सदाचारानुसन्धानम् (समूलम्)
शङ्कराचार्यः
१९१०

॥सदाचारानुसंधानम्॥

सच्चिदानंदकंदाय जगदकुरहेतवे ।।
सदोदिताय पूर्णाय नमोऽनताय विष्णवे ।। १
सर्व वेदान्तसिद्धातैर्ग्रथित निर्मल शिवम् ।।
सदाचार प्रवक्ष्यामि योगिना ज्ञानसिद्धये ॥ २ ॥
प्रातः स्मरामि देवस्य सवितुर्भर्ग आत्मनः ।।
वरेण्य तद्धियो यो नश्चिदानदे प्रचोदयात् ॥ ३ ॥
अन्वयव्यतिरेकाभ्या जाग्रत्स्वप्नसुपुत्तिषु ।।
यदेक केवल ज्ञान तदेवास्मि पर बृहत् ।। ४ ॥
ज्ञानाज्ञानविलासोऽय ज्ञानाज्ञाने च शाम्यति ।।
जानाज्ञाने परित्यज्य ज्ञानमेवावशिष्यते ॥ ५ ॥
अत्यतमलिनो देहो देही चात्यंतनिर्मल' ।
असंगोऽहमिति ज्ञात्वा शौचमेतत्प्रचक्षते ॥ ६ ॥
मन्मनो मीनवन्नित्यं क्रीडत्यानंदवारिधौ ॥
सुस्नातस्तेन यूतात्मा सम्यग्विज्ञानवारिणा ॥ ७ ॥
अथाधमर्षण कुर्यात्प्राणापाननिरोधतः ॥
मनः पूर्णे समाधाय मग्नकुभो यथार्णवे ॥ ८
लयविक्षेपयोः सधौ मनस्तत्र निरामितम् ॥
स सधिः साधितो येन स मुक्तो नात्र संशयः ।। ९ ॥
सर्वत्र प्राणिनां देहे जपो भवति सर्वद ॥
हसः सोऽहमिति ज्ञात्वा सर्वबधैर्विमुच्यते ॥ १०॥
तर्पण स्वसुखेनैव स्वेद्रियाणा प्रतर्पणम् ।।
मनसा मन आलोक्य स्वयमात्मा प्रकाशते ॥ ११॥
आत्मनि स्वप्रकाशाग्नौ चित्तमेकाहुतिं क्षिपेत् ।।

आग्निहोत्री स विज्ञेयश्चेतरा नामधारका' ॥ १२ ।।
देहो देवालयः प्रोक्तो देही देवो निरजनः ।।
अचिंतः सर्वभावेन स्वानुभूत्या विराजते ॥ १३ ॥
मौन स्वाध्ययन ध्यानं ध्येय ब्रह्मानुचिंतनम् ।।
ज्ञानेनेति तयोः सम्यड्निषेधात्तत्त्वदर्शनम् || १४ ।।
अतीतानागत किंचिन्न स्मरामि न चिंतये ।।
रागद्वेष विना प्राप्त भुंजाम्यत्र शुभाशुभम् ॥ १५ ॥
देहाभ्यासो हि सन्यासो नैव कापायवाससा ||
नाहं देहोऽहमात्मेति निश्चयो न्यासलक्षणम् ।। १६ ।।
अभय सर्वभूताना दानमाहुर्मनीषिणः ॥
निजानदे स्पृहा नान्ये वैराग्यस्यावधिर्मता ॥ १७ ॥
वेदातश्रवण कुर्यान्मनन चोपपत्तिभिः ।।
योगेनाभ्यसन नित्य ततो दर्शनमात्मनः ।। १८ ॥
शब्दशक्तेरचिंत्यत्वान्छन्दादेवापरोक्षधीः ।।
प्रसुप्तः पुरुषो यद्वच्छब्देनैवावबुध्यते ॥ १९ ॥
आत्मानात्मविवेकेन ज्ञानं भवति निश्चलम् ॥
गुरुणा बोधितः शिष्यः शब्दब्रह्मातिवर्तते ।। २० ।।
न त्वं देहो नेद्रियाणि न प्राणो न मनो न धीः ॥
विकारित्वाद्विनाशित्वादृश्यत्वाच्च घटो यथा ।। २१ ॥
विशुद्ध केवल ज्ञान निर्विशेष निरंजनम् ।।
यदेक परमानदं तत्त्वमस्यद्वय परम् ।। २२ ॥
शब्दस्याद्यतयोः सिद्ध मनसोऽपि तथैव च ॥
मध्ये साक्षितया नित्य तदेव त्व भ्रम जहि ।। २३ ।।
स्थूलवैराजयोरैक्यं सूक्ष्महैरण्यगर्भयोः ॥ .
अज्ञानमाययोरैक्य प्रत्यग्विज्ञानपूर्णयोः ।। २४ ।।

चिन्मात्रैकरसे विष्णौ ब्रह्मात्मैक्यस्वरूपके ॥
भ्रमेणैव जगत्जात रज्ज्वा सर्पभ्रमो यथा ॥ २५ ॥
तार्किकाणा तु जीवेशौ वान्यावेतौ विदुर्बुधाः ॥
लक्ष्यौ च सांख्ययोगाभ्या वेदांतैरैक्यता तयोः ॥ २६ ॥
कार्यकारणवान्याशौ जीवेशौ यौ जहच्च तौ ।।
अजहच्च तयोर्लक्ष्यौ चिदशावेकरूपिणौ ॥ २७ ॥
कर्मशास्त्रे कुतो ज्ञानं तर्के नैवास्ति निश्चयः ।।
साख्ययोगौ भिदापन्नौ शाब्दिकाः शब्दतत्पराः ॥ २८॥
अन्ये पाषडिनः सर्वे ज्ञानवार्तासुदुर्लभा ॥
एक वेदातविज्ञान स्वानुभूत्या विराजते ॥ २९ ॥
अह ममेत्यय बधो ममाह नेति मुक्तता ।
बंधमोक्षौ गुणैर्भाति गुणाः प्रकृतिसभवा. ॥३०॥.
ज्ञानमेक सदा भाति सर्वावस्थासु निर्मलम् ।
मदभाग्या न जानन्ति स्वरूप केवल बृहत् ||३१||
सकल्पसाक्षि यज्ज्ञान सर्वलोकैकजीवनम् ।
तदेवास्मीति यो वेद स मुक्तो नात्र संशय' ॥३२॥
प्रमाता च प्रमाण च प्रमेय प्रमितिस्तथा ।
यस्य भासावभासन्ते मान ज्ञानाय तस्य किम् ॥३३॥
अर्थाकारा भवेद्वृत्तिः फलेनार्थः प्रकाशते ।
अर्थज्ञान विजानाति स ण्वार्थ प्रकाशते ||३४॥
वृत्तिव्याप्यत्वमेवास्तु फलव्याप्तिः कथं भवेत् !
स्वप्रकाशस्वरूपत्वात्सिद्धत्वाच्च चिदात्मन ॥३५॥
चित्त चैतन्यमात्रेण सयोगाच्चेतना भवेत् । - -
अर्थादर्थांतरे वृत्तिर्गन्तु-चलति चातरे ॥३६॥
निराधारा निर्विकारा या, दशा सोन्मनी स्मृता।

चित्तं चिदिति जानीयात्तकाररहितं यदा ॥३७॥
तकारो विषयाध्यासो जपारागो यथा मणौ ।
ज्ञेयवस्तुपरित्यगाज्ज्ञान तिष्ठति केवलम् ॥३८॥
त्रिपुटी क्षीणतामेति ब्रह्मनिर्वाणमृन्छति ।
मनोमात्रमिदं सर्व तन्मनो ज्ञानमात्रकम् ॥३९॥
अज्ञानं भ्रम इत्याहुर्विज्ञान परमं पदम् ।
अज्ञानं चान्यथाज्ञानं मायामेता वदन्ति ते ॥४०॥
ईश्वर मायिनं विद्यान्मायातीत निरंजनम् ।
सदानंदे चिदाकाशे मायामेघस्तडिन्मनः ॥४१||
अहंता गजन तत्र धारासारा हि वृत्तयः ।
महामोहांधकारेऽस्मिन्देवो वर्षति लीलया ॥४२॥
तस्या वृष्टेर्विरामाय प्रबोधैकसमीरणः ।
ज्ञानं दृग्दृश्ययोर्भावं विज्ञान दृश्यशून्यता ॥४३॥
एकमेवाद्वयं ब्रह्म नेह नानास्ति किंचन ।
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं तज्ज्ञानं ज्ञानमुच्यते ॥४४॥
विज्ञान चोभयोरैक्य क्षेत्रज्ञपरमात्मनोः ।
परोक्ष शास्त्रजं ज्ञानं विज्ञानं चात्मदर्शनम् ॥४५॥
आत्मनो ब्रह्मणः सम्यगुपाधिद्वयवर्जितम् ।
त्वमर्थविषयं ज्ञान विज्ञानं तत्पदाश्रयम् ॥४६॥
पदयोरैक्यबोधस्तु ज्ञानविज्ञानसज्ञितम् ।
आत्मानात्मविवेकस्य ज्ञानमाहुर्मनीषिणः ॥४७॥
अज्ञानं चान्यथा लोके विज्ञान तन्मय जगत् ।
अन्वयव्यतिरेकाभ्यां सर्वत्रैक प्रपश्यति ॥४८॥
यत्तत्तु वृत्तिजं ज्ञानं विज्ञानं ज्ञानमात्रकम् ।
अज्ञानध्वसक ज्ञानं विज्ञानं चोभयात्मकम् ॥४२॥'

ज्ञानविज्ञाननिष्ठोऽयं तत्सद्ब्रह्मणि चार्पणम् |
भोक्ता सत्त्वगुणः शुद्धो भोगानां साधन रजः ॥५०॥
भोग्य तमोगुणः प्राहुरात्मा चैषां प्रकाशकः ।
ब्रह्माध्ययनसयुक्तो ब्रह्मचर्यारतः सदा ॥५१॥
सर्वं ब्रह्मेति यो वेद ब्रह्मचारी स उच्यते ।
गृहस्थो गुणमध्यस्थः शरीर गृहमुच्यते ॥५२।।
गुणाः कुर्वन्ति कर्माणि नाह कर्तेति बुद्धिमान् ।
किमुग्रैश्च तपोभिश्च यस्य ज्ञानमय तपः ॥५३॥
हर्षामर्षविनिर्मुक्तो वानप्रस्थ' स उच्यते ।
स गृही यो गृहातीत' शरीरं गृहमुच्यते ॥५४॥
सदाचारमिम नित्यं योऽनुसदधते बुधः।
संसारसागरान्छीघ्रं स मुक्तो नात्र संशयः ॥५५॥

इति सदाचारानुसधान सपूर्णम् ॥