सदस्यः:Soorya Hebbar/प्रयोगपृष्ठम्/विशवकविमासः

आषाढस्य प्रथमदिवसे कालिदासस्य जन्मदिनम् इति विदुषाम् अभिप्रायः । तस्माद् दिनाद् आरभ्य मासं यावत् कालिदासीयकृतीनां पाठशुद्धिः विकिस्रोतसि क्रियते ।

नाम विश्वकविमासः
दिनाङ्कः जून् २२, २०२० तः जुलै २२,२०२०
स्थितिः भविष्यति
सञ्चालकः सायन्तो माहातो

स्वरूपम् सम्पाद्यताम्

कालिदासीयकृतीनां सप्तानां प्रकाशनं विकिस्रोतसि करिष्यते । तेषां कृतीनां पाठशुद्धिः मुख्यतया मासेऽस्मिन् क्रियते । तत्र प्रमुखव्याख्याः अपि पाठ्येन सह योज्यन्ते । स्पर्धालुभिः चित्रे विद्यमानं पाठ्यं दृष्ट्वा अन्वेषणयोग्ये पाठ्ये परिष्कारः करणीयः ।

पाठशुद्ध्यर्थं ग्रन्थाः सम्पाद्यताम्

उद्देश्यम् सम्पाद्यताम्

  • विकिस्रोतसि कालिदासीयग्रन्थानां प्रकाशनम् ।
  • कालिदासकृतिषु पाठशुद्धिः ।
  • विकिसूक्तौ कालिदासीयसूक्तीनां प्रकाशनार्थं मूलपाठ्यानां सङ्ग्रहः ।
  • विकिपीडियाप्रकल्पे कालिदासविषयकलेखानां समृद्ध्यर्थं लेखनार्थं पूर्वसज्जता ।

पूर्वसज्जता सम्पाद्यताम्

  • कालिदासस्य कृतीनां (विकिस्रोतसि प्रकाशयितुं योग्यानाम्) विविधावृत्तीनां सङ्ग्रहः ।
  • विकिसामान्ये कृतीनां संयोजनम् ।
  • विकिस्रोतः प्रति पुस्तकस्य आनयनं, पुटविन्यासश्च ।
  • भागग्राहिणां योजनम् ।
  • भागग्राहिभ्यः कार्यवितरणम् ।

भागग्राहिणः सम्पाद्यताम्

कार्यविवरणम् सम्पाद्यताम्

पुरस्कारः सम्पाद्यताम्

सामान्यप्रश्नाः सम्पाद्यताम्

(यदि कोऽपि सन्देहः वर्तते तर्हि अत्र भवतां प्रश्नान् निस्सङ्कोचं लिखन्तु)

  • अत्र के भागं ग्रहीतुम् अर्हन्ति?
यः पाठशुद्धिं कर्तुमिच्छति स सर्वोऽपि भागं ग्रहीतुं शक्नोति। वयोनियमादिकं नास्ति ।
  • पञ्जीकरणप्रक्रिया कथम्?
भागग्राहिणः इत्यत्र हस्ताङ्कनं करणीयम् ।
  • अहं कस्य पुटस्य पाठशुद्धिं कुर्याम् इति कथं जानीयाम्?
भवतः/भवत्याः सम्भाषणपुटे तद्विषये सूचना स्पर्धारम्भात् प्राक् दीयते।
  • विकिविषये अजानानाः अपि अत्र भागं ग्रहीतुं शक्नुवन्ति वा?
निश्चयेन शक्नुवन्ति। परन्तु विकिमध्ये सदस्यतां प्राप्य(sign up कृत्वा) पाठशुद्धिविषये ज्ञातव्यम्।