सदस्यः:Svartava/हनुमच्चत्वारिंशत्कम्

आदिकविरूपं श्रीतुलसीदासं प्रणत्वा
लिखितम् इदम् अनूदित्वा ॥

जय हनुमन् ज्ञानगुणयात
जय कपीश त्रिलोकख्यात ॥ १

रामदूतातिबलधारक
आञ्जनेयो मारुतिर् इति नामक ॥ २

महावीर विक्रमिन् वज्राङ्गिन्
कुमतिनिवारिंश्च सुमतिसङ्गिन् ॥ ३

काञ्चनवर्ण धरसुवेष
कर्णकुण्डलिन् कुञ्चितकेश ॥ ४

हस्तयोस्तु वज्रश्च ध्वजा
स्कन्धे मुञ्जोपवीतस्य सज्जा ॥ ५

रुद्रावतार केसरिनन्दन
अतिकान्तिमन् जगद्वन्दन ॥ ६

विद्यावान् गुणी चतुरस्त्वम्
रामकार्यं कर्तुम् आतुरस्त्वम् ॥ ७

प्रभुचरित्रश्रवणं ते रासः
मनसि रामत्रयस्य च वासः ॥ ८

सीतया दृष्टो सूक्ष्मरूपी
लङ्कादाही च विकटरूपी ॥ ९

भीमरूपी दानवकुलहारी
सर्वत एव रामोपकारी ॥ १०

त्वया लक्ष्मणाय संजीवनी लब्धा
हृष्टरामस् तथा बाहुबद्धा ॥ ११

श्रीपतिना शंसा ते जाता
त्वं मम प्रियो भरतसमो भ्राता ॥ १२

वदनायुतेन यशस्तव गीतम्
राघवो वदन्निति बाहुगृहीतम् ॥ १३

सनकादिभ्यो मुनिभिश् च
त्रिमूर्त्या च देवताभिश् च ॥ १४

तथैव सकलदिक्पतिभिः
कथं तद् वर्ण्यं कोविदकविभिः ॥ १५

सुग्रीवमपि त्वम् उपाकरोत्
रामेण यो राजपदम् आप्नोत् ॥ १६

मन्त्रस्ते विभीषणेनानुगतः
लङ्केशो भूत्वा सर्वैर् अवगतः ॥ १७

युगसहस्रयोजने दिनकरः
ग्रस्तस्त्वया मतो रुचिकरः ॥ १८

धारयता मुखे प्रभुमुद्रिका
लङ्घिता जलधिर् न विस्मयजनिका ॥ १९

दुर्गमाणि विश्वानि कार्याणि
कृपया ते सुगमानि जातानि ॥ २०

रामद्वारस्य त्वं रक्षकः
कोऽपि व्याज्ञो न वेशकः ॥ २१

तव शरणे सर्वं सुखमयम्
रक्षकस्त्वं तर्हि नास्ति भयम् ॥ २२

शक्तिस्ते रोध्या त्वयैव
त्रिलोकं कम्पितं वैव ॥ २३

प्रेतपिशाचा नोपागच्छन्तः
महावीरस्य यदा नाम शृण्वन्तः ॥ २४

नष्टरोगः पीडामुक्तः
येन हनुमद् इति निरन्तरजप्तः ॥ २५

संकटेभ्यः स ध्रुवं त्रातः
मनोवचनैर् येन मारुतिर् ध्यातः ॥ २६

रामस्तु तपस्विश्रेष्ठः
यस्यासि त्वं वै कर्मिष्ठः ॥ २७

मनोरथस् त्वाम् उद्यते येन
अमितजीवनफलं लब्धं तेन ॥ २८

चतुर्युगे प्रतापस् त्वदीयः
रोचस्त्वम् उज्ज्वलजगदीयः ॥ २९

साधुसतां त्वं रक्षाक्रियः
दुष्टदलनो रामप्रियः ॥ ३०

अष्टसिद्धेर् नवनिधेर् दाता
वरम् इदं व्यतरज् जानकी माता ॥ ३१

तवास्ति रामरसायनम्
जीव सदा वदामि पवनायनम् ॥ ३२

तव भजनेन रामः प्राप्तः
जनुर्जनुषां क्लेशः समाप्तः ॥ ३३

अन्तकाले वा स्वर्गं यातः
हरिभक्त उक्तो यत्र वा जातः ॥ ३४

अन्ये देवा न मनोधृताः
हनुमतैव सर्वा मोदाः कृताः ॥ ३५

वीतव्यसनो मुक्तकष्टः
स्मृतो येन हनुमान्न् इष्टः ॥ ३६

जय जय जय हनुमन् गोस्वामिन्
कृपां कुरु प्रभो भक्तेऽस्मिन् ॥ ३७

येन शतवारम् अधीतम् इति
बन्धमुक्तो महासुखी स भवति ॥ ३८

अतो येन स्तुतः कपीशः
सिद्धः स्यात् साक्षी गौरीशः ॥ ३९

तुलसीदासः सदा हरिभक्तः
भव नाथ मम हृदयसक्तः ॥ ४०

पवनतनय संकटहरण मङ्गलमूर्तिरूप
रामलक्ष्मणसीतासहित हृदये वस सुरभूप ॥