प्रतिघातमुत्पादयेत् । महाकरुणा तु नानाविधपरमपापकेष्वपि अप्रतिहतगतिर्भवति । करुणाचित्तं कदाचित्घनं, कदाचित्तनीयः, न समं भवति । सर्वत्र समेति महाकरुणा । आत्मनो हितं त्यक्त्वा परस्य हितमात्रमाकांक्षत इति महाकरुणा । करुणा तु नैवमित्ययं भेदः । बुद्धे मैत्र्यादि महदित्युच्यते । करुणा तु [कदाचित्] दुःखाकांक्षिणीति केवलेत्युच्यते ॥

चतुरप्रमाणसमाधिवर्ग एकोनषष्टुत्तरशततमः ।


१६० पञ्चाङ्गार्यसमाधिवर्गः

उक्तं हि सूत्रे- पञ्चाङ्ग[भूता] आर्यसमाधयः यदुत प्रीतिः सुखं चित्तविशुद्धिः प्रकाशलक्षणं भावनालक्षणमिति । प्रीतिः प्रथमद्वितीयध्यानयोः । प्रीतिलक्षणं सममिति एकाङ्गमुच्यते । तृतीयध्याने प्रीतिविरहात्सुखं पृथगेकमङ्गमुच्यते । चतुर्थध्याने चित्तविशुद्धिस्तृतीयमङ्गमुच्यते । इमानि त्रीण्यङ्गान्याश्रित्योत्पद्यते प्रकाशभावनालक्षणम् । प्रकाशलक्षणं भावनालक्षणस्य हेतुं कृत्वा पञ्चस्कन्धान् परिभेदयति । पञ्चस्कन्धानां शून्यताभावनं भावनालक्षणमित्युच्यते । निर्वाणगामित्वादार्यम् ।

(पृ) सूत्र उक्तम्- पञ्च आर्यसमाधिज्ञानानि । कतमानि इमानि । (उ) भगवान् स्वयमाह- योगी चिन्तयति ममायं समाधिरार्यो निरामिष इति प्रथमज्ञानमुत्पद्यते । (
३९६) समाधिरयमकापुरुषसेवित इति द्वितीयज्ञानमुत्पद्यते । समाधिरयं शान्तः प्रणीतः प्रीतिप्रश्रब्धिलब्ध इति तृतीयज्ञानमुत्पद्यते । अयं समाधिः प्रत्युत्पन्नसुख आयत्याञ्च सुखविपाक इति चतुर्थज्ञानमुत्पद्यते । स खलु पुनरहमिमं समाधिं स्मृत एव समापद्ये स्मृत एव व्युत्तिष्ठामीति पञ्चमं ज्ञानमुत्पद्यते । इति । अनेन समाधावपि ज्ञानमस्तीति भगवान् प्रकाशयति । चित्तधारणा परं नास्ति । समाधिं भावयतो यदि क्लेशा भवन्ति । [तदा तान्] तत्रोत्पन्नं ज्ञानमपनयति । समाधिं कृत्वा आर्यं निरामिषं छन्दयामीतीदं प्रथमज्ञानमुच्यते । आर्यो निरामिषो यदुताकापुरुषसेवित इत्ययं पण्डितप्रगीतः । अकापुरुषा यदार्यजनाः । ज्ञानलाभित्वात्कापुरुषा न भवन्ति । [यत्] ज्ञानं प्रज्ञप्तिं भिनत्ति । इदं द्वितीयज्ञानमित्युच्यते । रागादिक्लेशानामल्पीयसां निरोधात्शान्तम् । शान्तत्वात्प्रणीतम् । क्लेशादीनां विसंयोगाल्लब्धं विसंयोगलब्धमित्युच्यते । अयं वीतरागमार्गः- इदं तृतीयज्ञानं भवति । क्लेशप्रहाणसाक्षात्कारात्क्षेमं शान्तं लभते । तापविनिर्मुक्तं सुखं प्रत्युत्पन्नसुखमायतीसुखम्, प्रत्युत्पन्नं सुखं क्लेशविनिर्मुक्तं सुखम् । आयत्यां सुखं यन्निर्वाणसुखम् । इदं चतुर्थज्ञानं भवति । योगी नित्यमनिमित्तचित्तो विहरति । अतो नित्यं स्मृतो व्युत्तिष्ठति स्मृतः समाधिमुसम्पद्यते । इदं पञ्चमं ज्ञानं भवति । तस्माद्यदि पञ्चमज्ञानमिदं नोत्पन्नं, उत्पादयितव्यम् । यद्युत्पन्नं समाधिफलं
लब्धमेव ॥

पञ्चाङ्गार्यसमाधिवर्गः षष्ट्युत्तरशततमः ।


१६१ षट्समाधिवर्गः

(पृ) उक्तं सूत्रे- समाधयः षटष्ट्येकलक्षणभावना एकलक्षणत्वाय संवर्तते । अस्त्येकलक्षणभावना नानालक्षणत्वाय संवर्तते । अस्त्येकलक्षणभावना एकलक्षणनानालक्षणत्वाय संवर्तते । एवं नानालक्षणभावनापि । कतमानीमानि । (उ) एकलक्षणमितीदं ध्यानसमाधिः स्यात् । ध्यानसमाधेरेकालम्बन एकाग्रताविहरणात् । नानालक्षणमितीदं ज्ञानदर्शनं भवेत् । धर्माणां नानास्वभावस्य [परि]ज्ञानात् । पञ्चस्कन्धादिधर्माणामुपायत्वात् । (पृ) कथमेकलक्षणा भावना एकलक्षणत्वाय संवर्तत इति । (उ) यत्कश्चित्समाधिमुपादाय पुनः समाधिमुत्पादयति । एकलक्षणा नानालक्षत्वाय संवर्तत इति (
३९७) यदि कश्चित्समाधिमुपादाय ज्ञानदर्शनमुत्पादयति । एकलक्षणा भावना एकलक्षणनानालक्षणत्वाय संवर्तत इति यदि कश्चित्समाधिमुपादाय ध्यानसमाधिं पञ्चस्कन्धोपाय ञ्चोत्पादयति । एवं नानालक्षणभावनापि ।

(पृ) केचिदार्मिधर्मिका आहुः- एकलक्षणा भावना एकलक्षणत्वाय संवर्तत इति यदि कश्चित्चतुर्थध्यानमुपादाय अर्हत्फलं साक्षात्करोति तत् । एकलक्षणा भावना नानालक्षणाय संवर्तत इति यत्कश्चित्चतुर्थध्यानमुपादाय पञ्चाभिज्ञाः साक्षात्करोति तत् । एकलक्षणा भावना एकलक्षणनानालक्षणाय संवर्तत इति यत्कश्चित्चतुर्थं ध्यानमुपादायार्हत्फलं पञ्चाभिज्ञाश्च साक्षात्करोति तत् । नानालक्षणा भावना नानालक्षणाय संवर्तत इति यत्कश्चित्पञ्चाङ्गभूतसमाधीनुपादायार्हत्फलं पञ्चाभिज्ञाश्च साक्षात्करोति । तथा अन्यौ द्वावपि । कथमिदम् । (उ) [अत्र] हेतुर्वक्तव्यः । कस्मात्चतुर्थध्यानमर्हत्फलञ्चैकलक्षणम् । पञ्चाङ्ग[भूत]समाधिः पञ्चाभिज्ञाश्च नानालक्षणा इति । पञ्चाङ्गानि नाश्रीयन्ते । पञ्चाङ्गसमाधिश्चतुर्णां ध्यानानां प्रकाशलक्षणो भावनालक्षणः । कथं तान्याश्रित्य अर्हत्फलं लभते । कस्मात् । अवश्यं ध्यानमेकमाश्रित्य अर्हत्फलं लभते । किञ्च प्रकाशलक्षणमाश्रित्यापि अर्हत्फलं लभेत । तस्मान्नास्ति [हेतुः] ।

केचिदाहुः- षड्विधाः समाधिसमापत्तयः आनुलोमिकसमापत्तिः, प्रातिलोमिकसमापत्तिः आनुलोमिकप्रातिलोमिकसमापत्तिः आनुलोमिकव्युत्क्रान्तिः प्रातिलोमिकव्युत्क्रान्तिः आनुलोमिकप्रातिलोमिकव्युत्क्रान्तिरिति । कथमिदम् । (उ) केचिदाभिधर्मिका आहुः योगी निरोधसमापत्तावतारमिच्छतीत्यतो ध्यानेषु समापत्ति (= प्रवेश) व्युत्थाने क्रमिके । तस्मान्न स्यात्यदि वानुलोम्येन यदि वा प्रातिलोम्येन यदि वानुलोम्यप्रातिलोम्येन व्युत्क्रमादिः । पञ्चसमापत्तिव्युत्थानैः किं हितं लभते । योगी निरोधसमापत्तिं प्रापयितुरवश्यं क्रमशोऽवतरेत्क्रमशश्च व्युत्तिष्ठेत् । यद्युत्तमभूमिभाक्कस्मात्पुनरधो भूमिमवतरति । अधोभूमिः कण्टकभूता । यथा न कश्चित्पुनर्बालक्रीडायामभिरमते । यथा च विदग्धो जनो न पुनरभिरमते मूढे । तथेदमपि स्यात् ।

यदुक्तं व्युत्क्रामतीति । इदमयुक्तम् । सूत्रे केवलमुक्तं क्रमिका ध्यानसमाधीनां (
३९८) समापत्तय इति । यदि योगी व्युत्क्रामति आतृतीयम् । कस्मान्न व्युत्क्रामति आचतुर्थपञ्चमम् । बलानुभावसदृशमिदमिति यदि मतम् । यथा कश्चित्श्रेणिमारुह्य एकं सोपानं व्युत्क्रमेत्न द्वौ । दृष्टान्तोऽयमपि नैकान्तिकः । महाबलिष्ठः कश्चित्चत्वारि सोपानान्यपि व्युत्क्रमेत् । शतं पक्रमान् प्रक्रममाणोऽपि कश्चिदस्ति । अतो न युज्यते । सूत्रे यद्यप्युक्तं भगवता निर्वाणं समापद्यमानोऽनुलोमप्रतिलोमं व्युत्क्रम्य ध्यानसमाधीन् समापद्यत इति । सूत्रमिदं सम्यगर्थविरुद्धम् । न श्रेद्धेयम् । सत्यपि वचनेऽस्मिन्नायमर्थो युक्तः । कस्मात् । यदि योगिनो निरोधसमापत्तावतारं वदति तदानुलोम्येन समापत्तिः स्यात्नैकक्षणे पञ्चधा । योगी यदि साक्षान्निरोधसमापत्त्यवतारमिच्छति तदा नैकक्षणे स्यात् । यदि ध्यानसमाधिषु स्वचित्तं बुभुक्षति, वशित्वापरिहाणित्वातनुलोमप्रतिलोमं व्युत्तिष्ठति समापद्यते व्युत्क्रामति च । यथा कश्चिदश्वमारूढो यदि प्रतिबलरुद्धः, तदा नावश्यं प्रतिनिवर्तते । यदि दमनं निषेवितुमिच्छति । तदा रहसि [करोति] ।

यदुक्तम्- अधोभूमिः कण्टक[भूता] । न [तत्र] समापद्येतेति । अधोभूमेर जयात्पुनः समापद्यते । योगिगोचरमार्गत्वात् । यदुक्तं यथा न कश्चित्बालक्रीडायामभिरमत इति । [तत्र] निदानं कदाचिद्बालक्रीडात्मकं भवति । यथा कश्चिद्वृद्धो नटः सर्वदा नृत्यति न तृप्तो भवति । शिक्षणार्थत्वात् । एवमार्यः अनुलोमप्रतिलोमं ध्यानेषु व्युत्तिष्ठति समापद्यते व्युत्क्रामति च देवमनुष्याणां प्रदर्शनकामित्वात्महर्षीणां समाधिषु वशिताबलाच्च । भगवान् परिनिर्वाणगमनकाले परमप्रणीतध्यानसमाधिभिर्वासितशरीरत्वात्स्वतन्त्रं समापद्यत व्युदतिष्ठतनुलोमं प्रतिलोमं व्युदक्रामीत् । अनुपधिशेषनिर्वाणगतं भगवन्तं पश्यन् सर्वेभ्योऽकुशलसंस्कारेभ्यो निर्विद्येत । अतो भगवानस्मिन् धर्मेऽद्भुतं प्रेमाविश्चकार ।

इदं सूत्रं सम्यगर्थविरुद्धमिति यत्भवानवोचत् । तदिदमयुक्तम् । यत्भवतोक्तं कस्मान्न व्युत्क्रामति यावच्चतुर्थमिति । [तत्] बोधिसत्त्वपिटक उक्तं व्युक्त्रान्तिलक्षणम्- प्रथमध्यानात्व्युत्क्रम्य निरोधसमापत्तिं समापद्यते । निरोधसमापत्तेर्व्युत्क्रम्य यावद्विक्षिप्तचित्तमवतरति इति । चित्तबल महिम्ना एवं शन्कोति ॥

षट्समाधिवर्ग एकषष्टयुत्तरशततमः ।


(
३९९)
१६२ सप्तसमाधिवर्गः

शास्त्रमाह- सप्त निश्रयाः प्रथमं ध्यानं निश्रित्यास्रवक्षयं लभते । यवदाकिञ्चन्यायतनं निश्रित्यास्रवक्षयं लभत इति । निश्रयो नाम यत्सप्तध्यानान्युपादायार्यज्ञानं प्रतिलभते । यथोक्तम्- समाहितस्य यथाभूतज्ञानमुत्पद्यत इति । प्रतिलब्धध्यानसमाधिमात्रं कञ्चन सम्पन्नं वदति । अतो भगवानाह- नायं सम्पन्न इति । समाधिमिमं निश्रित्य आस्रवाणां क्षयाख्यं विशिष्टं धर्मं प्रार्थयीत । अत उच्यते निश्रय इति ।

(पृ) कथमिमान् ध्यानसमाधीन्निश्रित्यास्रवाणां क्षयं लभते । (उ) भगवानाह- योगी येनाकारेण येनालम्बनेन प्रथमं ध्यानं समापद्यते स योगी तदाकारं तदालम्बनं न पुनः स्मरति । किन्तु पश्यति प्रथमध्याने यद्रूपाणि यदि वा वेदनासंज्ञासंस्कारविज्ञानानि रोगतो गण्डतः शल्यतोऽघतोऽनित्यतो दुःखतः शून्यतोऽनात्मतः । एवं पश्यतश्चित्तमास्रवेभ्यो विमोक्षाय निर्विद्यते । यावदाकिञ्चन्यायतनमप्येवम् । परन्तु त्रीण्याकाशानन्त्यायतना[दी]नि आरूप्यदर्शनीयानि । योगी कामधातुमोहितः प्रथमं ध्यानं निर्वाणमिति पश्यति । तत्तु पश्चाल्लभते । अतो भगवानाह- मा मन्यध्वं निर्वाणसुखलक्षणमिति । किन्तु पश्यत प्रथमध्याने पञ्चस्कन्धानामष्टादीनवानिति । तथा निश्रयान्तरेष्वपि ।

(पृ) कामधातुः कस्मान्न निश्रय इत्युच्यते । (उ) उक्तं हि सुसीमसूत्रे- अतिक्रम्य सप्त निश्रयानस्ति आर्यमार्गप्रतिलम्भनमिति । अतो ज्ञायते कामधातुरप्यस्तीति ।

(पृ) केचिदाहुः- प्रथमध्यानसामन्तकमप्राप्तभूमिं निश्रित्य [अपि] अर्हत्फलं लभत इति । कथमिदम् । (उ) मैवम् । यद्यप्राप्ता भूमिर्निश्रयो भवति । तदास्ति (
४००) दोषः । यद्यप्राप्तां भूमिं लब्धुं शक्नोति । कस्मान्न प्रथमं ध्यानं समापद्यते । अतो न युक्तमिदम् । (पृ) नैवसंज्ञानासंज्ञायतनं कस्मान्न निश्रय इत्युच्यते । (उ) न तत्रास्ति संज्ञानम् । समाधौ भूयसा प्रज्ञाल्पीयसी । अतो नोच्यते [स] निश्रयो भवतीति । सप्तसंज्ञासमाधयस्तु सप्त निश्रया भवन्ति । कस्मादाह भगवान् सप्तनिश्रयाः सप्त संज्ञासमाधय इति । (उ) तीर्थिका अतत्त्वज्ञत्वात्संज्ञामात्रमाश्रयन्ते । सर्वे निश्र्याः संज्ञाकलुषिता न विमोक्षाय भवन्ति इत्यतः संज्ञासमाधिरित्याख्या । आर्यास्तु संज्ञां भङ्क्त्वा समाधिमिमं निश्रित्य आस्रवाणां क्षयमुपाददते । अतो निश्रय इत्याख्या । यथोक्तं योगी धर्मानिमान् पश्यति रोगतो गण्डत इति । नैवसंज्ञानासंज्ञायतनमपि संज्ञया असंज्ञानान्न संज्ञासमाधिरित्युच्यते ।

सप्तसमाधिवर्गो द्विषष्टयुत्तरशततमः ।


१६३ अष्टविमोक्षवर्गः

शास्त्रमाह- सूत्र उक्तं- अष्टौ विमोक्षाः- अध्यात्मं रूपसंज्ञी बहिर्धा रूपाणि पश्यति इति प्रथमो विमोक्षः । योगावचरोऽनेन विमोक्षेण रूपाण्यभिभावयति । केनेदं ज्ञायते । द्वितीयविमोक्षे ह्युक्तम्- अध्यात्ममरूपसंज्ञी बहिर्धा रूपाणि इति । अध्यात्मरूपपरिभेदनादाह- आध्यात्ममरूपसंज्ञीति । अतो ज्ञायते योगावचरः प्रथमविमोक्षे क्रमेण कायरूपमभिभवतीति । द्वितीयविमोक्षं प्राप्य तत्र रूपमभिभूतमेव । बाह्यरूपमात्रमस्ति । तृतीयविमोक्षे बाह्यरूपमप्यभिभूतम् । अतो न पश्यति अध्यात्मं बहिर्धा रूपञ्च । इदं रूपशून्यमित्याख्यायते । यथोक्तं पारायणसूत्रे-

रूपलक्षणविध्वंसी सर्वान् कामान् जहाति च ।
अन्तर्बहिश्च नो पश्यनहं पृच्छामि वस्त्विदम् ॥ इति ।

[अत ऊर्ध्वं] चतुर्षु विमोक्षेषु चित्तं विज्ञानशून्यमित्याह । यथोक्तं षड्धातुसूत्रे- यो भिक्षवः पञ्चसु धातुषु अत्यन्तनिर्विण्णः, [तस्य] अन्यत्ज्ञानमात्रमस्ति इति । (
४०१) ज्ञातव्यं चतुर्षु विमोक्षेषु विज्ञानान्यनुभवतीति । अष्टमविमोक्षे सर्वेषां क्षयः । कस्मात्रूपनिरोधे चित्तनिरोधे संस्कृतानामात्यन्तिकनिरोधः । इदमेवार्हत्फलमित्युच्यते । एवं क्रमेण क्षयभाक्भवति । इमेऽष्टविमोक्षाः ।

कश्चिदाह- प्रथमौ द्वौ विमोक्षावविशुद्धौ । तृतीयस्तु विशुद्ध इति । नेदं युज्यते । कस्मातयं विमोक्ष इति नास्ति [यत्किञ्चित् । यस्य] अविशुद्धभावनया विमोक्षं लभते । विशुद्धभावनयापि नास्ति विमोक्षः । केवलं शून्यभावनया विमोक्षं लभते । तीर्थिका विशुद्धाविशुद्धभावनां भजन्तेन विमोक्षभागिन इत्याख्यायन्ते ।

(पृ) तीर्थिका अपि रूपलक्षणं विनाश(य)न्ति । कथमिदम् । (उ) तीर्थिका विमोक्षाधिमुक्त्या रूपलक्षणं विनाशयन्ति न तु शून्यभावनया । कस्मात् । यथाभावनाधिमुक्तिप्रयोगं मृतपरित्यक्तं कायं श्माशानिककृमयो भक्षयन्ति इत्यादि पश्यन्ति । (पृ) तीर्ति(र्थि)का रूपविनिर्मुक्तमारूप्यसमाधिं विन्दन्ते । [तेषां] आरूप्यविमोक्षो भवेत् । (उ) तीर्थिकानां सत्यपि आरूप्यसमाधौ [तत्र] आसङ्गान्न[स]विमोक्ष इत्युच्यते । आर्याः पुनरारूप्यसमाधिमुपादाय चतुरः स्कन्धान् रोगत इत्याद्यष्टभिराकारैः पश्यन्ति । अतो विमोक्ष इत्युच्यते ।

(पृ) भवानवोचत्- निरोधसमापत्तिरर्हत्फलमिति । इदमयुक्तम् । कस्मात् । शैक्षा अपि अष्टविमोक्षभाज उच्यन्ते । निरोधसमापत्तिरास्रवक्षयात्मिकेति भवतोक्तम् । तथा च शैक्षा आस्रवक्षयभाजः स्युः । (उ) सूत्रे सामान्यलक्षणेन निरोध उक्तः । न तु विविच्य अयं चित्तनिरोधः अयं क्लेशक्षय इति । यथोक्तं सूत्रे- निरोधो द्विविधः [क्षय]निरोधः अनुपूर्वनिरोध इति । द्विविधं निर्वाणं दृष्टधर्मनिर्वाणमात्यन्तिकनिर्वाणमिति । किञ्चाह क्षेमो द्विविधः- [अवर]क्षेमः परमक्षेम इति । क्षेमलाभोऽपि द्विविधः [अवर]क्षेमलाभः परमक्षेमलाभ इति । अतः शैक्षजनानां प्रतिलब्धो न पारमाथिकनिरोधः । किञ्चोक्तं (
४०२) सूत्रे निरोधसमापत्तिमुपसम्पन्नो भिक्षुः कृतकरणीय इति । यदि निरोधसमापत्तिर्नार्हत्फलम्, तदा कृतकरणीय इति नाभिदध्यात् ।

(पृ) किं शैक्षा वस्तुतो नाष्टविमोक्षान् लभन्ते । (उ) सूत्र उक्तं शैक्षो नवानुपूर्वसमाधीन् लभत इति । न तूक्तं क्षयनिरोधं प्रतिलभत इति । योगावचरो यदि क्षयनिरोधं प्रतिलब्ध्वा न ध्यानसमाधीन् समापद्यते । अयं प्रज्ञाविमुक्त इत्युच्यते । यदि ध्यानसमाधीन् समापद्यते न क्षयनिरोधं लभते । [तदा] कायसाक्षीत्युच्यते । यद्युभयं लभते । तदा उभयतो विमुक्त इत्युच्यते । कस्मात् । क्लेशा एको भागः । ध्यानसमाध्यावरणधर्मा अपरो भागः । उभाभ्यां भागाभ्यां विमुक्त उभयतो[भाग]विमुक्त इत्युच्यते । (पृ) अनुपूर्व[विहारे]षु निरोधो विमोक्षेषु निरोधश्च किं नाना । (उ) व्यञ्जनमेकम् । अर्थस्तु नाना । अनुपूर्वेषु निरोधश्चित्तचैत्तानां निरोधः । विमोक्षेषु निरोधः क्लेशानां निरोधः । यथोक्तं सूत्रे- संस्काराणामनुपूर्वनिरोधः । तथाहि- प्रथमध्यानं समापन्नस्य वाक्निरुध्यते । द्वितीयध्यानं समापन्नस्य वितर्कविचारा निरुद्धा भवन्ति । तृतीयध्यानं समापन्नस्य प्रीतिर्निरुध्यते । चतुर्थध्यानं समापन्नस्य सुखं निरुध्यते । आकाशानन्त्यायतनं समापन्नस्य रुपसंज्ञा निरुद्धा भवति । विज्ञानानन्त्यायतनं समापन्नस्य आकाशानन्त्यायतनसंज्ञा निरुद्धा भवति । आकिञ्चन्यायतनं समापन्नस्य विज्ञानानन्त्यायतनसंज्ञा निरुद्धा भवति । नैवसंज्ञानासंज्ञायतनं समापन्नस्य आकिञ्च न्यायतनसंज्ञा निरुद्धा भवति । निरोधसमापत्तिं समापन्नस्य संज्ञा च वेदना च निरुद्धा भवति । इति । एषु निरोधेषु निरोधो विशिष्टो यदुत योगावचरो रागद्वेषमोहेभ्यो निर्विण्णो विमुच्यते ।

(पृ) कथं ज्ञायते अनुपूर्वेषु चित्तचैत्तानां निरोधः विमोक्षेषु क्लेशानां निरोध इति । (उ) निरोधस्तुल्यार्थोऽपि मेदवान् स्यात् । अनुपूर्वेषूच्यते संज्ञावेदयितनिरोध इति । विमोक्षेषु अविद्यावेदनास्पर्शनिरोध इति । कस्मात् । प्रज्ञप्तितो हि वेदनोत्पद्यते । प्रज्ञप्तिभेदे वेदना निरुध्यते । सूत्रेष्वस्तीदृशो विभागः । यद्याह- कण्ठतो योगावचरः (
४०३) क्षयनिरोधलाभीति । तदा [स] कृतकरणीय इति । ज्ञातव्यं निर्वाणं सक्षात्कुर्वतः सर्वे क्लेशा निरुध्यन्त इति । न त्वाह चित्तचैत्ता निरुध्यन्त इति । (पृ) यद्यष्टविमोक्षाः क्लेशनिरोधधर्मकाः । तदा सर्वेऽर्हन्तः सर्वदा लभेरन् । (उ) सर्वे लभन्ते । न तु समापद्यन्ते । ये ध्यानसमाधीन् साक्षात्कुर्वन्ति ते समापद्यन्ते । (पृ) योगावचरस्य यदि न सन्ति ध्यानसमाधयः । कथं स कायचित्तशून्यतां लभते क्लेशांश्च क्षपयति । (उ) अयं समाधियुक्तोऽपि न साक्षात्करोति । अस्ति पुनस्तटिदुपमसमाधिः । [इमं] समाधिमुपादाय क्लेशान् क्षपयति । यथोक्तं सूत्रे- मम भिक्षवश्चीवरमुपादित्सोः क्लेशो भवति । चीवरमुपादाय पुनः क्लेशो न भवति । इत्यादि । कस्मात् । तटिदुपमसमाधिचित्तं वज्रोपमं तत्त्वज्ञानं क्लेशान् भिनत्ति । अर्थोऽयं भगवता तृतीयबल उक्तः यदुत ध्यानविमोक्षसमाधिसमापत्तिसंक्लेशव्यवदानविभागयथाभूतज्ञानम् । तत्र ध्यानं नाम चत्वारि ध्यानानि । केचिदाहुः- चत्वारि ध्यानानि चत्वारोऽरूपसमाधयः सर्वे ध्यानमित्युच्यन्ते । विमोक्षः अष्टविमोक्षाः । समाधिरेकक्षणतटिदुपमसमाधिः । समापत्तिः ध्यानविमोक्षसमाधिषु वशिताबललाभः यथाह- शारिपुत्रः- सप्तबोध्यङ्गेषु समापत्तिं व्युत्थानञ्च
वशीकरोमि इति । अतो ज्ञायते प्रज्ञाविमुक्तस्यार्हतः सन्ति ध्यानसमाधयः । किन्तु न [तत्र] समापद्यते । अभ्यासप्रकर्षात्समापत्तिं वशीकरोति ।

(पृ) कस्मादर्हन्न ध्यानसमाधीनां प्रकृष्टमभ्यस्ता भवति । (उ) पुरुषोऽयं प्रतिलब्धमार्गः कृतकृत्यो भवति । उपेक्षाभिनवात्न सम्यगभ्यस्यति । यद्युपेक्षाचित्तं नास्ति तदासमापत्तिं समापद्यते इति नास्ति दूषणम् । यथोक्तं सूत्रे- योगावचरश्चतुर ऋद्धिपादान् सम्यगभ्यसन् हिमवन्तं पर्वतराजं तथा धमति यथा रेणुपर्यवसन्नं भवति । किं पुनर्मरणमविद्यामिति । अतो ज्ञायते अष्टविमोक्षेषूच्यते आस्रवक्षयनिरोधः न निरोधसमापत्तिं समापद्यत इति । उक्तञ्च सूत्रे- अस्ति विद्यास्वभावः अस्ति शून्यस्वभावः, अस्त्याकाशानन्त्यायनस्वभावः, अस्ति विज्ञानानन्त्यायत(न)स्वभावः अस्त्याकिञ्चन्यायतनस्वभावः अस्ति नैवसंज्ञासंज्ञायतनस्वभावः अस्ति निरोधस्वभावः । अविद्यामुपादायास्ति विद्यास्वभावः । (
४०४) अशून्यमुपादयास्ति शून्यस्वभावः । रूपमुपादायास्त्याकाशानन्त्यायतनस्वभावः । अकाशानन्त्यायतनस्वभावमुपादायास्ति विज्ञानानन्त्यायतनस्वभावः । विज्ञानानन्त्यायतनस्वभावमुपादायास्त्याकिञ्चन्यायतनस्वभावः । आकिञ्चन्यायतनस्वभावमुपादायास्ति नैवसंज्ञानासंज्ञायतनस्वभावः । पञ्चस्कन्धानुपादायास्ति निरोधस्वभाव इति । पञ्चस्कन्धान् प्रज्ञप्तिलक्षणान् यो न परिभेदयति तस्याविद्या भवति । यस्तान् परिभेदयति । तस्य भवति विद्यास्वभावः । यथा भगवानेकं भिक्षुमनुशास्ति- शून्येषु सर्वसंस्कारेषु संस्कारान् शून्यान् भावयित्वा दमय स्वचित्तमिति । यथा कश्चित्प्रदीपमादाय शून्यागारं प्रविश्य पश्यति सर्वं शून्यमिति । [तथा] योगावचरो रूपमुपादायाधिगच्छति रूपमिदं निरुद्धमिति । अयं शून्यस्वभाव इत्युच्यते । तीर्थिका आकाशानन्त्यायनमुपादाय प्रतिलभन्ते रूपाद्वियुज्यन्ते । यावन्नैवसंज्ञानासंज्ञायतनमुपादाय आकिञ्चन्यायतनात्वियुज्यन्ते ।

स्कन्धानुपादायास्ति निरोधस्वभाव इति । योगावचर[श्चिन्तयति]- यत्किञ्चनमनस्कारः यत्किञ्चनकृतकरणं सर्वेषां निरोधः श्रेयानिति । अयं स्कन्धानुपादायास्ति निरोधस्वभाव इति ।

(पृ) इमे स्वभावाः कं समाधिं निश्रित्य प्रतिलभ्यन्ते । (उ) सूत्र उक्तम्- विद्यास्वभावो यावत्नैवसंज्ञानासंज्ञायतनस्वभावः सर्वं खयं समाधिसमापत्तिविहरणात्प्रतिलभते यदुत संस्कृतमार्गविहरणात्प्रतिलभत इति । कस्मात् । आद्यो रूपज्ञानालम्बनो विद्यास्वभावः । द्वितीयस्वभावोऽपि रूपोपादानो रुपमुपादाय तथा विवेचयति यथा शून्यं भवति । एवं यावन्नैवसंज्ञानासंज्ञायतनस्वभावः, सर्वे संस्कृतधर्माः शून्या इति निरोधसमापत्त्या निरोधं प्रतिलभते । अत्र सर्वेषां संस्कृतधर्माणां क्षयनिरोधात् । अतो ज्ञायते अत्रोक्तो निरोधः क्षयनिरोधो निर्वाणमिति ।

(पृ) इमे विमोक्षाः कस्यां भूमौ भवन्ति । (उ) योगावचरो रूपपरिभेदेच्छया कामधातुप्रतिलब्धं समाधिं वा रूपधातुप्रतिलब्धं वा समाधिं निश्रयमाणो रूपं शून्यं प्रतिलभते । सर्वभूमिगतं चित्तञ्च शून्यं प्रतिलभते । (पृ) एषु विमोक्षेषु कति सास्रवाः कति अनास्रवाः । (उ) शून्यस्वभावत्वात्सर्वेऽनास्रवाः ॥

अष्टविमोक्षवर्गस्त्रिषष्ट्युत्तरशततमः ।


(
४०५)
१६४ अष्टाभिभ्वायतनवर्गः

अध्यात्मं रूपसंज्ञी [एको] बहिर्धा रूपाणि पश्यति परीत्तानि सुवर्णदुर्वर्णानि । तान्यभिभूय जानाति पश्यति । एवं संज्ञी च भवति । इदं प्रथममभिभ्वायतनम् । अध्यात्मं रूपसंज्ञी बहिर्धा रूपाणि पश्यति अधिमात्राणि[सुवर्णदुर्वर्णानीति विस्तरो यावत्] इदं द्वितीय[मभिभ्वायतन]म् । अध्यात्ममरूपसंज्ञी बहिर्धा रूपाणि पश्यति परीत्तानि [सुवर्णदुर्वर्णानीति यावत्] इदं तृतीय[मभिभ्वायतन]म् । अध्यात्ममरूपसंज्ञी बहिर्धी रूपाणि पश्यति अधिमात्राणि [सुवर्णदुर्वर्णानीति यावत्] इदं [चतुर्थमभिभ्वायतन]म् । अध्यात्ममरूपसंज्ञी बहिर्धा रूपाणि पश्यति नीलानि नीलवर्णानि नीलनिर्भासानि तद्यथा उमकापुष्पं[सम्पन्नं] वाराणसेयं वा वस्त्रं[नीलं नीलवर्णं नीलनिदर्शनं नीलनिर्भासम् । तानि खलु रूपाण्यभिभूय जानाति पश्यति । एवंसंज्ञी च भवतीदं] पञ्चम[मभिभ्वायतन]म् । षष्ठं पीतानि पश्यति । सप्तमं- रक्तानि पश्यति । अष्टमं- अवदातानि पश्यति । योगावचर एवमप्रमाणानि रूपाणि पश्यति । कस्मात् । न केवलं सन्तीमानि नीलादीनि चत्वारि रूपाणि । संक्षिप्यकथनादष्टाभिभ्वायतनानि भवन्ति । योगावचरो यदा शून्यतया रूपाणि परिभेदयति । तदा अभिभ्वायतनमित्युच्यते ।

(पृ) क इदं प्रतिलभते । (उ) इमे भगवतः श्रावका नान्ये । (पृ) इमान्यष्टाभिभ्वायतनानि कस्या भूमौ भवन्ति । (उ) कामधातौ भवन्ति । (पृ) किं सास्रवाणि उतानास्रवाणि । (उ) पूर्वं सास्रवाणि सन्ति शून्यतया रूपाणां परिभेदेऽनास्रवाणि भवन्ति । (पृ) कस्मादयं धर्मः केवलमभिभ्वायतनमित्युच्यते । (उ) इदं योगावचराणामभ्यासक्तमायतम् । अतो भगवान् श्रावकाणां कृत आह- अभिभ्वायतनमिति । तदालम्बनाभिभवप्रदर्शनार्थम् ॥

अष्टाभिभ्वायतनवर्ग श्चतुष्पष्टयुत्तरशततमः ।


१६५ नवानुपूर्व[विहारेषु]प्रथमध्यानवर्गः

नवानुपूर्वविहाराः- चत्वारि ध्यानानि चतस्र आरूप्यसमापत्तयः निरोधसमापत्तिश्च । प्रथमं ध्यानम्- यथोक्तं सूत्रे योगावचरो विविच्यैव कामैर्विविच्याकुशलै (
४०६) धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानमुपसम्पद्य विहरतीति । (पृ) प्रथमध्यानलक्षणमात्रं वक्तव्यम् । कस्मात्पुनरुच्यते विविच्यैव कामैरिति । (उ) केचिदपवदन्ति नास्ति कामविविक्तो लोक इति । लौकिकानां [सदा] पञ्चकामेषु स्थितत्वात् । न हि कश्चिच्चक्षुषा रूपं न पश्यति । श्रोत्रेण शब्दं न शृणोति, घ्राणेन गन्धं न जिघ्रति, रसनया रसं न रसयति, कायेन न स्पर्शाननुभवतीति । अत उच्यते विविच्यैव कामैरिति । कामो नाम कामचित्तं न रूपादिः । यथोक्तम्- रूपादयः पदार्था न कामा इति । कथं तज्जानीमः । व्यवसायी खलु रूपादिषु स्थित्वैव कामं प्रजहाति । यथोक्तं सूत्रे- रूपादयस्तद्भागा न कामा भवन्ति इति । अतो रागचित्तं काम इत्युच्यते । यस्य रागचित्तं भवति स कामान् पर्येषते । कामपर्येषणाप्रत्ययं रागप्रतिधवधविहिंसा अकुशला धर्मा अनुवर्तन्ते । यथोक्तं महानिदानसूत्रे- तृष्णां प्रतीत्य पर्येषणा इत्यादि । अतो ज्ञायते कामरागैर्विविक्तत्वात्विविच्यैव कामैरिति । केचिदाहुः- रूपादिभिः पञ्चकाम[गुणै]र्विविक्तं कामैर्विविक्तमिति । विविच्याकुशलै र्धर्मैरिति पञ्चनीवरणैर्विविक्तम् ।

प्रथमं ध्यानं विक्षिप्तचित्तासन्नत्वात्सवितर्कम् । योगावचरस्यापरिनिष्पन्नसमाधिबलस्य चित्तविक्षेपस्योदयात्सवितर्कम् । यथोक्तं सूत्रे- सवितर्क सविचारं विहारं विहरामीति । [अतो] ज्ञातव्यं भगवानवोचत्- विक्षिप्तचित्तं वितर्क इति । वितर्कोऽयं क्रमशश्चित्तसमाधानप्रवृत्तौ विचारो भवति । यदा समाधिपरिनिष्पत्त्या चित्तं न भूयसा विक्षिपति तदा विचारः । विचारोऽयं योगावचमनुतर्तयन् ध्यानान्तरालं प्राप्नोति । वितर्कविचारविविक्तस्य प्रीतिलाभे विवेकजा प्रीतिरिच्यते । प्रीतिरियं प्रथमलब्धा कायं सुखयतीति सुखं भवति । वितर्कविचारविवेक[जा] प्रीतिरेकालम्बनस्थिता ध्यानमित्युच्यते । ध्यानस्यास्य वितर्कविचारव्याकुलत्वात्कायान्तरविपाकं प्रतिलभते । अस्योत्तममध्यमाधमविभागात्सन्ति ब्रह्मकायिका ब्रह्मपुरोहिता महाब्रह्माणः ।

(पृ) यदि वितर्कविचारविवेक[जा] प्रीतिः प्रथमं ध्यानम् । तदा न स्यात्पञ्चाङ्गं प्रथमं ध्यानम् । यदि वितर्कविचारविवेकः, द्वितीयध्यानस्य को भेदः । उक्तञ्च सूत्रे- प्रथमं ध्यानं सवितर्कं सविचारम् । अन्यत्प्रश्रब्धिसुखमन्या च प्रीतिरिति । यदि प्रीतिरेव सुखम्, तदा सप्तसम्बोध्यङ्गेषु प्रस्रब्धिबोध्यङ्गं न पृथगुक्तं स्यात् । (
४०७) (उ) प्रथमं ध्यानं न स्यात्पञ्चाङ्गमिति भवद्वचनमयुक्तम् । न ह्युच्यते पञ्चाङ्गानि प्रथमध्यानस्वभावा इति । प्रथमध्यानस्यासन्नभूमाविमौ वितर्कविचारौ स्त इत्यङ्गमित्युच्येते ।

(पृ) यद्यासन्नभूमिको धर्मगणोऽङ्गमिति । प्रथमं ध्यानमपि पञ्चकाम[गुणा]नां प्रत्यासन्नमिति [ते] अङ्गानि वक्तव्यानि स्युः । (उ) पञ्चकाम[गुणा]न प्रत्यासन्ना भवन्ति । योगावचरचित्तं हि [त]द्विविक्तमेव । प्रथमध्यानानन्तरञ्च न कामचित्तमुदेति । पञ्चकामगुणाश्च न प्रथमध्यानस्याङ्गानि वर्तन्ते । अङ्गं नाम कारणम् । भाग एव कारणम् । यथार्यमार्गाङ्गानि सञ्चितानि कारणानित्यादि । तथा वितर्कविचारावपि प्रथमध्यानस्य कारणम् । यत्योगावचर आलम्बने समाहितः, [ततो] व्यावर्तने पुनस्समाधिनिमित्तमुपादाय तत्रालम्बने चित्तं समाधाय मौलिकं निमित्तं मनसि करोति । इमौ वितर्कविचारौ । अतो ज्ञायते वितर्कविचारौ प्रथमध्यानस्य कारणमिति । द्वितीयध्याने चित्तसमाधानं स्थितमेव । अतो न तौ कारणम् । ध्यानद्वयसमनन्तरञ्च न वितर्कविचारौ भवतः ।

यदाह भवान् प्रथमं ध्यानं वितर्कविचारसहगतमिति । तदयुक्तम् । प्रथमध्यान उत्पन्नेऽथ वितर्कविचारौ भवतः । तयोः प्रत्यासन्नत्वात्तत्सहगतमित्युच्यते । यथा शिष्येण सह गच्छतीति किञ्चिद्विप्रर्षेऽपि सहेत्युच्यते । अम्या भूमेर्जननहेतुकतया वितर्कविचारौ स्तः । यथा भूतपीडितः पुरुषो [भूत] अनुद्ग्रमेऽपि पीडित इत्युच्यते । पुरुषस्यास्य भूतदूषितस्य पुनरुद्भवप्रत्ययोऽस्तीति [कृत्वा] पीडित इत्युच्यते । सुखवेदनैव प्रीतिः । किन्तु विभज्योच्यते । प्रश्रब्धितोऽपि सुखं पृथगुच्यते । यथोक्तं सूत्रे- प्रश्रब्धकायः सुखं वेदयत इति ।

(पृ) तथा चेत्कथं प्रथमं ध्यानं पञ्चाङ्गमित्युच्यते । (उ) कालतः पञ्चोच्यन्ते । यथा सप्तबोध्यङ्गानि कालाभिसन्धिं लब्ध्वा चतुर्दश भवन्ति । तत्रोच्यते अस्ति कायप्रश्रब्धिः अस्ति चित्तप्रश्रब्धिरिति । न तु वस्तुतोऽस्ति कायप्रश्रब्धिः । चित्तमेव सुखितमिति [तत्] कायोऽपि वेदयते । एवं प्रीतिरपि प्रथमतः कायगता प्रीतिसुखमित्युच्यते । प्रीतिः प्रथमलब्धलक्षणा सुखं भवति । पश्चात्परं प्रीतिरित्यायते । (
४०८) कालभेदात् । न ह्यस्ति पृथक्प्रश्रब्धिधर्मः । प्रीतौ जातमात्रायां कायचित्ते अदुष्ठुले सुकुमारे दान्ते च भवत इत्यतः प्रश्रब्धिरित्युच्यते । यथा रोगिणश्चतुर्महाभूतानां निरोधः, अरोगिणश्चतुर्महाभूतानामुदयः तदा अयं पुरुषः सुखीति नाम । एवं प्रश्रब्धिरपि । प्रशमनेऽपि प्रश्रब्धिरित्युक्तम् । यथोक्तं सूत्रे- संस्काराणामनुपूर्वनिरोधः- तथाहि- प्रथमं ध्यानं समापन्नस्य वाक्निरुद्धा भवति । यावन्निरोधसमापत्तिं समापन्नस्य संज्ञा वेदना च निरुद्धा भवति । इति । अतो नास्ति पृथक्प्रश्रब्धिधर्मः ।

यदि मतं प्रथमं ध्यानं वितर्कविचारसम्प्रयुक्तमिति तदपि न युक्तम् । कस्मात् । उक्तं हि सूत्रे- यदि योगावचरः प्रथमं ध्यानं समापद्यते । तदा वाक्निरुद्धा भवति इति वितर्कविचारौ च वाचो हेतुः । कथं वाचो हेतुरस्ति, वाक्च निरुद्धा भवति । यदि मतं वितर्कविचारौ यद्यपि वर्तेते । व्यवहारमात्रं निरुद्धं भवतीति । तदा कस्यचित्कामधातुकचित्तगतस्य अव्यवहारकालेऽपि [विअतर्कविचार]रोधो भवेत् ।

(पृ) प्रथमध्याने वितर्कविचारौ न स्तः । आर्यस्तृष्णींभावः स्यात् । भवांस्तु द्वितीयध्यानमार्यतूष्णींभावमाह । न प्रथमध्यानम् । अतो ज्ञायते प्रथमध्याने वितर्कविचारौ स्यातामिति । (उ) वितर्कविचारप्रत्यासन्नत्वान्नाह आर्यतूष्णींभाव इति । न तु वितर्कविचारसम्प्रयुक्तत्वात् । उक्तञ्च सूत्रे- प्रथमध्यानस्य शब्दः कण्टक इति । अतो नाह तूष्णीभाव इति । (पृ) प्रथमध्यानस्य कस्मात्शब्दः कण्टको भवति । (उ) प्रथमध्याने समाधिगतं चित्तं कुसुमे सलिलवत्पेशलम् । द्वितीयध्यानादौ समाधिगतं चित्तं सर्जरस्रसतरुवत्सुदृढन् । स्पर्शादयोऽपि प्रथमध्यानस्य कण्टकाः । स्पर्शस्य प्रथमध्यानस्योत्थापकत्वात् । न तथा द्वितीयध्यानादेः । कस्मात् । प्रथमध्याने पञ्चविज्ञानानामव्युपशभात् । द्वितीयध्यानादौ च तेषां व्युपशमात् ॥

नवानुपूर्व [विहारे]षु प्रथमध्यानवर्गः पञ्चषष्ट्युत्तरशततमः ।


(
४०९)
१६६ द्वितीयध्यानवर्गः

[पुनश्च योगावचरः] वितर्कविचाराणां व्युपशमातध्यात्मं सम्प्रसादनं चेतस एकोतिभावमवितर्कमविचारं समाधिजं प्रीतिसुखं द्वितीयध्यानमुपसम्पद्य विहरति । (पृ) यदि वितर्कविचाराणां व्युपशमात्द्वितीयध्यानम्, तर्हि प्रथमध्यानं सवितर्कं सविचारमेष्टव्यम् । यथा द्वितीयध्याने प्रीतिरस्तीति व्युपशान्तप्रीति तृतीयध्यानमित्युच्यते । (उ) यथा प्रथमध्याने दुःखेन्द्रियेऽसत्यपि द्वितीयध्याने दुःखेन्द्रियव्युपशम उच्यते । तथेदमपि । (पृ) प्रथमध्याने दुःखेन्द्रियेऽसत्यपि [पञ्च] विज्ञानानि सन्ति । विज्ञानानि च दुःखेन्द्रियस्याश्रयाः । अत उच्यते प्रथमध्याने दुःखेन्द्रियस्याव्युपशमः । (उ) प्रथमध्याने सन्त्यपि विज्ञानानि न दुःखेन्द्रियस्याश्रया भवन्ति । (पृ)पञ्चविज्ञानस्वभावो दुःखेन्द्रियस्याश्रय[ता] । स्वाभाव्यात्प्रथमं ध्यानं सदुःखमुच्यते । (उ) तथा चे द्दौर्मनस्येन्द्रियं मनोविज्ञानस्वभावजमिति सर्वत्र भवेत् । (पृ) अधुना कस्मादुच्यते प्रथमध्याने दुःखेन्द्रियव्युपशमः । (उ) प्रथमध्यानसमाधिचित्तप्रत्यासन्नम् । असमाहितचित्तः कामधातुकप्रतीसंयुक्तानि विज्ञानान्युत्पादयति । तत्र दुःखेन्द्रियं भवति । अतो नोच्यते प्रथमध्याने दुःखे[न्द्रिय]व्युपशमः । (पृ) तथा चेत्प्रथमध्यानमपि दौर्मनस्येन्द्रियप्रत्यासन्नम् । तत्दौर्मनस्येन्द्रियमपि वक्तव्यं यदि द्वितीयतृतीयध्यानयोर्निरुद्धम् । (उ) कामाश्रयं दौर्मनस्येन्द्रियं कामश्रयप्रीतिजननम् । सुविशुद्धप्रीतिलाभिनोऽविशुद्धप्रीतिर्निरुध्यते । अतः प्रथमध्याने नास्ति दौर्मनस्येन्द्रियम् । असमाधिं निश्रित्य दुःखेन्द्रियमुत्पद्यते । प्रथमध्यानस्य विक्षिप्तचित्तप्रत्यासन्नत्वात्न [तस्य] व्युपशम उच्यते । यथा तृतीयध्याने दुःखं नास्ति । उच्यते च दुःखस्य सुखस्य च प्रहाणात्चतुर्थध्यानमुपसम्पद्य विहरतीति । तथेदमपि ।

योगावचरः प्रथमध्यानेऽपरिपूर्णसमाधिः सदा वितर्कविचाराभ्यां विक्षिप्यत इत्यत उच्यते द्वितीध्याने वितर्कविचाराणां व्युपशम इति । अध्यात्मं सम्प्रसादनमिति । द्वितीयध्याने निभृतश्चित्तसमाधानाद्विक्षेपः सदा नावकाशं लभते । अध्यात्ममविक्षिप्तचित्तत्वादध्यात्मं सम्प्रसादनमित्याख्या । इदं द्वितीयध्यानस्य रूपम् । चेतस एकोतिभावमवितर्कमविचारमिति । चेतस एकोतिभावश्चेतस (
४१०) एकस्मिन्मार्गे विहरणं ध्यानमित्युच्यते । इदमेवाध्यात्मं सम्प्रसादनम् । एतत्समाधिलाभात्वितर्कविचारौ न भवतः । न यथा प्रथमध्याने चैत्ता वितर्कविचारस्थाः । उत उच्यते अवितर्कमविचारमिति ।

समाधिजं प्रीतिसुखमिति । प्रथमध्याने विवेकात्प्रीतिं लभते । अत्र तु समाधिपरिनिष्पत्त्या प्रीतिं लभते । अत आह समाधिजमिति । (पृ) प्रथमध्यानगतप्रीतेः द्वितीयध्यानगतप्रीतेश्च को भेदः । (उ) प्रथमध्याने दौर्मनस्यव्युपशमात्प्रीतिः । द्वीतीयध्याने दुःखव्युपशमात्प्रीतिः । प्रथमध्याने प्रीतिरविशुद्धप्रीतिविरोधितया लभ्यते । यद्युभे अपि प्रीति तृष्णाप्रत्यये । तथापि प्रथमध्याने सातिपेशला ।

(पृ) एतादृशोऽर्थः किं सास्रवः किमनास्रवः । (उ) सर्वं सास्रवम् । आत्मसंज्ञायां सत्यामस्ति प्रीतिः । यस्यानास्रवं चित्तम् । तस्य नास्त्यात्म[संज्ञा] । आत्मनोऽसत्त्वान्नास्ति प्रीतिः ।

(पृ) असत्यास्रवे नास्ति प्रीतिरितीदमप्ययुक्तम् । भगवान् सप्तसम्बोध्यङ्गेषु प्रीतिसम्बोध्यङ्गमाह । प्रीतिसम्बोध्यङ्गन्तु अनास्रवम् । अतो ज्ञाउयतेऽस्त्यनास्रवा प्रीतिरिति । उक्तञ्च सूत्रे- प्रीतिमनस्कस्य कायः प्रश्रभ्यति । प्रश्रब्धकायः सुखं वेदयते इति । यदि नास्त्यनास्रवा प्रीतिः । नास्त्यनास्रवा प्रश्रब्धिः नास्तनास्रवं सुखमित्यपि भवेत् । परमकुशलधर्मचारिणः परिषद्गणान् पश्यतो भगवतः प्रीतिर्भवति । अतो ज्ञायतेऽस्त्यनास्रवा प्रीतिरिति । (उ) सप्तभिः सम्बोध्यङ्गैरनास्रवां प्रीतिमधिगच्छतीति तव[मत]मिदमयुक्तम् । सम्बोध्यङ्गं द्विविधं सास्रवमनास्रवञ्चेति । यथोक्तं सूत्रे- यस्मिन् समये योगावचरो धर्मं शृणोति । अस्य पञ्च नीवरणानि तस्मिन् समये न भवन्ति, सप्तबोध्यङ्गानि च तस्मिन् समये भावनापरिपूरिं गच्छन्ति । सम्बोधिश्च असंम्बोधिज्ञानस्याख्या । यदि सम्बोधाय भवन्ति । अविशुद्धादिधर्माणामाचरणं सम्बोध्यङ्गमुच्येत । भवानाह- नास्त्यनास्रवा प्रीतिरित्यपि स्यादिति । पूर्वं प्रीतौ समुत्पन्नायां पश्चादनास्रवं यद्यथाभूतदर्शनं प्रतिलभते । न च सर्वाः प्रश्रब्धयः प्रीतिं प्रतीत्य भवन्ति । यथा द्वितीयध्याने (
४११) प्रीतिर्नास्ति, अस्ति च प्रश्रब्धिः । न वयं ब्रूमो ज्ञानविनिर्मुक्तोऽस्ति पृथग्वेदनाधर्म इति । इदमनास्रवं प्रथमतश्चित्तगतं सुखमित्युच्यते । अतोऽस्त्यनास्रवं सुखम् । न तु प्रीतिं प्रतीत्य भवति । किञ्चोक्तं सूत्रे- कायचित्तयोर्दौष्ठल्यापनयनं प्रश्रब्धिः । अनास्रव[ज्ञान]प्रतिलम्भकाले कायचित्तयोर्दान्तत्वातस्त्यनास्रवा प्रश्रब्धिः । भगवान् सदोपेक्षाचित्ते विहरतीत्यत आह- अस्ति भगवतः प्रीतिरिति । इदं वस्तु प्रकाशयितव्यम् ।

यस्य नास्त्यात्मा । न तस्यास्ति प्रीतिः । यद्यर्हतोऽस्ति प्रीतिः । दौर्मनस्यमपि भवेत् । वस्तुतस्तु नास्ति दौर्मनस्यम् । अतो ज्ञायते नास्ति प्रीतिरिति । (पृ) यथा द्वितीयध्यायेऽस्ति प्रीतिः नास्ति तु दौर्मनस्यम् । तथा अर्हतोऽपि प्रीतिरस्ति न दौर्मनस्यम् । को दोषः । (उ) सर्वेषु ध्यानसमाधिषु अस्ति दौर्मनस्यं यथा इन्द्रियार्थेषूच्यते । दौर्मनस्यं प्रीतिश्च यावद्भवाग्रं[भवति] । सुखदुःखे च यावच्चत्वारि ध्यानानि कायमनुगच्छतः । किञ्च तृतीयध्यानगतः प्रीतेर्विरागादुपेक्षको विहरतीत्युच्यते । अतो नास्त्यनास्रवा प्रीतिरिति । यद्यस्ति, कथं विरागादिति वचनं भवेत् । अनास्रवे चित्ते च प्रीति र्न भवेत् । प्रीतयः सर्वाः प्रज्ञप्तिसंज्ञाविकल्पं निश्रित्य भवन्ति ।

(पृ) तथा चेत्प्रथमद्वितीयध्यानयोर्नास्त्यनास्रवा वेदना । उक्तं हि सूत्रे- प्रथमद्वितीयध्यानयोः केवलं प्रीतिरस्ति न चैतसिकं सुखमिति । इदानीं प्रीतिरपि नास्ति । किमस्ति पुनः । (उ) इयं प्रीतिः प्रीतेर्विरागादित्यादि नानास्रवं ध्यानमाह । किञ्चित्पुनः सूत्रमाह- अनास्रवं ध्यानम्, यद्योगावचरो यदाकारं यदालम्बनं प्रथमध्यानमुपसम्पद्य विहरति । न तदाकारं तदालम्बनं स्मरति । किन्तु पश्यति प्रथमध्यानगतानि रूपवेदनासंज्ञासंस्कारविज्ञानानि रोगतो गण्डतो यावदनात्मतः ।

(पृ) रोगतो गण्डतः शल्यतोऽघत इत्येतानि चत्वारि लोकचरितानि नानास्रवाणि । अत इदं सूत्रं प्रमाणीकृत्य नानास्रवं साधयितुं शक्नोषि । (उ) इमे चत्वार आकारा दुःखस्य नामान्तराणि । अतोऽनास्रवाणि । (पृ)शैक्षस्यापि किं नास्त्यनास्रवा प्रीतिः । (उ) मार्गचित्तगतस्य नास्ति प्रीतिः । व्यवहारगतस्य त्वस्ति । अशैक्षस्य सर्वदा नास्ति । (पृ) उक्तं हि सूत्रे- प्रीतिसुखचित्तेन चत्वारि सत्यानि प्रतिलभत इति । कथमाह- नास्त्यनास्रवा प्रीतिरिति । (उ) अनात्मचित्तमेव सुखम् । (
४१२) योगावचरः प्रतिलब्धानात्मचित्तो विपर्ययं विनाशयति । परमार्थज्ञानात्तु चित्तं प्रमोद्यते । न पृथगस्ति प्रीतिः । किञ्च तत्सूत्रं प्रकाशयति न प्रीत्या परमार्थज्ञानं प्रतिलभत इति । अत एवमुच्यते ॥

द्वितीयध्यानवर्गः षट्षष्ट्युत्तरशततमः ।


१६७ तृतीयध्यानवर्गः

प्रीत्याश्च विरागादुपेक्षको विहरति स्मृतः सम्प्रजानन् सुखञ्च कायेन प्रतिसंवेदयते यदार्या आचक्षन्ते उपेक्षकः स्मृतिमान् सुखविहारीति तृतीयं ध्यानमुपसम्पद्य विहरति ।

(पृ) कस्मात्प्रीत्याश्च विरागादिति । (उ) योगावचरः प्रीतौ परिभ्रमेदिति विरागः । प्रीतिश्चेयं संज्ञाविकल्पजा, चञ्चला प्रवृत्तिलक्षणा । प्रथमत आरभ्य दुःखानुयायिनी । हेतुनानेन विरागः । योगावचरः शान्तं तृतीयध्यानं लभमानो द्वितीयध्यानं प्रजहाति । प्रीतिजं सुखञ्च मन्दम् । प्रीतिविरागजं सुखं गभीरम् । यथा कश्चित्पुत्रभार्यादिभिः सदा न प्रीतो भवति । प्रीतेः संज्ञाविकल्पजत्वात् । सुखं न संज्ञाविकल्पजमिति सदा भवति । तथा योगावचरोऽपि प्रीतिं प्रथमत आगतां तु सुखं मन्यते । पश्चात्तु [ततो] निर्विद्यते ।

(पृ) यदि कश्चिद्धर्मपीडितः, स तु शीतं सुखं मन्यते । योगावचरः केन दुःखेन पीडितः तृतीयं ध्यानं सुखं मन्यते । (उ) द्वितीयध्याने प्रीतिश्चञ्चलसंज्ञोदिता कण्टकाहतिवत्, योगावचरोऽनया प्रीत्या पीडित इति अप्रीतिसमाधौ सुखसंज्ञां करोति । (पृ) धर्मदुःखास्तित्ववशात्शीतं सुखं भवति । यदि धर्मविविक्तो भवति । न तदा शीतं सुखं भवति । योगावचरः प्रीतिविविक्तः कस्मात्पुनस्तृतीयध्याने सुखसंज्ञां करोति । (उ) सुखजननं द्वितीयध्यानं कदाचित्दुःखवर्तनात्सम्भवति । यथा धर्मदुःखिनः शीतं सुखं भवति । कदाचित्दुःखविवेकात्सम्भवति । यथा विप्रियविवेकः । यथा भगवान् कौशाम्बिभिक्षुविविक्त आह- अहं सुखीति । तथेदमपि चलसंज्ञाविविक्तः तृतीयध्याने सुखसंज्ञा करोति । यथा पञ्चकामगुणविवेकात्प्रथमं ध्यानं सुखं भवति ।

(
४१३)
उपेक्षक इति । प्रीतेर्विरागादिति शान्तं भवति । योगावचरः पूर्वं प्रीतिसंसक्तमना बहुधा विक्षिप्तः । इदानीं ततो विरागाच्चित्तं शाम्यति । अत उपेक्षक इत्युच्यते । स्मृतः सम्प्रजाननिति । प्रीत्यादीनवादेतदुभयं सदोपनीयते । न तेन प्रीतिरागता प्रभिन्ना भवति । किञ्च स्मृत इति प्रीतेरादीनवं स्मरति । सम्प्रजानान् प्रीतावादीनवं पश्यति । सुखञ्च कायेन प्रतिसंवेदयत इति । प्रीतिविरक्तस्योपेक्षकस्योपेक्षैव सुखम् । अनिञ्जनानीषत्वात् । नेदं सुखं संज्ञाविकल्पजम् । अतः सुखञ्च कायेन प्रतिसंवेदयत इति नाम । यत्तदार्या आचक्षन्त उपेक्षक इति । आचक्षणं नाम लौकिकाननुसृत्य सुखमिति कथनम् । यथाचक्षन्ते नैवसंज्ञानासंज्ञायतनमिति । अनासक्तचित्तत्वातुपेक्षक इति । स्मृतिमान् सुखविहारीति । पुरुषोऽयं प्रज्ञायोपेक्षते यत्प्रीतावादीनवं दृष्ट्वा निर्विद्यत इत्यतः सूपेक्षां लभते । कल्याणस्मरणं यत्प्रीतावादीनवस्मरणम् । तत्रापि वक्तव्यं सम्प्रजाननिति । स्मृत्या साहचर्यात्नोच्यते । सुखमिति परमसुखम् । अत आर्या आचक्षन्त उपेक्षक इति ।

(पृ) तृतीयध्यानेऽस्ति सुखप्रतिसंवेदनम् । कस्मादाह- उपेक्षासुखमिति । (उ) नाहमस्मिन् शास्त्रे वदामि वेदनाव्यतिरिक्तं पृथगस्ति उपेक्षासुखमिति । सुखप्रीतिसंवेदनमेवोपेक्षासुखम् । (पृ) तथा चेत्चतुर्थध्याने सुखप्रतिसंवेदनं वक्तव्यम् । उपेक्षायाः सत्त्वात् । (उ) चतुर्थध्यानेऽपि सुखप्रतिसंवेदनमस्तीति वदामि । किन्तु तृतीयध्यानसुखस्य प्रहाणादेवमुच्यते । (पृ) यदि सुखप्रतिसंवेदनसमन्वितम् । कस्मात् । प्रथमद्वितीयध्यानयोः प्रीतिरित्याख्या । तृतीयध्याने सुखमिति । (उ) संज्ञाविकल्पस्य सत्त्वात्प्रीतिः । तस्याभावात्सुखम् । योगावचरस्य तृतीयध्याने समाहितचित्तवृत्तित्वेन संज्ञाविकल्पस्याभावात्सुखमित्युच्यते । तृतीयध्यानप्रवृत्त्युपशमस्य लाभाच्च सुखमित्युच्यते । यता इञ्जनमीषणचित्तमार्या दुःखमिति वदन्ति । इञ्जनं नाम विकल्पस्याभिधानम् । तदेव सुखम् ॥

तृतीयध्यानवर्गः सप्तषष्ट्युत्तरशततमः ।


१६८ चतुर्थध्यानवर्गः

सुखस्य च दुःखस्य च प्रहाणात्पूर्वमेव सौमनस्यदौर्मनस्यानामस्तङ्गमाददुःखमसुखमुपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानमुपसम्पद्य विहरति । (पृ) यदि पूर्वमेव (
४१४) दुःखस्य प्रहाणम् । कस्मादत्रोच्यते । यद्यवश्यं वक्तुमिष्टम्, वक्तव्यं पूर्वमेव प्रहाणादिति । यथा पूर्वमेव सौमनस्यदौर्मनस्यानामस्तङ्गमादिति । (उ) चतुर्थध्यानमनिञ्जनम् । तदानिञ्जनलक्षणसाधनायोच्यते नास्ति चतुर्थी वेदनेति । कस्मात् । इञ्जनं नाम कम्पनारम्भः । योगावचरस्य सुखसुखाभिद्रुतस्य चित्तमिञ्जते । चित्त इञ्जिते रागद्वेषौ भवतः । सुखस्य दुःखस्य च प्रहाणात्चित्तं नेञ्जते ।

(पृ) यदि चतुर्थध्यानं हिततमं वेद्यते । कस्मात्सुखमिति नोच्यते । (उ) वेदनाया अस्तङ्गमाददुःखमसुखमित्युच्यते । यत्रेदं सुखमिति चित्तं स्मरति प्रजानाति । तत्सुखमित्युच्यते । तृतीयध्यानकसुखविविक्तस्य चतुर्थध्यानस्य लाभान्न सुखमिति गण्यते ।

उपेक्षास्मृतिपरिशुद्धमिति । अत्रोपेक्षा परिशुद्धा । अनीषणत्वात् । त्रिषु ध्यानेष्वस्ति ईषणं यदिदं सुखमिति । अस्मिंश्च ध्याने स्मृतिरपि परिशुद्धा । कस्मात् । तृतीयध्याने सुखासङ्गित्वात्स्मृतिर्व्याकुला । चतुर्थध्यानं प्राप्य सुखरागस्य प्रहाणात्स्मृतिः परिशुद्धा ।

(पृ) कस्माच्चतुर्थध्याने न सम्प्रजन्यमुक्तम् । (उ) यद्युक्तं स्मृतिपरिशुद्धमिति । सम्प्रजन्यमुक्तमेवेति वेदितव्यम् । अनयोर्द्वयोर्धर्मयोर्मिथोऽव्यभिचारात् । किञ्चायं ध्यानसमाधिमार्गः न सम्प्रजन्यमार्गः । सम्प्रजन्यस्य प्रज्ञा[रूप]त्वान्नोच्यते । तृतीयध्यानस्य चरमभागेऽपि नोच्यते सम्प्रजन्यम् । उपेक्षकः स्मृतिमान् सुखविहारीति केवलमुच्यते । नोच्यते उपेक्षकः स्मृतिसम्प्रजन्यवान् सुखविहारीति । स्मृतिरियं ध्यानसमाधिं साधयति । यदि कस्यचित्समाधिरसिद्धा, [तस्य] संज्ञामादाय स्मृतिः साधयति । तेन केवलमुच्यते । उत्तमगुणमुपेक्षां प्राप्तस्य नाधमगुणो मनस्कारोऽपेक्ष्यते । अतः सम्प्रजन्यं नोच्यते ।

(पृ) अदुःखासुखा वेदना अविद्याङ्गम् । चतुर्थध्याने भूयसा सम्प्रजन्यविरुद्धम् । अतो नोच्यते सम्प्रजन्यम् । (उ) तथा चेतदुःखासुखा वेदना नानास्रवा स्यात् । सुखवेदनायाः कामाङ्गत्वात् । न च [सा]नास्रवा । (पृ) तृतीयध्याने स्वभूमिदोषविरोधायोच्यते सम्प्रजन्यम् । परभूमिदोषविरोधाय चोच्यते स्मृतिः । चतुर्थध्याने स्वभूमिर्नैवं दुष्टेत्यत्यतो नोच्यते सम्प्रजन्यम् । (उ) चतुर्थध्यानेऽपि अस्ति कामादिदोषः । अतो वक्तव्यं सम्प्रजन्यम् । अत्र कामदोषोऽतिसूक्ष्मः दुरवबोधः अतोऽवश्यं वक्तव्यं स्यात् । अन्यभूमौ वक्तव्यमपि नोच्यते । अतो ज्ञायते यथास्मत्प्रतिवचनं स्यादिति ।

(
४१५)
(पृ) कस्माच्चतुर्थध्यान आश्वासप्रश्वासनिरोधः । (उ) प्रश्वासः कायं चित्तञ्चाश्रयते । केनेदं ज्ञायते । यदा चित्तं सूक्ष्मं, तदा श्वासोऽपि सूक्ष्मः । चतुर्थध्याने चित्तमचलमित्यत आश्वासप्रश्वासौ निरुद्धौ । यथा कश्चित्परमक्लान्तो भारं वहति । पर्वतं वा आरोहति तदाश्वासः स्थूलो भवति । श्वसनकाले [पुनः] सूक्ष्मः । तथा चतुर्थध्यानेऽप्येवमचलसंज्ञया चित्तमुपशान्तमित्यत आश्वासप्रश्वासौ निरुद्धौ । केचिद्वदन्ति योगिनश्चतुर्थध्यानकचतुर्महाभूतलाभितया कायगतरोमकूपाः संवृताः । अतः श्वासो निरुद्ध इति । तदयुक्तम् । कस्मात् । अन्नपानरसप्रवाहः कायमभिव्याप्नोति । यदि रोमकूपाः संवृताः, न समुदाचरेत् । वस्तुतस्तु न सम्भवति । अतो ज्ञायते चतुर्थध्यानचित्तबलमेव श्वासनिरोधकमिति ।

(पृ) चतुर्थध्याने नास्ति सुखा वेदना । तत्र कथमस्ति तृष्णानुशयः । उक्तं हि सूत्रे- सुखवेदनायां तृष्णानुशय इति । (उ) तत्रास्ति सूक्ष्मा सुखा वेदना । औदारिकसुखप्रहाणात्परमुच्यते अदुःखमसुखमिति । यथा समीरणप्रकम्पितप्रदीपः । यदि निगूढगृहे निक्षिप्यते । तदा न कम्पते । तत्रावश्यमस्ति खलु सूक्ष्मो वातः । औदारिकवाताभावात्तु न कम्पते । तथा चतुर्थध्यानेऽप्यस्ति सूक्ष्मं सुखम् । औदारिकसुखदुःखप्रहाणाददुःखमसुखमित्याख्यायते ॥

चतुर्थध्यानवर्गोऽष्टषष्ठ्युत्तरशततमः ।

१६९ आकाशानन्त्यायतनवर्गः

सर्वशो रूपसंज्ञानां समतिक्रमात्प्रतिघसंज्ञानामस्तङ्गमात्नानात्वसंज्ञानाममनस्कारा दनन्तमाकाशमित्याकाशानन्त्यायतनमुपसम्पद्य विहरति । रूपसंज्ञा नाम रूपरसगन्धस्पर्शसंज्ञाः । योगावचरः कस्मात्[ताः] समतिक्रामति । यदेषु रूपेषु प्रतिघः अन्तरायः । नानात्वसंज्ञा यत्घण्टाभेर्यादयः । एताः संज्ञा विविधक्लेशानां विविधकर्मणां विविधदुःखानां हेतवः । अतो हेतोः समतिक्रामति । सर्वशो रूपसंज्ञानां समतिक्रान्तस्य (
४१६) प्रतिघसंज्ञा निरुध्यते । प्रतिघसंज्ञानिरोधे नानात्वसंज्ञा न भवति । तत्र संक्षेपान्नोक्तमस्य समतिक्रमादस्य निरोध इति ।

केचिदाहुः- सर्वशो रूपसंज्ञेति चक्षुर्विज्ञानाश्रिता संज्ञा इति । प्रतिघसंज्ञेति श्रोत्रघ्राणजिह्वाकायविज्ञानाश्रिता संज्ञा । नानात्वसंज्ञेति मनोविज्ञानाश्रिता संज्ञा । इति । इदमयुक्तम् । कस्मात् । प्रतिघसंज्ञा निरुध्यत इति वदतो रूपं सङ्ग्रहीतमेव । कस्मात्पृथगुच्यते । रूपसंज्ञां प्रतिघसंज्ञाञ्च विना नास्ति पृथङ्मनोविज्ञानाश्रितं रूपम् । अतो न वक्तव्यं पृथङ्नानात्वसंज्ञेति । इति यथापूर्वं वक्तव्यम् ।

आकाशानन्त्यायतनमुपसम्पद्य विहरतीति । योगावचरः रूपसंज्ञाभिभवपरिश्रान्तत्वादाकाशानन्त्यायतनं भावयति । अन्तश्चक्षुर्घ्राणग्रीवाद्याकाशसंज्ञां गृह्णाति । बहिः कूपगुहाद्वारान्तर्वृक्षवाटिकाद्याकाशसंज्ञां गृह्णाति । किञ्चायं कायो मरणविपन्नः स्मशानाग्निना दग्धः प्रणश्यति । अतो ज्ञायते कायोऽयं पूर्वं साकाश इति ।

(पृ) अयमाकाशसमाधिः किमालम्बनेन भवति । (उ) आदित आकाशालम्बनः स्वीयस्कन्धालम्बनः परकीयस्कन्धालम्बनश्च सिद्धो भवति । कस्मात् । करुणाशीर्षक एवं चिन्तयति- सत्त्वा दयनीया रूपसंज्ञापीडिता इति । (पृ) समाधिरयं कं सत्त्वमवलम्बते । (उ) सर्वसत्त्वानवलम्बते । (पृ) योगावचरोऽयं रूपसंज्ञाविविक्तः । कथं रूपसत्त्वानवलम्बते । (उ) अयं रूपमवलम्बते । रूपे तु चित्तं न सुप्रबुद्धं नाभिरक्तं नाभ्यासक्तम् । यथोक्तं सूत्रे- आर्यः पञ्चकामगुणान् दृष्ट्वा संस्मरन्न तत्राभिनन्दति न प्रबोधयति नाध्यवसाय तिष्ठति । ततो भीतो निवर्तते । यथा तापात्चर्मच्छेदः । निर्वाणमनुस्मरतश्चित्तं तत्र सुप्रबुद्धं भवति इति । एवमयमपि रूपमवलम्बमानो न [तत्रा]भिनन्द्याध्यवसाय तिष्ठति । यथा च योगावचरो रूपसंज्ञाविविक्तोऽपि आकाशान्तेन चतुर्थध्यानमवलम्बते । यथा अरूपसमाधिरनास्रवं रूपमबलम्बते । न तत्र दोषोऽस्ति । अक्लेशायतनत्वात् । तथान्यदपि स्यात् ।

(
४१७)
(पृ) आकाशं रूपायतनस्वभावम् । कथमिदमालम्ब्य रूपसंज्ञाः समतिक्रामति । (उ) समाधिरयमसंस्कृताकाशावलम्बित्वात्रूपाणि समतिक्रामति । (पृ) समाधिरयं नासंस्कृतमाकाशमवलम्बते । कस्मात् । अस्मिन् समाध्युपाये चक्षुरादिमध्य[गत]माकाशमुक्तम् । अतो ज्ञायते संस्कृतमाकाशमवलम्बत इति । न चोक्तं सूत्रे असंस्कृताकाशस्य लक्षणम् । संस्कृताकाशलक्षणमत्रमुक्तं यत्र रूपं नास्ति तदाकाशमिति । अतो नासंस्कृतमाकाशम् । (उ) न रूपस्वभावामाकाशमुच्यते । कस्मात् । उक्तं हि सूत्रे आकाशमरूपमदृश्यमप्रतिघमिति । (पृ) अस्ति पुनः सूत्रवचनम्- आलोकं प्रतीत्याकाशं जानीम इति । न रूपं विहायास्त्यन्यो धर्म आलोकं प्रतीत्य ज्ञाप्यः । (उ) रूपाभाव आकाश इत्युच्यते । रूपाण्यालोकेन ज्ञाप्यानि । अत आलोकं प्रतीत्य रूपाभावो ज्ञायते । नत्वाकाशमस्ति ।

तमस्यपि आकाशं ज्ञायते । अन्धो हस्तेनापि आकाशं जानाति । दण्डेनापि आकाशमिदमिति जानाति । अतो ज्ञायते आकाशं न रूपस्वभावमिति । न रूपमेभिः प्रत्ययैर्ज्ञाप्यते । रूपमिदञ्च सप्रतिघम् । आकाशमप्रतिघम् । आन्यादिः रूपाण्यत्यन्तं क्षपयति । नत्वाकाशम् । यद्याकाशं क्षीयते, किमात्मकं भवेत् । (पृ) रूपस्योत्पादेसत्याकाशमस्तमेति । यथा भित्तावुद्भूतायां न पुनराकाशमस्ति । (उ) तत्र रूपमुत्पन्नम् । नानेन रूपेण यत्किञ्चित्क्षीयते । कस्मात् । रूपाभावो ह्याकाशम् । नह्यभावः पुनरभावः कर्तुं शक्यः । अतो न रूपाकाशं क्षपयति । भवानाह- आकाशं रूपमिति । न तत्रास्तिकारणं येनेदं रूपं भवेत् । (पृ) पश्यामः खलु द्वारादावाकाशम् । प्रत्यक्षदृष्टे न कारणापेक्षा । (उ) आकाशं न प्रत्यक्षदृश्यमिति पूर्वमेव दूषितत्वात्- यत्तमस्यपि ज्ञाप्यमित्यादि ।

(पृ) यद्याकाशं न रूपम् । को धर्म इदं भवति । (उ) अभावधर्म आकाशम् । यत्र[रूपं] नास्तीति वचनं तत्राकाशं भवति । (पृ) उक्तञ्च सूत्रे- षड्धातुरयं पुरुषकाय इति । किञ्चाह- आकाशमदृश्यमरूपमप्रतिघमिति । यद्यभावधर्मः, (
४१८) नैव वक्तुं शक्यते । न हि शशशृङ्गदृश्यमरूपमप्रतिघमित्युच्यते । (उ) यो वस्तुसन् धर्मः स सर्वः प्रतिष्ठितो भवति । यथा नाम रूपाश्रितम्, रूपञ्च नामाश्रितम् । आकाशन्त्वनाश्रितमतोऽभावधर्म इति ज्ञायते । यद्भभवानाह- आकाशं धातुरिति । तदपि न युक्तम् । कस्मात् । रूपे रूपं प्रतिहन्यते रूपमसति विरुद्धरूपे विवर्धते । अनेनार्थेनाह भगवान्- षड्धातुकोऽयं पुरुषकाय इति । [यत्] भवानाह- न हि शशशृङ्ग मदृश्यमरूपमप्रतिघमित्युच्यत इति । तदप्ययुक्तम् । कस्मात् । सर्वथा आकाशवशाल्लभ्यते । अस्ति कृतकमतीतानागतवस्त्वादि । नेदृशमस्ति शशशृङ्गादौ । (पृ) चित्तमप्येवमरूपममूर्तमप्रतिघम् । नास्तीति वक्तव्यम् । (उ) चित्तन्तु कर्म करोति यदालम्बनमुपादत्ते । आकाशमकर्मकम् । अभावमात्रेण कृतकास्तितालाभादभावधर्म इति ज्ञायते अतोऽयं समाधिरदित आकाशमवलम्बते ।

(पृ) समाधिरयं कतमां भूमिमवलम्बते । (उ) सर्वा भूमिः निरोधमार्गञ्चावलम्बते । (पृ) केचिदाहुः- अरूपसमापत्तयो निरोधालम्बना अपि अयमनुमानज्ञानभागीयं निरोधमात्रमालम्बते । न दृष्टज्ञानभागीयं निरोधम् । इति । तत्कथम् । (उ) सर्वं निरोधमवलम्बते । दृष्टधर्मज्ञानेन प्रत्युत्पन्नस्वभूमि[गत]निरोधमवलम्यते । अनुमानज्ञानेनान्यनिरोधमवलम्बते । एवं मार्गोऽपि । सर्वप्रतिपक्षावलम्बित्वात् ।

(पृ) आरूप्यधातुगताः सत्त्वा अन्यभूमिकचित्तमुत्पादयन्ति न वा । (उ) अन्यभूमिकचित्तमनास्रवचित्तञ्चोत्पादयन्ति । (पृ) तथा चेत्कथं न च्युतिर्भवति । (उ) कर्मविपाके वर्तमानत्त्वान्न च्यवते । यथा कामधातौ रूपधातौ चाभिज्ञाबलादन्यस्मिन् रूपे अन्यस्मिन् चित्ते स्थितोऽपि न च्यवते । तथा तत्रापि । (पृ) आकाशानन्त्यायतनसमाधेराकाशायतनस्य कृत्स्नायतनस्य च को भेदः । (उ) आकाशानन्त्यायतनं समापित्सोरुपायमार्गः कृत्स्नमित्याख्यायते । समाधिसमापत्तिः सम्पन्ना आकाशसमाधिसमापत्तिः ? । तत्र समाधेर्हेतुफल[भावो] भूमिः सर्वा सास्रवा [वा]अनास्रवा । यदि समाधिः, समाधिं विना यदि संक्लेशः यदि वा व्ववदानं सर्वमाकाशानन्त्यायतनमित्याख्यायते ? ॥

आकाशानन्त्यायतनवर्ग एकोनसप्तत्युत्तरशततमः ।


(
४१९)
१७० आरूप्यसमाधित्रितयवर्गः

सर्वश आकाशानन्त्यायतनं समतिक्रम्य [अनन्तं विज्ञानमिति] विज्ञानानन्त्यायतनमुपसम्पद्य विहरति । योगावचरो रूपात्परमनिर्विण्णो रूपप्रतिपक्षधर्ममप्युपेक्षते । यथा नदीं तीर्त्वा उडुपं त्यजति । यथा वा चोरं निष्कास्य निवर्तयितुमिच्छति । तथा योगावचरोऽपि आकाशं प्रतीत्य रूपं परिभेदयन् [आकाश]मपि परिजिहीर्षति ।

विज्ञानानन्त्यायतनमिति योगावचरो विज्ञानेनानन्तमाकाशमित्यवलम्बमानः तदा अनन्तं विज्ञान[मपि आलम्बते] । अत आकाशमुपेक्ष्य विज्ञानमवलम्बते । यथा रूपपरिश्रान्त आकाशमालम्बते । तथा आकाशपरिश्रान्त उपशमेच्छया विज्ञानमात्रमालम्बते । पुद्गलोऽयं विज्ञानेनाकाशमालम्बत इत्यतो विज्ञानप्रधान इत्युच्यते । अतो विज्ञानमात्रमालम्बते ।

योगावचरो विज्ञानेनालम्बनमनुवर्तयन् कालमनुवर्तत इत्यतोऽनन्तमस्ति । तत्परिश्रमनिर्विण्णो विज्ञानं परिभिद्य तत्परिजिहीर्षया आकिञ्चन्यायतनमुपसम्पद्य विहरति । [तदा] एवं चिन्तयति विज्ञानमस्ति तत्र दुःखम् । मम यद्यस्ति अनन्तं विज्ञानम्, तदा अवश्यमन्ते दुःखेन भाव्यमिति । अतो विज्ञानालम्बनचित्तं प्रगृह्णाति । चित्तस्य [परम]सूक्ष्मत्वाताकिञ्चन्यमित्युच्यते ।

पुनरेवं चिन्तयति- अकिञ्चन्यमितीयं संज्ञा । संज्ञा च दुःखोपायायासाय भवति रोगतो गण्डतः । यस्य संज्ञा नास्ति स पुनर्मूढो भवति । यदाकिञ्चन्यं पश्यामि तदेव किञ्चिद्भवति । अतः संज्ञाभ्यो न विमोक्षलब्धः । योगावचरः संज्ञां विपदमासज्ञिकं सम्मोहं पश्यति । इति नैवसंज्ञानासंज्ञायतनमुपसम्पद्य विहरति । शान्तं प्रणीतञ्च यत्नैवसंज्ञानासंज्ञायतनमित्युच्यते । पृथग्जनाः सदोत्रस्ता असंज्ञां सम्मोहं मन्यन्ते । अतो नात्यन्तं चित्तं निरोद्धुमलं भवन्ति ।

केचिदाहुः- असंज्ञिसत्त्वा अपि चित्तं निरोद्धुमलमिति । तदयुक्तम् । (
४२०) कस्मात् । यदि रूपधातौ चित्तं निरोद्धुमलं भवन्ति कस्मादारूप्यधातौ नालम् । (पृ) रूपधातुः रूपवानित्यतश्चित्तं निरोधयन्ति । आरूप्यधातौ प्रागेव रूपं निरुद्धम्, इदानीं पुनश्चित्तं निरुध्यते रूपचित्तयोर्युगपन्निरोधं पश्यत उत्राससम्मोहः स्यात् । (उ) यत्तत्र वर्तमानं न [तत्] निरोधकम् । तदन्तराजायमानन्तु निरोधकं स्यात् । यथा निरोधसमापत्तौ । (पृ) चित्तनिरोधस्य फलमासंज्ञिकम् । अतो रूपचित्तनिरोधेऽत्यन्तदोषाय भवति । (उ) निरोधसमापत्तेरपि सचित्तकता फलम् । तथेदमपि । यदि फलमसमुच्छिन्नम्, [तदा] फलस्थ इति नाम । यथा निर्मितगतं रूपं निर्मितचित्ते पुनः फलमुत्पादयति । अतो नात्यन्तं निरुध्यते । अतो रूपधातौ न चित्तनिरोधो वक्तव्यः । यद्युच्यते । अरूपधातावपि वक्तव्यः स्यात् ।

असंज्ञि समापत्तौ च न चित्तं निरुध्येत । कस्मात् । योगावचरोऽवश्यं चित्तनिर्वेदात्चित्तविरागात्चित्तं निरोधयति । यदि चित्तनिर्विण्ण एवारूपधातौ नोत्पद्येत । किं पुनः रूपधातावुत्पद्येत इति । पृथग्जनाश्चित्ते गभीरमात्मसंज्ञामुत्पादयन्ति । यथोक्तं सूत्रे- दीर्घरात्रं [ह्येतत्भिक्षवः] अश्रुतवतः] पृथग्जनस्य अध्यवसितं ममायितं परामृष्टमेतन्मम एषोऽहमस्मि एष म आत्मेति । अतो न निश्शेषं निर्विद्यते विरज्यते । किञ्चोक्तं सूत्रे- तीर्थिकाः त्रयाणामुपादानानां समुच्छेदं निरोधमुपदिशन्ति नात्मवादोपादानस्य इति । अतो न चित्तं निरोद्धुमलम् । यथा मर्कटोपमसूत्रम् [अश्रुतवान्] पृथग्जनः कायं विरज्येत न चित्तम् । वरं [भिक्षवः अश्रुतवान्] पृथग्जन इमं चातुर्महाभौतिकं काय[मात्मत] उपगच्छेत्न त्वेव चित्तम् । तत्कस्य हेतोः । दृश्यतेऽयं [भिक्षव श्चातुर्महाभौतिकः] काय [एकमपि वर्षं] तिष्ठन्.....दश वर्षाणि [तिष्ठन्] यावच्छतवर्षाण्यपि तिष्ठन् । यच्च खलु [एतद्भिक्षव] उच्यते चित्तमित्यपि मन इत्यपि विज्ञानमित्यपि तत्रात्याश्च दिवसस्य चात्ययेन अन्यदेवोत्पद्यते अन्यन्निरुध्यते । तद्यथा [भिक्षवः] (
४२१) मर्कट [अरण्य उपवने चरन्] शाखां गृह्णाति । तां मुक्त्वा अन्यां गृह्णाति । एकमेव भिक्षवो यदिदमुच्यते चित्तमित्यपि मन इत्यपि विज्ञानमित्यपि । तत्रात्याश्च दिवसस्य चात्यायेन अन्यदेवोत्पद्यते अन्यन्निरुध्यते ।] तत्र श्रुतवान् [भिक्षवः] आर्यश्रावकः प्रतीत्य समुत्पादमेव साधुकं योनिशो मनसिकरोति । अतोऽनित्यमित्येव प्रजानाति इति । प्रतीत्यसमुत्पादस्याज्ञाता वेदनाविशेषादिज्ञानं विकल्पयति । सर्वे तीर्थिका अविकल्पप्रत्ययज्ञानत्वात्न चित्तं निरोधयितुमलम् । पृथग्जनाश्च रूपविरागिणो [ऽपि] चित्ताविरागित्वान्नालं विमोक्तुम् । ये युगपच्चित्तं
निरोद्धुमलम् । ते कस्मान्नालं विमोक्तुम् ।

किञ्च पृथग्जनाः [चित्त]निरोधभीरुतया निर्वाणे नालं शान्तशिवसंज्ञामुत्पादयितुम् । यथोक्तं सूत्रे- नैषोऽहमस्मि, नैतन्ममेति पृथग्जनानामुत्रासपदं शान्तशिवसंज्ञां नोत्पादयति । कथं चित्तं निरोद्धुमलं भवेत् । पृथग्जनानाञ्च धर्मो [यत्] उत्तमां भूमिं प्रतीत्यावरां भूमिं विजहाति । अतो नास्ति चित्तनिरोधप्रत्ययः । किन्तु समाधिबलेन सूक्ष्मसंज्ञामभिमुखीकृत्य चित्तस्य प्रबोधात्वदति नास्ति संज्ञेति । औदारिकसंज्ञामुत्पादयन् तदैव [ततः] च्युतः पतति । [स चासंज्ञीत्युच्यते ।] यथा अल्पज्ञोऽज्ञ इति । यथा वा अल्पदशनोऽदशन इति । यथा वा सम्मूर्छाभ्रष्टचेतनाः सुषुप्ताः क्रिमयः शीतिभूतमकराः । यथा वा नैवसंज्ञानसंज्ञायतनमित्युच्यते । तथा तत्रापि वस्तुतः संज्ञायां सत्यामपि संवृतितोऽसंज्ञीत्युच्यते ।

आरूप्यसमाधित्रयवर्गः सप्तत्युत्तरशततमः ।


१७१ निरोधसमापत्तिवर्गः

सर्वशोनैवसंज्ञानासंज्ञायतनं समतिक्रम्य संज्ञावेदयितनिरोधं कायेन स्पृष्ट्वा विहरति । (पृ) ध्यानेषु कस्मान्नोच्यते सर्वशः समतिक्रम्येति । अरूपसमापत्तिषु च (
४२२) नोक्तोऽस्तङ्गमः । (उ) उक्तं खल्वस्माभिः ध्यानसमाधिषु सन्ति वितर्कविचारप्रीतिसुखादयो धर्मा इति अतो नोच्यते सर्वशः समतिक्रम्येति । (पृ) आकाशानन्त्यायतने रूपचित्तमस्तीति प्रतिपादितमेव । अतोऽरूपेष्वपि न वक्तव्यं सर्वशः समतिक्रम्येति (उ) आकाशानन्त्यायतनसमापत्तिं समापन्नो रूपचित्ताद्विमुच्यते, न वितर्कविचारादिभ्यो धर्मेभ्यः । केचिदाहुः- समतिक्रमो व्युपशमोऽस्तङ्गमः सर्वमेकार्थकम्, व्यञ्जनमेव नाना इति । आरूप्यसमापत्तिषु च चित्तं सुस्थिरम् । अवरभूमौ चित्तं विक्षेपकम्प्यम् । अतो नोच्यते सर्वशः समतिक्रम्येति । (पृ) यत्सहैवोक्तमस्ति कण्टको यदुत रूपसंज्ञा इत्यादि । तत्कस्मादुच्यते चित्तं सुस्थिरमिति । (उ) यद्यपि सहैवोक्त मस्ति कण्टक इति । तथापि चतुर्थध्यानमचलमित्याख्यायते । एवमरूपसमापत्तिषु समापत्तिबलमहिम्ना सुस्थिरमित्याख्या लभ्यते ।

(पृ) शैक्षो न निरोधसमापत्तिं लभेत । नैवसंज्ञानासंज्ञायतनस्य सर्वशोऽनतिक्रमात् । (उ) शैक्षो नैवसंज्ञानासंज्ञायतने सर्वसंस्काराणां व्युपशमं पश्यति । किन्तु न पश्यति तेषामनुत्पादम् । अत उक्तदोषो लभ्यते । यत्भवता पूर्वमुक्तं नवानुपूर्विकेषु चित्तचैत्तानां निरोध इति तत्विरुध्यते । (उ) निरोधसमापत्तिर्द्विविधा- क्लेशानां क्षयरूपा क्लेशानामक्षयरूपा इति । क्लेशानां क्षयरूपा विमोक्षेषु वर्तते क्लेशानामक्षयरूपा अनुपूर्वं [विहारे]षु वर्तते । (१) क्लेशानां निरोधान्निरोधसमापत्तिः, (२) चित्तचैत्तानां निरोधान्निरोधसमापत्तिः । क्लेशानां निरोधोऽष्टमविमोक्षः । तेदेवार्हत्फलम् । अर्हत्फलञ्च सर्वसंज्ञानां पुनरनुत्पादको व्युपशम एव । अत्र संज्ञानां व्युपशमेऽपि अन्यसंयोजनानां सत्त्वात्पुनरनुत्पादिका न भवति ।

(पृ) यदि योगवचरो नवानुपूर्वविहारैश्चित्तं निरोधयति । स्रोतआपन्नादयः कथं चित्तनिरोधधर्मं साक्षात्कुर्वन्ति । (उ) अनुपूर्वविहारेषु निरोधो महानिरोधः । (
४२३) यदि कश्चित्ध्यानसमापत्तीः साधु भावयति, मार्गचित्तबलदार्ढ्यादिमं निरोधं लभते । यदि नास्ति तद्बलम्, तदा निरोधसमापत्तिर्नेदृशं महाबलं विन्दते । अतोऽनुपूर्वविहारा उक्ताः । अन्यत्राप्यस्ति निरोधचित्तम् । यथा चतुर्थध्याने चित्तचैत्तान्निरुन्ध्य आसंज्ञिके प्रविशति । प्रथमध्यानादौ कस्मान्न निरोधः । अन्यत्रापि च निरोधचित्तार्थो भवेत् । यथोक्तं सूत्रे स्रोतआपन्नादयो निरोधं साक्षात्कुर्वन्ति । निरुद्धचित्तमेव निरोध इत्युच्यते न पुनरन्योऽस्ति धर्मो निरोध इति । अतो ज्ञायते इमा नवभूमीर्विहायाप्यस्ति चित्तनिरोध इति ।

(पृ) यदि निरोधसमापत्तौ सर्वचित्तचैत्तान्निरोधयति । कस्मात्संज्ञावेदयितनिरोधमात्रमुच्यते । (उ) सर्वाणि चित्तानि वेदितानीत्युच्यन्ते । वेदितञ्चेदं द्विविधं- संज्ञावेदितं प्रज्ञावेदितमिति । संज्ञावेदितं संस्कृतालम्बनं चित्तम् । संज्ञाकाराणां प्रज्ञप्तिगतत्वात्प्रज्ञप्तिश्च द्विविधा- हेतुसंघातप्रज्ञप्तिः धर्मप्रज्ञप्तिश्चेति । अतः सर्वसंस्कृतालम्बनं चित्तं संज्ञा भवति । प्रज्ञावेदितमसंस्कृतालम्बनं चित्तम् । अतः संज्ञावेदितनिरोध इत्युक्तौ सर्वनिरोध उक्तो भवति ।

(पृ) सर्वेषु चित्तचैत्तेषु प्राधान्यात्संज्ञावेदितं केवलमुच्यते । कस्मात् । क्लेशानामस्ति भागद्वयम्- तृष्णाभागो दृष्टिभाग इति । वेदितादुत्पद्यते तृष्णाभागः । संज्ञातो दृष्टिभागः । कामधातौ रूपधातौ च वेदितं प्रधानम् । अरूप्यधातौ तु संज्ञा प्रधाना । अतो द्विविधमेवोक्तम् । विज्ञानस्थितिषु च संज्ञावेदितमात्रमुक्तम् । विज्ञानस्थितीनां चित्तादुत्थितत्वादेव संस्कार इत्याख्या । संज्ञावेदितनिरोध इत्युक्तौ च सर्वचित्तचैत्तानां निरोध उक्तो भवति । चित्तचैत्तानां ततोऽव्यभिचारात् । (उ) मैवम् । भवानाह- प्राधान्यात्[संज्ञावेदितं] केवलमुच्यत इति । [तदा] चित्तमात्रं वक्तव्यम् । कस्मात् । उक्तं हि तत्र तत्र (?) सूत्रे- चित्तं खल्वधिपत्तिः द्विविधानां क्लेशानामाश्रयः । चित्तस्यैव विकल्पात्संज्ञावेदितमित्युच्यते । इति । अतो वक्तव्यं चित्तमेव । चित्ते चोक्ते सुगमम् । अतो भवदुक्तिर्न [संभवति] ।

(
४२४)
(पृ) समापत्तिरियं कस्मादुच्यते कायेन स्पृष्ट्वा विहरतीति । (उ) अष्टविमोक्षाः सर्वे कायेन स्पृष्ट्वा विहरन्तीति वक्तव्याः । अयं निरोधधर्मः अनभिलापवेद्यत्वात्कायेन साक्षात्करोतीत्याह । तद्यथा अपां स्प्रष्टा तच्छैत्यं प्रजानाति । न तु श्रोता प्रजानाति । तथेदमपि । अचित्तधर्मत्वातियं कायेन साक्षात्करोतीति स्यात् ।

(पृ) यद्भवानाह- निरोधसमापत्तिरचित्तधर्म इति । न तत्युज्यते । कस्मात् । समापत्तिमिमां समापन्नः सत्त्व [एव] भवति । लोके च नास्ति कोऽपि सत्त्वोऽचित्तक इत्यतोऽयुक्तम् । उक्तञ्च सूत्रे- आयुरूस्म विज्ञानमिमे त्रयो धर्माः सदाव्यभिचारिण इति । अतो नास्ति निरुद्धचित्तः [सत्त्वः] । सर्वे च सत्त्वाश्चतुर्भिराहारैर्जीवन्ति । निरोधसमापत्तिमुपसम्पन्नस्य न सन्त्याहाराः । कस्मात् । नह्ययं कबलीकारमाहारं भुनक्ति । स्पर्शादयोऽपि निरुद्धाः । अतो नास्त्याहारः । चित्तञ्च चित्तादुत्पद्यते । चित्तेऽस्मिन्निरुद्धे नान्यच्चित्तमुत्पद्यते । समनन्तरप्रत्ययाभावात्कथमूर्ध्वभावि चित्तमुत्पद्येत । किञ्चानुपधिशेषनिर्वाणप्रविष्टमात्रं चित्तं समुच्छिन्नसन्तति सत्निरुध्यते । नान्यत्र[गतं] निरुध्यते । यथोक्तं सूत्रे- रूपेण कामान् समतिक्रामति । अरूपेण रूपं समतिक्रामति । निरोधेन सर्वचेतनामनस्कारान् समतिक्रामति इति । चित्तमेव चेतना मनस्कारो भवतीत्यवश्यं निरोधेन तं समतिक्रामति । सोपधिशेषनिर्वाणलाभिनः क्लिष्टं चित्तं निरुध्यते । निरूपधिशेषनिर्वाणलाभिनोऽक्लिष्टं चित्तं निरुध्यते । इत्ययमेव तथागतशासने सम्यगर्थः । निरोधसमापत्तिं समापन्नश्च न मृत इत्युच्यते । चित्तनिरोधो हि मरणम् । यदि निरुद्धं चित्तं पुनर्जायते । मृतश्च पुनर्जायेत । निर्वाणं प्रविष्टोऽपि पुनर्जायेत । तदा तु नैव विमोक्षः । वस्तुतस्तु न तथा । अतश्चित्तं न निरुध्यते ।

अत्रोच्यते । यद्भवानाह- नास्त्यचित्तकः सत्त्व इति अचित्त[ता] साम्येऽपि मरणेऽस्ति भेदः । यथा सूत्रे परिपृच्छति- योऽयं [भन्ते] मृतः [कालकृतः] यश्चायं (
४२५) संज्ञावेदयितनिरोधं समापन्नः । अनयोः किं नानाकरणम् । प्रत्याह- योऽयं [गृहपते] मृतः [कालकृतः] । तस्य आयुरूष्म विज्ञानमितीमानि त्रीण्येकान्तनिरुद्धानि । यश्चायं [गृहपते] संज्ञावेदयितनिरोधं समापन्नः । तस्य चित्तमात्रं निरुद्धम्, आयुरूष्म तु कायाद्विभक्तं वर्तते इति । अतोऽचित्तकः सत्त्वो भवेदिति । पुरुषस्यास्य चित्तं स ततस्थितिलाभि भवति । [स्थिति]लाभबलात्सचित्त इत्याख्या । न तु स तरुपाषाणसमः । यद्भवानवोचत्- त्रीणि वस्तून्यव्यभिचारीणीति । तत्कामरूपधातुकसत्त्वार्थतयोक्तम् । अरूपधातावस्त्यायुः, अस्ति विज्ञानम्, नत्वस्ति ऊष्म । निरोधसमापत्तिं समापन्नस्य चास्त्यायुः अस्त्यूष्म, नत्वस्ति विज्ञानम् । अस्मिन् सूत्रेऽप्युक्तं विज्ञानं कायाद्विभक्तमिति । अतस्त्रीण्यविभक्तानीति यत्वचनं, तत्यत्र सन्ति तत्रोक्तम् ।

यदवोचद्भवान्- आहारं विना कथं जीवेदिति । कायोऽयं पूर्वतनीनमनः सञ्चेतनाहारात्प्रत्युत्पन्ने वर्तते । शीतादिस्पर्शात्कायं सन्धत्ते । यदुक्तं भवता चित्तं प्रतीत्य चित्तमुत्पद्यत । [तत्र] चित्तं चित्तान्तरस्य कारकहेतुः । कारकहेतौ निरुद्धे चित्तान्तरमुत्पादयति । (पृ) कथं निरुद्धं चित्तं चित्तान्तरमुत्पादयति । यथा चक्षू निरुद्धं सत्न तद्विज्ञानं जनयति । (उ) यथा निरुद्धं कर्म विपाकमुत्पादयति । तथेदमपि । यन्मनः यच्च मनोविज्ञानमिमे द्वे मिथः प्रतिसम्बन्धिनी । न तथा चक्षुश्चक्षुर्विज्ञानम् । अतोऽहेतुः । यदवोचः सन्तानसमुच्छेद एव चित्तं निरुध्यत इति । तदयुक्तम् । त्रिविधो हि निरोधः- रूपनिरोधः चित्तनिरोधः कदाचिद्रूपचित्तोभयनिरोधः, कदाचिद्रूपस्य निरोधो न तु चित्तस्य यथा निरोधसमापत्तिसमापन्ने । कदाचिद्रूपचित्तोभयनिरोधः यथा सन्तानसमुच्छेदे ।

यदवोचः निरोधसमापत्तिं समापन्नो न मृत इत्युच्यत इति । पुरुषस्यास्य नायुरूष्म निरुद्धम् । मृतस्य त्रीण्यपि निरुद्धानीति । अयं भेदः । पुरुषस्यास्य च आयुरूष्म प्रतीत्य चित्तं पुनरुत्पद्यते । न तथा मृतस्य । यदुक्तं भवता- यदि निरुद्धं चित्तं पुनर्जायते, (
४२६) तदा न विमोक्ष इति । तदयुक्तम् । कस्मात् । निर्वाणं प्रविष्टस्य पूर्वकर्मवेद्यानि आयुरूष्मविज्ञानानि निरुद्धानि । न पुनरुत्पद्यन्ते । अस्य तु आयुरूष्मणोरनिरोधे पूर्वकालीनं चित्तमुत्पद्यते । यथा निरोधसमापत्तिवर्ग उक्तम्- निरोधसमापत्तिं समापन्नः षडायतनानि कायजीवितञ्च प्रतीत्य पुनर्व्युत्तिष्ठत इति । अतश्चित्तं पुनरुत्पद्यते । निर्वाणं प्रविष्टस्य चित्तं परं न पुनरुत्पद्यते । अतो ज्ञायते समापत्तिरियमचित्तकेति ।

(पृ) कस्मादेतत्समापत्तेर्व्युत्थितस्य दत्तं दृष्टधर्मे विपाकं प्रापयति । (उ) एतत्समापत्तेर्व्युत्थितस्य चित्तं परमशान्तम् । यथोक्तं सूत्रे- निरोधसमापत्तेर्व्युत्थितस्य चित्तं निर्वाणभागीयमिति । अस्य च ध्यानसमापत्तिबलं सुदृढम् । तदाश्रित्य प्रज्ञापि महती । प्रज्ञामहिम्ना दायको विशिष्टं विपाकं विन्दते । यथा शतसहस्रश्रावकाणां सत्कारको नैकबुद्धस्य [सत्कार]समानो भवति । अत्र प्रज्ञयैव विशेषो न संयोजनसमुच्छेदे । तथेदमपि । इमां समापत्तिं समापन्नस्य बहुलसद्धर्मवासितचित्तत्वात्महाफलमुत्पद्यते । यथा सुकृष्टे क्षेत्रे सस्यमवश्यं बहुलं भवति । लोकान्निर्विण्णस्य दानं महाविपाकं प्रापयति । निरोधसमापत्तेर्व्युत्थितो लोकात्परमनिर्विण्ण इत्यतस्तत्सत्कारो विशिष्टः । विशुद्धचित्तस्य दानं महाविपाकप्रापकम् । नाविशुद्धचित्तस्य पुरुषोऽयं प्रज्ञप्त्यापि न क्लिष्टचित्तः । अत[स्त]त्सत्कारो महाविपाकप्रापकः । किञ्चायं सदा परमार्थसत्ये तिष्ठति । अन्ये संवृतिसत्ये वर्तन्ते । पुरुषोऽयं सदा सरणधर्मे वर्तते । कस्मात् । संस्कृतालम्बनं चित्तं सरणं भवति । उक्तञ्च सूत्रे-

तृणदोषाणि क्षेत्राणि रागदोषा इयं प्रजा ।
तस्माद्धि वीतरागेषु दत्तमस्ति महाफलम् ॥ इति ।

रागप्रत्यया प्रज्ञप्तिसंज्ञा । अस्याः समापत्तेर्व्युत्थितो निर्वाणालम्बन इत्यतः प्रज्ञप्तिसंज्ञया विविक्तः । अपि चोक्तं सूत्रे- यस्य दानपतेः सत्कारं भुङ्क्त्वा अप्रमाणसमाधिमुपसम्पद्य (
४२७) विहरति । अयं दानपत्तिः तत्प्रत्ययमप्रमाणपुण्यं लभते इति । निरोधसमापत्तेर्व्युत्थितस्य [यत्] निर्वाणालम्बनं चित्तम् । इदमुच्यतेऽप्रमाणम् । अतो दृष्ट एव विपाकं लभते । किञ्च अष्टभिर्गुणै रलङ्कृतमिदं पुण्यक्षेत्रम्- सम्यक्दृष्टिः, निर्वाणालम्बनं चित्तमन्यानि चाङ्गानि तैः समन्वागतं भवति । अत[स्तत्र दत्तं] दृष्टविपाकं जनयति ।

(पृ) केचिदाहुः- निरोधसमापत्तिश्चित्तविप्रयुक्तसंस्कारो लौकिकधर्मश्चेति । तत्कथम् । (उ) यथोक्तवतेतत्समापत्तेर्व्युत्थितस्य परमशान्त्यादयो गुणा भवन्ति । नेमे गुणा लौकिकाः स्युः । (पृ) निरोधसमापत्तिर्धर्माणां प्रतिरोधार्था । तेन धर्मेण हि चित्तं नोत्पादयति । अतश्चित्तविप्रयुक्तसंस्कारः स्यात् । यथा तप्तेऽयस्मि कार्ष्ण्यं न भवति । तापापगमे पुनर्भवति । तथेदमपि स्यात् । (उ) तथा चेत्निर्वाणमपि चित्तविप्रयुक्तसंस्कारः स्यात् । कस्मात् । निर्वाणं प्रतीत्य हि नान्ये स्कन्धाः समुत्पद्यन्ते । यदि निर्वाणं न चित्तविप्रयुक्तसंस्कार इति । इयं समापत्तिरपि न चित्तविप्रयुक्तसंस्कारः स्यात् । योगावचराणामीदृशो धर्मः स्यात्निरोधसमापत्तिं समापन्ने प्रणिहितानुगमनाच्चित्तं न प्रवर्तते । अतो न वक्तव्यो विप्रयुक्तसंस्कार इति ।

(पृ) इमां समापत्तिमेवानुपूर्वं समापद्यत इति किमनुपूर्वमेव व्युत्तिष्ठेत । (उ) अनुपूर्वमेव व्युत्तिष्ठते । क्रमेण चौदारिकं चित्तं समापद्यते । (पृ) सूत्र उक्तम्निरोधसमापत्तेर्व्युत्थितं चित्तं प्रथमं त्रयः स्पर्शाः स्पृशन्ति- अनिञ्ज्यः [स्पर्शः] अनिमित्तः [स्पर्शः] अप्रणिहितः [स्पर्श] इति । कस्मादेवम् । (उ) असंस्कृतालम्बने चित्ते विद्यमानः स्पर्शः अनिञ्ज्यः अनिमित्तः अप्रणिहित इति नाम । शून्यत एवानिञ्ज्यः । संस्कृतालम्बनस्य चित्तस्य लघुत्वादस्तीञ्जनं यद्रूपवेदनादीनां ग्रहणम् । शून्ये[सति] अनिमित्तम् । अनिमित्ते [सति] रागादि किमपि नास्ति । अचित्तकोऽयं प्रथमं निर्वाणमालम्ब्य ततः संस्कृतमालम्बते । अत उच्यते व्युत्थाने त्रयः स्पर्शाः स्पृशन्तीति ।

(पृ) केचिदाहुः- निरोधसमापत्तिं समापन्नस्य चित्तं सास्रवम् । समापत्तिव्युत्थितस्य चित्तं सास्रवं कदाचिदनास्रवं कदाचिदिति । कथमिदम् । (उ) न सास्रवम् । योगावचर एतत्समापत्तिसमीप्सया प्रथमत एव सर्वान् संस्कारान् परिभेदयति । परिभेदात्समापद्यते । (
४२८) व्युत्थितस्य निर्वाणालम्बनं चित्तमेवाभिमुखी भवति । अतो ज्ञायते सर्वथा अनास्रवमिति ।

सूत्र उक्तम्- [संज्ञावेदयित]निरोधसमापत्तिं समापद्यमानस्य भिक्षोर्नैवं भवति] अहं [संज्ञावेदयित]निरोधं समापद्ये इति । व्युत्थितस्य अपि नैवं भवति [अहं व्युत्तिष्ठामीति । तथा चेन् कथं समापद्यते । (उ) नित्यं भावितत्वात्समापत्तिबलं सुदृढं भवति । तथा चिन्तनासत्त्वेऽपि समापद्यते । योगावचरोऽयं संस्कृता[लम्बन]समुच्छेदात्तथाभूतं निरोधं समापद्यते । यदि चित्तमगृह्य संस्कृतमालम्बते । तदा न समापन्नो नाम । अतः सूत्रमाह [अथ खल्वस्य] पूर्वमेव तथाचित्तं भावितं भावति [यत्तत्तथात्वाय] उपनयति इति ।

(पृ) यदि नास्ति शून्यादन्यदुपलभ्यम् । तदा असंस्कृतालम्बनं चित्तं भावयित्वा कमुपकारं लभते । (उ) दीर्घकालं भावितत्वात्समापत्तिदार्ढ्ये ज्ञानदर्शनं सुनिश्चितं भवति । यथा संस्कृतालम्बनं चित्तं पश्यतोऽपि नास्ति क्षणिकादन्यत् । दीर्घकाल भावितं चित्तमात्रन्तु सुदृढं भवति । तथेदमपि स्यात् ॥

निरोधसमापत्तिवर्ग एकसप्तत्युत्तरशततमः ।


१७२ दशकृत्स्नायतनवर्गः

पूर्वालम्बनमकम्पयित्वा चित्तबलवशिता कृत्स्नायतनमित्युच्यते । योगावचरः परीत्तनिमित्तं गृहीतवानधिमुक्तिबलेन तत्विपुलयति । कस्मात् । समाहितचित्तबलात्तत्त्वेऽवतरतः सर्वं शून्यं भवति । अधिमुक्ताववतरतः पूर्वगृहीतं निमित्तमनुवर्तते । (पृ) कोऽयमधिमुक्तिस्वभावः । (उ) नीलादीनि रूपाण्यप्रमाणानि । तन्मूलानि (
४२९) संक्षिप्य चत्वारि, पृथिव्यादीनि चत्वारि महाभूतानि, चत्वारि च रूपाणां मूलानि एतदष्टकपरिच्छिन्नमिदमाकाशम् । विज्ञानमनन्तमाकाशं प्रजानातीति अनन्तमपि । यस्मात्सान्तधर्मो नानन्तं गृह्णाति । इमानि दश भवन्ति ।

(पृ) पृथिव्यामस्ति तु द्रव्यतोऽबादि । योगी कथं पृथिवीमात्रं भावयति । (उ) दीर्घकालं तत्भावयन् सदा पृथिवीनिमित्तं गृह्णाति । ततः पृथिवीमात्रं पश्यति नान्यद्वस्तु । (पृ) योगिना दृष्टं पृथिवीनिमित्तं द्रव्यतः पृथिवी न वा । (उ) अधिमुक्तिबलात्दर्शने पृथिवी भवति न द्रव्यतो भवति पृथिवी । (पृ) निर्माणबलात्भूयमानं निर्मितमपि किं न द्रव्यम् । (उ) निर्मितं समाधिबलात्सिद्धमित्यतः कृतकं वस्तु यदुत प्रभा अप्तेजादि च ।

(पृ) केचिदाभिधर्मिका आहुः- अष्टकृत्स्नायतनानि चतुर्थध्यानमात्रे वर्तन्त इति । तत्कथम् । (उ) यदि वर्तन्त कामधातौ त्रिषु ध्यानेषु च को दोषः । अन्तिमे द्वे कृत्स्नायतने प्रत्येकं स्वभूमौ भवेताम् । तानि च दश सास्रवाणि । आलम्बनाकम्पित्वात् । (पृ) आकाशं किं रूपप्रतिघलक्षणम् । (उ) योगी अधिमुक्त्या च चक्षुःश्रोत्राद्याकाशलक्षणं शून्यं गृह्णाति । न साक्षाद्रव्यसद्रूपं परिभेदयति । अतोऽपि आधिमुक्तिकमित्याख्या [तस्य] ।

(पृ) उक्तञ्च सूत्रे- सर्वपृथिवीसमाधिं समापन्नस्यैवं भवति- अहमेव पृथिवी, पृथिव्येवाहमिति । कस्मादेवं भवति । (उ) [स्व]चित्तं सर्वव्यापि पश्यति । अतश्चिन्तयति सर्वमहमिति । (पृ) केचिदाहुः- अयं समाधिः कामधात्वाप्तपृथिव्यादिमात्रमालम्बत इति । कथमिदम् । (उ) यदि कामधात्वाप्तपृथिव्यादि सर्वमालम्बते को दोषः । प्रज्ञप्त्याचायं समाधिरन्यान् धर्मानवलम्बते । तत्र कः पुनर्दोषोऽस्ति । किञ्चायं समाधिरधिमुक्तितोऽभूतमालम्बनं भावयति । नास्ति तु किञ्चिदभूतं पृथिव्यादि । (पृ) भगवतः श्रावका अपि भूम्यादि भावयन्ति । कथमिदम् । (उ) यदि शैक्षजना भावयन्ति । सर्वं तत्परिभेदार्थम् । (पृ) वस्तुतो नास्ति खलु सर्वं पृथिवी इत्यादीनि । कथमयं समाधिर्विपर्यस्तो न भवति । (उ) भावनायामस्यामस्ति मोहभागः । तत्रात्मदृष्टेः समुद्भवात् । अशुभादिभावना यद्यपि न परमार्थसत्यम् । तथापि वैराग्यानुकूला भवति । न तथा भावनेयम् । अतोऽस्ति मोहभागः ।

(पृ) कस्मान्न भावयति अनन्तं वेदनादि । विज्ञानमात्रन्तु भावयति । (उ) (
४३०) ग्राह्यं पृथिव्यादि । विज्ञानं ग्राहकम् । अतो विज्ञानं भावयति न वेदनादि । वेदनादि च चित्तस्य प्रभेद इति प्रतिपादितमेव पूर्वम् । किञ्च योगी न पश्यति वेदनादि सर्वत्र व्यापि । सर्वत्र सुःखदुःखवेदनयोरभावात् । भगवतः श्रावका येऽस्मिन् समाधौ विहरन्ति । तेषामविनाशार्थालम्बनत्वात् । यतस्तदालम्बनं योगिनोऽभिनिवेशायतनं भवति । यदि तद्विनश्यति तदा पृथग्जनसमः स्यात् ॥

दशकृत्स्नायतनवर्गो द्विसप्तत्युत्तरशततमः ।


१७३ दशसंज्ञासु अनित्यसंज्ञावर्गः

अनित्यसंज्ञा, दुःखसंज्ञा, अनात्मसंज्ञा, आहारे प्रतिकूलसंज्ञा, सर्वलोकेऽनभिरतिसंज्ञा, अशुभसंज्ञा, मरणसंज्ञा, प्रहाणसंज्ञा, विरागसंज्ञा, निरोधसंज्ञा [चेतिदश संज्ञाः] । अनित्यसंज्ञा यदनित्ये अनित्यमिति समाहितः प्रजानाति । (पृ) कस्मात्सर्वमनित्यम् । (उ) सर्वे हि धर्माः प्रतीत्यसमुत्पन्नाः । हेतुप्रत्ययविनाशात्सर्वेऽनित्यतां यान्ति ।

(पृ) न युक्तमिदम् । केचिद्धर्माः प्रतीत्यसमुत्पन्ना अपि नानित्याः । यथा तीर्थिकानां सूत्रमाह- त्रिणाचिकेतस्य कर्ता शाश्वते पदे जायते इति । ब्रह्मकाउयिकाश्च शाश्वताः । (उ) भवतां शासनेऽप्युक्तं शक्रो देवानामिन्द्रः क्रतुशतं कृत्वा पुनः पततीति । उक्तञ्च गाथायाम्- शक्रादयः शतसहस्राधिकानां क्रतूनामनुष्ठातारोऽनित्याः क्षीयन्त इत्रि । क्रतूनां शतसहस्रमपि न वर्तते । अतो ज्ञायते त्रिणाचिकेतोऽनित्य इति । शक्रो देवानामिन्द्रो देवेन्द्रादिकायभागश्च क्षीयते । अतःप्रतीत्यसमुत्पन्ना धर्मा अनित्याः । किञ्च भवतां वेदः पूज्योऽभिमतः । वेदे पुनरुक्तम्- विद्यया अमृतमश्नुत इति । यथाह- आदित्यवर्णो महापुरुषो लोकस्वभावमतीतः । तत्पुरुषानुगतमनस्कोऽमृतमश्नुते । न पुनरन्यो मार्गोऽस्तीति । "अणोः पुरुषस्याणुरात्मा, महतो महानात्मा सदा काये शेते । य इममात्मानं न वेद । तस्य वेदादावधीयानस्यापि न कश्चनोपकार इति ।

(
४३१)
ब्रह्मकायिकाश्च सर्वेऽनित्याः । कस्मात् । भवतां शासने ह्युक्तम्- ब्रह्मा सहांपतिरपि गुणानां [प्रकर्षाय] सदा क्रतुं यजमानो व्रतं धत्ते इति । यदि कायो नित्य इति प्रजानाति । कस्मात्पुण्यं करोति । श्रूयते च भवतां ग्रन्थे वचनम्- अस्ति ब्रह्मणः [सहां] पतेर्मैथुनरागः । सति च तस्मिन् द्वेषादयः सर्वे क्लेशा अवश्यं भवन्ति । सत्सु क्लेशेषु अवश्यमस्ति पापकर्म । एवं पापी कथं नित्यं विमोक्षं प्रतिलभेत । न च सर्व ऋषयो देवान् यजन्ते । नापि सर्वे ब्रह्मयानं चरन्ति । यदीदं नित्यं, तदा सर्वथा तदाचरेयुः । सर्वे च पदार्था अनित्याः । कस्मात् । यानि पृथिव्यप्तेजोवायवो भूतानि । तानि कल्पावसाने क्षीयमाणानि न किञ्चिदवशिष्यन्ते । कालश्च चक्रवत्प्रवर्तते । अतो ज्ञायतेऽनित्यानीति । शीलसमाधिप्रज्ञाद्यप्रमाणगुणसम्पन्ना महान्तो दीपङ्करबुद्धादयः प्रत्येकबुद्धा महासम्मतादयः कल्पाद्या राजानः सर्वेऽप्यनित्याः । कः पदार्थो नित्यो भवेत् । अपि च भगवानाह- यत्किञ्चित्समुदयधर्म, सर्वं तत्व्ययधर्म इति । यथोक्तं गोमयपिण्डिसूत्रे- अथ खलु भगवान् परीत्तं गोमयपिण्डं पाणिना गृहीत्वा तं भिक्षुमेतदवोचत्- नास्ति किञ्चिदीदृशं रूपं [यत्रूपं] नित्यं ध्रुवं [शाश्वतं] अविपरिणामधर्म [शाश्वतसंज्ञम्] इति । अस्मिन्नेव सूत्रे पुनर्विस्तरश उक्तम्- शक्रब्रह्मचक्रवर्तिराजानां [ये] फलविपाकाः [ते सर्वे]ऽपि अतीता निरुद्धा विपरिणता इति । अतो ज्ञायते सर्वमनित्यमिति ।

त्रैधातुकस्य सर्वस्यायुः परिमितम् । अवीचिनरकस्य परमायुरेकः कल्पः । सङ्घातनरकस्य कल्पार्धम् । अन्येषां किञ्चिदूनं वा अधिकं वा । नागादीनामायुरधिकतरमेकः कल्पः । प्रेतानामधिकतरमायुः सप्तवर्षसहस्राणि । [पूर्व]विदेहानामायुः पञ्चाशदुत्तरवर्षशतद्वयम् । [अवर]गोदानीयानामायुः पञ्चवर्षसहस्राणि । उत्तरकुरूणां नियतामायुर्वर्षसहस्रम् । जम्बूद्वीपिनामायुरप्रमाणकल्पा वा दशवर्षाणि वायुः । चातुर्महाराजिकानां देवानामायुः पञ्चवर्षसहस्राणि । यावद्भवाग्राणामायुरष्टवर्षसहस्राणि । अतो ज्ञायते त्रैधातुकं सर्वमनित्यमिति ।

त्रिभिः श्रद्धाभिश्च श्रद्धीयतेऽनित्यमिति । दृष्टे नास्ति कश्चिद्धर्मो नित्यः । आप्तवचनेऽपि न कश्चिद्धर्मो नित्यः । अनुमितिज्ञानेऽपि नास्ति कश्चिन्नित्यः । दृष्टपूर्वकत्वादनुमानस्य । यद्यस्ति किञ्चिन्नित्यं स्थानम् । को विद्वान् सर्वधर्मनिरोध[पूर्वं] विमुक्तिमभिलषेत् । को (
४३२) वा नेष्यात् । सुखवेदिनां सदा संवासं प्रियं वा वस्तुतस्तु विद्वान् सर्वथा विमुक्तिमेव प्रार्थयते । अतो ज्ञायते समुदयधर्म न नित्यं भवतीति । अथ पुनर्वक्तव्यं समुदयधर्म सर्वं क्षणिकं मुहूर्तमपि न तिष्ठति । कः पुनर्वादो नित्यं भवतीति ।

(पृ) अनित्यसंज्ञाश्रद्धा किं करोति । (उ) क्लेशान् विनाशयति । यथोक्तं सूत्रे- अनित्यसंज्ञा भाविता [बहुलीकृता] सर्वं कामरागं पर्यादाति । सर्वं रूपरागं [पर्यादाति । सर्वं] भवरागं [पर्यादाति] । सर्वमस्मिमानं [पर्यादाति सर्वा]मविद्यां पर्यादाति इति । (पृ)

(पृ) मैवम् । अनित्यसंज्ञेयं कामरागमपि वर्धयति । यथा कश्चित्सुभिक्षकालो न दीर्घ इति बुध्यन्मैथुनराग आसज्यते । कुसुमं नातिचिरं नवं भवतीति जानन् सुखायाशु तदुपभुङ्क्ते । परस्य [दयिताजनस्य] सुरूपं न नित्यं भवतीति जानन्मैथुनरागं द्रुततरं वर्धयति । एवमनित्यज्ञानवशात्कामराग उत्पद्यते । अतो नानित्यसंज्ञा कामरागं विनाशयति । केचिदनित्यमिति जानन्तो वधादिकमपि कुर्वन्ति । यावत्तिर्यञ्चः अनित्यमिति जानन्तोऽपि न क्लेशान् भिन्दन्ति । अतोऽनित्यसंज्ञां भावयतो न कश्चिदुपकारो भवति । (उ) अनित्यत्वाद्वियोगदुःखमुत्प्रेक्षमाणः सुभिक्षकालसुखजीवितधनमानानि त्यजन्ति । विदुषो नानेन प्रीतिचित्तमुत्पद्यते । प्रीतिचित्ताभावे न कामचित्तमुत्पद्यते । वेदनां प्रतीत्य हि तृष्णा भवति । वेदनानिरोधे तृष्णा निरुध्यते । अतो ज्ञायते अनित्यसंज्ञा कामरागं समुच्छेदयत्येव । यश्च धर्मोऽनित्यः, सोऽनात्मा इत्यनित्यमनात्म च भावयतो योगिनो नात्मबुद्धिर्भवति । आत्मबुद्ध्यभावे आत्मीयबुद्धिर्न भवति । आत्मीयबुद्ध्यभावात्कुत्र कामरागः स्यात् । अनित्यसंज्ञां भावयन् स्वपरकायं क्षणिकं मरण[धर्म] च पश्यति । कथं रागमुत्पादयेत् । योगी प्रार्थितं सर्वमनित्यं विप्रलोपनमिति अनुयाति । तदा तुच्छं भवति । तुच्छत्वात्न कामरागमुत्पादयति । यथा कश्चिद्वालकः शून्ये हस्तः तुच्छ इति ज्ञात्वैव न [तत्र]सङ्गं जनयति । किञ्च सत्त्वा नाध्रुववस्तुषु प्रीयन्ते । यथा कश्चित्भङ्गुरत्वात्भाजने न प्रमुद्यते । यथापि च काचिन्नारी अमुकस्य पुरुषस्यायुर्न सप्तदिनान्येष्यतीति श्रुत्वा [वदति] सत्स्वपि सुभिक्षकालार्जवबहुमानधनप्रभावबलेषु को वा प्रीयेत इति । जनोऽयं सम्यगनित्यसंज्ञा- [भावन]या न कामरागमुत्पादयति । विद्वान् हि पुनरावृत्तिपतनादिदुःखमनुस्मरन् यावद्दिव्यकामेष्वपि नासज्यते । केवलमुक्तिमेव प्रार्थयते । अनित्यसंज्ञा
कामरागं वर्धयतीति यद्भवानवोचत्तदयुक्तम् ।

(
४३३)
यदि कश्चिदप्रहीणास्मिमानो भवति । तदा स बाह्यं वस्त्वनित्यं पश्यन् शोच्यते । प्रियबलोविपरिहाण्या च कामप्रार्थतां करोति । पृथग्जनोऽयं प्रहीणकामसुखो [ऽपि] न वियोगदुःखं प्रजानाति । तद्यथा कश्चिद्बालको मात्रा ताडितः पुनर्मातरमेवायाति । विद्वांस्तु दुःखहेतौ स्थित एव न दुःखं निरोध्यमिति ज्ञात्वा त्यजति दुःखहेतुं यदुत पञ्चस्कन्धान् । अयं योगी आभ्यन्तरस्कन्धान् परिभेत्तुमनात्मसंज्ञां प्रतिलभते । बाह्यवस्तुविनाशेऽपि न शोकेन पीड्यते । अनात्मप्रतिलाभी किं पुनः प्रार्थयीत अनित्यसज्ञ्यपि न किञ्चित्प्रार्थयते ।

अनित्यसंज्ञा चेयं यदि दुःखेऽनात्मसंज्ञां नोत्पादयति । तदा सा क्लेशविनाशनसम्पन्ना न भवति । अत उक्तं सूत्रे- एकाग्रेण चित्तेन पञ्चस्कन्धाननित्यान् भावयेत् । य आध्यात्मिकान् स्कन्धानपरिभिद्य बहिर्धा वस्तु अनित्यं पश्यति । तस्य सात्मसंज्ञत्वात्शोक उत्पद्यते । तदेयमसम्यग्भावना भवति । इति । अनित्यमिति पश्यतामपि न निर्वेदविराग उत्पद्यते । यथा औरभ्रिकव्याधादीनाम् । एषां सत्यपि अनित्यज्ञाने न साधुभावना भवति । कश्चित्सम्यग्भावयन्नपि नानवरतं भावनां व्यवस्यति । तस्य कामचित्तमन्ते विपर्यस्यति । अत उच्यते- एकग्रचित्तेतेति । किञ्च कश्चितनित्य[संज्ञा]मल्पकालं भावयति । क्लेशास्तु बहवः । न [तान्] परिभेत्तुमलं भवति । यथा अल्पमौषधं बह्वी र्व्याधीर्न विनाशयति । तथेदमपि । अत उच्यते- एकाग्रचित्तेन अनित्यमिति सम्यम्भावना क्लेशान् विनाशयति । इति ।

धर्मा अनित्या इति ज्ञानमेव तत्त्वज्ञानम् । सति तत्त्वज्ञाने न भवन्ति कामादयः क्लेशाः । कस्मात् । अविद्याप्रत्ययत्वात्कामादीनाम् । इति अनित्य[संज्ञा] न कामरागसंवर्धनीति वेदितव्यम् । किञ्चानित्यसंज्ञा सर्वान् क्लेशानुपशमयति । योगी यदि प्रजानाति वस्त्विदमनित्यमिति । न तदा [तत्र]सकामो भवति । पुरुषोऽयमवश्यं मरिष्यतीति प्रजानन् कस्मै द्विष्यात् । कः सचेतनो म्रियमाणं द्विष्यात् । यदि धर्मा अनित्याः, कथं तत उद्धतसंज्ञामुत्पादयेत् । धर्मा अनित्या इति ज्ञानान्न मोह उत्यद्यते । मोहानुदयान्नविचिकित्सादयो भवन्ति । अतो ज्ञायते अनित्य[संज्ञा] क्लेशानां विरोधिनीति ॥

अनित्यसंज्ञावर्गस्त्रिसप्तत्त्युत्तरशततमः ।


(
४३४)
१७४ दुःखसंज्ञावर्गः

यो धर्मो बाधात्मकः तद्दुःखमित्युच्यते । तत्रिविधम्- दुःखदुःखं विपरिणामदुःखं संस्कारदुःखमिति । प्रत्युत्पन्ने वस्तुतो दुःखं यदसिशस्त्रादि तद्दुःखदुःखम् । प्रियाणां पुनर्भार्यादीनां वियोगकाले यद्भवति दुःखम्, इदं विपरिणामदुःखम् । शून्यानात्मज्ञानलाभिनो यच्चित्तं भवति संस्कृतधर्माः सर्वे विहेठना इति । तत्संस्कारदुःखम् । तद्दुःखानुयायि चित्तं दुःखसंज्ञा ।

(पृ) दुःखसंज्ञां भावयता किं हितं लभ्यते । (उ) दुःखसंज्ञायां फलान्निर्वेदो भवति । कस्मात् । न हि दुःखसंज्ञां भावयिता कामप्रीतिं सेवते । तत्प्रीत्यभावान्न तृष्णा भवति । योगी यदि धर्मा दुःखमिति प्रजानाति । तदा न संस्काराननुभवति । धर्मा अनित्या अनात्मका अपि न दुःखजनकाः तदा नैव त्याज्याः । दुःखत्वात्तु त्याज्याः । दुःखत्यागाद्विमुच्यते । सर्वे सत्त्वा अतितरां भीता भवन्ति यदिदं दुःखमिति । यदि तरुणो वृद्धो वा पामरः पण्डितो वा आढ्यो दरिद्रो वा जानाति इदं दुःखलक्षणमिति । [तदा] सर्वे ते निर्विण्णा भवन्ति । सर्वे योगचारिणः पुरुषा निर्वाणे शान्तोपशमसंज्ञोत्पादका भवन्ति । सर्वेषां संसारे दुःखसंज्ञोत्पादनात् । केनेदं ज्ञायते । ये सत्त्वाः कामधात्वाप्तदुःखोपद्रुता भवन्ति । ते प्रथमध्याने शान्तसंज्ञामुत्पादयन्ति । एवं भवाग्रदुःखोपद्रुता निर्वाणे शान्तसंज्ञामुत्पादयन्ति ।

संसारेऽस्त्यवद्यं यदुत दुःखम् । यथोक्तं सूत्रे- यत्रूपणमनित्यं दुःखं विपरिणामधर्म, अयं रूपस्यादीनव इति । अविद्ययाभिनिविष्टमिदं दुःखम् । केनेदं ज्ञायते । सत्त्वानां परमार्थतो दुःखे सुखसंज्ञोत्पादात् । परमदुःखसंज्ञोत्पादनात्तु निर्विद्यन्ते । अतो भगवानाह- ये दुःखं बुध्यन्ति तेषामहं दुःखमार्यसत्यं व्याकरोमि इति । तत्र भगवान् लोकसत्यमुपादाय इममर्थं प्रकाशयति । सर्वदेवमनुष्याणां यत्र सुखसंज्ञा भवति । तत्र मम श्रावका दुःखसंज्ञामुत्पादयन्ति । उत्पन्नदुःखसंज्ञा निर्विद्यन्त इति । परममोहपदं (
४३५) यद्दुःखे सुखसंज्ञोत्पादनम् । अनया संज्ञया च सर्वसत्त्वानां संसारे यातायातानां मानसं क्लिश्यति । दुःखसंज्ञाप्रतिलाभिनस्तु मुच्यन्ते ।

चतुर्भिराहारैश्चोर्ध्वदेहं समापद्यते । तत्र दुःखसंज्ञया आहारान् प्रजहाति । यथा पुत्रमांसखादनम्, यथा वा निश्चर्मगोभक्षणम्, यथा अङ्गारकर्षुभक्षणम् । यथा शक्तिशतधारावलेपनम् । तथाभूतेऽष्वाहारेषु सर्वं दुःखार्थकम् । तथा दुःखसंज्ञया आहारान् प्रजहाति । दुःखसंज्ञां भावयतो मनो न चतसृषु विज्ञानस्थितिषु सुखं विहरति सर्वत्र दुःखदर्शित्वात् । यथा मुग्धाः शलभाः सुखसंज्ञया प्रदीपे पतन्ति । विद्वानग्निर्दहतीति ज्ञात्वा [तं] परीहरति । प्राकृता अपि तथा अविद्यामोहादूर्ध्वदेहाग्नौ पतन्ति । विद्वांस्तु दुःखसंज्ञया विमुच्यते । सर्वञ्च त्रैधातुकं दुःखं दुःखसमुदयः । दुःखा वेदना दुःखम् । दुःखजनकं दुःखसमुदयः । [इदानी]मदुःखमपि अवश्यं चिराद्दुःखं जनयति । अतो लोके सर्वं दुःखमिति भावयेत् । निर्विण्णचित्ता धर्मान् वेदयन्तो विमुच्यन्ते ॥

दुःखसंज्ञावर्गश्चतुस्सप्तत्युत्तरशततमः ।


१७५ अनात्मसंज्ञावर्गः

योगी सर्वे धर्म भङ्गविपरिणामलक्षणा इति पश्यति । यस्मिन् रूपे आत्त्मतयाभिनिविशते इदं रूपं विपरिणामधर्म । तद्विपरिणामधर्मज्ञानादात्मचित्तं परिहरति । तथा वेदनादीनपि । यथा कश्चित्गिरिनिर्झरानुवाहितो यत्किञ्चिदवलम्ब्य तद्विहाय मुच्यते । तथा योग्यम्पि तदात्मतया कल्पयति । तद्विपरिणामधर्म दृष्ट्वा अनात्मकं प्रजानाति । अतोऽनात्मकेऽनात्मसंज्ञां भावयति ।

(पृ) अनात्मसंज्ञां भावयन् किं हितं लभते । (उ) अनात्मसंज्ञाभावयिता दुःखसंज्ञां परिपूरयति । पृथग्जना आत्मसंज्ञया परमार्थतो दुःखे न दुःखं पश्यन्ति । अनात्मसंज्ञया तु अत्यल्पेऽपि दुःखे तदुपघातं बुध्यते । अनात्मसंज्ञया चोपेक्षाचित्तं समुदाचरति । कस्मात् । आत्मसंज्ञया हि आत्मा नश्येदिति बिभ्यन्ति । यदि परमार्थं (
४३६) जानाति तदा हायपति दुःखमनात्मकं विनाश्यमिति । तदा समुदाचरत्युपेक्षा । अनात्मसंज्ञया च नित्यसुखं भवति । कस्मात् । सर्वमनित्यम् । तत्र यदि आत्मात्मीयचित्तमुत्पादयति । तदा आत्मा न भवेत्, आत्मीयमपि न भवेत्, सदा दुःखमेवास्ति इति वदेत् । नास्त्यात्मात्मीयमिति चिन्तयतो धर्मेषु विनष्ठेषु न दुःखमुत्पद्यते ।

अनात्मसंज्ञया च योगिनश्चित्तं विशुध्यति । कस्मात् । सर्वे हि क्लेशा आत्मदृष्टिसम्भूताः । इदं वस्तु आत्मनो हितमित्यतः कामराग उत्पद्यते । इदं वस्तु आत्मनोऽहितमित्यतो द्वेषप्रतिथ उत्पद्यते । अनेनात्मैवाभिमानजनकः । अहमायुषोऽन्ते करिष्यामि न करिष्यामिति दृष्टिविचिकित्सा भवति । एवमात्मनैव सर्वे क्लेशाः समुद्भवन्ति । अनात्मसंज्ञया तु सर्वे क्लेशाः समुच्छिद्यन्ते । क्लेशानां समुच्छेदात्चित्तं विशुध्यति । चित्तविशुद्ध्या च काञ्चनं लोष्टं चन्दनमसिधारां प्रशंसां निन्दाञ्च समं मन्यते । प्रियविप्रियैर्विविक्तं चित्तं सुनिवृत्तं शान्तं भवति । अतो ज्ञायतेऽनात्मसंज्ञकस्य चित्तं विशुध्यतीति । अनात्मसंज्ञां विहाय नास्त्यन्यो मार्गो विमुक्तिप्रापकः । कस्मात् । यद्यात्मवादी प्रजानाति नास्त्यात्मा नास्तात्मीयमिति । एवं व्यवसितं चित्तमुत्पादयन्नेव विमुच्यते ।

(पृ) मैवम् । कदाचिदनात्संज्ञया पुनःकामचित्तमुत्पद्यते । यथा स्त्रीरूपे रागः । तत्सर्वमनात्मस्नेहात् । नैरात्म्यमनुसरन्नेव पुण्यपापं सञ्चिनोति । कस्मात् । स्वकायस्योपकारेऽपकारे वा न पुण्यपापम् । (उ) सात्मकचित्तः कामरागमुत्पादयति । स्वकाये पुरुषसंज्ञां परकाये च स्त्रीसंज्ञामुत्पाद्य [तत्र] अभिनिविशते । तदभिनिवेशोत्पादश्च प्रज्ञप्त्या भवति । तल्लक्षणैव प्रज्ञप्तिः । अतो न नैरात्म्यं कामचित्तजनकम् । अनात्मचित्तश्च न कर्माणि सञ्चिनोति । यथा अर्हतोऽनात्मसंज्ञया न कर्माणि सञ्चीयन्ते । अनात्मसंज्ञेयं सर्वेषां क्लेशानां कर्मणाञ्च समुच्छेदिनी । अत[स्तां] भावयेत् ॥

अनात्मसंज्ञावर्गः पञ्चसप्तत्युत्तरशततमः ।


१७६ आहारे प्रतिकूलसंज्ञावर्गः

सर्वं दुःखजननमाहारकामाद्भवति । आहाराच्च मैथुनरागः सहोत्पद्यते । कामधातौ यानि सन्ति दुःखानि सर्वाणि तानि अन्नपान मैथुनरागं प्रतीत्य भवन्ति । आहारकामसमुच्छेदाय प्रतिकूलसंज्ञां भावयेत् ।

(
४३७)
यथा कल्पादौ सत्त्वाः स्वर्गादागत्य लोकेऽस्मिनुपपादुका अभूवन् । [ते] प्रभास्वरकायाः खेचराः स्वतन्त्रा भूत्वा पृथिवीरसमादावश्नुवन् । तदशनबहुलाः प्रणष्टप्रमातिशया अभूवन् । एवं क्रमेण जराव्याधिमरणशालिनः यावद्वत्सरशतं भूयसा दुःखैः पीडिताः । आहाराभिनिवेशवशात्सर्वे ते तादृशेम्यः फलेम्यः प्रणष्टाः । अत आहारं योनिशो भावयेत् । अन्नपानाभिनिवेशान्मैथुनराग उत्पद्यते । ततोऽन्ये क्लेशा भवन्ति । तेभ्योऽकुशलं कर्म कुर्वन्ति अकुशलकर्मतः त्रीन् दोषान् वर्धयित्वा देवमनुष्याणामपकुर्वन्ति । तस्मात्सर्वाः क्लेशविपत्तय आहारकामात्भवन्ति जराव्याधिमरणलक्षणानि अन्नपानाधीनानि ।

आहारोऽयं स्थाने परममभिनिवेशयति । कामरागो गुरुरपि न पुरुषं क्लेशयति । यथा आहारकर्ता । यदि वा बालो वृद्धो गृहस्थः प्रव्रजितो वा अनाहारपीडितो भवति । आहारमिमं भुङ्क्त्वा अनासक्तमना भवेत् । अविरागी अतितरां खिद्यते । यथा असिधारावलेपनी, यथा वा विष[सिक्तौ]षधसेवकः । यथा वा विषसर्पपोषकः । अतो भगवानाह- भावितचित्त इदमाहारयेत् । नाहारकामाय तद्दुःखपीडितः स्यातिति । केचित्तीर्थिका [अपि] निरशनव्रतमाचरन्ति । अतो भगवानाह- नास्याहारस्योपच्छेदात्विमुच्यते । किन्तु योनिशो मनसि कृत्वा आहारयेदिति । ये समुच्छिन्नाहाराः तेषां क्लेशा न क्षीयन्ते । अहितं तीव्रमरणमेव भवति । अतो भगवानाह- आहारेऽस्मिन् प्रतिकूलसंज्ञां जनयेत्, नास्ति ततोऽवद्यमिति ।

(पृ) कथमाहारे प्रतिकूलसंज्ञा कुर्यात् । (उ) अयं कायस्वभावोऽकुशलः । अत्युत्तरमसमाहारफलं सर्वमशुचि । अतस्ततो निर्विन्द्यात् । सुरभिगन्धमधुरपानभोजनानि शुचिकाल एव कायस्य हितकराणि । दन्तेन चर्वितं लालया सिक्तं लिङ्गं वान्तवदामाशयपतितं कायस्य हितकरम् । अतो ज्ञायतेऽशुचीति । इदमन्नपानमज्ञानात्सुखम् । यदि कश्चिन्मधुरमाहारं लभमानोऽपि पुनर्वान्तं न भुनक्ति । इति ज्ञातव्यमज्ञानबलात्तन्मधुरं मन्यत इति ।

आहारप्रत्ययं कृषिकर्म सेवार्जनं संरक्षणमित्येवञ्जातीयदुःखान्यनुभवति । तत्प्रत्ययमप्रमाणानि पापानि कुर्वन्ति । यदशुचि सर्वं तदाहाराधीनम् । असत्याहारे केन (
४३८) भवन्ति त्वगस्थिरक्तमांसोच्चारादीन्यशुचीनि वस्तूनि । या दुर्गतयोर्वर्चःकुटीक्रिम्यादयः ते सर्वे गन्धरसाभिनिवेशादत्रोत्पद्यन्ते । यथोक्तं कर्मवर्गे- यस्तर्षितो म्रियते स जलक्रिमिभावेनोत्पद्यते । निबिडस्थाने मृतः पक्षिषूत्पद्यते । मैथुनरागेण मृतो योनावुत्पद्यते । इत्येवमादि । य एतदाहारविविक्त स महासुखं प्रतिलभते । यथा रूपधातौ निर्वाणे चोत्पद्यते । आहारानुवर्तनतः कृष्णादिदुःखं भवति । एवमाहारोऽशुचिर्दुःख इति दृष्ट्वा प्रतिकूलसंज्ञां भावयेत् ॥

आहारे प्रतिकूलसंज्ञावर्गः षट्सप्तत्युत्तरशततमः ।


१७७ सर्वलोकेऽनभिरतिसंज्ञावर्गः

योगी पश्यति लोकेषु सर्वं दुःखम्, चित्ते च नास्ति किञ्चित्सुखमिति । अयञ्च योगी भावयति प्रीतिविविक्तं समाधिं तद्यथा अनात्मसंज्ञां दुःखसंज्ञामाहारे प्रतिकूलसंज्ञां मरणसंज्ञाम् । इत्यादि । तदा तस्य चित्तं न सर्वलोकेऽभिरमते । अपि चायं पश्यति- यत्प्रियं तत्कामरागवर्धनम्, यद्विप्रियं तत्द्वेषप्रतिघवर्धनमिति । अत उभयत्र नाभिरमते । धनिकस्य पालनादिदुःखमस्तीति दृश्यते । दरिद्रस्याकिञ्चन्यदुःखं दृश्यते । सुस्थानिको दुःस्थाने पतिष्यमाणो दृश्यते । दुःस्थानिको दृष्टे दुःखान्यनुभवन् दृश्यते । प्रत्युत्पन्नो धनिकोऽवश्यं पतिष्यामि, इदञ्च कामादीनां विहृतिस्थानमिति प्रजानानो दृश्यते । प्रत्युत्पन्नो दरिद्रो न प्रत्ययोपलभ्यनिर्गम इति प्रजानानः । अतो न सवलोकेऽभिरमते । अल्पतराश्च सत्त्वाः सुस्थान उत्पन्नाः, बहुतरा दुर्गतौ पतन्ति । यथोक्तं सूत्रे- अल्पतराः सुस्थान उत्पद्यन्ते बहुतरा दुस्थान उत्पद्यन्ते । तदादीनवं दृष्ट्वा निर्वाणमेव प्रार्थयन्ते । इति । पुरुषोऽयं पश्यति कामादयो दोषाः क्लेशास्सदा सन्तानमनुवर्तन्त इति । यथा क्रोधासेवी पुरुषोऽवकाशे लब्धे पुनर्बध्यते । अस्मिन् वधके कथमभिरमेत । क्लेशादुत्पन्नमकुशलं कर्म सदानुवर्तमानं दृश्यते । नैवाकुशलकर्मफलान्मुच्यते । यथोक्तं सूत्रे-

स चेत्तु पापकं कर्म करिष्यति करोषि वा ।
न ते दुःखात्प्रमोकोऽस्ति, उत्पात्यापि पलायतः ॥ इति ।

(
४३९)
अतो नाभिरमते । जात्यादीन्यष्ट दुःखानि सदा सुकृतिनमनुवर्तन्ते । किं पुनः पापिनम् । एवं कथं लोके अभिरमेत । तद्यथा आशीविषकरण्डः पञ्चोक्षिप्तासिका वधकाः शून्ये ग्रामे चोरः । तादृशान्यवरतीराणि दुःखानि सदा सत्त्वाननुवर्तन्ते । कथं तत्राभिरमेत । तद्यथा लवणतिक्ततृष्णानदीवाहितः पञ्चकामगुणविषशल्य [विद्धः] अविद्यान्धकाराङ्गारकर्षौ [पतितस्तादृशानि] दुःखानि सत्त्वाननुवर्तन्ते । कथं [तत्र] अभिरमेत । योगी उपशमसुखमल्पं विपत्तिक्लेशदुःखानि बहूनीति प्रजानाति । कस्मात्, [यस्मात्] प्रतिदीनं लोकैस्तूयमाना वनषण्डप्रसूतस्फीतफलसमृद्धिशालिनो [ऽपि] भूपा न दीर्घकालसुखलाभिनो दृश्यन्ते । सुखसम्प्रहर्षिणोऽल्पाः । दुःखवेदिनस्तु बहवः । अतो न सर्वलोकेऽभिरमते ।

(पृ) संज्ञामिमां भावयन् कानि हितानि विन्दते । (उ) नानाविधलोकलक्षणेषु न चित्तमभिनिविशते । तां संज्ञां भावयता क्षिप्रं मोक्षो लभ्यते । संसारे च दीर्घकालं [न]तिष्ठति । अयं योगी हितं ज्ञानं विन्दते । सदा सर्वत्रादीनवभावित्वात् । अस्य च चित्ते न क्लेशा उद्भवन्ति ।

उद्भवे वाशु निरुध्यन्ते । यथा तप्तायःकपाले पतितं जलबिन्दु । योगी लोके नाभिरमत इत्यतः परमोपशमेऽभिरमते । यो लोकान्निर्विण्णः स उपशमे परमेऽभिरमते । तस्मात्सर्वलोकेऽनभिरतिसंज्ञां भावयेत् ॥

सर्वलोकेऽनभिरतिसंज्ञावर्गः सप्तसप्तत्युत्तरशततमः ।


१७८ अशुभसंज्ञावर्गः

(पृ) अशुभसंज्ञां कथं भावयेत् । (उ) योगी पश्यति कायस्य बीजमशुभं यदुत मातापितोरशुचिमार्गजशुक्रशोणितसङ्घातः । कायोऽयमशुचिभिः संसिद्धो यदुत जीर्णाहारप्रस्वेदप्रस्निग्धः । उपपत्तिस्थानञ्चाशुचि यदुत मातुः कुक्षौ परिपूर्णमशुचि भवति । (
४४०) विण्मूत्राद्यशुचिपदार्थाः सम्भूय कायं कुर्वन्ति । नवसु द्वारेषु सदाशुचीनि स्रवन्ति । कायोऽयं यत्र निक्षिप्यते तदेव स्थानममङ्गलमशुचि । अन्नं पानं वस्त्रं पुरुषकायगतं परीहितं सर्वंमशुचि भवति । परेषां दूषणञ्च भवति । कायस्यास्य पदार्थः सर्वोऽशुचिः । यथा स्नानजलं यदि वा स्नानपात्रादि । कायोत्थं केशनखशिङ्खाणश्लेष्मादि सर्वमशुचि । दृश्यते च मृतकायोऽशुचितः । कायोऽयं म्रियमाणः किमन्यो भवति । आदित आरभ्यायमशुचिरिति वेदितव्यम् । जायमानस्तु आत्मबुद्धिविपर्ययात्शुचिरित्युच्यते । मृतस्पृष्टी अशुचिर्भवति । केशनखादि सदा मृतवस्तु । अप्रमाणा मृतक्रिमयश्च सदा कायं स्पृशन्ति । अतो ज्ञातव्यं कायोऽयमादित आरभ्याशुचिरिति । अशुचिलूक्षामक्षिकामशकादयः सर्वा अशुचिक्रिमयः सर्वदागत्य कायं स्पृशन्तीत्यश्चाशुचिः । कायोऽयं वर्चःकुटीवत्सदाशुचिपूर्णः । तत्प्रतीत्य वर्चःकुट्यां सहस्रधा क्रिमयो भवन्ति । तथायं कायोऽपि ।

कायोऽयं श्मशानसमः । कस्मात् । मृतकायस्य हि स्थानं श्मशानमित्युच्यते । अयं कायोऽपि बह्वयो मृतक्रिमयोऽत्र तिष्ठन्ति । अयं कायोऽशुचिं करोति । यानि शुचिस्थानानि सुरभिकुसुमवस्त्रमालादीनि [तानि] सर्वाण्येतत्कायवशादशुचीनि भवन्ति । ब्राह्मणा मृतगृहे प्रसूतिकागृहे च नाहारमुपभुञ्जन्ति । अशुचित्वात् । अस्मिन् काये तु शतसहस्रधा क्रिमयः सदा जायन्ते म्रियन्ते च । तदा नोपभोज्यान्नपानो भवेत् । अतो ज्ञायतेऽशुचिरिति । लोके च नरकमशुचि । कायोऽयं क्रिमिशतसहस्राणां नरकम् । अतोऽशुचिः । कायोऽयं सदा स्नानमपेक्षते । यदि शुचिः । किमर्थं स्नानमपेक्षते । सुरभिकुसुमगन्धमालालङ्कृतोऽयं कायः इति वेदितव्यं कायोऽयं स्वभावतोऽशुचिरिति । प्रज्ञप्त्या शुचिभिः बाह्यैरलङ्क्रियते । अयं मनुष्यकायः परममशुचिः । यथान्येषां सत्त्वानां चर्मरोमनखदन्तमज्जास्थिमांसानि कदाचिदुपयुज्यन्ते । मनुष्यकाये तु नैकमस्ति ग्राह्यम् । परमाशुचित्वात् । यथोत्पलपद्भपुण्डरीकपुष्पादीनि अशुचिसभूतत्वादशुचीनि भवन्ति । न तथा कायोऽयमन्यपदार्थैरशुचीक्रियते । प्रकृतित एवाशुचिः । कायोऽयं यदि शुचिः । तदा न वस्त्रेणाच्छादयेत् । यथा पुरुषो वस्त्राच्छादितमलराशिः परान् वञ्चयति । तथा स्त्री आच्छादनाभरणाच्छादितकाया पुरुषं मोहयति । तथा पुरुषोऽपि । [अतो] ज्ञातव्यमशुचिरिति । समन्ततोऽयं कायः सदा अशुचि निस्सारयति यदुत नवरन्ध्राणि अशुचिद्वाराणि रोमकूपेषु च नैकमस्ति शुचि ।

(
४४१)
(पृ) अशुभसंज्ञाभावना कस्य हितस्य लाभाय भवति । (उ) स्त्रीपुरुषयोः शुभसंज्ञया कामराग उत्पद्यते । तस्मात्कामरागात्पापकानां द्वारमप्राव्रियते । अशुभसंज्ञाभावनायान्तु कामरागाणां निग्रहो भवति । कस्मात् । अयं हि कायो दुर्गन्धमलैरशुचिश्चर्मावृतत्वात्परं न ज्ञायते । वसनाच्छादिताशुचिराश्याभासवत्शुचिप्रियवस्तु परिवर्जयेत् । योगी चायं विनीलकलोहितकादिसंज्ञया सर्वकायं पर्यादाति । कायपर्यादानात्न कामरागो भवति । प्रत्यक्षं दृश्यते च विनीलकलोहितकादिरूपम् । (पृ) यद्वस्तुतोऽविनीलकम्, तत्कस्माद्विनीलकं पश्यति । (उ) अधिमुक्तिवलाद्योगी तत्विनीलकं गृह्णाति । सर्वाणि रूपाणि च विनीलकलोहितकानि पश्यति ।

(पृ) भावनेयं कस्मान्न विपर्यस्ता भवति । (उ) कायोऽयं विनीलकलोहितभागीयः । यथोक्तं सूत्रे- अस्ति वृक्षे विशुद्धता इति । विनीलकलोहितकलक्षणं सदा भावयनन्यानि रूपाण्यभिभवति । यथा [इन्द्र]नीलमणिप्रभा स्फटिकरूपं तिरस्करोति । एवं विनीलकलोहितकादिलक्षणं दीर्घकालं भावयतोऽशुभ[संज्ञा] सम्पूर्णा भवति । अशुभसंज्ञायां न मैथु राग उत्पद्यते । अनुत्पन्ने मैथुनरागे सांवृतसर्वापत्तिविमुखो निर्वाणमेयानुयाति । अशुभसंज्ञां भावयत इदृशं हितं लभ्यते ।

अशुभभावनावर्गोऽष्टसप्तत्युत्तरशततमः ।


१७९ मरणसंज्ञावर्गः

योगीमरणसंज्ञया जीवितेऽध्रुवचित्तो भवति । इत्यतः [तां] भावयेत् । अयं सदा कुशलधर्मेषु परममभिरतोऽकुशलधर्मान् प्रजहाति । कस्मात् । सत्त्वा भूयसा मरणविस्मरणादकुशलं कर्म कुर्वन्ति । यदा तु मरणमनुस्मरन्ति तदा प्रजहति । सततमरणानुस्मरणाच्च मातापितृभ्रातृस्वसृज्ञातिसालोहितपरिजनादिषु रागतृष्णाल्पीयसी भवति । मरणसंज्ञां भावयतः स्वस्य हितं भवति यदुत चित्तैकाग्र्येण कुशलधर्माणामुपचयः । (
४४२) लौकिकाः सत्त्वा भूयसा परिहिताभिरता स्वहितं त्यजन्त्येव । किञ्चायं क्षिप्रमेव मुच्यते । कस्मात् । आजवञ्जवमनुघावतां हि लोकानां सदा मरणं भवति । अयन्तु मरणनिर्वेदा द्विमुक्तिमेव प्रार्थयते ।

(पृ) कथं मरणसंज्ञां भावयेत् । (उ) सर्वमनित्यमिति पूर्वं सामान्यत उक्तम् । इदानीन्तु कायोऽनित्य इति मात्रं भावयेत् । स्कन्धानां सन्तानसमुच्छेदो मरण संज्ञेत्युच्यते । कायोऽयं बाह्यवस्त्वपेक्षयाप्यनित्यतरः । तद्यथा मृण्मये घटेऽध्रुवलक्षणम् । तदप्यतिक्रान्तोऽयं काय इति योगी भावयति । कस्मात् । मृण्मयोऽयं घटो यदि [सम्यक्] प्रयोगपालितः कदाचित्चिरं तिष्ठेत् । अयं कायस्तु चिरतमं तिष्ठमानो न वत्सरशतमतिक्रामति । अध्रुवत्वान्मरणसंज्ञामनुस्मरेत् । किञ्चायं कायः परिपन्थिधर्मैः सम्बहुलः यदुताशिशस्त्रगदावधकचोरप्रपातपानभोजनापरिपाचनातिशीतातिघर्मवातव्याधयः । संक्षेपतः सर्वे सत्त्वा असत्त्वाश्च कायस्य परिपन्थिनो धर्मा द्रष्टव्याः । अतो भावयेन्मरणसंज्ञाम् ।

किञ्च योगी पश्यति कायः क्षणिकनित्यो विपरिणामलक्षणो नैकं क्षणमप्यारक्ष्य इति । अतो मरणसंज्ञां भावयति । योगी दृष्टधर्मे च पश्यति बाल्ययौवनवार्धक्यानि सव्याधीनि निर्व्याधीनि वा न मरणपरिहारीणीति । एवं कायेनापि भवितव्यमित्यनुस्मृत्य मरणसंज्ञां भावयति । किञ्च योगी पश्यति अनियतविपाकं कर्म । न सर्वकर्माणि क्षीयन्ते आयुर्वर्षशतैरपि । कर्मणोऽनियतत्वान्मरणमप्यनियतमिति । अतो मरणसंज्ञामनुस्मरेत् । अनादौ च संसारेऽस्ति कर्माप्रमाणम । अस्ति किञ्चित्कर्म अन्यकर्मणो वरणकम् । ममापि भवेदकालिकमरणकर्म । इति कथमस्मिन्नायुषि[योगी] श्रद्दधीत । किञ्च योगी पश्यति मरणमतिप्रभविष्णु, न सान्त्ववचनेनोल्लापनीयं धनेनानुनेयं विग्रहेण वा मोचनीयम् । यथा महति शैले चतुर्भ्यो दिग्भ्य आगते नास्ति पलायनस्थानम् ।

(पृ) यदि कश्चिद्यमं सन्तपर्यति । तदा मरणान्मुच्यते । (उ) अयं बालो मूढ[एवं] वदति । यमः प्राणिनामुत्पादने वधे चास्वतन्त्रबलः । केवलं परामृशति किं कुशलचारी किं वाकुशलचारीति । विपाकवेदनायां क्षीयमाणायां हिंस्रककायप्रत्ययं म्रियते । अतो योगी कायोऽनिश्रयोऽशरणो मरणवर्त्मगत इति पश्यन्मरणसंज्ञामनुस्मरति । किञ्च योगी सदा पश्यति कायोऽयं जराव्याधिपरिपीडितोऽध्रुवस्वभावः प्रतिक्षणमुत्पन्नविनाशी (
४४३) विज्ञानसन्तानविनष्ट इत्यतो मरणसंज्ञां भावयति । किञ्चायं योगी पश्यति मरणं नियतं जीवितमनियतम् । अनियतान्नियतं विशिष्यत इत्यतो मरणसंज्ञां भावयति ।

(पृ) कस्मात्जराव्याध्यादिसंज्ञा अनुक्त्वा मरणसंज्ञामात्रमुच्यते । (उ) जराव्याध्यभिभूतः पुरुषो न परिक्षीयते । व्याधिर्बलं हरति जरा यौवनं हरति । ज्ञातिसालोहितो धनमन्यच्च[हरति] । कायस्तु तथापि तिष्ठति । मरणं पुनः सर्वमपहरति । जराव्याध्यादि च मरणस्य प्रत्ययः । अतो न पृथगुच्यते । उक्तञ्च सूत्रे- मरणं नाम महातामस्त्रमरश्मिकमरक्षणमसहायकमनुपस्थापकं परमभयस्थानमिति । अतो मरणसंज्ञामनुस्मरेत् । किञ्च सत्त्वा मरणप्रत्ययं परलोकाद्विभ्यति । त्रैधातुके सर्वस्यास्ति मरणं न तथा जरा व्याधिश्च ।

(पृ) यदि सत्त्वान् विहाय नास्ति मरणसंज्ञा । सत्त्वा एव प्रज्ञप्तिसन्तः । योगी कस्मादिमां संज्ञां भावयति । (उ) विनश्वरसत्त्वलक्षण[ज्ञान]विहीनो मरणाद्विभेति । यो मरणसंज्ञां भावयति । न स बिभेति । अतो भावयेत् । अनित्यसंज्ञादयो मार्गस्य प्रत्यासन्नाः । अशुभाहारे प्रतिकूलमरणसंज्ञादयो मार्गविप्रकृष्टाः । मार्गप्रतिलाभी ईदृशसंज्ञया चित्तं प्रगृह्णाति ।

मरणसंज्ञावर्ग एकोनाशीत्त्युत्तरशततमः ।


१८० अन्तिमसंज्ञात्रितयवर्गः

प्रहाणसंज्ञेति । यथा चतुर्षु सम्यक्प्रधानेषूक्तम्- उत्पन्नानां पापकानामकुशलानां धर्माणां प्रहाणाय [छन्दं जनयति व्यायमति]वीर्यमारभते । [चित्तं प्रगृह्णाति प्रदधाति] इति । इमे च पापका अकुशला धर्मा नरकादिदुःखक्लेशानां प्रत्ययाः । पापकीर्तिशब्दानां चित्तपरितापादिदुःखानाञ्च मूलम् । तस्मात्प्रजह्यात् ।

(
४४४)
(पृ) कथं प्रजहाति । (उ) धर्माणामकरणं प्रतिब्धस्तस्मिन् समये प्रजहाति । अयोनिशो मनस्कारः कामरागादीनां क्लेशानां प्रत्ययः । तन्मनस्कारप्रहाणात्ते धर्माः प्रहीयन्ते । (पृ) इमां प्रहाणसंज्ञां भावयन् किं हितं विदन्ते । (उ) तां संज्ञां भावयन् सदा न पापकान् धर्माननुवर्तते । कर्तव्य[मेव] करोति । अष्टावक्षणांश्च वर्जयति । पुरुषस्यात्महितं यदुतक्लेशानां प्रहाणम् । क्लेशप्रहाणाभिरति धर्मची वरसंवृतलिङ्गस्य प्रव्रजितस्य हितं तया नोचेत्स्वकायमेव मन्येत । यदि योगी प्रहाणसंज्ञाभावनायामभिरतः, तदा बुद्धे धर्मपूजां करोति ।

विरागसंज्ञा निरोधसंज्ञा इति । रागे चात्यन्तानुत्पन्ने विरागो भवति । तद्विरागानुस्मरणमेव विरागसंज्ञा । (पृ) प्रहाणसंज्ञैव विरागसंज्ञेति मतम् । कस्मात्पुनरुच्यते । (उ) प्रहाणाल्लभ्यते विरागम् । प्रहाणं नाम कामरागस्यापनयनम् । यथोक्तं सूत्रे- कामरागस्य प्रहाणात्पञ्चस्कन्धाः प्रहीयन्ते इति । प्रहाणसंज्ञा च विरागसंज्ञा । कस्मात् । तस्मिन् समये नास्ति कामः, तस्य धर्मस्य प्रहाणं भवति । अतो विरागसंज्ञालाभिनो दुःखक्लेशाः निरुध्यन्ते । यथोक्तं सूत्रे- वीतरागो विमुच्यते इति । विमुक्तिलाभ एव प्रहाणम् । अनुपधिशेष[निर्वाणं] प्रविष्ठस्य निरोधो भवति । उक्तञ्च सूत्रे- त्रयः स्वभावाः प्रहाणस्वभावो विरागस्वभावो निरोधस्वभाव इति । यदुच्यते प्रहाणस्वभावो विरागस्वभाव इति तदर्हत एव भवति । स हि प्रहीणसर्वक्लेशस्त्रैधातुकविरक्तः सोषधिशेषनिर्वाणे तिष्ठति । यदुच्यते निरोधस्वभाव इति तदायुषोऽन्ते जीवितव्यपगमे प्रहीणसन्तानस्य । निरुपधिशेषनिर्वाणं समापन्नस्यैव भवति ।

अस्ति च द्विधा विमुक्तिः प्रज्ञाविमुक्तिश्चेतोविमुक्तिरिति । यदभिहितं प्रहाणमिति ततविद्यां प्रजहातीति प्रज्ञा विमुच्यते । यद्विराग इति तत्तृष्णां विवर्जयतीति चेतो विमुच्यते । द्वयोर्विमुक्तयोः फलं निरोधो भवति । यत्प्रहाणसंज्ञेत्यभिधानं तदेवाविद्यास्रवप्रहाणस्याभिधानं यन्निरोधसंज्ञेति तदनयोर्द्वयोः फलम् । यथोक्तं सूत्रे- सर्वसंस्काराणां प्रहाणात्प्रहाणम् । सर्वसंस्कारेषु विरागाद्विरागः । सर्वसंस्काराणां निरोधात्निरोध इति । तथा चेमे त्रय एकस्यैव नामान्तरम् । योऽनित्यसंज्ञां (
४४५) यावन्निरोधसंज्ञां भावयति स कृतसर्वकृत्यो निरुद्धसर्वक्लेशः प्रहीणस्कन्धसंयोजनसन्ततिर्निरुपधिशेषनिर्वाणं समापद्यते ।

अन्तिमसंज्ञात्रितयवर्गोऽशीत्युत्तरशततमः ।

१८१ समाधिपरिष्कारेषु आद्यपञ्चसमाधिपरिष्कारवर्गः

(पृ) पूर्वमुक्तं भवता- मार्गसत्यं [द्विविधं] यत्समाधिः तत्परिष्कारश्चेति । तत्र समाधिरुक्तः । समाधिपरिष्कार इदानीं वक्तव्यः । यस्मात्सति समाधिपरिष्कारे समाधिः सिध्यति न त्वसति । (उ) समाधिपरिष्कारा य एकादशधर्माः- (१) परिशुद्धशीलता, (२) अभिसम्बोधिप्रतिलाभः, (३) इन्द्रिये गुप्तद्वारता, (४) भोजने मात्रज्ञता, (५) रात्र्या आद्यान्तिमभागे जागरणता, (६) कुशलवितर्कसम्पन्नता, (७) कल्याणाधिमुक्तिसम्पन्नता, (८) प्रधानीयाङ्गसम्पन्नता, (९) विमुक्त्यायतनसम्पन्नता, (१०) अनावरणता, (११) अनासङ्गिता इति ।

परिशुद्धशीलतेति । अकुशलकर्मणो विरतिः शीलम् । अकुशलकर्माणि यानि प्राणातिपातादत्तादानकाममिथ्याचाराणि त्रीणि कायिककर्माणि । मृषावाद पिशुनवाचा परुषवाचा सम्प्रलाप इतीमे चत्वारि वाचिककर्माणि । एभ्यः पापकेभ्यो विरतिः शीलम् । वन्दनप्रत्युद्गमनानुव्रजनपूजादिसद्धर्माचरणमपि शीलमित्युच्यते । शीलं समाधिहेतुं करोतीति समादीयते । तथा हि तद्यथा सुवर्णकारः पूर्वं स्थूलमलमपनयति । एवं प्रथमतः शीलसमादानेन स्थूलान् शीलदोषानपनयति । पश्चात्समाध्यादिना अन्यान् सूक्ष्मदोषानपनयति । यस्मादसति शीलसमादाने ध्यानसमाधिर्न भवति । शीलसमादान प्रत्ययात्तु ध्यानसमाधिः सुलभो भवति । यथोक्तं सूत्रे- शीले मार्गस्य मूलं (
४४६) सोपानञ्चेति । किञ्चाह- शील प्रथमरथ[विनीत]मिति । प्रथमं रथ[विनीत]मनभिरुह्य द्वितीयं रथ[विनीतं]कथमभिरोहति । अपि चाह- शीलं समा भूमिः । इमां समां भूमिं व्यवस्थाप्य चत्वारि सत्यानि पश्यति इति । आह च- द्वे बले । [कतमे द्वे ।] प्रतिसंख्याबलं भावनाबलञ्चेति । प्रतिसंख्याबलं शीलसमादानमेव । भावनाबलं मार्गः । पूर्व शीलभेदापत्तिं शीलसमादानहितञ्च प्रतिसंख्यया विचार्य शीलं समादत्ते । पश्चात्प्रतिलब्धमार्गः पापकात्प्रकृत्या विरमति । किञ्चाह- शीलं बोधिवृक्षस्य मूलमिति । असति मूले नास्ति वृक्षः । अतः परिशुद्धशीलावश्यकी ।

धर्म[ता] च तथैव स्यात् । असति शीलसमादाने न भवति ध्यानसमाधिः । तद्यथा व्याधिचिकित्साया औषधमपेक्ष्यते । तथा क्लेशव्याधिचिकित्साया असति शीले न सम्पद्यत औषधम् । आह च- परिशुद्धशीलस्य चित्तं नानुतप्यति । यावद्विरक्तचित्तो विमुच्यत इति । इमे सर्वे गुणाः शीलसमादानाधीनाः । अतः समाधिपरिष्कार इत्युच्यते ।

अस्ति च कर्मावरणं, क्लेशावरणं, अनयोर्द्वयोः फलं विपाकावरणम् । परिशुद्धशीलस्येमानि त्रीण्यावरणानि न भवन्ति । अनावृतचित्तस्य समाधिः सिध्यति । परिशुद्धशीलो न विक्षिपतीत्यतो नियमेन निर्वाणमधिगच्छति गङ्गास्रोतसि दारुस्कन्धवत् । परिशुद्धशीलसमादानात्व्यवस्थां करोति । शीलसमादानं कायिकं वाचिकमकुशलं कर्म प्रतिषेधयति । ध्यानसमापत्तिर्मानसमकुशलं कर्म प्रतिषेधयति । एवं क्लेशानां प्रतिषेधे प्रतिलब्धतत्त्वज्ञानस्यात्यन्तिकप्रहाणं भवति ।

मार्गवर्गेऽसकृद्दर्शितं शीलं स्तम्भभूतमिति । ध्यानसमाधिचित्तनगरस्य शीलं परिघा भवति । संसारौघतरणस्य शीलं सेतुः । सज्जनपरिषदि प्रवेशस्य शीलं मुद्रा । अष्टाङ्गिकार्यक्षेत्रस्य शीलं पारभूतम् । यथा पाररहिते क्षेत्रे जलं न तिष्ठति । एवं परिशुद्धशीलेऽसति समाधिजलं न तिष्ठति । (पृ) कः परिशुद्धशीलः । (उ) यो गोगी पापक्रियानभिरताध्याशयः परलोकपरिवादादिभ्यो बिभ्यति । [स] परिशुद्धशील इत्युच्यते । किञ्च योगी चित्तविशुद्धये परिशुद्धशीलो भवति । यथोक्तं सप्तमैथुनरागसूत्रे- कायेऽनापत्तिकेऽपि चित्तमपरिशुद्धमित्यतः शीलमप्यपरिशुद्धमिति । शीलभेदप्रत्ययाः (
४४७) सर्वे क्लेशाः । तेषां प्रग्रहे परिशुद्धशीलो भवति । श्रावकाणां शीलं निर्वाणार्थमेव । तथागतमार्गार्थी महाकरुणाचित्तेन सर्वसत्त्वानां कृते न शीललक्षणं समादत्ते । शीलमिदं [तथा] करोति यथा बोधिस्वभावो भवति । ईदृशं शीलं परिशुद्धमित्युच्यते ।

अभिसम्बोधिरिति । उक्तं हि सूत्रे- द्वौ खल्वायुष्मन् प्रत्ययौ सम्यक्दृष्टेरुत्पादाय परतो घोषो योनिशो मनस्कार इति । परतो घोष एवाभिसम्बोधिः । (पृ) तथा चेतभिसम्बोधिमात्रमुच्यते । (उ) उक्तं हि सूत्रे- [अन्यतरो]ऽर्हन् भगवन्तं पृच्छति स्म एकान्ते निषण्णस्य मम एवमभवत्- अभिसम्बोधिसम्पदा तु मार्गप्रतिलाभस्य विकलः प्रत्यय इति । भगवानवोचत् । मैवं वोचः याभिसंबोधिः सा तु मार्गस्य प्रतिलाभस्य सकलः प्रत्ययः । कस्मात् । जातिजराव्याधिमरणाः सत्त्वा आत्मनोऽभिसम्बोधिं लभमाना हि जातिजराव्याधिमरणेभ्यो विमुच्यन्ते इति । सत्त्वाः सम्बोधिमुपादाय शीलादीन् पञ्चधर्मात्विपुलयन्ति । तद्यथा सालवृक्षो हिमवन्तमुपादाय पञ्च वस्तूनि वर्धयति । भगवान् स्वयमेव सम्बोध्यभिरतः । यथा प्रथममार्गलब्धस्यैवमभवत्- यदि कश्चिदगुरः, तदा सोऽपरित्रासोऽसत्कारचित्तः सदा अकुशलधर्मविपर्यस्तोऽनुपशमचर्यश्च भवति । केनाचार्यवान् स्याम् । कमुपनिश्रित्य तिष्ठामि । एवं चिन्तयन् सर्वान्मत्तोऽविशिष्ठानद्राक्षम् । तदैव स्मृतिरुदपादि प्रतिलब्धो मया धर्मः यमुपादायाभिसम्बुद्धः तमेव धर्ममुपनिश्रयिष्य इति । ब्रह्मादयो देव अपि प्राशंसन्नास्ति कश्चित्बुद्धाद्विशिष्टः, सर्वे बुद्धाः सद्धर्मगुरुका इति । अभिसम्बोधिश्च प्रदीपसदृशा । (
४४८) यथा कश्चित्सचक्षुष्कोऽपि प्रदीपं विना न पश्यति । तथा योगिनः पुण्यगुणतीक्ष्णेन्द्रियताप्रत्यये सत्यपि अभिसम्बोधिं विना न भवति कश्चनोपकारः । (पृ) का नामाभिसम्बोधिः । (उ) येन पुरुषः सद्धर्मान् वर्धयति साभिसम्बोधिः । सर्वे च सज्जनाः सद्धर्मे प्रतितिष्ठन्ति [इति सा] सर्वा देवमनुष्यलोकेष्वभिसम्बोधिः ।

(३) इन्द्रियेषु गुप्तद्वारतेति या सम्यक्स्मृतिः । योगी स्वात्मानमनारक्ष्य न पश्यति । एकाग्रचित्तः सम्यक्स्मृतिं पुरस्कृत्यैव पश्येत् । संप्रजन्यमिति च [तस्य] नाम । अनेन सम्प्रजन्येन पुरोतमालम्बनं पर्यादाति । तत्पर्यादानान्न निमित्तमुद्गृह्णाति । निमित्तानुद्ग्रहणात्न प्रज्ञप्तिमनुसरति । इन्द्रियाणामगोपने निमित्तोद्ग्रहणात्क्लेशाः पञ्चेन्द्रियाणि स्त्रोतोवत्प्रवर्तयन्ति । तदैव शीलादीन् सद्धर्मान् विनाशयति । य इन्द्रियेषु गुप्तद्वारो भवति तस्य शीलादयः सुदृढा भवन्ति ।

(४) भोजने च मात्रज्ञतेति । न रूपबलाय [न] मैथुनाय [न] कामानामास्वादाय भोजनम् । [यावदेवास्य] कायस्य यापनाय । (पृ) योगी कस्मात्काययापनं करोति । (उ) सद्धर्मस्य भावनायै । यः सद्धर्मादुपरमते तस्य मार्गो न भवति । असति मार्गे दुःखाद्विसंयोगो न भवति । यदि कश्चित्कुशलस्य भावनायै न भुनक्ति । तदा [स] वधकं चोरमेव पुष्णाति । दानपतेः पुण्यञ्च विनाशयति । जनानां सत्कारञ्च मोधयति । एवं न भुञ्ज्यात्जनानां भोजनम् । (पृ) भोजने च का मात्रा । (उ) यथा कायं यापयति । सा मात्रा । (पृ) किं भोजनं भुञ्ज्यात् । (उ) यत्भोजनं शीतोष्णादि व्याधिं कामक्रोधाद्याधिञ्च न वर्धयति । तत्भुञ्ज्यात् । तदपि भोजनं यथाकालं भुञ्ज्यात् । भोजनमिदमस्मिन् काले शीतोष्णकामक्रोधाधिव्याधिं वर्धयतीति प्रजानन्न भुञ्ज्यात् ।

(पृ) तीर्थिका वदन्ति- यः परिशुद्धमाहारं भुङ्क्ते स परिशुद्धं पुण्यं विन्दते । यत्यथेष्ठमभिमतरूपरसगन्धस्पर्शवतप्प्रोक्षितमभिनिमन्त्रितं भुञ्ज्यते तत्परिशुद्धमित्युच्यते । कथमिदम् । (उ) भोजने नास्ति प्रतिनियता परिशुद्धिः । कस्मात् । यदि (
४४९) परिभोगेनाहारोऽपरिशुद्धो भवति । सर्व आहारा नापरिभोज्याः । यथा स्तन्यं वत्सपरिभुक्तम् । मधु मक्षिकापरिभुक्तम् । आपः क्रिमिपरिभुक्ताः । कुसुमं भ्रमपरिभुक्तम् । फलं पक्षिपरिभुक्तमित्यादि । किञ्चायं कायोऽशुचिसम्भूतः । कायस्वभावोऽशुचिः अशुचिपरिपूर्णः । आहारः पूर्वमेवाशुचिः पश्चादपि कायं प्रविष्टो नैकधाशुचिर्भवति । दोषविपर्ययेण परं शुचिरिति मिथ्या वदन्ति । (पृ) यद्यत्यन्तमशुचिः [कायः] । तदा चण्डालादिभिः को विशेषः । (उ) प्राणातिपाताद्विरतिरदत्तादानाद्विरतिर्मिथ्या जीवाद्विरतिरित्यादिना अनुरूपमाहारं लब्ध्वा आहारे च प्रतिकूलसंज्ञां दृष्ट्वा प्रज्ञाजलप्रोक्षितमथ तावद्भुङ्क्ते । न केवलं जलप्रोक्षितं पुनः शुचिर्भवति ।

(५) रात्र्य आद्यान्तिमभागे जागरणतेति । योगी प्रजानाति व्यवसायाधीना कार्यसिद्धिरिति । अतो न निद्राति । पश्यति न मिद्धं वृथा, नानेन किञ्चिल्लभ्यत इति । यदि भवान्मिद्धं सुखं मन्यते । तत्सुखमत्यल्पं दृष्टञ्च अपार्यप्रवचनम् । किञ्च योगी क्लेशैः सममेकत्र नाभिरमते । यथा कश्चिच्चोरैः सह वासे नाभिरमते । कथं कश्चित्लोके चोराणां रणभूमौ निद्रास्यति । अतो न निद्राति ।

(पृ) मिद्धं गाढमागतं कथं निरुणद्धि । (उ) अयं भगवच्छासनास्वादनेऽधिचित्तं प्रीतिञ्च लब्ध्वा निरुणद्धि । संसारे च जराव्याधिमरणदोषाननुस्मरतश्चित्तं बिभ्यति । अतो न निद्राति । किञ्च योगी पश्यति- मनुष्यकायो लब्धः समग्राणीन्द्रियाणि, प्राप्तं बुद्धशासनमनर्घम्, साध्वसाधुविवेकोऽतिदुष्करः, इदानीं तरणं नान्विष्यामि, कदा विमोक्षिष्य इति । अतो मिद्धं तिरस्कर्तुं वीर्यमारभते ।

समाधिपरिष्कारेषु आद्यपञ्चसमाधिपरिष्कारवर्ग एकाशीत्युत्तरशततमः ।


(
४५०)
१८२ अकुशलवितर्कवर्गः

कुशलवितर्कसम्पन्नतेति । यदि कश्चिदनिद्रन्नपि अकुशलवितर्कानुत्पादयति यदुत कामवितर्को व्यापादवितर्को विहिंसावितर्को जातिवितर्को जनपदवितर्कोऽमरणवितर्कः परानुग्रहवितर्कः परावमन्यनावितर्क इत्यादयः । वरं मिद्धम्, नैषामकुशलानां वितर्काणामुत्पादः । नैष्क्रम्यादिकुशलवितर्कान् सम्यगनुस्मरेत्यदुत नैष्क्रम्यविर्तर्कोऽव्यापादाविहिंसावितर्कोऽष्टमहापुरुषवितर्कः ।

कामवितर्क इति । यत्कामं निश्रित्य पञ्चकामगुणेषूत्पन्नवितर्कः पश्यति हितं सुखमिति । अयं कामवितर्कः । सत्त्वानां विहिंसार्थो[वितर्को] व्यापादवितर्को विहिंसावितर्कः । योगी नानुस्मरेदिमांस्त्रीन् वितर्कान् । कस्मात् । ताननुस्मरन् हि गुरुतरं पापं विन्दते । पूर्वमुक्त एव कामादीनामादीनवः । तेषामादीनवत्वान्नानुस्मरेत् ।

(पृ) मोहवितर्कः कस्मान्नोक्तः । (उ) इमे त्रयोऽकुशलवितर्काः क्रमिकाः । अन्ये क्लेशास्तु नैवं भवन्ति । योगी कदाचित्पञ्चकामगुणानुस्मरणात्कामवितर्कमुत्पादयति । कामितालाभाव्द्यापादो भवति । व्यापादसंसिद्धा विहिंसा । अतो नोक्तो मोहादिः । मोहसंसिद्धमेव फलं यदुत व्यापादः । यदि व्यापादादकुशलः कर्मान्तो भवति । ते त्रयो वितर्का अकुशलकर्महेतवो भवन्ति । यथोक्तं सूत्रे- अयं वल्मीको रात्रौ धूमायति । दिवा प्रज्वलति । [यत्खलु भिक्षो दिवा कर्मान्तानारभ्य रात्रा]वनुवितर्कयति [अनुविचारयति] इदं [रात्रौ] धूमायनम् । [यत्खलु भिक्षो रात्रावनुवितर्कयित्वा दिवा] कर्मान्तान् [प्रयोजयति कायेन वाचा मनसा । इदं [दिवा] प्रज्वलनम् ।

ज्ञातिवितर्क इति । ज्ञातिवशादुत्पद्यन्तेऽनुस्मरणानि । ज्ञातिः क्षेमखुखं विन्दतु (
४५१) इतीच्छति । तस्य विनाशविहिंसामनुस्मरतः शोक उत्पद्यते । यत्ज्ञातिभिरेककार्याण्यनुस्मरति [अयं] ज्ञातिवितर्कः । योगी नानुस्मरेदिमं वितर्कम् । कस्मात् । पूर्वमेव हि प्रव्रज्याकाले ज्ञातीन् त्यक्तवान् । इदानीं तद्विकर्माश्रयणं नानुरूपं भवति । यदि प्रव्रजितः इमं ज्ञातिवितर्कमनुस्मरति । तदा गृहपरिवारपरित्यागो वृथाकिञ्चित्साधनः । ज्ञातिस्नेहादध्यवसानं भवति । अध्यवसानादारक्षा । आरक्षाप्रत्ययं दण्डादानशस्त्रादानादिकर्मानुक्रमं प्रवर्तते । अतो नोत्पादयेत्ज्ञातिवितर्कम् । ज्ञातिसमागमे च कुशलधर्मं न वर्धयति । योगिना स्मर्तव्यं सर्वेषु सत्त्वेषु जननमरणप्रवाहप्रवृत्तेषु नास्ति ज्ञातिरज्ञातिः । कस्मात्पर्यासज्यते इति । संसारे ज्ञात्यर्थमेव शोककरुणपरिदेवाश्रूणि महासागरनिर्वर्तनानि भवन्ति । इदानीं पुनरध्यवसाने दुःखमनवस्थमेव । सत्त्वाश्च कार्यनिमित्तं हि मिथः स्निह्यन्ति । नास्ति तु कुत्रचित्स्नेहनैयत्यम् । ज्ञातीनामनुस्मरणमिदं मोहलक्षणम् । लौकिका मूढाः स्वहितविहीनाः परहितं कामयन्ते । ज्ञातिमनुस्मरतः स्वहितमत्यल्पं भवति । इत्येभिः [कारणैः] योगी न ज्ञातिवितर्कमुत्पादयेत् ।

जनपदवितर्क इति । योगी [कश्चित्] चिन्तयति- अमुको जनपदः सुखः क्षेमः शिवः, तत्र गत्वा निभृतं सुखं लप्स्य इति । चित्तञ्च चपलं सर्वत्र भ्रमणदर्शनकांक्षीति । योगी नेदृशं वितर्कमुत्पादयेत् । कस्मात् । सर्वेषु हि जनपदेषु अस्ति कश्चिद्दोषः । कश्चिज्जनपदोऽतिशीतः । कश्चिदत्युष्णः । कश्चित्क्षामबहलः । कश्चिच्चोरबहुलः । एवमादयो विविधा दोषाः सन्तीत्यतो न चिन्तयेत् । यश्चपलः स ध्यानसमाधेः परिहीयते । यत्राभिरतः कुशलधर्मं वर्धयति अयं रमणीय इत्युच्यते । क उपयोगो जनपदानां पर्यालोकनेन । सर्वो जनपदो दूरत एव श्राव्यो नावश्यं गत्वा श्लाघनीयः । लौकिका बहुधा दुष्टा इति वचनात् । जनपदेषु भ्रमणी नानादुःखान्यनुभवति । कायोऽयं दुःखहेतुः । दुःखहेतुमिमं कायं धृत्वा यत्र यत्र गच्छति तत्र तत्र दुःखान्यनुभवति । सुखदुःखवेदना कर्मकारणाधीना । सुदूरं गच्छतोऽपि नास्ति कश्चनोपकारः । अतो न जनपदवितर्कमुत्पादयेत् ।

(
४५२)
अमरणवितर्क इति । योगी चिन्तयत्येवम्- मार्गो मया पश्चाद्भावयितव्यः । आदौ सूत्रविनयाभिधर्मक्षुद्रकपिटकबोधिसत्त्वपिटकान्यध्येतव्यानि । बाह्यग्रन्थाश्च सुविस्तरमभ्यसितव्याः । बहवः शिष्या आर्जयितव्याः । कल्याणमित्रमुपस्थाय चतुरस्तूपान् वन्दित्वा जनान महादानं कर्तुं प्रोत्साह्य च पश्चान्मार्गो भावयितव्य इति । [अय]ममरणवितर्कः । नैवं चिन्तयेत्योगी । कस्मात् । न हि मरणकालो नियतः । न पूर्वमेव ज्ञेयः । वृत्त्यन्तरेषु व्यापृतेन न मार्गो भावितुं शक्यः । पश्चान्मरणकाले समुपस्थिते चित्तं कौकृत्येन पीड्यते । मयायं कायो वृथा पोषितः न किञ्चिल्लब्धम् । पशुभिः समं म्रियत इति । यथोक्तं सूत्रे- पृथग्जनो विंशतिधा स्वचित्तं निगृह्येवं चिन्तयेत्- विभिन्नाकारवेषमात्रं मम वृथा [सर्वं] न किञ्चिल्लब्धम्, यावदामरणमदान्तो भविष्यामीति । पण्डितो न करोत्यकार्यम् । यथोक्तं धर्मपदे-

[येषाञ्च सुसमारब्धा नित्यं कायगता स्मृतिः]
अकृत्यं ते न सेवन्ते नित्यं सातत्यकारिणः ।
स्मृतानां सम्प्रजानानामस्तं गच्छन्ति चास्रवाः ॥ इति ।

अपि चोक्तं सूत्रे-

चतुस्सत्येष्वलाभी [यः] कामान् लब्धुमुपायतः ।
यत्नेन वीर्यमातिष्ठेत्भृशं तत्परिपालने ॥ इति ।

अतो नामरणवितर्कमुत्पादयेत् । अमरणवितर्कश्च मूढस्य प्राणितम् । को ज्ञानी तृणाग्रेऽवश्यायबिन्दुवत्जीवितमध्रुवं ज्ञात्वा क्षणमेकं जीवेयमिति [मन्येत] । उक्तञ्च सूत्रे- भगवानवोचत्कथं पूनर्यूयं भिक्षवो भावयथ मरणस्मृतिम् । [अन्यतरो (
४५३) भिक्षु]र्भगवन्तमवोचत्- [इह ममैवं भवति- अहो वत] अहं सप्त वर्षाणि न जीवेयमिति । एवमपचयोऽभूत यावन्मुहूर्तं न [जीवेय]मिति । अन्य[तरो भिक्षुर्भगवन्तमेतदवोचत्] अहं षड्वर्षाणि न जीवेयमिति । एवमपचयोऽभूत्- यावन्मुहूतमपि [न जीवेय]मिति । एवमुक्ते भगवान् तान् भिक्षूनेतदवोचत्- यूयं भिक्षवः प्रमत्ता [विहरथ, दन्धा]मरणस्मृतिं भावयथ इति । अन्यतरो भिक्षु [र्भगवन्त]मुपेत्यावोचत्[ममैवं भवति अहो बत] अहं [तदन्तरं] न जीवेयं यदन्तरमाश्वसित्वा प्रश्वसामि प्रश्वसित्वा वाश्वसामि इति । भगवानवोचत्- साधु साधु त्वं [खलु भिक्षो] भावयसि मरणस्मृतिमिति । अतो नोत्पादयेदमरणसंज्ञाम् ।

परानुग्रहवितर्क इति [यद्]बन्धावनुग्रहप्रापणमिच्छति । यद्येवं चिन्तयति- अमुकं धनमानसुखानां दानमाचरयामि । अमुकस्तु नोपैति इति । योगी नेदृशं वितर्कमुत्पादयेत् । कस्मात् । नानया स्मृत्या परस्य सुखं दुखं वा प्रापयति । किन्तु समाहितं चित्तमेव विक्षिपति । (पृ) परस्यानुग्रहचिकीर्षा किं करुणाचित्तं ननु । (उ) योगी मार्गमर्थयन् चिन्तयेत्पारमार्थिकं हितं यदुत अनित्यतादि । यद्यप्यत्र किञ्चित्पुण्यमस्ति तथापि मार्गप्रतिरोधकस्य हितमल्पं, दोषस्तु बहुलः । समाहितचित्तस्य विक्षेपात् । यो व्यग्रचित्ततया परस्य हितमनुस्मरति । स कामासक्त्या नादीनवं पश्यति । अतो नानुचिन्तयेत् ।

परावमन्यनावितर्क इति । यद्योगी चिन्तयति- गोत्रवंशाकृतिरूपधनमाननैपुण्येषु शीलतीक्ष्णेन्द्रियत्वध्यानसमाधिप्रज्ञादिषु च नायं मत्सम इति । नेदृशं योगी वितर्कमुत्पादयेत् । कस्मात् । सर्वेषां वस्तुनामनित्यत्वात् । य उत्तमोऽधम इति । तेषु को विशेषोऽस्ति । एषां कायकेशरोमनखदन्तं सर्वमशुचि, समं भवति न विषमम् । जराव्याधिमरणादिविपदपि समा । सर्वेषां सत्त्वानामध्यात्मं बहिर्धा च दुःखविहिंसापि समा न (
४५४) विषमा । पृथग्जनानां धनसमृद्धिः पापप्रत्यया । धनसमृद्धिश्च न दीर्घकालिकी । [अतः] पुनर्दरिद्रो भवति । अतो न परावमन्यनावितर्कमुत्पादयेत् । अयं मानोऽविद्याङ्गम् । विद्वान् कथमिमं वितर्कमुत्पादयिष्यति ॥

अकुशलवितर्कवर्गो द्व्यशीत्युत्तरशततमः ।


१८३ कुशलवितर्कवर्गः ।

नैष्क्रम्यवितर्क इति प्रविवेकाभिलाषिचित्तता । यत्पञ्चकामगुणेभ्यो रूपारूप्यधातुभ्यश्च प्रविवेकः । अस्मिन् प्रविवेकेऽभिलाषो नैष्क्रम्यवितर्कः । प्रविवेकाभिलाषादस्मा द्दुःखानामसम्भवात् । कामासक्तिवशाद्धि दुःखं भवति । असत्यां कामासक्तौ सुखं भवति ।

वितर्केषु द्वौ वितर्कौ सुखं यदुताव्यापदवितर्कोऽविहिंसावितर्कः । कस्मात् । द्वौ हीमौ वितर्कौ क्षेमवितर्कौ । यथोक्तं तथागतवर्गे- तथागतस्य खलु द्वौ वितर्कौ नित्यमुपतिष्ठतो यदुत योगक्षेमवितर्कः प्रविवेकवितर्कश्च इति । योगक्षेमवितर्कः अव्यापादाविहिंसावितर्क एव । प्रविवेकवितर्को नैष्क्रम्यवितर्कः । त्रीनिमान् वितर्कयतः पुण्यं वर्धते । समाहितचित्तत्तापि सिध्यति । चित्तं विशुध्यते च । त्रीनिमान् वितर्कान् वितर्कयन् पर्युत्थानानि प्रतिहन्ति । पर्युत्थानानां समुच्छेदात्प्रहाणं साक्षात्करोति । किञ्च योगी प्रविवेकामिलाषया बहूनां कुशलधर्माणामुपचयादाशु विमुच्यते ।

अष्टमहापुरुषवितर्क इति अल्पेच्छस्यायं धर्मो ना[यं धर्मो] महेच्छस्य । सन्तुष्टस्या[यं धर्मो नायं धर्मोऽसन्तुष्टस्य] । प्रविविक्तस्य [अयं धर्मो नायं धर्मः (
४५५) सङ्गणिकारामस्य] । आरब्धवीर्यस्य [अयं धर्मो नायं धर्मः कुसीदस्य] । उपस्थितस्मृतिकस्य [अयं धर्मो नायं धर्मो मुष्टस्मृतिकस्य] । समाहितस्य [अयं धर्मो नायं धर्मोऽसमाहितस्य] । प्रज्ञावतो [ऽयं धर्मो नायं धर्मो दुष्प्रज्ञस्य] । निष्प्रपञ्चारामस्यायं धर्मो नायं धर्मः प्रपञ्चारामस्य इतीमेऽष्टौ ।

अल्पेच्छो योगी यो मार्गं भावयितुमपेक्षितमिच्छति । न बहु प्रार्थयते अन्यदनुपयुक्तम् । अयमल्पेच्छः । सन्तुष्ट इति । कश्चित्[केनचित्] कारणेन वा शीलाय वा परस्य चित्तप्रसादनाय वाल्पं गृह्णाति न तु सन्तुष्टचित्तो भवति । योऽल्पं गृहीत्वा सन्तुष्टचित्तो भवति । अयं सन्तुष्टः । कश्चिदल्पं गृहीत्वापि रमणीयं कामयते । अयमल्पेच्छो न सन्तुष्टः । योऽल्पलाभेन तृप्यति स सन्तुष्टः । (पृ) यद्यपेक्षितग्राही अल्पेच्छ इति । सर्वे सत्त्वा अल्पेच्छा भवेयुः । एषां प्रत्येकमपेक्षितत्वात् । (उ) योगी अनासक्तत्तित्ततया गृह्णाति उपयोगार्थमात्रं, न बहु गृह्णाति । न तु यथा लौकिका यशोमण्डनवर्धनाय बहु गृह्णान्ति । (पृ) योगी कस्मादल्पेच्छयः सन्तुष्टो भवति । (उ) [स] हि परिपालनादावादीनवं पश्यति । अनुपयुक्तद्रव्यसङ्ग्रहः सम्मूढस्य लक्षणम् । प्रव्रजितो न बहु सञ्चिन्वन्नवदातवसनैः समो भवेत् । तादृशदोषसत्त्वादल्पेच्छः सन्तुष्टो भवति । योगी यदि नाल्पेच्छः सन्तुष्टः, तदा कामचित्तं क्रमशो वर्धेत । धनलाभित्वादप्रार्थनीयं प्रार्थयीत । धनलाभाभिलाषश्च नैव संशाम्यति । [तत्र] अध्यवसायित्वात् । प्रविवेकसुखाय प्रव्रजितो धनकामितया तत्करणीयं विस्मरति । क्लेशानपि न प्रजहाति । कस्मात् । बाह्यपदार्थानेव न प्रजहाति । कः पुनर्वाद आध्यात्मिकान् धर्मान् प्रजहातीति । लाभदृष्टिर्विपत्तिविहिंसाहेतुः । यथा करकवृष्टिः सस्यानि विनाशयति । अतः सततमल्पेच्छसन्तुष्टतां भावयेत् ।

दृश्यते च देयस्य पदार्थस्य प्रत्यर्पणं दुष्करम् । यठा ऋणी [ऋण]मप्रत्यर्पयन् पश्चात्तद्दुःखं व्यथामनुभवति इति । लाभसत्कारदृष्टिः बुद्धादिभिः सज्जानैस्त्यक्ता । (
४५६) यथाह भगवान्- नाहं लाभसत्कारमनुप्राप्नोमि मा लाभसत्कारो मामनुप्राप्नोत्विति । अयञ्च योगी सद्धर्मसन्तुष्टत्वाल्लाभसत्कारं प्रजहाति । यथाह भगवान्- देवा न प्रतिलभन्ते नैष्क्रम्यसुखं प्रविवेकसुखमुपशमसुखं यथा मया प्रतिलब्धम् । अतो लाभसत्कारं प्रजहामि इति । यथाह शारिपुत्रः-

अनिमित्तं भावयित्वा चाहं शून्यसमाधिना ।
समीक्षे सर्ववस्तूनि खेटपिण्डान् यथा बहिः ॥ इति ।

किञ्च योगी पश्यति न कामोपभोगेन तृप्तिर्भवति । यथा लवणोदकं पिबन्न तर्षणमपनयति इति प्रज्ञां प्रर्थयानस्तृप्तो भवति ।

महेच्छः सदा प्रार्थनामुत्पादयन् बहु प्रार्थयित्वाल्पं विन्दते । अतः सदा खिद्यते । पश्यामश्च भिक्षार्थी जनैरवमन्यते न सत्क्रियते यथाल्पेच्छः । प्रव्रजितो महत्प्रार्थयत इत्यकार्यमेतत् । जनैर्दत्तस्याग्रहणन्तु युक्तरूपम् । अतोऽल्पेच्छासन्तुष्टिमाचरेत् ।

प्रविविक्त इति यत्गृहस्थप्रव्रजितयोः कायिकप्रविवेकसमाचारः क्लेशेषु मानसप्रविवेकसमाचारः अयं प्रविवेकः । (पृ) योगी कस्मात्प्रविविक्तो भवति । (उ) प्रव्रजिता अप्रतिलब्धमार्गा अपि प्रविवेकारामा भवन्ति । अवदातवसनादयः तत्स्थानगतस्त्रीरूपविक्षेपावकृष्टा न तत्र कदाचित्सुखिनो भवन्ति । प्रविवेके तु चित्तं सूपशमं भवति । यथा सलिलमनाविलं प्रकृतितः स्वच्छम् । अतः प्रविवेके चरति । प्रविवेकधर्मोऽयं गङ्गानदीवालुकासमैर्बुद्धैरभिसंस्तुतः । केनेदं ज्ञायते । भगवान् ग्रामोपकण्ठे निषण्णं भिक्षुं दृष्ट्वा अप्रीतमनस्को भवति । शून्यायतने च शयानं भिक्षुं दृष्ट्वा भगवान् प्रीतमनस्को भवति । तत्कस्य हेतोः । ग्रामोपकण्ठे निष्षण्णस्य भिक्षोर्बहुभिः कारणैः समाहितचित्तविक्षेपे लब्धव्यं न लभ्यते साक्षात्कर्तव्यं न साक्षात्क्रियते । शून्यायतने शयानस्य किञ्चित्कौसीद्ये सत्यपि समाध्याशासम्भवे चित्तं परिगृह्यते । परिगृहीतं चित्तं विमुच्यते । निमित्तोद्ग्रहमुपादाय च कामादयः क्लेशाः समुद्भवन्ति । शून्यायतने न रूपादीनि निमित्तानि सन्तीति क्लेशाः सुप्रहाणाः । यथाग्निरसतीन्धने स्वतः शाम्यति । उक्तञ्चसूत्रे- यो भिक्षुः सङ्गणिकाविहाररतः सम्भाष्यरतः [स] गणादविविक्त इत्यतः सामयिकीमेव विमुक्तिं न (
४५७) प्रतिलभते । कः पुनर्वादः अकोप्यां विमुक्तिं प्रतिलभत इति । प्रविविक्तविहारी पुनरुभयं साक्षात्कुरुते । इति । यथा प्रदीपो वातविविक्तः प्रकाशते । एवं योगी प्रविवेकविहारितया तत्त्वज्ञानं विन्दते ।

आरब्धवीर्य इति । योगी यदि सम्यक्प्रधानमाचरनकुशलधर्मान् प्रजहाति कुशलधर्मांश्च सञ्चिनोति । [तदा] तत्र सम्यक्प्रधानामाचरतीति आरब्धवीर्य इत्युच्यते । एवञ्च भगवच्छासने हितं प्रतिलभते । तत्कस्य हेतोः । [स हि] कुशलधर्मसञ्चयेन प्रतिदिनमभिवर्धते । यथोत्पलपद्मादीनि यथासलिलमभिवर्धन्ते । कौसीद्यचारी पुनः काष्ठमुसलवत्प्रथमाभिनिर्वर्तनादारभ्य प्रतिदीनमपचीयते । आरब्धवीर्यस्य अर्थप्रतिलाभितया चित्तं सदा प्रमुद्यते । कौसीद्यचारी तु अकुशलधर्मनिवृत्तचित्तः सततं दुःखोपद्रवमनुबध्नाति । आरब्धवीर्यस्य च क्षणे क्षणे कुशलधर्मो नित्यमभिवर्धते, नापचीयते । वीर्यप्रकृष्टमाचरन्नाप्नोति प्रकृष्टं स्थानं यदुत बुद्धानां गतिम् । यथोक्तं सूत्रे भगवता आनन्दं प्रति प्रकृष्टं वीर्यमभ्यसन् बुद्धगतिं यातीति । आरब्धवीर्यस्य चित्तसमाधीः सुलभः । मन्देन्द्रिय आरब्धवीर्यः संसारादेवाशु मुच्यते । तीष्णेन्द्रियः कुसीदस्तु न विमुच्यते । यदस्ति किञ्चिदैहिकमामुष्मिकं लौकिकं लोकोत्तरं हितं, तत्सर्वं वीर्यमुपादाय भवति । सर्वेषां लोकानां यदस्ति अलाभव्यसनं, तत्सर्वं कौसीद्यमुपादाय भवति । एवं कुसीदस्य दोषमारब्धवीर्यस्य गुणं दृष्ट्वा वीर्यमनुस्मरति ।

उपस्थितस्मृतिक इति । कायवेदनाचित्तधर्मेषु सदा स्मृतिं समुपस्थापयति । (पृ) एषां चतुर्णां धर्माणां स्मृत्या कीदृशं हितं विन्दते । (उ) पापका अकुशला धर्मा न चित्तमागच्छन्ति । यथा सुरक्षिते न पापकः पुरुषोऽवतरति । यथा च घटः पूर्णो न पुनरुदकमादत्ते । एवमस्य पुरुषस्य कुशलधर्मसम्पूर्णस्य न पापकानि प्रसज्यन्ते । यो भावितसम्यक्स्मृतिकः स विमुक्तिभागीयान् सर्वान् कुशलधर्मान् सङ्गृह्णाति । यथा समुद्राम्बुपायिनः सर्वाणि स्त्रोतांसि पीतानि भवन्ति । सर्वेषामुदकानां समुद्रवर्तित्वात् । अस्याः स्मृतेर्भावयिता स्वतन्त्रचर्यास्थाने विहरतीत्युच्यते । क्लेशमारो न किञ्चिदाकोपयति काकोलूकदृष्टान्तवत् । अस्य च चित्तं सुप्रतिष्ठितं दुष्कम्पनं भवति । यथा वृत्तो (
४५८) घटःशिक्यमधिनिविश्यते । स चाचिरमेवार्थं लप्स्यते । यथोक्तं भिक्षुणीसूत्रे- भिक्षुण्य आनन्दमेतदवोचन्- इह भदन्त [आनन्द] वयं चतृषु स्मृत्युपस्थानेषु सुप्रतिष्ठितचित्ता विहरन्त्य [उदारं] पूर्वेणापरं विशेषं सम्प्रजानाम इति । आनन्दोऽवोचत्- एवमेतत्भगिन्य एवमेतत्भगिन्य इति ।

समाहित इति । चित्तसमाधिं भावयतः प्रवरोऽर्थो भवति । यथोक्तं सूत्रे- समाहितो यथाभूतं प्रजानाति इति । अनेन मनुष्यकायेनातिमानुषधर्मो भवति यदुत कायेनोदकर्ममग्निञ्चा[वगाह्य] निर्गच्छति । विहायसा गमने च स्वतन्त्र इत्यादि । किञ्चास्य सुखं भवति यत्यावद्देवाः सहांपतिब्रह्मादयोऽपि नाप्नुवन्ति । अयं यत्कर्तव्यं तत्करोतीत्युच्यते । यदकर्तव्यं न तत्करोति । समाहितस्य सद्धर्मः सदा वर्धते समाहितस्य चित्तं नानुतप्यते । अयंप्रव्रज्याफलभाग्भवति तथागतशासनानुयायी च । नान्यपुरुषवत्वृथा सत्कारं स्वीकरोति । अयमेव दानपुण्यं विपाचयति नान्ये । अयञ्च समाहितधर्मो बुद्धैरार्यैश्च निषेवितः । सर्वेषां कुशलधर्माणां समार्जनाय योग्यश्च भवति । यदि समाहितस्य सिद्धिर्भवति तदा आर्यमार्गस्य प्रतिलाभो भवति । यदि न सिद्धिः, तदा शुभदेवेषूपपद्यते यदुत रूपारूप्यधातौ । तत्कस्य हेतोः । न हि दानादिना ईदृशं कार्यं प्रतिलभते यदेकान्ततः पापकानामकरणम् । यथोक्तं सूत्रे- यो दहरो युवा आजन्म मैत्रीं भावयति । स किं पापकं चित्तमुत्पादयेत् । पापकं वा चिन्तयेत् । नो हीदं भगवन् । [तत्कस्य हेतोः] [तत्समाधिप्रभाव एषः । इति । चित्तसमाधिश्च तत्त्वज्ञानस्य प्रत्ययः । तत्त्वप्रज्ञा सर्वान् संस्कारान् क्षपयति । संस्काराणां क्षयात्सर्वे दुःखोपायासाः शाम्यन्ति । योगी सर्वाणि लौकिकानि लोकोत्तराणि स्मरन्नेव कुर्यात्न क्लमथेन कार्यं प्रयोजयन् । अन्ये पुद्गलास्तेन लब्धं प्रमातुं चित्तमेव नोत्पादयन्ति । अत आह- समाहितोऽर्थमाप्नोतीति ।

(
४५९)
प्रज्ञावानिति । प्रज्ञावतश्चित्ते क्लेशा न सम्भवन्ति । यदि सम्भवन्ति, तदैव निरुध्यन्ते यथा तप्तायःपात्रे पतिता जलकणिका । प्रज्ञावतश्चित्ते संज्ञा नाविर्भवन्ति । यद्याविर्भवन्ति, तदैव निरुध्यन्ते यथा तृणाग्रेऽवश्यायबिन्दुः सूर्य उदितमात्रे शुष्यति । यः प्रज्ञाचक्षुष्कः स बुद्धधर्मं पश्यति । यथा चक्षुष्मतः सूर्य उपयोगाय कल्पते । प्रज्ञावान् बुद्धस्य धर्मदायभागित्युच्यते । यथा जातः पुत्रः पित्रोर्धनभाग्भवति । प्रज्ञावानेव स जीव इत्युच्यते । अन्ये मृता इति । प्रज्ञावान् तत्त्वमार्गिकः, मार्गस्य परिज्ञानात् । प्रज्ञावानेव भगवतः शासना[मृत]रसं वेत्ति । यथा अविपरिणतजिह्वेन्द्रियः पञ्चरसान् विवेचयति । प्रज्ञावान् भगवच्छासने समाहितो न कम्पते तद्यथा शैलो न वायुना कम्प्यते । प्रज्ञावान् श्राद्ध इत्युच्यते । चतुः श्रद्धालाभितया पराननुयायितत्वात् । आर्यप्रज्ञेन्द्रियप्रतिलाभी जिनौरसो भवति । अन्ये बाह्याः पृथग्जनाः । अत उच्यते प्रज्ञावानर्थं विन्दत इति ।

निष्प्रपञ्चाराम इति । यदेकानेकत्ववादः स प्रपञ्चः । यथा आनन्दः शारिपुत्रं पृच्छति- षण्णाम् [आयुष्मन्] स्पर्शायतनानामशेषविरागनिरोधादस्ति अन्यत्किञ्चित् । शारिपुत्रः प्रत्याह[मा ह्येवमायुष्मन्] । षण्णा[मायुष्मन्] स्पर्शायतनानामशेषविरागनिरोधादस्त्यन्यत्किञ्चिदिति (
४६०) वदनप्रपञ्चं प्रपञ्चयसि । नास्ति किञ्चिदिति, अस्ति च नास्ति चान्यदिति, नैवास्ति नो च नैवास्त्यन्यदिति च प्रश्ने प्रतिवचनमपि तथा स्यात् ।

(पृ) कस्मादिदमप्रपञ्चम् । (उ) अयं वस्तुत आत्मधर्मप्रश्नः यद्येकः यदि वानेक इति । अतो न प्रत्युवाच । आत्मा च न नियतः । पञ्चस्कन्धेषु केवलं प्रज्ञप्त्याभिधीयते । यद्यस्ति किञ्चिदिति । यदि वा नास्ति किञ्चिदिति प्रतिब्रूयात्, तदा शाश्वतोच्छेदपातः स्यात् । यत्प्रतीत्यसमुदेनात्मव्यवहारः स निष्प्रपञ्चः । यदि पश्यति सत्त्वं शून्यं धर्माश्च शून्या इति स निष्प्रपञ्चारामः । अतो निष्प्रपञ्चारामा भगवच्छासनेऽर्थं विन्दन्ते । इयं कुशलवितर्कसम्पदा ।

कुशलवितर्कवर्गस्त्र्यशीत्युत्तरशततमः ।


१८४ अन्तिमपञ्चसमाधिपरिष्कारवर्गः

(७) कल्याणाधिमुक्तिसम्पदिति । योगी यत्निर्वाणेऽभिरमणः संसारं विद्वेषयति । इयं कल्याणाधिमुक्तिः । एवमधिमुक्तः क्षिप्रं विमुक्तिभाग्भवति । निर्वाणाभिरतस्य चित्तं न कुत्रचिदभिनिविशते । निर्वाणाभिरतस्य नास्ति भयम् । यदि पृथग्जनस्य चित्तं निर्वाणमनुस्मरति । तदैव सन्त्रासो भवति- अहमत्यन्तं नक्ष्यामीति ।

(पृ) केन प्रत्ययेन निर्वाणेऽधिमुच्यते । (उ) योगी लोकमनित्यं दुःखं शून्यमनात्मकं दृष्ट्वा निर्वाणे उपशमसंज्ञामुत्पादयति । पुद्गलोऽयं स्वाभाविकक्लेशप्रतनुभूतो निर्वाणभाणकं शृणोति । तदा [तस्य] चित्तं तत्राधिमुच्यते । यदि वा कल्याणमित्रात्यदि वा सूत्राध्ययनात्संसार आदीनवं शृणोति । यथा अनवराग्रसूत्रे पञ्चदेवदूतसूत्रे चोक्तम् । तदा संसारान्निर्विण्णो निर्वाणेऽधिमुच्यते ।

(८) प्रधानीयाङ्गसम्पदिति । यथोक्तं सूत्रे- पञ्च प्रधानीयाङ्गानि । (
४६१) कतमानि [पञ्च] । इह [भिक्षवो] भिक्षुः श्राद्धो भवति । अशठो भवति । अल्पाबाधो भवति । आरब्धवीर्यो भवति । प्रज्ञावान् भवतीति । श्रद्धावान्नाम[यः] त्रिषु रत्नेषु चतुर्षु सत्येषु च विगतविचिकित्सो भवति । विगतविचिकित्सत्वात्क्षिप्रं समाधिः सिध्यति । श्रद्धावतः प्रीतिबहुलत्वाच्च क्षिप्रं समाधिः सिध्यति । श्रद्धावान् सुसमाहितो दान्तश्च भवति । अतोऽपि सहसा समाधिं विन्दते । (पृ) यदि समाधिना प्रज्ञोत्पद्यते । अथ विचिकित्सां प्रजहाति । कथमिदानीं समाधेः पूर्वमेवोच्यते विगतविचिकित्स इति । (उ) बहुश्रुतत्वात्किञ्चिद्विचिकित्सां प्रजहाति । न समाधिलाभात् । अधिमुक्तकुलोत्पन्नः श्राद्धेन सहवृत्तिकः सदाधिमुक्तिचित्तं भावयनप्रतिलब्धसमाधिरपि विचिकित्सां न करोति । एवमादि ।

अशठ इति । ऋजुचित्तस्य नास्ति किञ्चिद्गोपनीयम् । सदपि सुतीर्णं भवति । यथा कश्चिद्भिषजमुपेत्य व्याधिस्वरूपमुक्त्वा सुचिकित्सो भवति । अल्पाबाध इति । स पूर्वरात्रेऽपररात्रे च व्यवस्यति, न विरमति । यद्याबाधाबहुलः, तन्मार्गचर्याया अन्तरायो भवति । आरब्धवीर्य इति । मार्गार्थित्वात्सदा विर्यमारभते । अतोऽग्निं मन्थानो न विरममाणो सहसाग्निं विन्दते । प्रज्ञावानिति । प्रज्ञावत्त्वेन चतुर्णामङ्गानां फलं भवति यदुत मार्गफलम् ।

(पृ) स्मृत्युपस्थानधर्मा अपि प्रधानीयाङ्गानि । कस्मात्केवलमेते पञ्च धर्मा उक्ताः । (उ) यद्यपि सकलमङ्गम् । तथापीमे धर्मा मुख्यतमाः योगिभिरप्यपेक्ष्यन्ते । अत इमे केवलमुक्ताः । सर्वेषां पापकानां परिवर्जनं सर्वेषां कुशलानां सञ्चयश्च योगिनोऽङ्गम् । यथा......... सूत्रे वर्णितम् ।

(९) विमुक्त्यायतनसम्पदिति यत्पञ्चविमुक्त्यायतनानि । इहशास्ता [अन्यतरो वा] गुरुस्थानीयः [स ब्रह्मचारी] भिक्षूनां धर्मं देशयति । यथा यथा धर्मं देशयति । तथा तथा [तस्मिन् धर्मे] अर्थप्रतिसंवेदी च धर्मप्रतिसंवेदी च भवति । [तस्यार्थ]प्रतिसंवेदिनो (
४६२) धर्मप्रतिसंवेदिनः प्रीतिर्जायते । प्रीतमनसः कायः प्रश्रभ्यते । प्रश्रब्धकायः सुखं वेदयते । सुखिनश्चित्तं समाधीयते । इदं प्रथमं विमुक्त्यायतनम् । यत्र भिक्षो[रप्रमत्तस्यातापिनः] प्रहितात्मनो विहरतो [ऽविमुक्तं] चित्तं विमुच्यते । [अपरिक्षीणा] वा आस्रवाः परिक्षयं गच्छन्ति । [अननुप्राप्तं] वा अनुत्तरं योगक्षेममनुप्राप्नोति । द्वितीयं [विमुक्त्यायतनं] विस्तरेण सूत्राध्ययनम् । तृतीयं परेषां धर्मदेशना । चतुर्थं विमुक्ते स्थाने धर्माणामनुवितर्कः अनुविचारः । पञ्चमं समाधिनिमित्तस्य सुग्रहणं यदुत नवनिमित्तादीनि यथापूर्वमुक्तानि ।

(पृ) शास्ता [अन्यतरो] वा गुरुस्थानीयः सब्रह्मचारी कस्मात्भिक्षूणां धर्मं देशयति । (उ) धर्मसमापादानेन महान्तमर्थमाप्नोति । इत्यतो देशनां करोति । सब्रह्मचार्ययः शास्तारमुपादाय प्रव्रजितः । इन्द्रियाणां परिपाचनाय धर्मं देशयति । गुरुस्थानीयः सब्रह्मचारी समानकर्मत्वाच्च धर्मदेशनां करोति । भिक्षवोऽवश्यं धर्मं शृण्वन्तीत्यतश्च [धर्म]देशनां करोति । इमे पुद्गला विशुद्धशीलादिगुणसम्पन्नाः तद्यथा सुभाजनं समृद्धिं समादातुं भव्यमित्यतो धर्मदेशनां करोति ।

इमास्तिस्रः प्रज्ञाः धर्मप्रतिसंवेदो बहुश्रुतमयी प्रज्ञा । अर्थप्रतिसंवेदश्चिन्तामयी प्रज्ञा । अभाभ्यामुभाभ्यां जायते प्रीतिः यावत्समाहितस्य यथाभूतज्ञानं जायते । इयं भावनामयी प्रज्ञा । आसां त्रिसृणां प्रज्ञानां त्रीणि फलानि भवन्ति यदुत निर्वेदो वैराग्यं विमुक्तिः । धर्मं श्रुत्वाधीत्य च परेषां धर्मं देशयति । इयं बहुश्रुतमयी प्रज्ञा । धर्माननुवितर्कयति अनुविचारयति । इयं चिन्तामयी प्रज्ञा । समाधिनिमित्तं सुगृह्णाति । इयं भावनामयी प्रज्ञा ।

(
४६३)
(पृ) या चित्तविमुक्तिः [यश्च] आश्रवक्षयः । अनयोः को भेदः । (उ) समाधिना क्लेशानां व्यावृत्तिश्चित्तविमुक्तिः । क्लेशानामत्यन्तप्रहाणमास्रवक्षयः । (पृ) शीलादयो धर्मा अपि विमुक्त्यायतनम् । यथोक्तं- शीलवतश्चित्तं न विप्रतिसरति । अविप्रतिसारिणः प्रीतिर्जायत इत्यादि । कदाचित्दानदिहेतोरपि विमुक्तिर्भवति । कस्मादिमे पञ्चैव धर्मा उक्ताः । (उ)प्राधान्यात्त एवोक्ताः । (पृ) एषां धर्माणां किं प्राधान्यम् । (उ) विमुक्तेः सन्निकृष्टो हेतुः । शीलादयस्तु विप्रकृष्टाः । (पृ) कथं ज्ञायते सन्निकृष्टो हेतुरिति । (उ) योगी धर्मं श्रुत्वा प्रजानाति स्कन्धायतनधातून् । तद्धर्मकलापमात्रे नास्त्यात्मेति । अतः प्रज्ञप्तिर्भज्यते । तत्प्रज्ञप्तिभङ्ग एव विमुक्तिरित्याख्यायते । अतः सन्निकृष्टो हेतुः । उक्तञ्च सूत्रे- बहुश्रुतस्यानिशंसा यदुत परशासनं नानुवर्तते, चित्तं सुसमाधीयते इत्यादि । अनेनापि ज्ञायते सन्निकृष्टो हेतुरिति । तथागतशासने महान् लाभोऽस्ति, क्लेशान्निरोधयति, निर्वाणञ्च यातीत्यादि । अस्मिन्नुपशमधर्मे श्रोता वा अध्येता वा अनुविचिन्तयिता वा क्षिप्रं विमुच्यते । अतः सन्निकृष्टो हेतुः । दानेन महत्पुण्यं विन्दते । शीलेन गौरवम् । बाहुश्रुत्येन प्रज्ञाम् । प्रज्ञया आस्रवाणां क्षयं विन्दते न पुण्यं गौरवं वा । अतो ज्ञायते सन्निकृष्टो हेतुरिति । शारिपुत्रादयो महाप्राज्ञा इति कीर्त्यन्ते । [तत्] सर्वं बहुश्रुत्यात् ।

(पृ) यदि बाहुश्रुत्येन चित्तं सुसमाधीयते । आनन्दः कस्मात्प्रथमेऽन्तिमे च यामे विमुक्तिं नालभत । (उ) आनन्दो न यावन्मस्तकमुपधाने न्यधत्त तावदेव विमुक्तिमलभत । अतोऽसदद्भुतधर्मेऽवर्तत । कस्मान्न क्षिप्रम् । आनन्दस्यतस्मिन् समये वीर्यं किञ्चिद्दुष्टमासीत् । अतिमात्रक्लान्तत्वान्नालभत विमुक्तिम् । आनन्दोऽस्मिन् याम आस्रवाणां क्षयमनुप्राप्नोमीति प्रणिदध्यौ । यथा च बोधिसत्त्वो बोधिमण्डे प्रणिहितवान् । कस्तादृशबलो यथा आनन्दः । सर्वमिदं बाहुश्रुत्यबलम् ।

(
४६४)
(१०) अनावरणतेति- यानि त्रीण्यावरणानि कर्मावरणं, विपाकावरणं क्लेशावरणमिति । यस्येमान्यावरणानि न सन्ति । न स दुःस्थाने पतति । योऽक्षणेभ्योमुक्तः स मार्गं समादातुं भव्यो भवति । स चतुर्भिश्चक्रैः सम्पन्न इत्युच्यते । [तानि] प्रतिरूपदेशवासः सत्पुरुषोपाश्रयः आत्मसम्यक्प्रणिधिः पूर्वे च कृतपुण्यता इति । [स] चत्वारि स्रोतआपत्त्यङ्गानि च साधयति यदुत सत्पुरुषसंवासः सद्धर्मश्रवणं, योनिशोमनस्कारो धर्मानुधर्मप्रतिपत्तिः । रागादीन् त्रीन् धर्मानपि समुत्सृजति । यथोक्तं सूत्रे- त्रीन् धर्मानप्रहाय न जराव्याधिमरणानि सन्तरति । इति ।

(११) अनासक्ततेति । "नावरतीरमुपगच्छति । न पारतीरमुपगच्छति । न मध्ये संसीदति । न स्थल उत्सीदिष्यति । न मनुष्यग्राहो भविष्यति । नामनुष्यग्राहो भविष्यति । नावर्तग्राहो भविष्यति । नान्तःपूती भविष्यति" । अवरतीरमिति षण्णामाध्यात्मिकानामायतनामधिवचनम् । पारतीरमीति षण्णां बाह्यानामायतनानामधिवचनम् । मध्ये संसीदति इति नन्दिरागस्याधिवचनम् । स्थल उत्साद इति अस्मिमानस्याधिवचनम् । कतमो मनुष्यग्राहः । [इह] भिक्षुर्गृहिसंसृष्टो विहरति । [कतमो]ऽमनुष्यग्राहः । [इह भिक्षुरेकत्य एकत्यो]ऽन्यतरं देवनिकायं प्रणिधाय ब्रह्मचर्यं चरति । अयमुच्यतेऽमनुष्यग्राह इति । आवर्तग्राह इति पञ्चानां कामगुणानमधिवचनम् । [कतमश्च] अन्तःपूतिभावः । इह भिक्षुरेकत्यो दुश्शीलो भवति । पापधर्मा अशुचिः शङ्कास्मरसमाचारोऽब्रह्मचारी । अयमुच्यतेऽन्तःपूतिभाव इति ।

यस्यास्ति आध्यात्मिकायतनेषु आत्मग्रहः । तस्य बाह्यायतनेषु आत्मियग्रहः । आध्यात्मिकबाह्यायतनेभ्यो नन्दिरागो भवति । अतस्तत्रैव निमज्जते । तेभ्यस्तु अहङ्कारो जायते । कस्मात् । यदि कश्चित्कायासक्तः सुखी भवतीत्यतो [ऽपरः] कश्चिदागत्य लघु (
४६५) निन्दति । तदा [तस्य]मानो जायते । एवमात्मीयनन्दिरागाहङ्कारास्तच्चित्तं विक्षेपयन्तोऽन्यानपि निर्वर्तयन्ति ।

(पृ) दृष्टान्तेऽस्मिन् किं स्त्रोतो भवति । यद्यार्योऽष्टाङ्गिकमार्गः स्रोतः । तदा षडाध्यात्मिकबाह्यायतनानि पारौ न स्युः । नन्दिरागादयो मध्यौघ आवर्तः पूतिभावोऽपि च न स्युः । यदि कामतृष्णा स्रोतः । कथमिमाननुवर्त्य निर्वाणमनुप्राप्नोति । (उ) आर्योऽष्टाङ्गिकमार्ग एव स्रोतः । दृष्टान्तो नावश्यं सर्वाकारैः समानो भवति । यथायं दारुस्कन्धोऽष्टाक्षणविनिर्मुक्तो महार्णवं गच्छति । एवं भिक्षुरोघोऽक्षणैर्विनिर्मुक्त आर्याष्टाङ्गिकमार्गं स्त्रोतोऽनुवर्त्यं निर्वाण[महार्णव]मवतरति । यथा कुम्भसदृशं स्तनमिति वचनं तदाकारमात्रं गृह्णाति न काठिन्यं मार्दवं वा । यथा च चन्द्रोपमं वदनमिति वचनं शोभा पौष्कल्यं गृह्णाति न तदाकारम् । किञ्च योगी आर्यमार्गनिर्गतोऽध्यात्मबहिर्धायतनेष्वासज्यते । न तु यथायं दारुस्कन्धः स्त्रोतोमध्यगतस्तस्मिन् पारेऽस्मिन् वा आसज्यते पूतीभवति वा । इत्यादि ।

शास्त्राचार्य आह- यथा गङ्गास्त्रोतो नियमेन महार्णवं प्राप्नोति । एवमार्याष्टाङ्गिकमार्गस्त्रोतो नियमेन निर्वाणं प्राप्नोति ।

एवं संक्षिप्यैकादशमाधिपरिष्कारा उक्ताः, येषु सत्सु नियमेन समाधिर्लभ्यते ॥

अन्तिमपञ्चसमाधिपरिष्कारवर्गश्चतुरशीत्युत्तरशततमः


१८५ आनापानवर्गः

आनापानस्य षोडशाकारा यदुत सस्मृत एवाश्वसिति स्मृत एव प्रश्वसिति । दीर्घं वा आश्वसन् दीर्घमाश्वसिमीति प्रजानाति दीर्घं वा प्रश्वसन् दीर्घं प्रश्वसिमीति प्रजानाति ॥ ह्रस्वं वा आश्वसन् ह्रस्वमाश्वसिमीति प्रजानाति । ह्रस्वं प्रश्वसन् ह्रस्वं प्रश्वसिमीति (
४६६) प्रजानाति ॥ सर्वकायप्रतिसंवेदी आश्वसिष्यामीति शिक्षते ॥ सर्वकायप्रतिसंवेदी प्रश्वसिष्यामीति शिक्षते ॥ प्रश्रम्भयन् कायसंस्कारमाश्वसिष्यामीति शिक्षते । प्रश्रम्भयन् कायसंस्कारं प्रश्वसिष्यमीति शिक्षते ॥ प्रीतिप्रतिसंवेदी आश्वसिष्यामीति शिक्षते । प्रीतिप्रतिसंवेदी प्रश्वसिष्यामीति शिक्षते ॥ सुखप्रतिसंवेदी आश्वसिष्यामीति शिक्षते । सुखप्रतिसंवेदी प्रश्वसिष्यामीति शिक्षते ॥ चित्तसंस्कारप्रतिसंवेदी आश्वसिष्यामीति शिक्षते । चित्तसंस्कारप्रतिसंवेदी प्रश्वसिष्यामीति शिक्षते ॥ प्रस्रम्भयन् चित्तसंस्कारमाश्वसिष्यामिति शिक्षते । प्रश्रम्भयन् चित्तसंस्कारं प्रश्वसिष्यामीति शिक्षते ॥ चित्तप्रतिसंवेदी आश्वसिष्यामीति शिक्षते । चित्तप्रतिसंवेदी प्रश्वसिष्यामीति शिक्षते ॥ अभिप्रमोदयन् चित्तमाश्वसिष्यामीति शिक्षते । अभिप्रमोदयन् चित्तं प्रश्वसिष्यामीति शिक्षते ॥ समादधन् चित्तमाश्वसिष्यामीति शिक्षते । समादधन् चित्तं प्रश्वसिष्यामीति शिक्षते ॥ विमोचयन् चित्तमाश्वसिष्यामीति शिक्षते । विमोचयन् चित्तं प्रश्वसिष्यामीति शिक्षते ॥ अनित्यानुदर्शी आश्वसिष्यामीति शिक्षते । अनित्यानुदर्शी प्रश्वसिष्यामीति शिक्षते ॥ विरागानुदर्शी आश्वसिष्यामीति शिक्षते । विरागानुदर्शी प्रश्वसिष्यामीति शिक्षते
॥ निरोधानुदर्शी आश्वसिष्यामीति शिक्षते । निरोधानुदर्शी प्रश्वसिष्यामीति शिक्षते ॥ प्रतिनिस्सर्गानुदर्शी आश्वसिष्यामीति शिक्षते । प्रतिनिस्सर्गानुदर्शी प्रश्वसिष्यामीति शिक्षते ।

(पृ) कथमानापानस्य दीर्घं ह्रस्वं वा भवति । (उ) यथा कश्चित्पर्वतमारोहति । यदि वा [वा] भारं वहति । [तदा] क्लान्तः ह्रस्वं श्वसति । तथा योग्यपि औदारिके चित्ते प्रवृत्ते ह्रस्वं [श्वसति] । औदारिकचित्तमिति चपलं रोगविक्षिप्तं चित्तम् । दीर्घं श्वसतीति यदि योगी सूक्ष्मचित्ते स्थितः, [तदा] तस्याश्वासप्रश्वासा दीर्घा भवन्ति । कस्मात् । सूक्ष्मचित्तानुवर्तिन आश्वासप्रश्वासा अपि सूक्ष्मा अनुपतन्ति । यथा तस्यैव क्लान्तस्य विश्रान्तस्य आश्रासप्रश्वासा सूक्ष्मा अनुपतन्ति । तस्मिन् समये दीर्घा अश्वास प्रश्वासा भवन्ति ।

(
४६७)
सर्वकाय[प्रतिसंवेदी]ति । योगी काये तुच्छाधिमुक्तः सर्वरोमकूपेषु वायुमन्तर्बहिश्चारिणं पश्यति । प्रश्रम्भयन् कायसंस्कारमिति । धातुबललाभिनो व्युपशान्तचित्तस्य योगिन औदारिका आश्वासप्रश्वासा व्युपशान्ता भवन्ति । तदा योगी कायम्मृत्युपस्थानसमन्वितो भवति । प्रीतिप्रतिसंवेदीति । अस्मात्समाधिधर्मादस्य चित्ते महती प्रीतिर्भवति । प्रकृतितो विद्यमानापि नैवं भवति । अस्मिन् समये प्रीतिप्रतिसंवेदीत्याख्यायते । सुखप्रतिसंवेदीति । प्रीतेः सुखं जायते । कस्मात् । प्रीतमनसः कायः प्रश्रभ्यते, प्रश्रब्धकायः सुखं विन्दते । यथोक्तं सूत्रे- प्रीतमनसः कायः प्रश्रम्यते । प्रश्रब्धकायः सुखं वेदयते । इति ।

चित्तसंस्कारप्रतिसंवेदीति । योगी प्रीतावादीनवं पश्यति । रागजनकत्वात् । रागोऽयं चित्तसंस्कारः चित्तादुत्पन्नत्वात् । वेदनायां रागो जायत इत्यतो वेदनां चित्तसंस्कारं पश्यति । प्रश्रम्भयन् चित्तसंस्कारमिति । योगी पश्यति वेदनातो रागो जायते । तत्प्रश्रम्भयतश्चित्तमुपशाम्यति । औदारिकवेदनामपि प्रश्रम्भयतीति प्रश्रम्भयन् चित्तसंस्कारमित्युच्यते । चित्तप्रतिसंवेदीति । योगी प्रश्रम्भयन् वेदनास्वादं पश्यति चित्तं शान्तं न लीनं नोद्धतम् । चित्तमिदं कस्मिंश्चित्समये पुनर्लीनं भवति । तस्मिन् समयेऽभिप्रमोदयति । यदि पुनरुद्धतम् । तस्मिन् समये समादधाति । यद्युभयधर्मविनिर्मुक्तम् । तस्मिन् समये समुत्सृजेत् । अत उच्यते विमोचयन् चित्तमिति । एवं योगी समाहितोऽनित्याकारमुत्पादयति । अनित्याकारेण क्लेशान् प्रजहाति । अयं निरोधाकरः । क्लेशानां प्रहाणाच्चित्तं निर्विद्यते । अयं विरागाकारः । विरक्तचित्ततया सर्वेषां प्रतिनिस्सर्गमनुप्राप्नोति । अयं प्रति निस्सर्गाकारः । एवमनुपूर्वं विमुक्तिमनुप्राप्नोतीति षोडशाकारा आनापानस्मृतेर्भवन्ति ।

(पृ) कस्मादानापानस्मृतिरार्यविहार इति दिव्यविहार इति ब्रह्मविहार इति शैक्षविहार इति अशैक्षविहार इति चोच्यते । (उ) वायुराकाशे विहरति । आकाशलक्षणं रूपलक्षणं प्रकटयति । रूपलक्षणमिदं शून्यमेव । शून्यतैवार्यविहार इत्यार्यविहारो (
४६८) भवति । शुभदेवेषूत्पत्यर्थत्वात्दिव्यविहारः । उपशमप्रापणार्थत्वात्ब्रह्मविहारः । शैक्षधर्मप्रतिलाभार्थत्वात्शैक्षविहारः । अशैक्षार्थत्वादशैक्षविहारः ।

(पृ) यद्यशुभभावनया कायाद्विरक्तो विमुक्तिमनुप्राप्नोति । क उपयोग एभिः षोडशभिराकारैः । (उ) अशुभभावनया अलब्धवैराग्यस्य आत्मदुर्विण्णस्य कायचित्ते व्यामोहिते स्याताम् । यथा दुष्टमौषधं सेवमानस्य व्याधिः पुनर्भवति । एवमशुभभावनया दुर्निवेदो भवति । यथा वल्गुमुत्तितीर्षया भिक्षवोऽशुभभावनया अतीव निर्विण्णा विषपानभृगुपतनादिभिर्विविधैरात्मानं ध्नन्ति स्म । न तथा इमे षोडशाकारा वैराग्यप्रापका अपि न दुर्निवेदजनका भवन्तीत्यतो विशिष्यन्ते । किञ्च अयमाकारः सुलभः स्वकायावलम्बित्वात् । अशुभा[कारस्तु] सुविनाशः । अयमाकारः सूक्ष्मः स्वकायविपरिणामकत्वात् । अशुभाकार औदारिकः । अस्थिकङ्कालविपरिणामदुष्टः । अयमाकारः सर्वेषां क्लेशानां भेदकः । अशुभाकारस्तु मैथुनरागमात्रस्य कस्मात् । सर्वे हि क्लेशा वितर्कं प्रतीत्य जायन्ते । आनापानस्मृतेश्च सर्ववितर्कोपच्छेदार्थत्वात् ।

(पृ) अनापानं किं कायानुबन्धि किं चित्तानुबन्धि । (उ) कायानुबन्धि चित्तानुबन्धि च । कस्मात् । गर्भाशयगतस्याभावात्ज्ञायते कायाधीनमिति । चतुर्थध्यानादिकस्याचित्तकस्य चाभावात्ज्ञायते चित्तानुबन्धीति । (पृ) आश्वासप्रश्वासोऽभूत्वोत्पन्नश्चित्ताधीनो न स्यात् । कस्मात् । स न मनसो वशादुत्पद्यते । यथा अन्यद्वस्तु स्मरति चित्ते सदा आश्वासप्रश्वासा भवन्ति । यथा [भुक्त] आहारः स्वयं परिपच्यते । यथा च प्रतिबिम्बं स्वयं प्रवर्तते न पुरुषः करोति ।

(उ) आश्वासप्रश्वासोऽभूत्वोत्पद्यते न स्मृतिवशात् । किन्तु प्रत्ययसामग्र्योत्पद्यते । सचित्तस्यास्ति अचित्तकस्य पुनर्नास्ति । अतो ज्ञायते चित्ताधीन इति । यथाचित्तञ्च भिद्यते । औदारिकचित्तस्य ह्रस्वः । सूक्ष्मचित्तस्य दीर्घः । आनापानं भूम्यधीनं चित्ताधीनम् । आनापान(भूमि)गतस्य आनापानभूमिरप्यस्ति । [तस्य] तस्मिन् समये चित्तमप्यस्ति । आनापानभूमिर्नाम कामधातु स्त्रीणि ध्यानानि च । य (
४६९) आनापानभूमिगतः [तस्य] अस्ति तु आनापानभूमि- चित्तम् । अचित्तकस्य तस्मिन् समये [तद्भूमि]चित्तमपि नास्ति । आनापानविहीनभूमिगतस्य तस्मिन् समये [तद्भूमिश्चित्त]मपि नास्ति ।

(पृ) श्वास उत्पद्यमान किं पूर्वमाश्वसति । किं वा पूर्वं प्रश्वसति । (उ) उपपत्तिकाले पूर्वमाश्वसति । मरणकालेऽन्ते प्रश्वसति । एवं चतुर्थध्याने निर्गमनप्रवेशावपि । (पृ) आनापानस्मृतिरियं कथं परिपूर्णा भवति । (उ) योगी यदि षोडशाकारान् प्रतिलभते । तस्मिन् समये परिपूर्णा भवति । केचिच्छास्ताचार्या वदन्ति- षडिभः प्रत्ययैः परिपूर्णेति । [षट्प्रत्यया] यदुत गणना अनुबन्धना शमथो विपश्यना विवर्तनं परिशुद्धिः । गणना आनापानगणना एकत आरभ्य यावद्दश । त्रिप्रकारा गणना समा वा अतिरिक्ता वा न्यूना वा । समा नाम दशसु सत्सु दशेति गणयति । अतिरिक्ता नाम एकादशसु दशेति गणयति । न्यूना नाम नवसु दशेति गणयति । अनुबन्धनं नाम योगिनश्चित्तमानापानमनुबध्नाति । विपश्यना नाम योगी आश्वासप्रश्वासान् कायानुबद्धान्मणिषु सूत्रवत्पश्यति । शमथो नाम चित्तस्यानापाने प्रतिष्ठापनम् । विवर्तनं नाम चित्तं प्रतीत्य कायस्य प्रवृत्तिः, चित्तं प्रतीत्य च वेदनायाः । प्रत्युत्पन्नचित्तधर्मोऽप्येवम् । परिशुद्धिर्नाम योगिनि सर्वक्लेशैः सर्वाक्षणैश्च विमुक्ते चित्तं परिशुध्यति ।

नेमेऽवश्यनियताः । कस्मात् । आकारेषु गणानुबन्धनरूपयो द्वयोधर्मयोर्नावश्यमुपयोगो भवति । यतो योगी केवलमानापाने चित्तं प्रतिष्ठापयन् सर्वान् वितर्कानुपच्छेदयति । यः षोडशविधमाचरितुं समर्थः स परिपूर्ण इत्युच्यते । इदं परिपूर्णलक्षणञ्चानियतम् । मृद्विन्द्रियाचरितं तीक्ष्णेन्द्रियस्यापरिपूर्णम् ।

(पृ) आनापानसूत्रेऽस्मिन् कस्मादुक्तम्- आहाराय भवतीति । (उ) आनापानस्तिमितस्य कायः सुखी भवति । यथा मधुरान्नभुजः कायः प्रह्लाद्यते । अतः आहाराय भवतीत्युच्यते । (पृ) एषु षोडशाकारेषु किमानापानं संस्मरति । (उ) अस्य पुरुषेण (
४७०) पञ्चस्कन्धान्निराकर्तुमुपाय इत्याख्या । पञ्चस्कन्धेषु निराकृतेषु प्रज्ञप्तिर्निराकृतेति कः पुनरुपयोग आनापानस्मृत्या । इदमेव कायानुस्मृतिरित्युच्यते । चतुर्धा कायमनुस्मरतीति कायानुस्मृतिः ।

(पृ) स्मृतिरतीतालम्बना । आश्वासप्रश्वासाः प्रत्युत्पन्नाः । कस्मात्तत्स्मृतिर्भवति । (उ) इदं प्रज्ञप्तिभेदकं ज्ञानमनुस्मृतिनाम्नोच्यते । चैतसिकधर्माणामन्योन्यं नाम भवति । यथा दशसंज्ञादयः स्मृतिपूर्वं क्रियमाणत्वातनुस्मृतिरित्युच्यते । दीर्घह्रस्वादीनां नार्यविहार इत्यभिधानम् । कथं विहारविर्हीनं स्मृत्युपस्थानमित्याख्यायते । उक्तञ्च सूत्रे योगी आनापानं शिक्षमाणः दीर्घ[माश्वसन्] वा [शिक्षते] ह्रस्वं वा सर्वकायप्रतिसंवेदी वा प्रश्रम्भयन् कायसंस्कारं वा [शिक्षते] । तस्मिन् समये कायस्मृत्युपस्थानं भवति ।

अयमाद्य उपायमार्गः । विशुद्धये भवतीत्यतोऽन्ते प्रहाणमार्र्ग इत्युच्यते । अत्र अनित्याद्याकारोऽस्ति । अस्मिन्सूत्रे परं नोक्तम् । अन्यस्मिन् सूत्रेतूक्तम्- योगी आनापाने [स्थितः] काये समुदयधर्मानुदर्शी व्ययधर्मानुदर्शी, समुदयव्ययधर्मानुदर्शी विहरतीति । आह- कायमनित्यं पश्यतीत्यादि । चतुर्थे परमनित्याद्याकारः परिपूर्णत्वादुक्तः ॥

आनापानवर्गः पञ्चाशीत्युत्तरशततमः ।


(
४७१)
१८६ समाध्यपक्षाल वर्गः

समाधिरयं तत्प्रतिबन्धिभिरपक्षालैर्विनिर्मुक्तः सन्महद्धितं साधयति । समाध्यपक्षालमिति यदुत औदारिकी प्रीतिः । यथोक्तं सूत्रे- ममौदारिकं प्रीतिप्रामोद्यं चित्तस्य दूषणमभूतिति । योगी नोत्पादयेदिदमौदारिकं प्रीतिप्रमोद्यम् । रागादिदोषाणां समाहित चित्तविक्षेपकत्वात् ।

(पृ) धर्मादुत्पद्यमानं प्रीतिप्रामोद्यं कथं नोत्पादयेत् । (उ) योगिनः शून्य तामनुस्मरतो न प्रीतिप्रमोद्यं जायते । अस्ति सत्त्व इति संज्ञया हि प्रीतिप्रामोद्यं जायते । पञ्चसु स्कन्धेषु नास्ति सत्त्वः, कथं प्रीतिप्रामोद्यं भविष्यति । योगी एवमनुस्मरेत्- हेतुप्रत्ययै विविधा धर्मा जायते यदुतातपालोकादयो धर्माः । तत्र किं प्रीतिप्रामोद्यम् । ये प्रीतिप्रामोद्यकरा धर्माः ते सर्वे परिमार्गिता व्यग्रविक्षेपका इति पश्यतो योगिन औदारिकं प्रीतिप्रामोद्यं निरुध्यते । योगी पुनर्महान्तमर्थं प्रार्थयते । नातपालोकादिभिर्धर्मैरयं भवति । अतो न प्रीतिप्रामोद्यं जायते । योगी निरोधलक्षणं लाभं पश्यतीत्यतो नातपालोकादिभिः [तस्य] प्रीतिप्रामोद्यं भवति । अयं योगी उपशमं भावयन् क्लेशानां क्षयमिच्छति । अतो न प्रीतिप्रामोद्यमुत्पादयति । ईदृशैः प्रत्ययैरौदारिकं प्रीतिप्रामोद्यमुपशमयति ।

भीरुता च समाधेरपक्षालः । अहङ्कारमालम्बनं दृष्ट्वा भीरुतां जनयति । लोके यानि भैरवस्थानानि तानि सर्वाणि योगी पश्यति । तानि सर्वाणि अनित्यं विक्षेपकमिति परीक्ष्य [तानि] नानुविदधीत । कस्मात् । ध्याननिषण्णधर्मेऽस्त्ययं भैरवदर्शनस्य प्रत्ययः । नानेन भीरुतां जनयेत् । सर्वमिदमभूतं शून्यं मायावत् । बालानां वञ्चनमतत्त्वम् । एवं चिन्तयतो (
४७२) भीरुता वियुज्यते । धर्मान् शून्यानुपाश्रयतो नास्ति भीरुता । विहारबलादिदं वैलक्षण्यमनुभवामीत्यनुस्मरन्न बिभ्यात् । किञ्च काये शीलश्रुतादिगुणसम्पदस्ति । न हिंसाप्रयोगप्रत्यय इत्यनुस्मरतो न भवति भीरुता । योग्ययं मार्गे परमाभिरत इत्यतः कायजीवितेऽनपेक्षो भवति । कस्मात्बिभ्यात् । किञ्चास्य चित्तं सदा सम्यक्स्मृतौ तिष्ठति । अतो भीरुता नावकाशं लभते । शूरलक्षणानुस्मरणाच्च न बिभेति । भीरुता चेयमबलीनतालक्षणम् । एवमादिना भीरुतामपसारयति ।

अदमः समाधेरपक्षालः । [अदमो] यत्योगी शीतवातादिभिर्व्याधिमान् । यदि वातिक्लान्तिजरामरणप्रत्ययैरदान्तकायो भवति । रागतृष्णेर्ष्यादिभिः क्लेशैरदान्तचित्तस्य ध्यानसमाधयो नश्यन्ति । अतो योगी स्वकायचित्ते संरक्षन् दमयेत् ।

वैलक्षण्यञ्च समाधेरपक्षालः । [वेलक्षण्यं] यत्मलिनत्वलक्षणम् । किञ्चिदमलिनतालक्षणमपि ध्यानसमाधीनां विक्षेपकम् । यथा दानादिलक्षणम् ।

वैषम्यञ्च समाधेरपक्षालः । [वैषम्यं] यत्वीर्यं दुष्ठुलं यदि वातिलीनम् । दुष्ठुलस्य कायचित्तेऽतिक्लान्ते । अतिलीन[वीर्यो] न समाधिनिमित्तं गृह्णाति । उभावपि समाधेश्च्युतौ भवतः । यथा वर्तकापोतो गाढं गृहीतोऽतिल्कान्तो भवति । शिथिलं गृहीतो हस्तादुत्पतेत् । यथा वा दान्ता वीणायास्तन्त्र्योऽत्यायता वातिशिथिला वा उभयथा न स्वरं साधयन्ति । आरब्धवीर्यं प्रवेगवत्तदा दुषणावसानं भवेत् । यथा भगवाननुरुद्धमाह- अत्यारब्धवीर्यस्य कौसीद्यं भवेतिति । कस्मात् । अत्यारब्धवीर्यो हि वस्त्वप्रसाध्य कौसीद्ये पतेत् । अतिलीनवीर्योऽपि न वस्तु साधयति । अतो वैषम्यं समाधेरपक्षालो भवति ।

(
४७३)
अमनस्कारः समाधेरपक्षालः । अमनस्कारो नाम सद्धर्मामनस्कारः । मनस्कारप्रीतिधर्मे सत्यपि नास्ति वेदयितम् (?) । समाधिनिमित्तमनस्कृत्य बाह्यरूपस्य मनस्कारश्चामनस्कारः । योगी चित्तैकाग्र्येणारब्धवीर्यो वेदनीयधर्मं मनसि कुर्यात् । यथा तैलपात्रमाहरेत् ।

वैपरीत्यञ्च समाधेरपक्षालः । [वैपरीत्यं] यत्रागबहुलः करुणाचरितमुपादत्ते । द्वेषबहलोऽशुभं भावयति । इमौ द्वावपि प्रतीत्यसमुत्पादं भावयतः । अतिलीने चित्ते शमथं भावयति । अत्युद्धते चित्ते वीर्यमारभते । अनयो द्वयोश्चित्तयोरुपेक्षामाचरति । इदं वैपरीत्यम् ।

अभिजल्पः समाधेरपक्षालः । [अभिजल्पो] यत्वितर्कविचारबाहुल्यम् । वितर्कविचाराणामभिजल्पहेतुत्वात् । चित्तञ्च नालम्बने सुदृढप्रतिबद्धविहरणं, नाभिरमते ।

लक्षणग्रहणञ्च समाधेरपक्षालः । लक्षणं त्रिविधम्- यत्शमथलक्षणमारम्भलक्षणमुपेक्षालक्षणमिति । पुनस्त्रिविधं समाधौ समापत्तिलक्षणं स्थितिलक्षणं व्युत्थानलक्षणमिति । ईदृशलक्षणानां प्रविभागाकुशलो योगी ध्यानाच्यवते ।

मानञ्चसमाधेरपक्षालः । यदाह- अहमेव समाधिमुपसम्पद्य विहरामि न तु स इतीदं मानं भवति । यदाह- स एवोपसम्पद्य विहरति नाहमितीदं मानकल्पं भवति । यद्यप्रतिलब्धसमाधिराह- प्रतिलब्धवानिति । इदमधिमानम् । अप्रणीतसमाधौ प्रणीतसंज्ञामुत्पादयति इदं मिथ्यामानम् ।

रागादिधर्मा अपि समाध्यपक्षालाः । यथोक्तं सूत्रे- यो भिक्षुरेकधर्मेण समन्वितः स न पश्यति चक्षुरनित्यमिति । [कतमोऽसावेकधर्मः] रागः इति । (पृ) सर्वेऽवीतरागाः सत्त्वा किं न पश्यन्ति चक्षुरनित्यमिति । (उ) वचनमिदं किञ्चित्न्यूनम् । प्रत्युत्पन्ने (
४७४) समुत्पन्नरागो न पश्यति चक्षुरनित्यमिति इति वक्तव्यम् । [राग]समन्वितेऽपि कश्चिद्भेदः । केषाञ्चिद्रागादयो घनतराः सदा चित्तमाविशन्ति । तदा [तेषां ते] समाधिं प्रतिबध्नन्ति । तनुभूतास्तु न सदाविशन्ति । तदा नापक्षाला भवन्ति ।

सूत्रे चोक्ता स्रयोदश कृष्णधर्माः समाधिप्रतिकूलाः त्रयोदश शुक्लधर्माः समाध्यनुकूलाः । यद्भगवानाह- त्रीण धर्मानप्रहाय न जराव्याधिमरणं तरति । [कतमे त्रयः] रागद्वेषमोहाः । त्रीन् धर्मानप्रहाय न समुच्छेदयति रागद्वेषमोहान् । [कतमे त्रयः ।] सत्कायदृष्टिः शीलव्रतपरामर्शो विचिकित्सा । अथ सन्ति त्रयो धर्माः अयोनिशोमनस्कारो दुश्चरितमतिलीनचित्तता । अथ सन्ति त्रयो धर्मा मुषितस्मृतिता, असम्प्रजन्यं विक्षिप्तचित्तता इति । अथ सन्ति त्रयो धर्मा औद्धत्यमिन्द्रियेष्वगुप्तद्वारता शीलविपन्नता । अथ सन्ति त्रयो धर्माः अस्राद्ध्यं दौश्शील्यं कौसीद्यमिति । अथ सन्ति त्रयो धर्माः सज्जनेऽरतिः सद्धर्मश्रवणे द्वेषः परदोषप्रकटने प्रीतिः । अत सन्ति त्रयो धर्मः अगौरवता संकथ्यदूषणं दुष्प्रज्ञसेवनम् । त्रीन् धर्मानप्रहाय न प्रजहाति असत्कारं संकथ्यदूषणं दुष्प्रज्ञसेवनम् [कतमे त्रयः ।] अह्रीक्यमनपत्राप्यं प्रमादः । अह्रीक्यमनपत्राप्यं प्रमादं प्रहाय प्रजहाति असत्कारं संकथ्यदूषणं दुष्प्रज्ञसेवनम् । [एवं] यावत्सत्कायदृष्टिं शीलव्रतपरामर्शं विचिकित्सां प्रजहन् प्रजहाति रागद्वेषमोहान् जराव्याधिमरणानि च तरति ।

अत्र जराव्याधिमरणानां तरणमेव यन्निरुपधिशेषनिर्वाणम् । रागद्वेषमोहानां समुच्छेद एवार्हत्फलं सोपधिशेषनिर्वाणम् । सक्तायदृष्टिशीलव्रतपरामर्शविचिकित्सानां समुच्छेद एव यच्छ्रामण्यफलम् । अयोनिशोमनस्कारदुश्चरितातिलीनचित्तानां समुच्छेद एव यदूष्मगतादिनिर्वेधभागीयकुशलमूलम् । मुषितस्मृत्यसं प्रजन्यविक्षिप्तचित्तानां समुच्छेद एव यत्चतुर्णां स्मृत्युपस्थानानां भावना । औद्धत्येन्द्रियेष्वगुप्तद्वारताशीलविपन्नतानां समुच्छेद एव यत्प्रव्रजितशीलसमादानम् । सज्जनारतिसद्धर्मश्रवणद्वेषपरदोषप्रकटनप्रीतिनां, अश्राद्धयदौश्शील्यकौसीद्यानां, असत्कारसंकथ्यदूषणदुष्प्रज्ञसेवनानां, अह्रीक्यानपत्राप्यप्रमादानाञ्च समुच्छेद एव यत्गृहिणः परिशुद्धिः ।

(
४७५)
कस्मात् । यत्कश्चित्रहोगतः पापकं कृत्वा न लज्जते तदाह्रीक्यम् । यत्स पापकचित्तप्रवृत्तेरूर्ध्वं सङ्घमध्येऽपि पापकं कृत्वा नापत्रपते । तदनपत्राप्यम् । सद्धर्ममूलात्कुशलधर्मद्वयाद्भष्टस्य सदाकुशलधर्मानुवर्तनं प्रमादः । एभिस्त्रिभिर्धर्मैः समन्वितो गुरुस्थानीयेनचार्येणानुशिष्ठं न समादत्ते । सा अगौरवता । आचार्यशासनस्य विपर्ययाचरणं संकथ्यदूषणम् । एवं सति आचार्यं परिवर्ज्य चिरं दुर्जनोपसदनं दुष्प्रज्ञसेवनम् । एभ्योऽनूत्पन्नमह्रीक्यमगौरवता । अनपत्रपाद्भवति संकथ्यदूषणम् । प्रमादाद्भवति दुर्जनोपसदनम् । अतोऽश्राद्धो भूत्वा दौःशील्यं समादाय कुसीदो भवति । दुर्जनं सेवमानः [आर्य]शासनमश्रद्दधान आह- नास्ति दुष्कृतस्य विपाक इति । दुष्कृतमाचरन् विपाकं विन्दत इति शृण्वन्मात्रो वा कुक्कटश्वादिधर्मं समादायात्यन्तिकपापमेव काङ्क्षते । तद्धर्मं समादाय न किञ्चिद्धितमविन्दतेति कौसीद्यमुत्पादयति । कौसीद्यात्सज्जनेऽप्रीतो भवति यत्तत्त्वतो नास्ति सम्यक्चर्याविहारीति । सद्धर्मश्रवणं द्विषनाह सम्यक्चरितधर्मा मिथ्याधर्माः नास्ति ततः कश्चनोपकार इति । चित्तकषायात्परदोषप्रकटने प्रीत आह- परस्य धर्मचर्यातो मत्सदृशं नास्ति किञ्चिलब्धमिति । एवं क्लेशानामनिगृहीतवतश्चित्तमुद्धतं भवति । औद्धत्यादिन्द्रियाणामसमादधानस्य शीलं विपद्यते । शीलविपत्त्या स्मृतिर्मुषिता भवति । असम्प्रजन्ये विहरतश्चित्तं विक्षिप्यते । अयोनिशोमनस्कारश्च जायते । जातायोनिशोमनस्कारत्वात्दुर्मार्गे चरति । दुर्मार्गे चरन्नार्थं प्रतिलभते । अतश्चित्तं मुग्धमतिलीनं भवति । चित्तस्य मोहात्न त्रीणि संयोजनानि समुच्छेदयति । असमुच्छिन्नत्रिसंयोजनत्वान्न रागादिक्लेशान् प्रजहति । ततो व्याध्यादयः सर्वा विपत्तयश्च भवन्ति । एषां विरुद्धाः शुक्लधर्माः


शोकः समाधेरपक्षालः । तस्मिन् वर्षे मासे अयने समाधिममुकं नालभ इति चिन्तयतो योगिनः शोको जायते ।

प्रीत्यास्वादनेऽभिनिवेशोऽपि समाध्यपक्षालः । अनभिरतिश्च समाधेरपक्षालः । प्रतिरूपदेशकल्याणमित्रादिप्रत्ययान् लब्ध्वापि न चित्तमभिरमते ।

कामादीनि नीवरणानि समाधेरपक्षाला भवन्ति । संक्षिप्य यावच्चीवरपिण्डपातादयो धर्माः कुशलमूलापकर्षः अकुशलमूलप्रकर्षश्च सर्वाणि समाधेरपक्षालानि भवन्ति । इति बुद्ध्वा यत्नेन तान्यपनेतुं पर्येषेत ॥

समाध्यपक्षालवर्गः षडशीत्युत्तरशततमः ।


(
४७६)
१८७ शमथविपश्यनावर्गः

(पृ) भगवान् तत्र तत्र सूत्रे भिक्षूनामन्त्र्याह- [इह भिक्षुः] अरण्यगतो वायतनगतो वा वृक्षमूलगतो वा शून्यागारगतो वा मनसि कुर्यात्द्वौ धर्मौ यदुत शमथो विपश्यनाच इति । यदि सर्वे ध्यानसमध्यादिधर्मा मनसि कर्तव्याः । कस्मात्शमथविपश्यनामात्रमाह । (उ) शमथो नाम समाधिः । विपश्यना प्रज्ञा । सर्वे च कुशलधर्मा भावनाजाता इति द्वाविमौ परिगृहीतौ । विक्षिप्तचित्तगताः श्रुतचिन्तामयादिप्रज्ञा अप्यत्र सङ्गृहीताः । आभ्यां द्वाभ्यामेव मार्गधर्मं करोति । कस्मात् । शमथो हि संयोजना व्यावर्तयति । विपश्यना समुच्छेदयति ।

शमथस्तृणग्रहोपमः विपश्यना असिना तल्लवनोपमा । शमथो भूमिमार्जनोपमः । विपश्यना गोमयविकीर्णनोपमा । शमथो रजोमार्जनोपमः । विपश्यना जलेन क्षालनोपमा । शमथो जले निमज्जनोपमः । विपश्यना अग्नावुत्तापनोपमा । शमथो गण्डोपमः । विपश्यना शस्त्रचिकित्सोपमा । शमथः सिरोद्गमोपमः । विपश्यना रक्तपाटनोपमा । शमथश्चित्तदमनोपमः । विपश्यना अतिलीनचित्तव्युत्थानोपमा । शमथः सुवर्णस्य चुलुकीकरणोपमः । विपश्यना अधिधमनोपमा । शमथः सूत्रपातोपमः । विपश्यना भूमिसमीकरणोपमा । शमथः सन्दशिन्या सन्दंशोपमः । विपश्यना शस्त्रेण कृन्तनोपमा । शमथः कवचोपमः । विपश्यना भटानां शस्त्रादानोपमा । शमथः समीक्रियोपमाः । विपश्यना शङ्कुवेधोपमा । शमथो मेदःसेवनोपमः । विपश्यना औषधप्रदानोपमा । शमथः सुवर्णकुट्टनोपमः । विपश्यना भाजनकरणोपमा ।

लौकिकाः सत्त्वाः सर्वे सुखं दुःखं वा इति द्वयोरन्तयोः पतिताः । शमथः सुखं त्यजति । विपश्यना दुखं परिहरति । किञ्च सप्तसु विशुद्धिषु शीलविशुद्धिश्चित्तविशुद्धिश्च शमथः । अन्याः पञ्च विपश्यना । अष्टमहापुरुषवितर्केषु षड्वितर्काः शमथः । (
४७७) द्वौ विपश्यना । चतुर्षु स्मृत्युपस्थानेषु त्रीणि शमथः । चतुर्थं विपश्यना । चत्वारि ऋद्धिपादानि शमथः । चत्वारि सम्यक्प्रधानानि विपश्यना । पञ्चसु इन्द्रियेषु चत्वारीन्द्रियाणि शमथः । प्रज्ञेन्द्रियं विपश्यना । एवं बलमपि । सप्तसु बोध्यङ्गेषु त्रीणि बोध्यङ्गानि शमथः । त्रीणि बोध्यङ्गानि विपश्यना । स्मृतिस्तु उभयगा । अष्टसु मार्गाङ्गेषु त्रीण्यङ्गानि शीलम् । द्वे अङ्गे शमथः । त्रीण्यङ्गानि विपश्यना । शीलमपि शमथानुबन्धि । शमथो रागं समुच्छेदयति । विपश्यना अविद्यामपनयति । यथोक्तं सूत्रे- शमथो भावितश्चित्तं भावयति । चित्तं भावितं रागं प्रजहाति । विपश्यना भाविता प्रज्ञां भावयति । प्रज्ञा भाविता अविद्यां प्रजहाति इति । कामवियुक्तत्वात्चित्तं विमुच्यते । अविद्यावियुक्तत्वात्प्रज्ञा विमुच्यते । तदुभयविमुक्ति लाभिनो न पुनः किञ्चिदवशिष्यते । अतो द्वयमात्रमुक्तम् ।

(पृ) यदि शमथो विपश्यना चित्तं भावयति प्रज्ञां भावयति । चित्तप्रज्ञाभावित्वात्रागमविद्याञ्च प्रजहाति । कस्मान्नियम उच्यते । शमथश्चित्तं भावयन् रागं प्रजहाति । विपश्यना प्रज्ञां भावयन्ती अविद्यां प्रजहातीति । (उ) विक्षिप्तचित्तकस्य चित्तसन्तानानि रूपादिषु समुदाचरन्ति । सन्तन्यमानमिदं चित्तं शमथं लभते । तच्छमनादुच्यते शमथश्चित्तं भावयतीति । शमिताच्चित्ताज्जायते प्रज्ञा । अत उच्यते विपश्यना प्रज्ञां भावयतीति । उत्पन्नविपश्यनस्योर्ध्वं यत्किञ्चिद्भावितं सर्वं भाविता प्रज्ञेत्युच्यते । आद्या प्रज्ञा विपश्यना पश्चाप्रज्ञेत्युच्यते ।

यथोक्तं सूत्रे- शमथो भावितो रागं प्रजहातीति । इदं विध्नीभूतप्रहाणं भवति । केन तत्ज्ञायते । रूपादिषु बाह्यकामेषु रागो जायते । शमथौषधं लब्धवतो न पुनर्जायते । यथोक्तं सूत्रे- योगी निरामिषां प्रीतिं लभमानः सामिषां प्रीतिं जहाति इति । यदुक्तमविद्याप्रहाणमिति, तदात्यन्तिकप्रहाणम् । केन तत्ज्ञायते । अविद्याप्रहाणाद्धि रागादयः क्लेशाः प्रहीयन्ते निरुध्यन्ते नावशिष्यन्ते । सूत्रेऽप्युक्तम्- रागविरागात्चेतोविमुक्तिः । इदं विघ्नीभूतप्रहाणं भवति । अविद्याविरागात्प्रज्ञाविमुक्तिः । (
४७८) इदमात्यन्तिकप्रहाणम् । इति । अस्ति च द्विधा विमुक्तिः सामयिकविमुक्तिः अकोप्यविमुक्तिरिति । सामयिकविमुक्तिर्विघ्नीभूतप्रहाणम् । अकोप्यविमुक्तिरात्यन्तिकप्रहाणम् ।

(पृ) सामयिकी विमुक्तिः पञ्चविधानामर्हतामनास्रवा विमुक्तिः । अकोप्या विमुक्तिश्चाकोप्यधर्मणोऽर्हतोऽनास्रवा विमुक्तिः । कस्माद्विध्नीभूतप्रहाणमात्रमुच्यते । (उ) नेयमनास्रवा विमुक्तिः । कस्मात् । समयविमुक्तो हि यतधिकबलेन कञ्चित्कालं संयोजनानि विघ्नयति नात्यन्तं प्रजहाति । पश्चात्पुनः [संयोजनानि]प्रादुर्भवन्ति । अतो नानास्रवा[सा] भवति । विमुक्तिरियं सामयिकतृष्णाविमुक्तिः । क्षीणास्रवस्यार्हतो नास्ति किञ्चिदिष्यमाणम् । (पृ) तथा चेद्नार्यस्येष्यमाणं शीलम् । (उ) शैक्षाणामक्षीणास्रवत्वातात्ममतिः कदाचित्प्रादुर्भवति । अतः शीले जायत इष्टम् । नार्हतोऽत्यन्तप्रहीणात्ममतेः ।

(पृ) गोधिकोऽर्हन् षड्वारं सामयिकविमुक्तेः परिहिणः । सप्तमपरिहाणभयादसिनात्मानं जघान । यदि स आस्रवान् विनाशितवान्, नात्मानं हन्यात् । अतो ज्ञायते समयविमुक्तो नानास्रव इत्युच्यते । (उ) अयं स्पृष्टात्संयोजनप्रहाणात्समाधेः परिहीणः । अस्मात्समाधेः षट्कृत्व परिहीणः । सप्तमवारं स्पृष्ट्वा समाधिमिममात्मानं हन्तुमैच्छत् । तस्मिन् समये संकल्पितोऽर्हन्मार्गमस्पृशत् । अतो मारः शैक्षो विवृत्तकायस्कन्धं मृत इति आचतुर्दिगन्तं तद्विज्ञापनाय येन भगवान् तेनोपसंक्रम्य भगवन्तमेतदवोचत् ।

श्रावकस्ते [महावीर मरणं मरणाभिभूः ।]
अकांक्षते चेतयते [तन्निषेधद्युतेन्द्रिय] ।

(
४७९)
अथ खलु भगवान् [मार इति विदित्वा त]मवोचत् ।

[एवं हि धीराः कुर्वन्ति नाकांक्षन्ते [च] जीवितम् ।]
समूलां तृष्णामृद्गृह्य गोधिकः परिनिर्वृतः ॥ इति ।

(पृ) यः क्षीणरागः स विघ्नीभूतप्रहाणकः । सूत्र उक्तं- रागाच्चेतोविमुक्तिः । द्वेषमोहाभ्यां प्रज्ञाविमुक्तिरिति । किञ्चाह- नन्दिरागप्रहाणाच्चेतो विमुक्तिरिति । आह- कामास्रवाच्चित्तं विमुच्यत इति । एवं विघ्नीभूतविमुक्तिः स्यात्न पारमार्थिकविमुक्तिः । (उ) अत्राप्युक्तम्- अविद्या प्रहीयत इति । अतो ज्ञायत इयमात्यन्तिकविमुक्तिरिति । यदि मतं रागप्रहाणं कदाचिद्विध्नीभूतप्रहाणं, कदाचिदात्यन्तिकप्रहाणमिति । अनुत्पन्नतत्त्वज्ञानस्येदं विध्नीभूतप्रहाणम् । तत्त्वज्ञानानुसारिण अत्यन्तिकप्रहाणम् । नास्ति तु कश्चित्[केवलं] शमथं स्पृष्ट्वा रागमात्यन्तिकं प्रजहातीति । तथा चेत्तीर्थिका अपि रागमात्यन्तिकं प्रजह्युः । वस्तुतस्तु न तथा । अतो ज्ञायत इदं विघ्नीभूतप्रहाणमात्रमिति ।

(पृ) सूत्र उक्तम्- शमथेन चित्तं भावयति । विपश्यनामुपादाय विमुक्तिं स्पृशति । विपश्यनया चित्तं भावयति । शमथमुपादाय विमुक्तिं स्पृशतीति । तत्कथम् । (उ) योगीयदि समाधिं प्रतीत्य क्षयमालम्ब्य प्रज्ञामुत्पादयति । तदोच्यते शमथेन चित्तं भावयति । विपश्यनामुपादाय विमुक्तिं स्पृशतीति । यदि विक्षिप्तचित्तेन स्कन्धधात्वायतनादीनि विकल्पयति । तत्प्रतीत्य क्षयमालम्ब्य शमथं स्पृशति । तदोच्यते विपश्यनया चित्तं भावयति । शमथमुपादाय विमुक्तिं स्पृशतीति । यदि स्मृत्युपस्थानादीनि निर्वेधभागीयानि स्पृष्ट्वा चित्तं परिगृह्णाति । तदा शभथं विपश्यनां युगनद्धं भावयतीति । सर्वे च योगिनो द्वाविमौ धर्मौ निश्रित्य चित्तं निरुध्य विमुक्तिं स्पृशन्ति ॥

शमथविपश्यनावर्गः सप्ताशीत्युत्तरशततमः ।


(
४८०)
१८८ समाधिभावनावर्गः

(पृ) भवानवोचत्- समाधिं भावयेदिति । समाधिचित्तमिदं प्रतिणक्षमुत्पन्नविनाशि । तत्कथं भावयितव्यं भवति । (उ) प्रत्यक्षं पश्यामः खलु कायिकं कर्म प्रतिक्षणविनाश्यपि भावनावशाद्विभिन्नकौशलं भवति । भावनावशात्चिरं पुनः पुनः प्रवर्त्यमानं सत्सुकरं भवति । तथा वाचिकं कर्मापि । अनुविहितावृत्ति आवृत्त्या च प्रगुणीकृतं दृढीभूतञ्च सुस्मरणं भवति यथाध्ययनादि । मानसं कर्म च क्षणिकमपि भावयितव्यमिति ज्ञातव्यम् । यथाग्निर्जन्यं विकारयति । आपः शिला भेदयन्ति । वायुः पदार्थान् विधमति । एवं क्षणिकधर्माणां सर्वेषां संहतानां बलमस्ति । क्लेशा यथावासनमनुवर्धन्ते । यथा कश्चित्पुनः पुनर्मैथुनचित्तं भावयन् बहून् कामानभिनिर्वर्तयति । तथा द्वेषमोहावपि । यथोक्तं सूत्रे- यो यद्वस्तुचित्तं मनसि करोति स तत्र प्रतिपन्नः । तद्यथा सदा कामवितर्कचित्तमनुसरन् कामाय प्रतिपद्यते । एवमन्यौ द्वौ वितर्कावपि । इति । अतो ज्ञायते चित्तमिदं क्षणिकमपि भावयितव्यं भवतीति ।

भावना नामोपचयः । दृश्यन्ते दृष्टे सर्वे धर्माः सोपचयाः । यथोक्तंसूत्रे- योगी खलु अयोनिशो मनसिकारात्कामादीनास्रवाननुत्पन्नानुत्पादयति । उत्पन्नान् विवर्धयति । यदवरान्मध्यमुत्पादयति । मध्यादुत्तममुत्पादयति । तद्यथा बीजादङ्कुरमङ्कुरात्काण्डं काण्डान्नाळं नाळात्पत्रं पत्रात्पुष्पं पुष्पात्फलमिति प्रत्यक्षतो हेतुतोऽनुपूर्वं विवर्धते । समाधिसम्प्रजन्यादिधर्मा अप्येवमेव स्युः । प्रत्यक्षतो दृष्टं खलु वासिततिलस्य गन्धः संङ्ग्क्रात्या वर्धत इति । अयं गन्धस्तिलञ्च प्रतिक्षणमविद्यमानं, तथापि तद्वासनाबलमस्ति । अतो ज्ञायते क्षणिका धर्मा अपि भावयितव्या इति ।

(पृ) तिलं वर्तमानधर्मः । वासितो गन्ध आगन्तुकः । अविद्यमानं चित्तं क्षणिकज्ञानेनागत्य भाव्यते । कथं दृष्टान्तो भवेत् । (उ) नास्ति कश्चिद्विद्यमानधर्मः सर्वे च धर्माः क्षणिका इति पूर्वमेव साधितम् । अतो नास्ति दूषणम । यदि धर्मा अक्षणिकाः, न भावयितव्याः । स्वरूपत एव सदास्थितस्य भावनया क उपकारः । यदि धर्मः प्रतिक्षणविनाशि, (
४८१) [तदा] अवरान्मध्यं मध्यादुत्तममिति धर्मस्य भावना भवेत् । (पृ) कुसुमानि तिलं प्राप्य वासयन्ति । ज्ञानन्तु न चित्तमाप्नोति । अतो नास्ति भावना । (उ) पूर्वकर्मदृष्टान्ते प्रतिपादितमिदम् । यदुत्तरभाविकर्म न पूर्वभाविकर्म प्राप्नोति । पुर्ववचनं नोत्तरभाविवचनमपेक्षते । तथापि कायिकवाचिककर्मणोरस्ति च भावनालक्षणम् । अतोऽप्राप्तं न भाव्यत इति तव वचनं न दूषणाय भवति । प्रत्यक्षतो दृश्यते च हेतुफलयोरयौगपद्येऽपि भवत्येव हेतोः फलं भवतीति । एवं चित्तधर्मस्य क्षणिकत्वेऽपि भावनास्त्येव । यथा च बीजं सलिलसिक्तमङ्कुरादीनप्राप्यापि अङ्कुरादीनङ्कुरयति । एवं प्रज्ञा पूर्वचितं भावयति तदूर्ध्वचित्तमुपचितं भवति ।

(पृ) यदि क्षणिकात्तिलात्तिलान्तरं जायते । किमिदं तिलं वासितं जायते, अवासितं वा । यद्यवासितं जायते, नैव भवेद्वासनावत् । यदि वासितं जायते । पुनः क उपयोगश्चिरवासन [क्रिय]या । (उ) वासनाहेतुत्वात् । यथा बिजात्सलिलसिक्तादङ्कुरोऽङ्कुरयते । एवं पूर्वकुसुमयोगं प्रतीत्य तिलान्तरं जायते । इदं तु वासितं जायते । भवानवोचत्- क उपयोगश्चिरकालवासनयेति । यथा भवतां सूत्र उक्तं- अग्निसंयोगादणुषु कृष्णवर्णे निरुद्धे रक्तवर्णं जायत इति । यद्यादावग्निसंयुक्तधर्मस्य कृष्णवर्णं निरुध्यत इति । न स्यात्पुनः कृष्णवर्णस्योत्पत्तिः । यद्यादावग्निसंयुक्तधर्मस्य रक्तवर्णमुत्पद्यत इति पुनः पश्चादग्निसंयुक्तधर्मः किमर्थम् । यद्यादावग्निसंयोगकाले कृष्णवर्णमुत्पद्यते । रक्तवर्णं नैवोत्पद्येत । यदि द्वितीयक्षणे रक्तवर्णं जायते । पुनरश्चिरकालाग्निसंयोगः किमर्थम् । यदि भवतामभिसन्धिः रक्तवर्णं क्रमशो जायत इति । चित्तमप्येवमिति को दोषः । तथा विपरिणामादिरपि ।

सर्वे धर्मा सहेतुसप्रत्यया अपि क्रमशो जायन्ते । यथा गर्भाधानादिक्रमेण शरीरमभिनिर्वर्त्यते । एवं प्रज्ञासमाध्यादयो धर्माः क्षणिका अपि अवरमध्योत्तमधर्मक्रमेण जायन्ते । भावनाधर्मः सूक्ष्मोऽपि चित्तसन्ततिमन्यथयति । यथा पक्षच्छदस्योष्मणि मृदुन्यपि अण्डं क्रमशो विक्रियते । पाणितलमांसमर्दनात्वाशीजटा सूक्ष्मशः क्षीयते । एवं चित्तमपि । समाहितप्रज्ञा सूक्ष्मेत्यतः क्रमशो भाव्यते । धर्मं भावयन् प्राप्तिकाले तावत्जानाति ।

यथोक्तं गाथायाम्-

(
४८२)
आचार्यात्सर्वमादत्ते, सर्व[तत्] मि(मै?)त्रहेतुकम् ।
आत्मचेतनया सर्व, सर्व पाके कालमपेक्षते ॥ इति ।

कश्चिदजस्रमधीयानोऽपि न प्रत्येति परिपव्ककालिक इव । यथा बहुभिः पुष्पैरेकस्मिन् समये तिलं वासयति न यथा पुष्पाल्पानि क्रमशश्चिरं वासयन्ति । मेदसा परिपुष्टिः जले [नौका] निमज्जनं भित्तिनिर्माणमित्यादिरपि तथा । प्रत्यक्षं खलु [नः] बीजाङ्कुरादीनामुपचयोऽतिसूक्ष्मः, नैव द्रष्टुं शक्यते । तेषां दैनन्दिन उपचयः क्लेशानां गणना । बालकादीनां शरीरं स्तन्यपानादिना परिपच्यत इतीदमपि तथा स्यात् । अतो ज्ञायते धर्मभावना सूक्ष्मा प्रणीता दुरवबोधा चेति ।

(पृ) कदाचिद्धर्मो युगपदुपचीयते । कश्चित्पूर्वं रूपमदृष्ट्वापि तद्दर्शनमात्रेण तत्राभिनिविशते । कश्चिदल्पकालेऽपि बहु प्रतिसंवेदी भवति । कस्मादुच्यते क्रमिकैव भावनेति । (उ) सर्वस्यातीतभावित्वात् । अतो ज्ञायत उपचिता भावना क्रमिकेति । इदं प्रतिपादितमेव । न चित्तोत्पादमात्रेण यत्किञ्चित्साधयति । यथोक्तं सूत्रे- यः कुशलधर्मेषु न भावनायोगमनुयुक्तः कुशलधर्माननुपादाय केवलं प्रणिदधाति आस्रवेभ्यश्चित्तविमोकम् । नैवास्य चिन्तितं प्रणिधानाद्भवति । कुशलधर्मेषु भावनायोगाननुयुक्तत्वातिति ।

योगी यदि कुशलधर्मेषु भावनायोगमनुयुक्तो भवति । अकृतप्रणिधानस्यापि [तस्य] आस्रवेभ्यश्चित्तं विमुच्यते । हेतोर्हि फलं जायते न प्रणिधानात् । तद्यथा पक्षिणामण्डसंस्पर्श आवश्यकः । न प्रणिधानात्जन्तुरण्डान्निर्गच्छति । न च प्रणिधानात्प्रदीपप्रकाशः परिशुद्धो भवति । किन्तु परिशुद्धतैलं परिशुद्धवर्तिकाञ्चोभयमपेक्ष्य [अन्य]वस्तुसंस्पर्शचाञ्चल्यराहित्ये च तत्प्रकाशः परिशुद्धो भवति । किञ्च न प्रणिधानमात्रेण धान्यं लभ्यते । किन्तु अवश्यं सूक्षेत्रसद्बीजर्तुवृत्तिसमीक्रियाकृषिकर्मणां साकल्ये तत्प्रतिलाभो भवति । नापि च प्रणिधानमात्रात्देहो रूपं बलञ्च लभते । अवश्यं वस्त्रौषधाहारपोषणादिप्रत्ययेन तु परिपूर्णो भवति । एवं न प्रणिधानमात्रादास्रवाणां क्षयो भवति । अवश्यं तत्वज्ञानमपेक्ष्य विमुच्यते । को ज्ञानी हेतोः फलं जायत इति प्रजानन् तद्धेतुमुपेक्ष्य अन्यस्मात्फलमाकांक्षेत ।

(
४८३)
धर्म भावयन् दृष्ट एव फलविपाकं पश्यति । यथोक्तं सूत्रे- तिष्ठन्तु सप्तदिनानि मया शासिताः श्रावका मुहूर्तं तावत्कुशलधर्मं भावयन्तोऽप्रमाणवर्षेषु नित्यं सुखां वेदनां स्पृशन्ति इति । भिक्षुण्यो भदन्तमानन्दमवोचन्- वयं स्मृत्युपस्थानेषु सुप्रतिष्ठितचित्ता विहरन्त्यः पूर्वेणापरं विशेषं सम्प्रजानीम इति । सूत्रे च भगवान् भिक्षूनामन्त्र्याह- अशठस्य मामुपसङ्क्रमतो यन्मया प्रातरुपदिष्टो धर्मः तदर्थ सायं विन्दते । यत्सायमुपदिष्टो धर्मः प्रातस्तद्धितं विन्दत इति । यच्चार्हन्मार्गं स्पृशति न तत्परपुद्गलः प्रयच्छति । नानन्यपुद्गलः । केवलं सम्यग्घेतुभावनातस्तद्धितमाप्नोति । अनुत्तरं बुद्धमार्ग एव ननु कुशलधर्मस्योपचितभावनया स्पृशति । यथोक्तं सूत्रे- भगवान् भिक्षूनामन्त्र्याह- द्वौ धर्मौ निश्रित्याहमनुत्तरं मार्गं समापन्नः यत्शुभाभिरतावनिर्वेदो मार्गभावनायामक्लान्तिश्च इति । भगवतः कुशलधर्माणां नास्ति सीमा ।

बोधिसत्त्वाः समाधिमस्पृशन्तोऽपि न कुसीदा भवन्ति । कस्मात् । कुशलेऽकृते न किञ्चिलभ्यते । कुशले कृतेऽपि नाकारे परिवृत्तिः । कुशलमकुर्वतो नैव क्षैमं भवति । इदं चिन्तयित्वा वीर्यमारभमाणः कुशलधर्मं भावयेत् । वीर्यमारभमाणस्य लाभो वा भवति हानिर्वा । अकृतवीर्यस्य नैवास्ति प्रत्याशा । अतो भावनामारभेत मा परिखेदो भूदिति । प्राज्ञः पर्यवसानेऽवश्यं मुच्यते । भावनाविनिर्मुक्तस्य न पुनरस्त्युपायः । अतः प्राज्ञेन भावनारब्धव्या, मा परिखेदो जनयितव्यः । योगी सुचरितचर्याया अस्ति फलविपाक इत्यनुस्मृत्य अलभमानोऽपि न विषादं करोति । किञ्च योगी मनसि कुर्यात्- मया भावनायाः फलविपाकोऽनुप्राप्त एव । पूर्वागतैः सत्त्वैः सर्वेषां ध्यानसमाधीनां [फलविपाकस्य] अनुप्राप्तत्वात् । ममेदानीं सम्यग्भावनापि फलविपाकमनुप्राप्स्यतीति । अतो न परिखिद्यात् ।

सुचरितशालिनि तथागतः प्रत्यक्षं करोति । अहमिदानीं सम्यगाचरामीत्यतो ज्ञानमवश्यमनुप्राप्स्यते । अहं मार्गसमापत्तिप्रत्ययसम्पन्नः यत्मनुष्यदेहप्राप्तिरविकलेन्द्रियता पुण्यपापविज्ञातृता विमुक्तावपि चाधिमुक्तता अभ्यागतसम्बुद्धिता इत्येतैः प्रत्ययैः समन्वितः कथं न भावनाफलविपाकमनुप्राप्स्ये । वीर्यसमाचरणममोघमेव । अतो न परिखिद्यते । (
४८४) क्लेशानां प्रहाणमतिसूक्ष्मं दूरवबोधं वाशीजटायां क्रमशः क्षयवत् । मम क्लेशानामपि भवेत्प्रहाणम् । सौक्ष्म्यात्परं न सम्बुध्यते । अतो ज्ञायते कुशलं भावयितुं वीर्यमुत्तमं भवतीति । अल्पीयसी प्रज्ञापि क्लेशान् विनाशयति यथा अल्पीयान् प्रकाशोऽन्धकारमपनयति । एवमल्पीयसीं प्रज्ञां लभमानः कृतकृत्यो भवति । अतो न परिखिद्यते । दीर्घकायेऽपि दुस्साधना यत्समाधिसमापत्तिः । यदि समाधिं समापद्यते । तदान्ये गुणा अचिरेण भवन्ति । अतः क्षिप्रमलभमानोऽपि न परिखिद्यते ।

योगी समनुचिन्तयेत्समाधिसमापत्तिरतिकृच्छ्रा यथा पुरा बोधिसत्त्वः पुण्येन प्रज्ञया च घनिष्ठः षट्वर्षाणि व्यवस्यनन्तेऽनुप्राप्तः । अन्येषां भिक्षूणां समाधिसमापत्तिरपि कृच्छ्रा, किं पुनर्मम पृथग्जनस्य मन्देन्द्रियस्य वेगेनानुप्राप्तिरिति । एवमनुचिन्त्य न परिखिद्येत । योगिभिरवश्यं कर्तव्यं यत्समाधिभावना, नास्ति पुनः कर्मान्तरम् । अतोऽननुप्राप्तस्यानुप्राप्तये भावयितव्यम् । भावयिता समाधिमसमापन्नोऽपि कायप्रविवेकलाभी भवति । प्रविविक्तकायस्य समाधिः सुलभो भवति । समाधिभावनामारभमाणो भगवदनुग्रहस्यानृणो भवति । प्रविवेकचारित्वात्योगावचर इत्याख्यामपि विन्दते । दीर्घकालं कुशलं भावयतः कुशलस्वभावः सिध्यति । यावत्कायप्रवृत्ति कुशलमेव सदानुपतति । अतः सुजनैः सङ्गच्छेत । इदं महतेऽर्थाय भवति । सदा कुशलस्य भावयिता दृष्ट एव कायेन आस्रवाणां क्षयं स्पृशेत् । यदि वा मरणकाले स्पृशेत्यदि वा आयुषोऽन्ते सुस्थान उपपद्य तदन्तरा स्पृशेत् । इति यथाधर्मश्रवणानुशंस उक्तम् ।

योगी अध्यात्मं चित्तं वीरलक्षणं पुरस्कृत्यैवं चिन्तयति अहं क्लेशावरणमपर्यादाय न कदाचिद्वृथा प्रतिनिवर्त इति । किञ्च योगी मानचित्तमाश्रित्यैवं चिन्तयति- श्रद्धादीनि कुशलेन्द्रियाणि सन्तीति अन्ये समाधिं प्रतिपद्यन्ते । ममापीदानीं सन्ति । किमर्थं न समापद्य इति । यथा पुरा बोधिसत्त्वः अराडादिभ्यो मुनिभ्यो धर्मं श्रुत्वैवमचिन्तयतिमे श्रद्धादिकुशलेन्द्रियत्वात्धर्ममनुप्राप्नुवन् । समापीदानीं सन्ति कस्मान्नानुप्राप्स्यामीति । योगी प्रजानाति- क्लेशा दुर्बलाः प्रज्ञा बलवती । तत्प्रहाणं किमिति दुष्करमिति । यथोक्तं- भिक्षुः षड्भिर्धर्मैः समन्वागतो मुखमारुतेन हिमवन्तं [पर्वतराजमपि] प्रदलयेत् । कः पुनर्वादो अविद्यामिति ।

(
४८५)
किञ्च योगी चिन्तयति- अहं पूर्वाध्वनि न समाधिं भावितवान् । अत इदानीं नानुप्राप्नोमि । इदानीं न प्रयते पश्चात्पुनर्नानुप्राप्स्यामीति । अतो भावनामारभते । सदा समाधिभावित्वात्चित्तमेकत्र प्रतितिष्ठति । यथा घटस्य प्रवर्तनमनुपरतमवश्यमेकत्र प्रतितिष्ठति । अपि च योगी चिन्तयति- यद्यहं सदा वीर्यमारभे यदि चाननुप्राप्तमनुप्राप्नोमि । तदोर्ध्वंमवश्यं न विप्रतिसरिष्यामीति । अतश्चित्तैकाग्र्येण समाधीन् भावयितुमारभेत ॥

समाधिभावनावर्गोऽष्ठाशीत्युत्तरशततमः ।


१८९ मार्गसत्यस्कन्धे ज्ञानाधिकारे ज्ञानलक्षणवर्गः

तत्त्वस्य प्रज्ञा ज्ञानमित्याख्यायते । तत्त्वं यत्शून्यानात्मता । तस्य प्रज्ञा तत्त्वज्ञानं भवति । प्रज्ञाप्तौ प्रज्ञेति संज्ञा न तु ज्ञानम् । कस्मात् । उक्तं हि सूत्रे- यथासिः परिकृन्तति । आर्यश्रावकाः प्रज्ञासिना संयोजनानुबद्धाननुशयपर्यवनद्धान् सर्वान् क्लेशान् समुच्छेदयति । नान्यधर्मेणेति वदन्ति । नातत्त्व[ज्ञाने] न क्लेशान् समुच्छेदयति इति । अतो ज्ञायते प्रज्ञैव तत्त्व[ज्ञान]मिति ।

(पृ) यत्भवानाह- प्रज्ञैव क्लेशान् समुच्छेदयतीति । तदयुक्तम् । कस्मात् । संज्ञयापि हि क्लेशान् समुच्छेदयति । यथोक्तं सूत्र- अनित्यसंज्ञा भाविता [बहुलीकृता] सर्वं कामरागं पर्यादाति । [सर्वं] रूपरागं [सर्व]भवरागं [सर्व]मस्मिमानं [सर्वा]मविद्याञ्च पर्यादाति । इति । (उ) मैवम् । प्रज्ञया यः क्लेशानां समुच्छेदः [स एव] संज्ञयेत्युच्यते । (
४८६) अस्ति भगवतो द्विविधं वचनं- परमार्थवचनं संज्ञावचनमिति । यथोक्तं सूत्रे- मैत्री व्यापादं समुच्छेदयतीति । अयं मैत्रीधर्मः परमार्थतो न संयोजनं समुच्छेदयति । ज्ञानमात्रं समुच्छेदयति । यथोक्तं- ज्ञानासिः सर्वान् क्लेशान् समुच्छेदयति इति । अतो ज्ञायते मैत्री संयोजनं समुच्छेदयतीति संज्ञावचनम् । किञ्चोक्तं प्रज्ञार्थसूत्रे- विमुक्तिं प्रजानातीति प्रज्ञा । किं वस्तु विमुक्तिरिति प्रजानाति । यतनित्यं रूपमनित्यमिति यथाभूतं प्रजानाति । अनित्या वेदना, संज्ञा, संस्कारा, विज्ञानमनित्यमिति यथाभूतं प्रजानाति । इयं प्रज्ञैवेति । किञ्चाह- आर्यश्रावकाः समाहिता यथाभूतं प्रजानन्तीति । अतो ज्ञायते परमार्थ एव प्रज्ञेति । प्रज्ञादृष्टान्ते चोक्तम्- ज्ञानमसिः प्रज्ञा इषुरित्यादि । दृष्टान्तोऽयं सर्वक्लेशप्रहाणमुपदर्शयति । तत्त्वज्ञानमेव क्लेशान् समुच्छेदयतीत्यतः प्रज्ञैव तत्त्व[ज्ञान]मिति ज्ञायते । उक्तञ्च गाथायाम्-

योगी पश्यति वै लोके सर्वे देवाश्च मानुषाः ।
तत्त्वज्ञानपरिभ्रष्टा नामरूपेऽभिनिविष्टाः ॥ इति ।

लौकिका भूयसा तुच्छकं नित्यं सुखं सुभमित्यादि दृष्ट्वा तत्त्वज्ञानाद्भष्टा भवन्ति । यः परमार्थतः शून्यमनात्म इत्यादि पश्यति, स तत्त्वज्ञानी भवति । अतो ज्ञायते प्रज्ञैव तत्त्व[ज्ञान]मिति ।

आह च भगवान् सूत्रे- यस्य धनं विनष्ठं, तस्याल्पीयान् लाभो विनष्टः । यस्य प्रज्ञा विनष्टा, तस्य महीयान् लाभो विनष्ट इति । किञ्चाह- लाभेषु धनमल्पीयान् लाभः । प्रज्ञा तूत्तमो लाभ इति । आहच- प्रद्योतानां चन्द्रसूर्यप्रद्योत अल्पीयान् प्रज्ञाप्रद्योतोऽग्र इति । यदि प्रज्ञा न तत्त्व[ज्ञानं], कस्मादेवं वदेत् । उक्तञ्च सूत्रे- प्रज्ञेन्द्रियमार्यसत्यसङ्गृहीतमिति । आह च- दुःखसमुदयज्ञानादिः तत्त्व[ज्ञान]मिति प्रजानीयात् । परमार्थसत्यालम्बनेयं प्रज्ञा इति । आह च- [बोधिपक्षिक]धर्मेषु प्रज्ञा अग्रा इति । (
४८७) किञ्चाह- अनुत्तरा सम्यक्सम्बोधिः प्रज्ञेन्द्रियमित्यभिधीयते इति । अतः सा तत्त्वमिति । भगवतो दश बलानि ज्ञानमयानि । अतो ज्ञायते प्रज्ञा वस्तुतः परमार्थालम्बना भवतीति । (पृ) तथा सति प्रज्ञा अलौकिकी भवेत् । (उ) वस्तुतोऽलौकिकी प्रज्ञा । केनेदं ज्ञायते । लौकिकं चित्तं प्रज्ञप्तिमवलम्बते । लोकोत्तरं चित्तं नैरात्म्यशून्यतामवलम्बते । कस्मात् । प्रज्ञप्तिर्हि लोक एव । प्रज्ञप्तेरतिक्रान्तं लोकोत्तरम् ।

(पृ) भवदुक्तं न युज्यते । कस्मात् । उक्तं हि सूत्रे- किं विजानाति विज्ञानम् । यदुत रूपशब्दगन्धरसस्पर्शान् विजानाति । यथा स्कन्धधात्वायतनादीनि विज्ञानेन विजानाति । इदं विज्ञानं लोकोत्तरं भवेत् । इति । अतो लौकिकं चित्तं प्रज्ञप्तिमात्रमालम्बते न तत्त्वमिति भवद्वचनमयुक्तम् । मनोविज्ञानमपि तत्त्वालम्बनम् । वेदनासंज्ञासंस्काराद्यालम्बित्वात् । किञ्चाह भगवान्- द्वे सम्यक्दृष्टी लौकिकी लोकोत्तरेति । पुण्यपापाद्यस्तित्व [सम्यक्दृष्टि]लौकिकी यदार्यश्रावकाणां दुःखसमुदयनिरोधमार्गानालम्ब्य अनास्रवस्मृत्या सम्प्रयुक्ता प्रज्ञा लोकोत्तरा । उक्तञ्च गाथायाम्-

लौकिकोत्तमदृष्टीको यातायातोऽपि संसृतौ ।
अध्वनां शतसाहस्रं न यावद्दुर्गतौ गतः ॥ इति ।

उक्तञ्च सूत्रे- मिथ्याचारिणः सुस्थाने जन्म भवति । अस्त्य पापकर्मणोऽनभिनिर्वृत्तौ कुशलप्रत्ययः पूर्वं विपच्यते । कदाचिन्मरणकाले समुपस्थिते सम्यक्दृष्टिसम्प्रयुक्तं कुशलचित्तमभिमुखीभवति । अतः सुस्थाने जायते । इति । दशसु कुशल[कर्म]पथेष्वपि सम्यग्दृष्टिरुक्ता । कथं भवानाह लोकोत्तरं ज्ञानमिति । आह च भगवान्- त्रिविधा प्रज्ञा श्रुतमयी प्रज्ञा, चिन्तामयी प्रज्ञा, भावनामयी प्रज्ञा । श्रुतमयी प्रज्ञा चिन्तामयी प्रज्ञा लौकिकी । भावनामयी उभयविधा इति । किञ्च भगवान् [आनापान]स्मृतिं जनयामास । राहुलो भिक्षुरपरिनिष्पन्नां विमुक्तिप्रज्ञामनुप्राप । आह च पञ्चधर्मा अपरिपव्कं विमुक्तिचित्तं विपाचयन्ति इति । एषा सर्वा लौकिकी प्रज्ञैव । किञ्चोक्तं सूत्रे- केचिदभिनिष्क्रमणकुशलाः, न विपश्यनाकुशलाः । केचिद्विपश्यनाकुशलाः न सन्तरणकुशला इति । लौकिक ज्ञानलाभितया अभिनिष्क्रमणकुशल इत्युच्यते । चतुस्सत्यादर्शितया न विपश्यनाकुशलः । (
४८८) चतुस्सत्यानि पश्यन्नपि आस्रवक्षयालाभितया न सन्तरणकुशलः । भगवान् स्वयमाह- धर्मज्ञानमन्वयज्ञान परचित्तज्ञानञ्च लौकिकं ज्ञानमिति । किञ्चाह- पूर्वनिवासज्ञानं च्युत्युपपत्तिज्ञानं सास्रवमिति । अपि चाह- धर्माणां स्थितिज्ञानं निर्वाणज्ञानं भवति । इत्यादिसूत्रेषूक्तत्वात्ज्ञातव्यमस्ति सास्रवं ज्ञानमिति ।

अत्र प्रतिब्रूमः । यद्यस्ति सास्रवा प्रज्ञा । इदानीं वक्तव्यं सास्रवानास्रवयोः प्रविभक्तं लक्षणम् । (पृ) यो धर्मो भवे पातकः स सास्रवः । तदन्योऽनास्रवः । (उ) को धर्मो भवे पातकः । को वा न भवे पातकः । इदं प्रतिवक्तव्यम् । अप्रतिब्रूवाणस्य नास्ति सास्रवानास्रवयोर्लक्षणम् । यद्भवतोक्तम्- अस्ति लौकिकं चित्तमप्रज्ञप्त्यवलम्बनं यद्विषयादीनां विज्ञानमिति । तदयुक्तम् । कस्मात् । आह खलु भगवान्- पृथग्जनाः सततं प्रज्ञप्तिमनुधावन्तीति । अस्यार्थः । सर्वपृथग्जनचित्तं प्रज्ञप्तिं न पर्यादातीत्यतः सदा अस्मितालक्षणमनुधावति । नैव ततो विसंयुज्यते । रूपं पश्यतोऽपि न घटादिलक्षणाद्विसंयुज्यते इति । अतः पृथग्जन चित्तं न तत्त्वार्थमवलम्बते । वेदनासंज्ञादीन् धर्मानवलम्बमानोऽपि अहं ममेति पश्यति । अतो ज्ञायते सर्वं लौकिकं चित्तं प्रज्ञप्तिमवलम्बत इति ।

यदुक्तं भवता- लौकिकी प्रज्ञा यदुत द्विधा सम्यग्दृष्टिरित्यादि इति । तत्रेदं प्रतिवक्तव्यम्- अस्ति चित्तद्वैविध्यं मोहचित्तं ज्ञानचित्तमिति । प्रज्ञप्तिधर्मावलम्बनं चित्तं मोहचित्तम् । यत्शून्या नात्मरूपधर्ममात्रावलम्बनं चित्तं ज्ञानचित्तम् । यथोक्तमविद्याविभङ्गसूत्रे- अविद्या कतमा । यत्पूर्वान्तेऽज्ञानमपरान्तेऽज्ञानं पूर्वान्तापरान्ताज्ञानं कर्मण्यज्ञानं कर्मविपाकेऽज्ञानं पूर्वापरकर्मविपाकाज्ञानमित्यादि तत्र तत्र यथाभूतस्याज्ञानमदर्शनमनभिसमयः तमः संमोहः [अविद्या]न्धकारः इयमुच्यतेऽविद्या इति । यथाभूतस्या ज्ञानमिति यत्शून्यानात्मा ज्ञानम् । इदं पृथग्जनचित्तं सदा प्रज्ञप्तिगतं सत्प्रज्ञप्तिमवलम्बते । अतोऽविद्येत्याख्यायते । शून्यालम्बनं ज्ञानम् । इदानीं यदि सर्वं लौकिकं ज्ञानं प्रज्ञप्तिमवलम्बते । प्रज्ञप्त्यालम्बनं चित्तमविद्या भवति । कथमुच्यते अस्ति लौकिकी प्रज्ञा इति ।

(पृ) भवतोक्तवत्प्रज्ञप्त्यालम्बनं प्रज्ञालक्षणमविद्या । इदानीमर्हतोऽविद्या भवेत् । घटाद्यालम्बनचित्तस्य सत्त्वात् । (उ) अर्हतो नास्ति घटाद्यालम्बनं चित्तम् । कस्मात् । (
४८९) प्रथमाभि सम्बोधिकाल एव सर्वप्रज्ञप्तिलक्षणानां विध्वस्तत्वात् । क्रियार्थार्य केवलमभिदधाति । न तत्र मानदृष्टावभिनिविशते । सन्ति त्रयो वादाः- (१) दृष्टिजः, (२) मानजः, (३) क्रियार्थज इति । त्रिभ्यः क्रियार्थो भवति । पृथग्जना यद्वदन्ति घट इति पुद्गल इति । अयं वादो दृष्टिजः । शैक्षा आत्मदृष्टिविहीना अपि सम्यक्स्मृतिप्रमोषत्पञ्चसु स्कन्धेषु अस्मिमानलक्षणेन वदन्ति- अयं पुद्गलः अयं घट इति । यथा क्षेमकसूत्र उक्तम् । क्रियार्थज इति यदर्हतः । यथा महाकाश्यपः सङ्घाटिं दृष्ट्वा आह- इयं ममेति [यत्] दिव्यर्द्धौ विचिकित्सां जनयति । भगवान् तद्विवृण्वन्नाह- अयमत्यन्तसमुद्धतमानेन्द्रियः प्रदग्धहेतुप्रत्ययः कथं साभिमानः स्यात् । प्रज्ञप्त्या परं [तथा] वदतीति । अतो ज्ञायते अस्त्यर्हतो घटादिचित्तमिति ।

(पृ) यद्यलौकिकी प्रज्ञा । द्वे सम्यग्दृष्टी इत्यादी सूत्रं कथं नेयम् । (उ) इदं सर्वं संज्ञाज्ञानमिति नाम्नोच्यते । भगवान् धर्माणां तत्त्वलक्षणप्रतिसंवेदी विनेयसत्त्वाननुसृत्य विविधं नाम स्थापयति । यथा प्रज्ञामेव वेदनादिनाम्नोपदिशति । यदुत वेदकः सर्वधर्मेभ्यो विमुच्यत इति । अपि चाह अनित्यादिसंज्ञा भाविता सर्वान् क्लेशान् परिभेदयतीति । आह च- चतुर्थमकृष्णमशुक्लं कर्म सर्वकर्माणि शैक्षचेतनाख्यानि क्षपयतीति । किञ्चाह- मनसा सर्वानभिविवेशान् प्रजहातीति । आह च-

श्रद्धया तरति ओघमप्रमादेन चार्णवम् ।
वीर्येण दुःखमत्येति प्रज्ञया परिशुध्यति ॥ इति ।

अपि चाह- चक्षू रूपदर्शनायेच्छति इति । चक्षुषि वस्तुतोऽसत्यामपीच्छायां चित्तमेव दर्शनायेच्छत्चक्षुर्नाम्नोच्यते ।

(
४९०)
(पृ) यदि लौकिकं ज्ञानं संज्ञा । कस्मात्ज्ञानं भवति । यदि हेतुप्रत्ययान् विनोपदिष्टं ज्ञानम् । तदा सर्वाः संज्ञा ज्ञानं भवेत्युः । वक्तव्या च द्विविधा संज्ञा लोकं प्रतीत्य सत्यं, परमार्थं प्रतीत्य सत्यमिति । (उ) मैवम् । संज्ञायाः सन्ति नानाविभागाः । काचित्मोहकाष्ठात्मिका संज्ञा यावत्लौकिककुशलाकुशलानि न विजानाति । काचिदवरमोहात्मिका संज्ञा कुशलाकुशलानि विवेचयति । काचिदल्पमोहात्मिका संज्ञा अस्थिसंज्ञाद्यालम्बते । प्रज्ञप्ति मविहाय न स्कन्धलक्षणानि विधमति । इतीयं संज्ञा स्कन्धलक्षणपरिभेदकं ज्ञानमनुकूलयतीत्यतो भगवानुपदिशति ज्ञानमिति । इयञ्च संज्ञा तत्त्वज्ञानस्य हेतुं करोतीत्यतो ज्ञानमि त्युच्यते । अस्ति च लोके कारणे कार्योपचारः । यथा सुवर्णं भुङ्क्ते । पुरुषस्य पञ्चवृत्तीर्ददाति । स्त्री शीलं मलिनं करोति । सुपारा जलधारा सुखा । धर्मवसनः पुरुषः सुख इति । सप्तास्रवसूत्रे च वचनप्रहाणवृत्तिप्रहाणादय आस्रवहेतव आस्रवा इत्युच्यन्ते । आहुश्च आहारो जीवितं पशवस्तृणानीति । अपि चाहुः- अन्नवस्रादीनि बाह्यजीवितम्, यत्परस्वापहरणं तदेव परजीवितापहरणमिति । इदं सर्वं हेतुमेव फलतया वदन्ति । एवं ज्ञानहेतुरेव ज्ञानमित्युच्यते । अतोऽनवद्यम् ।

(पृ) स्मृत्युपस्थानेषु उष्मादिषु च गतं चित्तं तत्त्वधर्ममालम्बते । किमिदमनास्रवम् । (उ) यदनास्रवं चित्तं तत्प्रज्ञप्तिं विधमति । अतो यत्र प्रज्ञप्तिविधमनं चित्तं तदनु समागतं चित्तमनास्रवं भवति । (पृ) कुत्र चित्तं प्रज्ञप्तिं युगपत्विधमति । (उ) यत्र पञ्चानां स्कन्धानामुदयव्ययानुदर्शनसम्पन्नो भवति । तदा [तेषा]मनित्यसंज्ञामनुप्राप्नोति । अनित्यसंज्ञा च योगिनोऽनात्मसंज्ञां सम्पादयति । यथोक्तम्- आर्यश्रावकाणामनित्यसंज्ञया चित्तं भावयतामनात्मसंज्ञा प्रतितिष्ठति । अनात्मसंज्ञया चित्तं भावयतां क्षिप्रं रागद्वेषमोहेभ्यो विमुच्यते इत्यादि । कस्मात् । अनात्मसंज्ञया हि चित्तं भावयतां दुःखसंज्ञा प्रतितिष्ठति । आत्मसंज्ञित्वात्दुःखमपि प्रतिबुध्यते । अतो यो धर्मोऽनित्योऽनात्मा, स दुःखोऽपि इति प्रजाननकुशलान्निर्विद्यते । अतोऽनात्मसंज्ञा दुःखसंज्ञां सम्पादयति ।

(पृ) कस्माद्भवानाह [अन्यथा] विधनक्रमम् । सूत्रे तूक्तम्- यदनित्यं तद्दुःखम् । यद्दुःखं तदानात्म इति । अतोऽनित्यसंज्ञा दुःखसंज्ञा सम्पादयति । दुःखसंज्ञानात्मसंज्ञां सम्पादयति ।

(
४९१)
(उ) सूत्र उक्तम्- अनित्यसंज्ञाभावितं श्रावकाणां चित्तमनात्मसंज्ञायां प्रतितिष्ठति इति । अतोऽनित्यसंज्ञा अनात्मसंज्ञां सम्पादयति । एवं वदतोऽपि अस्ति मार्गनयः । कस्मात् । आत्मवादी हि परलोकसाधनायाह- आत्मा नित्य इति । अतः पञ्चस्कन्धा अनित्या इति पश्यननात्मान इति प्रजानाति । यथोक्तं सूत्रे- चक्षुरात्मेति यो वदेत् । तत्नोपपद्यते । चक्षुष उत्पादोपि व्ययोऽपि प्रज्ञायते । यस्य खलु पुनरुत्पादोऽपि व्ययोऽपि प्रज्ञायते । आत्मा म उत्पद्यते व्येति चेत्यस्यागतं भवति । इति ।

(पृ) सूत्रद्वयमिदं कथं प्रतिसंवेदनीयम् । (उ) दुःखलक्षणं द्विविधम्- अनित्यसंज्ञोत्थितं विपरिणामदुःखलक्षणम् । अनात्मसंज्ञोत्थितं संस्कारदुःखलक्षणम । अतः सूत्रद्वयमप्यविरुद्धम् । (पृ) तथा चेत्स्मृत्युपस्थानोष्मादावस्त्यनित्यसंज्ञा । अयं धर्मोऽनास्रवः स्यात् । (उ)स्मृत्युपस्थानादौ यदीयमनास्रवा, को दोषोऽस्ति । (पृ) पृथग्जनानां चित्ते न स्यादियमनास्रवा । पृथग्जनानां चित्तेऽप्यस्ति अभूतस्मृत्युपस्थानम् । कथमिदनास्रवं भवेत् । (उ) पुद्गलोऽयं न वस्तुतः पृथग्जनः । अयं स्रोतआपत्तिफलप्रतिपन्नक इत्युच्यते । (पृ) अयं स्रोतआपत्तिफलप्रतिपन्नकः सत्यदर्शनमार्गे वर्तते । स्मृत्युपस्थानादिधर्माश्च न सत्यदर्शना भवन्ति । (उ) स्रोतआपत्तिफलप्रतिपन्नकः सन्निकृष्टो विप्रकृष्टश्च भवति । स्मृत्युपस्थानादिगतो विप्रकृष्टः प्रतिपन्नकः सत्यदर्शनगतस्तु सन्निकृष्टः । केनेदं ज्ञायते । उक्तं हि भगवता वाशीजटोपमसूत्रे- जानतः पश्यत आस्रवाणां क्षयं वदामि । किं जानतः किं पश्यत आस्रवाणां क्षयो भवति । इति रूपं, इति रूपस्य समुदयः । इति रूपस्यास्तङ्गमः । इति वेदना संज्ञासंस्कारविज्ञानानि यावदस्तङ्गमः । मार्गमभावयतो नास्रवाणां क्षयो भवति । भावयतस्तु भवति । तद्यथा [कुक्कुट्या] अण्डानि सम्यगधिशयितानि । एवमेव भावनानुयोगमनुयुक्तस्य भिक्षोर्नैवं ज्ञानं भवति एतावत्को बत मेऽद्यास्रवाणां क्षीणम् । एतावत्को हयः एतावत्कः परमिति । अथ खल्वस्य क्षीणे क्षीणान्त एव ज्ञानं भवति । तद्यथा वाशीजटायां [दृश्यन्तेऽङ्गुलिपदानि] (
४९२) । सप्तत्रिंश[व्दोध्य]ङ्ग
भावनानुयोगमनुयुक्तस्य भिक्षोरल्पकृच्छ्रेणैव संयोजनानि प्रतिप्रश्रभ्यन्ते । पूतिकानि भवन्ति । तद्यथा सामुद्रिकयानानो[र्बन्धनानि] । अतो ज्ञायते स्मृत्युपस्थानादिगतो मार्गाङ्गभावनानुयोगमनुक्तः स्रोतआपत्तिफलप्रतिपन्नक इति । यद्येकस्मिन् क्षणे यदि वा पञ्चदशसु क्षणेषु न भावनानुयोगं विन्दते । [तदा] ज्ञातव्यमयं विप्रकृष्टः स्रोतआपत्तिप्रतिपन्नक इति ।

(पृ) इति रूपं, इति रूपस्य समुदयः इति रूपस्यास्तङ्गमः, इति वेदना इति ज्ञानमिति प्रथममुक्तमाद्यफलस्य मार्गः । अनन्तरास्रयो दृष्टान्तास्रयाणां फलानां मार्गाः । अतो नाद्यफलप्रतिपन्नक इत्युच्यते । (उ) यद्यण्डानि न सम्यगधिशयितानि । तदा विनश्यन्ति । सम्यगधिशयतानि संसिध्यन्ति । एवं स्मृत्युपस्थानादारभ्य प्रथमं भावनामारभते । स यदि न साधयति । न स प्रतिपन्नको भवति । साधयन्स्तु शैक्षजनोऽतिमात्रपूतिवेदक इत्युच्यते । अतः स्मृत्युपस्थानादौ पूतिभूतः सन् पृथग्जनो भवति । यः संसिद्धभावनः स आद्यफलप्रतिपन्नको भवति । तद्यथा अण्डान्तर्गत । अण्डाब्दहिर्गतः स्रोतआपन्नो भवति । अतो ज्ञायते स्मृत्युपस्थानादिगतः विप्रकृष्टः प्रतिपन्नक इत्युच्यते । किञ्चोग्रेण सङ्घे निमन्त्रिते देवता उपसङ्क्रम्य आरोचयन्ति- अमुको गृहपते अर्हन् यावदमुक आद्यफलप्रतिपन्नक इति । यदि स सत्यदर्शनमार्गगतः । कथमारोचयेयुः । ज्ञातव्यं स विप्रकृष्टः प्रतिपन्नक इति ।

किञ्चोक्तं भगवता सूत्रे- यस्य [खलु भिक्षव इमानि] पञ्चेन्द्रियाणि (श्रद्धादीनि) न सन्ति । तमहं बाह्यः पृथग्जनपक्षे स्थित इति वदामीति । अस्यार्थः- अस्ति बाह्य आभ्यन्तरश्च पृथग्जनः । यस्य निर्वेधभागीयानि कुशलेन्द्रियाणि न सन्ति । स बाह्यः पृथग्जन इति । यस्य सन्ति स आभ्यन्तर इति । अयमाभ्यन्तरः पृथग्जन आर्य इत्युप्युच्यते पृथग्जन इत्यप्युच्यते । बाह्यं पृथग्जनमुपादाय आर्यः । सत्यदर्शनमार्गमुपादाय पृथग्जनः । यथानन्दश्छन्नमामन्त्र्याह- पृथग्जनो नानुस्मरति रूपं शून्यमनात्मा, वेदना, संज्ञा (
४९३) संस्कारा विज्ञानं शून्यमनात्मा । सर्वे संस्कारा अनित्याः । सर्वे धर्मा अनात्मानः । तेषां निरोधो निर्वाणमिति । अथ च [तत्र] छन्नस्य [चित्तं] न धर्मनियामे प्रस्कन्दति । नापि पृथग्जनस्यैवं भवति इत्याह ।

(पृ) सन्निकृष्टो विप्रकृष्टो वा, उभावपि प्रतिपन्नकौ । कः प्रविभागस्तयोः । (उ) यो निरोधं पश्यति स तत्त्वतः प्रतिपन्नकः । यो दूरभागीयकुशलेन्द्रियगतः पश्यति पञ्चस्कन्धा अनित्याः दुःखा शून्या अनात्मान इति । न तु निरोधं पश्यति । स संज्ञाप्रतिपन्नकः । कस्मात् । यथोक्तं सूत्रे- भिक्षवो भगवन्तं पृच्छन्ति- कथं धर्मं पश्येम इति । भगवानाह- चक्षुः प्रतीत्य रूपञ्च चक्षुर्विज्ञानमुत्पद्यते । तत्सहभुवो वेदनासंज्ञा चेतनादयः सर्वे [धर्मा] अनित्या विपरिणामधर्माणः अश्रद्धेयाः । यो धर्मोऽनित्यः, तद्दुःखम् । दुःखस्यास्य समुदयोऽपि दुःखम् । स्थितिरपि दुःखम् । पुनः पुनर्भवलक्षणमपि दुःखम् । एवं यावन्मनो धर्मा अपि । यदीदं दुःखं निरुध्यते । अन्यानि दुःखानि न सम्भवन्ति । न पुनः सन्तानो भवति । योगिनश्चित्त एवं भवति- इदं प्रणीतमुपशमपदं यत्सर्वेषां मृषाभूतानां कामतृष्णानामपगमः क्षयो विरागो निरोधो निर्वाणम् । यदस्मिन् धर्मे चित्तं प्रस्कन्दति अधिमुच्यते नेञ्जते न परावर्तते न शोचते न परित्रासते । ततो निदानं धर्मं पश्येयमिति । अतो ज्ञायते योगी अनित्याद्याकारैः पञ्चस्कन्धानवलोकयन् विप्रकृष्टः प्रतिपन्नक इत्युच्यते । तेषां निरोधं पश्यन् सन्निकृष्टः प्रतिपन्नक इति । यथा छन्नः स्थविरान् प्रतिवदति- ममाप्येवं भवति- रूपमनित्यं [विज्ञानमनित्यं रूपमनात्मा, विज्ञानमनात्मा, सर्वे संस्कारा अनित्याः, सर्वे धर्मा अनात्मान इति । अथ च पुनर्मे] सर्वसंस्कारसमर्थे तृष्णाक्षये निरोधे निर्वाणे चित्तं
न प्रस्कन्दति, न प्रसीदति, न विमुच्यते [परितर्षणा । उपादानमुत्पद्यते । प्रत्युदावर्तते मानसम् । अथ कस्तर्हि म आत्मेति ।] न खल्विमं धर्मं पश्यतो भवति । इति ।

किञ्चाह- योगी यदस्मिन् धर्मे मृदुप्रज्ञया क्षान्तिं श्रद्दधते स श्रद्धा[नुसारी] प्रतिपन्नकः । पृथग्जनमतीत्य धर्मनियाममवतार्याद्यफलमलब्ध्वा न देवेषु भवति । यस्तीक्ष्णप्रज्ञया क्षान्तिं श्रद्दधते स धर्मा[नुसारी] प्रतिपन्नकः । [यो] धर्ममिमं पश्यन् (
४९४) त्रीणि संयोजनानि समुच्छेदयति । न स्रोतआपन्नः यो निरवशेष[क्षया]भिज्ञः सोऽर्हन् । अतो ज्ञायते निरोधं पश्यन् सन्निकृष्टः प्रतिपन्नको भवतीति ।

(पृ) योगी कस्मान्नात्यन्तं निरोधं पश्यति । (उ) सूत्र उक्तम्- धर्मा निस्स्वभावाः प्रतीत्यसमुत्पन्नाः । अयं धर्मः परमगम्भीरः । सर्वतृष्णाक्षय उपशमो निरोधो निर्वाणम् । इदं पदमतिदुर्दर्शम् । भगवान् द्वादशनिदानानां निरोधं दृष्ट्वा अनुत्तरमभिसम्बुद्धोऽभूतिति । धर्ममुद्रायाञ्चोक्तम्- पञ्चस्कन्धाननित्यान् विप्रलोपान्मृषाभूतानसारान् शून्यांश्च पश्यतो योगिनो ज्ञानदर्शनमविशुद्धं भवति इति । सूत्रमिदमन्त आह- योगिन एवं भवति- यन्मया दृश्यते श्रूयते आजिघ्र्यते रस्यते स्पृश्यते मन्यते तत्सर्वं प्रतीत्यसमुत्पन्नं विज्ञानम् । यदस्य विज्ञानस्य हेतुप्रत्यया नित्या वा अनित्या वा इति । तदनित्यज्ञानम् । अनित्येभ्यो हेतुप्रत्ययेभ्य उत्पन्नं विज्ञानं कथं नित्यं भवेत् । अतः सर्वे पञ्चस्कन्धा अनित्याः प्रतीत्यसमुत्पन्नाः क्षयलक्षणाः विपरिणामलक्षणा वियोगलक्षणा निरोधलक्षणा इति पश्यति । तदा योगिनो विशुद्धं ज्ञानदर्शनं भवति । आत्यन्तिकनिरोध इत्यनेन विशुद्धं ज्ञानदर्शनमुच्यते । अतो निरोधज्ञानदर्शनमेव आर्यसत्यदर्शनं भवति । आदौ च धर्मस्थितिताज्ञानमन्ते निर्वाणज्ञानं भवति । अतो निरोधसत्यदर्शनमेवार्यमार्गलाभो भवति ।

ज्ञानलक्षणवर्ग एकोननवत्युत्तरशततमः ।


१९० एकसत्यदर्शनवर्गः

(पृ) यद्भवानाह- निरोधं पश्यन्नेव फलप्रतिपन्नक इति । तदयुक्तम् । कस्मात् । सूत्रे हि भगवतोक्तम्- चतुर्णामर्यसत्यानां यथाभूतमननुबोधातेवमिदं दीर्घमध्वानं [सन्धावितं] संसरितं मम च युष्माकञ्च इदानीमिमानि चत्वारि सत्यान्यनुबद्धानि । ततो निदानञ्च समुच्छिन्नं संसरितम् । न पुनः कायस्य वेदना भवति । इति । ज्ञातव्यं चतुस्सत्यदर्शनात्फलप्रतिपन्नको भवति इति । न निरोधमात्रदर्शनात् । किञ्चाह भगवानुत्तमधर्मो यदुत चत्वार्यार्यसत्यानि इति । अतो योगी सर्वाणि [सत्यानि] जानीयात्पश्येच्च । आह च- ये हि केचित्धर्मकञ्चुका निन्दितकायाः सम्यक्प्रव्रज्यां श्रद्दधन्ते । (
४९५) सर्वे ते चतुर्णामार्यसत्यानां यथाभूतमभिसमयाय । ये हि केचित्स्रोतआपत्तिं सकृदागामितामनागामिताञ्च लिप्सन्ति । सर्वे ते चतुर्णामार्यसत्यानाभिसम्बुद्धत्वात् । ये हि केचितर्हतां प्रत्येकबुद्धतां बुद्धमार्गञ्च लिप्सन्ति । सर्वे ते चतुर्णामार्यसत्यानामभिसम्बुद्धत्वात् । अतो ज्ञायते न निरोधसत्यदर्शनमात्रमार्गमार्ग इति । आह च भगवान्- चत्वार्यार्यसत्यान्यनुपूर्वेणानुप्राप्नोतीति । धर्मचक्रप्रवर्तने चोक्तम्- इदं दुःखमयं दुःखसमुदयः अयं दुःखनिरोधः इयं दुःखनिरोधगामिनी प्रतिपदिति पश्यतो मम तेषु चक्षुरुदपद्यत ज्ञानमुदपद्यत विद्योदपद्यत बोधिरुदपद्यत इति, एवं त्रिपरिवर्तं चत्वार्यार्यसत्यान्यवोचत् । किञ्चोक्तं सूत्रे- अवदातवसने ह्रदे प्रक्षिप्ते सति रूपं [यथा] वेदयते । एवमयं पुरुष एकत्र निषण्णश्चत्वारि सत्यानि पश्यति इति । किञ्चाह परिशुद्धचित्तः सम्यक्भावयति- दुःखसत्यं यावन्मार्गसत्यम् । एवं पश्यतः कामास्रवात्भवास्रवादविद्यास्रवात्चित्तं विमुच्यते । इति । यत्र यत्र सूत्र उक्तमार्यसत्यम् । तत्र सर्वत्र चत्वारि सत्यान्युक्तानि । न निरोधसत्यमात्रम । भगवानाह चत्वारि ज्ञानानि दुःखज्ञानं समुदयज्ञानं निरोधज्ञानं
मार्गज्ञानमिति । तानि चतुर्णामार्यसत्यानामर्थाय भवन्ति इति । योगी धर्मशः परिपश्येत्चत्वारि सत्यानि । यथा भिषक्रोगं ज्ञात्वा रोगनिदानं रोगविनाशं रोगविनाशौषधञ्च जानीयात् । एवं योगी दुःखानां निस्सरणमिच्छन् दुःखं दुःखनिदानं दुःखनिरोधं दुःखनिरोधगामिनीं प्रतिपदञ्च जानीयात् । यदि न जानाति दुःखं केन ज्ञास्यति दुःखनिदानं दुःखनिरोधं दुःखनिरोधगामिनीं प्रतिपदञ्च । अतो ज्ञायते न निरोधदर्शनमात्र[मार्यसत्यम्] इति ।

अत्रोच्यते । यत्केषाञ्चिदुक्तं- चतुस्सत्यानां प्रतिलाभ इति । सर्वं [तत्] स्कन्धधात्वायतनादिषूक्तम्- यदिदं रूपमित्यादि अयं रूपस्य समुदय इत्यादि अयं रूपस्य व्यय इत्यादि प्रजानत आस्रवाः क्षीयन्त इति । किञ्चाह भगवान्- रूपादीनां स्कन्धानां यथाभूतमास्वादमादीनवं निस्सरणप्तप्रज्ञायानुत्तरं मार्गमस्पृशमिति न वदामि । यथाभूतं प्रजानन्स्तु मार्गमस्पृशमिति प्रजानामीति । नगरोपमसूत्रे चोक्तम्- यदा मम न ज्ञानमभूत्- [इति] जरामरणं जरामरणसमुदयो जरामरणनिरोधो जरामरणनिरोधगामिनी प्रतिपत् । यावत्संस्काराः संस्कारसमुदयः संस्कारनिरोधः संस्कारनिरोधगामिनी प्रतिपतिति । न (
४९६) तदा वदामि- अधिगतो मार्ग इति । इति । एवमादि [वचनानि] दृष्ट्वा यदि [वदामः] अयमेव दर्शनमार्गाधिगम इति । तदा षोडशचित्त[क्षणा] न मार्गाधिगमः स्युः ।

(पृ) नाहं वदामि- अयमुच्यते दर्शनमार्गाधिगम इति; किन्तु अयं सम्मर्शन कालीन इति । (उ) चतुर्षु सत्येष्वप्येवमुच्यते । वक्तव्यञ्चेदं सम्मर्शनकालीनमिति । तथा नो चेत्निदानं वक्तव्यं- चतुस्सत्यदर्शनं मार्गाधिगमकालीनं पञ्चस्कन्धादिदर्शनं सम्मर्शनकालीनमिति । (पृ) क्लेशानां प्रहाणज्ञांन मार्गाधिगमो भवति । पञ्चस्कन्धादीनां सम्मर्शनं न क्लेशानां प्रहाणाय भवति । (उ) पूर्वमेवोक्तमस्माभिः- पञ्चस्कन्धादिज्ञानमपि क्लेशानां प्रहाणाय भवतीति । यथोक्तम्- रूपादिज्ञानदर्शनादास्रवाः क्षीयन्त इति । आह च- लोकसमुदयं समनुपश्यतो नास्तितादृष्टिर्निरुध्यते । लोकनिरोधं समनुपश्यतोऽस्तितादृष्टिर्निरुध्यत इति । भगवान् स्वयं निदानान्यवलोकयन्मार्गमधिजगाम । किंशुको[पम]सूत्रे चोक्ता नानामार्गाधिगमप्रत्ययाः । केचित्पञ्चस्कन्धान् पश्यन्तो मार्गमधिगच्छन्ति । केचित्द्वादशायतनानि वा अष्टादशधातून् वा द्वादशनिदानानि वा अन्यानि वा पश्यन्तो मार्गमधिगच्छन्ति इति । अतो ज्ञायते न चतुस्सत्य[दर्शन]मात्रेण मार्गाधिम इति । यदि भवतो मतं सत्यप्यस्मिन् वचने नैतद्दर्शनेन क्लेशान् प्रजहातीति । चतुस्सत्यदर्शनेनापि न क्लेशान् प्रजहतीति वक्तव्यम् । सत्य[दर्शने]न न मार्गमधिगच्छतीति अवश्यं वक्तव्यमिति । चतुस्सत्यविभङ्ग उक्तम्- जातिरपि दुःखं जरापि दुःखं व्याधिरपि दुःखं मरणमपि दुःखं विप्रियसंयोगो दुःखं प्रियवियोगो दुःखं यदिष्टं न लभ्यते तदपि दुःखं संक्षेपेण पञ्चोपादानस्कन्धा दुःखमिति । किञ्चाह दुःखसमुदयो येयं तृष्णा पौनर्भविकी तत्र तत्राभिनन्दिनी इति । एवमादिदर्शनेन नास्रवाणां क्षयः स्यात् । इदं सर्वं लोकसत्यं न तु परमार्थसत्यम्


(
४९७)
(पृ) यद्यपि जातिमरणादि पश्यतो नास्रवक्षयः स्यात् । तथापि पञ्चोपादानस्कन्धा दुःखमित्युक्तम् । तेषां परिज्ञातुः क्लेशा भिद्यन्ते । (उ) अन्यानि त्रीणि सत्यानि कथं भवन्ति । अतो ज्ञायते [तत्] भवतः स्वसंज्ञानुस्मरणविकल्प इति । पञ्चोपादानस्कन्धा दुःखमिति पश्यतश्चित्तमेव विक्षिप्यते न मार्गोऽधिगम्यते । (पृ) यदि चतुर्भिः सत्यौर्न मार्गमधिगच्छति । केन धर्मेणाधिगच्छेत् । (उ) एकेनसत्येनाधिगच्छति योऽयं निरोधः । यथोक्तं सूत्रे- मृषा नाम अनृतम् । सत्यं तद्विपरीतम् । सर्वे संस्कृतधर्मा अनृतमृषाग्रहा इति । अतो ज्ञायते योगी चित्तत एव संस्कृतधर्मे वर्तते न परमार्थत इति । यथोक्तं सूत्रे- संस्कृतधर्मा अनृता मायोपमा ज्वालोपमा स्वप्नोपमा ऋणोपमा इति । यथोक्तं धर्मपदे-

अभूतबद्धो लोकोऽयं सुनिश्चितवत्प्रभासते ।
असत्दृष्टं सदाभासमसद्वै परया धिया ॥ इति ।

स्त्री पुरुष इति धर्मो यथाभूतं नास्ति । पञ्चस्कन्धानां कलापमात्रे स्त्री पुरुष इति सुदृढं कीर्तयन्तः पृथग्जना विपर्ययमुग्धा वदन्ति । स वस्तुतो नास्ति । इति । योगी तु इमे पञ्चस्कन्धाः शून्या अनात्मान इति भावयति । अतो न पुनस्तं पश्यति । यथोक्तं धर्ममुद्रासूत्रे- योगी भावयति रूपमनित्यं शून्यं वियोगलक्षणमिति । इति । अनित्यमिति यत्रूपं स्वरूपतोऽनित्यम् । शून्यमिति यथा घटे जलेऽसति शून्यो घट इति वदन्ति । एवं पञ्चस्कन्धेषु नास्त्यात्मा इत्यतः शून्या भवन्ति । एवं भावयितापि शून्यः । [तस्य] ज्ञानदर्शनमपि अविशुद्धं पञ्चस्कन्धानां निरोधादर्शत्वात् । अन्ते तु निरोधं पश्यति यदुत योगिन एवं भवति यन्मया दृष्टं श्रुतमित्यादि । अतो ज्ञायते निरोधं पश्यत एव क्लेशाः क्षीयन्त इति ।

(पृ) कस्मान्निरोधं पश्यतः क्लेशाः क्षीयन्ते नान्यसत्यानि । (उ) योगिनस्तस्मिन् समये दुःखसंज्ञा व्यवस्थिता भवति । निरोधलक्षणसाक्षात्कुर्वतस्तु संस्कृतेषु दुःखसंज्ञा न (
४९८) व्यवस्थिता भवति । यथा कस्यचित्प्रथमध्याने प्रीतिसुखमलब्धवतो न पञ्चकामगुणेषु निर्वेदसंज्ञा जायते । यथा च अवितर्काविचारसमाधिमलब्ध्वा न सवितर्कसविचारसमाधौ दोषं मन्यते । तथा योग्यपि निर्वाणमुपशमलक्षणमनधिगम्य न संस्कारदुःखमधिगच्छति । अतो ज्ञातव्यं निरोधसत्यं पश्यत एव दुःखसंज्ञा सम्पन्ना भवति । दुःखसंज्ञासम्पन्नत्वात्तृष्णादीनि संयोजनानि प्रहीयन्ते इति ।

(पृ) यदि निरोधसत्यदर्शनात्दुःखसंज्ञा सम्पन्ना भवति । निरोधसत्यं पश्येत्पश्चात्क्लेशाः प्रहीयेरन् । कस्मात् । निरोधसत्यं दृष्टवतेव दुःखसंज्ञायाः सम्पन्नत्वात् । (उ) न पश्चात्प्रहीयेरन् । यस्मिन् समये निरोधस्य निरोधलक्षणमधिगतम्, तस्मिन्नेव समये दुःखसंज्ञा सम्पद्यते । पश्चात्तु अभिमुखीभवति । यथोक्तं सूत्रे- योगी [यत्] समुदयलक्षणं तत्निरोधलक्षणमिति प्रजानन् सुविशुद्धं धर्मचक्षुरनुप्राप्नोति । इति । स्कन्धेषु च सदास्ति आत्ममतिः । स्कन्धा अनित्या दुःखा इति पश्यन्नपि न निरोधमनुप्राप्नोति । निरोधसत्यं पश्यतस्तु असल्लक्षणत्वादात्ममतिरत्यन्तं निरुध्यते । (पृ) यदि निरोधसत्यं पश्यत आत्ममतिः क्षीयते । कस्मात्भगवान् पुद्गलः सुकुमारमतिरित्यादि दृष्ट्वा चतुस्सत्यान्युदेशयति, न तु निरोधसत्यमात्रम् । (उ) तत्रास्ति मार्गानुलोम्येन चरितम् । किमिति । अनित्यसंज्ञया अनात्मसंज्ञासम्पन्नत्वातिदं दुःखमिति दर्शनमनुप्राप्नोति । इदं मार्गस्य सन्निकृष्टमित्यतो मिलित्वा वदति ।

(पृ) मार्गलाभसमय एव यदि सत्कायदृष्टिः प्रहीयत इति । कस्मात्पुनराह शीलव्रतपरामर्शो विचिकित्सा इति । (उ) योगी मार्गमनुप्राप्य धर्माः शून्या अनात्मान इति दृष्टतः पश्यन्न पुनर्विचिकित्सते । न पृथग्जनानां श्रुतचिन्तादिदर्शनैः समानो भवति । मार्गसत्यं पश्यन् प्रजानाति इदमेकमेव तत्त्वं नान्यदस्तीति । अतस्त्रीण्याह । (पृ) यदि मार्गलाभकाल एव सत्यदर्शनप्रहेयाः क्लेशाः क्षीयन्ते । कस्मात्त्रयाणां संयोजनानामेव क्षयमाह । (उ) सर्वे क्लेशाः सत्कायदृष्टिमूलकाः । यथा भगवान् भीक्षून् पृच्छति- केन वस्तुना किं वस्तूपादाय किं वस्त्वभिनिविश्य ईदृशी दृष्टिर्भवति । अस्मिन् काये म्रियमाण एव ईदृशादयः सर्वा दृष्टयो निरुध्यन्ते । भिक्षव आहुः- भगवन्मूला हि (
४९९) नो भगवन् धर्माः । भगवन्तमेव प्रार्थयामहे व्याकरणायेति । भगवानाह- रूपे खलु सति रूपमुपादाय रूपमभिनिविश्य सक्तायदृष्टिर्भवति । यावद्विज्ञानमप्येवम् । इति ।

अतो ज्ञातव्यं सत्कायदृष्टिमुपादाय सर्वे क्लेशाः सम्भवन्तीति । कस्मात् । सत्यां हि सत्कायदृष्टौ वदन्ति- अयमात्मा नित्यो वानित्यो वेति । नित्य इति पश्यतः शाश्वतदृष्टिः । अनित्य इति पश्यत उच्छेददृष्टिः । यद्यात्मा नित्यः । तदा न कर्म, न विपाकः, दुःखविमोक्षः । न मार्गभावनया निर्वाणमनुप्राप्नोति । यदस्या दृष्टेः प्राधान्यम् । स एव दृष्टिपरामर्शः । [तस्या एव] यत्प्रकर्षलाभः । स एव शीलव्रतपरामर्शः । आत्मदृष्टौ तृष्णा । परदृष्टौ द्वेषः । आत्मन उच्चदर्शनमेव मानः । यथाभूताज्ञानात्यत्संयोजनानां प्रादुर्भावः । सैवाविद्या । अतः सत्कायदृष्टिसमुच्छेदात्सत्यदर्शनेन संयोजनप्रहाणं भवति ।

(पृ) यदि सत्कायदृष्टिसमुच्छेदादन्यान्यपि प्रहीयन्ते । कस्माद्विशिष्याह शीलव्रतपरामर्शं विचिकित्साञ्च । (उ) तयोः प्राधन्यात् । धर्मलक्षणं साक्षात्कुर्वतो योगिनो न विचिकित्सा भवति । विचिकित्सेयमस्त्यात्मा नास्त्यात्मेति विचिकित्सते । मार्गो विशुद्धिं प्रापयति नवेत्यपि विचिकित्सते । इदानीं दुःखसत्यं पश्यत आत्मदृष्टिः प्रहीयते । अयमेव मार्गो न पुनरन्योऽस्तीत्यपि प्रजानाति । अत उच्यते सत्कायदृष्टिप्रहाणमेव वस्तुतो दुःखदर्शनम् । शीलव्रतसमुच्छेदात्मार्गं प्रयुज्य ज्ञाने ज्ञेयधर्मेषु च न विचिकित्सते । यः सम्यक्ज्ञानेन ज्ञेयधर्मान् प्रजानाति । स एव समुदयं प्रहाय निरोधमधिगच्छन् चतुस्सत्यसम्पन्न इत्युच्यते । अत एषां त्रयाणां वचनमेव निर्विचिकित्सालक्षणं प्रदर्शयति । विचिकित्सेयमात्मनि मार्गे च भवति । यथोक्तं सूत्रे- आद्याभिसम्बोधिलक्षणं यदुत धर्मं पश्यति धर्मं प्रतिलभते धर्मं प्रजानाति धर्मं प्रतिसंवेदयते । विचिकित्साजालं वितीर्य परशासनं नानुवर्तते । भगवच्छासने च वैशारद्यबलमनुप्राप्य फले सुप्रतितिष्ठति । इति ॥

एकसत्यदर्शनवर्गो नवत्युत्तरशततमः ।


१९१ सर्वालम्बनवर्गः

(पृ) कस्मात्ज्ञानं सर्वालम्बनं भवति । (उ) यत्ज्ञानं धात्वायतनादिगोचरं तत्सर्वालम्बनमित्युच्यते । कस्मात् । आयतनेषु धातुषु चोक्तेषु पदार्था आलम्बनानि विषया ज्ञेया इत्यादयः सर्वे धर्मा भवन्ति । [तान्] यत्ज्ञानमालम्बते तत्सर्वालम्बनमित्युच्यते ।

(
५००)
(पृ) ज्ञानमिदं न सम्प्रयुक्तसहभ्वादिधर्मान् जानाति । (उ) जानाति यद्यायतनाद्यालम्बनं, तत्सामान्यलक्षणज्ञानं भवति । सामान्यलक्षणज्ञानत्वात्सर्वमालम्बते । कस्मात् । द्वादशायतनानीति वदतो नान्यः पुनर्धर्मोऽस्ति । अतो ज्ञायते ज्ञानमिदमपि स्वात्मानमालम्बत इति । (पृ) उक्तं हि सूत्रे- द्वाभ्यां प्रत्ययाभ्यां विज्ञानमुत्पद्यत इति । अतो न स्वात्मालम्बनं ज्ञानं स्यात् । ज्ञानानां दृष्टान्तान् प्रतीत्य नास्ति स्वात्मालम्बनम् । तद्यथा- अङ्गुल्यग्रं नात्मानं स्पृशति । न चक्षुः स्वात्मानं पश्यति । (उ) यत्भवानाह- द्वाभ्यां प्रत्ययाभ्यां विज्ञानमुत्पद्यत इति । न तत्नियमेन भवति । आलम्बनं विनापि ज्ञामुत्पद्यते । न हि सर्वं द्वाभ्यां प्रत्ययाभ्यामुत्पद्यते । किञ्चित्षष्ठस्य विज्ञानस्य स्वकलापे सर्वथा असदालम्बनं भवति । दृष्टधर्मा[लम्बन]त्वात् । विज्ञानस्यास्य रूपादिधर्मानालम्बनत्वात् । यद्यालम्बते अन्धोऽपि रूपं पश्येत् । पुरुषस्यास्य तस्मिन् समये चित्तचैत्ता अतीतानागतगताः । अतीतानागताश्च असद्धर्माः, कस्यालम्बनानि स्युः । आत्माध्यवसानमात्रस्य प्रतिषेधादेवमुच्यते । यदि विज्ञानानि भवन्ति । तानि सर्वाणि आभ्यां द्वाभ्यामेव भवन्ति । न चतुर्भिः प्रत्ययैः । किञ्चित्विज्ञानं द्वौ प्रत्ययौ विनोत्पद्यते । यथोक्तं सूत्रे- षडायतनप्रत्ययः स्पर्श इति । न वस्तुतः स्पर्शस्य षडायतनानि प्रत्यया भवन्ति । उत्पद्यमानं न षडायतनेभ्यो भवति । सप्तमायातनस्य प्रतिषेधात् । एवं चतुरः प्रत्ययान् प्रतिषिध्याह भगवान् द्वे आयतने इति ।

(
५०१)
अतीतानागताकाशकालदिगादीनाञ्च ज्ञानमुत्पद्यते । ते धर्माश्च न वस्तुसन्तः । इदमेवानालम्बनं ज्ञानं भवति । (पृ) अनेनैव हेतुना अतीतानागतादयोः धर्माः सन्तः स्युः । यद्यसन्तः, किं तज्ज्ञानमुत्पादयति । शशशृङ्गकूर्मरोमाहिपदादिषु न जातु ज्ञानमुत्पद्यते । (उ) कारित्रे ज्ञानमुत्पद्यते । एवं पुरुषदर्शनेऽतीते तदतीतकालं स्मरति । पुरुषं भाषमाणं शृण्वन् तद्भाषणकालं स्मरति । एवमतीतादिधर्माणां नास्ति कारित्रमित्यतोऽयुक्तम् । (पृ) इदानीमतीते किं कृत्वा स्मर्यते । (उ) स्मरणस्य नास्ति कोऽपि धर्मः । भवानाह- शशशृङ्गादि कस्मान्न स्मरतीति । यो धर्म उत्पद्य निरुद्धः स स्मरणीयः । यः प्रकृतितोऽसन् । किं स्मर्येत यथा धर्मः पूर्वं सत्त्वाख्य इदानीमतीतोऽपि सत्त्वाख्यः । एवं तस्मिन् धर्मे पूर्वं स्मृत्युत्पादात्तदेव चित्तं पुनः स्मर्यते । न तु चित्तान्तरम् । अनेन पुरुषेण पूर्वं तद्धर्मनिमित्तमुपात्तम् । तस्मिन् धर्मे निरुद्धेऽपि तत्संज्ञानुस्मरणमुत्पाद्य [तं धर्मं] विकल्पयति । यो धर्मस्तस्य चित्ते जायते स धर्मो विनष्टः । पश्चात्[त]न्मनोविज्ञानं तत्वस्तु विजानाति इद[मेव] निमित्तालम्बनं विज्ञानमित्याख्ययते । निमित्तमिदं पाश्चात्यनिमित्तालम्बनविज्ञानस्य प्रत्ययं करोति । शशशृङ्गादिविज्ञानन्तु अनिमित्तहेतुकमित्यतो नोत्पद्यते । शशशृङ्गादि प्रतीत्यापि विज्ञानं भवेत् । यदि न भवति । कथं वक्तुं प्रभवेत् ।

(पृ) शशविषाणस्वभावो न विज्ञेयः । कस्मात् । तस्य ह्रस्वत्वदीर्घत्वशुक्लत्वकृष्णत्वादिस्मृतिर्हि न जातु जायते । तथातीतधर्मोऽपि । कस्मात् । नह्यस्माकमतीतधर्म इदानीमभिमुखीभवति । यथा आर्या अनागतं वस्तु ज्ञात्वा वदन्ति- इदं वस्तु तथा स्यात्, इदं वस्तु तथा न स्यादिति । (उ) आर्यज्ञानबलं हि तथा धर्ममसन्तमपि प्राक्प्रजानाति । यथा आर्याः पाषणभित्तिं भित्त्वा अप्रतिहतमुन्मज्जन्ति निमज्जन्ति च । तथेदमपि वस्तु असदपि जानन्ति । स्मृतिबलाच्च जानन्ति । यथा चक्षुर्विज्ञानं न स्त्रीति पुरुष इति वा विकल्पयति । यदि चक्षुर्विज्ञानं न विकल्पयति । मनोविज्ञानमपि (
५०२) न विकल्पयेत् । वस्तुतस्तु मनोविज्ञानं विकल्पयति । तथेदमपि स्यात् । यथा चास्माकमनुभूतनिरुद्धे ज्ञानमुत्पद्यते । तथार्याणामपि असति धर्मे ज्ञानमुत्पद्यते । यथा देवदत्त इति वचने नैकं विज्ञानं चत्वार्यक्षराणि विजानाति । तथापि [तानि] विजानाति । यथा च संख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वादयः । ते धर्मा अदृष्टा अपि [स्व]विज्ञानमुत्पादयन्ति । यथा च पुरुषस्य स्वरूपं नैकक्षणेन परिज्ञेयमम् । नापि प्रत्यङ्गविज्ञानेन । असत्यपि प्रत्यङ्गं पुरुषज्ञाने एकक्षणं [त]ज्ज्ञाने पुरुषज्ञानमुत्पद्यते । इदमपि तथा स्यात् ।

भवानवादीः- दृष्टान्तं प्रतीत्य नास्ति किञ्चित्स्वात्मालम्बनं ज्ञानमिति । तत्रास्ति वचनं मनः स्वात्मानं विजानातीति । योगी चित्तविपश्यनामनुसरति अतीतेऽनागते तु चित्तं नास्ति इति वचनात् । यथा प्रत्युत्पन्नचित्तेन प्रत्युत्पन्नचित्तमालम्बते । नो चेत्न जातु कश्चित्प्रत्युत्पन्नचित्तसम्प्रयुक्त धर्मं विजानाति । (पृ) सूत्र उक्तम्-

सर्वे धर्मा अनात्मानः प्रज्ञया यदि पश्यति ।
अथ निर्विन्दते दुःखे एष मार्गो विशुद्धये ॥ इति ।

इयं प्रज्ञा आत्मानं सहभूधर्मानन्यानि सर्वधर्मालम्बनानि चापनयति । (उ) ज्ञानमिदं सास्रवालम्बनमेव, नत्वनास्रव[आलम्बन]म् । कस्मात् । तस्यां हि गाथायामुक्तम्- अथ निर्विन्दते दुःख इति । अतो ज्ञायते तत्दुःखसत्यालम्बनमेवेति । आत्मदृष्टिप्रणाशाय च (
५०३) अनात्मभावना । आत्मदृष्टिः पञ्चोपादानस्कन्धालम्बिनी । ज्ञातव्यमनात्म[दृष्टि]रपि पञ्चस्कन्धानालम्बत इति । पञ्चस्कन्धा अनित्यत्वादनात्मानः । यथोक्तं सूत्रे- यदनित्यं तदनात्मा । यदानात्मा तद्दुःखमिति । भगवानाह यद्भिक्षवो युष्माकं तत्प्रजहत इति । भिक्षव आहुः- आज्ञप्तं भगवन् । भगवानाह- कथं युष्माभिराज्ञप्तम् । रूपं भगवन् [अनात्मा] अनात्मीयम् । वेदना, संज्ञा, संस्कारा, विज्ञान[मनात्मा] अनात्मीयम् । तदस्माभिः- प्रहातव्य]मिति । भगवानाह- साधु साधु खलु भिक्षव इति । [अतो] ज्ञातव्यमुपादानस्कन्धेष्वेव अनात्मबुद्धिर्भवतीति । उक्तञ्च सूत्रे- यत्किञ्चित्[भिक्षवो] रूपमतीतमनागतं प्रत्युत्पन्नमाध्यात्मिकं वा बहिर्धा वा औदारिकं वा सूक्ष्मं वा [हीनं वा प्रणीतं वा] यद्दूरेऽन्तिके वा सर्वं जानाति नात्मा नात्मीयमिति । एवं यथाभूतं सम्यक्प्रज्ञया पश्यति इति । आह च- रूपं नात्मा, वेदना, संज्ञा, संस्कारा विज्ञानञ्च नात्मा इति पश्यति । रूपमनित्यं तुच्छं मायावत्बालालापनं वधकं स्तेयकमनात्मा अनात्मीयमिति । किञ्चाह भगवान्- अत्र निषण्णः कश्चिन्मूढोऽविद्याण्डगतोऽविद्यान्धीभूतः परित्यज्य बुद्धशासनमिमां मिथ्यादृष्टिमुत्पादयति- यदि रूपं नात्मा, वेदना, संज्ञा, संस्कारा, विज्ञानञ्चनात्मा । कथमनात्मा कर्म कृत्वा आत्मना अनुभवति इति । अतो ज्ञायत उपादानस्कन्धालम्बनमेव नैरात्म्यमिति । सूत्रे च अनात्मज्ञानं सर्वधर्मनालम्बत
इति वचनस्थानं न किञ्चनास्ति । तत्र तत्र सर्वत्रोक्तं पञ्चस्कन्धानालम्बत इति ।

(पृ) भगवान् स्वयमाह- सर्वधर्मा अनात्मान इति । अतो ज्ञायते संस्कृतोऽसंस्कृतश्चैतज्ज्ञानस्यालम्बनम् । न तु पञ्चोपादानस्कन्धमात्रमिति । आह च- दश शून्यताः सर्वधर्मालम्बना इति । या शून्यता तदेव नैरात्म्यम् । किञ्चाह- सर्वे संस्कारा अनित्या दुःखा, सर्वे धर्मा अनात्मान इति । यदनात्मज्ञानं तद्दुःखसत्यालम्बनमेव । कस्मान्नाह- सर्वसंस्कारा अनात्मान इति । सर्वे धर्मा अनात्मान इत्युक्तत्वात्ज्ञातव्यं यत्संस्कारा इति वचनं तत्संस्कृताभिधायकम् । यत्धर्मा इति वचनं तत्सर्वा[भिधायक]मिति । आह च- क एकलक्षणधर्मं लक्षणान्तरधर्मञ्चाभिमुखं सम्प्रजानाति यथा विद्याचक्षुषा रूपं (
५०४) पश्यति । केवलं बुद्धा भगवन्तः सम्यक्सम्बुद्धा विमुक्तिलाभिन एकलक्षणधर्मं लक्षणान्तरधर्मञ्चाभिमुखं सम्प्रजानन्ति यथा विद्याचक्षुषा रूपं पश्यन्ति इति । अनात्मलक्षणेन हि सर्वधर्मा एकलक्षणाः । अतो ज्ञायते अनात्म[ज्ञानं] सर्वधर्मानालम्बते । न तु दुःखमात्रमिति ।

उच्यते । सर्व[मिति] द्विविधं सर्वसङ्ग्राहकमेकदेशग्राहकमिति । सर्वसङ्ग्राहकमिति यथा भगवानाह- अशं सर्वज्ञ इति । [अत्र] सर्वं नाम द्वादशायतनानि । एकदेशग्राहकमिति यथाह- सर्वमादीप्तमिति । अनास्रवमसंस्कृतन्तु नादीप्तमुपलभ्यते । यथा च तथागतवर्गे उक्तम्- तथागतः सर्वत्यागी सर्वजयी इति । शीलादयो धर्मा न त्याज्याः । किन्तु अकुशलधर्मानुद्दिश्याह- सर्वत्यागीति । अजेय्या अन्ये बुद्धाः । अन्यान् सत्त्वानुद्दिश्यापरमाह- सर्वजयीति । किञ्चाह- कतमो भिक्षुः सर्वज्ञः । यः षट्स्पर्शायतनानामुत्पादं निरोधञ्च यथाभूतं प्रजानाति । अयमुच्यते सामान्यलक्षणज्ञः सर्वधर्माणां, न तु विशेषलक्षणज्ञ इति । भगवांस्तु सामान्यविशेषज्ञः सर्वज्ञ इत्युच्यते । भिक्षुरयं सामान्येन सर्वे धर्मा अनित्या इति प्रजानातीत्यतः सर्वज्ञो भवति । तस्य नामसाम्येऽपि वस्तुतोऽस्ति भेदः । [तत्] एकदेशसङ्ग्राहकं नाम ।

आह च भगवान्- यत्सूत्रेऽवतरति । विनये च सन्दृश्यते । धर्मताञ्च न विलोमयति । स धर्म उपादेय इति । किञ्चाह- य आह इदं बुद्धवचनमिति । स सुव्यञ्जनः । न स्वर्थः । विद्वान् तत्र स्वर्थं सुव्यञ्जनं ब्रूयात् । येनार्थेन भिक्षोरस्य व्यञ्जनं प्रशस्यं भवति । पुनरस्ति कश्चिद्वक्ता स्वर्थस्य, न सुव्यञ्जनस्य । स्वर्थं सुव्यञ्जनेन प्रक्षिपेत् । इत्येवमादिसूत्रे भगवान् सर्वं तत्संश्रावयति । अस्ति च नीतार्थं नेयार्थञ्च सूत्रम् । इदन्तु नेयार्थं सूत्रम् । कस्मादेकस्मिन् वस्तुनि सर्वमिति वचनं भवति । तस्याभिसन्धि र्ज्ञातव्यास्ति । लौकिका अपि वदन्ति एकस्मिन् सर्वमिति । यथा वदन्ति- सर्वत्यागं करोति । सर्वेषाञ्च भोजनं प्रयच्छति । अयं सर्वभुकिति । अतो ज्ञायते सर्वमनात्मेति वचने सत्यपि पञ्चोपादानस्कन्धान[भिसन्धाय] उक्तं, न तु सर्वधर्मानिति द्रष्टव्यम् ।

यदुक्तं भवता- दश शून्यता इति । तत्रासंस्कृतं शून्यमिति नोपलभ्यते । (
५०५) कस्मात् । न हि कश्चिदसंस्कृत आत्मसंज्ञामुत्पादयति । तदन्यस्मिन् शून्येऽपि न काचित्क्षतिः । भवानपि दुःखज्ञानेन शून्यं संयोजयति । अतः शून्यता न सर्वधर्मालम्बिनी । (पृ) लौकिकी शून्यता सर्वधर्मानालम्बते न तु अनास्रवशून्यता । (उ)नास्ति तु लौकिकी शून्यता । सर्वा शून्यता अनास्रवा । (पृ) उक्तं हि धर्ममुद्रासूत्रे- शून्यता लौकिकी शून्यतेति । (उ) इयं लोकोत्तरशून्यता न तु लौकिकी शून्यता । (पृ) अत्रोक्तं ज्ञानदर्शनस्याविशुद्धत्वात्ज्ञायत इयं लौकिकी शून्यतेति । (उ) उक्तन्तु प्रागस्माभिः- अनास्रवं चित्तं प्रज्ञप्तिविदारणमिति । अतः प्रज्ञप्तिविदारणादागतमनास्रवं चित्तम् । पश्चान्निरोधसत्यं दृष्ट्वा अभिमानं विहाय ज्ञानदर्शनं विशुद्धं भवति । अतो न लौकिकी शून्यता ।

यद्भवानाह- सर्वे संस्कारा अनित्याः सर्वे धर्मा अनात्मान इति । एवं हि स्यात्- योगी यदा नैरात्म्यसंज्ञासमन्वितः तदा धर्मसंज्ञासमन्वितत्वात्नैरात्म्ये धर्म इति स संज्ञोच्यते । यथोक्तं दर्शनवर्गे- यो दुःखं न पश्यति, स आत्मदर्शी भवति । यो यथाभूतं दुःखं पश्यति, न स पुनरात्मानं पश्यति । इति । यथाभूतमिति यदनात्मदर्शनम् । अतः सर्वे धर्मा अनात्मान इति वचनं दुःखसत्यमात्रमालम्ब्य अनात्मा संस्कार इत्यभिदधाति । यद्भवानवोचत्- बुद्धा [भगवन्तः] एकलक्षणं लक्षणान्तरञ्चाभिमुखं पश्यन्तीति । तदपि धात्वायतनादीनामेकत्वादेकलक्षणमित्युच्यते इति स्यात् । को दोषः ॥

सर्वालम्बनवर्ग एकनवत्युत्तरशततमः ।


१९२ आर्यविहारवर्गः

अस्ति द्विविधो विहारः शून्यविहार अनात्मविहार इति । पञ्चस्कन्धेषु नास्ति सत्त्व इति दर्शनं शून्यविहारः । पञ्चस्कन्धा अपि न सन्तीति दर्शनमनात्मविहारः । केनेदं ज्ञायते । उक्तं हि सूत्रे- रूपं निस्खभावं पश्यति [यावत्] वेदनां संज्ञां संस्कारान् विज्ञानं निःस्खभावं पश्यतीति । किञ्चोक्तं सूत्रे- निःस्खभावमुपादाय विमुच्यत इति । अतो ज्ञायते रूपस्वभावो न वस्तुसन् यावद्वेदनासंज्ञासंस्कारविज्ञानस्वभावा न वस्तुसन्त इति । अपि (
५०६) चोक्तं सूत्रे- पञ्चस्कन्धाः शून्या मायावतिति । न हि माया वस्तुसतीति निर्वाच्या । यदि माया वस्तुसती, न मायेति भवति । नास्तीत्यपि न निर्वक्तुं सम्भवति । अवस्तुत्वादेव [बाला]लापनं करोति । अयञ्च योगी सर्वं शून्यं पश्यति । अतो ज्ञायते पञ्चस्कन्धा न वस्तुसन्त इति । यथा एकलक्षणविधमनाद्भित्त्यादिरेको [ऽपि] धर्मो नास्ति । तथा पञ्चस्कन्धा अपि, नैकः [तादृशः] परमार्थिको धर्मोऽस्ति ।

(पृ) यदि रूपादयो धर्मा अपि अवस्तुसन्तः । तदा एकं लोकसत्यमेव स्यात् । (उ) निरोधः परमार्थसत्यत्वादस्ति । यथोक्तं सूत्रे- मृषा नाम यत्तुच्छकम् । सत्यं नाम यथाभूतमिति । निरोधः स नियतं यथाभूत इत्यतः परमार्थसनिति । (पृ) यद्भवतोक्तं पञ्चस्कन्धेषु नास्ति सत्त्व इति दर्शनं [शून्यविहार] इति । केन हेतुना पञ्चस्कन्धाः सत्त्व इत्युच्यन्ते । [स] किं सास्रव उतानास्रवः । (उ) सास्रवोऽनास्रवश्च (पृ) सूत्र उक्तम्- यः सत्त्वं पश्यति स पञ्चोपादानस्कन्धान् पश्यति इति । (उ) अनास्रवधर्मोऽपि सत्त्वाख्ये वर्तते नासत्त्वाख्ये तरुपाषाणादौ । अतो ज्ञायते अनास्रवान् स्कन्धानुपादायापि सत्त्व इत्युच्यन्ते । यदाचार्योऽनास्रवचित्तगतः । तस्मिन् समयेऽप्यस्ति चित्तं सत्त्व इति । अतोऽनास्रवचित्तमपि सत्त्वो भवति । सर्वे स्कन्धा उपादानस्कन्धा इत्युच्यन्ते । उपादानादुत्पन्नत्वात् ।

(पृ) कथं ज्ञायते सर्वे उपादानादुत्पद्यन्त इति । (उ) अनास्रवधर्मो दानशीलसमाधिभावना कर्मचित्तादुत्पद्यते । असति तु [तस्मिन्] नोत्पद्यते । यथोक्तं सूत्रे- अविद्यानिवृततृष्णासंयोजनया प्रतिबद्धो मूढ इमं कायमनुप्राप्नोति । एवं विद्वानपि इति । काय एवोपादानस्कन्धः । (पृ) यदि सर्वे स्कन्धा उपादानस्कन्धाः । सास्रवोऽनास्रव इति स्कन्धानां प्रविभागः कथम् । (उ) सर्वे स्कन्धा उपादानादुत्पन्ना इत्यत उपादानस्कन्धा इत्युच्यन्ते । नैव पुनर्भवमुपाददत इत्यतोऽनास्रवाः । इत्ययं प्रविभागः । स्कन्धा उपादानस्कन्धैः सहोपादानादुत्पन्ना इत्यत उपादानस्कन्धा इत्यभिधीयन्ते । इदं सूत्रं न विरुध्यते ।

इमौ द्वौ विहारौ यत्किञ्चिदभावमालम्बेते । यद्रूपादये धर्माः शून्याः स्वभावनिरुद्धा इति । अयमेव यत्किञ्चिदभावः । (पृ) इमौ द्वौ पञ्चस्कन्धानालम्बेते । उक्तं हि सूत्रे- रूपं पश्यति शून्यमनात्मा वेदनासंज्ञासंस्कारान् विज्ञानञ्च पश्यति शून्यमनात्मा इति । (उ) (
५०७) स्कन्धानुपादाय पश्यति शून्यमनात्मेति । कस्मात् । सत्त्वकारणे सत्त्वशून्यं पश्यति । रूपादीनां धर्माणामपि निरोधं पश्यति । (पृ) एवञ्चोभयालम्बनम् । यद्योगी स्कन्धांश्च शून्याननुस्मरति । तदेव स्कन्धान् यत्किञ्चिदभावञ्चालम्बते । (उ) योगी सत्त्वकारणे न सत्त्वं पश्यतीत्यत एव शून्यचित्तमुत्पाद्य ततः शून्यं पश्यति । पञ्चस्कन्धानां निरोधे च न पश्यति रूपस्वभावं वेदनासंज्ञासंस्कारविज्ञानस्वभावम् । अतो ज्ञायते इमौ द्वौ यत्किञ्चिदभावालम्बनाविति ॥

आर्यविहारवर्गो द्विनवत्त्युत्तरशततमः ।


१९३ ज्ञानदर्शनवर्गः

(पृ) सम्यग्दर्शनस्य सम्यग्ज्ञानस्य च को विशेषः । (उ) उभयमेकात्मकमेव । नास्ति कश्चिद्विशेषः । सम्यग्दर्शनं द्विविधं लौकिकं लोकोत्तरमिति । लौकिकं यदस्ति पुण्यं पापमित्यादि । लोकोत्तरं यत्दुःखादीनां सत्यानां प्रतिसंवेदः । तथा सम्यक्ज्ञानमपि ॥

(पृ) भवतोक्तं ज्ञानदर्शनयोर्नेदृशं लक्षणम् । कस्मात्क्षान्तयो दर्शनमात्रं न ज्ञानम् । क्षयज्ञानमनुत्पादज्ञानं, पञ्चविज्ञानसम्प्रयुक्ता च प्रज्ञा ज्ञानमेव च दर्शनम् । (उ) कस्मात्क्षान्तयो न ज्ञानम् । (पृ) आज्ञातमाज्ञास्यामीत्यत आज्ञास्यामीन्द्रियम् । यदि दुःखे धर्मक्षान्तिर्ज्ञानम् । दुःखे धर्मक्षान्तिर्ज्ञातैव दुःखे धर्मज्ञानमाज्ञेन्द्रियं स्यात् । नाज्ञास्यामीन्द्रियम् । अतो क्षान्तिर्न ज्ञानम् । उक्तञ्च सूत्रे- यत्धर्मेषु धर्मान् परीत्तं प्रज्ञया विपश्यति । क्षान्ति[रियं विपश्यना] अपरिनिष्पन्ना । परिनिष्पन्ना तु ज्ञानमिति । या क्षान्तिः, अपरिनिष्पन्ना विपश्यना [सा] । प्रथमा चानास्रवा प्रज्ञा प्राथमिकं दर्शनं क्षान्तिः । न प्राथमिकं दर्शनं ज्ञानं भवेत् । क्षान्तिकाले च न विनिश्चयो भवति । ज्ञानकाले तु विनिश्चयोऽवश्यं भवति । क्षान्त्युत्पत्तिकाले विचिकित्सा पुनरनुवर्तते । अतः क्षान्तिर्न ज्ञानम् । (उ) या क्षान्तिस्तदेव ज्ञानम् । कस्मात् । छन्दः अभिरतिः क्षान्तिः (
५०८) सर्वमेकार्थकम् । योगी पूर्वं दुःखं ज्ञात्वा पश्चात्[तत्]क्षान्तावभिरमते । यदि पूर्वमेव नास्ति ज्ञानम् । क्षन्तव्ये काभिरतिः । परीत्तवचने च केवलमुक्तं विपश्यना क्षान्तिरिति न ज्ञानम् । तथा चेत्प्रतिपत्तिफलवेदको ज्ञानरहितः स्यात् । यदि मन्यसे योगिनो ज्ञानवत एव क्षान्तिर्भवतीति । तदा क्षान्तिवेदनमेव ज्ञानं भवति । उक्तञ्च सूत्रे- [एवं] जानन् पश्यनास्रवाद्विमुच्यत इति । आह च- ज्ञानं दर्शनञ्चैकार्थकमिति । किञ्च भगवानाह- दुःखज्ञानं समुदय[ज्ञानं] निरोध[ज्ञानं] मार्गज्ञानमिति । न त्वाह क्षान्तिरिति । अतो ज्ञायते ज्ञानमेव क्षान्तिरिति ।

भगवान् विमुक्त्यर्थमाह- यथाभूतं प्रजानातीति ज्ञानमिति । क्षान्तिरपि यथाभूतं प्रजानातीति न [ज्ञाना]दन्या स्यात् । यदि भवताज्ञात[माज्ञास्यामी]न्द्रियमेव क्षान्तिरिति । तदयुक्तम् । न वयं वदामः पूर्वं क्षान्तिः पश्चात्ज्ञानमिति । एकस्यैव चित्तस्य क्षान्तिः ज्ञानमित्याख्या भवति । अयं सूत्रार्थोऽसिद्धः । भवतः कथमसिद्धेन लक्षणसिद्धिर्भवति । भवानाह- क्षान्तिपरिनिष्पन्नेति । प्रत्युक्तमिदं मया यत्ज्ञानपूर्विका क्षान्तिरिति । [अतः] परिनिष्पन्नैव क्षान्तिरिति द्रष्टव्यम् । यदि परिनिष्पत्तिं न जानाति । कथं क्षमते । भवानवोचत्- क्षान्तिकाले न विनिश्चयोऽस्तीति । भवतां शासनेक्षान्त्या संयोजनं प्रजहाति । एवमनिश्चितं किं संयोजनं प्रजहाति । भवानवोचत्- क्षान्तिकाले विचिकित्सानुवर्तते इति । तथा चेत्मार्गसत्यदर्शनेऽपि विचिकित्सानुवर्तमाना भवति । तत्र ज्ञानमुत्पद्यमानमपि अज्ञानं स्यात् । न सविकल्पिकेयं क्षान्तिः इदं ज्ञानं भवति । यथा लौकिकी विपश्यना चतुस्सत्यानुसारिणी क्षान्तिरित्यप्युच्यते ज्ञानमित्यप्युच्यते । अनास्रवा क्षान्तिर्ज्ञानञ्च तथा स्यात् ।

(पृ) क्षयज्ञानमनुत्पादज्ञानञ्च ज्ञानमात्रं न दृष्टिः । (उ) किं कारणम् । (पृ) सूत्रे हि पृथुगुच्यते सम्यग्दृष्टिः सम्यक्ज्ञानमिति । अतो ज्ञानं न दृष्टिः । (उ) तथा चेत्सम्यग्दृष्टिर्न सम्यग्ज्ञानं भवति । यदि भवतो मतं सम्यग्(
५०९) दृष्टिः सम्यग्ज्ञानमिति । सम्यग्ज्ञानमपि सम्यग्दृष्टिः स्यात् । पञ्चाङ्गधर्मकाये प्रज्ञास्कन्धात्पृथगुक्तं विमुक्तिज्ञानदर्शनं न प्रज्ञा भवेत् । तथा च क्षयज्ञानममुत्पादज्ञानमपि न प्रज्ञा भवति । इदानीं सम्यग्दृष्टिरेव भिन्नलक्षणतया सम्यग्ज्ञानमित्युच्यते । यदुत सर्वक्लेशानां क्षयोऽर्हतश्चित्ते समुत्पद्यत इत्यत[स्तत] सम्यग्ज्ञानमित्युच्यते ।

(पृ) यदि सम्यग्ज्ञानमेव सम्यग्दृष्टिः । तदा अर्हन्न दशाङ्गसम्पन्नः स्यात् । (उ) एकस्यैव नामान्तरम् । यथा धर्मज्ञानं दुःखज्ञानमिति । आह च- अर्हनष्टगुणपुण्यक्षेत्रसम्पदिति । अतः सम्यग्ज्ञानमेव सम्यग्दृष्टिः । षट्सु सामीचीषु षष्ठी सामीची समतादृष्टिरित्युच्यते । यदि भवतोक्तवत्भवति । तदा क्षयज्ञानमनुत्पादज्ञानं न सामीची भवति । किञ्च सम्यग्विपश्यतीति सम्यग्दृष्टिः । क्षयज्ञानमनुत्पादज्ञानञ्च सम्यग्विपश्यतीत्यतोऽपि सम्यग्दृष्टिः ।

(पृ) पञ्चविज्ञानसम्प्रयुक्ता प्रज्ञा ज्ञानमात्रं न दृष्टिः । (उ) कस्मान्न दृष्टिः । (पृ) पञ्चविज्ञानानि निर्विकल्पकानि । प्रथमत आलम्बनगतत्वात् । दृष्टिर्नाम सञ्चित्योपनिध्यानम् । पञ्चविज्ञानानि च प्रत्युत्पन्नमालम्बन्ते । अतो न दृष्टिः । (उ) तत्र वितर्कविचाराभावात्न विकल्पयन्ति । प्रथमत आलम्बनगतत्वात्न दृष्टिरिति यदि मतम् । तदयुक्तम् । कस्मात् । भवतां हि शासनं चक्षुर्विज्ञानं सन्तानालम्बनं यथा मनोविज्ञानमिति । अतो न वक्तव्यं प्रथमत आलम्बनगतमिति । तथा चेन्मनोविज्ञानमपि न दृष्टिर्भवेत् । भवान् पुनराह- प्रत्युत्पन्नालम्बनत्वान्न दृष्टिरिति । इदमपि न युक्तम् । परचित्तज्ञानमपि प्रत्युत्पन्नालम्बनम् । इदमपि न दृष्टिः स्यात् । पञ्चविज्ञानेषु नास्ति यथाभूतज्ञानम् । प्रतिपत्त्यभावात् । सदा प्रज्ञप्त्यनुवर्तनाच्च । दृष्टिः ज्ञानं प्रज्ञा इत्यादि सर्वं नास्ति । किं पुनर्दृष्टिमात्रं नास्तीति ।

केचिदाहुः- चक्षुरिन्द्रियं दृष्टिरिति । कथमिदम् । (उ) न चक्षुरिन्द्रियं (
५१०) दृष्टिः । चक्षुर्विज्ञानं [विषया]लम्बनं भवति । लोकव्यवहारमनुसृत्य चक्षुर्दृष्टिरित्युच्यते । (पृ) केचिदाहुः- सन्त्यष्टदृष्टयो यदुत पञ्चमिथ्यादृष्टयो लौकिकी सम्यग्दृष्टिः शैक्षदृष्टिरशैक्षदृष्टिः । एता अष्टदृष्टिर्वर्जयित्वा अन्या प्रज्ञा न दृष्टिरित्युच्यत इति । कथमिदम् । (उ) ज्ञानदर्शनं विमुक्तिलाभः प्रतिसंवेदनं साक्षात्कार इतीदं सर्वमेकार्थकम् । इयं दृष्टिरियं न दृष्टिरिति यत्वचनम् । सर्वं तत्स्वसंज्ञाविकल्पितं वचनम् । (पृ) उक्तं ननु सूत्रे- जानन् पश्यनास्रवाद्विमुच्यत इति । कथमस्ति प्रविभागः । (उ) यत्ज्ञात्वा आदौ प्रज्ञप्तिं विदारयति तत्ज्ञानमित्युच्यते । धर्मस्थितायामवतरणं दर्शनम् । आद्यविपश्यना ज्ञानम् । [तत्]प्रतिसंवेदनं दर्शनम् । इत्येवमस्ति प्रविभागः ॥

ज्ञानदर्शनवर्गस्त्रिनवत्युत्तरशततमः ।


१९४ त्रिविधप्रज्ञावर्गः

तिस्रः प्रज्ञा, श्रुतमयी प्रज्ञा, चिन्तामयी प्रज्ञा, भावनामयी प्रज्ञेति । सूत्रादि द्वादशाङ्गप्रवचनादुत्पन्ना श्रुतमयी । इदमनास्रवां प्रज्ञां जनयतीति प्रज्ञा । यथोक्तं सूत्रे- राहुलो भिक्षुर्विमुक्तिप्रापिणीं प्रज्ञां सम्पादयति इति । वेदादीन् व्यावहारिकग्रन्थान् शृण्वन्नपि नानास्रवां प्रज्ञामुत्पादयतीत्यतो न [सा] श्रुतमयी प्रज्ञा भवति । यत्सूत्राणामर्थं चिन्तयति सा चिन्तामयी प्रज्ञा । यथोच्यते- योगी धर्मं श्रुत्वा तदर्थगतिं चिन्तयति । इति । अपि चाह- योगी धर्मं श्रुत्वा तदर्थं चिन्तयन् सदा प्रतिपदमनुवर्तत इति । यत्ज्ञानदर्शनमभिमुखीभवति सा भावनामयी प्रज्ञा । यथोच्यते- योगी समाहितचित्ते पञ्चस्कन्धानुत्पादनिरुद्धान् पश्यतीति । यथोक्तं सूत्रे- यूयं भिक्षवो ध्यानसमाधिं भावयन्तो यथाभूतज्ञानदर्शनमभिमुखं लभध्वे । इति । किञ्चोक्तं सप्तसम्यग्ज्ञानसूत्रे- यत्भिक्षु धर्मं प्रजानाति । [इयं] श्रुतमयी प्रज्ञा । यदर्थं प्रजानाति [इयं] चिन्तामयी प्रज्ञा । यत्(
५११) कालादीन् प्रजानाति । इयं भावनामयी प्रज्ञा । इति । यथा च राहुलः पञ्चोपादानस्कन्धनिकायादीनधीते । इयं श्रुतमयी प्रज्ञा । यद्विविक्तदेशे तदर्थं चिन्तयति । इयं चिन्तामयी प्रज्ञा । पश्चात्सम्बोधिकाले भावनामयी प्रज्ञा । किञ्चोक्तं सूत्रे- त्रीण्यायुधानि श्रुतायुधं विवेकायुधं प्रज्ञायुधमिति । श्रुतायुधं नाम श्रुतमयी प्रज्ञा । विवेकायुधं चिन्तामयी प्रज्ञा । प्रज्ञायुधं भावनामयी प्रज्ञा । अपि चोक्तं सूत्रे- पञ्चानुशंसाधर्मश्रवणे । कतमाः पञ्च । अश्रुतं शृणोति । श्रुतं पर्यादापयति । कांक्षां विहन्ति । दृष्टिमृजु करोति । चित्तमस्य प्रसीदति । इति । अश्रुतं शृणोति । श्रुतं पर्यादापयति इतीयं श्रुतमयी प्रज्ञा । कांक्षां विहन्ति । दृष्टिमृजुकरोति इतीयं चिन्तामयी प्रज्ञा । चित्तमस्य प्रसीदति
इतीयं भावनामयी प्रज्ञा । धर्मश्रवणानुशंसायाञ्चोक्तम्- श्रोत्रेण धर्मं शृणोति । वाचा धर्ममधीते । इयं श्रुतमयी प्रज्ञा । मनसा मीमांसते । इयं चिन्तामयी प्रज्ञा । पश्यनभिसमेति । इयं भावनामयी प्रज्ञा इति । चतुर्षु श्रोतआपत्त्यङ्गेषु सद्धर्मश्रवणं श्रुतमयी प्रज्ञा । योनिशोमनस्कारश्चिन्तामयी प्रज्ञा । धर्मानुधर्मप्रतिपत्तिर्भावनामयी प्रज्ञा । पञ्चविमुक्तिद्वारेषु [यदन्यतरस्मात्] गुरुस्थानीयात्धर्मं श्रृणोति । इयं श्रुतमयी प्रज्ञा । [तस्मिन् धर्मे] यदर्थप्रतिसंवेदी भवति । इयं चिन्तामयी प्रज्ञा । तस्य यत्प्रमोद्यादि जायते । इयं भावनामयी प्रज्ञा ।

अपि चोक्तं सूत्रे- भगवान् धर्ममुपदिशति आदौ कल्याणं मध्ये कल्याणमन्ते कल्याणमित्यादि । तं धर्मं शृणोति सत्पुरुषस्तरुणो वृद्धो वा । श्रुत्त्वा प्रतिसञ्चिक्षति- सम्बाधो गृहावासोऽभ्यवकाशा प्रव्रज्या । नेदं सु करमगारमध्यावसता [एकान्तपरिशुद्धं] सद्धर्मं चरितुमिति । तदैव भोगस्कन्धं प्रहाय ज्ञातिपरिवृत्तं प्रहाय अगारादनागारं (
५१२) प्रव्रजति । शीलं धत्ते । इन्द्रियाणि रक्षति । इर्यापथेषु सम्प्रजन्यकारी भवति । विविक्तदेशे चिन्तयति । पञ्च नीवरणानि प्रहाय प्रथमध्यानादीनुपसम्पद्य विहरति । यावदास्रवक्षयमनुप्राप्नोति । इति । तत्र यत्धर्मं शृणोति तरुणो वा वृद्धो वा इति । इयं श्रुतमयी प्रज्ञा । श्रुत्वा यत्प्रतिसञ्चिक्षति- सम्बाधो गृहावासोऽभ्यवकाशा प्रव्रज्येति । इयं चिन्तामयी प्रज्ञा । पञ्च नीवरणानि प्रहाय यावदास्रवक्षयमनुप्राप्नोति । इयं भावनामयी प्रज्ञा । किञ्चोक्तं सूत्रे- द्वाभ्यां प्रत्ययाभ्यां सम्यग्दृष्टिरुत्पद्यते । [कतमाभ्यां द्वाभ्याम्] । परतो धर्मश्रवणं योनिशोमनस्कार इति । परतो धर्मश्रवणं श्रुतमयी प्रज्ञा । योनिशोमनस्कारश्चिन्तामयी प्रज्ञा । सम्यग्दृष्टिसमुत्पादो भावनामयी प्रज्ञा । उक्तञ्च गाथायाम्-

निषेव्य सन्तं पुरुषं सद्धर्ममुपश्रुत्य च ।
विविक्तदेशाभिरतः तच्चित्तं विनयेत्पुनः ॥ इति ।

तत्र निषेव्य सन्तं पुरुषं सद्धर्ममुपश्रुत्य चेतीयं श्रुतमयी प्रज्ञा । विविक्तदेशाभिरत इतीयं चिन्तमयी प्रज्ञा । तच्चित्तं विनयेत्पुनरितीयं भावनामयी प्रज्ञा । किञ्च भगवान् भिक्षूननुशास्ति- यत्किञ्चिद्भाषमाणैर्युष्माभिश्चतुस्सत्यानि भाषयितव्यानि । यत्किञ्चिच्चिन्तयद्भिश्चतुस्सत्यानि चिन्तयितव्यानि इति । तत्र चतुस्सत्यभाषणं श्रुतमयी प्रज्ञा । चतुस्सत्यचिन्तनं चिन्तामयी प्रज्ञा । चतुस्सत्यानां लाभः भावनामयी प्रज्ञा । एवमादिना तत्र तत्र सूत्रे भगवान् त्रिविधां प्रज्ञामवोचत् ।

(पृ) तिसृषु प्रज्ञासु कति कामधातौ । कति रूपधातौ । कति आरूप्यधातौ भवन्ति । (उ) कामधातौ सर्वा भवन्ति । यथा हस्तक उपासकोऽतप्यद्देवेषूपपद्य तत्र धर्मं देशयति । धर्मं देशयनवश्यं तदर्थं चिन्तयति । अतो ज्ञायते रूमधातावप्यस्ति चिन्तामयी प्रज्ञेति । आरूप्यधातावस्ति भावनामयी प्रज्ञा । (पृ) केचिदाहुः कामधातौ नास्ति भावनामयी प्रज्ञा । रूपधातौ नास्ति चिन्तामयी प्रज्ञेति । (
५१३) कथमिदम् । (उ) केन प्रत्ययेन कामधातौ नास्ति भावनामयी प्रज्ञा । (पृ) न कामधातुकमार्गेण सर्वाणि नीवरणानि सर्वाणि पर्यवस्थानानि प्रजहाति येन कामधातुकपर्यवस्थानं नाभिमुखीभवेत् । (उ) भवतां शासने नेदं वचनमस्ति यत्न कामधातुकमार्गेण नीवरणानि पर्यवस्थानानि प्रजहाति येन कामधातुकपर्यवस्थानं नाभिमुखीभवेदिति । आह च कामधातुकमार्गेण क्लेशान परिभेदयतीति । किमिति । कामधातावस्ति अशुभादिभावना । यथोक्तं सूत्रे- अशुभभावनां भावयन् कामरागं समूहन्ति इति । तथा करुणादावपि । (पृ) कामधातावशुभादिभावना नात्यन्तं क्लेशान् समुच्छेदयति । (उ) रूपधातुकाशुभादिभावनापि नात्यन्तं क्लेशान् समुच्छिन्द्यात् । (पृ) दौष्ठुल्याद्याकारैः क्लेशान् प्रजहाति । नाशुभादिना । (उ) दौष्ठुल्यादिना क्लेशान् प्रजहाति नाशुभादिना इति नास्ति किञ्चन सूत्रवचनम् । उक्तं हि सूत्रे- अशुभादिना क्लेशान् समूहन्ति इति । दौष्ठुल्यादीनां किमस्ति बलं क्लेशानां समुच्छेदकम् । [यत्] नास्त्यशुभादीनाम् । यदि कामधातौ दौष्ठुल्याद्याकारोऽस्ति । अनेनाकारेण क्लेशान् समुच्छिन्द्यात् । यदि नास्ति, वक्तव्यं कारणं कस्मादस्ति अशुभादिः, न दौष्ठुल्यादिरिति । यदि सन्नपि न क्लेशान् समुच्छेदयति । रूपधातौ सन्नपि न समुच्छिन्द्यात् । अत्रापि कारणं वक्तव्यं कस्मात्कामधातौ न समुच्छेदयति । रूपधातौ परं समुच्छेदयतीति ।

कामधातौ सन्नपि दौष्ठुल्यादिर्न क्लेशान् समुच्छेदयति । अस्ति विक्षेपधातुत्वात् । विक्षिप्तचित्तो न किञ्चित्समुच्छेदयति । ययोक्तं सूत्रे- चित्तसमाधानं मार्गः चित्तविक्षेपोऽमार्ग इति । (उ) कारणं वक्तव्यं कस्मात्कामधातुर्विक्षेपधातुरिति । तत्रास्ति अशुभादिभावना यद्ययं विक्षेपधातुः । कथं कङ्कालादि विलक्षणं पश्यति । रूपधातौ च चित्तसमाधाने (
५१४) कस्य वैलक्षण्यमस्ति । कामधातो तु नास्ति । (पृ) रूपधातुकमार्गेण वैराग्यमनुप्राप्य तदन्तरा म्रियमाणो रूपधातावुत्पद्यते । यथा आणिराणिं निस्सारयति । (उ) किं नाम वैराग्यम् । (पृ) क्लेशप्रहाणं वैराग्यम् । रूपधातुकर्मार्गेण क्लेशान् प्रजहाति । न कामधातुकेन । (उ) तीर्थिकाः प्रहीणसंयोजना अपि पुनः कामधातौ समुत्पद्यन्ते । अतः [ते] प्राकृता न प्रहीणसंयोजना इत्युच्यन्ते । यदि [संयोजनानि] प्रहाय पुनरुत्पद्यते । तदा अनास्रवः क्षीणसंयोजनोऽपि पुनरुत्पद्येत । तत्तु न सम्भवति ।

अपि चोक्तं सूत्रे- क्षीणत्रिसंयोजनस्त्रीणि विषाणि समूहन्तीति । प्राकृतो न त्रीणि संयोजनानि क्षपयतीत्यतो न वीतरागो भवति । प्राकृतस्य नित्यमस्ति आत्मदृष्टिः । यतः स न सत्कायदृष्ट्यादीन् क्षपयति । यदि प्राकतो वैराग्यकुशलः, सर्वेऽपि क्लेशा न स्युः । कस्मात् । सर्वे हि क्लेशाः प्रतीत्यसिद्धाः । यथोक्तं सूत्रे- प्रत्ययेभ्य आत्मा सिध्यतीति । यदि पृथग्जनस्यास्य कामधातुकपञ्चस्कन्धेषु सत्कायदृष्टिर्नोद्भवति । ऊर्ध्वधातुकस्कन्धेषु पुनर्न भवेत् । तदा तु पृथग्जनस्य न सत्कायदृष्टिर्भवेत् । इत्यस्तीदृशो दोषः । एवं क्लेशैरत्यन्तक्षीणैर्भवितव्यम् । पृथग्जनोऽयमर्हन् स्यात् । वस्तुतस्तु [तस्य] क्लेशा नैकान्तं क्षीणाः । यथोक्तं सूत्रे- द्वाविमौ भिक्षवः अशन्या फलन्त्या न सन्त्रसतः । [कतमौ द्वौ] भिक्षुश्च क्षीणास्रवो राजा च चक्रवर्ती इति । इदानीमयं पृथग्जनोऽपि न सन्त्रसेत् । अर्हन्नाभिनन्दति जीवितं, नाभिसन्त्रसति मरणम् । अयं [पृथग्जनो]ऽपि एवं स्यात् । यथा उपसेनोऽर्हनाशीविषदष्टो जीवितान्तेऽविरूपेन्द्रियोऽविकृतरूपश्च बभूव । तथायमपि स्यात् । अर्हतोऽष्टौ लोकधर्मा न चित्तमवपातयन्ति । (
५१५) तथा स्यादयमपि । वीतरागत्वात् । वस्तुतस्तु पृथग्जनस्य वीतराग इति कथ्यमानस्यापि नेदं लक्षणं स्यात् । अतो ज्ञायते न क्षीणक्लेशो [ऽय]मिति ।

(पृ) पृथग्जनः संयोजनानि प्रहाय अत्रायुषोऽन्ते रूपधातावुत्पद्यते । यदि संयोजनानि न प्रजहाति । कथं तत्रोत्पद्येत । सूत्रेऽप्युक्तम्- अस्ति वीतरागस्तीर्थिक इति । आह च अराडः कलाम उद्रको रामपुत्रो रूपे वीतराग आरूप्य उत्पद्यत इति । किञ्चाह- रूपेण कामं विजहाति । अरूपेण रूपं विजहाति । निरोधेन स्मृत्युपस्थानानि विजहातीति । अतो [यत्]भवतोक्तं पृथग्जनः क्षीणक्लेशोऽपि पुनरुत्पद्यत इत्यतो न क्षीण[क्लेश] इति । तन्न युज्यते । भवानप्याह- पृथग्जनस्य सर्वाणि विद्यमानानि प्रहीणानीति इदं वस्तुतः प्रतिषिद्धमित्यतः क्षीणो वीत इत्युच्यते । यथोक्तं गाथायाम्-

अहं ममेति या चिन्ता म्रियमाणो जहाति ताम्

अयमेव वीतरागो नाम । तीर्थिकानां प्रहाणन्तु मरणप्रहाणादन्यत् । मरणप्रहीणो न रूपारूप्यधातावुत्पद्यते । यो बालः स्वभूमिं त्यजति तं सत्कृतवतामपि नास्ति महाविपाकः । यदि वीतरागं तीर्थिकं सत्करोति, महाविपाकं विन्दते । वचने समानेऽपि तदर्थस्तु विभिन्नः । अतो ज्ञायते पृथग्जनो वस्तुतः प्रहीण[क्लेशो] वीत[राग] इति ।

(उ) प्रतिषेधेऽस्ति प्रविभागः । यदि गभीरक्लेशव्यावर्तकः तदा रूपारूपधातावुत्पद्यते । यदि सत्कायदृष्टिं व्यावृत्तवान् तदा पूर्वोक्तो दोषः । यदि कामधातुकसत्कायदृष्टिं न व्यावृत्तवान् । कथं रूणरूप्यधातावुत्पद्यते । व्यावृत्तरागप्रतिघमात्रस्य रूपधातावुत्पादः । न व्यावृत्तसत्कायदृष्टिकस्य । अतः पृथग्जनो न वस्तुतः प्रहीणसंयोजन इति ज्ञायते । कामधातुकसद्धर्मोऽपि क्लेशव्यावर्तकोऽस्ति । अतो ज्ञायते कामधातावपि भावनामयी प्रज्ञास्तीति । सूत्रेऽप्युक्तम्- सप्तनिश्चयानतिक्रम्य सम्बोधिं विन्दत इति । अतो ज्ञायते कामधातुनिश्रितः समाधिस्तत्त्वज्ञानजनक इति ।
(
५१६)
(पृ) पुग्दलोऽयं प्रथमध्यानस्यासन्नभूमिं निश्चित्यार्हन्मार्गमनुप्राप्नोति । न कामधातुकसमाधिम् । (उ) न युक्तम् । अतिक्रम्य सप्तनिश्रयानिति वचनेन प्रथमध्यानं तदासन्नभूमिश्चातिक्रान्तैव । न तत्रास्ति कारणमासन्नभूमिं निश्रयते न कामधातुकसमाधिमिति । यद्ययं योगी आसन्नभूमिमुपसन्नः । कस्मान्न प्रथमध्यानमुपसम्पद्यते । अस्यापि नास्ति कारणम् । सुसीमसूत्रे चोक्तम्- पूर्वं खलु धर्मस्थितिज्ञानं पञ्चान्निर्वाणज्ञानमिति । अस्यार्थः नावश्यं ध्यानसमाधिप्राप्तिपूर्वक आस्रवक्षयः । किन्तु धर्मस्थितिज्ञानमवश्यं पूर्वं कृत्वा पश्चादास्रवक्षयो भवतीति । अतो ज्ञायते सर्वान् ध्यानसमाधीनतिक्रामतीति । ध्यानसमाधिसमतिक्रमाय सूसीमसूत्रमाह । यद्यासन्नभूमिं वेदयते । स एव ध्यानसमानदोषः । सूत्रे चासन्नभूमिरिति वचनं नास्ति । स्वसंज्ञानुस्मरणविकल्पोऽयम् ।

(पृ) पूर्वमुक्तो मया आणिदृष्टान्तः । अतो ज्ञायते अन्यभूमिकमार्गेणान्यभूमिकसंयोजनं प्रजहातीति । यथा सूक्ष्मयाण्या स्थूलाणिं निस्सारयति । एवं रूपधातुकमार्गेण कामधातुं प्रजहाति । योगी यदि पूर्वं काममकुशलधर्मांश्च प्रजहाति । तदुत्तरं प्रथमध्यानेऽवतरति । अतो ज्ञायतेऽवश्यमस्त्यासन्नभूमिः यया कामं प्रजहाति । आह च- रूपमुपादाय काममतिक्रामतीति । यदि नास्त्यासन्नभूमिः । कथं रूपमुपादद्यात् । उक्तञ्च सूत्रे- योगी शुभं प्रतिलभमानोऽशुभं त्यजति तद्यथा नन्दः अप्सरतृष्णामुपादाय पूर्वतनकामं जहौ इति । यश्च प्रथमध्याने नोपशमरसमनुविन्दते, न स पञ्चकामगुणेषु महावद्यमतिं करोति । अतो ज्ञायते पूर्वं प्रथमध्यानस्यासन्नभूमिमनुप्राप्य कामधातुमुत्सृजतीति ।

उच्यते । कामधातौ शुभमनुप्राप्याशुभं प्रजहति । तद्यथाह- पञ्चनिस्सरणस्वभावा इति । यद्यार्यश्रावकः कदाचित्पञ्चकामगुणा न प्रीतिसौमनस्यजनका इत्यनुस्मरति । तदा तच्चित्तं नाभिरमते सिरापक्षदाहवत् । यदि [ते] निस्सरणधर्मा इत्यनुस्मरति । तदा चित्तमभिरमते । आह च- योगिनो यदाकुशलवितर्को भवति । तदा कुशलवितर्केण तं निरोधयति । तस्माद्भवदुक्त आणिदृष्टान्तोऽपि कामधातौ सम्भवति । यत्भवानाह- (
५१७) रूपमुपादाय काममतिक्रामतीति । इदं चरमभविकम् । योगी यदि कामधातुकमार्गेण क्लेशान् प्रजहाति । तदनुक्रमशो यावद्रूपधातुककुशलधर्मान् प्रतिलभते । तस्मिन् समये कामधातोरत्यन्तप्रहाणं नाम रूपधातुकधर्मप्रतिलाभः । भवानाह- निरोधसमापत्तिं प्रतिलभत इति । अर्हन्नपि समाधीन् प्रतिलभते । किन्तु तच्चरमभविकमित्युच्यते । यद्भवतोक्तं- शुभं प्रणीतं प्रमोदमुपशमरसञ्च प्रतिलभमान इति । तत्सर्वं सामान्यतः प्रत्युक्तम् ।

यदि च कामधातौ नास्ति समाधिः । कथं व्यग्रचित्तेन रूपधातुककुशलं साक्षात्करोति । (पृ) प्रज्ञाविमुक्तस्यार्हतो नास्ति समाधिः । प्रज्ञा परमस्ति । (उ) तत्र ध्यानसमाधिमात्रस्य निषेधः । अवश्यं भवितव्यमल्पकालं समाहितचित्तेन यावदेकं क्षणम् । यथा सूत्रे भगवानाह- भिक्षूणां चीवरं गृह्णतां त्रिषु [क्लेश] विषेषु सत्स्वपि चीवरासङ्गो निरुद्ध एवेति । व्यग्रचित्तस्य तत्त्वज्ञानमुत्पद्यत इति न किञ्चित्सूत्रमाह । सर्वथाह- समाहितो यथाभूतं प्रजानातीति ॥

त्रिविधप्रज्ञावर्गश्चतुर्वनवत्युत्तरशततमः ।


१९५ चतुः प्रतिसंविद्वर्गः

(पृ) अस्ति धर्मस्थितेः प्रत्यासन्नं लौकिकं ज्ञानम् । कतमदिदम् । (उ) इदमूष्मादिधर्मे प्रज्ञप्तिविदारकं ज्ञानम् । ज्ञानमिदं सांवृतसत्यदर्शन[रूप]त्वात्लौकिकम् । आर्यमार्गस्य प्रत्यासन्नत्वात्धर्मस्थितेः प्रत्यासन्नमित्युच्यते । (पृ) इदं सत्यदर्शनमार्गे अनागतभावनादीनां ज्ञानम् । (उ) अनागतभावनादीनां ज्ञानं नास्तीति पश्चाद्वक्ष्यते । कस्मात् । धर्मलक्षणविदारणे हि नास्ति प्रज्ञप्तिचित्तम् । अतः सत्यदर्शनमार्गे न लौकिकं ज्ञानं भावयति ।

(पृ) सूत्र उक्तम्- चतस्रः प्रतिसंविद इति । कतमा इमाः । (उ) अक्षरेषु, (
५१८) या प्रतिसंवित् । इयं धर्मप्रतिसंवित् । रुतेषु प्रतिसंवित्निरुक्तिप्रतिसंवित् । यदुत [नाना]दिगन्तरव्यवहृतरुतविशेष[ज्ञान]म् । यथोक्तं सूत्रे- जनपदनिरुक्तौ नाभिनिवेशेत योगी इति । रुतस्याप्रयोगेऽर्थो दुरधिगमः । अक्षराभावेऽर्थो न प्रकाश्यो भवति । इयमेव निरुक्तिरकुण्ठा अक्षया असन्दिग्धं सुभाषितमित्युच्यते । यथोक्तं सूत्रे- सन्ति चत्वारो भाषितधर्माः किञ्चिद्भाषितं सार्थगति नाक्षयकरम् । किञ्चिदक्षयकरं न सार्थगति । किञ्चिदुभयवतिति । किञ्चिन्नोभयवतिति । इदं त्रिविधं ज्ञानं निरुक्त्युपायः । नामपदज्ञाने यदर्थप्रतिसंवेदनम्, इयमर्थप्रतिसंवित् । यथाह- सन्ति चत्वारो भाषितधर्माः कश्चिदर्थोपायः न व्यञ्जनोपायः । कश्चिद्वयञ्जनोपायो नार्थोपायः । कश्चिदुभयोपायः । कश्चिन्नोभयोपायः । य एतच्चतुःप्रतिसंवित्प्राप्तः स उपायसम्पन्नो दुष्प्रधृष्यो दुरधिगम्यो धर्मभाषणे । [तस्य] सुभाषितमक्षय[कर]मपि सार्थगति । प्रज्ञानवसन्ना वचननिरुक्तिश्चा प्रतिहता भवति ।

(पृ) प्रतिसंविदियं कथं प्रतिलब्धव्या भवति । (उ) पूर्वाध्वनीनकर्मप्रत्ययात् । यदि प्रत्यध्व प्रज्ञाप्रत्ययं स्कन्धाद्युपायञ्च सम्यग्भावयति । तदा तद्भावनाबलादिहैवाध्वनि अशिक्षिताक्षरसूत्राध्ययनोऽपि [तत्र] ज्ञानं विन्दते । यथा दिव्यचक्षुरभिज्ञादिषु । (पृ) कतमः पुद्गलः प्रतिलभते । (उ) आर्यपुद्गल एव प्रतिलभते । केचिदाहुः- अर्हन्नेव (
५१९) प्रतिलभते । न शैक्षजना इति । नायं तथा नियमः । शैक्षा अपि अष्टविमोक्षान् विन्दते । कस्मान्न प्रतिलभन्त इदं ज्ञानम् ।

(पृ) चतस्र इमाः प्रतिसंविदः कस्मिन् धातौ वर्तन्ते । (उ) कामधातौ रूपधातौ च सर्वा भवन्ति । आरूप्यधातौ केवलमर्थप्रतिसंविदस्ति । प्रतिसंविद्द्विविधा भवति सास्रवा अनास्रवेति । शैक्षाणां द्विविधा च भवति । अशैक्षाणां केवलमनास्रवा । प्रतिलाभे तु सर्वा युगपद्विन्दते । स्त्रियोऽपि प्रतिलभन्ते यथा धर्मदिन्नादयो भिक्षुण्यः ॥

चतुःप्रतिसंविद्वर्गः पञ्चनवत्युत्तरशततमः ।


१९६ पञ्चज्ञानवर्गः

पञ्च ज्ञानानि- धर्मस्थितिज्ञानं, निर्वाणज्ञानमरणाज्ञानं प्रणिधिज्ञानं प्रान्तकोटिकज्ञानमिति । तत्र धर्माणामुत्पादज्ञानं धर्मस्थितिज्ञानम् । यथा जातिप्रत्ययं जरामरणं यावदविद्याप्रत्ययाः संस्कारा इति । अस्ति वा तथागतो नास्ति वा तथागतः । एषां स्वभावः सदा स्थित इत्यतो धर्मस्थितिज्ञानमित्युच्यते । एषां धर्माणां निरोधो निर्वाणज्ञानम् । यथा जातिनिरोधे जरामरणनिरोधः । यावदविद्यानिरोधे संस्कारनिरोध इति ।

(पृ) तथा चेत्निर्वाणज्ञानमपि धर्मस्थितिज्ञानं भवति । कस्मात् । यतः अस्ति वा तथागतो नास्ति वा तथागतः । अस्य स्वभावोऽपि सदा स्थितः । (उ) धर्माणां क्षयनिरोधो निर्वाणमित्याख्यायते । अस्मिन् क्षयनिरोधे को धर्मः स्थितः । (पृ) निर्वाणं किमद्रव्यमसत् । (उ) स्कन्धानामशेषनिरोधो निर्वाणमिति कीर्त्यते । तत्र किमस्ति [अवशिष्टम्] । (पृ) द्रव्यसत्निर्वाणम् । तत्केन ज्ञायते । निरोधसत्यं हि निर्वाणम् । दुःखादीनां सत्यानां वस्तुसत्त्वात्निर्वाणमपि वस्तुसत् । किञ्च निर्वाणस्य ज्ञानं निरोधज्ञानं भवति । यद्यसन् धर्मः । कस्य धर्मस्य ज्ञानमुत्पद्यते । सूत्रे च भगवानवोचत्- अस्ति, भिक्षवः कृतको जातो भूतः संस्कृतधर्मः । अस्ति (
५२०) [भिक्षवः] अकृतकोऽजातोऽभूतोऽसंस्कृतधर्म इति । अपि चोक्तम्- सन्ति द्विधैव धर्माः संस्कृतोऽसंस्कृत इति । संस्कृतधर्म इति उत्पादस्थितिव्ययविकृतः । असंस्कृत अनुत्पादस्थितिव्ययविकृतः । किञ्चोक्तं सूत्रे- ये विद्यन्ते संस्कृता वा असंस्कृता वा निरोधो निर्वाणं तेषामग्रमाख्यायते इति । आह च- रूपमनित्यम् । रूपनिरोधे निर्वाणं नित्यम् । एवं यावद्विज्ञानमपि । सूत्रे चोक्तम्- निरोधः साक्षात्कर्तव्य इति । यद्यसन् धर्मः । कतमः साक्षात्कर्तव्यः । भगवान् बहुधातुकसूत्र आह- विद्वान् संस्कृतधातुमसंस्कृताधातुञ्च यथाभूतं प्रजानाति । इति । योऽसंस्कृतधातुः तदेव निर्वाणम् । यथाभूतज्ञातं कथमभाव इत्युच्यते । सर्वेषु सूत्रेषु नास्ति किञ्चिन्नियतं वचनं निर्वाणमसद्धर्म इति । अतो ज्ञायते यन्निर्वाणमसदिति तत्भवतः स्वसंज्ञाविकल्प एवेति ।

उच्यते । यदि स्कन्धानां वियोगेऽपि पुनरस्ति धर्मान्तरं निर्वाणमिति । तदा धर्माणामशेषनिरोधो निर्वाणमिति न स्यात् । यदि निर्वाणं सत् । तदा वक्तव्यः अस्ति स्वभावः कोऽयमिति । निर्वाणालम्बनः समाधिरनिमित्त इत्याख्यायते । यदि धर्मलक्षणमपि सजीवम् । किमसल्लक्षणं भवति । यथोक्तं सूत्रे- योगी रूपलक्षणं प्रहीणं पश्यति यावद्धर्मलक्षणं प्रहीणं पश्यति इति । सूत्रे च तत्र तत्रोक्तम्- सर्वे धर्मा अनित्याः सर्वे धर्मा अनात्मानः । तेषां व्युपशमो निर्वाणमिति । तत्रात्मा सर्वधर्माणां स्वभावः । यत्सर्वधर्माणां स्वभावादर्शनम् । तदा अनात्मदर्शनं भवति । यदि निर्वाणं धर्मः तदा नास्ति स्वभाव इति दर्शनं नोपलब्धुं शक्यते । अस्य धर्मस्य निरोधाभावात् । यथा यत्र घटोऽस्ति । न तत्र घटस्य विनाशधर्मोऽस्ति । घटे विनष्टे तु घटो विनष्ट इति वक्तुं शक्यते । वृक्षच्छेदेऽप्येवम् । एवं संस्कारा अथापि वर्तन्ते । तदा न निर्वाणमित्याख्यायते । संस्काराणां निरोधे तु निर्वाणमित्याख्या भवति ।

दुःखनिरोधश्च न पुनर्धर्मान्तरं भवति । यथोक्तं सूत्रे- यदिदं भिक्षवो दुःखं निरुध्यते अन्यद्दुःखं नोत्पद्यते न पुनस्तत्सन्ततिरस्ति । इदं स्थानं परमं शान्तं शिव यदुत (
५२१) सर्वप्रतिनिस्सर्गः कायिकचैतसिकरागात्यन्तविसंयोगो निरोधो निर्वाणमिति । तत्रेदं दुःखं निरुध्यते । अन्यद्दःखं नोत्पद्यत इति वचने को धर्मो निर्वाणादन्यो भवति । नाप्यस्ति पुनः पृथक्क्षयधर्मः । उत्पन्नमात्रा तृष्णा निरुध्यते, अजाता न जायते । तस्मिन् समये क्षयो नाम । को धर्मः पुनरस्ति क्षय इत्यभिधीयमानः । द्रव्यतो नाभिधातुं शक्यते ।

अथ सत्ता धर्मस्य नामान्तरम् । पञ्चस्कन्धानामभावो निर्वाणमित्युच्यते । तत्राभावो विद्यमानः सन् सत्तेत्युच्येत । इतीदन्तु न सम्भवति । अशेषनिरोधे निर्वाणमित्यभिधीयते । तद्यथा चीवरक्षयः पुनर्न धर्मान्तरमस्ति । तथा नो चेत्चीवरक्षयादिरपि पृथक्धर्मः स्यात् ।

भवानवोचत्- अस्ति निरोधज्ञानमिति । तदप्यबाधितम् । तद्यथा वृक्षच्छेदादौ [वृक्षच्छेद]ज्ञानमुत्पद्यते । न चास्ति पृथक्छेदधर्मः । संस्कारवशात्तत्र ज्ञानमुत्पद्यते । यत्सर्वसंस्काराणामभावः । [तत्] निर्वाणं भवति । यथा यत्र यन्नास्ति तत्र तेन शून्यमिति ज्ञानम् । (पृ) किमिदानीं नास्ति निर्वाणम् । (उ) न नास्ति निर्वाणमिति । किन्तु नास्ति द्रव्यधर्म[रूपम्] । यदि नास्ति निर्वाणम् । तदा सदा सर्वत्र जातिमरणमस्ति । न कदाचिन्मोक्षसमयः । यथा अस्ति घटभङ्गः वृक्षसमुच्छेदः । परं तु नास्ति द्रव्यतो धर्मान्तरमस्तीति । [अनेन] अन्यसत्यादिवचनमपि प्रत्युक्तम् । कस्मात् । अस्ति दुःखनिरोध इत्यतोऽस्त्यजातोऽभूतोऽकृतकोऽसंस्कृत इत्यादिवचनं सर्वमप्रतिहतम् ।

अरणाज्ञानमिति । येन ज्ञानेन न रणायते परेण सह । इदमरणा [ज्ञान]म् । (
५२२) केचिदाहुः- मैत्रीचित्तमिदमिति । मैत्रीचित्तान्न सत्त्वानुपहन्ति । अन्ये केचिदाहुः- शून्यताविहारोऽयमिति । अनेन शून्यताविहारेण न वस्तुना रणायते । केचिद्वदन्तिनिर्वाणाभिरुचिचित्तमिदमिति । निर्वाणाभिरुच्या हि न रणास्पदमस्ति । केचिद्वदन्ति- चतुर्थध्यानगतं [किञ्चिदिद]मिति । नेदं नियमेन तथा । एतज्ज्ञानभावितचित्तस्यार्हतो नास्ति [रणास्पदं] किञ्चित् ।

प्रणिधिज्ञानमिति । धर्मेषु अप्रतिहतं प्रणिधिज्ञानमित्युच्यते । (पृ) तथा चेत्भगवतो बुद्धस्य केवलमिदं ज्ञानं स्यात् । (उ) एवमेव । बुद्धो भगवानेवैतज्ज्ञानसम्पन्नः । अन्ये [त]द्बलाधिष्ठिता अप्रतिहत[ज्ञानं] विन्दन्ते ।

प्रान्तकोटिकज्ञानमिति । यत्योगी प्रकृष्टमुत्तमं ज्ञानं सर्वध्यानसमाधिभिः परिभावितं परिवर्धितं प्रतिलभ्य [स्व]जीवितस्य बृद्धौ ह्रासे वशितां विन्दते । इदं प्रान्तकोटिकज्ञानमित्युच्यते ॥

पञ्चज्ञानवर्गः षण्णवत्युत्तरशततमः ।


(
५२३)
१९७ षडभिज्ञाज्ञानवर्गः

अस्ति षडभिज्ञाज्ञानम् । षडभिज्ञाः- कायर्द्धिः द्वियचक्षुः दिव्यश्रोत्रं परचित्तज्ञानं पूर्वनिवासानुस्मृतिरास्रवक्षय[ज्ञान]मिति । कायर्द्धिरिति । योगी स्वकायादपोऽग्निञ्चाविष्करोति । विहायसा गच्छति । आविर्भवति । तिरोभवति । सूर्याचन्द्रमसौ परामृशति । ब्रह्माणमीश्वरं नानानिर्मितांश्चाधिगच्छति । ईदृशं कर्म कायर्द्धिः । (पृ) कथमिदं सेत्स्यति । (उ) योगी ध्यानसमाधीनां सम्यक्भावनया विन्दते । यथोक्तं सूत्रे- ध्यानसमाधानस्य बलमचिन्त्यमिति । केचिदाहुः- निर्माणचित्तमव्याकृतमिति । इदमयुक्तम् । यद्ययं योगी परहिताय नानानिर्मितं प्रदर्शयति । कस्मात्तदव्याकृतं भवेत् । केचिदाहुः- कामधातुकचित्तेन कामधातुकनिर्मितं करोति । रूपधातुकचित्तेन रूपधातुकनिर्मितं करोतीति । तदप्ययुक्तम् । चक्षुराद्यपि एवं स्यात् । कामधातुकविज्ञानेन कामधातुकरूपमेव पश्येदित्यादि । यदि रूपधातुकचित्तं कामधातुकचित्तं करोति । को दोषोऽस्ति । केचिदाहुः- प्रथमध्यानाभिज्ञया ब्रह्मलोकं गच्छति यावच्चतुर्थध्यानाभिज्ञया रूपपर्यन्तं गच्छतीति । इदमप्ययुक्तम् । इन्द्रियबलवशात्यत्र कुत्रचित्गच्छति । यदि तीक्ष्णेन्द्रियः, प्रथमध्यानाभिज्ञया चतुर्थध्यानमनुप्राप्नोति । मृद्विन्द्रियो द्वितियध्यानाभिज्ञयापि न प्रथमध्यानमुपयोजयति । यथा महाब्रह्मा [सहां] पतिः ध्यानस्यान्तरमनुप्राप्तः । न तत्रास्ति [तस्या]भिज्ञा । प्रथमध्यानबलेन अन्यान् ब्रह्मदेवाननुप्राप्नोति । नैव तु प्रथमध्यानेन ब्रह्मावासं प्रजानाति । भगवान् पूर्वनिवासेन आरूप्यमनुस्मरति । यथोक्तं सूत्रे रूपे वा आरूप्ये वा पूर्वतनीनमुपपत्त्यायतनं भगवान् सर्वं प्रजानाति । अतो नास्ति नियमः ।

(
५२४)
केचिदाहुः- दिव्यचक्षुः प्रज्ञास्वभावमिति । तदप्ययुक्तम् । दिव्यचक्षुरालोकवशेन सिद्धम् । प्रज्ञा तु नैवम् । (पृ) सूत्र उक्तम्- आलोकलक्षणं भावयन् ज्ञानदर्शनं साधयति इति । ज्ञानदर्शनमेव दिव्यचक्षुः । (उ) मैवम् । अपि चाह- दिव्यश्रोत्रं न प्रज्ञास्वभावमिति । तत्श्रोत्रमित्याख्यायते इति । अतो न प्रज्ञास्वभावम् । दिव्यचक्षुः प्रत्युत्पन्नं रूपमालम्बते । न तथा मनोविज्ञानम् । दिव्यचक्षुर्विभङ्गे चोक्तम्- ज्ञानं सत्त्वकर्मविपाक[भूत]म् । चक्षुर्विज्ञानस्य नास्ति बलमिदम् । किन्तु मनोविज्ञानस्य ज्ञानं चक्षुर्विज्ञानप्रयोगकाले समुत्पद्यते । अतो ध्यानसमाधिभ्य उत्पन्नं रूपं दिव्यचक्षुरित्युच्यते । (पृ) दिव्यचक्षुषः संस्थानं किं महत्किं वाल्पम् । (उ) तारकाप्रमाणसदृशम् । (पृ) अन्धस्य कथम् । (उ) चक्षुरायतनेन सहैव भवति । (पृ) किं दिव्यचक्षुरेकमुत द्वे । (उ) द्वे भवतः । (पृ) यां काञ्चिद्दिशमनुपश्यति । (उ) सर्वा दिशो व्याप्य पश्यति । (पृ) किं निर्मितेऽप्यस्ति । (उ) नास्ति । निर्मातुरस्ति । दिव्यश्रोत्रवादोऽप्येवम् ।

योगी तत्परचित्तं वेत्ति । यत्परचित्तज्ञानम् ।(पृ) कस्मान्नोच्यते परचैतसिकज्ञानम् । (उ) अस्मादेव कारणान्नास्ति पृथक्चैतसिकम् । परकीयसंज्ञावेदनादीनां ज्ञानमपि परचित्तज्ञानमेव । केचिदाहुः- ज्ञानमिदं सजातीयालम्बनम् । यथा सास्रवेण सास्रवं जानाति अनास्रवेण अनास्रवं जानाति इति । तदयुक्तम् । नेमे वदन्ति कारणनियमम्- अनेन कारणेन सजातीयमेवालम्बनं जानातीति । केचिद्वदन्ति- प्रत्युत्पन्नमात्रालम्बनमिति । तदप्ययुक्तम् । किञ्चिदनागतालम्बनम् । यथा कश्चिदवितर्कसमाधिमुपसम्पन्नः प्रजानाति अस्मात्समाधेर्व्युत्थिते एवमेवं वितर्को भविष्यतीति । केचिद्वदन्ति- ज्ञानमिदं न मार्गसत्यं प्रजानातीति । तदयुक्तम् । यदि प्रजानाति । को दोषः । आह च- प्रत्येकबुद्धो मार्गसत्यदर्शनगततृतीयचित्तं ज्ञास्यामीति सप्तमं चित्तमेव पश्यति । श्रावकस्तृतीयचित्तं ज्ञास्यामीति षोडशं चित्तमेव पश्यति । किमयं न मार्गसत्यदर्शनं प्रजानाति । केचिदाहुः- ज्ञानमिदं न प्रजानाति ऊर्ध्वभूमिमूर्ध्व[भूमि]पुद्गलमूर्ध्वमिन्द्रियमिति । इदमप्यनियतम् । देवा अपि प्रजानान्ति भगवतश्चित्तम् । तद्यथा भगवानेकदा परिषदं विहाय पुनर्ग्रहणेच्छामन्वस्मरत् । तत्सर्वं ब्रह्मा प्राजानत् । किञ्चैकस्मिन् समये मनस्यचिन्तयत्- राजा भूत्वा (
५२५) यथाधर्मं लोकं विनेष्यामीति । मारस्तदेव ज्ञात्वा समागत्यायाचत । देवा अपि जानन्ति- अयमर्हन् यावदयं स्रोतआपत्तिप्रतिपन्नक इति । भिक्षवोऽपि प्रजानन्ति भगवतश्चित्तम् । तद्यथा भगवति परिनिर्वाणाभिमुखे सति अनिरूद्धो भगवतोपसम्पन्नान् ध्यानसमाधीन् यथाक्रममजानीत् । केचिदाहुः- ज्ञानमिदं नारूप्यं प्रजानातीति । इद मयुक्तम् । भगवान् हि पूर्वनिवासा[नुस्मृत्या] आरूप्यं प्रजानाति । परचित्तज्ञानेनापि तथा ज्ञाने को दोषः ।

(पृ) कथं परिचित्तं जानाति । (उ) आलम्बने सति जानाति । यदि चित्तं रूपावचरं, रूपालम्बनं चित्तं भवति । इत्यादि । (पृ) तथा चेत्परचित्तं सर्वधर्मालम्बनं स्यात् । (उ) एवमेव [स्यात्] । यदि न जानात्यालम्बनं, कतमत्चित्तं जानीयात् । यथोक्तं सूत्रे- भवतश्चित्तमेवमेवमिति प्रजानामि इति । इदमेव रूपाद्यालम्बनम् ।

परचित्तज्ञानं त्रिविधम्- निमित्तज्ञानं, विपाकप्रतिलब्धं, भावनाप्रतिलब्धमिति । निमित्तज्ञानमिति यथा अङ्गमन्त्रादिना जानाति । विपाकप्राप्तमिति यथा असुरादीनाम् । भावनाप्रतिलब्धमिति ध्यानसमाधिभावनाबलप्रतिलब्धं परचित्तज्ञानम् । इदमेव षडभिज्ञासु भावनाप्रतिलब्धमित्युच्यते ।

यदतीताध्वनीस्कन्धानामनुस्मरणं [तत्] पूर्वनिवासानुस्मरणम् । (पृ) केषां स्कन्धानामनुस्मरणं करोति । (उ) स्वस्कन्धान् परस्कन्धानसत्त्वस्कन्धांश्चानुस्मरति । जिनानां स्कन्धाननुरमरन्नपि तेषां शीलादीन् धर्माननुस्मरति । केन तत्ज्ञायते । यथा शारिपुत्रः भगवन्तं प्रत्याह- अहमतीतानागतानां तथागतानां चित्तमजानन्नपि तेषां धर्मं जानामीति । शुद्धावासा देवास्तथागतचित्तं जानन्तीत्यतो भगवन्तमुपसम्पद्याहुः- अतीततथागतानां भगवनिर्यापथोऽप्येवमिति ।

(पृ) पूर्वनिवासा[नुस्मृति]विभङ्गे कस्मादुक्तं सह निमित्तेन सह जात्येति । (उ) अनुस्मृतिर्विशदेत्यत एवं निमित्तसंज्ञामवोचतमुकः पुद्गलः इत्यादि । वस्तुविज्ञानेन निमित्तमित्युच्यते । जातिर्नाम गोत्रम् । यथाहुः- इदं तव कुलमियं तव जातिरिति । जातिं निमित्तञ्च मिलित्वा वदतीत्यतो ज्ञानदर्शनं विशुद्धम् । (पृ) कस्माद्विशदानुस्मरणं भवति । (उ) अतीतधर्मा निरुद्धा न निमित्तानि । अथापि तान् ज्ञातुं प्रभवतीदमद्भुतम् । (
५२६) कश्चिन्निमित्ताभ्युहेन जानन्न विशदं जानाति । यज्जिनौरसाः [ते]ऽपि पुनरेवम् । अतो जातिं निमित्तं मिलित्वोक्तम् ।

कश्चित्पूर्वनिवासज्ञानं प्रयोजयति । कदाचित्समार्गया चिन्तामयप्रज्ञया प्रजानात्यतीतमध्वानम् । यथा संस्कारप्रत्ययं विज्ञानम् । अनयोर्द्वयोश्चिन्तामयी प्रज्ञा विशिष्यते । कस्मात् । अस्ति हि पुद्गलस्य अष्टमहासहस्रकल्पान् जानतोऽपि नास्तीयं चिन्तामयी प्रज्ञा । अतो मिथ्यादृष्टिरुत्पद्यते । यदि त आगतं जरामरणं भवति । तदतीत्य न पुनरस्ति [इति] । समार्गचिन्तामयप्रज्ञस्य नैवास्ति तच्चित्तम् ।

(पृ) केचिदाहुः- ज्ञानमिदमतीतं क्रमशोऽनुस्मरतीति । तदयुक्तम् । यदि क्षणक्रमेणानुस्मरति । एकस्मिन्नेव कल्पे वस्तु दुर्विज्ञेयं सर्वतः । किं पुनरप्रमाणकल्पे (पृ) सूत्रे कस्मादुक्तम्- अहमेकनवतिकल्पानागत्य नापश्यं [किमपि] दानमपचीयमानं विना विपाकेन इति । (उ) भगवानत्र सप्तबुद्धान् साक्षीचकार । दीर्घायुष्काः शुद्धावासा अपि बुद्धैर्न समदर्शिनः । भगवान् यथाभूतज्ञानं प्रतिलब्धवानित्यतः परिशुद्धगुणः । यदि सत्करोति [तथागतं] स उभयोर्लोकयोः पुण्यमनुप्राप्नोति । अत एतदुभयमुक्तम् ।

केचिदाहुः- ज्ञानमिदं नोर्ध्वभूमिं प्रजानातीति । तदयुक्तम् । ऊर्ध्व[भूमिक] कायर्द्ध्यादौ प्रत्युक्तमेव । (पृ) यदि स्मृतिस्वभावमिदम् । कुतो ज्ञानमित्युच्यते । (उ) स्मृतिर्निमित्तमनुसम्भवति । अतीतं न निमित्तम् । अथाप्यनुस्मरति । प्रज्ञाविशेषमेव स्मृतिरिति ब्रूमः ।

पूर्वनिवासानुस्मृतिस्त्रिविधा- पूर्वनिवासज्ञानप्रयोगिणी, विपाकप्रतिलब्धा, पुनरात्मस्मृतिसञ्जननीति । पूर्वनिवासज्ञानं भावनाप्रतिलब्धम् । विपाकप्रतिलब्धमिति यथासुरादीनाम् । पुनरात्मस्मृतिसञ्जननी यन्मनुष्यगतौ भवति । (पृ) केन कर्मणा पुनरात्मसञ्जननी भवति । (उ) सत्त्वानामविहिंसनेन कर्मणा प्रतिलभते । कस्मात् । मरणकाल उपपत्तिकाले च दुःखाभिहतत्वान्मुषितस्मृतिर्भवति । तत्रामोषणं दुर्लभम् । अतः कुशलं कर्मापेक्ष्यते । केचिद्वदन्ति- इदमतीतं सप्ताध्वपरममनुस्मरतीति । नायं नियमः । कश्चित्प्रत्यध्वमविहिंसनधर्मसुभावितत्वात्सुचिरं विप्रकृष्टञ्चानुस्मरति ।

आस्रवक्षयज्ञानसाक्षात्काराभिज्ञेति । वज्रोपमसमाधिरयम् । (
५२७) वज्रोपमसमाधिरयमास्रवक्षयरूपः अनावरणमार्गः । आस्रवक्षयः अशैक्षज्ञानमित्युच्यते । वज्रोपमसमाधिना आस्रवाणां निरोधः क्षयः । [स] आस्रवक्षयज्ञानसाक्षात्काराभिज्ञेत्युच्यते । (पृ) अन्ये ऋद्धि[पादा] अपि वक्तव्याः; केन धर्मेण साक्षात्करोति । (उ) उक्तमेव पूर्वं ध्यानसमाधीन् गभीरं भावयनृद्धिपादान् साक्षात्करोतीति । यत्प्रयोजनमनुसृत्य साक्षात्कारः साक्षात्कृतं वस्तु, [स] सर्व ऋद्धिपादः ।

केचिदाहुः- सर्व आर्यमार्गा अस्रवक्षयस्योपायाः । यथोक्तं सूत्रे- तथागते लोक उत्पन्ने सुपुरुषा धर्मं श्रुत्वा प्रव्रजिताः शीलं समाददाना अपनीतपञ्च नीवरणाः समाधिं भावयन्तः सत्यं पश्यन्ति इत्यादि सर्वमास्रवक्षयस्योपायाः । केचिदाहुः- दानादयः कुशलधर्मा अपि आस्रवक्षयस्य निदानानि । यथोक्तं सूत्रे- योगिनो दानं क्षीणास्रवशून्यानात्मज्ञानं साधयतीति । इदमुच्यते तत्त्वत आस्रवक्षयसाक्षात्काराभिज्ञा इति । अस्यैव धर्मस्य नामान्तरं वज्रोपमसमाधिरिति । निमित्तानि समूहन्तीति वज्रत्वम् । तीर्थिकाः पञ्चाभिज्ञा भवन्ति । तैरस्य तत्त्वज्ञानस्याप्रतिलब्धत्वात् ।

(पृ) अनात्मज्ञानेन आत्मदृष्टिं भिन्द्यात् । कथमनेन कामप्रतिघादि प्रजहाति । (उ) अनात्मज्ञानेन सर्वाणि निमित्तानि निरुन्धे । निमित्ताभावात्सर्वे क्लेशा निरुध्यन्ते । (पृ) अद्येन अनात्मज्ञानेन निमित्तानि निरुन्धे । द्वितीयज्ञानादिना क उपयोगः (उ) निमित्तानि निरुद्धान्यपि पुनरुत्पद्यन्ते । अतो द्वितीयाद्यपेक्षते । (पृ) यदि निरुद्धं पुनरुत्पद्यते । तदा अनवस्थं निमित्तं भवति । तथा सति नार्हन्मार्गः । (उ) अस्त्यवस्था । यथा पश्यामः स्तन्यं शुष्यत्पुनः प्रस्रवति । अस्ति कश्चित्कालः [यदा] स्तन्यं प्रतिरुद्धपयःप्रसूति भवति । तदा अवधिर्भवति । निमित्तमप्येयम् । यथा च तप्तेऽयसि कृष्णलक्षणं निरुद्धं पुनरुत्पद्यते । यावल्लोहितलक्षणमुत्पद्यते । स समयोऽवधिरित्युच्यते । कललादयो दृष्टान्ता अप्येवम् । यस्मिन् समये निमित्तानि निरुद्धानि न पुनरुत्पद्यन्ते । स समयोऽर्हन्मार्गप्रतिलम्भः । (पृ) किमर्हतोऽत्यन्ताभावरूपाणि निमित्तानि । (उ) यदा असमाहितचित्तस्थः, तस्मिन् समये सन्त्यपि रूपादिनिमित्तानि । किन्तु न दोषजनकानि । यदि किश्चित्चक्षुषा रूपाणि दृष्ट्वा मिथ्यामनस्कारेण मिथ्या विकल्पयति । तदा दोषाजनकानि भवन्ति ।

(पृ) किमनात्मशून्यज्ञानम् । (उ) यद्योगी पञ्चसु स्कन्धेषु प्रज्ञप्तं सत्त्वं न पश्यति । धर्मशून्यत्वात्रूपकायनिरोधं यावद्विज्ञाननिरोधं पश्यति । इदमुच्यते अनात्मशून्यज्ञानम् । (
५२८) (पृ) प्रज्ञप्तिकृता धर्मा नित्यवर्तिनः । [तेषु] तृष्णादयः क्लेशा अपि प्रहेयाः । यथोक्तम्- पदार्था नित्यस्थायिनः । व्यवसायी तु [तत्र] कामतृष्णां प्रजहाति इति । किं निरोधलक्षणमपेक्षते । (उ) सूत्र उक्तम्- यत्किञ्चित्समुदयधर्म, तत्सर्वं निरोधधर्म । तेषु धर्मेषु विरजो धर्मचक्षुः प्रतिलभत इति । यो निरोधेन प्रहाणं तदत्यन्तप्रहाणम् । कश्चिद्योगी रूपेषु वीतरागः कामप्रतिघं क्षपयति । तदर्थं भागवानीदृशीं गाथामवोचत् । किञ्चाह- संस्काराः स्वभावशून्या मायावत् । प्राकृता अज्ञा वदन्ति- ते वस्तुसन्त इति । शैक्षाः पुनः प्रजानन्ति- ते तुच्छा रिक्ता मायावदिति । अर्हन्नपि मायां [किं] न पश्यति । अतो ज्ञायते यया प्रज्ञया धर्माणां निरोधं साक्षात्करोति इयमास्रवक्षयज्ञानसाक्षात्क्रियाभिज्ञेति ॥

षडभिज्ञावर्गः सप्तनवत्युत्तरशततमः ।


१९८ ज्ञानक्षान्तिवर्गः

(पृ) सूत्र उक्तम्- यो योगी सप्तभिरुपायैस्त्रिभिरर्थावलोकनैः समन्वितः सोऽस्मिन् धर्मे क्षिप्रमास्रवक्षयमनुप्राप्नोतीति । किमिदं ज्ञानम् । (उ) सप्तोपाया नाम श्रुतमयी प्रज्ञा चिन्तामयी प्रज्ञा च । कस्मात् । असमाहितचित्त एवं विचारयति- यदिदं रूपम्, अयं रूपसमुदयः अयं रूपनिरोधः इयं रूपनिरोधगामिनी प्रतिपत्, [अयं] रूपास्वादः, [अयं] रूपादीनवः इदं रूपनिस्सरणमिति । (पृ) यदीयं श्रुतमयी चिन्तामयी प्रज्ञा । कस्मादाह- क्षिप्रमास्रवक्षयमनुप्राप्नोतीति । (उ) यद्यपीयं श्रुतमयी चिन्तामयी प्रज्ञा तथाप्येवं पञ्चस्कन्धान् विकल्पयनात्ममतिं विभेदयति । अत आह- क्षिप्रमास्रवक्षयमनुप्राप्नोतीति । त्रिविधावलोकनज्ञानं यदुत संस्कारा अनित्या दुःखा अनात्मान इति । स्कन्धधात्वायतनमुखेन संस्कारान् पश्यतो नास्त्यर्थो हितं वा । (पृ) तथा चेत्पूर्वमादीनव उक्तमेव- अनित्या दुःखा इति । निस्सरणे चोक्तम्- अनात्मान इति । कस्मात्पुनरुच्यते त्रिविधमिदमवलोकनमिति । (उ) त्रिविधाः शिक्षते- पूर्वं श्रुतमयीं चिन्तामयीं प्रज्ञाम् । पश्चात्भावनामयीं प्रज्ञाम् । पूर्वं श्रुतमय्यां चिन्तामय्यां प्रज्ञायामुक्ताः सप्त प्रकाराः । पश्चाद्भावनामय्यां प्रज्ञायां त्रयः प्रकाराः । कस्मात् । यदनित्यं तत्दुःखमिति लक्षणस्य भङ्गो (
५२९) नाम अनित्यस्य भङ्गः नानित्यसंस्काराणां भङ्गः । पूर्वं कामकषायोत्सर्ग उक्तेऽपि नोक्तं कथमुत्सृजतीति । पश्चात्ताबदुक्तं त्रिविधमर्थावलोकनम् ।

(पृ) कतमा अष्ट क्षान्तयः । (उ) यत्किञ्चित्ज्ञानं प्रज्ञप्तिविदारणम्, इयं क्षान्तिरित्युच्यते । क्षान्तिरियमूष्ममुर्धक्षान्तिलौकिकाग्रधर्मेष्व[स्ति] । (पृ) योगिनोऽपि बुद्धे धर्मे सङ्घे शीलदिषु क्षान्तिरस्ति । कस्मादुक्तमष्टाविति । (उ) प्राधान्यादुक्तम् । प्राधान्यं मार्गप्रत्यासन्नता । यथा दुःखे धर्मज्ञानाय दुःखे धर्मक्षान्तिरित्येवमादि । कस्मात् । पूर्वं हि मार्गानुकूलां चिन्तामयीं प्रज्ञां प्रयुज्य पश्चात्प्रत्यक्षज्ञानमनुप्राप्नोति । यथा हस्तिपकः पूर्वं हस्तिपदं दृष्ट्वा तेन ज्ञानेन प्रजानाति- अत्र वर्तत इति । पश्चादभिमुखीकरोति । तथा योग्यपि पूर्वं क्षान्त्यान्वयज्ञाने न निर्वाणमभ्यूह्य पश्चात्तेन ज्ञानेनाभिमुखीकरोति । अतः सूत्र उक्तम्- [एवं] जानन्[एवं] पश्यनास्रवक्षयमनुप्राप्नोतीति ॥

ज्ञानक्षान्तिवर्गोऽष्टनवत्युत्तरशततमः


१९९ नवज्ञानवर्गः

(पृ) केचिदाभिधर्मिका वदन्ति अर्हन् क्षयज्ञानं साक्षात्कुर्वन् सांवृतानि नव ज्ञानानि प्राप्नोति यदुत कामधातुप्रतिसंयुक्तं कुशलमव्याकृतं [ज्ञानं] यावन्नैवसंज्ञानासंज्ञायतनप्रतिसंयुक्तं कुशलमव्याकृतं [ज्ञान]म् । कथमिदम् । (उ) न सर्वोऽर्हन् सर्वान् ध्यानसमाधीन् प्राप्नोति । कथं नव ज्ञानानि प्राप्नुयात् । (पृ) सर्वोऽर्हन् ध्यानसमाधीन् प्राप्नोति । न तु सर्वः समापत्तिमभिमुखीकरोति । (उ) यदि समापत्तिं नाभिमुखीकरोति । कतमा प्राप्तिर्नाम । यथा कश्चिदाह- ग्रन्थं जानामि, तदक्षरमेकन्तु न विजानामीति । तथेदमप्यस्ति । (पृ) यो वीतरागः सन्न प्रथमध्यानसमापत्तिं नाद्यापि प्रत्यक्षीकृतवान् । स आयुषोऽन्ते [ऽपि] न तामुत्पादयति । (उ) सूत्रे तूक्तम्- अस्मिन्नन्तराले समापद्य पश्चात्तां समुत्पादयेदिति । इदानीं कथमस्मिन्नन्तरालेऽसमापन्नस्तां समुत्पादयति । (पृ) यदि (
५३०) रागाद्विरज्यमानस्यातीतानागतानि सर्वाणि ध्यानानि मूलतः प्राप्नानि । तद्विपाकेन [त]दुत्पत्तिं प्राप्नोति । (उ) अनागतं कर्म अकृतमभूतं न विपाकं प्रापयति । अतीतानि ध्यानानि चित्त उत्पन्नचराणि यदि विपाकं प्रयच्छन्ति । तदा अविद्यमानताहानिः । किञ्च नानागतकर्माणि प्राप्नुयात् । यदि प्राप्यमिति, अनागतं सर्वं प्राप्यं स्यात् । कस्य प्रतिबन्धात्प्राप्त्यप्राप्ती स्तः ।

(पृ) यद्यनागतो धर्मो न प्राप्य इति । शैक्षो नाष्टभिरङ्गैः समन्वितः स्यात् । अशैक्षोऽपि दशभिरङ्गैः समन्वितः । कस्मात् । यस्य द्वितीयध्यानादि निश्रित्य सम्यक्धर्मनियामावक्रान्तिर्भवति । सोऽनागते सम्यक्सङ्कल्पं प्राप्नोति । यदि योगी क्षयज्ञानमभिमुरवीकरोति । तदानागतेऽध्वनि सम्य्दृष्टिं प्राप्नोति कश्चिदारूप्यसमाधिं निश्रित्यार्हत्फलं प्राप्नोति । अयमनागते सम्यक्सङ्कल्पं सम्यग्वाचं सम्यक्कर्मान्तं सम्यगाजीवं प्राप्नोति । यदि तृतीयध्यानादि निश्रित्यार्यमार्गं प्राप्नोति । सोऽनागते प्रीतिं प्राप्नोति । एवमादयो धर्मास्तदा न स्युः । अतो ज्ञायते अस्त्यनागतो धर्म इति । यदि च नास्ति अनागत[धर्मः] कथं भावको फलानि ध्यानसमाध्यादीननुप्राप्स्यति । योगी यदा मार्गान्वयज्ञाने वर्तते । प्रथमफलसङ्गृहीतानि सर्वाणि ज्ञानानि समाधींश्च सर्वथानुप्राप्नोति । तथा नो चेत्फलानि गणयित्वा गणयित्वानुप्राप्नुयात् । कस्मात् । फलानि सर्वाण्यभिमुखीकाले प्राप्नुयादितीदं न सम्भवति । अतो ज्ञायते भवेदनागते भावनेति ।

उच्यते । यत्भवतोक्तम्- अङ्गैः समन्वित इति । इदमबाधितम् । कस्मात् । शीलाद्यङ्गानि क्रमशः प्राप्यन्ते नैककालमिति ब्रूमः । अतो नास्ति दूषणम् । यदुक्तं भवता केषाञ्चित्प्राप्तिस्तज्जातीयाता[मपि] । योगिनः [कुत्रचित्] दुःखज्ञानप्राप्तावन्यदुःखज्ञानजातिः प्राप्ता भवति । यथा मनुष्यजातिः प्राप्तेत्यतो मनुष्यलक्षणं प्राप्तं भवति । नापि प्रतिक्षणं क्रमशो मनुष्यलक्षणं प्राप्तमिति । तथेदमपि । (पृ) योगिनो विद्यमानदुःखादीनां ज्ञानानि क्रमिकाणीति सर्वं परिहृतमेव । स्रोतआपत्तिफलसङ्गृहीतानां ज्ञानानां प्राप्तिः पुनरैककालिकी । (उ) अनास्रवज्ञानानि प्राप्तानि तु न परिहीयन्ते । (पृ) यदि पूर्वं (
५३१) प्राप्तानि न परिहीयन्ते । तदा प्राप्तिः प्रयोग इति नास्ति भेदः । कस्मात् । प्राप्तफल एव योगी इत्यादिदोषः । (उ) यदि नास्ति विशेषः । किमवद्यं भवति । यथा सम्पन्नफलोऽपि योगीत्युच्यते । तथेदमपि । पुद्गलोऽयं पुनर्विशिष्टं धर्मं प्राप्नोतीत्यतोऽस्ति प्रविभागः । अतो नास्ति दोषः । यथा समापत्तपञ्चशीलः पुनः प्रव्रज्यासंवरमनुप्राप्नुवन्नपि न मौलिकशीलेभ्यः परिहीयते । प्राप्तफलस्य च मार्गादर्शनादस्ति प्रविभागः । यथा कश्चिदादौ वस्तु जानन्नपि विशिष्टवस्तु[दर्शनाय यतत] इति प्रविभागोऽस्ति । तथे दमपि । अतो ज्ञायते नास्त्यनागतस्य प्राप्तिरिति । किञ्च योगी शून्यानात्मज्ञाने विहरति । तस्मिन् समये कथमनुप्राप्नोति लौकिकं धर्मम् । अतो ज्ञायते क्षयज्ञानप्राप्तौ न लौकिकज्ञानमनुप्राप्नोतीति ।

(पृ) इमानि लौकिकज्ञानानि क्षयज्ञानेन सहार्हतः समाधिसमापत्तिव्युत्थानचित्तक्रियां प्रापयन्ति । (उ) अर्हतश्चित्तं सन्तानेन प्रवर्तमानं प्रतिक्षणं विशुद्धम् । यदि पुनर्नवज्ञानानि प्राप्नोति । चक्षुरादि सर्वं पुनः प्राप्येत । तथा नो चेत्न नवज्ञानानि प्राप्नुयात् । उक्तञ्च- अनागतभावनाया नास्ति हेतुः प्रत्ययो वा इति । कस्मात् । एते हि वदन्ति- सत्यदर्शनमार्गे केवलं निमित्ताभासं ज्ञानं भावयति । चिन्तनामार्गेऽपि निमित्ताभासमनिमित्ताभासञ्च भावयति । सत्यदर्शनमार्गे नोर्ध्वभूमिं भावयति । चिन्तनामार्गे तु भावयति । मार्गान्वयज्ञाने न सांवृतं कुशलं भावयति । अन्यस्मिन् ज्ञाने तु भावयति । आनन्तर्यमार्गे न परचित्तज्ञानं भावयति । श्रद्धाविभुक्तो दर्शनप्राप्तत्वेन परिवर्तमानः सर्वस्मिन्नानन्तर्यविमुक्तिमार्गे न सांवृतं मार्गं भावयति । समयविमुक्तः अकोप्यविमुक्ततया परिवर्तमानो नवानन्तर्य[मार्गेषु] अष्टविमोक्षमार्गेषु संवृतं मार्गं न भावयति । नवमे विमुक्तिमार्गे [तु] भावयति । सूक्ष्मचित्ते न भावयति सर्वमनास्रवम् । एत्येवमादीनां सर्वेषां नास्ति कारणम् । अतो भवान् यदि वा सम्यग्द्येतुं ब्रूयात्यदि वा श्रद्धापयेत् । किञ्च शैक्षभावनया भावना भवति । ऊष्म[गता]दिषु स्थितिकाले उत्तमानि सर्वाणि कुशलमूलानि भावयति । सर्वथा प्रकर्षकरणार्थत्वात् । यथा सूत्रमधीयानस्य सर्वथा वैशद्योपकारो भवति । अत ऊष्मगतादिधर्मकालात्यावत्क्षयज्ञानं सर्वेषां भावना भवति । तथा नो चेत्सद्धेतुर्वक्तव्यः ॥

नवज्ञानवर्ग एकोनद्विशततमः ।


(
५३२)
२०० दशज्ञानवर्गः

दश ज्ञानानि- धर्मज्ञानमन्वयज्ञानं, परचित्तज्ञानं संवृतिज्ञानं, चत्वारि सत्यज्ञानानि, क्षयज्ञानमनुत्पादज्ञानमिति । प्रत्युत्पन्नधर्मज्ञानमेव धर्मज्ञानमित्युच्यते । यथोक्तं सूत्रे- भगवानानन्दमामन्त्र्याह- अस्मिन् धर्मे एवं ज्ञानेन दृष्ट्वा एवं प्रतिबुध्यस्व । अतीतेऽनागतेऽप्येवं जानीहीति । वक्तव्यं प्रत्युत्पन्नधर्मज्ञानमिति । इदानीं प्रत्युत्पन्नमनुक्त्वा केवलमुच्यते धर्मज्ञानमिति । यथोक्तं सूत्रे- बालः प्रत्युत्पन्नं धर्मं बहुमन्यते । ज्ञानी अनागतं बहुमन्यत इति । किञ्चाह- प्रत्युत्पन्नाः कामा अनागताः कामाश्च मारसेना मारधेया मारबन्धना इत्यादौ सर्वत्रोच्यते प्रत्युत्पन्नवादः । इदं संक्षिप्यवचनात्केवलं धर्मज्ञानमित्युच्यते ।

अवशिष्टधर्मज्ञानमन्वयज्ञानमिति वदन्ति । अवशिष्टा इति यदुतातीता अनागता धर्माः । प्रत्युत्पन्नधर्माननु पश्चात्जानातीति अन्वयज्ञानम् । कस्मात् । दृष्टधर्मज्ञानपूर्वकं हि अन्वयज्ञानम् । धर्मज्ञानं नाम दृष्टज्ञानमित्युच्यते । एतद्धर्मज्ञानमनुसृत्य वितर्कितं ज्ञानमन्वयज्ञानमित्युच्यते । (पृ) अन्वयज्ञानमिदमनास्रवं ज्ञानम् । अनास्रवं ज्ञानं कथमन्वयज्ञानं भवति । (उ) लोकेऽप्यस्त्यन्वयज्ञानम् । कस्मात् । धर्मज्ञानमन्वयज्ञानं परचित्तज्ञानं दुःखज्ञानं समुदयज्ञानं निरोधज्ञानं मार्गज्ञानञ्च सर्वं सास्रवमनास्रवमस्ति । इमानि ज्ञानानि ऊष्मगतादिधर्मेषु सास्रवाणि नियामावक्रान्तिप्राप्याणि अनास्रवाणि ।

(पृ) केचिदाहुः- काम[सम्प्रतियुक्तेषु] संस्कारेषु [यदनास्रवं] ज्ञानं [कामसम्प्रतियुक्तानां संस्काराणां] हेतौ [यदनास्रवं] ज्ञानं [कामसम्प्रतियुक्तानां संस्काराणां] निरोधे [यदनास्रवं] ज्ञानं [कामसम्प्रतियुक्तानां संस्काराणां] प्रहाणाय मार्गे [यदनास्रवं] ज्ञानम्, इदमुच्यते धर्मज्ञानम् । रूपारूप्यसम्प्रतियुक्तेषु संस्कारेषु यदनास्रवं ज्ञानं रूपारूप्यसम्प्रतियुक्तानां (
५३३) संस्काराणां हेतौ यदनास्रवं ज्ञानं रूपारूप्यसम्प्रतियुक्तानां संस्काराणां निरोधे यदनास्रवं ज्ञानं रूपारूप्यसम्प्रतियुक्तानां संस्काराणां प्रहाणाय मार्गे यदनास्रवं ज्ञानम्, इदमुच्यतेऽन्वयज्ञानमिति । कथमिदम् । (उ) उक्तं हि सूत्रे- भगवानानन्दमामन्त्र्याह- अतीतएऽनागते चैवं प्रजानीहीति । न किञ्चित्सूत्रमाह- रूपारूप्यसम्प्रतियुक्तेषु संस्कारेषु ज्ञानमन्वयज्ञानमिति । किञ्चोक्तं सूत्रे- योगी अनुस्मरेत्- अहमिदानीं दृष्टरूपेणोपद्रुतो भवामि । अतीतेऽपि रूपेणोपद्रुतोऽभवम्, अनागतेऽपि रूपेणोपद्रुतो भविष्यामीति । अपि चोक्तं सूत्रे- जातिप्रत्ययं जरामरणम् । अतीतेऽनागतेऽप्येवं स्यादिति । तथावोचदश्वघोषबोधिसत्त्वो गाथाम्-

प्रत्यक्षमालोक्य च जन्म दुःखं दुःखं तथातीतमपीति विद्धि ।
यथा च तत्दुःखमिदञ्च दुःखं तथानागतमप्यवेहि ।
[बीजस्वभावो हि यथेह दृष्टो भूतोऽपि भव्योऽपि तथानुमेयः ।]
पत्यक्षतश्च ज्वलनो यथोष्णो भूतोऽपि भव्योऽपि तथोष्ण एव ॥ इति ।

एवमादि दुःखं महावैभाषिका अपि वदन्ति ।

अतीतानागताध्वनीनधर्मज्ञानमेवान्वयज्ञानम् । अस्य च युक्तिरस्ति । कस्मात् । योगी हि अतीतेऽनागामिनि प्रत्युत्पन्ने च दुःखे निर्विद्यते । निर्वेद एव एषु धर्मेषु तत्त्वज्ञानप्रादुर्भावः । यथा प्रत्युत्पन्नाः संस्कारा दुःखम् । तथातीता अनागताः संस्कारा अपि दुःखम् । केन ज्ञानेन अतीतानागतान् धर्मान् जानाति । यदीदं धर्मज्ञानम् । रूपारूप्यसम्प्रतियुक्ताः संस्कारा अपि सन्त्यतीता अनागताः । तेषां ज्ञानमपि धर्मज्ञानं स्यात् । तथा च धर्मज्ञानमेव नान्वयज्ञानमस्ति । यदि रूपारूप्यसम्प्रतियुक्तेषु अतीतानागतेषु संस्कारेषु ज्ञानान्तरमस्तीति । कामसम्प्रतियुक्तेष्वतीतानागतेषु संस्कारेषु च ज्ञानान्तरं भवेत् । तदर्थमेव आभिधर्मिका आहुः- अस्ति प्राप्तिरप्राप्तिरित्यतोऽनुपूर्वेण सत्यं पश्यतीति । कामधातुसम्प्रतिसंयुक्तं दुःखं प्राप्तिः । रूपारूप्यसम्प्रतियुक्तं दुःखमप्राप्तिः । अत एकस्मिन् समय उभयज्ञानं न सम्भवति । यद्यप्राप्तिर्दुःखमन्वयज्ञानेन ज्ञायते । इदानीं कामधातावप्राप्तिर्दुःखमपि अन्वयज्ञानेन ज्ञायेत ।

(
५३४)
(पृ) केन ज्ञानेन संयोजनप्रहाणमार्गो भवति । (उ) [तत्र] धर्मज्ञानमात्रमुपयुज्यते । अन्वयज्ञानमुपायमार्गे वर्तते । (पृ) किं धर्मज्ञानमुपयुज्यते । (उ) दुःखे धर्मज्ञानं निरोधे धर्मज्ञानञ्चोपयुज्यते । कस्मात् । योगी अनित्यं दुःखमिति पश्यन् शून्यमनात्मेति पश्यति । तस्मिन् समये संस्काराणां निरोधं साक्षात्करोति । अन्यत्ज्ञानं सर्वमुपायः । (पृ) किं दुःखं दृष्ट्वा निरोधो भवति । (उ) वेदनाः दुखं पश्यति । तत्रात्ममतिरुत्पद्यते । अतस्तासामपि निरोधं पश्यति । यथोक्तम्- अध्यात्मविमुक्तत्वात्तृष्णायाः क्षये निरोधे स्वत एवार्हन् प्राप्त इत्युच्यते । इति । (पृ) ननु सूत्रे किं नोक्तं सर्वसंस्काराणां प्रहाणं प्रहाणलक्षणमिति । (उ) अयं योगी अध्यात्मनिरोधं साक्षात्कृर्वन् सर्वत्र निर्विण्णः । किञ्च योगी अध्यात्मनिरोधमवश्यं साक्षात्कुर्यात् । नान्यदवश्यनियतम् ।

(पृ) सत्येषु कथं ज्ञानं भवति । (उ) जातिर्दुःखमित्यादि ज्ञानं भवति । (पृ) इदमसमाहितं चित्तम्, कथं ज्ञानं जनयति । (उ) एवं दर्शने सति स्कन्धानामनित्यतादिदोषमपि दृष्ट्वा दुःखनात्मसंज्ञां जनयति । यथोक्तं सूत्रे- [यत्] दुःखं तदनित्यम्, यदनित्यं तदानात्म इति । कस्मात् । चक्षुरादीनामिन्द्रियाणामुत्पादोऽस्ति व्ययोऽस्ति । यद्ययमात्मा, आत्मन उत्पादो व्ययः स्यादित्यतो ज्ञायते अनात्मेति । इदञ्च चक्षुराद्युत्पद्यमानं न कुतश्चिदागच्छति । कृतकमस्तीत्यतोऽनात्मेत्युच्यते । सूत्रे चोक्तं- नास्ति कारक इति । अतो ज्ञायते यदनित्यं तदनात्मेति । एवं योगिनः सम्यकनित्यमनात्म च भावयतः कायचित्तमुपशाम्यति । सर्वसंस्कारेषु समुत्पन्नेषु तेषां विहिंसामनुभवतो दुःखसंज्ञा समुत्पद्यते । निश्चर्मण्या यथा गाव अल्पस्पर्शे [ऽपि] व्यथानुभूयते । तथा योगी अनात्मसंज्ञावशादुत्तमां दुःखसंज्ञां साधयति । मूढस्तु आत्मसंज्ञावशात्सत्यपि महति दुःखे न तदुपायासमनुभवति । इदमुच्यते दुःखज्ञानम् । संस्काराणामुत्पाददर्शनं हेतुज्ञानम् । संस्काराणां व्ययदर्शनं निरोधज्ञानम् । मार्गस्यावराग्रानुसरणं मार्गज्ञानम् ।

(पृ) किमुच्यते क्षयज्ञानम् । (उ) सर्वाणि निमित्तानि क्षपयतीति क्षयज्ञानम् । कस्मात् । शैक्षस्य निमित्तं प्रहीणं पुनरुत्पद्यते । इदन्तु अत्यन्तं क्षपयतीति (
५३५) क्षयज्ञानम् । यथोक्तं सूत्रे- अभूतनिमित्तमिदमभूतं संज्ञामात्रमिति प्रजानतो दुःखानि क्षीयन्त इति । शैक्षाः प्रजानन्ति । अभूतं संज्ञामात्रमात्मेति । तच्चित्तमत्यन्तं प्रहीणमिति क्षयज्ञानमित्युच्यते । यथोक्तं सूत्रे- कश्चिदर्हन् तथागतस्य पुरतो व्याकरोति- भगवता देशितानि न सन्ति मम । नाहमेषु संयोजनेषु पुनर्विचिकित्से । सदा मम समाहितैकाग्रस्य सम्यक्चर्यामनुस्मरतः कामादीन्यकुशलानि न चित्तस्यास्रवा भवन्ति इति । तत्र निमित्तं गृह्णातीत्यतः संयोजनानि भवन्ति । प्रहीणनिमित्तस्य तु संयोजनानि निरुध्यन्ते । शैक्षा निमित्तेऽनिमित्तमिति विहरन्ति । अत आत्ममतिः कदाचिदाविर्भवति । यथा स्थाणुं दृष्ट्वा अयं पुरुष इति संशेरते । अतोऽर्हतः केवलं निर्विचिकित्सस्य प्राप्तिः । सदा अनिमित्तविहारिचित्तत्वात्पूर्वं सत्त्वशून्यतां दृष्ट्वा पञ्चसु स्कन्धेषु न पश्यत्यात्मानम् । पश्चात्धर्मशून्यत्वान्न पश्यति रूपस्वभावं यावद्विज्ञानस्वभावञ्च । अतो ज्ञायते सर्वनिमित्तक्षयः क्षयज्ञानमिति ।

सर्वनिमित्तानामनुत्पादं जानातीत्यनुत्पादज्ञानम् । शैक्षस्य प्रहीणनिमित्तस्य पुनरुत्पादः क्षीणः । अशैक्षस्य निमित्तं क्षीणं न पुनरुत्पद्यते । सर्वनिमित्तानां क्षये निरोधे यत्पुनरनुत्पादः तदनुत्पादज्ञानम् । (पृ) शैक्षोऽपि जानाति अस्ति [मम] क्षयज्ञानमनुत्पादज्ञानमिति । यथानुस्मरति- परिक्षीणत्रिसंयोजनो न पुनरुत्पत्स्य इति । कस्मान्नाह दशाङ्गसमन्वित इति । (उ) शैक्षो न सर्वसंज्ञाः प्रजहाति । अतो नाह- अस्ति [मम] क्षयज्ञानमनुत्पादज्ञानमिति । यथा कश्चित्तत्र तत्र प्रतिबद्ध एकस्मान्मुक्तोऽपि न विमुक्त इत्युच्यते । अस्ति चायमर्थः शारिपुत्रोऽनाथपिण्डदस्य दशाङ्गसमन्वागममवोचतिति । अर्हन् वशिताबलप्राप्तत्वात्प्रजानाति- क्षीणानि [मे] संयोजनानि, न पुनरुत्पत्स्य इति । तथा शैक्षोऽपि । अर्हनशैक्षमार्गं प्राप्तो [यत्] प्रजानाति क्षीणा[मे]जातिरिति । तत्क्षयज्ञानमित्युच्यते । उषितं ब्रह्मचर्यमिति शैक्षचर्यापरित्याग उच्यते । कृतं करणीयमिति करणीयानि सर्वाणि कृत्वा प्रजानाति- अस्माद्भवात्नास्ति भवान्तरमिति । अतो ज्ञायते अर्हन्नेव सर्वेषु करणीयेषु वशितां प्राप्तः क्षयज्ञानेनानुत्पादज्ञानेन च समन्वितः स्यात्, (
५३६) न तु शैक्षा इति । यथा कश्चित्ज्वरार्तो[ज्वरा]नुद्गमकालेऽपि ज्वरीत्युच्यते । यथोक्तं सूत्रे-

सर्वत्र विहता नन्दिः तमस्कन्धः प्रदालितः ।
जित्वा मृत्योर्हि सेनाञ्च विहरामि अनास्रवः ॥ इति ।

परचित्तज्ञानं यथा षडभिज्ञासूक्तम् । पञ्चस्कन्धकलापः सत्त्वः । तत्र ज्ञानं संवृतिज्ञानम् । अनास्रवं ज्ञानं तत्त्वज्ञानम् । इदमनास्रवाभासं ज्ञानाख्यां प्राप्नोतीत्यतः संवृतिज्ञानमिति वदन्ति । (पृ) केचिदाहुः- सर्वे सत्त्वाः समं ज्ञानसमन्विता इति । कथमिदम् । (उ) यो जिनौरसो जानाति धर्माः प्रतीत्यसमुत्पन्ना इति । स प्राप्नोति नान्यः सत्त्वः । ज्ञानाख्यायाः प्रापित्वात् । सर्वे सत्त्वाः संज्ञाप्रयोगमात्रं विजानन्ति । यदि प्राप्नुवन्तीदं ज्ञानम् । [तदा] आभ्यन्तरपृथग्जन इत्युच्यन्ते ।

दशज्ञानवर्गो द्विशततमः ।


२०१ चतुश्चत्वारिंशज्ज्ञानवर्गः

(पृ) सूत्र उक्तम्- चतुश्चत्त्वारिंशत्ज्ञानानि यदुत जरामरणे ज्ञानं, जरामरणसमुदये ज्ञानं, जरामरणनिरोधे ज्ञानं, जरामरणनिरोधमार्गे ज्ञानं, जातिभवोपादानतृष्णावेदनास्पर्शषडायतननामरूपविज्ञानसंस्कारेष्वप्येवम् । कस्मादिदमुच्यते । (उ) निर्वाणे (
५३७) तत्त्वरत्ने विविधैर्द्वारैरवतरति । कश्चित्पञ्चस्कन्धमुखेनावतरति । कश्चित्धात्वायतननिदानद्वारैः, [कश्चित्] सत्यैः एवमादिभिर्द्वारैर्निर्वाणमनुप्राप्नोति । केनेदं ज्ञायते । यथोक्तं सूत्रे- [तद्यथा] नगरस्वामी नगरे निषण्णः स्यात् । [तत्र] किञ्चित्दूतयुगमेकस्मात्द्वारादागत्योपसृत्य नगरस्वामिनो यथाभूतं वचनं निर्यात्य [यथागतमार्गं] प्रतिपद्येत । तथा [अन्यदूतयुगमन्येभ्यो] द्वारेभ्योऽपि । तत्र नगरस्वाम्युपमो योगी । द्वाराणीति स्कन्धधात्वायतनादीनां भावनाया अधिवचनम् । दूतयुगं शमथविपश्यनोपमम् । यथाभूतं वचनं निर्वाणस्याधिवचनम् । इति । दूता नानाद्वारेभ्य आगता अपि एकमेव स्थानमुपसर्पन्ति । एवं स्कन्धधात्वायतनादीनां भावना नानाद्वाराण्युपाया निर्वाणेऽवतरणस्य । यथा राहुल एकान्ते निषण्णो धर्मं चिन्तयनेवं प्रजानाति- ईदृशो धर्म परिकीर्तितं निर्वाणं प्रति अनुप्रयातीति ।

(
५३८)
किञ्च भगवान् धर्मस्यानिशंसायामाह- धर्मोऽयं सर्वान् क्लेशाग्नीन निरोधयतीति निरोध इत्युच्यते । योगिनश्चित्तं प्रशमयतीति प्रशमः । योगिनः सम्यक्परिज्ञानं पराययतीति परायणम् । इत्यादयोऽर्था निर्वाणस्यानिशंसाः । ब्रह्मचर्यमष्टाङ्गमार्ग उच्यते । अष्टाङ्गमार्गे च सम्यग्ज्ञानमेवोक्तम् । अस्य सम्यग्ज्ञानस्यैव फलं यदुच्यते निर्वाणमिति । भगवतोप्रदिष्टं शासनं सर्वं निर्वाणाय भवति । अतो ज्ञायते पञ्चस्कन्धादयो द्वाराणि निर्वाणपरायणानि भवन्ति ।

(पृ) केचिदाभिधर्मिका आहुः- जरामरणज्ञानं दुःखज्ञानमिति । कथमिदम् । (उ) न [युक्तम्] । कस्मात् । न तत्रोच्यते दुःखाकारः । अतो न [तत्] दुःखज्ञानम् । (पृ) इदं कस्य ज्ञानं भवति । (उ) तत्जरामरणस्वभावज्ञानम् । (पृ) उच्यते च जरामरणसमुदयः जरामरणनिरोधो जरामरणनिरोधमार्ग इत्यादि । अतो ज्ञायते इदं दुःखज्ञानमेव स्यादिति । (उ) तत्निदानद्वारं भवति, न सत्यद्वारम् । अतो न तस्य दुःखाकारो वक्तव्यः । [एवं] समुदयादौ वक्तव्यः । लक्षणसाम्यात् । (पृ) अत्र कुतो नोच्यते आस्वादादीनवनिस्सरणादीनां ज्ञानानि । (उ) सर्वाणीमानि अत्र परिगृहीतानि । किन्तु सङ्गीतिकारः संक्षिपन्न [विस्तरश] उवाच ॥

चतुश्चत्वारिंशज्ज्ञानवर्ग एकोत्तरद्विशततमः ।


२०२ सप्तसप्ततिज्ञानवर्गः

(पृ) सूत्र उक्तम्- सप्तसप्ततिज्ञानानि यदुत जातिप्रत्ययं जरामरणमिति [ज्ञानम्] । असत्यां जातौ नास्ति जरामरणमिति [ज्ञानम्] । एवमतीतेऽनागतेऽध्वन्यपि । (
५३९) यदस्य धर्मस्थितिज्ञानम् । [तदपि] अनित्यं संस्कृतं कृतकं प्रतीत्यसमुत्पन्नं क्षयधर्म, विपरिणामधर्म, वियोगधर्म, व्ययधर्म इति ज्ञानम् । यावदविद्याप्रत्ययाः संस्कारा इत्यप्येवमिति । तत्र कस्मान्नोक्तं- जरामरणस्य स्वभावो निरोधो मार्ग इत्यादि । (उ) हितज्ञस्य कृत एवमुक्तं तस्य द्वारत्वमात्रमविष्करोति । अन्यदप्येवं ज्ञेयम् ।

तीर्थिका बहवो निदाने भ्रान्ता वदन्ति- लौकिकानां पदार्थानां हेतुर्लोकात्मक इत्यादि । अतो भगवान् तेषां निदानमात्रमाह । (पृ) जातिप्रत्ययं जरामरणमित्युक्त्वा कस्मात्पुनराह- असत्यां [जाता]विति । (उ) नियमार्थम् । यथा दानं पुण्यस्य हेतुः । शीलेनापि पुण्यं विन्दते । यथोक्तम्- धृतशीलो देवेषूत्पद्यत इति । केचिन्मन्यन्ते- जरा- मरणप्रत्यया जातिरिति । केचिदहेतुका जातिरिति । अतो नियम उच्यते । (पृ) कस्मादतीतेऽनागतेऽध्वनि पुनर्नियम उच्यते । (उ) प्रत्युत्पन्नमतीताध्वनः कदाचिद्भिन्नधर्म भवति यदुतातीतानां सत्त्वानामायुरप्रमाणं प्रभावश्च देवतुल्य इत्येवमादि । आयुरादि भिन्नं जरामरणप्रत्ययोऽपि भिन्नो भवेदिति जना वदेयुरिति भीत्या नियम उच्यते । अनागतेऽप्येवं [वक्तव्यम्] ।

इदं षड्विधं धर्मस्थितिज्ञानम् । अन्यन्नाम निर्वाणज्ञानम् । जरामरणसन्तानकरत्वादुच्यते- अनित्यं संस्कृतं कृतकं प्रतीत्यसमुत्पन्नम् । क्षयधर्म विपरिणामधर्म इत्यनित्याकारः । वियोगधर्म इति दुःखाकारः । व्ययधर्म इति अनात्मशून्याकारः ।

कस्मात्तत्र रूपस्य स्वरूपं निरोधः वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य च स्वरूपं निरोधः । अयं त्रिविधविपश्यनानामर्थ इत्याख्यायते । यथोक्तं सूत्रे- यो भिक्षवः सप्तभिः स्थानोपायैः त्रिभिर्विपश्यनार्थैश्च समन्वितः स क्षिप्रमास्रवाणां क्षयमनुप्राप्नोति । इदमेव निर्वाणज्ञानं भवतीति । इत्यादि निदानज्ञानानि अप्रमाणशतसहस्राणि सन्ति यदुत (
५४०) चक्षुर्विज्ञानमित्यादि । यथोक्तं सूत्रे- चक्षुष कर्म प्रत्ययः । कर्मणः तृष्णा प्रत्ययः । तृष्णाया अविद्या प्रत्ययः । अविद्याया अयोनिशोमनस्कारः प्रत्ययः । अयोनिशोमनस्कारस्य चक्षूरूपं प्रत्ययः । आस्रवाणामयोनिशो मननं प्रत्ययः । आहाराणां तृष्णा प्रत्ययः । पञ्चकामगुणानां कबलीकाराहारादयः प्रत्ययाः । नरकस्याल्पायुषश्च प्राणातिपातादयः प्रत्ययाः । यदिदानीन्तनं दुःखं पूर्वतनीनञ्च दुःखं, सर्वस्याभूतसंज्ञा प्रत्ययः । अभूतसंज्ञायाः कायचित्तयोः प्रियाप्रिये प्रत्ययः । प्रियाप्रिययोः कामरागः प्रत्ययः । कामरागस्य मिथ्यावितर्कः प्रत्ययः इत्येवमादिप्रत्ययानां ज्ञानमप्रमाणमनवधि स्वयमेवोन्नेतव्यम् ॥

सप्तसप्ततिज्ञानवर्गो द्व्युत्तरशततमः ।

[मार्गसत्यस्कन्धः समाप्तः]
शास्त्रं समाप्तम्