सद्धर्मपुण्डरीकसूत्रम्

सद्धर्मपुण्डरीकसूत्रम्
[[लेखकः :|]]


सद्धर्मपुण्डरीकसूत्रम् ।

॥ नमः सर्वबुद्धबोधिसत्त्वेभ्यः । नमः सर्वतथागतप्रत्येकबुद्धार्यश्रावकेभ्योऽतीतानागतप्रत्युत्पन्नेभ्यश्च बोधिसत्त्वेभ्यः ॥



१: निदानपरिवर्तः ।

एवं मया श्रुतम् । एकस्मिन् समये भगवान् राजगृहे विहरति स्म गृध्रकूटे पर्वते महता भिक्षुसंघेन सार्धं द्वादशभिर्भिक्षुशतैः सर्वैरर्हद्भिः क्षीणास्रवैर्निःक्लेशैर्वशीभूतैः सुविमुक्तचित्तैः सुविमुक्तप्रज्ञैराजानेयैर्महानागैः कृतकृत्यैः कृतकरणीयैरपहृतभारैरनुप्राप्तस्वकार्थैः परिक्षीणभवसंयोजनैः सम्यगाज्ञासुविमुक्तचित्तैः सर्वचेतोवशितापरमपारमिताप्राप्तैरभिज्ञाताभिज्ञातैर्महाश्रावकैः । तद्यथा - आयुष्मता च आज्ञातकौण्डिन्येन, आयुष्मता च अश्वजिता, आयुष्मता च बाष्पेण, आयुष्मता च महानाम्ना, आयुष्मता च भद्रिकेण, आयुष्मता च महाकाश्यपेन, आयुष्मता च उरुबिल्वकाश्यपेन, आयुष्मता च नदीकाश्यपेन, आयुष्मता च गयाकाश्यपेन, आयुष्मता च शारिपुत्रेण, आयुष्मता च महामौद्गल्यायनेन, आयुष्मता च महाकात्यायनेन, आयुष्मता च अनिरुद्धेन, आयुष्मता च रेवतेन, आयुष्मता च कप्फिनेन, आयुष्मता च गवांपतिना, आयुष्मता च पिलिन्दवत्सेन, आयुष्मता च बक्कुलेन, आयुष्मता च महाकौष्ठिलेन, आयुष्मता च भरद्वाजेन, आयुष्मता च महानन्देन, आयुष्मता च उपनन्देन, आयुष्मता च सुन्दरनन्देन, आयुष्मता च पूर्णमैत्रायणीपुत्रेण, आयुष्मता च सुभूतिना आयुष्मता च राहुलेन । एभिश्चान्यैश्च महाश्रावकैः - आयुष्मता च आनन्देन शैक्षेण । अन्याभ्यां च द्वाभ्यां भिक्षुसहस्राभ्यां शैक्षाशैक्षाभ्याम् । महाप्रजापतीप्रमुखैश्च षड्भिर्भिक्षुणीसहस्रैः ।

यशोधरया च भिक्षुण्या राहुलमात्रा सपरिवारया । अशीत्या च बोधिसत्त्वसहस्रैः सार्धं सर्वैरवैवर्तिकैरेकजातिप्रतिबद्धैर्यदुत अनुत्तरायां सम्यक्संबोधौ, धारणीप्रतिलब्धैर्महाप्रतिभानप्रतिष्ठितैरवैवर्त्यधर्मचक्रप्रवर्तकैर्बहुबुद्धशतपर्युपासितैर्बहुबुद्ध शतसहस्रावरोपितकुशलमूलैर्बुद्धशतसहस्रसंस्तुतैर्मैत्रीपरिभावितकायचित्तैस्तथागतज्ञानावतारणकुशलैर्महाप्रज्ञैः प्रज्ञापारमितागतिंगतैर्बहुलोकधातुशतसहस्रविश्रुतैर्बहुप्राणिकोटीनयुतशतसहस्रसंतारकैः । तद्यथा - मञ्जुश्रिया च कुमारभूतेन बोधिसत्त्वेन महासत्त्वेन, अवलोकितेश्वरेण च महास्थामप्राप्तेन च सर्वार्थनाम्ना च नित्योद्युक्तेन च अनिक्षिप्तधुरेण च रत्नपाणिना च भैषज्यराजेन च भैषज्यसमुद्गतेन च व्यूहराजेन च प्रदानशूरेण च रत्नचन्द्रेण च रत्नप्रभेण (वैद्य २) च पूर्णचन्द्रेण च महाविक्रामिणा च अनन्तविक्रामिणा च त्रैलोक्यविक्रामिणा च महाप्रतिभानेन च सततसमिताभियुक्तेन च धरणीधरेण च अक्षयमतिना च पद्मश्रिया च नक्षत्रराजेन च मैत्रेयेण च बोधिसत्त्वेन महासत्त्वेन, सिंहेन च बोधिसत्त्वेन महासत्त्वेन । भद्रपालपूर्वंगमैश्च षोडशभिः सत्पुरुषैः सार्धम् । तद्यथा - भद्रपालेन च रत्नाकरेण च सुसार्थवाहेन च नरदत्तेन च गुह्यगुप्तेन च वरुणदत्तेन च इन्द्रदत्तेन च उत्तरमतिना च विशेषमतिना च वर्धमानमतिना च अमोघदर्शिना च सुसंप्रस्थितेन च सुविक्रान्तविक्रामिणा च अनुपममतिना च सूर्यगर्भेण च धरणींधरेण च । एवंप्रमुखैरशीत्या च बोधिसत्त्वसहस्रैः सार्धम् । शक्रेण च देवानामिन्द्रेण सार्धं विंशतिदेवपुत्रसहस्रपरिवारेण । तद्यथा - चन्द्रेण च देवपुत्रेण सूर्येण च देवपुत्रेण समन्तगन्धेन च देवपुत्रेण रत्नप्रभेण च देवपुत्रेण अवभासप्रभेण च देवपुत्रेण । एवंप्रमुखैर्विशत्या च देवपुत्रसहस्रैः । चतुर्भिश्च महाराजैः सार्धं त्रिंशद्देवपुत्रसहस्रपरिवारैः । तद्यथा - विरूढकेन च महाराजेन, विरूपाक्षेण च महाराजेन, धृतराष्ट्रेण च महाराजेन, वैश्रवणेन च महाराजेन । ईश्वरेण च देवपुत्रेण च महेश्वरेण च देवपुत्रेण त्रिंशद्देवपुत्रसहस्रपरिवाराभ्याम् । ब्रह्मणा च सहांपतिना सार्धं द्वादशब्रह्मकायिकदेवपुत्रसहस्रपरिवारेण । तद्यथा - शिखिना च ब्रह्मणा ज्योतिष्प्रभेण च ब्रह्मणा । एवंप्रमुखैर्द्वादशभिश्च ब्रह्मकायिकदेवपुत्रसहस्रैः । अष्टाभिश्च नागराजैः सार्धं बहुनागकोटीशतसहस्रपरिवारैः । तद्यथा - नन्देन च नागराजेन, उपनन्देन च नागराजेन, सागरेण च वासुकिना च तक्षकेण च मनस्विना च अनवतप्तेन च उत्पलकेन च नागराजेन । चतुर्भिश्च किन्नरराजैः सार्धं बहुकिन्नरकोटीशतसहस्रपरिवारैः । तद्यथा - द्रुमेण च किन्नरराजेन, महाधर्मेण च किन्नरराजेन, सुधर्मेण च किन्नरराजेन, धर्मधरेण च किन्नरराजेन । चतुर्भिश्च गन्धर्वकायिकदेवपुत्रैः सार्धं बहुगन्धर्वशतसहस्रपरिवारैः । तद्यथा - मनोज्ञेन च गन्धर्वेण मनोज्ञस्वरेण च मधुरेण च मधुरस्वरेण च गन्धर्वेण । चतुर्भिश्चासुरेन्द्रैः सार्धं बह्वसुरकोटीशतसहस्रपरिवारैः । तद्यथा - बलिना च असुरेन्द्रेण, खरस्कन्धेन च असुरेन्द्रेण, वेमचित्रिणा च असुरेन्द्रेण, राहुणा च असुरेन्द्रेण । चतुर्भिश्च गरुडेन्द्रैः सार्धं बहुगरुडकोटीशतसहस्रपरिवारैः । तद्यथा - महातेजसा च गरुडेन्द्रेण, महाकायेन च महापूर्णेन च महर्द्धिप्राप्तेन च गरुडेन्द्रेण । राज्ञा च अजातशत्रुणा मागधेन वैदेहीपुत्रेण सार्धम् ॥

तेन खलु पुनः समयेन भगवांश्चतसृभिः पर्षद्भिः परिवृतः पुरस्कृतः सत्कृतो गुरुकृतो मानितः पूजितोऽर्चितोऽपचायितो महानिर्देशं नाम धर्मपर्यायं सूत्रान्तं महावैपुल्यं बोधिसत्त्वाववादं सर्वबुद्धपरिग्रहं भाषित्वा तस्मिन्नेव महाधर्मासने पर्यङ्कमाभुज्य अनन्तनिर्देशप्रतिष्ठानं नाम समाधिं समापन्नोऽभूदनिञ्जमानेन कायेन स्थितोऽनिञ्जप्राप्तेन च चित्तेन । समनन्तरसमापन्नस्य खलु पुनर्भगवतो मान्दारवमहामान्दारवाणां मञ्जूषकमहामञ्जूषकाणां दिव्यानां पुष्पाणां महत्पुष्पवर्षमभिप्रावर्षत्, भगवन्तं ताश्च चतस्रः पर्षदोऽभ्यवाकिरन् । (वैद्य ३) सर्वावच्च बुद्धक्षेत्रं षड्विकारं प्रकम्पितमभूच्चलितं संप्रचलितं वेधितं संप्रवेधितं क्षुभितं संप्रक्षुभितम् । तेन खलु पुनः समयेन तस्यां पर्षदि भिक्षुभिक्षुण्युपासकोपासिका देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्याः संनिपतिता अभूवन् संनिषण्णाः, राजानश्च मण्डलिनो बलचक्रवर्तिनश्चतुर्द्वीपकचक्रवर्तिनश्च । ते सर्वे सपरिवारा भगवन्तं व्यवलोकयन्ति स्म आश्चर्यप्राप्ता अद्भुतप्राप्ता औद्बिल्यप्राप्ताः ॥

अथ खलु तस्यां वेलायां भगवतो भ्रूविवरान्तरादूर्णाकोशादेका रश्मिर्निश्चरिता । सा पूर्वस्यां दिशि अष्टादशबुद्धक्षेत्रसहस्राणि प्रसृता । तानि च सर्वाणि बुद्धक्षेत्राणि तस्या रश्मेः प्रभया सुपरिस्फुटानि संदृश्यन्ते स्म यावदवीचिर्महानिरयो यावच्च भवाग्रम् । ये च तेषु बुद्धक्षेत्रेषु षट्सु गतिषु सत्त्वाः संविद्यन्ते स्म, ते सर्वेऽशेषेण संदृश्यन्ते स्म । ये च तेषु बुद्धक्षेत्रेषु बुद्धा भगवन्तस्तिष्ठन्ति ध्रियन्ते यापयन्ति च, तेऽपि सर्वे संदृश्यन्ते स्म । यं च ते बुद्धा भगवन्तो धर्मं देशयन्ति, स च सर्वो निखिलेन श्रूयते स्म । ये च तेषु बुद्धक्षेत्रेषु भिक्षुभिक्षुण्युपासकोपासिका योगिनो योगाचाराः प्राप्तफलाश्चाप्राप्तफलाश्च, तेऽपि सर्वे संदृश्यन्ते स्म । ये च तेषु बुद्धक्षेत्रेषु बोधिसत्त्वा महासत्त्वा अनेकविविधश्रवणारम्बणाधिमुक्तिहेतुकारणैरुपायकौशल्यैर्बोधिसत्त्वचर्यां चरन्ति, तेऽपि सर्वे संदृश्यन्ते स्म । ये च तेषु बुद्धक्षेत्रेषु बुद्धा भगवन्तः परिनिर्वृताः, तेऽपि सर्वे संदृश्यन्ते स्म । ये च तेषु बुद्धक्षेत्रेषु परिनिर्वृतानां बुद्धानां भगवतां धातुस्तूपा रत्नमयाः तेऽपि सर्वे संदृश्यन्ते स्म ॥

अथ खलु मैत्रेयस्य बोधिसत्त्वस्य महासत्त्वस्यैतदभूत्- महानिमित्तं प्रातिहार्यं बतेदं तथागतेन कृतम् । को न्वत्र हेतुर्भविष्यति किं कारणं यद्भगवता इदमेवंरूपं महानिमित्तं प्रातिहार्यं कृतम्? भगवांश्च समाधिं समापन्नः । इमानि चैवंरूपाणि महाश्चर्याद्भुताचिन्त्यानि महर्द्धिप्रातिहार्याणि संदृश्यन्ते स्म । किं नु खल्वहमेतमर्थं परिप्रष्टव्यं परिपृच्छेयम्? को न्वत्र समर्थः स्यादेतमर्थं विसर्जयितुम्? तस्यैतदभूत्- अयं मञ्जुश्रीः कुमारभूतः पूर्वजिनकृताधिकारोऽवरोपितकुशलमूलो बहुबुद्धपर्युपासितः । दृष्टपूर्वाणि च अनेन मञ्जुश्रिया कुमारभूतेन पूर्वकाणां तथागतानामर्हतां सम्यक्संबुद्धानामेवंरूपाणि निमित्तानि भविष्यन्ति, अनुभूतपूर्वाणि च महाधर्मसांकथ्यानि । यन्न्वहं मञ्जुश्रियं कुमारभूतमेतमर्थं परिपृच्छेयम् ॥

तासां चतसृणां पर्षदां भिक्षुभिक्षुण्युपासकोपासिकानां बहूनां च देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्याणामिममेवंरूपं भगवतो महानिमित्तं प्रातिहार्यावभासं दृष्ट्वा आश्चर्यप्राप्तानामद्भुतप्राप्तानां कौतूहलप्राप्तानामेतदभवत्- किं नु खलु वयमिममेवंरूपं भगवतो महर्द्धिप्रातिहार्यावभासं कृतं परिपृच्छेम?

अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वस्तस्मिन्नेव क्षणलवमुहूर्ते तासां चतसृणां पर्षदां चेतसैव चेतःपरिवितर्कमाज्ञाय आत्मना च धर्मसंशयप्राप्तस्तस्यां वेलायां मञ्जुश्रियं (वैद्य ४) कुमारभूतमेतदवोचत्- को न्वत्र मञ्जुश्रीर्हेतुः कः प्रत्ययो यदयमेवंरूप आश्चर्याद्भुतो भगवता ऋद्धयवभासः कृतः, इमानि चाष्टादशबुद्धक्षेत्रसहस्राणि विचित्राणि दर्शनीयानि परमदर्शनीयानि तथागतपूर्वंगमानि तथागतपरिणायकानि संदृश्यन्ते?

अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वो मञ्जुश्रियं कुमारभूतमाभिर्गाथाभिरध्यभाषत -

किं कारणं मञ्जुशिरी इयं हि रश्मिः प्रमुक्ता नरनायकेन ।
प्रभासयन्ती भ्रमुकान्तरातु ऊर्णाय कोशादियमेकरश्मिः ॥ १.१ ॥
मान्दारवाणां च महन्त वर्षं पुष्पाणि मुञ्चन्ति सुराः सुहृष्टाः ।
मञ्जूषकांश्चन्दनचूर्णमिश्रान् दिव्यान् सुगन्धांश्च मनोरमांश्च ॥ १.२ ॥
येही मही शोभतियं समन्तात्पर्षाश्च चत्वार सुलब्धहर्षाः ।
सर्वं च क्षेत्रमिमु संप्रकम्पितं षड्भिर्विकारेहि सुभीष्मरूपम् ॥ १.३ ॥
सा चैव रश्मी पुरिमादिशाय अष्टादशक्षेत्रसहस्र पूर्णाः ।
अवभासयी एकक्षणेन सर्वे सुवर्णवर्णा इव भोन्ति क्षेत्राः ॥ १.४ ॥
यावानवीची परमं भवाग्रं क्षेत्रेषु यावन्ति च तेषु सत्त्वाः ।
षट्सू गतीषू तहि विद्यमाना च्यवन्ति ये चाप्युपपद्यि तत्र ॥ १.५ ॥
कर्माणि चित्रा विविधानि तेषांगतीषु दृश्यन्ति सुखा दुखा च ।
हीना प्रणीता तथ मध्यमा च इह स्थितो अद्दशि सर्वमेतत् ॥ १.६ ॥
बुद्धांश्च पश्यामि नरेन्द्रसिंहान् प्रकाशयन्तो विवरन्ति धर्मम् ।
(वैद्य ५)
प्रशासमानान् बहुसत्त्वकोटीः उदाहरन्तो मधुरस्वरां गिरम् ॥ १.७ ॥
गम्भीरनिर्घोषमुदारमद्भुतं मुञ्चन्ति क्षेत्रेषु स्वकस्वकेषु ।
दृष्टान्तहेतूनयुतान कोटिभिः प्रकाशयन्तो इमु बुद्धधर्मम् ॥ १.८ ॥
दुःखेन संपीडित ये च सत्त्वा जातीजराखिन्नमना अजानकाः ।
तेषां प्रकाशेन्ति प्रशान्तनिर्वृतिं दुःखस्य अन्तो अयु भिक्षवे ति ॥ १.९ ॥

उदारस्थामाधिगताश्च ये नराः पुण्यैरुपेतास्तथ बुद्धदर्शनैः ।
प्रत्येकयानं च वदन्ति तेषां संवर्णयन्तो इम धर्मनेत्रीम् ॥ १.१० ॥
ये चापि अन्ये सुगतस्य पुत्रा अनुत्तरं ज्ञान गवेषमाणाः ।
विविधां क्रियां कुर्विषु सर्वकालं तेषां पि बोधाय वदन्ति वर्णम् ॥ १.११ ॥
शृणोमि पश्यामि च मञ्जुघोष इह स्थितो ईदृशकानि तत्र ।
अन्या विशेषाण सहस्रकोट्यः प्रदेशमात्रं ततु वर्णयिष्ये ॥ १.१२ ॥
पश्यामि क्षेत्रेषु बहूषु चापि ये बोधिसत्त्वा यथ गङ्गवालिकाः ।
कोटीसहस्राणि अनल्पकानि विविधेन वीर्येण जनेन्ति बोधिम् ॥ १.१३ ॥
ददन्ति दानानि तथैव केचिद्धनं हिरण्यं रजतं सुवर्णम् ।
मुक्तामणिं शङ्खशिलाप्रवालं दासांश्च दासी रथअश्वएडकान् ॥ १.१४ ॥
(वैद्य ६)

शिबिकास्तथा रत्नविभूषिताश्च ददन्ति दानानि प्रहृष्टमानसाः ।
परिणामयन्तो इह अग्रबोधौ वयं हि यानस्य भवेम लाभिनः ॥ १.१५ ॥
त्रैधातुके श्रेष्ठविशिष्टयानं यद्बुद्धयानं सुगतेहि वर्णितम् ।
अहं पि तस्यो भवि क्षिप्र लाभी ददन्ति दानानि इमीदृशानि ॥ १.१६ ॥
चतुर्हयैर्युक्तरथांश्च केचित्सवेदिकान् पुष्पध्वजैरलंकृतान् ।
सवैजयन्तान् रतनामयानि ददन्ति दानानि तथैव केचित् ॥ १.१७ ॥
ददन्ति पुत्रांश्च तथैव पुत्रीः प्रियाणि मांसानि ददन्ति केचित् ।
हस्तांश्च पादांश्च ददन्ति याचिताः पर्येषमाणा इममग्रबोधिम् ॥ १.१८ ॥

शिरांसि केचिन्नयनानि केचिद्ददन्ति केचित्प्रवरात्मभावान् ।
दत्वा च दानानि प्रसन्नचित्ताः प्रार्थेन्ति ज्ञानं हि तथागतानाम् ॥ १.१९ ॥
पश्याम्यहं मञ्जुशिरी कहिंचित्स्फीतानि राज्यानि विवर्जयित्वा ।
अन्तःपुरान् द्वीप तथैव सर्वानमात्यज्ञातींश्च विहाय सर्वान् ॥ १.२० ॥
उपसंक्रमी लोकविनायकेषु पृच्छन्ति धर्मं प्रवरं शिवाय ।
काषायवस्त्राणि च प्रावरन्ति केशांश्च श्मश्रूण्यवतारयन्ति ॥ १.२१ ॥
कांश्चिच्च पश्याम्यहु बोधिसत्त्वान् भिक्षू समानाः पवने वसन्ति ।
(वैद्य ७)
शून्यान्यरण्यानि निषेवमाणानुद्देशस्वाध्यायरतांश्च कांश्चित् ॥ १.२२ ॥
कांश्चिच्च पश्याम्यहु बोधिसत्त्वान् गिरिकन्दरेषु प्रविशन्ति धीराः ।
विभावयन्तो इमु बुद्धज्ञानं परिचिन्तयन्तो ह्युपलक्षयन्ति ॥ १.२३ ॥
उत्सृज्य कामांश्च अशेषतोऽन्ये परिभावितात्मान विशुद्धगोचराः ।
अभिज्ञ पञ्चेह च स्पर्शयित्वा वसन्त्यरण्ये सुगतस्य पुत्राः ॥ १.२४ ॥
पादैः समैः स्थित्विह केचि धीराः कृताञ्जली संमुखि नायकानाम् ।
अभिस्तवन्तीह हर्षं जनित्वा गाथासहस्रेहि जिनेन्द्रराजम् ॥ १.२५ ॥
स्मृतिमन्त दान्ताश्च विशारदाश्च सूक्ष्मां चरिं केचि प्रजानमानाः ।
पृच्छन्ति धर्मं द्विपदोत्तमानां श्रुत्वा च ते धर्मधरा भवन्ति ॥ १.२६ ॥
परिभावितात्मान जिनेन्द्रपुत्रान् कांश्चिच्च पश्याम्यहु तत्र तत्र ।
धर्मं वदन्तो बहुप्राणकोटिनां दृष्टान्तहेतूनयुतैरनेकैः ॥ १.२७ ॥
प्रामोद्यजाताः प्रवदन्ति धर्मं समादपेन्तो बहुबोधिसत्त्वान् ।
निहत्य मारं सबलं सवाहनं पराहनन्ती इमु धर्मदुन्दुभिम् ॥ १.२८ ॥
पश्यामि कांश्चित्सुगतस्य शासने संपूजितान्नरमरुयक्षराक्षसैः ।
अविस्मयन्तान् सुगतस्य पुत्राननुन्नतान् शान्तप्रशान्तचारीन् ॥ १.२९ ॥
(वैद्य ८)
वनषण्ड निश्राय तथान्यरूपा अवभासु कायातु प्रमुञ्चमानाः ।
अभ्युद्धरन्तो नरकेषु सत्त्वांस्तांश्चैव बोधाय समादपेन्ति ॥ १.३० ॥
वीर्ये स्थिताः केचि जिनस्य पुत्रा मिद्धं जहित्वा च अशेषतोऽन्ये ।
चंक्रम्ययुक्ताः पवने वसन्ति वीर्येण ते प्रस्थित अग्रबोधिम् ॥ १.३१ ॥
ये चात्र रक्षन्ति सदा विशुद्धं शीलमखण्डं मणिरत्नसादृशम् ।
परिपूर्णचारी च भवन्ति तत्र शीलेन ते प्रस्थित अग्रबोधिम् ॥ १.३२ ॥
क्षान्तीबला केचि जिनस्य पुत्रा अधिमानप्राप्तान क्षमन्ति भिक्षुणाम् ।
आक्रोश परिभाष तथैव तर्जनां क्षान्त्या हि ते प्रस्थित अग्रबोधिम् ॥ १.३३ ॥
कांश्चिच्च पश्याम्यहु बोधिसत्त्वान् क्रीडारतिं सर्व विवर्जयित्वा ।
बालान् सहायान् परिवर्जयित्वा आर्येषु संसर्गरतान् समाहितान् ॥ १.३४ ॥
विक्षेपचित्तं च विवर्जयन्तानेकाग्रचित्तान् वनकन्दरेषु ।
ध्यायन्त वर्षाण सहस्रकोट्यो ध्यानेन ते प्रस्थित अग्रबोधिम् ॥ १.३५ ॥
ददन्ति दानानि तथैव केचित्सशिष्यसंघेषु जिनेषु संमुखम् ।
खाद्यं च भोज्यं च तथान्नपान्नं गिलानभैषज्य बहू अनल्पकम् ॥ १.३६ ॥
वस्त्राण कोटीशत ते ददन्ति सहस्रकोटीशतमूल्य केचित् ।
(वैद्य ९)
अनर्घमूल्यांश्च ददन्ति वस्त्रान् सशिष्यसंघान जिनान संमुखम् ॥ १.३७ ॥
विहार कोटीशत कारयित्वा रत्नामयांश्चो तथ चन्दनामयान् ।
प्रभूतशय्यासनमण्डितांश्च निर्यातयन्तो सुगतान संमुखम् ॥ १.३८ ॥
आराम चौक्षांश्च मनोरमांश्च फलैरुपेतान् कुसुमैश्च चित्रैः ।
दिवाविहारार्थ ददन्ति केचित्सश्रावकाणां पुरुषर्षभाणाम् ॥ १.३९ ॥
ददन्ति दानानिममेवरूपा विविधानि चित्राणि च हर्षजाताः ।
दत्वा च बोधाय जनेन्ति वीर्यं दानेन ते प्रस्थित अग्रबोधिम् ॥ १.४० ॥
धर्मं च केचित्प्रवदन्ति शान्तं दृष्टान्तहेतूनयुतैरनेकैः ।
देशेन्ति ते प्राणसहस्रकोटिनां ज्ञानेन ते प्रस्थित अग्रबोधिम् ॥ १.४१ ॥
निरीहका धर्म प्रजानमाना द्वयं प्रवृत्ताः खगतुल्यसादृशाः ।
अनोपलिप्ताः सुगतस्य पुत्राः प्रज्ञाय ते प्रस्थित अग्रबोधिम् ॥ १.४२ ॥
भूयश्च पश्याम्यहु मञ्जुघोष परिनिर्वृतानां सुगतान शासने ।
उत्पन्न धीरा बहुबोधिसत्त्वाः कुर्वन्ति सत्कारु जिनान धातुषु ॥ १.४३ ॥
स्तूपान पश्यामि सहस्रकोट्यो अनल्पका यथरिव गङ्गवालिकाः ।
येभिः सदा मण्डित क्षेत्रकोटियो ये कारिता तेहि जिनात्मजेहि ॥ १.४४ ॥
(वैद्य १०)
रत्नान सप्तान विशिष्ट उच्छ्रिताः सहस्र पञ्चो परिपूर्ण योजना ।
द्वे चो सहस्रे परिणाहवन्तश्छत्रध्वजास्तेषु सहस्रकोटयः ॥ १.४५ ॥
सवैजयन्ताः सद शोभमाना घण्टासमूहै रणमान नित्यम् ।
पुष्पैश्च गन्धैश्च तथैव वाद्यैः संपूजिता नरमरुयक्षराक्षसैः ॥ १.४६ ॥
कारापयन्ती सुगतस्य पुत्रा जिनान धातुष्विह पूजमीदृशीम् ।
येभिर्दिशायो दश शोभिता यः सुपुष्पितैर्वा यथ पारिजातैः ॥ १.४७ ॥
अहं चिमाश्चो बहुप्राणकोट्य इह स्थिताः पश्यिषु सर्वमेतत् ।
प्रपुष्पितं लोकमिमं सदेवकं जिनेन मुक्ता इयमेकरश्मिः ॥ १.४८ ॥
अहो प्रभावः पुरुषर्षभस्य अहोऽस्य ज्ञानं विपुलमनास्रवम् ।
यस्यैकरश्मिः प्रसृताद्य लोके दर्शेति क्षेत्राण बहू सहस्रान् ॥ १.४९ ॥
आश्चर्यप्राप्ताः स्म निमित्त दृष्ट्वा इममीदृशं चाद्भुतमप्रमेयम् ।
वदस्व मञ्जुस्वर एतमर्थं कौतूहलं ह्यपनय बुद्धपुत्र ॥ १.५० ॥
चत्वारिमा पर्ष उदग्रचित्तास्त्वां चाभिवीक्षन्तिह मां च वीर ।
जनेहि हर्षं व्यपनेहि काङ्क्षां त्वं व्याकरोही सुगतस्य पुत्र ॥ १.५१ ॥
किमर्थमेषः सुगतेन अद्य प्रभास एतादृशको विमुक्तः ।
(वैद्य ११)
अहो प्रभावः पुरुषर्षभस्य अहोऽस्य ज्ञानं विपुलं विशुद्धम् ॥ १.५२ ॥
यस्यैकरश्मी प्रसृताद्य लोके दर्शेति क्षेत्राण बहून् सहस्रान् ।
एतादृशो अर्थ अयं भविष्यति येनैष रश्मी विपुला प्रमुक्ता ॥ १.५३ ॥
ये अग्रधर्मा सुगतेन स्पृष्टास्तद बोधिमण्डे पुरुषोत्तमेन ।
किं तेह निर्देक्ष्यति लोकनाथो अथ व्याकरिष्यत्ययु बोधिसत्त्वान् ॥ १.५४ ॥
अनल्पकं कारणमेत्त भेष्यति यद्दर्शिताः क्षेत्रसहस्र नेके ।
सुचित्रचित्रा रतनोपशोभिता बुद्धाश्च दृश्यन्ति अनन्तचक्षुषः ॥ १.५५ ॥
पृच्छेति मैत्रेयु जिनस्य पुत्र स्पृहेन्ति ते नरमरुयक्षराक्षसाः ।
चत्वारिमा पर्ष उदीक्षमाणा मञ्जुस्वरः किं न्विह व्याकरिष्यति ॥ १.५६ ॥

अथ खलु मञ्जुश्रीः कुमारभूतो मैत्रेयं बोधिसत्त्वं महासत्त्वं तं च सर्वावन्तं बोधिसत्त्वगणमामन्त्रयते स्म - महाधर्मश्रवणसांकथ्यमिदं कुलपुत्रास्तथागतस्य कर्तुमभिप्रायः, महाधर्मवृष्ठयभिप्रवर्षणं च महाधर्मदुन्दुभिसंप्रवादनं च महाधर्मध्वजसमुच्छ्रयणं च महाधर्मोल्कासंप्रज्वालनं च महाधर्मशङ्खाभिप्रपूरणं च महाधर्मभेरीपराहणनं च महाधर्मनिर्देशं च अद्य कुलपुत्रास्तथागतस्य कर्तुमभिप्रायः । यथा मम कुलपुत्राः प्रतिभाति, यथा च मया पूर्वकाणां तथागतानामर्हतां सम्यक्संबुद्धानामिदमेवंरूपं पूर्वनिमित्तं दृष्टमभूत्, तेषामपि पूर्वकाणां तथागतानामर्हतां सम्यक्संबुद्धानामेवं रश्मिप्रमोचनावभासोऽभुत् । तेनैवं प्रजानामि - महाधर्मश्रवणसांकथ्यं तथागतः कर्तुकामो महाधर्मश्रवणं श्रावयितुकामः, यथेदमेवंरूपं पूर्वनिमित्तं प्रादुष्कृतवान् । तत्कस्य हेतोः? सर्वलोकविप्रत्यनीयकधर्मपर्यायं श्रावयितुकामस्तथागतोऽर्हन् सम्यक्संबुद्धः, यथेदमेवंरूपं महाप्रातिहार्यं रश्मिप्रमोचनावभासं च पूर्वनिमित्तमुपदर्शयति ॥

अनुस्मराम्यहं कुलपुत्रा अतीतेऽध्वनि असंख्येयैः कल्पैरसंख्येयतरैर्विपुलैरप्रमेयैरचिन्त्यैरपरिमितैरप्रमाणैस्ततःपरेण परतरं यदासीत्- तेन कालेन तेन समयेन चन्द्रसूर्यप्रदीपो नाम (वैद्य १२) तथागतोऽर्हन् सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् । स धर्मं देशयति स्म आदौ कल्याणं मध्ये कल्याणं पर्यवसाने कल्याणम् ।
स्वर्थं सुव्यञ्जनं केवलं परिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं संप्रकाशयति स्म । यदुत श्रावकाणां चतुरार्यसत्यसंप्रयुक्तं प्रतीत्यसमुत्पादप्रवृत्तं धर्मं देशयति स्म जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासानां समतिक्रमाय निर्वाणपर्यवसानम् । बोधिसत्त्वानां च महासत्त्वानां च षट्पारमिताप्रतिसंयुक्तमनुत्तरां सम्यक्संबोधिमारभ्य सर्वज्ञज्ञानपर्यवसानं धर्मं देशयति स्म ॥

तस्य खलु पुनः कुलपुत्राः चन्द्रसूर्यप्रदीपस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य परेण परतरं चन्द्रसूर्यप्रदीप एव नाम्ना तथागतोऽर्हन् सम्यक्संबुद्धो लोक उदपादि । इति हि अजित एतेन परंपरोदाहारेण चन्द्रसूर्यप्रदीपनामकानां तथागतानामर्हतां सम्यक्संबुद्धानामेकनामधेयानामकेकुलगोत्राणां यदिदं भरद्वाजसगोत्राणां विंशतितथागतसहस्राण्यभूवन् । तत्र अजित तेषां विंशतितथागतसहस्राणां पूर्वकं तथागतमुपादाय यावत्पश्चिमकस्तथागतः, सोऽपि चन्द्रसूर्यप्रदीपनामधेय एव तथागतोऽभूदर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् । सोऽपि धर्मं देशितवानादौ कल्याणं मध्ये कल्याणं पर्यवसाने कल्याणम् । स्वर्थं सुव्यञ्जनं केवलं परिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं संप्रकाशितवान् । यदुत श्रावकाणां चतुरार्यसत्यसंयुक्तं प्रतीत्यसमुत्पादप्रवृत्तं धर्मं देशितवान् जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासानां समतिक्रमाय निर्वाणपर्यवसानम् । बोधिसत्त्वानां च महासत्त्वानां च षट्पारमिताप्रतिसंयुक्तमनुत्तरां सम्यक्संबोधिमारभ्य सर्वज्ञज्ञानपर्यवसानं धर्म देशितवान् ॥

तस्य खलु पुनरजित भगवतश्चन्द्रसूर्यप्रदीपस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य पूर्वं कुमारभूतस्यानभिनिष्क्रान्तगृहावासस्य अष्टौ पुत्रा अभूवन् । तद्यथा - मतिश्च नाम राजकुमारोऽभूत् । सुमतिश्च नाम राजकुमारोऽभूत् ।
अनन्तमतिश्च नाम, रत्नमतिश्च नाम, विशेषमतिश्च नाम, विमतिसमुद्धाटी च नाम, घोषमतिश्च नाम, धर्ममतिश्च नाम राजकुमारोऽभूत् । तेषां खलु पुनरजित अष्टानां राजकुमाराणां तस्य भगवतश्चन्द्रसूर्यप्रदीपस्य तथागतस्यपुत्राणां विपुलर्द्धिरभूत् । एकैकस्य चत्वारो महाद्वीपाः परिभोगोऽभूत् । तेष्वेव च राज्यं कारयामासुः । ते तं भगवन्तमभिनिष्क्रान्तगृहावासं विदित्वा अनुत्तरां च सम्यक्संबोधिमभिसंबुद्धं श्रुत्वा सर्वराज्यपरिभोगानुत्सृज्य तं भगवन्तमनु प्रव्रजिताः । सर्वे च अनुत्तरां सम्यक्संबोधिमभिसंप्रस्थिता धर्मभाणकाश्चाभुवन् । सदा च ब्रह्मचारिणो बहुबुद्धशतसहस्रावरोपितकुशलमूलाश्च ते राजकुमारा अभुवन् ॥

तेन खलु पुनरजित समयेन स भगवांश्चन्द्रसूर्यप्रदीपस्तथागतोऽर्हन् सम्यक्संबुद्धो महानिर्देशं नाम धर्मपर्यायं सूत्रान्तं महावैपुल्यं बोधिसत्त्वाववादं सर्वबुद्धपरिग्रहं भाषित्वा (वैद्य १३) तस्मिन्नेव क्षणलवमुहूर्ते तस्मिन्नेव पर्षत्संनिपाते तस्मिन्नेव महाधर्मासने पर्यङ्कमाभुज्य अनन्तनिर्देशप्रतिष्ठानं नाम समाधिं समापन्नोऽभूदनिञ्जमानेन कायेन स्थितेन अनिञ्जमानेन चित्तेन । समनन्तरसमापन्नस्य खलु पुनस्तस्य भगवतो मान्दारवमहामान्दारवाणां मञ्जूषकमहामञ्जूषकाणां च दिव्यानां पुष्पाणां महत्पुष्पवर्षमभिप्रावर्षत् । तं भगवन्तं सपर्षदमभ्यवाकिरत्, सर्वावच्च तद्बुद्धक्षेत्रं षड्विकारं प्रकम्पितमभूत्चलितं संप्रचलितं वेधितं संप्रवेधितं क्षुभितं संप्रक्षुभितम् । तेन खलु पुनरजित समयेन तेन कालेन ये तस्यां पर्षदि भिक्षुभिक्षुण्युपासकोपासिका देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्याः संनिपतिता अभूवन् संनिषण्णाः, राजानश्च मण्डलिनो बलचक्रवर्तिनश्चतुर्द्वीपकचक्रवर्तिनश्च, ते सर्वे सपरिवारास्तं भगवन्तं व्यवलोकयन्ति स्म आश्चर्यप्राप्ता अद्भुतप्राप्ता औद्बिल्यप्राप्ताः । अथ खलु तस्यां वेलायां तस्य भगवतश्चन्द्रसूर्यप्रदीपस्य तथागतस्य भ्रूविवरान्तरादूर्णाकोशादेका रश्मिर्निश्चरिता । सा पूर्वस्यां दिशि अष्टादशबुद्धक्षेत्रसहस्राणि प्रसृता । तानि च बुद्धक्षेत्राणि सर्वाणि तस्या रश्मेः प्रभया सुपरिस्फुटानि संदृश्यन्ते स्म, तद्यथापि नाम अजित एतर्ह्येतानि बुद्धक्षेत्राणि संदृश्यन्ते ॥

तेन खलु पुनरजित समयेन तस्य भगवतो विंशतिबोधिसत्त्वकोट्यः समनुबद्धा अभुवन् । ये तस्यां पर्षदि धर्मश्रवणिकाः, ते आश्चर्यप्राप्ता अभूवनद्भुतप्राप्ता औद्बिल्यप्राप्ताः कौतूहलसमुत्पन्ना एतेन महारश्म्यवभासेनावभासितं लोकं दृष्ट्वा ॥

तेन खलु पुनरजित समयेन तस्य भगवतः शासने वरप्रभो नाम बोधिसत्त्वोऽभूत् । तस्याष्टौ शतान्यन्तेवासिनामभूवन् । स च भगवांस्ततः समाधेर्व्युत्थाय तं वरप्रभं बोधिसत्त्वमारभ्य सद्धर्मपुण्डरीकं नाम धर्मपर्यायं संप्रकाशयामास । यावत्परिपूर्णान् षष्ट्यन्तरकल्पान् भाषितवानेकासने निषण्णोऽसंप्रवेधमानेन कायेन अनिञ्जमानेन चित्तेन । सा च सर्वावती पर्षदेकासने निषण्णा तान् षष्ट्यन्तरकल्पांस्तस्य भगवतोऽन्तिकाद्धर्मं शृणोति स्म । न च तस्यां पर्षदि एकसत्त्वस्यापि कायक्लमथोऽभूत्, न च चित्तक्लमथः ॥

अथ स भगवांश्चन्द्रसूर्यप्रदीपस्तथागतोऽर्हन् सम्यक्संबुद्धः षष्टयन्तरकल्पानामत्ययात्तं सद्धर्मपुण्डरीकं धर्मपर्यायं सूत्रान्तं महावैपुल्यं बोधिसत्त्वाववादं सर्वबुद्धपरिग्रहं निर्दिश्य तस्मिन्नेव क्षणलवमुहूर्ते परिनिर्वाणमारोचितवान् सदेवकस्य लोकस्य समारकस्य सब्रह्मकस्य सश्रमणब्राह्मणिकायाः प्रजायाः सदेवमानुषासुरायाः पुरस्तात्- अद्य भिक्षवोऽस्यामेव रात्र्यां मध्यमे यामे तथागतोऽनुपधिशेषे निर्वाणधातौ परिनिर्वास्यतीति ॥

अथ खल्वजित स भगवांश्चन्द्रसूर्यप्रदीपस्तथागतोऽर्हन् सम्यक्संबुद्धः श्रीगर्भं नाम बोधिसत्त्वं महासत्त्वमनुत्तरायां सम्यक्संबोधौ व्याकृत्य तां सर्वावतीं पर्षदमामन्त्रयते स्म - अयं भिक्षवः श्रीगर्भो बोधिसत्त्वो ममानन्तरमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते । विमलनेत्रो नाम तथोगतोऽर्हन् सम्यक्संबुद्धो भविष्यति ॥
(वैद्य १४)

अथ खल्वजित स भगवांश्चन्द्रसूर्यप्रदीपस्तथागतोऽर्हन् सम्यक्संबुद्धस्तस्यामेव रात्र्यां मध्यमे यामेऽनुपधिशेषे निर्वाणधातौ परिनिर्वृतः । तं च सद्धर्मपुण्डरीकं धर्मपर्यायं स वरप्रभो बोधिसत्त्वो महासत्त्वो धारितवान् । अशीतिं चान्तरकल्पांस्तस्य भगवतः परिनिर्वृतस्य शासनं स वरप्रभो बोधिसत्त्वो महासत्त्वो धारितवान् संप्रकाशितवान् । तत्र अजित ये तस्य भगवतोऽष्टौ पुत्रा अभूवन्, मतिप्रमुखाः, ते तस्यैव वरप्रभस्य बोधिसत्त्वस्यान्तेवासिनोऽभूवन् । ते तेनैव परिपाचिता अभूवन्ननुत्तरायां सम्यक्संबोधौ । तैश्च ततः पश्चाद्बहूनि बुद्धकोटीनयुतशतसहस्राणि दृष्टानि सत्कृतानि च । सर्वे च तेऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः । पश्चिमकश्च तेषां दीपंकरोऽभूत्तथागतोऽर्हन् सम्यक्संबुद्धः ॥

तेषां च अष्टानामन्तेवासिशतानामेको बोधिसत्त्वोऽधिमात्रं लाभगुरुकोऽभूत्सत्कारगुरुको ज्ञातगुरुको यशस्कामः । तस्योद्दिष्टोद्दिष्टानि पदव्यञ्जनान्यन्तर्धीयन्ते न संतिष्ठन्ते स्म । तस्य यशस्काम इत्येव संज्ञाभूत् । तेनापि तेन कुशलमूलेन बहूनि बुद्धकोटीनयुतशतसहस्राण्यारागितान्यभूवन् । आरागयित्वा च सत्कृतानि गुरुकृतानि मानितानि पूजितान्यर्चितान्यपचायितानि । स्यात्खलु पुनस्ते अजित काङ्क्षा वा विमतिर्वा विचिकित्सा वा - अन्यः स तेन कालेन तेन समयेन वरप्रभो नाम बोधिसत्त्वो महासत्त्वोऽभूद्धर्मभाणकः । न खलु पुनरेवं द्रष्टव्यम् । तत्कस्य हेतोः? अहं स तेन कालेन तेन समयेन वरप्रभो नाम बोधिसत्त्वो महासत्त्वोऽभूद्धर्मभाणकः । यश्चासौ यशस्कामो नाम बोधिसत्त्वोऽभूत्कौसीद्यप्राप्तः, त्वमेव अजित स तेन कालेन तेन समयेन यशस्कामो नाम बोधिसत्त्वोऽभूत्कौसीद्यप्राप्तः । इति हि अजित अहमनेन पर्यायेणेदं भगवतः पूर्वनिमित्तं दृष्ट्वा एवंरूपां रश्मिमुत्सृष्टामेवं परिमीमांसे, यथा भगवानपि तं सद्धर्मपुण्डरीकं धर्मपर्यायं सूत्रान्तं महावैपुल्यं बोधिसत्त्वाववादं सर्वबुद्धपरिग्रहं भाषितुकामः ॥

अथ खलु मञ्जुश्रीः कुमारभूत एतमेवार्थं भूयस्या मात्रया प्रदर्शयमानस्तस्यां वेलायामिमा गाथा अभाषत -

अतीतमध्वानमनुस्मरामि अचिन्तिये अपरिमितस्मि कल्पे ।
यदा जिनो आसि प्रजान उत्तमश्चन्द्रस्य सूर्यस्य प्रदीप नाम ॥ १.५७ ॥
सद्धर्म देशेति प्रजान नायको विनेति सत्त्वान अनन्तकोट्यः ।
समादपेती बहुबोधिसत्त्वानचिन्तियानुत्तमि बुद्धज्ञाने ॥ १.५८ ॥
(वैद्य १५)
ये चाष्ट पुत्रास्तद तस्य आसन् कुमारभूतस्य विनायकस्य ।
दृष्ट्वा च तं प्रव्रजितं महामुनिं जहित्व कामांल्लघु सर्वि प्राव्रजन् ॥ १.५९ ॥
धर्मं च सो भाषति लोकनाथो अनन्तनिर्देशवरं ति सूत्रम् ।
नामेव वैपुल्यमिदं प्रवुच्यति प्रकाशयी प्राणिसहस्रकोटिनाम् ॥ १.६० ॥
समनन्तरं भाषिय सो विनायकः पर्यङ्क बन्धित्व क्षणस्मि तस्मिन् ।
अनन्तनिर्देशवरं समाधिं धर्मासनस्थो मुनिश्रेष्ठ ध्यायी ॥ १.६१ ॥
दिव्यं च मान्दारववर्षमासीदघट्टिता दुन्दुभयश्च नेदुः ।
देवाश्च यक्षाश्च स्थितान्तरीक्षे कुर्वन्ति पूजां द्विपदोत्तमस्य ॥ १.६२ ॥
सर्वं च क्षेत्रं प्रचचाल तत्क्षणमाश्चर्यमत्यद्भुतमासि तत्र ।
रश्मिं च एकां प्रमुमोच नायको भ्रुवान्तरात्तामतिदर्शनीयाम् ॥ १.६३ ॥
पूर्वां च गत्वा दिश सा हि रश्मिरष्टादशक्षेत्रसहस्र पूर्णा ।
प्रभासयं भ्राजति सर्वलोकं दर्शेति सत्त्वान च्युतोपपादम् ॥ १.६४ ॥
रत्नामया क्षेत्र तथात्र केचिद्वैडूर्यनिर्भास तथैव केचित् ।
दृश्यन्ति चित्रा अतिदर्शनीया रश्मिप्रभासेन विनायकस्य ॥ १.६५ ॥
देवा मनुष्यास्तथ नाग यक्षा गन्धर्व तत्राप्सरकिन्नराश्च ।
(वैद्य १६)
ये चाभियुक्ताः सुगतस्य पूजया दृश्यन्ति पूजेन्ति च लोकधातुषु ॥ १.६६ ॥
बुद्धाश्च दृश्यन्ति स्वयं स्वयंभुवः सुवर्णयूपा इव दर्शनीयाः ।
वैडूर्यमध्ये च सुवर्णबिम्बं पर्षाय मध्ये प्रवदन्ति धर्मम् ॥ १.६७ ॥
तहि श्रावकाणां गणना न विद्यते ते चाप्रमाणाः सुगतस्य श्रावकाः ।
एकैकक्षेत्रस्मि विनायकानां रश्मिप्रभा दर्शयते हि सर्वान् ॥ १.६८ ॥
वीर्यैरुपेताश्च अखण्डशीला अच्छिद्रशीला मणिरत्नसादृशाः ।
दृश्यन्ति पुत्रा नरनायकानां विहरन्ति ये पर्वतकन्दरेषु ॥ १.६९ ॥
सर्वस्वदानानि परित्यजन्तः क्षान्तीबला ध्यानरताश्च धीराः ।
बहुबोधिसत्त्वा यथ गङ्गवालिकाः सर्वेऽपि दृश्यन्ति तया हि रश्म्या ॥ १.७० ॥
अनिञ्जमानाश्च अवेधमानाः क्षान्तौ स्थिता ध्यानरताः समाहिताः ।
दृश्यन्ति पुत्राः सुगतस्य औरसा ध्यानेन ते प्रस्थित अग्रबोधिम् ॥ १.७१ ॥
भूतं पदं शान्तमनास्रवं च प्रजानमानाश्च प्रकाशयन्ति ।
देशेन्ति धर्मं बहुलोकधातुषु सुगतानुभावादियमीदृशी क्रिया ॥ १.७२ ॥
दृष्ट्वा च ता पर्ष चतस्र तायिनश्चन्द्रार्कदीपस्य इमं प्रभावम् ।
हर्षस्थिताः सर्वि भवित्व तत्क्षणमन्योन्य पृच्छन्ति कथं नु एतत् ॥ १.७३ ॥
(वैद्य १७)
अचिराच्च सो नरमरुयक्षपूजितः समाधितो व्युत्थित लोकनायकः ।
वरप्रभं पुत्र तदाध्यभाषत यो बोधिसत्त्वो विदु धर्मभाणकः ॥ १.७४ ॥
लोकस्य चक्षुश्च गतिश्च त्वं विदुर्वैश्वासिको धर्मधरश्च मह्यम् ।
त्वं ह्यत्र साक्षी मम धर्मकोशे यथाहु भाषिष्यि हिताय प्राणिनाम् ॥ १.७५ ॥
संस्थापयित्वा बहुबोधिसत्त्वान् हर्षित्व संवर्णिय संस्तवित्वा ।
प्रभाषते तज्जिन अग्रधर्मान् परिपूर्ण सो अन्तरकल्प षष्टिम् ॥ १.७६ ॥
यं चैव सो भाषति लोकनाथो एकासनस्थः प्रवराग्रधर्मम् ।
तं सर्वमाधारयि सो जिनात्मजो वरप्रभो यो अभु धर्मभाणकः ॥ १.७७ ॥
सो चो जिनो भाषिय अग्रधर्मं प्रहर्षयित्वा जनतामनेकाम् ।
तस्मिंश्च दिवसे वदते स नायकः पुरतो हि लोकस्य सदेवकस्य ॥ १.७८ ॥
प्रकाशिता मे इय धर्मनेत्री आचक्षितो धर्मस्वभाव यादृअशः ।
निर्वाणकालो मम अद्य भिक्षवो रात्रीय यामस्मिह मध्यमस्मिन् ॥ १.७९ ॥
भवथाप्रमत्ता अधिमुक्तिसारा अभियुज्यथा मह्य इमस्मि शासने ।
सुदुर्लभा भोन्ति जिना महर्षयः कल्पान कोटीनयुतान अत्ययात् ॥ १.८० ॥
संतापजाता बहुबुद्धपुत्रा दुःखेन चोग्रेण समर्पिताभवन् ।
(वैद्य १८)
श्रुत्वान घोषं द्विपदोत्तमस्य निर्वाणशब्दमतिक्षिप्रमेतत् ॥ १.८१ ॥
आश्वासयित्वा च नरेन्द्रराजा ताः प्राणकोट्यो बहवो अचिन्तियाः ।
मा भायथा भिक्षव निर्वृते मयि भविष्यथ बुद्ध ममोत्तरेण ॥ १.८२ ॥
श्रीगर्भ एषो विदु बोधिसत्त्वो गतिं गतो ज्ञानि अनास्रवस्मिन् ।
स्पृशिष्यते उत्तममग्रबोधिं विमलाग्रनेत्रो ति जिनो भविष्यति ॥ १.८३ ॥
तामेव रात्रिं तद यामि मध्यमे परिनिर्वृतो हेतुक्षये व दीपः ।
शरीर वैस्तारिकु तस्य चाभूत्स्तूपान कोटीनयुता अनन्तका ॥ १.८४ ॥
भिक्षुश्च तत्रा तथ भिक्षुणीयो ये प्रस्थिता उत्तममग्रबोधिम् ।
अनल्पकास्ते यथ गङ्गबालिका अभियुक्त तस्यो सुगतस्य शासने ॥ १.८५ ॥
यश्चापि भिक्षुस्तद धर्मभाणको वरप्रभो येन स धर्म धारितः ।
अशीति सो अन्तरकल्प पूर्णां तहि शासने भाषति अग्रधर्मान् ॥ १.८६ ॥
अष्टाशतं तस्य अभूषि शिष्याः परिपाचिता ये तद तेन सर्वे ।
दृष्टा च तेभिर्बहुबुद्धकोट्यः सत्कारु तेषां च कृतो महर्षिणाम् ॥ १.८७ ॥
चर्यां चरित्वा तद आनुलोमिकीं बुद्धा अभूवन् बहुलोकधातुषु
परस्परं ते च अनन्तरेण अन्योन्य व्याकर्षु तदाग्रबोधये ॥ १.८८ ॥
(वैद्य १९)
तेषां च बुद्धान परंपरेण दीपंकरः पश्चिमको अभूषि ।
देवातिदेवो ऋषिसंघपूजितो विनीतवान् प्राणिसहस्रकोट्यः ॥ १.८९ ॥
यश्चासि तस्यो सुगतात्मजस्य वरप्रभस्यो तद धर्म भाषतः ।
शिष्यः कुसीदश्च स लोलुपात्मा लाभं च ज्ञानं च गवेषमाणः ॥ १.९० ॥
यशोर्थिकश्चाप्यतिमात्र आसीत्कुलाकुलं च प्रतिपन्नमासीत् ।
उद्देश स्वाध्यायु तथास्य सर्वो न तिष्ठते भाषितु तस्मि काले ॥ १.९१ ॥
नामं च तस्यो इममेवमासीद्यशकामनाम्ना दिशतासु विश्रुतः ।
स चापि तेनाकुशलेन कर्मणा कल्माषभूतेनभिसंस्कृतेन ॥ १.९२ ॥
आरागयी बुद्धसहस्रकोट्यः पूजां च तेषां विपुलामकार्षीत् ।
चीर्णा च चर्या वर आनुलोमिकी दृष्टश्च बुद्धो अयु शाक्यसिंहः ॥ १.९३ ॥
अयं च सो पश्चिमको भविष्यति अनुत्तरां लप्स्यति चाग्रबोधिम् ।
मैत्रेयगोत्रो भगवान् भविष्यति विनेष्यति प्राणसहस्रकोट्यः ॥ १.९४ ॥
कौसीद्यप्राप्तस्तद यो बभूव परिनिर्वृतस्य सुगतस्य शासने ।
त्वमेव सो तादृशको बभूव अहं च आसीत्तद धर्मभाणकः ॥ १.९५ ॥
इमेन हं कारणहेतुनाद्य दृष्ट्वा निमित्तमिदमेवरूपम् ।
ज्ञानस्य तस्य प्रथितं निमित्तं प्रथमं मया तत्र वदामि दृष्टम् ॥ १.९६ ॥
(वैद्य २०)
ध्रुवं जिनेन्द्रोऽपि समन्तचक्षुः शाक्याधिराजः परमार्थदर्शी ।
तमेव यमिच्छति भाषणाय पर्यायमग्रं तदद्यो मया श्रुतः ॥ १.९७ ॥
तदेव परिपूर्ण निमित्तमद्य उपायकौशल्य विनायकानाम् ।
संस्थापनं कुर्वति शाक्यसिंहो भाषिष्यते धर्मस्वभावमुद्राम् ॥ १.९८ ॥
प्रयता सुचित्ता भवथा कृताञ्जली भाषिष्यते लोकहितानुकम्पी ।
वर्षिष्यते धर्ममनन्तवर्षं तर्पिष्यते ये स्थित बोधिहेतोः ॥ १.९९ ॥
येषां च संदेहगतीह काचिद्ये संशया या विचिकित्स काचित् ।
व्यपनेष्यते ता विदुरात्मजानां ये बोधिसत्त्वा इह बोधिप्रस्थिताः ॥ १.१०० ॥

इत्यार्यसद्धर्मपुण्डरीके धमपर्याये निदानपरिवर्तो नाम प्रथमः ॥१॥


_______________________________________________________________________________


(वैद्य २१)
२: उपायकौशल्यपरिवर्तः ।

अथ खलु भगवान् स्मृतिमान् संप्रजानंस्ततः समाधेर्व्युत्थितः । व्युत्थाय आयुष्मन्तं शारिपुत्रमामन्त्रयते स्म - गम्भीरं शारिपुत्र दुर्दृशं दुरनुबोधं बुद्धज्ञानं तथागतैरर्हद्भिः सम्यक्संबुद्धैः प्रतिबुद्धम्, दुर्विज्ञेयं सर्वश्रावकप्रत्येकबुद्धैः । तत्कस्य हेतोः? बहुबुद्धकोटीनयुतशतसहस्रपर्युपासिताविनो हि शारिपुत्र तथागता अर्हन्तः सम्यक्संबुद्धा बहुबुद्धकोटीनयुतशतसहस्रचीर्णचरिताविनोऽनुत्तरायां सम्यक्संबोधौ दूरानुगताः कृतवीर्या आश्चर्याद्भुतधर्मसमन्वागता दुर्विज्ञेयधर्मसमन्वागता दुर्विज्ञेयधर्मानुज्ञाताविनः ॥

दुर्विज्ञेयं शारिपुत्र संधाभाष्यं तथागतानामर्हतां सम्यक्संबुद्धानाम् । तत्कस्य हेतोः? स्वप्रत्ययान् धर्मान् प्रकाशयन्ति विविधोपायकौशल्यज्ञानदर्शनहेतुकारणनिर्देशनारम्बणनिरुक्तिप्रज्ञप्तिभिस्तैरुपायकौशल्यैस्तस्मिंस्तस्मिंल्लग्नान् सत्त्वान् प्रमोचयितुम् । महोपायकौशल्यज्ञानदर्शनपरमपारमिताप्राप्ताः शारिपुत्र तथागता अर्हन्तः सम्यक्संबुद्धाः । असङ्गाप्रतिहतज्ञानदर्शनबलवैशारद्यावेणिकेन्द्रियबलबोध्यङ्गध्यानविमोक्षसमाधिसमापत्त्यद्भुतधर्मसमन्वागता विविधधर्मसंप्रकाशकाः । महाश्चर्याद्भुतप्राप्ताः शारिपुत्र तथागता अर्हन्तः सम्यक्संबुद्धाः । अलं शारिपुत्र एतावदेव भाषितुं भवतु - परमाश्चर्यप्राप्ताः शारिपुत्र तथागता अर्हन्तः सम्यक्संबुद्धाः । तथागत एव शारिपुत्र तथागतस्य धर्मान् देशयेत्, यान् धर्मांस्तथागतो जानाति । सर्वधर्मानपि शारिपुत्र तथागत एव देशयति । सर्वधर्मानपि तथागत एव जानाति, ये च ते धर्माः, यथा च ते धर्माः, यादृशाश्च ते धर्माः, यल्लक्षणाश्च ते धर्माः, यत्स्वभावाश्च ते धर्माः, ये च यथा च यादृशाश्च यल्लक्षणाश्च यत्स्वभावाश्च ते धर्मा इति । तेषु धर्मेषु तथागत एव प्रत्यक्षोऽपरोक्षः ॥

अथ खलु भगवानेतमेवार्थं भूयस्या मात्रया संदर्शयमानस्तस्यां वेलायामिमा गाथा अभाषत -

अप्रमेया महावीरा लोके समरुमानुषे ।
न शक्यं सर्वशो ज्ञातुं सर्वसत्त्वैर्विनायकाः ॥ २.१ ॥
बला विमोक्षा ये तेषां वैशारद्याश्च यादृशाः ।
यादृशा बुद्धधर्माश्च न शक्यं ज्ञातु केनचित् ॥ २.२ ॥
पूर्वे निषेविता चर्या बुद्धकोटीन अन्तिके ।
गम्भीरा चैव सूक्ष्मा च दुर्विज्ञेया सुदुर्दृशा ॥ २.३ ॥
तस्यां चीर्णाय चर्यायां कल्पकोट्यो अचिन्तिया ।
फलं मे बोधिमण्डस्मिन् दृष्टं यादृशकं हि तत् ॥ २.४ ॥
अहं च तत्प्रजानामि ये चान्ये लोकनायकाः ।
यथा यद्यादृशं चापि लक्षणं चास्य यादृशम् ॥ २.५ ॥
(वैद्य २२)
न तद्दर्शयितुं शक्यं व्याहारोऽस्य न विद्यते ।
नाप्यसौ तादृशः कश्चित्सत्त्वो लोकस्मि विद्यते ॥ २.६ ॥
यस्य तं देशयेद्धर्म देशितं चापि जानियात् ।
अन्यत्र बोधिसत्त्वेभ्यो अधिमुक्तीय ये स्थिताः ॥ २.७ ॥
ये चापि ते लोकविदुस्य श्रावकाः कृताधिकाराः सुगतानुवर्णिताः ।
क्षीणास्रवा अन्तिमदेहधारिणो न तेष विषयोऽस्ति जिनान ज्ञाने ॥ २.८ ॥
स चैव सर्वा इय लोकधातु पूर्णा भवेच्छारिसुतोपमानाम् ।
एकीभवित्वान विचिन्तयेयुः सुगतस्य ज्ञानं न हि शक्य जानितुम् ॥ २.९ ॥
सचेह त्वं सादृशकेहि पण्डितैः पूर्णा भवेयुर्दशा पि द्दिशायो ।
ये चापि मह्यमिमि श्रावकान्ये तेषां पि पूर्णा भवि एवमेव ॥ २.१० ॥
एकीभवित्वान च तेऽद्य सर्वे विचिन्तयेयुः सुगतस्य ज्ञानम् ।
न शक्त सर्वे सहिता पि ज्ञातुं यथाप्रमेयं मम बुद्धज्ञानम् ॥ २.११ ॥
प्रत्येकबुद्धान अनास्रवाणां तीक्ष्णेन्द्रियाणान्तिमदेहधारिणाम् ।
दिशो दशः सर्व भवेयुः पूर्णा यथा नडानां वनवेणुनां वा ॥ २.१२ ॥
एको भवित्वान विचिन्तयेयुर्ममाग्रधर्माण प्रदेशमात्रम् ।
कल्पान कोटीनयुताननन्तान्न तस्य भूतं परिजानि अर्थम् ॥ २.१३ ॥
नवयानसंप्रस्थित बोधिसत्त्वाः कृताधिकारा बहुबुद्धकोटिषु ।
(वैद्य २३)
सुविनिश्चितार्था बहुधर्मभाणकास्तेषां पि पूर्णा दशिमा दिशो भवेत् ॥ २.१४ ॥
नडान वेणून व नित्यकालमच्छिद्रपूर्णो भवि सर्वलोकः ।
एकीभवित्वान विचिन्तयेयुर्यो धर्म साक्षात्सुगतेन दृष्टः ॥ २.१५ ॥
अनुचिन्तयित्वा बहुकल्पकोट्यो गङ्गा यथा वालिक अप्रमेयाः ।
अनन्यचित्ताः सुखुमाय प्रज्ञया तेषां पि चास्मिन् विषयो न विद्यते ॥ २.१६ ॥
अविवर्तिका ये भवि बोधिसत्त्वा अनल्पका यथरिव गङ्गवालिकाः ।
अनन्यचित्ताश्च विचिन्तयेयुस्तेषां पि चास्मिन् विषयो न विद्यते ॥ २.१७ ॥
गम्भीर धर्मा सुखुमा पि बुद्धा अतर्किकाः सर्वि अनास्रवाश्च ।
अहं च जानामिह यादृशा हि ते ते वा जिना लोकि दशद्दिशासु ॥ २.१८ ॥
यं शारिपुत्रो सुगतः प्रभाषते अधिमुक्तिसंपन्न भवाहि तत्र ।
अनन्यथावादि जिनो महर्षी चिरेण पी भाषति उत्तमार्थम् ॥ २.१९ ॥
आमन्त्रयामी इमि सर्वश्रावकान् प्रत्येकबोधाय च येऽभिप्रस्थिताः ।
संस्थापिता ये मय निर्वृतीय संमोक्षिता दुःखपरंपरातः ॥ २.२० ॥
उपायकौशल्य ममेतदग्रं भाषामि धर्मं बहु येन लोके ।
तहिं तहिं लग्न प्रमोचयामि त्रीणी च यानान्युपदर्शयामि ॥ २.२१ ॥
(वैद्य २४)

अथ खलु ये तत्र पर्षत्संनिपाते महाश्रावका आज्ञातकौण्डिन्यप्रमुखा अर्हन्तः क्षीणास्रवा द्वादश वशीभूतशतानि ये चान्ये श्रावकयानिका भिक्षुभिक्षुण्युपासकोपासिका ये च प्रत्येकबुद्धयानसंप्रस्थिताः, तेषां सर्वेषामेतदभवत्- को नु हेतुः किं कारणं यद्भगवानधिमात्रमुपायकौशल्यं तथागतानां संवर्णयति? गम्भीरश्चायं मया धर्मोऽभिसंबुद्ध इति संवर्णयति? दुर्विज्ञेयश्च सर्वश्रावकप्रत्येकबुद्धैरिति संवर्णयति? यथा तावद्भगवता एकैव विमुक्तिराख्याता, वयमपि बुद्धधर्माणां लाभिनो निर्वाणप्राप्ताः । अस्य च वयं भगवतो भाषितस्यार्थ न जानीमः ॥

अथ खल्वायुष्मान् शारिपुत्रस्तासां चतसृणां पर्षदां विचिकित्साकथंकथां विदित्वा चेतसैव चेतःपरिवितर्कमाज्ञाय आत्मना च धर्मसंशयप्राप्तस्तस्यां वेलायां भगवन्तमेतदवोचत्- को भगवन् हेतुः, कः प्रत्ययो यद्भगवानधिमात्रं पुनः पुनस्तथागतानामुपायकौशल्यज्ञानदर्शनधर्मदेशनां संवर्णयति - गम्भीरश्च मे धर्मोऽभिसंबुद्ध इति । दुर्विज्ञेयं च संघाभाष्यमिति पुनः पुनः संवर्णयति । न च मे भगवतोऽन्तिकादेवंरूपो धर्मपर्यायः श्रुतपूर्वः । इमाश्च भगवंश्चतस्रः पर्षदो विचिकित्साकथंकथाप्राप्ताः । तत्साधु भगवान्निर्दिशतु यत्संघाय तथागतो गम्भीरस्य तथागतधर्मस्य पुनः पुनः संवर्णनां करोति ॥

अथ खल्वायुष्मान् शारिपुत्रस्तस्यां वेलायामिमा गाथा अभाषत -

चिरस्याद्य नरादित्य ईदृशीं कुरुते कथाम् ।
बला विमोक्षा ध्यानाश्च अप्रमेया मि स्पर्शिताः ॥ २.२२ ॥
बोधिमण्डं च कीर्तेसि पृच्छकस्ते न विद्यते ।
संधाभाष्यं च कीर्तेसि न च त्वां कश्चि पृच्छति ॥ २.२३ ॥
अपृच्छितो व्याहरसि चर्यां वर्णेसि चात्मनः ।
ज्ञानाधिगम कीर्तेसि गम्भीरं च प्रभाषसे ॥ २.२४ ॥
अद्येमे संशयप्राप्ता वशीभूता अनास्रवाः ।
निर्वाणं प्रस्थिता ये च किमेतद्भाषते जिनः ॥ २.२५ ॥
प्रत्येकबोधिं प्रार्थेन्ता भिक्षुण्यो भिक्षवस्तथा ।
देवा नागाश्च यक्षाश्च गन्धर्वाश्च महोरगाः ॥ २.२६ ॥
समालपन्तो अन्योन्यं प्रेक्षन्ते द्विपदोत्तमम् ।
कथंकथी विचिन्तेन्ता व्याकुरुष्व महामुने ॥ २.२७ ॥
यावन्तः श्रावकाः सन्ति सुगतस्येह सर्वशः ।
अहमत्र पारमीप्राप्तो निर्दिष्टः परमर्षिणा ॥ २.२८ ॥
ममापि संशयो ह्यत्र स्वके स्थाने नरोत्तम ।
किं निष्ठा मम निर्वाणे अथ चर्या मि दर्शिता ॥ २.२९ ॥
(वैद्य २५)
प्रमुञ्च घोषं वरदुन्दुभिस्वरा उदाहरस्वा यथ एष धर्मः ।
इमे स्थिता पुत्र जिनस्य औरसा व्यवलोकयन्तश्च कृताञ्जली जिनम् ॥ २.३० ॥
देवाश्च नागाश्च सयक्षराक्षसाः कोटीसहस्रा यथ गङ्गवालिकाः ।
ये चापि प्रार्थेन्ति समग्रबोधिं सहस्रशीतिः परिपूर्ण ये स्थिताः ॥ २.३१ ॥
राजान ये महिपति चक्रवर्तिनो ये आगताः क्षेत्रसहस्रकोटिभिः ।
कृताञ्जली सर्वि सगौरवाः स्थिताः कथं नु चर्यां परिपूरयेम ॥ २.३२ ॥

एवमुक्ते भगवानायुष्मन्तं शारिपुत्रमेतदवोचत्- अलं शारिपुत्र । किमनेनार्थेन भाषितेन? तत्कस्य हेतोः? उत्रसिष्यति शारिपुत्र अयं सदेवको लोकोऽस्मिन्नर्थे व्याक्रियमाणे । द्वैतीयकमप्यायुष्मान् शारिपुत्रो भगवन्तमध्येषते स्म - भाषतां भगवान्, भाषतां सुगत एतमेवार्थम् । तत्कस्य हेतोः? सन्ति भगवंस्तस्यां पर्षदि बहूनि प्राणिशतानि बहूनि प्राणिसहस्राणि बहूनि प्राणिशतसहस्राणि बहूनि प्राणिकोटीनयुतशतसहस्राणि पूर्वबुद्धदर्शावीनि प्रज्ञावन्ति, यानि भगवतो भाषितं श्रद्धास्यन्ति प्रतीयिष्यन्ति उद्ग्रहीष्यन्ति ॥

अथ खल्वायुष्मान् शारिपुत्रो भगवन्तमनया गाथयाध्यभाषत -

विस्पष्टु भाषस्व जिनान उत्तमा सन्तीह पर्षाय सहस्र प्राणिनाम् ।
श्राद्धाः प्रसन्नाः सुगते सगौरवा ज्ञास्यन्ति ये धर्ममुदाहृतं ते ॥ २.३३ ॥

अथ खलु भगवान् द्वैतीयकमप्यायुष्मन्तं शारिपुत्रमेतदवोचत्- अलं शारिपुत्र अनेनार्थेन प्रकाशितेन । उत्रसिष्यति शारिपुत्र अयं सदेवको लोकोऽस्मिन्नर्थे व्याक्रियमाणे । अभिमानप्राप्ताश्च भिक्षवो महाप्रपातं प्रपतिष्यन्ति ॥

अथ खलु भगवांस्तस्यां वेलायामिमां गाथामभाषत -

अलं हि धर्मेणिह भाषितेन सूक्ष्ममिदं ज्ञानमतर्किकं च ।
अभिमानप्राप्ता बहु सन्ति बाला निर्दिष्टधर्मस्मि क्षिपे अजानकाः ॥ २.३४ ॥
(वैद्य २६)

त्रैतीयकमप्यायुष्मान् शारिपुत्रो भगवन्तमध्येषते स्म - भाषतां भगवान्, भाषतां सुगत एतमेवार्थम् । मादृशानां भगवन्निह पर्षदि बहूनि प्राणिशतानि संविद्यन्ते, अन्यानि च भगवन् बहूनि प्राणिशतानि बहूनि प्राणिसहस्राणि बहूनि प्राणिशतसहस्राणि बहूनि प्राणिकोटीनयुतशतसहस्राणि, यानि भगवता पूर्वभवेषु परिपाचितानि, तानि भगवतो भाषितं श्रद्धास्यन्ति प्रतीयिष्यन्ति उद्गहीष्यन्ति । तेषां तद्भभविष्यति दीर्घरात्रमर्थाय हिताय सुखायेति ॥

अथ खल्वायुष्मान् शारिपुत्रस्तस्यां वेलायामिमा गाथा अभाषत -

भाषस्व धर्मं द्विपदानमुत्तमा अहं त्वामध्येषमि ज्येष्ठपुत्रः ।
सन्तीह प्राणीन सहस्रकोटयो ये श्रद्दधास्यन्ति ते धर्म भाषितम् ॥ २.३५ ॥

ये च त्वया पूर्वभवेषु नित्यं परिपाचिताः सत्त्व सुदीर्घरात्रम् ।
कृताञ्जली ते पि स्थितात्र सर्वे ये श्रद्दधास्यन्ति तवैत धर्मम् ॥ २.३६ ॥
अस्मादृशा द्वादशिमे शताश्च ये चापि ते प्रस्थित अग्रबोधये ।
तान् पश्यमानः सुगतः प्रभाषतां तेषां च हर्षं परमं जनेतु ॥ २.३७ ॥

अथ खलु भगवांस्त्रैतीयकमप्यायुष्मतः शारिपुत्रस्याध्येषणां विदित्वा आयुष्मन्तं शारिपुत्रमेतदवोचत्- यदिदानीं त्वं शारिपुत्र यावत्रैतीयकमपि तथागतमध्येषसे । एवमध्येषमाणं त्वां शारिपुत्र किं वक्ष्यामि ? तेन हि शारिपुत्र शृणु, साधु च सुष्ठु च मनसि कुरु । भाषिष्येऽहं ते ॥

समनन्तरभाषिता चेयं भगवता वाक्, अथ खलु ततः पर्षद आभिमानिकानां भिक्षूणां भिक्षुणीनामुपासकानामुपासिकानां पञ्चमात्राणि सहस्राण्युत्थाय आसनेभ्यो भगवतः पादौ शिरसाभिवन्दित्वा ततः पर्षदोऽपक्रामन्ति स्म, यथापीदमभिमानाकुशलमूलेन अप्राप्ते प्राप्तसंज्ञिनोऽनधिगतेऽधिगतसंज्ञिनः । ते आत्मानं सव्रणं ज्ञात्वा ततः पर्षदोऽपक्रान्ताः । भगवांश्च तूष्णींभावेनाधिवासयति स्म ॥

अथ खलु भगवानायुष्मन्तं शारिपुत्रमामन्त्रयते स्म - निप्पलावा मे शारिपुत्र पर्षतपगतफल्गुः श्रद्धासारे प्रतिष्ठिता । साधु शारिपुत्र एतेषामाभिमानिकानामतोऽपक्रमणम् । तेन हि शारिपुत्र भाषिष्ये एतमर्थम् । साधु भगवन्नित्यायुष्मान् शारिपुत्रो भगवतः प्रत्यश्रौषीत् ॥
(वैद्य २७)

भगवानेतदवोचत्- कदाचित्कर्हिचिच्छारिपुत्र तथागत एवंरूपां धर्मदेशनां कथयति । तद्यथापि नाम शारिपुत्र उदुम्बरपुष्पं कदाचित्कर्हिचित्संदृश्यते, एवमेव शारिपुत्र तथागतोऽपि कदाचित्कर्हिचितेवंरूपां धर्मदेशनां कथयति । श्रद्दधत मे शारिपुत्र, भूतवाद्यहमस्मि, तथावाद्यहमस्मि, अनन्यथावाद्यहमस्मि । दुर्बोध्यं शारिपुत्र तथागतस्य संधाभाष्यम् । तत्कस्य हेतोः? नानानिरुक्तिनिर्देशाभिलापनिर्देशनैर्मया शारिपुत्र विविधैरुपायकौशल्यशतसहस्रैर्धर्मः संप्रकाशितः । अतर्कोऽतर्कावचरस्तथागतविज्ञेयः शारिपुत्र सद्धर्मः । तत्कस्य हेतोः? एककृत्येन शारिपुत्र एककरणीयेन तथागतोऽर्हन् सम्यक्संबुद्धो लोक उत्पद्यते महाकृत्येन महाकरणीयेन । कतमं च शारिपुत्र तथागतस्य एककृत्यमेककरणीयं महाकृत्यं महाकरणीयं येन कृत्येन तथागतोऽर्हन् सम्यक्संबुद्धो लोक उत्पद्यते? यदिदं तथागतज्ञानदर्शनसमादापनहेतुनिमित्तं सत्त्वानां तथागतोऽर्हन् सम्यक्संबुद्धो लोक उत्पद्यते । तथागतज्ञानदर्शनसंदर्शनहेतुनिमित्तं सत्त्वानां तथागतोऽर्हन् सम्यक्संबुद्धो लोक उत्पद्यते । तथागतज्ञानदर्शनावतारणहेतुनिमित्तं सत्त्वानां तथागतोऽर्हन् सम्यक्संबुद्धो लोक उत्पद्यते । तथागतज्ञानप्रतिबोधनहेतुनिमित्तं सत्त्वानां तथागतोऽर्हन् सम्यक्संबुद्धो लोक उत्पद्यते । तथागतज्ञानदर्शनमार्गावतारणहेतुनिमित्तं सत्त्वानां तथागतोऽर्हन् सम्यक्संबुद्धो लोक उत्पद्यते । इदं तच्छारिपुत्र तथागतस्य एककृत्यमेककरणीयं महाकृत्यं महाकरणीयमेकप्रयोजनं लोके प्रादुर्भावाय । इति हि शारिपुत्र यत्तथागतस्य एककृत्यमेककरणीयं महाकृत्यं महाकरणीयम्, तत्तथागतः करोति । तत्कस्य हेतोः? तथागतज्ञानदर्शनसमादापक एवाहं शारिपुत्र, तथागतज्ञानदर्शनसंदर्शक एवाहं शारिपुत्र, तथागतज्ञानदर्शनावतारक एवाहं शारिपुत्र, तथागतज्ञानदर्शनप्रतिबोधक एवाहं शारिपुत्र, तथागतज्ञानदर्शनमार्गावतारक एवाहं शारिपुत्र । एकमेवाहं शारिपुत्र यानमारभ्य सत्त्वानां धर्म देशयामि यदिदं बुद्धयानम् । न किंचिच्छारिपुत्र द्वितीयं वा तृतीयं वा यानं संविद्यते । सर्वत्रैषा शारिपुत्र धर्मता दशदिग्लोके । तत्कस्य हेतोः? येऽपि तु शारिपुत्र अतीतऽध्वन्यभूवन् दशसु दिक्ष्वप्रमेयेष्वसंख्येयेषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धा बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च । ये नानाभिनिर्हारनिर्देशविविधहेतुकारणनिदर्शनारम्बणनिरुक्त्युपायकौशल्यैर्नानाधिमुक्तानां सत्त्वानां नानाधात्वाशयानामाशयं विदित्वा धर्मं देशितवन्तः । तेऽपि सर्वे शारिपुत्र बुद्धा भगवन्त एकमेव यानमारभ्य सत्त्वानां धर्मं देशितवन्तः, यदिदं बुद्धयानं सर्वज्ञतापर्यवसानम्, यदिदं तथागतज्ञानदर्शनसमादापनमेव सत्त्वानां तथागतज्ञानदर्शनसंदर्शनमेव तथागतज्ञानदर्शनावतारणमेव तथागतज्ञानदर्शनप्रतिबोधनमेव तथागतज्ञानदर्शनमार्गावतारणमेव सत्त्वानां धर्मं देशितवन्तः । यैरपि शारिपुत्र सत्त्वैस्तेषामतीतानां तथागतानामर्हतां सम्यक्संबुद्धानामन्तिकात्सद्धर्मः श्रुतः, तेऽपि सर्वेऽनुत्तरायाः सम्यक्संबोधेर्लाभिनोऽभूवन् ॥
(वैद्य २८)

येऽपि ते शारिपुत्र अनागतेऽध्वनि भविष्यन्ति दशसु दिक्ष्वप्रमेयेष्वसंख्येयेषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धा बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च, ये च नानाभिर्निहारनिर्देशविविधहेतुकारणनिदर्शनारम्बणनिरुक्त्युपायकौशल्यैर्नानाधिमुक्तानां सत्त्वानां नानाधात्वाशयानामाशयं विदित्वा धर्मं देशयिष्यन्ति, तेऽपि सर्वे शारिपुत्र बुद्धा भगवन्त एकमेव यानमारभ्य सत्त्वानां धर्मं देशयिष्यन्ति यदिदं बुद्धयानं सर्वज्ञतापर्यवसानम्, यदिदं तथागतज्ञानदर्शनसमादापनमेव सत्त्वानां तथागतज्ञानदर्शनसंदर्शनमेव तथागतज्ञानदर्शनावतारणमेव तथागतज्ञानदर्शनप्रतिबोधनमेव तथागतज्ञानदर्शनमार्गावतारणमेव सत्त्वानां धर्मं देशयिष्यन्ति । येऽपि ते शारिपुत्र सत्त्वास्तेषामनागतानां तथागतानामर्हतां सम्यक्संबुद्धानामन्तिकात्तं धर्मं श्रोष्यन्ति, तेऽपि सर्वेऽनुत्तरायाः सम्यक्संबोधेर्लाभिनो भविष्यन्ति ॥

येऽपि ते शारिपुत्र एतर्हि प्रत्युत्पन्नेऽध्वनि दशसु दिक्ष्वप्रमेयेष्वसंख्येयेषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धास्तिष्ठन्ति घ्रियन्ते यापयन्ति, धर्मं च देशयन्ति बहुजनहिताय बहुजनहिताय लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च, ये नानाभिनिर्हारनिर्देशविविधहेतुकारणनिदर्शनारम्बणनिरुक्त्युपायकौशल्यैर्नानाधिमुक्तानां सत्त्वानां नानाधात्वाशयानामाशयं विदित्वा धर्मं देशयन्ति, तेऽपि सर्वे शारिपुत्र बुद्धा भगवन्त एकमेव यानमारभ्य सत्त्वानां धर्मं देशयन्ति यदिदं बुद्धयानं सर्वज्ञतापर्यवसानम्, यदिदं तथागतज्ञानदर्शनसमादापनमेव सत्त्वानां तथागतज्ञानदर्शनसंदर्शनमेव तथागतज्ञानदर्शनावतारणमेव तथागतज्ञानदर्शनप्रतिबोधनमेव तथागतज्ञानदर्शनमार्गावतारणमेव सत्त्वानां धर्मं देशयन्ति । येऽपि ते शारिपुत्र सत्त्वास्तेषां प्रत्युत्पन्नानां तथागतानामर्हतां सम्यक्संबुद्धानामन्तिकात्तं धर्मं शृण्वन्ति, तेऽपि सर्वेऽनुत्तरायाः सम्यक्संबोधेर्लाभिनो भविष्यन्ति ॥

अहमपि शारिपुत्र एतर्हि तथागतोऽर्हन् सम्यक्संबुद्धो बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च नानाभिनिर्हारनिर्देशविविधहेतुकारणनिदर्शनारम्बणनिरुक्त्युपायकौशल्यैर्नानाधिमुक्तानां सत्त्वानां नानाधात्वाशयानामाशयं विदित्वा धर्मं देशयामि । अहमपि शारिपुत्र एकमेव यानमारभ्य सत्त्वानां धर्मं देशयामि यदिदं बुद्धयानं सर्वज्ञतापर्यवसानम्, यदिदं तथागतज्ञानदर्शनसमादापनमेव सत्त्वानां तथागतज्ञानदर्शनसंदर्शनमेव तथागतज्ञानदर्शनावतारणमेव तथागतज्ञानदर्शनप्रतिबोधनमेव तथागतज्ञानदर्शनमार्गावतारणमेव सत्त्वानां धर्मं देशयामि । येऽपि ते शारिपुत्र सत्त्वा एतर्हि ममेमं धर्मं शृण्वन्ति, तेऽपि सर्वेऽनुत्तरायाः सम्यक्संबोधेर्लाभिनो भविष्यन्ति । तदनेनापि शारिपुत्र पर्यायेण एवं वेदितव्यं यथा नास्ति द्वितीयस्य यानस्य क्वचिद्दशसु दिक्षु लोके प्रज्ञप्तिः, कुतः पुनस्तृतीयस्य ॥

अपि तु खलु पुनः शारिपुत्र यदा तथागता अर्हन्तः सम्यक्संबुद्धा कल्पकषाये (वैद्य २९) वोत्पद्यन्ते सत्त्वकषाये वा क्लेशकषाये वा दृष्टिकषाये वा आयुष्कषाये वोत्पद्यन्ते । एवंरूपेषु शारिपुत्र कल्पसंक्षोभकषायेषु बहुसत्त्वेषु लुब्धेष्वल्पकुशलमूलेषु तदा शारिपुत्र तथागता अर्हन्तः सम्यक्संबुद्धा उपायकौशल्येन तदेवैकं बुद्धयानं त्रियाननिर्देशेन निर्दिशन्ति । तत्र शारिपुत्र ये श्रावका अर्हन्तः प्रत्येकबुद्धा वा इमां क्रियां तथागतस्य बुद्धयानसमादपनां न शृण्वन्ति नावतरन्ति नावबुध्यन्ति, न ते शारिपुत्र तथागतस्य श्रावका वेदितव्याः, नाप्यर्हन्तो नापि प्रत्येकबुद्धा वेदितव्याः । अपि तु खलु पुनः शारिपुत्र यः कश्चिद्भिक्षुर्वा भिक्षुणी वा अर्हत्त्वं प्रतिजानीयात्, अनुत्तरायां सम्यक्संबोधौ प्रणिधानमपरिगृह्य उच्छिन्नोऽस्मि बुद्धयानादिति वदेत्, एतावन्मे समुच्छ्रयस्य पश्चिमकं परिनिर्वाणं वदेत्, आभिमानिकं तं शारिपुत्र प्रजानीयाः । तत्कस्य हेतोः? अस्थानमेतच्छारिपुत्र अनवकाशो यद्भिक्षुरर्हन् क्षीणास्रवः संमुखीभूते तथागते इमंः धर्मं श्रुत्वा न श्रद्दध्यात्स्थापयित्वा परिनिर्वृतस्य तथागतस्य । तत्कस्य हेतोः? न हि शारिपुत्र श्रावकास्तस्मिन् काले तस्मिन् समये परिनिर्वृते तथागते एतेषामेवंरूपाणां सूत्रान्तानां धारका वा देशका वा भविष्यन्ति । अन्येषु पुनः शारिपुत्र तथागतेष्वर्हत्सु सम्यक्संबुद्धेषु निःसंशया भविष्यन्ति । इमेषु बुद्धधर्मेषु श्रद्दधाध्वं मे शारिपुत्र पत्तीयत अवकल्पयत । न हि शारिपुत्र तथागतानां मृषावादः संविद्यते । एकमेवेदं शारिपुत्र यानं यदिदं बुद्धयानम् ॥

अथ खलु भगवानेतमेवार्थं भूयस्या मात्रया संदर्शयमानस्तस्यां वेलायामिमा गाथा अभाषत -

अथाभिमानप्राप्ता ये भिक्षुभिक्षुण्युपासकाः ।
उपासिकाश्च अश्राद्धाः सहस्राः पञ्चनूनकाः ॥ २.३८ ॥
अपश्यन्त इमं दोषं छिद्रशिक्षासमन्विताः ।
व्रणांश्च परिरक्षन्तः प्रक्रान्ता बालबुद्धयः ॥ २.३९ ॥
पर्षत्कषायतां ज्ञात्वा लोकनाथोऽधिवासयि ।
तत्तेषां कुशलं नास्ति शृणुयुर्धर्म ये इमम् ॥ २.४० ॥
शुद्धा च निष्पलावा च सुस्थिता परिषन्मम ।
फल्गुव्यपगता सर्वा सारा चेयं प्रतिष्ठिता ॥ २.४१ ॥
शृणोहि मे शारिसुता यथैष संबुद्ध धर्मः पुरुषोत्तमेहि ।
यथा च बुद्धाः कथयन्ति नायका उपायकौशल्यशतैरनेकैः ॥ २.४२ ॥
यथाशयं जानिय ते चरिं च नानाधिमुक्तानिह प्राणकोटिनाम् ।
(वैद्य ३०)
चित्राणि कर्माणि विदित्व तेषां पुराकृतं यत्कुशलं च तेहि ॥ २.४३ ॥
नानानिरुक्तीहि च कारणेहि संप्रापयामी इम तेष प्राणिनाम् ।
हेतूहि दृष्टान्तशतेहि चाहं तथा तथा तोषयि सर्वसत्त्वान् ॥ २.४४ ॥
सूत्राणि भाषामि तथैव गाथा इतिवृत्तकं जातकमद्भुतं च ।
निदान औपम्यशतैश्च चित्रैर्गेयं च भाषामि तथोपदेशान् ॥ २.४५ ॥
ये भोन्ति हीनाभिरता अविद्वसू अचीर्णचर्या बहुबुद्धकोटिषु ।
संसारलग्नाश्च सुदुःखिताश्च निर्वाण तेषामुपदर्शयामि ॥ २.४६ ॥
उपायमेतं कुरुते स्वयंभूर्बौद्धस्य ज्ञानस्य प्रबोधनार्थम् ।
न चापि तेषां प्रवदे कदाचिद्युष्मेऽपि बुद्धा इह लोकि भेष्यथ ॥ २.४७ ॥
किं कारणं कालमवेक्ष्य तायी क्षणं च दृष्ट्वा ततु पश्च भाषते ।
सोऽयं क्षणो अद्य कथंचि लब्धो वदामि येनेह च भूतनिश्चयम् ॥ २.४८ ॥
नवाङ्गमेतन्मम शासनं च प्रकाशितं सत्त्वबलाबलेन ।
उपाय एषो वरदस्य ज्ञाने प्रवेशनार्थाय निदर्शितो मे ॥ २.४९ ॥
भवन्ति ये चेह सदा विशुद्धा व्यक्ता शुची सूरत बुद्धपुत्राः ।
कृताधिकारा बहुबुद्धकोटिषु वैपुल्यसूत्राणि वदामि तेषाम् ॥ २.५० ॥
(वैद्य ३१)
तथा हि ते आशयसंपदाय विशुद्धरूपाय समन्विताभून् ।
वदामि तान् बुद्ध भविष्यथेति अनागतेऽध्वानि हितानुकम्पकाः ॥ २.५१ ॥
श्रुत्वा च प्रीतिस्फुट भोन्ति सर्वे बुद्धा भविष्याम जगत्प्रधानाः ।
पुनश्च हं जानिय तेष चर्यां वैपुल्यसूत्राणि प्रकाशयामि ॥ २.५२ ॥
इमे च ते श्रावक नायकस्य येहि श्रुतं शासनमेतमग्र्यम् ।
एकापि गाथा श्रुत धारिता वा सर्वेष बोधाय न संशयोऽस्ति ॥ २.५३ ॥
एकं हि यानं द्वितियं न विद्यते तृतियं हि नैवास्ति कदाचि लोके ।
अन्यत्रुपाया पुरुषोत्तमानां यद्याननानात्वुपदर्शयन्ति ॥ २.५४ ॥
बौद्धस्य ज्ञानस्य प्रकाशनार्थं लोके समुत्पद्यति लोकनाथः ।
एकं हि कार्यं द्वितियं न विद्यते न हीनयानेन नयन्ति बुद्धाः ॥ २.५५ ॥
प्रतिष्ठितो यत्र स्वयं स्वयंभूर्यच्चैव बुद्धं यथ यादृशं च ।
बलाश्च ये ध्यानविमोक्षेन्द्रियास्तत्रैव सत्त्वा पि प्रतिष्ठपेति ॥ २.५६ ॥
मात्सर्यदोषो हि भवेत मह्यं स्पृशित्व बोधिं विरजां विशिष्टाम् ।
यदि हीनयानस्मि प्रतिष्ठपेयमेकं पि सत्त्वं न ममते साधु ॥ २.५७ ॥
मात्सर्य मह्यं न कहिंचि विद्यते ईर्ष्या न मे नापि च छन्दरागः ।
(वैद्य ३२)
उच्छिन्न पापा मम सर्वधर्मास्तेनास्मि बुद्धो जगतोऽनुबोधात् ॥ २.५८ ॥
यथा ह्यहं चित्रितु लक्षणेहि प्रभासयन्तो इमु सर्वलोकम् ।
पुरस्कृतः प्राणिशतैरनेकैर्देशेमिमां धर्मस्वभावमुद्राम् ॥ २.५९ ॥
एवं च चिन्तेम्यहु शारिपुत्र कथं नु एवं भवि सर्वसत्त्वाः ।
द्वात्रिंशतीलक्षणरूपधारिणः स्वयंप्रभा लोकविदू स्वयंभूः ॥ २.६० ॥
यथा च पश्यामि यथा च चिन्तये यथा च संकल्प ममासि पूर्वम् ।
परिपूर्णमेतत्प्रणिधानु मह्यं बुद्धा च बोधिं च प्रकाशयामि ॥ २.६१ ॥
सचेदहं शारिसुता वदेयं सत्त्वान बोधाय जनेथ छन्दम् ।
अजानकाः सर्व भ्रमेयुरत्र न जातु गृह्णीयु सुभाषितं मे ॥ २.६२ ॥
तांश्चैव हं जानिय एवरूपान्न चीर्णचर्याः पुरिमासु जातिषु ।
अध्योषिताः कामगुणेषु सक्तास्तृष्णाय संमूर्छित मोहचित्ताः ॥ २.६३ ॥
ते कामहेतोः प्रपतन्ति दुर्गतिं षट्सू गतीषू परिखिद्यमानाः ।
कटसी च वर्धेन्ति पुनः पुनस्ते दुःखेन संपीडित अल्पपुण्याः ॥ २.६४ ॥
विलग्न दृष्टीगहनेषु नित्यमस्तीति नास्तीति तथास्ति नास्ति ।
द्वाषष्टि दृष्टीकृत निश्रयित्वा असन्त भावं परिगृह्य ते स्थिताः ॥ २.६५ ॥
(वैद्य ३३)
दुःशोधका मानिन दम्भिनश्च वङ्काः शठा अल्पश्रुताश्च बालाः ।
ते नैव शृण्वन्ति सुबुद्धघोषं कदाचि पि जातिसहस्रकोटिषु ॥ २.६६ ॥
तेषामहं शारिसुता उपायं वदामि दुःखस्य करोथ अन्तम् ।
दुःखेन संपीडित दृष्ट्व सत्त्वान्निर्वाण तत्राप्युपदर्शयामि ॥ २.६७ ॥
एवं च भाषाम्यहु नित्यनिर्वृता आदिप्रशान्ता इमि सर्वधर्माः ।
चर्यां च सो पूरिय बुद्धपुत्रो अनागतेऽध्वानि जिनो भविष्यति ॥ २.६८ ॥
उपायकौशल्य ममैवरूपं यत्त्रीणि यानान्युपदर्शयामि ।
एकं तु यानं हि नयश्च एक एका चियं देशन नायकानाम् ॥ २.६९ ॥
व्यपनेहि काङ्क्षां तथ संशयं च येषां च केषां चिह काङ्क्ष विद्यते ।
अनन्यथावादिन लोकनायका एकमिदं यानु द्वितीयु नास्ति ॥ २.७० ॥
ये चाप्यभूवन् पुरिमास्तथागताः परिनिर्वृता बुद्धसहस्र नेके ।
अतीतमध्वानमसंख्यकल्पे तेषां प्रमाणं न कदाचि विद्यते ॥ २.७१ ॥
सर्वेहि तेहि पुरुषोत्तमेहि प्रकाशिता धर्म बहू विशुद्धाः ।
दृष्टान्तकैः कारणहेतुभिश्च उपायकौशल्यशतैरनेकैः ॥ २.७२ ॥
सर्वे च ते दर्शयि एकयानमेकं च यानमवतारयन्ति ।
(वैद्य ३४)
एकस्मि याने परिपाचयन्ति अचिन्तिया प्राणिसहस्रकोट्यः ॥ २.७३ ॥
अन्ये उपाया विविधा जिनानां येही प्रकाशेन्तिममग्रधर्मम् ।
ज्ञात्वाधिमुक्तिं तथ आशयं च तथागता लोकि सदेवकस्मिन् ॥ २.७४ ॥
ये चापि सत्त्वास्तहि तेष संमुखं शृण्वन्ति धर्ममथ वा श्रुताविनः ।
दानं च दत्तं चरितं च शीलं क्षान्त्या च संपादित सर्वचर्याः ॥ २.७५ ॥
वीर्येण ध्यानेन कृताधिकाराः प्रज्ञाय वा चिन्तित एति धर्माः ।
विविधानि पुण्यानि कृतानि येहि ते सर्वि बोधाय अभूषि लाभिनः ॥ २.७६ ॥
परिनिर्वृतानां च जिनान तेषां ये शासने केचिदभूषि सत्त्वाः ।
क्षान्ता च दान्ता च विनीत तत्र ते सर्वि बोधाय अभूषि लाभिनः ॥ २.७७ ॥
ये चापि धातून करोन्ति पूजां जिनान तेषां परिनिर्वृतानाम् ।
रत्नामयान् स्तूपसहस्र नेकान् सुवर्णरूप्यस्य च स्फाटिकस्य ॥ २.७८ ॥
ये चाश्मगर्भस्य करोन्ति स्तूपान् कर्केतनामुक्तमयांश्च केचित् ।
वैडूर्यश्रेष्ठस्य तथेन्द्रनीलान् ते सर्वि बोधाय अभूषि लाभिनः ॥ २.७९ ॥
ये चापि शैलेषु करोन्ति स्तूपान् ये चन्दनानामगुरुस्य केचित् ।
ये देवदारूस्य करोन्ति स्तूपान् ये दारुसंघातमयांश्च केचित् ॥ २.८० ॥
(वैद्य ३५)
इष्टामयान्मृत्तिकसंचितान् वा प्रीताश्च कुर्वन्ति जिनान स्तूपान् ।
उद्दिश्य ये पांसुकराशयोऽपि अटवीषु दुर्गेषु च कारयन्ति ॥ २.८१ ॥
सिकतामयान् वा पुन कूट कृत्वा ये केचिदुद्दिश्य जिनान स्तूपान् ।
कुमारकाः क्रीडिषु तत्र तत्र ते सर्वि बोधाय अभूषि लाभिनः ॥ २.८२ ॥
रत्नामया बिम्ब तथैव केचिद्द्वात्रिंशतीलक्षणरूपधारिणः ।
उद्दिश्य कारापित येहि चापि ते सर्वि बोधाय अभूषि लाभिनः ॥ २.८३ ॥
ये सप्तरत्नामय तत्र केचिद्ये ताम्रिका वा तथ कांसिका वा ।
कारापयीषु सुगतान बिम्बा ते सर्वि बोधाय अभूषि लाभिनः ॥ २.८४ ॥
सीसस्य लोहस्य च मृत्तिकाय वा कारापयीषु सुगतान विग्रहान् ।
ये पुस्तकर्मामय दर्शनीयांस्ते सर्वि बोधाय अभूषि लाभिनः ॥ २.८५ ॥
ये चित्रभित्तीषु करोन्ति विग्रहान् परिपूर्णगात्रान् शतपुण्यलक्षणान् ।
लिखेत्स्वयं चापि लिखापयेद्वा ते सर्वि बोधाय अभूषि लाभिनः ॥ २.८६ ॥
ये चापि केचित्तहि शिक्षमाणाः क्रीडारतिं चापि विनोदयन्तः ।
नखेन काष्ठेन कृतासि विग्रहान् भित्तीषु पुरुषा च कुमारका वा ॥ २.८७ ॥
सर्वे च ते कारूणिका अभूवन् सर्वेऽपि ते तारयि प्राणिकोट्यः ।
(वैद्य ३६)
समादपेन्ता बहुबोधिसत्वांस्ते सर्वि बोधाय अभूषि लाभिनः ॥ २.८८ ॥
धातूषु यैश्चापि तथागतानां स्तूपेषु वा मृत्तिकविग्रहेषु वा ।
आलेख्यभित्तीष्वपि पांसुस्तूपे पुष्पा च गन्धा च प्रदत्त आसीत् ॥ २.८९ ॥
वाद्या च वादापित येहि तत्र भेर्योऽथ शङ्खाः पटहाः सुघोषकाः ।
निर्नादिता दुन्दुभयश्च येहि पूजाविधानाय वराग्रबोधिनाम् ॥ २.९० ॥
वीणाश्च ताला पणवाश्च येहि मृदङ्ग वंशा तुणवा मनोज्ञाः ।
एकोत्सवा वा सुकुमारका वा ते सर्वि बोधाय अभूषि लाभिनः ॥ २.९१ ॥
वादापिता झल्लरियोऽपि येहि जलमण्डका चर्पटमण्डका वा ।
सुगतान उद्दिश्यथ पूजनार्थं गीतं सुगीतं मधुरं मनोज्ञम् ॥ २.९२ ॥
सर्वे च ते बुद्ध अभूषि लोके कृत्वान तां बहुविधधातुपूजाम् ।
किमल्पकं पि सुगतान धातुषु एकं पि वादापिय वाद्यभाण्डम् ॥ २.९३ ॥
पुष्पेण चैकेन पि पूजयित्वा आलेख्यभित्तौ सुगतान बिम्बान् ।
विक्षिप्तचित्ता पि च पूजयित्वा अनुपूर्व द्रक्ष्यन्ति च बुद्धकोट्यः ॥ २.९४ ॥
(वैद्य ३७)
यैश्चाञ्जलिस्तत्र कृतोऽपि स्तूपे परिपूर्ण एका तलसक्तिका वा ।
उन्नामितं शीर्षमभून्मुहूर्तमवनामितः कायु तथैकवारम् ॥ २.९५ ॥
नमोऽस्तु बुद्धाय कृतैकवारं येही तदा धातुधरेषु तेषु ।
विक्षिप्तचित्तैरपि एकवारं ते सर्वि प्राप्ता इममग्रबोधिम् ॥ २.९६ ॥
सुगतान तेषां तद तस्मि काले परिनिर्वृतानामथ तिष्ठतां वा ।
ये धर्मनामापि श्रुणिंसु सत्त्वास्ते सर्वि बोधाय अभूषि लाभिनः ॥ २.९७ ॥
अनागता पी बहुबुद्धकोट्यो अचिन्तिया येषु प्रमाणु नास्ति ।
ते पी जिना उत्तमलोकनाथाः प्रकाशयिष्यन्ति उपायमेतम् ॥ २.९८ ॥
उपायकौशल्यमनन्तु तेषां भविष्यति लोकविनायकानाम् ।
येना विनेष्यन्तिह प्राणकोट्यो बौद्धस्मि ज्ञानस्मि अनास्रवस्मिन् ॥ २.९९ ॥
एकोऽपि सत्त्वो न कदाचि तेषां श्रुत्वान धर्मं न भवेत बुद्धः ।
प्रणिधानमेतद्धि तथागतानां चरित्व बोधाय चरापयेयम् ॥ २.१०० ॥
धर्मामुखा कोटिसहस्र नेके प्रकाशयिष्यन्ति अनागतेऽध्वे ।
उपदर्शयन्तो इममेकयानं वक्ष्यन्ति धर्मं हि तथागतत्वे ॥ २.१०१ ॥
स्थितिका हि एषा सद धर्मनेत्री प्रकृतिश्च धर्माण सदा प्रभा[सते] ।
(वैद्य ३८)
विदित्व बुद्धा द्विपदानमुत्तमा प्रकाशयिष्यन्ति ममेकयानम् ॥ २.१०२ ॥
धर्मस्थितिं धर्मनियामतां च नित्यस्थितां लोकि इमामकम्प्याम् ।
बुद्धाश्च बोधिं पृथिवीय मण्डे प्रकाशयिष्यन्ति उपायकौशलम् ॥ २.१०३ ॥
दशसू दिशासू नरदेवपूजितास्तिष्ठन्ति बुद्धा यथ गङ्गवालिकाः ।
सुखापनार्थमिह सर्वप्राणिनां ते चापि भाषन्तिममग्रबोधिम् ॥ २.१०४ ॥
उपायकौशल्य प्रकाशयन्ति विविधानि यानान्युपदर्शयन्ति ।
एकं च यानं परिदीपयन्ति बुद्धा इमामुत्तमशान्तभूमिम् ॥ २.१०५ ॥
चरितं च ते जानिय सर्वदेहिनां यथाशयं यच्च पुरा निषेवितम् ।
वीर्यं च स्थामं च विदित्व तेषां ज्ञात्वाधिमुक्तिं च प्रकाशयन्ति ॥ २.१०६ ॥
दृष्टान्तहेतून् बहु दर्शयन्ति बहुकारणान् ज्ञानबलेन नायकाः ।
नानाधिमुक्तांश्च विदित्व सत्त्वान्नानाभिनिर्हारुपदर्शयन्ति ॥ २.१०७ ॥
अहं पि चैतर्हि जिनेन्द्रनायको उत्पन्न सत्त्वान सुखापनार्थम् ।
संदर्शयामी इम बुद्धबोधिं नानाभिनिर्हारसहस्रकोटिभिः ॥ २.१०८ ॥
देशेमि धर्मं च बहुप्रकारमधिमुक्तिमध्याशय ज्ञात्व प्राणिनाम् ।
संहर्षयामी विविधैरुपायैः प्रत्यात्मिकं ज्ञानबलं ममैतत् ॥ २.१०९ ॥
अहं पि पश्यामि दरिद्रसत्त्वान् प्रज्ञाय पुण्येहि च विप्रहीणान् ।
(वैद्य ३९)
प्रस्कन्न संसारि निरुद्ध दुर्गे मग्नाः पुनर्दुःखपरंपरासु ॥ २.११० ॥
तृष्णाविलग्नांश्चमरीव बाले कामैरिहान्धीकृत सर्वकालम् ।
न बुद्धमेषन्ति महानुभावं न धर्म मार्गन्ति दुखान्तगामिनम् ॥ २.१११ ॥
गतीषु षट्सु परिरुद्धचित्ताः कुदृष्टिदृष्टीषु स्थिता अकम्प्याः ।
दुःखातु दुःखानुप्रधावमानाः कारुण्य मह्यं बलवन्तु तेषु ॥ २.११२ ॥
सोऽहं विदित्वा तहि बोधिमण्डे सप्ताह त्रीणि परिपूर्ण संस्थितः ।
अर्थं विचिन्तेमिममेवरूपमुल्लोकयन् पादपमेव तत्र ॥ २.११३ ॥
प्रेक्षामि तं चानिमिषं द्रुमेन्द्रं तस्यैव हेष्ठे अनुचंक्रमामि ।
आश्चर्यज्ञानं च इदं विशिष्टं सत्त्वाश्च मोहान्ध अविद्वसू इमे ॥ २.११४ ॥
ब्रह्मा च मां याचति तस्मि काले शक्रश्च चत्वारि च लोकपालाः ।
महेश्वरो ईश्वर एव चापि मरुद्गणानां च सहस्रकोटयः ॥ २.११५ ॥
कृताञ्जली सर्वि स्थिताः सगौरवा अर्थं च चिन्तेमि कथं करोमि ।
अहं च बोधीय वदामि वर्णानिमे च दुःखैरभिभूत सत्त्वाः ॥ २.११६ ॥
ते मह्य धर्मं क्षिपि बालभाषितं क्षिपित्व गच्छेयुरपायभूमिम् ।
श्रेयो ममा नैव कदाचि भाषितुमद्यैव मे निर्वृतिरस्तु शान्ता ॥ २.११७ ॥
(वैद्य ४०)
पुरिमांश्च बुद्धान् समनुस्मरन्तो उपायकौशल्यु यथा च तेषाम् ।
यं नून हं पि इम बुद्धबोधिं त्रिधा विभज्येह प्रकाशयेयम् ॥ २.११८ ॥
एवं च मे चिन्तितु एष धर्मो ये चान्ये बुद्धा दशसु द्दिशासु ।
दर्शिंसु ते मह्य तदात्मभावं साधुं ति घोषं समुदीरयन्ति ॥ २.११९ ॥
साधू मुने लोकविनायकाग्र अनुत्तरं ज्ञानमिहाधिगम्य ।
उपायकौशल्यु विचिन्तयन्तो अनुशिक्षसे लोकविनायकानाम् ॥ २.१२० ॥
वयं पि बुद्धाय परं तदा पदं तृधा च कृत्वान प्रकाशयामः ।
हीनाधिमुक्ता हि अविद्वसू नरा भविष्यथा बुद्ध न श्रद्दधेयुः ॥ २.१२१ ॥
ततो वयं कारणसंग्रहेण उपायकौशल्य निषेवमाणाः ।
फलाभिलाषं परिकीर्तयन्तः समादपेमो बहुबोधिसत्त्वान् ॥ २.१२२ ॥
अहं चुदग्रस्तद आसि श्रुत्वा घोषं मनोज्ञं पुरुषर्षभाणाम् ।
उदग्रचित्तो भणि तेष तायिनां न मोहवादी प्रवरा महर्षी ॥ २.१२३ ॥
अहं पि एवं समुदाचरिष्ये यथा वदन्ती विदु लोकनायकाः ।
अहं पि संक्षोभि इमस्मि दारुणे उत्पन्न सत्त्वान कषायमध्ये ॥ २.१२४ ॥
ततो ह्यहं शारिसुता विदित्वा वाराणसीं प्रस्थितु तस्मि काले ।
(वैद्य ४१)
तहि पञ्चकानां प्रवदामि भिक्षुणां धर्ममुपायेन प्रशान्तभूमिम् ॥ २.१२५ ॥
ततः प्रवृत्तं मम धर्मचक्रं निर्वाणशब्दश्च अभूषि लोके ।
अर्हन्तशब्दस्तथ धर्मशब्दः संघस्य शब्दश्च अभूषि तत्र ॥ २.१२६ ॥
भाषामि वर्षाणि अनल्पकानि निर्वाणभूमिं चुपदर्शयामि ।
संसारदुःखस्य च एष अन्तो एवं वदामी अहु नित्यकालम् ॥ २.१२७ ॥
यस्मिंश्च काले अहु शारिपुत्र पश्यामि पुत्रान् द्विपदोत्तमानाम् ।
ये प्रस्थिता उत्तममग्रबोधिं कोटीसहस्राणि अनल्पकानि ॥ २.१२८ ॥
उपसंक्रमित्वा च ममैव अन्तिके कृताञ्जलीः सर्वि स्थिताः सगौरवाः ।
येही श्रुतो धर्म जिनान आसीतुपायकौशल्यु बहुप्रकारम् ॥ २.१२९ ॥
ततो ममा एतदभूषि तत्क्षणं समयो ममा भाषितुमग्रधर्मम् ।
यस्याहमर्थमिह लोकि जातः प्रकाशयामी तमिहाग्रबोधिम् ॥ २.१३० ॥
दुःश्रद्दधमेतु भविष्यतेऽद्य निमित्तसंज्ञानिह बालबुद्धिनाम् ।
अधिमानप्राप्तान अविद्वसूनामिमे तु श्रोष्यन्ति हि बोधिसत्त्वाः ॥ २.१३१ ॥
विशारदश्चाहु तदा प्रहृष्टः संलीयनां सर्व विवर्जयित्वा ।
भाषामि मध्ये सुगतात्मजानां तांश्चैव बोधाय समादपेमि ॥ २.१३२ ॥
(वैद्य ४२)
संदृश्य चैतादृशबुद्धपुत्रांस्तवापि काङ्क्षा व्यपनीत भेष्यति ।
ये चा शता द्वादशिमे अनास्रवा बुद्धा भविष्यन्तिमि लोकि सर्वे ॥ २.१३३ ॥
यथैव तेषां पुरिमाण तायिनामनागतानां च जिनान धर्मता ।
ममापि एषैव विकल्पवर्जिता तथैव हं देशयि अद्य तुभ्यम् ॥ २.१३४ ॥
कदाचि कहिंचि कथंचि लोके उत्पादु भोति पुरुषर्षभाणाम् ।
उत्पद्य चा लोकि अनन्तचक्षुषः कदाचिदेतादृशु धर्म देशयुः ॥ २.१३५ ॥
सुदुर्लभो ईदृशु अग्रधर्मः कल्पान कोटीनयुतैरपि स्यात् ।
सुदुर्लभा ईदृशकाश्च सत्त्वाः श्रत्वान ये श्रद्दधि अग्रधर्मम् ॥ २.१३६ ॥
औदुम्बरं पुष्प यथैव दुर्लभं कदाचि कहिंचि कथंचि दृश्यते ।
मनोज्ञरूपं च जनस्य तद्भवेदाश्चर्यु लोकस्य सदेवकस्य ॥ २.१३७ ॥
अतश्च आश्चर्यतरं वदामि श्रुत्वान यो धर्ममिमं सुभाषितम् ।
अनुमोदि एकं पि भणेय वाचं कृत सर्वबुद्धान भवेय पूजा ॥ २.१३८ ॥
व्यपनेहि काङ्क्षामिह संशयं च आरोचयामि अहु धर्मराजा ।
समादपेमि अहमग्रबोधौ न श्रावकाः केचिदिहास्ति मह्यम् ॥ २.१३९ ॥
तव शारिपुत्रैतु रहस्यु भोतु ये चापि मे श्रावक मह्य सर्वे ।
(वैद्य ४३)
ये बोधिसत्त्वाश्च इमे प्रधाना रहस्यमेतन्मम धारयन्तु ॥ २.१४० ॥
किं कारणं पञ्चकषायकाले क्षुद्राश्च दुष्टाश्च भवन्ति सत्त्वाः ।
कामैरिहान्धीकृत बालबुद्धयो न तेष बोधाय कदाचि चित्तम् ॥ २.१४१ ॥
श्रुत्वा च यानं मम एतदेकं प्रकाशितं तेन जिनेन आसीत् ।
अनागतेऽध्वानि भ्रमेयु सत्त्वाः सूत्रं क्षिपित्वा नरकं व्रजेयुः ॥ २.१४२ ॥
लज्जी शुची ये च भवेयु सत्त्वाः संप्रस्थिता उत्तममग्रबोधिम् ।
विशारदो भूत्व वदेमि तेषामेकस्य यानस्य अनन्तवर्णान् ॥ २.१४३ ॥
एतादृशी देशन नायकानामुपायकौशल्यमिदं वरिष्ठम् ।
बहूहि संधावचनेहि चोक्तं दुर्बोध्यमेतं हि अशिक्षितेहि ॥ २.१४४ ॥
तस्माद्धि संधावचनं विजानिया बुद्धान लोकाचरियाण तायिनाम् ।
जहित्व काङ्क्षां विजहित्व संशयं भविष्यथा बुद्ध जनेथ हर्षम् ॥ २.१४५ ॥

इत्यार्यसद्धर्मपुण्डरीके धर्मपर्याये उपायकौशल्यपरिवर्तो नाम द्वितीयः ॥


_______________________________________________________________________________



(वैद्य ४४)
३: औपम्यपरिवर्तः ।

अथ खल्वायुष्मान् शारिपुत्रस्तस्यां वेलायां तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातो येन भगवांस्तेनाञ्जलिं प्रणम्य भगवतोऽभिमुखो भगवन्तमेव व्यवलोकयमानो भगवन्तमेतदवोचत्- आश्चर्याद्भुतप्राप्तोऽस्मि भगवनौद्बिल्यप्राप्तः इदमेवंरूपं भगवतोऽन्तिकाद्घोषं श्रुत्वा । तत्कस्य हेतोः? अश्रुत्वैव तावदहं भगवनिदमेवंरूपं भगवतोऽन्तिकाद्धर्मं तदन्यान् बोधिसत्त्वान् दृष्ट्वा बोधिसत्त्वानां च अनागतेऽध्वनि बुद्धनाम श्रुत्वा अतीव शोचामि अतीव संतप्ये, भ्रष्टोऽस्म्येवंरूपात्तथागतज्ञानगोचराद्ज्ञानदर्शनात् । यदा चाहं भगवनभीक्ष्णं गच्छामि पर्वतगिरिकन्दराणि वनषण्डान्यारामनदीवृक्षमूलान्येकान्तानि दिवाविहाराय, तदाप्यहं भगवन् यद्भूयस्त्वेन अनेनैव विहारेण विहरामि । तुल्ये नाम धर्मधातुप्रवेशे वयं भगवता हीनेन यानेन निर्यातिताः । एवं च मे भगवंस्तस्मिन् समये भवति - अस्माकमेवैषोऽपराधः, नैव भगवतोऽपराधः । तत्कस्य हेतोः? सचेद्भगवानस्माभिः प्रतीक्षितः स्यात्सामुत्कर्षिकीं धर्मदेशनां कथयमानः, यदिदमनुत्तरां सम्यक्संबोधिमारभ्य, तेष्वेव वयं भगवन् धर्मेषु निर्याताः स्याम । यत्पुनर्भगवनस्माभिरनुपस्थितेषु बोधिसत्त्वेषु संधाभाष्यं भगवतोऽजानमानैस्त्वरमाणैः प्रथमभाषितैव तथागतस्य धर्मदेशना श्रुत्वोद्गृहीता धारिता भाविता चिन्तिता मनसिकृता । सोऽहं भगवनात्मपरिभाषणयैव भूयिष्ठेन रात्रिंदिवान्यतिनामयामि । अद्यास्मि भगवन्निर्वाणप्राप्तः । अद्यास्मि भगवन् परिनिर्वृतः । अद्य मे भगवनर्हत्त्वं प्राप्तम् । अद्याहं भगवन् भगवतः पुत्रो ज्येष्ठ औरसो मुखतो जातो धर्मजो धर्मनिर्मितो धर्मदायादो धर्मनिर्वृत्तः । अपगतपरिदाहोऽस्म्यद्य भगवनिममेवंरूपमद्भुतधर्ममश्रुतपूर्वं भगवतोऽन्तिकाद्घोषं श्रुत्वा ॥
अथ खल्वायुष्मान् शारिपुत्रस्तस्यां वेलायां भगवन्तमाभिर्गाथाभिरध्यभाषत -

आश्चर्यप्राप्तोऽस्मि महाविनायक औद्बिल्यजातो इमु घोष श्रुत्वा ।
कथंकथा मह्य न भूय काचित्परिपाचितोऽहमिह अग्रयाने ॥ ३.१ ॥
आश्चर्यभूतः सुगतान घोषः काङ्क्षां च शोकं च जहाति प्राणिनाम् ।
क्षीणास्रवस्यो मम यश्च शोको विगतोऽस्ति सर्वं श्रुणियान घोषम् ॥ ३.२ ॥
दिवाविहारमनुचंक्रमन्तो वनषण्ड आरामथ वृक्षमूलम् ।
(वैद्य ४५)
गिरिकन्दरांश्चाउप्युपसेवमानो अनुचिन्तयामी इममेव चिन्ताम् ॥ ३.३ ॥
अहोऽस्मि परिवञ्चितु पापचित्तैस्तुल्येषु धर्मेषु अनास्रवेषु ।
यन्नाम त्रैधातुकि अग्रधर्मं न देशयिष्यामि अनागतेऽध्वे ॥ ३.४ ॥
द्वात्रिंशती लक्षण मह्य भ्रष्टा सुवर्णवर्णच्छविता च भ्रष्टा ।
बला विमोक्षाश्चिमि सर्वि रिञ्चिता तुल्येषु धर्मेषु अहोऽस्मि मूढः ॥ ३.५ ॥
अनुव्यञ्जना ये च महामुनीनामशीति पूर्णाः प्रवरा विशिष्टाः ।
अष्टादशावेणिक ये च धर्मास्ते चापि भ्रष्टा अहु वञ्चितोऽस्मि ॥ ३.६ ॥
दृष्ट्वा च त्वां लोकहितानुकम्पी दिवाविहारं परिगम्य चैकः ।
हा वञ्चितोऽस्मीति विचिन्तयामि असङ्गज्ञानातु अचिन्तियातः ॥ ३.७ ॥
रात्रिंदिवानि क्षपयामि नाथ भूयिष्ठ सो एव विचिन्तयन्तः ।
पृच्छामि तावद्भगवन्तमेव भ्रष्टोऽहमस्मीत्यथ वा न वेति ॥ ३.८ ॥
एवं च मे चिन्तयतो जिनेन्द्र गच्छन्ति रात्रिंदिव नित्यकालम् ।
दृष्ट्वा च अन्यान् बहुबोधिसत्त्वान् संवर्णितांल्लोकविनायकेन ॥ ३.९ ॥
श्रुत्वा च सोऽहमिमु बुद्धधर्मं संघाय एतत्किल भाषितं ति ।
अतर्किकं सूक्ष्ममनास्रवं च ज्ञानं प्रणेती जिन बोधिमण्डे ॥ ३.१० ॥
(वैद्य ४६)
दृष्टीविलग्नो ह्यहमासि पूर्वं परिव्राजकस्तीर्थिकसंमतश्च ।
ततो ममा आशयु ज्ञात्व नाथो दृष्टीविमोक्षाय ब्रवीति निर्वृतिम् ॥ ३.११ ॥
विमुच्य ता दृष्टिकृतानि सर्वशः शून्यांश्च धर्मानहु स्पर्शयित्वा ।
ततो विजानाम्यहु निर्वृतोऽस्मि न चापि निर्वाणमिदं प्रवुच्यति ॥ ३.१२ ॥
यदा तु बुद्धो भवतेऽग्रसत्त्वः पुरस्कृतो नरमरुयक्षराक्षसैः ।
द्वात्रिंशतीलक्षणरूपधारी अशेषतो निर्वृतु भोति तत्र ॥ ३.१३ ॥
व्यपनीत सर्वाणि मि मन्यितानि श्रुत्वा च घोषमहमद्य निर्वृतः ।
यदापि व्याकुर्वसि अग्रबोधौ पुरतो हि लोकस्य सदेवकस्य ॥ ३.१४ ॥
बलवच्च आसीन्मम छम्भितत्वं प्रथमं गिरं श्रुत्व विनायकस्य ।
मा हैव मारो स भवेद्विहेठको अभिनिर्मिणित्वा भुवि बुद्धवेषम् ॥ ३.१५ ॥
यदा तु हेतूहि च कारणैश्च दृष्टान्तकोटीनयुतैश्च दर्शिता ।
सुपरिस्थिता सा वरबुद्धबोधिस्ततोऽस्मि निष्काङ्क्षु श्रुणित्व धर्मम् ॥ ३.१६ ॥
यदा च मे बुद्धसहस्रकोट्यः कीर्तेष्यती तान् परिनिर्वृतान् जिनान् ।
यथा च तैर्देशितु एष धर्म उपायकौशल्य प्रतिष्ठिहित्वा ॥ ३.१७ ॥
अनागताश्चो बहु बुद्ध लोके तिष्ठन्ति ये चो परमार्थदर्शिनः ।
(वैद्य ४७)
उपायकौशल्यशतैश्च धर्मं निदर्शयिष्यन्त्यथ देशयन्ति च ॥ ३.१८ ॥
तथा च ते आत्मन यादृशी चरी अभिनिष्क्रमित्वा प्रभृतीय संस्तुता ।
बुद्धं च ते यादृशु धर्मचक्रं तथा च तेऽवस्थित धर्मदेशना ॥ ३.१९ ॥
ततश्च जानामि न एष मारो भूतां चरिं दर्शयि लोकनाथः ।
न ह्यत्र माराण गती हि विद्यते ममैव चित्तं विचिकित्सप्राप्तम् ॥ ३.२० ॥
यदा तु मधुरेण गभीरवल्गुना संहर्षितो बुद्धस्वरेण चाहम् ।
तदा मि विध्वंसित सर्वसंशया विचिकित्स नष्टा च स्थितोऽस्मि ज्ञाने ॥ ३.२१ ॥
निःसंशयं भेष्यि तथागतोऽहं पुरस्कृतो लोकि सदेवकेऽस्मिन् ।
संघाय वक्ष्ये इमु बुद्धबोधिं समादपेन्तो बहुबोधिसत्त्वान् ॥ ३.२२ ॥

एवमुक्ते भगवानायुष्मन्तं शारिपुत्रमेतदवोचत्- आरोचयामि ते शारिपुत्र, प्रतिवेदयामि ते अस्य सदेवकस्य लोकस्य पुरतः समारकस्य सब्रह्मकस्य सश्रमणब्राह्मणिकायाः प्रजायाः पुरतः । मया त्वं शारिपुत्र विंशतीनां बुद्धकोटीनयुतशतसहस्राणामन्तिके परिपाचितोऽनुत्तरायां सम्यक्संबोधौ । मम च त्वं शारिपुत्र दीर्घरात्रमनुशिक्षितोऽभूत् । स त्वं शारिपुत्र बोधिसत्त्वसंमन्त्रितेन बोधिसत्त्वरहस्येन इह मम प्रवचने उपपन्नः । स त्वं शारिपुत्र बोधिसत्त्वाधिष्ठानेन तत्पौर्वकं चर्याप्रणिधानं बोधिसत्त्वसंमन्त्रितं बोधिसत्त्वरहस्यं न समनुस्मरसि । निर्वृतोऽस्मीति मन्यसे । सोऽहं त्वां शारिपुत्र पूर्वचर्याप्रणिधानज्ञानानुबोधमनुस्मारयितुकाम इमं सद्धर्मपुण्डरीकं धर्मपर्यायं सूत्रान्तं महावैपुल्यं बोधिसत्त्वाववादं सर्वबुद्धपरिग्रहं श्रावकाणां संप्रकाशयामि ॥

अपि खलु पुनः शारिपुत्र, भविष्यसि त्वमनागतेऽध्वनि अप्रमेयैः कल्पैरचिन्त्यैरप्रमाणैर्बहूनां तथागतकोटीनयुतशतसहस्राणां सद्धर्मं धारयित्वा विविधां च पूजां कृत्वा इमामेव बोधिसत्त्वचर्यां परिपूर्य पद्मप्रभो नाम तथागतोऽर्हन् सम्यक्संबुद्धो लोके भविष्यसि (वैद्य ४८) विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् ॥

तेन खलु पुनः शारिपुत्र समयेन तस्य भगवतः पद्मप्रभस्य तथागतस्य विरजं नाम बुद्धक्षेत्रं भविष्यति समं रमणीयं प्रासादिकं परमसुदर्शनीयं परिशुद्धं च स्फीतं च ऋद्धं च क्षेमं च सुभिक्षं च बहुजननारीगणाकीर्णं च मरुप्रकीर्णं च वैडूर्यमयं सुवर्णसूत्राष्टापदनिबद्धम् । तेषु च अष्टापदेषु रत्नवृक्षा भविष्यन्ति सप्तानां रत्नानां पुष्पफलैः सततसमितं समर्पिताः ॥

सोऽपि शारिपुत्र पद्मप्रभस्तथागतोऽर्हन् सम्यक्संबुद्धस्त्रीण्येव यानान्यारभ्य धर्मं देशयिष्यति । किंचापि शारिपुत्र स तथागतो न कल्पकषाय उत्पत्स्यते, अपि तु प्रणिधानवशेन धर्मं देशयिष्यति । महारत्नप्रतिमण्डितश्च नाम शारिपुत्र स कल्पो भविष्यति । तत्किं मन्यसे शारिपुत्र केन कारणेन स कल्पो महारत्नप्रतिमण्डित इत्युच्यते? रत्नानि शारिपुत्र बुद्धक्षेत्रे बोधिसत्त्वा उच्यन्ते । ते तस्मिन् काले तस्यां विरजायां लोकधातौ बहवो बोधिसत्त्वा भविष्यन्त्यप्रमेया असंख्येया अचिन्त्या अतुल्या अमाप्या गणनां समतिक्रान्ता अन्यत्र तथागतगणनया । तेन कारणेन स कल्पो महारत्नप्रतिमण्डित इत्युच्यते ॥

तेन खलु पुनः शारिपुत्र समयेन बोधिसत्त्वास्तस्मिन् बुद्धक्षेत्रे यद्भूयसा रत्नपद्मविक्रामिणो भविष्यन्ति । अनादिकर्मिकाश्च ते बोधिसत्त्वा भविष्यन्ति । चिरचरितकुशलमूला बहुबुद्धशतसहस्रचीर्णब्रह्मचर्याः, तथागतपरिसंस्तुता बुद्धज्ञानाभियुक्ता महाभिज्ञापरिकर्मनिर्जाताः सर्वधर्मनयकुशला मार्दवाः स्मृतिमन्तः । भूयिष्ठेन शारिपुत्र एवंरूपाणां बोधिसत्त्वानां परिपूर्णं तद्बुद्धक्षेत्रं भविष्यति ॥

तस्य खलु पुनः शारिपुत्र पद्मप्रभस्य तथागतस्य द्वादशान्तरकल्पा आयुष्प्रमाणं भविष्यति स्थापयित्वा कुमारभूतत्वम् । तेषां च सत्त्वानामष्टान्तरकल्पा आयुष्प्रमाणं भविष्यति । स च शारिपुत्र पद्मप्रभस्तथागतो द्वादशानामन्तरकल्पानामत्ययेन धृतिपरिपूर्णं नाम बोधिसत्त्वं महासत्त्वं व्याकृत्य अनुत्तरायां सम्यक्संबोधौ परिनिर्वास्यति । अयं भिक्षवो धृतिपरिपूर्णो बोधिसत्त्वो महासत्त्वो ममानन्तरमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते । पद्मवृषभविक्रामी नाम तथागतोऽर्हन् सम्यक्संबुद्धो लोके भविष्यति विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् । तस्यापि शारिपुत्र पद्मवृषभविक्रामिणस्तथागतस्य एवंरूपमेव बुद्धक्षेत्रं भविष्यति ॥

तस्य खलु पुनः शारिपुत्र पद्मप्रभस्य तथागतस्य परिनिर्वृतस्य द्वात्रिंशदन्तरकल्पान् सद्धर्मः स्थास्यति । ततस्तस्य तस्मिन् सद्धर्मे क्षीणे द्वात्रिंशदन्तरकल्पान् सद्धर्मप्रतिरूपकः स्थास्यति ॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -
भविष्यसे शारिसुता तुहं पि अनागतेऽध्वानि जिनस्तथागतः ।
(वैद्य ४९)
पद्मप्रभो नाम समन्तचक्षुर्विनेष्यसे प्राणिसहस्रकोट्यः ॥ ३.२३ ॥
बहुबुद्धकोटीषु करित्व सत्क्रियां चर्याबलं तत्र उपार्जयित्वा ।
उत्पादयित्वा च दशो बलानि स्पृशिष्यसे उत्तममग्रबोधिम् ॥ ३.२४ ॥
अचिन्तिये अपरिमितस्मि कल्पे प्रभूतरत्नस्तद कल्पु भेष्यति ।
विरजा च नाम्ना तद लोकधातुः क्षेत्रं विशुद्धं द्विपदोत्तमस्य ॥ ३.२५ ॥
वैदूर्यसंस्तीर्ण तथैव भूमिः सुवर्णसूत्रप्रतिमण्डिता च ।
रत्नामयैर्वृक्षशतैरुपेता सुदर्शनीयैः फलपुष्पमण्डितैः ॥ ३.२६ ॥
स्मृतिमन्त तस्मिन् बहुबोधिसत्त्वाः चर्याभिनिर्हारसुकोविदाश्च ।
ये शिक्षिता बुद्धशतेषु चर्यां ते तत्र क्षेत्रे उपपद्य सन्ति ॥ ३.२७ ॥
सो चेज्जिनः पश्चिमके समुच्छ्रये कुमारभूमीमतिनामयित्वा ।
जहित्व कामानभिनिष्कमित्वा स्पृशिष्यते उत्तममग्रबोधिम् ॥ ३.२८ ॥
सम द्वादशा अन्तरकल्प तस्य भविष्यते आयु तदा जिनस्य ।
मनुजानपी अन्तरकल्प अष्ट आयुष्प्रमाणं तहि तेष भेष्यति ॥ ३.२९ ॥
परिनिर्वृतस्यापि जिनस्य तस्य द्वात्रिंशतिमन्तरकल्प पूर्णाम् ।
सद्धर्म संस्थास्यति तस्मि काले हिताय लोकस्य सदेवकस्य ॥ ३.३० ॥
(वैद्य ५०)
सद्धर्मि क्षीणे प्रतिरूपकोऽस्य द्वात्रिंशती अन्तरकल्प स्थास्यति ।
शरीरवैस्तारिक तस्य तायिनः सुसत्कृतो नरमरुतैश्च नित्यम् ॥ ३.३१ ॥
एतादृशः सो भगवान् भविष्यति प्रहृष्ट त्वं शारिसुता भवस्व ।
त्वमेव सो तादृशको भविष्यसि अनाभिभूतो द्विपदानमुत्तमः ॥ ३.३२ ॥

अथ खलु ताश्चतस्रः पर्षदो भिक्षुभिक्षुण्युपासकोपासिका देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्या आयुष्मतः शारिपुत्रस्येदं व्याकरणमनुत्तरायां सम्यक्संबोधौ भगवतोऽन्तिकात्संमुखं श्रुत्वा तुष्टा उदग्रा आत्तमनसः प्रमुदिताः प्रीतिसौमनस्यजाताः स्वकस्वकैश्चीवरैर्भगवन्तमभिच्छादयामासुः । शक्रश्च देवानामिन्द्रो ब्रह्मा च सहांपतिरन्याश्च देवपुत्रशतसहस्रकोट्यो भगवन्तं दिव्यैर्वस्त्रैरभिच्छादयामासुः । दिव्यैश्च मान्दारवैर्महामान्दरवैश्च पुष्पैरभ्यवकिरन्ति स्म । दिव्यानि च वस्त्राण्युपर्यन्तरीक्षे भ्रामयन्ति स्म । दिव्यानि च तूर्यशतसहस्राणि दुन्दुभयश्चोपर्यन्तरीक्षे पराहनन्ति स्म । महान्तं च पुष्पवर्षमभिप्रवर्षयित्वा एवं च वाचं भाषन्ते स्म - पूर्वं भगवता वाराणस्यामृषिपतने मृगदावे धर्मचक्रं प्रवर्तितम् । इदं पुनर्भगवता अद्य अनुत्तरं द्वितीयं धर्मचक्रं प्रवर्तितम् । ते च देवपुत्रास्तस्यां वेलायामिमा गाथा अभाषन्त -

धर्मचक्रं प्रवर्तेसि लोके अप्रतिपुद्गल ।
वाराणस्यां महावीर स्कन्धानामुदयं व्ययम् ॥ ३.३३ ॥
प्रथमं प्रवर्तितं तत्र द्वितीयमिह नायक ।
दुःश्रद्दधेय यस्तेषां देशितोऽद्य विनायक ॥ ३.३४ ॥
बहु धर्मः श्रुतोऽस्माभिअर्लोकनाथस्य संमुखम् ।
न चायमीदृशो धर्मः श्रुतपूर्वः कदाचन ॥ ३.३५ ॥
अनुमोदाम महावीर संधाभाष्यं महर्षिणः ।
यथार्थो व्याकृतो ह्येष शारिपुत्रो विशारदः ॥ ३.३६ ॥
वयमप्येदृशाः स्यामो बुद्धा लोके अनुत्तराः ।
संधाभाष्येण देशेन्तो बुद्धबोधिमनुत्तराम् ॥ ३.३७ ॥
यच्छ्रुतं कृतमस्माभिरस्मिंल्लोके परत्र वा ।
आरागितश्च यद्बुद्धः प्रार्थना भोतु बोधये ॥ ३.३८ ॥
(वैद्य ५१)

अथ खल्वायुष्मान् शारिपुत्रो भगवन्तमेतदवोचत्- निष्काङ्क्षोऽस्मि भगवन् विगतकथंकथो भगवतोऽन्तिकात्संमुखमिदमात्मनो व्याकरणं श्रुत्वा अनुत्तरायां सम्यक्संबोधौ । यानि च इमानि भगवन् द्वादश वशीभूतशतानि भगवता पूर्वं शैक्षभूमौ स्थापितानि एवमववदितानि एवमनुशिष्टान्यभूवनेतत्पर्यवसानो मे भिक्षवो धर्मविनयो यदिदं जातिजराव्याधिमरणशोकसमतिक्रमो निर्वाणसमवसरणः । इमे च भगवन् द्वे भिक्षुसहस्रे शैक्षाशैक्षाणां भगवतः श्रावकाणां सर्वेषामात्मदृष्टिभवदृष्टिविभवदृष्टिसर्वदृष्टिविवर्जितानां निर्वाणभूमिस्थिताः स्मः इत्यात्मनः संजानताम्, ते भगवतोऽन्तिकादिममेवंरूपमश्रुतपूर्वं धर्म श्रुत्वा कथंकथामापन्नाः । तत्साधु भगवान् भाषतामेषां भिक्षूणां कौकृत्यविनोदनार्थ यथा भगवन्नेताश्चतस्रः पर्षदो निष्काङ्क्षा निर्विचिकित्सा भवेयुः ॥

एवमुक्ते भगवानायुष्मन्तं शारिपुत्रमेतदवोचत्- ननु ते मया शारिपुत्र पूर्वमेवाख्यातं यथा नानाभिनिर्हारनिर्देशविविधहेतुकारणनिदर्शनारम्बणनिरुक्त्युपायकौशल्यैर्नानाधिमुक्तानां सत्त्वानां नानाधात्वाशयानामाशयं विदित्वा तथागतोऽर्हन् सम्यक्संबुद्धो धर्मं देशयति । इमामेवानुत्तरां सम्यक्संबोधिमारभ्य सर्वधर्मदेशनाभिर्बोधिसत्त्वयानमेव समादापयति । अपि तु खलु पुनः शारिपुत्र औपम्यं ते करिष्यामि अस्यैवार्थस्य भूयस्या मात्रया संदर्शनार्थम् । तत्कस्य हेतोः? उपमया इह एकत्या विज्ञपुरुषा भाषितस्यार्थमाजानन्ति ॥

तद्यथापि नाम शारिपुत्र इह स्यात्कस्मिंश्चिदेव ग्रामे वा नगरे वा निगमे वा जनपदे वा जनपदप्रदेशे वा राष्ट्रे वा राजधान्यां वा गृहपतिर्जीर्णो वृद्धो महल्लकोऽभ्यतीतवयोऽनुप्राप्त आढ्यो महाधनो महाभोगः । महच्चास्य निवेशनं भवेदुच्छ्रितं च विस्तीर्णं च चिरकृतं च जीर्णं च द्वयोर्वा त्रयाणां वा चतुर्णां वा पञ्चानां वा प्राणिशतानामावासः । एकद्वारं च तन्निवेशनं भवेत् । तृणसंछन्नं च भवेत् । विगलितप्रासादं च भवेत् । पूतिस्तम्भमूलं च भवेत् । संशीर्णकुड्यकटलेपनं च भवेत् । तच्च सहसैव महाताग्निस्कन्धेन सर्वपार्श्वेषु सर्वावन्तं निवेशनं प्रदीप्तं भवेत् । तस्य च पुरुषस्य बहवः कुमारकाः स्युः पञ्च वा दश वा विंशतिर्वा । स च पुरुषस्तस्मान्निवेशनाद्बहिर्निर्गतः स्यात् ॥

अथ खलु शारिपुत्र स पुरुषस्तं स्वकं निवेशनं महाताग्निस्कन्धेन समन्तात्
संप्रज्वलितं दृष्ट्वा भीतस्त्रस्त उद्विग्नचित्तो भवेत्, एवं चानुविचिन्तयेत्- प्रतिबलोऽहमनेन महताग्निस्कन्धेनासंस्पृष्टोऽपरिदग्धः क्षिप्रमेव स्वस्तिना अस्माद्गृहादादीप्ताद्द्वारेण निर्गन्तुं निर्धावितुम् । अपि तु य इमे ममैव पुत्रा बालकाः कुमारका अस्मिन्नेव निवेशने आदीप्ते तैस्तैः क्रीडनकैः क्रीडन्ति रमन्ति परिचारयन्ति, इमं चागारमादीप्तं न जानन्ति न बुध्यन्ते न विदन्ति न चेतयन्ति नोद्वेगमापद्यन्ते, संतप्यमाना अप्यनेन महताग्निस्कन्धेन महता च दुःखस्कन्धेन स्पृष्टाः समाना न दुःखं मनसि कुर्वन्ति, नापि निर्गमनमनसिकारमुत्पादयन्ति ॥
(वैद्य ५२)

स च शारिपुत्र पुरुषो बलवान् भवेद्बाहुबलिकः । स एवमनुविचिन्तयेत्- अहमस्मि बलवान् बाहुबलिकश्च । यन्न्वहं सर्वानिमान् कुमारकानेकपिण्डयित्वा उत्सङ्गेनादाय अस्माद्गृहान्निर्गमयेयम् । स पुनरेवमनुविचिन्तयेत्- इदं खलु निवेशनमेकप्रवेशं संवृतद्वारमेव । कुमारकाश्चपलाश्चञ्चला बालजातीयाश्च । मा हैव परिभ्रमेयुः । तेऽनेन महताग्निस्कन्धेनानयव्यसनमापद्येरन् । यन्नूनमहमेतान् संचोदययम् । इति प्रतिसंख्याय तान् कुमारकानामन्त्रयते स्म - आगच्छत भवन्तः कुमारकाः, निर्गच्छत । आदीप्तमिदं गृहं महता अग्निस्कन्धेन । मा हैवात्रैव सर्वेऽनेन महताग्निस्कन्धेन धक्ष्यथ, अनयव्यसनमापत्स्यथ । अथ खलु ते कुमारका एवं तस्य हितकामस्य पुरुषस्य तद्भाषितं नावबुध्यन्ते नोद्विजन्ति नोत्रसन्ति न संत्रसन्ति न संत्रासमापद्यन्ते, न विचिन्तयन्ति न निर्धावन्ति, नापि जानन्ति न विजानन्ति किमेतदादीप्तं नामेति । अन्यत्र तेन तेनैव धावन्ति विधावन्ति, पुनः पुनश्च तं पितरमवलोकयन्ति । तत्कस्य हेतोः? यथापीदं बालभावत्वात् ॥

अथ खलु स पुरुष एवमनुविचिन्तयेत्- आदीप्तमिदं निवेशनं महताग्निस्कन्धेन संप्रदीप्तम् । मा हैवाहं चेमे च कुमारका इहैवानेन महाताग्निस्कन्धेन अनयव्यसनमापत्स्यामहे । यन्न्वहमुपायकौशल्येनेमान् कुमारकानस्माद्गृहात्निष्क्रामयेयम् । स च पुरुषस्तेषां कुमारकाणामाशयज्ञो भवेत्, अधिमुक्तिं च विजानीयात् । तेषां च कुमारकाणामनेकविधान्यनेकानि क्रीडनकानि भवेयुर्विविधानि च रमणीयकानीष्टानि कान्तानि प्रियाणि मनआपानि, तानि च दुर्लभानि भवेयुः ॥

अथ खलु स पुरुषस्तेषां कुमारकाणामाशयं जानंस्तान् कुमारकानेतदवोचत्- यानि तानि कुमारका युष्माकं क्रीडनकानि रमणीयकान्याश्चर्याद्भुतानि, येषामलाभात्संतप्यथ, नानावर्णानि बहुप्रकाराणि । तद्यथा गोरथकान्यजरथकानि मृगरथकानि । यानि भवतामिष्टानि कान्तानि प्रियाणि मनआपानि । तानि च मया सर्वाणि बहिनिर्वेशनद्वारे स्थापितानि युष्माकं क्रीडनहेतोः । आगच्छन्तु भवन्तो निर्धावन्त्वस्मान्निवेशनात् । अहं वो यस्य यस्य येनार्थो येन प्रयोजनं भविष्यति, तस्मै तस्मै तत्प्रदास्यामि । आगच्छत शीघ्रं तेषां कारणम्, निर्धावत । अथ खलु ते कुमारकास्तेषां क्रीडनकानां रमणीयकानामर्थाय यथेप्सितानां यथासंकल्पितानामिष्टानां कान्तानां प्रियाणां मनआपानां नामधेयानि श्रुत्वा तस्मादादीप्तादगारात्क्षिप्रमेवारब्धवीर्या बलवता जवेन अन्योन्यमप्रतीक्षमाणाः कः प्रथमं कः प्रथमतरमित्यन्योन्यं संघट्टितकायास्तस्मादादीप्तादगारात्क्षिप्रमेव निर्धाविताः ॥

अथ स पुरुषः क्षेमस्वस्तिना तान् कुमारकान्निर्गतान् दृष्ट्वा अभयप्राप्तानिति विदित्वा आकाशे ग्रामचत्वरे उपविष्टः प्रीतिप्रामोद्यजातो निरुपादानो विगतनीवरणोऽभयप्राप्तो भवेत् । अथ खलु ते कुमारका येन स पिता तेनोपसंक्रामन्, उपसंक्रम्यैवं वदेयुः - देहि नस्तात तानि विविधानि क्रीडनकानि रमणीयानि । तद्यथा - गोरथकान्यजरथकानि मृगरथकानि । अथ खलु शारिपुत्र स पुरुषस्तेषां स्वकानां पुत्राणां वातजवसंपन्नान् (वैद्य ५३) गोरथकानेवानुप्रयच्छेत्सप्तरत्नमयान् सवेदिकान् सकिङ्किणीजालाभिप्रलम्बितानुच्चान् प्रगृहीतानाश्चर्याद्भुतरत्नालंकृतान् रत्नदामकृतशोभान् पुष्पमाल्यालंकृतांस्तूलिकागोणिकास्तरणान् दूष्यपटप्रत्यास्तीर्णानुभयतो लोहितोपधानान् श्वेतैः प्रपाण्डरैः शीघ्रजवैर्गोणैर्योजितान् बहुपुरुषपरिगृहीतान् । सवैजयन्तान् गोरथकानेव वातबलजवसंपन्नानेकवर्णानेकविधानेकैकस्य दारकस्य दद्यात् । तत्कस्य हेतोः? तथा हि शारिपुत्र स पुरुष आढ्यश्च भवेन्महाधनश्च प्रभूतकोष्ठागारश्च । स एवं मन्येत - अलं म एषां कुमारकाणामन्यैर्यानैर्दत्तैरिति । तत्कस्य हेतोः? सर्व एवैते कुमारका ममैव पुत्राः, सर्वे च मे प्रिया मनआपाः । संविद्यन्ते च मे इमान्येवंरूपाणि महायानानि । समं च मयैते कुमारकाः सर्वे चिन्तयितव्या न विषमम् । अहमपि बहुकोषकोष्ठागारः । सर्वसत्त्वानामप्यहमिमान्येवंरूपाणि महायानानि दद्याम्, किमङ्ग पुनः स्वकानां पुत्राणाम् । ते च दारकास्तस्मिन् समये तेषु महायानेष्वभिरुह्य आश्चर्याद्भुतप्राप्ता भवेयुः । तत्किं मन्यसे शारिपुत्र मा हैव तस्य पुरुषस्य मृषावादः स्यात्, येन तेषां दारकाणां पूर्वं त्रीणि यानान्युपदर्शयित्वा पश्चात्सर्वेषां महायानान्येव दत्तानि, उदारयानान्येव दत्तानि?

शारिपुत्र आह - न ह्येतद्भगवन्, न ह्येतत्सुगत । अनेनैव तावद्भगवन् कारणेन स पुरुषो न मृषावादी भवेद्यत्तेन पुरुषेणोपायकौशल्येन ते दारकास्तस्मादादीप्ताद्गृहान्निष्कासिताः, जीवितेन च अभिच्छादिताः । तत्कस्य हेतोः? आत्मभावप्रतिलम्भेनैव भगवन् सर्वक्रीडनकानि लब्धानि भवन्ति । यद्यपि तावद्भगवन् स पुरुषस्तेषां कुमारकाणामेकरथमपि न दद्यात्, तथापि तावद्भगवन् स पुरुषो न मृषावादी भवेत् । तत्कस्य हेतोः? तथा हि भगवंस्तेन पुरुषेण पूर्वमेव एवमनुविचिन्तितम् - उपायकौशल्येन अहमिमान् कुमारकांस्तस्मान्महतो दुःखस्कन्धात्परिमोचयिष्यामीति । अनेनापि भगवन् पर्यायेण तस्य पुरुषस्य न मृषावादो भवेत् । कः पुनर्वादो यत्तेन पुरुषेण प्रभूतकोशकोष्ठागारमस्तीति कृत्वा पुत्रप्रियतामेव मन्यमानेन श्लाघमानेनैकवर्णान्येकयानानि दत्तानि, यदुत महायानानि । नास्ति भगवंस्तस्य पुरुषस्य मृषावादः ॥

एवमुक्ते भगवानायुष्मन्तं शारिपुत्रमेतदवोचत्- साधु साधु शारिपुत्र । एवमेतच्छारिपुत्र, एवमेतद्यथा वदसि । एवमेव शारिपुत्र तथागतोऽर्हन् सम्यक्संबुद्धः सर्वभयविनिवृत्तः सर्वोपद्रवोपायासोपसर्गदुःखदौर्मनस्याविद्यान्धकारतमस्तिमिरपटलपर्यवनाहेभ्यः सर्वेण सर्वं सर्वथा विप्रमुक्तः । तथागतो ज्ञानबलवैशारद्यावेणिकबुद्धधर्मसमन्वागतः ऋद्धिबलेनातिबलवांल्लोकपिताः, महोपायकौशल्यज्ञानपरमपारमिताप्राप्तो महाकारुणिकोऽपरिखिन्नमानसो हितैषी अनुकम्पकः । स त्रैधातुके महता दुःखदौर्मनस्यस्कन्धेन आदीप्तजीर्णपटलशरणनिवेशनसदृश उत्पद्यते सत्त्वानां जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासाविद्यान्धकारतमस्तिमिरपटलपर्यवनाहप्रतिष्ठानां रागद्वेषमोहपरिमोचनहेतोरनुत्तरायां (वैद्य ५४) सम्यक्संबोधौ समादापनहेतोः । स उत्पन्नः समानः पश्यति सत्त्वान् दह्यतः पच्यमानांस्तप्यमानान् परितप्यमानान् जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैः, परिभोगनिमित्तं च कामहेतुनिदानं च अनेकाविधानि दुःखानि प्रत्यनुभवन्ति । दृष्टधार्मिकं च पर्येष्टिनिदानं परिग्रहनिदानं सांपरायिकं नरकतिर्यग्योनियमलोकेष्वनेकविधानि दुःखानि प्रत्यनुभविष्यन्ति । देवमनुष्यदारिद्र्यमनिष्टसंयोगमिष्टविनाभाविकानि च दुःखानि प्रत्यनुभवन्ति । तत्रैव च दुःखस्कन्धे परिवर्तमानाः क्रीडन्ति रमन्ते परिचारयन्ति नोत्रसन्ति न संत्रसन्ति न संत्रासमापद्यन्ते न बुध्यन्ते न चेतयन्ति नोद्विजन्ति न निःसरणं पर्येषन्ते । तत्रैव च आदीप्तागारसदृशे त्रैधातुकेऽभिरमन्ति, तेन तेनैव विधावन्ति । तेन च महता दुःखस्कन्धेन अभ्याहता न दुःखमनसिकारसंज्ञामुत्पादयन्ति ॥

तत्र शारिपुत्र तथागत एवं पश्यति - अहं खल्वेषां सत्त्वानां पिता । मया ह्येते सत्त्वा अस्मादेवंरूपान्महतो दुःखस्कन्धात्परिमोचयितव्याः, मया चैषां सत्त्वानामप्रमेयमचिन्त्यं बुद्धज्ञानसुखं दातव्यम्, येनैते सत्त्वाः क्रीडिष्यन्ति रमिष्यन्ति परिचारयिष्यन्ति, विक्रीडितानि च करिष्यन्ति ॥

तत्र शारिपुत्र तथागत एवं पश्यति - सचेदहं ज्ञानबलोऽस्मीति कृत्वा ऋद्धिबलोऽस्मीति कृत्वा अनुपायेनैषां सत्त्वानां तथागतज्ञानबलवैशारद्यानि संश्रावयेयम्, नैते सत्त्वा एभिर्धर्भैर्निर्यायेयुः । तत्कस्य हेतोः? अध्यवसिता ह्यमी सत्त्वाः पञ्चसु कामगुणेषु त्रैधातुकरत्याम् । अपरिमुक्ता जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यः । दह्यन्ते पच्यन्ते तप्यन्ते परितप्यन्ते । अनिर्धावितास्त्रैधातुकादादीप्तजीर्णपटलशरणनिवेशनसदृशात्कथमेते बुद्धज्ञानं परिभोत्स्यन्ते?

तत्र शारिपुत्र तथागतो यद्यथापि नाम स पुरुषो बाहुबलिकः स्थापयित्वा बाहुबलम्, उपायकौशल्येन तान् कुमारकांस्तस्मादादीप्तादगारान्निष्कासयेत्, निष्कासयित्वा स तेषां पश्चादुदाराणि महायानानि दद्यात्, एवमेव शारिपुत्र तथागतोऽप्यर्हन् सम्यक्संबुद्धस्तथागतज्ञानबलवैशारद्यसमन्वागतः स्थापयित्वा तथागतज्ञानबलवैशारद्यम्, उपायकौशल्यज्ञानेनादीप्तजीर्णपटलशरणनिवेशनसदृशात्त्रैधातुकात्सत्त्वानां निष्कासनहेतोस्त्रीणि यानान्युपदर्शयति यदुत्श्रावकयानं प्रत्येकबुद्धयानं बोधिसत्त्वयानमिति । त्रिभिश्च यानैः सत्त्वांल्लोभयति, एवं चैषां वदति - मा भवन्तोऽस्मिन्नादीप्तागारसदृशे त्रैधातुकेऽभिरमध्वं हीनेषु रूपशब्दगन्धरसस्पर्शेषु । अत्र हि यूयं त्रैधातुकेऽभिरताः पञ्चकामगुणसहगतया तृष्णया दह्यथ तप्यथ परितप्यथ । निर्धावध्वमस्मात्त्रैधातुकात् । त्रीणि यानान्यनुप्राप्स्यथ यदिदं श्रावकयानं प्रत्येकबुद्धयानं बोधिसत्त्वयानमिति । अहं वोऽत्र स्थाने प्रतिभूः । अहं वो दास्याम्येतानि त्रीणि यानानि । अभियुज्यध्वे त्रैधातुकान्निऽसरणहेतोः । एवं चैतांल्लोभयामि - एतानि भोः सत्त्वा यानि आर्याणि च आर्यप्रशस्तानि च महारमणीयकसमन्वागतानि च । अकृपणमेतैर्भवन्तः क्रीडिष्यथ रमिष्यथ परिचारयिष्यथ । इन्द्रियबलबोध्यङ्गध्यानविमोक्षसमाधिसमापत्तिभिश्च महतीं रतिं प्रत्यनुभविष्यथ । महता च सुखसौमनस्येन समन्वागता भविष्यथ ॥
(वैद्य ५५)

तत्र शारिपुत्र ये सत्त्वाः पण्डितजातीया भवन्ति, ते तथागतस्य लोकपितुरभिश्रद्दधन्ति । अभिश्रद्दधित्वा च तथागतशासनेऽभियुज्यन्ते उद्योगमापद्यन्ते । तत्र केचित्सत्त्वा परघोषश्रवानुगमनमाकाङ्क्षमाणा आत्मपरिनिर्वाणहेतोश्चतुरार्यसत्यानुबोधाय तथागतशासनेऽभियुज्यन्ते । ते उच्यन्ते श्रावकयानमाकाङ्क्षमाणाः त्रैधातुकान्निर्धावन्ति । तद्यथापि नाम तस्मादादीप्तादगारादन्यतरे दारका मृगरथमाकाङ्क्षमाणा निर्धाविताः । अन्ये सत्त्वा अनाचार्यकं ज्ञानं दमशमथमाकाङ्क्षमाणा आत्मपरिनिर्वाणहेतोर्हेतुप्रत्ययानुबोधाय तथागतशासनेऽभियुज्यन्ते, ते उच्यन्ते प्रत्येकबुद्धयानमाकाङ्क्षमाणास्त्रैधातुकान्निर्धावन्ति । तद्यथापि नाम तस्मादादीप्तादगारादन्यतरे दारका अजरथमाङ्क्षमाणा निर्धाविताः । अपरे पुनः सत्त्वाः सर्वज्ञज्ञानं बुद्धज्ञानं स्वयंभूज्ञानमनाचार्यकं ज्ञानमाकाङ्क्षमाणा बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च सर्वसत्त्वपरिनिर्वाणहेतोस्तथागतज्ञानबलवैशारद्यानुबोधाय तथागतशासनेऽभियुज्यन्ते । ते उच्यन्ते महायानमाकाङ्क्षमाणास्त्रैधातुकान्निर्धावन्ति । तेन कारणेनोच्यन्ते बोधिसत्त्वा महासत्त्वा इति । तद्यथापि नाम तस्मादादीप्तादगारादन्यतरे दारका गोरथमाकाङ्क्षमाणानिर्धाविताः । तद्यथापि नाम शारिपुत्र स पुरुषस्तान् कुमारकांस्तस्मादादीप्तादगारान्निर्धावितान् दृष्ट्वा क्षेमस्वस्तिभ्यां परिमुक्तानभयप्राप्तानिति विदित्वा आत्मानं च महाधनं विदित्वा तेषां दारकाणामेकमेव यानमुदारमनुप्रयच्छेत्, एवमेव शारिपुत्र तथागतोऽप्यर्हन् सम्यक्संबुद्धो यदा पश्यति - अनेकाः सत्त्वकोटीस्त्रैधातुकात्परिमुक्ता दुःखभयभैरवोपद्रवपरिमुक्तास्तथागतशासनद्वारेण निर्धाविताः परिमुक्ताः सर्वभयोपद्रवकान्तारेभ्यः । निर्वृतिसुखप्राप्ताः निर्वृतिसुखाप्राप्ताः । तानेतान् शारिपुत्र तस्मिन् समये तथागतोऽर्हन् सम्यक्संबुद्धः प्रभूतो महाज्ञानबलवैशारद्यकोश इति विदित्वा सर्वे चैते ममैव पुत्रा इति ज्ञात्वा बुद्धयानेनैव तान् सत्त्वान् परिनिर्वापयति । न च कस्यचित्सत्त्वस्य प्रत्यात्मिकं परिनिर्वाणं वदति । सर्वांश्च तान् सत्त्वांस्तथागतपरिनिर्वाणेन महापरिनिर्वाणेन परिनिर्वापयति । ये चापि ते शारिपुत्र सत्त्वास्त्रैधातुकात्परिमुक्ता भवन्ति, तेषां तथागतो ध्यानविमोक्षसमाधिसमापत्तीरार्याणि परमसुखानि क्रीडनकानि रमणीयकानि ददाति, सर्वाण्येतान्येकवर्णानि । तद्यथापि नाम शारिपुत्र तस्य पुरुषस्य न मृषावादो भवेत्, येन त्रीणि यानान्युपदर्शयित्वा तेषां कुमारकाणामेकमेव महायानं सर्वेषां दत्तं सप्तरत्नमयं सर्वालंकारविभूषितमेकवर्णमेव उदारयानमेव सर्वेषामग्रयानमेव दत्तं भवेत् । एवमेव शारिपुत्र तथागतोऽप्यर्हन् सम्यक्संबुद्धो न मृषावादी भवति, येन पूर्वमुपायकौशल्येन त्रीणि यानान्युपदर्शयित्वा पश्चान्महायानेनैव सत्त्वान् परिनिर्वापयति । तत्कस्य हेतोः? तथागतो हि शारिपुत्र प्रभूतज्ञानबलवैशारद्यकोशकोष्ठागारसमन्वागतः प्रतिबलः सर्वसत्त्वानां सर्वज्ञज्ञानसहगतं (वैद्य ५६) धर्ममुपदर्शयितुम् । अनेनापि शारिपुत्र पर्यायेणैवं वेदितव्यम्, यथा उपायकौशल्यज्ञानाभिनिर्हारैस्तथागत एकमेव महायानं देशयति ॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -

यथा हि पुरुषस्य भवेदगारं जीर्णं महन्तं च सुदुर्बलं च ।
विशीर्ण प्रासादु तथा भवेत स्तम्भाश्च मूलेषु भवेयु पूतिकाः ॥ ३.३९ ॥
गवाक्षहर्म्या गलितैकदेशा विशीर्ण कुडयं कटलेपनं च ।
जीर्णु प्रवृद्धोद्धृतवेदिकं च तृणच्छदं सर्वत ओपतन्तम् ॥ ३.४० ॥
शतान पञ्चान अनूनकानामावासु सो तत्र भवेत प्राणिनाम् ।
बहूनि चा निष्कुटसंकटानि उच्चारपूर्णानि जुगुप्सितानि ॥ ३.४१ ॥
गोपानसी विगलित तत्र सर्वा कुडयाश्च भित्तीश्च तथैव स्रस्ताः ।
गृध्राण कोट्यो निवसन्ति तत्र पारावतोलूक तथान्यपक्षिणः ॥ ३.४२ ॥
आशीविषा दारुण तत्र सन्ति देशप्रदेशेषु महाविषोग्राः ।
विचित्रिका वृश्चिकमूषिकाश्च एतान आवासु सुदुष्टप्राणिनाम् ॥ ३.४३ ॥
देशे च देशे अमनुष्य भूयो उच्चारप्रस्रावविनाशितं च ।
कृमिकीटखद्योतकपूरितं च श्वभिः शृगालैश्च निनादितं च ॥ ३.४४ ॥
भेरुण्डका दारुणा तत्र सन्ति मनुष्यकुणपानि च भक्षयन्तः ।
तेषां च निर्याणु प्रतीक्षमाणाः श्वानाः शृगालाश्च वसन्त्यनेके ॥ ३.४५ ॥
(वैद्य ५७)
ते दुर्बला नित्य क्षुधाभिभूता देशेषु देशेषु विखादमानाः ।
कलहं करोन्ताश्च निनादयन्ति सुभैरवं तद्गृहमेवरूपम् ॥ ३.४६ ॥
सुरौद्रचित्ता पि वसन्ति यक्षा मनुष्यकुणपानि विकड्ढमानाः ।
देशेषु देशेषु वसन्ति तत्र शतापदी गोनसकाश्च व्यालाः ॥ ३.४७ ॥
देशेषु देशेषु च निक्षिपन्ति ते पोतकान्यालयनानि कृत्वा ।
न्यस्तानि न्यस्तानि च तानि तेषां ते यक्ष भूयो परिभक्षयन्ति ॥ ३.४८ ॥
यदा च ते यक्ष भवन्ति तृप्ताः परसत्त्व खादित्व सुरौद्रचित्ताः ।
परसत्त्वमांसैः परितृप्तगात्राः कलहं तदा तत्र करोन्ति तीव्रम् ॥ ३.४९ ॥
विध्वस्तलेनेषु वसन्ति तत्र कुम्भाण्डका दारूणरौद्रचित्ताः ।
वितस्तिमात्रास्तथ हस्तमात्रा द्विहस्तमात्राश्चनुचंक्रमन्ति ॥ ३.५० ॥
ते चापि श्वानान् परिगृह्य पादैरुत्तानकान् कृत्व तथैव भूमौ ।
ग्रीवासु चोत्पीड्य विभर्त्सयन्तो व्याबाधयन्तश्च रमन्ति तत्र ॥ ३.५१ ॥
नानाश्च कृष्णाश्च तथैव दुर्बला उच्चा महन्ताश्च वसन्ति प्रेताः ।
जिघत्सिता भोजन मार्गमाणा आर्तस्वरं क्रन्दिषु तत्र तत्र ॥ ३.५२ ॥
सूचीमुखा गोणमुखाश्च केचित्मनुष्यमात्रास्तथ श्वानमात्राः ।
(वैद्य ५८)
प्रकीर्णकेशाश्च करोन्ति शब्दमाहारतृष्णापरिदह्यमानाः ॥ ३.५३ ॥
चतुर्दिशं चात्र विलोकयन्ति गवाक्षोल्लोकनकेहि नित्यम् ।
ते यक्ष प्रेताश्च पिशाचकाश्च गृध्राश्च आहार गवेषमाणाः ॥ ३.५४ ॥
एतादृशं भैरवु तद्गृहं भवेत्महन्तमुच्चं च सुदुर्बलं च ।
विजर्जरं दुर्बलमित्वरं च पुरुषस्य एकस्य परिग्रहं भवेत् ॥ ३.५५ ॥
स च बाह्यतः स्यात्पुरुषो गृहस्य निवेशनं तच्च भवेत्प्रदीप्तम् ।
सहसा समन्तेन चतुर्दिशं च ज्वालासहस्रैः परिदीप्यमानम् ॥ ३.५६ ॥
वंशाश्च दारूणि च अग्नितापिताः करोन्ति शब्दं गुरुकं सुभैरवम् ।
प्रदीप्त स्तम्भाश्च तथैव भित्तयो यक्षाश्च प्रेताश्च मुचन्ति नादम् ॥ ३.५७ ॥
ज्वालूषिता गृध्रशताश्च भूयः कुम्भाण्डकाः प्लोष्टमुखा भ्रमन्ति ।
समन्ततो व्यालशताश्च तत्र नदन्ति क्रोशन्ति च दह्यमानाः ॥ ३.५८ ॥
पिशाचकास्तत्र बहू भ्रमन्ति संतापिता अग्निन मन्दपुण्याः ।
दन्तेहि पाटित्व ति अन्यमन्यं रुधिरेण सिञ्चन्ति च दह्यमानाः ॥ ३.५९ ॥
भेरूण्डकाः कालगताश्च तत्र खादन्ति सत्त्वाश्च ति अन्यमन्यम् ।
उच्चार दह्यत्यमनोज्ञगन्धः प्रवायते लोकि चतुर्दिशासु ॥ ३.६० ॥
(वैद्य ५९)
शतापदीयो प्रपलायमानाः कुम्भाण्डकास्ताः परिभक्षयन्ति ।
प्रदीप्तकेशाश्च भ्रमन्ति प्रेताः क्षुधाय दाहेन च दह्यमानाः ॥ ३.६१ ॥
एतादृशं भैरव तन्निवेशनं ज्वालासहस्रैर्हि विनिश्चरद्भिः ।
पुरुषश्च सो तस्य गृहस्य स्वामी द्वारस्मि अस्थासि विपश्यमानः ॥ ३.६२ ॥
शृणोति चासौ स्वके अत्र पुत्रान् क्रीडापनैः क्रीडनसक्तबुद्धीन् ।
रमन्ति ते क्रीडनकप्रमत्ता यथापि बाला अविजानमानाः ॥ ३.६३ ॥
श्रुत्वा च सो तत्र प्रविष्टु क्षिप्रं प्रमोचनार्थाय तदात्मजानाम् ।
मा मह्य बाला इमि सर्व दारका दह्येयु नश्येयु च क्षिप्रमेव ॥ ३.६४ ॥
स भाषते तेषमगारदोषान् दुःखमिदं भोः कुलपुत्र दारुणम् ।
विविधाश्च सत्त्वेह अयं च अग्नि महन्तिका दुःखपरंपरा तु ॥ ३.६५ ॥
आशीविषा यक्ष सुरौद्रचित्ताः कुम्भाण्ड प्रेता बहवो वसन्ति ।
भेरुण्डकाः श्वानशृगालसंघा गृध्राश्च आहार गवेषमाणाः ॥ ३.६६ ॥
एतादृशास्मिन् बहवो वसन्ति विनापि चाग्नेः परमं सुभैरवम् ।
दुःखमिदं केवलमेवरूपं समन्ततश्चाग्निरयं प्रदीप्तः ॥ ३.६७ ॥
ते चोद्यमानास्तथ बालबुद्धयः कुमारकाः क्रीडनके प्रमत्ताः ।
(वैद्य ६०)
न चिन्तयन्ते पितरं भणन्तं न चापि तेषां मनसीकरोन्ति ॥ ३.६८ ॥
पुरुषश्च सो तत्र तदा विचिन्तयेत्सुदुःखितोऽस्मी इह पुत्रचिन्तया ।
किं मह्य पुत्रेहि अपुत्रकस्य मा नाम दह्येयुरिहाग्निना इमे ॥ ३.६९ ॥
उपायु सो चिन्तयि तस्मि काले लुब्धा इमे क्रीडनकेषु बालाः ।
न चात्र क्रीडा च रती च काचिद्बालान हो यादृशु मूढभावः ॥ ३.७० ॥
स तानवोचछृणुथा कुमारका नानाविधा यानक या ममास्ति ।
मृगैरजैर्गोणवरैश्च युक्ता उच्चा महन्ता समलंकृता च ॥ ३.७१ ॥
ता बाह्यतो अस्य निवेशनस्य निर्धावथा तेहि करोथ कार्यम् ।
युष्माकमर्थे मय कारितानि निर्याथ तैस्तुष्टमनाः समेत्य ॥ ३.७२ ॥
ते यान एतादृशका निशाम्य आरब्धवीर्यास्त्वरिता हि भूत्वा ।
निर्धावितास्तत्क्षणमेव सर्वे आकाशि तिष्ठन्ति दुखेन मुक्ताः ॥ ३.७३ ॥
पुरुषश्च सो निर्गत दृष्ट्व दारकान् ग्रामस्य मध्ये स्थितु चत्वरस्मिन् ।
उपविश्य सिंहासनि तानुवाच अहो अहं निर्वृतु अद्य मार्षाः ॥ ३.७४ ॥
ये दुःखलब्धा मम ते तपस्विनः पुत्रा प्रिया ओरस विंश बालाः ।
ते दारूणे दुर्गगृहे अभूवन् बहूजन्तूपूर्णे च सुभैरवे च ॥ ३.७५ ॥
(वैद्य ६१)
आदीप्तके ज्वालसहस्रपूर्णे रता च ते क्रीडरतीषु आसन् ।
मया च ते मोचित अद्य सर्वे येनाहु निर्वाणु समागतोऽद्य ॥ ३.७६ ॥
सुखस्थितं तं पितरं विदित्वा उपगम्य ते दारक एवमाहुः ।
ददाहि नस्तात यथाभिभाषितं त्रिविधानि यानानि मनोरमाणि ॥ ३.७७ ॥
सचेत्तव सत्यक तात सर्वं यद्भाषितं तत्र निवेशने ते ।
त्रिविधानि यानानि ह संप्रदास्ये ददस्व कालोऽयमिहाद्य तेषाम् ॥ ३.७८ ॥
पुरुषश्च सो कोशबली भवेत सुवर्णरूप्यामणिमुक्तकस्य ।
हिरण्य दासाश्च अनल्पकाः स्युरुपस्थपे एकविधा स याना ॥ ३.७९ ॥
रत्नामया गोणरथा विशिष्टा सवेदिकाः किङ्किणिजालनद्धाः ।
छत्रध्वजेभिः समलंकृताश्च मुक्तामणीजालिकछादिताश्च ॥ ३.८० ॥
सुवर्णपुष्पाण कृतैश्च दामैर्देशेषु देशेषु प्रलम्बमानैः ।
बस्त्रैरुदारैः परिसंवृताश्च प्रत्यास्तृता दूष्यवरैश्च शुक्लैः ॥ ३.८१ ॥
मृदुकान् पट्टान तथैव तत्र वरतूलिकासंस्तृत येऽपि ते रथाः ।
प्रत्यास्तृताः कोटिसहस्रमूल्यैर्वरैश्च कोच्कैर्बकहंसलक्षणैः ॥ ३.८२ ॥
(वैद्य ६२)
श्वेताः सुपुष्टा बलवन्त गोणा महाप्रमाणा अभिदर्शनीयाः ।
ये योजिता रत्नरथेषु तेषु परिगृहीताः पुरुषैरनेकैः ॥ ३.८३ ॥
एतादृशान् सो पुरुषो ददाति पुत्राण सर्वाण वरान् विशिष्टान् ।
ते चापि तुष्टात्तमनाश्च तेहि दिशाश्च विदिशाश्च व्रजन्ति क्रीडकाः ॥ ३.८४ ॥
एमेव हं शारिसुता महर्षी सत्त्वान त्राणं च पिता च भोमि ।
पुत्राश्च ते प्राणिन सर्वि मह्यं त्रैधातुके कामविलग्न बालाः ॥ ३.८५ ॥
त्रैधातुकं चो यथ तन्निवेशनं सुभैरवं दुःखशताभिकीर्णम् ।
अशेषतः प्रज्वलितं समन्ताज्जातीजराव्याधिशतैरनेकैः ॥ ३.८६ ॥
अहं च त्रैधातुकमुक्त शान्तो एकान्तस्थायी पवने वसामि ।
त्रैधातुकं चो ममिदं परिग्रहो ये ह्यत्र दह्यन्ति ममैति पुत्राः ॥ ३.८७ ॥
अहं च आदीनव तत्र दर्शयी विदित्व त्राणमहमेव चैषाम् ।
न चैव मे ते श्रुणि सर्वि बाला यथापि कामेषु विलग्नबुद्धयः ॥ ३.८८ ॥
उपायकौशल्यमहं प्रयोजयी यानानि त्रीणि प्रवदामि चैषाम् ।
ज्ञात्वा च त्रैधातुकि नेकदोषान्निर्धावनार्थाय वदाम्युपायम् ॥ ३.८९ ॥
मां चैव ये निश्रित भोन्ति पुत्राः षडभिज्ञ त्रैविद्य महानुभावाः ।
(वैद्य ६३)
प्रत्येकबुद्धाश्च भवन्ति येऽत्र अविवर्तिका ये चिह बोधिसत्त्वाः ॥ ३.९० ॥
समान पुत्राण हु तेष तत्क्षणमिमेन दृष्टान्तवरेण पण्डित ।
वदामि एकमिमु बुद्धयानं परिगृह्णथा सर्वि जिना भविष्यथ ॥ ३.९१ ॥
तच्चा वरिष्ठं सुमनोरमं च विशिष्टरूपं चिह सर्वलोके ।
बुद्धान ज्ञानं द्विपदोत्तमानामुदाररूपं तथ वन्दनीयम् ॥ ३.९२ ॥
बलानि ध्यानानि तथा विमोक्षाः समाधिनां कोटिशता च नेका ।
अयं रथो ईदृशको वरिष्ठो रमन्ति येनो सद बुद्धपुत्राः ॥ ३.९३ ॥
क्रीडन्त एतेन क्षपेन्ति रात्रयो दिवसांश्च पक्षानृतवोऽथ मासान् ।
संवत्सरानन्तरकल्पमेव च क्षपेन्ति कल्पान सहस्रकोट्यः ॥ ३.९४ ॥
रत्नामयं यानमिदं वरिष्ठं गच्छन्ति येनो इह बोधिमण्डे ।
विक्रीडमाना बहुबोधिसत्त्वा ये चो शृणोन्ति सुगतस्य श्रावकाः ॥ ३.९५ ॥
एवं प्रजानाहि त्वमद्य तिष्य नास्तीह यानं द्वितियं कहिंचित् ।
दिशो दशा सर्व गवेषयित्वा स्थापेत्वुपायं पुरुषोत्तमानाम् ॥ ३.९६ ॥
पुत्रा ममा यूयमहं पिता वो मया च निष्कासित यूय दुःखात् ।
परिदह्यमाना बहुकल्पकोटयस्त्रैधातुकातो भयभैरवातः ॥ ३.९७ ॥
(वैद्य ६४)
एवं च हं तत्र वदामि निर्वृतिमनिर्वृता यूय तथैव चाद्य ।
संसारदुःखादिह यूय मुक्ता बौद्धं तु यानं व गवेषितव्यम् ॥ ३.९८ ॥
ये बोधिसत्त्वाश्च इहास्ति केचिच्छृण्वन्ति सर्वे मम बुद्धनेत्रीम् ।
उपायकौशल्यमिदं जिनस्य येनो विनेती बहुबोधिसत्त्वान् ॥ ३.९९ ॥
हीनेषु कामेषु जुगुप्सितेषु रता यदा भोन्तिमि अत्र सत्त्वाः ।
दुःखं तदा भाषति लोकनायको अनन्यथावादिरिहार्यसत्यम् ॥ ३.१०० ॥
ये चापि दुःखस्य अजानमाना मूलं न पश्यन्तिह बालबुद्धयः ।
मार्गं हि तेषामनुदर्शयामि समुदागमस्तृष्ण दुखस्य संभवः ॥ ३.१०१ ॥
तृष्णानिरोधोऽथ सदा अनिश्रिता निरोधसत्यं तृतियमिदं मे ।
अनन्यथा येन च मुच्यते नरो मार्गं हि भावित्व विमुक्त भोति ॥ ३.१०२ ॥
कुतश्च ते शारिसुता विमुक्ता असन्तग्राहातु विमुक्त भोन्ति ।
न च ताव ते सर्वत मुक्त भोन्ति अनिर्वृतांस्तान् वदतीह नायकः ॥ ३.१०३ ॥
किकारणं नास्य वदामि मोक्षमप्राप्यिमामुत्तममग्रबोधिम् ।
ममैष छन्दो अहु धर्मराजा सुखापनार्थायिह लोकि जातः ॥ ३.१०४ ॥
इय शारिपुत्रा मम धर्ममुद्रा या पश्चिमे कालि मयाद्य भाषिता ।
(वैद्य ६५)
हिताय लोकस्य सदेवकस्य दिशासु विदिशासु च देशयस्व ॥ ३.१०५ ॥
यश्चापि ते भाषति कश्चि सत्त्वो अनुमोदयामीति वदेत वाचम् ।
मूर्ध्नेन चेदं प्रतिगृह्य सूत्रमविवर्तिकं तं नरु धारयेस्त्वम् ॥ ३.१०६ ॥
दृष्टाश्च तेनो पुरिमास्तथागताः सत्कारु तेषां च कृतो अभूषि ।
श्रुतश्च धर्मो अयमेवरूपो य एत सूत्रमभिश्रद्दधेत ॥ ३.१०७ ॥
अहं च त्वं चैव भवेत दृष्टो अयं च सर्वो मम भिक्षुसंघः ।
दृष्टाश्च सर्वे इमि बोधिसत्त्वा ये श्रद्दधे भाषितमेत मह्यम् ॥ ३.१०८ ॥
सूत्रमिमं बालजनप्रमोहनमभिज्ञज्ञानान मि एतु भाषितम् ।
विषयो हि नैवास्तिह श्रावकाणां प्रत्येकबुद्धान गतिर्न चात्र ॥ ३.१०९ ॥
अधिमुक्तिसारस्तुव शारिपुत्र किं वा पुनर्मह्य इमेऽन्यश्रावकाः ।
एतेऽपि श्रद्धाय ममैव यान्ति प्रत्यात्मिकं ज्ञानु न चैव विद्यते ॥ ३.११० ॥
मा चैव त्वं स्तम्भिषु मा च मानिषु मायुक्तयोगीन वदेसि एतत् ।
बाला हि कामेषु सदा प्रमत्ता अजानका धर्मु क्षिपेयु भाषितम् ॥ ३.१११ ॥
उपायकौशल्य क्षिपित्व मह्यं या बुद्धनेत्री सद लोकि संस्थिता ।
भृकुटिं करित्वान क्षिपित्व यानं विपाकु तस्येह शृणोहि तीव्रम् ॥ ३.११२ ॥
(वैद्य ६६)
क्षिपित्व सूत्रमिदमेवरूपं मयि तिष्ठमाने परिनिर्वृते वा ।
भिक्षूषु वा तेषु खिलानि कृत्वा तेषां विपाकं ममिहं शृणोहि ॥ ३.११३ ॥
च्युत्वा मनुष्येषु अवीचि तेषां प्रतिष्ठ भोती परिपूर्णकल्पात् ।
ततश्च भूयोऽन्तरकल्प नेकांश्च्युताश्च्युतास्तत्र पतन्ति बालाः ॥ ३.११४ ॥
यदा च नरकेषु च्युता भवन्ति ततश्च तिर्यक्षु व्रजन्ति भूयः ।
सुदुर्बलाः श्वानशृगालभूताः परेष क्रीडापनका भवन्ति ॥ ३.११५ ॥
वर्णेन ते कालक तत्र भोन्ति कल्माषका व्राणिक कण्डुलाश्च ।
निर्लोमका दुर्बल भोन्ति भूयो विद्वेषमाणा मम अग्रबोधिम् ॥ ३.११६ ॥
जुगुप्सिता प्राणिषु नित्य भोन्ति लोष्टप्रहाराभिहता रुदन्तः ।
दण्डेन संत्रासित तत्र तत्र क्षुधापिपासाहत शुष्कगात्राः ॥ ३.११७ ॥
उष्ट्राथ वा गर्दभ भोन्ति भूयो भारं वहन्तः कशदण्डताडिताः ।
आहारचिन्तामनुचिन्तयन्तो ये बुद्धनेत्री क्षिपि बालबुद्धयः ॥ ३.११८ ॥
पुनश्च ते क्रोष्टुक भोन्ति तत्र बीभत्सकाः काणक कुण्ठकाश्च ।
उत्पीडिता ग्रामकुमारकेहि लोष्टप्रहाराभिहताश्च बालाः ॥ ३.११९ ॥
ततश्च्यवित्वान च भूयु बालाः पञ्चाशतीनां सम योजनानाम् ।
(वैद्य ६७)
दीर्घात्मभावा हि भवन्ति प्राणिनो जडाश्च मूढाः परिवर्तमानाः ॥ ३.१२० ॥
अपादका भोन्ति च क्रोडसक्किनो विखाद्यमाना बहुप्राणिकोटिभिः ।
सुदारुणां ते अनुभोन्ति वेदनां क्षिपित्व सूत्रमिदमेवरूपम् ॥ ३.१२१ ॥
पुरुषात्मभावं च यद लभन्ते ते कुण्ठका लङ्गक भोन्ति तत्र ।
कुब्जाथ काणा च जडा जघन्या अश्रद्दधन्ता इम सूत्र मह्यम् ॥ ३.१२२ ॥
अप्रत्यनीयाश्च भवन्ति लोके पूती मुखात्तेष प्रवाति गन्धः ।
यक्षग्रहो उक्रमि तेष काये अश्रद्दधन्तानिम बुद्धबोधिम् ॥ ३.१२३ ॥
दरिद्रका पेषणकारकाश्च उपस्थायका नित्य परस्य दुर्बलाः ।
आबाध तेषां बहुकाश्च भोन्ति अनाथभूता विहरन्ति लोके ॥ ३.१२४ ॥
यस्यैव ते तत्र करोन्ति सेवनामदातुकामो भवती स तेषाम् ।
दत्तं पि चो नश्यति क्षिप्रमेव फलं हि पापस्य इमेवरूपम् ॥ ३.१२५ ॥
यच्चापि ते तत्र लभन्ति औषधं सुयुक्तरूपं कुशलेहि दत्तम् ।
तेनापि तेषां रुज भूयु वर्धते सो व्याधिरन्तं न कदाचि गच्छति ॥ ३.१२६ ॥
अन्येहि चौर्याणि कृतानि भोन्ति डमराथ डिम्बास्तथ विग्रहाश्च ।
द्रव्यापहाराश्च कृतास्तथान्यैर्निपतन्ति तस्योपरि पापकर्मणः ॥ ३.१२७ ॥
न जातु सो पश्यति लोकनाथं नरेन्द्रराजं महि शासमानम् ।
(वैद्य ६८)
तस्याक्षणेष्वेव हि वासु भोति इमां क्षिपित्वा मम बुद्धनेत्रीम् ॥ ३.१२८ ॥
न चापि सो धर्म शृणोति बालो बधिरश्च सो भोति अचेतनश्च ।
क्षिपित्व बोधीमिममेवरूपामुपशान्ति तस्यो न कदाचि भोति ॥ ३.१२९ ॥
सहस्र नेका नयुतांश्च भूयः कल्पान कोट्यो यथ गङ्गवालिकाः ।
जडात्मभावो विकलश्च भोति क्षिपित्व सूत्रमिमु पापकं फलम् ॥ ३.१३० ॥
उद्यानभूमी नरकोऽस्य भोति निवेशनं तस्य अपायभूमिः ।
खरसूकरा क्रोष्टुक भूमिसूचकाः प्रतिष्ठितस्येह भवन्ति नित्यम् ॥ ३.१३१ ॥
मनुष्यभावत्वमुपेत्य चापि अन्धत्व बधिरत्व जडत्वमेति ।
परप्रेष्य सो भोति दरिद्र नित्यं तत्कालि तस्याभरणानिमानि ॥ ३.१३२ ॥
वस्त्राणि चो व्याधयु भोन्ति तस्य व्रणान कोटीनयुताश्च काये ।
विचर्चिका कण्डु तथैव पामा कुष्ठं किलासं तथ आमगन्धः ॥ ३.१३३ ॥
सत्कायदृष्टिश्च घनास्य भोति उदीर्यते क्रोधबलं च तस्य ।
संरागु तस्यातिभृशं च भोति तिर्याण योनीषु च सो सदा रमी ॥ ३.१३४ ॥
सचेदहं शारिसुताद्य तस्य परिपूर्णकल्पं प्रवदेय दोषान् ।
यो ही ममा एतु क्षिपेत सूत्रं पर्यन्तु दोषाण न शक्य गन्तुम् ॥ ३.१३५ ॥
(वैद्य ६९)
संपश्यमानो इदमेव चार्थं त्वां संदिशामी अहु शारिपुत्र ।
मा हैव त्वं बालजनस्य अग्रतो भाषिष्यसे सूत्रमिमेवरूपम् ॥ ३.१३६ ॥
ये तू इह व्यक्त बहुश्रुताश्च स्मृतिमन्त ये पण्डित ज्ञानवन्तः ।
ये प्रस्थिता उत्तममग्रबोधिं तान् श्रावयेस्त्वं परमार्थमेतत् ॥ ३.१३७ ॥
दृष्टाश्च येही बहुबुद्धकोट्यः कुशलं च यै रोपितमप्रमेयम् ।
अध्याशयाश्चा दृढ येष चो स्यात्तान् श्रावयेस्त्वं परमार्थमेतत् ॥ ३.१३८ ॥
ये वीर्यवन्तः सद मैत्रचित्ता भावेन्ति मैत्रीमिह दीर्घरात्रम् ।
उत्सृष्टकाया तथ जीविते च तेषामिदं सूत्र भणेः समक्षम् ॥ ३.१३९ ॥
अन्योन्यसंकल्प सगौरवाश्च तेषां च बालेहि न संस्तवोऽस्ति ।
ये चापि तुष्टा गिरिकन्दरेषु तान् श्रावयेस्त्वमिद सूत्र भद्रकम् ॥ ३.१४० ॥
कल्याणमित्रांश्च निषेवमाणाः पापांश्च मित्रान् परिवर्जयन्तः ।
यानीदृशान् पश्यसि बुद्धपुत्रांस्तेषामिदं सूत्र प्रकाशयेसि ॥ ३.१४१ ॥
अच्छिद्रशीला मणिरत्नसादृशा वैपुल्यसूत्राण परिग्रहे स्थिताः ।
पश्येसि यानीदृश बुद्धपुत्रांस्तेषाग्रतः सूत्रमिदं वदेसि ॥ ३.१४२ ॥
अक्रोधना ये सद आर्जवाश्च कृपासमन्वागत सर्वप्राणिषु ।
(वैद्य ७०)
सगौरवा ये सुगतस्य अन्तिके तेषाग्रतः सूत्रमिदं वदेसि ॥ ३.१४३ ॥
यो धर्मु भाषे परिषाय मध्ये असङ्गप्राप्तो वदि युक्तमानसः ।
दृष्टान्तकोटीनयुतैरनेकैस्तस्येद सूत्रमुपदर्शयेसि ॥ ३.१४४ ॥
मूर्ध्नाञ्जलिं यश्च करोति बद्ध्वा सर्वज्ञभावं परिमार्गमाणः ।
दशो दिशो योऽपि च चंक्रमेत सुभाषितं भिक्षु गवेषमाणः ॥ ३.१४५ ॥
वैपुल्यसूत्राणि च धारयेत न चास्य रुच्यन्ति कदाचिदन्ये ।
एकां पि गाथां न च धारयेऽन्यतस्तं श्रावयेस्त्वं वरसूत्रमेतत् ॥ ३.१४६ ॥
तथागतस्यो यथ धातु धारयेत्तथैव यो मार्गति कोचि तं नरः ।
एमेव यो मार्गति सूत्रमीदृशं लभित्व यो मूर्धनि धारयेत ॥ ३.१४७ ॥
अन्येषु सूत्रेषु न काचि चिन्ता लोकायतैरन्यतरैश्च शास्त्रैः ।
बालान एतादृश भोन्ति गोचरास्तांस्त्वं विवर्जित्व प्रकाशयेरिदम् ॥ ३.१४८ ॥
पूर्णं पि कल्पमहु शारिपुत्र वदेयमाकार सहस्रकोट्यः ।
ये प्रस्थिता उत्तममग्रबोधिं तेषाग्रतः सूत्रमिदं वदेसि ॥ ३.१४९ ॥

इत्यार्यसद्धर्मपुण्डरीके धर्मपर्याये औपम्यपरिवर्तो नाम तृतीयः ॥



_______________________________________________________________________________


(वैद्य ७१)
४: अधिमुक्तिपरिवर्तः ।

अथ खल्वायुष्मान् सुभूतिरायुष्मांश्च महाकात्यायनः आयुष्मांश्च महाकाश्यपः आयुष्मांश्च महामौद्गल्यायनः इममेवंरूपमश्रुतपूर्वं धर्मं श्रुत्वा भगवतोऽन्तिकात्संमुखमायुष्मतश्च शारिपुत्रस्य व्याकरणं श्रुत्वा अनुत्तरायां सम्यक्संबोधौ आश्चर्यप्राप्ता अद्भुतप्राप्ता औद्बिल्यप्राप्ता स्तस्यां वेलायामुत्थायासनेभ्यो येन भगवांस्तेनोपसंक्रामन् । उपसंक्रम्य एकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमभिमुखमुल्लोकयमाना अवनकाया अभिनतकायाः प्रणतकायास्तस्यां वेलायां भगवन्तमेतदवोचन् - वयं हि भगवन् जीर्णा वृद्धा महल्लका अस्मिन् भिक्षुसंघे स्थविरसंमता जराजीर्णीभूता निर्वाणप्राप्ताः स्म इति भगवन्निरुद्यमा अनुत्तरायां सम्यक्संबोधावप्रतिबलाः स्मः, अप्रतिवीर्यारम्भाः स्मः । यदापि भगवान् धर्मं देशयति, चिरं निषण्णश्च भगवान् भवति, वयं च तस्यां धर्मदेशनायां प्रत्युपस्थिता भवामः, तदाप्यस्माकं भगवन् चिरं निषण्णानां भगवन्तं चिरं पर्युपासितानामङ्गप्रत्यङ्गानि दुःखन्ति, संधिविसंधयश्च दुःखन्ति ।
ततो वयं भगवन् भगवतो धर्मं देशयमानस्य शून्यतानिमित्ताप्रणिहितं सर्वमाविष्कुर्मः । नास्माभिरेषु बुद्धधर्मेषु बुद्धक्षेत्रव्यूहेषु वा बोधिसत्त्वविक्रीडितेषु वा तथागतविक्रीडितेषु वा स्पृहोत्पादिता । तत्कस्य हेतोः? यच्चास्माद्भगवंस्त्रैधातुकान्निर्धाविता निर्वाणसंज्ञिनः, वयं च जराजीर्णाः । ततो भगवनस्माभिरप्यन्ये बोधिसत्त्वा अववदिता अभूवन्ननुत्तरायां सम्यक्संबोधौ, अनुशिष्टाश्च । न च भगवंस्तत्रास्माभिरेकमपि स्पृहाचित्तमुत्पादितमभूत् । ते वयं भगवन्नेतर्हि भगवतोऽन्तिकाच्छ्रावकाणामपि व्याकरणमनुत्तरायां सम्यक्संबोधौ भवतीति श्रुत्वा आश्चर्याद्भुतप्राप्ता महालाभप्राप्ताः स्मः । भगवन्नद्य सहसैवेममेवंरूपमश्रुतपूर्वं तथागतघोषं श्रुत्वा महारत्नप्रतिलब्धाश्च स्मः । भगवनप्रमेयरत्नप्रतिलब्धाश्च स्मः । भगवनमार्गितमपर्येष्टमचिन्तितमप्रार्थितं चास्माभिर्भगवन्निदमेवं रूपं महारत्नं प्रतिलब्धम् । प्रतिभाति नो भगवन्, प्रतिभाति नः सुगत । तद्यथापि नाम भगवन् कश्चिदेव पुरुषः पितुरन्तिकादपक्रामेत् । सोऽपक्रम्य अन्यतरं जनपदप्रदेशं गच्छेत् । स तत्र बहूनि वर्षाणि विप्रवसेद्विंशतिं वा त्रिंशद्वा चत्वारिंशद्वा पञ्चाशद्वा । अथ स भगवन्महान् पुरुषो भवेत् । स च दरिद्रः स्यात् । स च वृत्तिं पर्येषमाण आहारचीवरहेतोर्दिशो विदिशः प्रकामनन्यतरं जनपदप्रदेशं गच्छेत् । तस्य च स पिता अन्यतमं जनपदं प्रक्रान्तः स्यात् । बहुधनधान्यहिरण्यकोशकोष्ठागारश्च भवेत् । बहुसुवर्णरूप्यमणिमुक्तावैडूर्यशङ्खशिलाप्रवालजातरूपरजतसमन्वागतश्च भवेत् । बहुदासीदासकर्मकरपौरुषेयश्च भवेत् । बहुहस्त्यश्वरथगवेडकसमन्वागतश्च भवेत् । महापरिवारश्च भवेत् । महाजनपदेषु च धनिकः स्यात् । आयोगप्रयोगकृषिवणिज्यप्रभूतश्च भवेत् ॥
(वैद्य ७२)

अथे खलु भगवन् स दरिद्रपुरुष आहारचीवरपर्येष्टिहेतोर्ग्रामनगरनिगमजनपदराष्ट्रराजधानीषु पर्यटमानोऽनुपूर्वेण यत्रासौ पुरुषो बहुधनहिरण्यसुवर्णकोशकोष्ठागारस्तस्यैव पिता वसति, तन्नगरमनुप्राप्तो भवेत् । अथ खलु भगवन् स दरिद्रपुरुषस्य पिता बहुधनहिरण्यकोशकोष्ठागारस्तस्मिन्नगरे वसमानस्तं पञ्चाशद्वर्षनष्टं पुत्रं सततसमितमनुस्मरेत् । समनुस्मरमाणश्च न कस्यचिदाचक्षेदन्यत्रैक एवात्मनाध्यात्मं संतप्येत्, एवं च चिन्तयेत्- अहमस्मि जीर्णो वृद्धो महल्लकः । प्रभूतं मे हिरण्यसुवर्णधनधान्यकोशकोष्ठागारं संविद्यते । न च मे पुत्रः कश्चिदस्ति । मा हैव मम कालक्रिया भवेत् । सर्वमिदमपरिभुक्तं विनश्येत् । स तं पुनः पुनः पुत्रमनुस्मरेत्- अहो नामाहं निर्वृतिप्राप्तो भवेयं यदि मे स पुत्र इमं धनस्कन्धं परिभुञ्जीत ॥

अथ खलु भगवन् स दरिद्रपुरुष आहारचीवरं पर्येषमाणोऽनुपूर्वेण येन तस्य प्रभूतहिरण्यसुवर्णधनधान्यकोशकोष्ठागारस्य समृद्धस्य पुरुषस्य निवेशनं तेनोपसंक्रामेत् । अथ खलु भगवन् स तस्य दरिद्रपुरुषस्य पिता स्वके निवेशनद्वारे महत्या ब्राह्मणक्षत्रियविट्शूद्रपरिषदा परिवृतः पुरस्कृतो महासिंहासने सपादपीठे सुवर्णरूप्यप्रतिमण्डिते उपविष्टो हिरण्यकोटीशतसहस्रैर्व्यवहारं कुर्वन् वालव्यजनेन वीज्यमानो विततविताने पृथिवीप्रदेशे मुक्तकुसुमाभिकीर्णे रत्नदामाभिप्रलम्बिते महत्यद्धर्या उपविष्टः स्यात् । अद्राक्षीत्स भगवन् दरिद्रपुरुषस्तं स्वकं पितरं स्वके निवेशनद्वारे एवंरूपया ऋध्या उपविष्टं महता जनकायेन परिवृतं गृहपतिकृत्यं कुर्वाणम् । दृष्ट्वा च पुनर्भीतस्त्रस्तः संविग्नः संहृष्टरोमकूपजातः उद्विग्नमानसः एवमनुविचिन्तयामास - सहसैवायं मया राजा वा राजमात्रो वा आसादितः । नास्त्यस्माकमिह किंचित्कर्म । गच्छामो वयं येन दरिद्रवीथी, तत्रास्माकमाहारचीवरमल्पकृच्छ्रेणैव उत्पत्स्यते । अलं मे चिरं विलम्बितेन । मा हैवाहमिह वैष्टिको वा गृह्येय, अन्यतरं वा दोषमनुप्राप्नुयाम् ॥

अथ खलु भगवन् स दरिद्रपुरुषो दुःखपरंपरामनसिकारभयभीतस्त्वरमाणः प्रक्रामेत्पलायेत्, न तत्र संतिष्ठेत् । अथ खलु भगवन् स आढ्यः पुरुषः स्वके निवेशनद्वारे सिंहासने उपविष्टस्तं स्वकं पुत्रं सहदर्शनेनैव प्रत्यभिजानीयात् । दृष्ट्वा च पुनस्तुष्ट उदग्र आत्तमनस्कः प्रमुदितः प्रीतिसौमनस्यजातो भवेत्, एवं च चिन्तयेत्- आश्चर्यं यावद्यत्र हि नाम अस्य महतो हिरण्यसुवर्णधनधान्यकोशकोष्ठागारस्य परिभोक्ता उपलब्धः । अहं चैतमेव पुनः पुनः समनुस्मरामि । अयं च स्वयमेवेहागतः । अहं च जीर्णो वृद्धो महल्लकः ॥

अथ खलु भगवन् स पुरुषः पुत्रतृष्णासंपीडितस्तस्मिन् क्षणलवमुहूर्ते जवनान् पुरुषान् संप्रेषयेत्- गच्छत मार्षा एतं पुरुषं शीघ्रमानयध्वम् । अथ खलु भगवंस्ते पुरुषाः र्सव एव जवेन प्रधावितास्तं दरिद्रपुरुषमध्यालम्बेयुः । अथ खलु दरिद्रपुरुषस्तस्यां वेलायां भीतस्त्रस्तः संविग्नः संहृष्टरोमकूपजातः उद्विग्रमानसो दारुणमार्तस्वरं मुञ्चेदारवेद्विरवेत् । नाहं युष्माकं किंचिदपराध्यामीति वाचं भाषेत । अथ खलु ते पुरुषा बलात्कारेण तं (वैद्य ७३) दरिद्रपुरुषं विरवन्तमप्याकर्षेयुः । अथ खलु स दरिद्रपुरुषो भीतस्त्रस्तः संविग्न उद्विग्नमानस एवं च चिन्तयेत्- मा तावदहं वध्यो दण्डयो भवेयम् । नश्यामीति । स मूर्छितो धरण्यां प्रपतेत्, विसंज्ञश्च स्यात् । आसन्ने चास्य स पिता भवेत् । स तान् पुरुषानेवं वदेत्- मा भवन्त एतं पुरुषमानयन्त्विति । तमेनं शीतलेन वारिणा परिसिञ्चित्वा न भूय आलपेत् । तत्कस्य हेतोः? जानाति स गृहपतिस्तस्य दरिद्रपुरुषस्य हीनाधिमुक्तिकतामात्मनश्चोदारस्थामताम् । जानीते च ममैष पुत्र इति ॥

अथ खलु भगवन् स गृहपतिरुपायकौशल्येन न कस्यचिदाचक्षेत्- ममैष पुत्र इति । अथ खलु भगवन् स गृहपतिरन्यतरं पुरुषमामन्त्रयेत्- गच्छ त्वं भोः पुरुष । एनं दरिद्रपुरुषमेवं वदस्व - गच्छ त्वं भोः पुरुष येनाकाङ्क्षसि । मुक्तोऽसि । एवं वदति स पुरुषस्तस्मै प्रतिश्रुत्य येन स दरिद्रपुरुषस्तेनोपसंक्रामेत् । उपसंक्रम्य तं दरिद्रपुरुषमेवं वदेत्- गच्छ त्वं भोः पुरुष येनाकाङ्क्षसि । मुक्तोऽसीति । अथ खलु स दरिद्रपुरुष इदं वचनं श्रुत्वा आश्चर्याद्भुतप्राप्तो भवेत् । स उत्थाय तस्मात्पृथिवीप्रदेशाद्येन दरिद्रवीथी तेनोपसंक्रामेदाहारचीवरपर्येष्टिहेतोः । अथ खलु स गृहपतिस्तस्य दरिद्रपुरुषस्याकर्षणहेतोरुपायकौशल्यं प्रयोजयेत् । स तत्र द्वौ पुरुषौ प्रयोजयेत्दुर्वर्णावल्पौजस्कौ - गच्छतां भवन्तौ योऽसौ पुरुष इहागतोऽभूत्, तं युवां द्विगुणया दिवसमुद्रया आत्मवचनेनैव भरयित्वेह मम निवेशने कर्म कारापयेथाम् । सचेत्स एवं वदेत्- किं कर्म कर्तव्यमिति, स युवाभ्यामेवं वक्तव्यः - संकारधानं शोधयितव्यं सहावाभ्यामिति । अथ तौ पुरुषौ तं दरिद्रपुरुषं पर्येषयित्वा तया क्रियया संपादयेताम् । अथ खलु तौ द्वौ पुरुषौ स च दरिद्रपुरुषो वेतनं गृहीत्वा तस्य महाधनस्य पुरुषस्यान्तिकात्तस्मिन्नेव निवेशने संकारधानं शोधयेयुः । तस्यैव च महाधनस्य पुरुषस्य गृहपरिसरे कटपलिकुञ्चिकायां वासं कल्पयेयुः । स चाढ्यः पुरुषो गवाक्षवातायनेन तं स्वकं पुत्रं पश्येत्संकारधानं शोधयमानम् । दृष्ट्वा च पुनराश्चर्यप्राप्तो भवेत् ॥

अथ खलु स गृहपतिः स्वकान्निवेशनादवतीर्य अपनयित्वा माल्याभरणनि, अपनयित्वा मृदुकानि वस्त्राणि, चौक्षाण्युदाराणि मलिनानि वस्त्राणि प्रावृत्य, दक्षिणेन पाणिना पिटकं परिगृह्य पांसुना स्वगात्रं दूषयित्वा दूरत एव संभाषमाणो येन स दरिद्रपुरुषस्तेनोपसंक्रामेत् । उपसंक्रम्यैवं वदेत्- वहन्तु भवन्तः पिटकानि, मा तिष्ठत, हरत पांसूनि । अनेनोपायेन तं पुत्रमालपेत्संलपेच्च । एनं वदेत्- इहैव त्वं भोः पुरुष कर्म कुरुष्व । मा भूयोऽन्यत्र गमिष्यसि । सविशेषं तेऽहं वेतनकं दास्यामि । येन येन च ते कार्य भवेत्, तद्विश्रब्धं मां याचेः, यदि वा कुण्डमूल्येन यदि वा कुण्डिकामूल्येन यदि वा स्थालिकामूल्येन यदि वा काष्ठमूल्येन यदि वा लवणमूल्येन यदि वा भोजनेन यदि वा प्रावरणेन । अस्ति मे भोः पुरुष जीर्णशाटी । सचेत्तया ते कार्यं स्यात्, याचेः, अहं तेऽनुप्रदास्यामि । येन येन ते भोः पुरुष कार्यमेवंरूपेण परिष्कारेण, तं तमेवाहं ते सर्वमनुप्रदास्यामि । निर्वृतस्त्वं भोः पुरुष भव । यादृशस्ते पिता, तादृशस्तेऽहं मन्तव्यः । तत्कस्य हेतोः? अहं (वैद्य ७४) च वृद्धः, त्वं च दहरः । मम च त्वया बहु कर्म कृतमिमं संकारधानं शोधयता । न च त्वया भोः पुरुष अत्र कर्म कुर्वता शाठयं वा वक्रता वा कौटिल्यं वा मानो वा म्रक्षो वा कृतपूर्वः, करोषि वा । सर्वथा ते भोः पुरुष न समनुपश्याम्येकमपि पापकर्म, यथैषामन्येषां पुरुषाणां कर्म कुर्वतामिमे दोषाः संविद्यन्ते । यादृशो मे पुत्र औरसः, तादृशस्त्वं मम अद्याग्रेण भवसि ॥

अथ खलु भगवन् स गृहपतिस्तस्य दरिद्रपुरुषस्य पुत्र इति नाम कुर्यात् । स च दरिद्रपुरुषस्तस्य गृहपतेरन्तिके पितृसंज्ञामुत्पादयेत् । अनेन भगवन् पर्यायेण स गृहपतिः पुत्रकामतृषितो विंशतिवर्षाणि तं पुत्रं संकारधानं शोधापयेत् । अथ विंशतेर्वर्षाणामत्ययेन स दरिद्रपुरुषस्तस्य गृहपतेर्निवेशने विश्रब्धो भवेन्निष्क्रमणप्रवेशे, तत्रैव च कटपलिकुञ्चिकायां वासं कल्पयेत् ॥

अथ खलु भगवंस्तस्य गृहपतेर्ग्लान्यं प्रत्युपस्थितं भवेत् । स मरणकालसमयं च आत्मनः प्रत्युपस्थितं समनुपश्येत् । स तं दरिद्रपुरुषमेवं वदेत्- आगच्छ त्वं भोः पुरुष । इदं मम प्रभूतं हिरण्यसुवर्णधनधान्यकोशकोष्ठागारमस्ति । अहं बाढग्लानः । इच्छाम्येतं यस्य दातव्यं यतश्च ग्रहीतव्यं यच्च निधातव्यं भवेत्, सर्वं संजानीयाः । तत्कस्य हेतोः? यादृश एव अहमस्य द्रव्यस्य स्वामी, तादृशस्त्वमपि । मा च मे त्वं किंचिदतो विप्रणाशयिष्यसि ॥

अथ खलु भगवन् स दरिद्रपुरुषोऽनेन पर्यायेण तच्च तस्य गृहपतेः प्रभूतं हिरण्यसुवर्णधनधान्यकोशकोष्ठागारं संजानीयात् । आत्मना च ततो निःस्पृहो भवेत् । न च तस्मात्किंचित्प्रार्थयेत्, अन्तशः सक्तुप्रस्थमूल्यमात्रमपि । तत्रैव च कटपलिकुञ्चिकायां वासं कल्पयेत्, तामेव दरिद्रचिन्तामनुविचिन्तयमानः ॥

अथ खलु भगवन् स गृहपतिस्तं पुत्रं शक्तं परिपालकं परिपक्वं विदित्वा अवमर्दितचित्तमुदारसंज्ञया च पौर्विकया दरिद्रचिन्तया आर्तीयन्तं जेह्रीयमाणं जुगुप्समानं विदित्वा मरणकालसमये प्रत्युपस्थिते तं दरिद्रपुरुषमानाय्य महतो ज्ञातिसंघस्योपनामयित्वा राज्ञो वा राजमात्रस्य वा पुरतो नैगमजानपदानां च संमुखमेवं संश्रावयेत्- शृण्वन्तु भवन्तः, अयं मम पुत्र औरसो मयैव जनितः । अमुकं नाम नगरम् । तस्मादेष पञ्चाशद्वर्षो नष्टः । अमुको नामैष नाम्ना । अहमप्यमुको नाम । ततश्चाहं नगरादेतमेव मार्गमाण इहागतः । एष मम पुत्रः, अहमस्य पिता । यः कश्चिन्ममोपभोगोऽस्ति, तं सर्वमस्मै पुरुषाय निर्यातयामि । यच्च मे किंचिदस्ति प्रत्यात्मकं धनम्, तत्सर्वमेष एव जानाति ॥

अथ खलु भगवन् स दरिद्रपुरुषस्तस्मिन् समये इममेवंरूपं घोषं श्रुत्वा आश्चर्याद्भुतप्राप्तो भवेत् । एवं च विचिन्तयेत्- सहसैव मयेदमेव तावधिरण्यसुवर्णधनधान्यकोशकोष्ठागारं प्रतिलब्धमिति ॥
(वैद्य ७५)

एवमेव भगवन् वयं तथागतस्य पुत्रप्रतिरूपकाः । तथागतश्च अस्माकमेवं वदति - पुत्रा मम यूयमिति, यथा स गृहपतिः । वयं च भगवंस्तिसृभिर्दुःखताभिः संपीडिता अभूम । कतमाभिस्तिसृभिः? यदुत दुःखदुःखतया संस्कारदुःखतया विपरिणामदुःखतया च । संसारे च हीनाधिमुक्तिकाः । ततो वयं भगवता बहून् धर्मान् प्रत्यवरान् संकारधानसदृशाननुविचिन्तयिताः । तेषु चास्म प्रयुक्ता घटमाना व्यायच्छमानाः । निर्वाणमात्रं च वयं भगवन् दिवसमुद्रामिव पर्येषमाणा मार्गामः । तेन च वयं भगवन्निर्वाणेन प्रतिलब्धेन तुष्टा भवामः । बहु च लब्धमिति मन्यामहे तथागतस्यान्तिकातेषु धर्मेष्वभियुक्ता घटित्वा व्यायमित्वा । प्रजानाति च तथागतोऽस्माकं हीनाधिमुक्तिकताम्, ततश्च भगवानस्मानुपेक्षते, न संभिनत्ति, नाचष्टे - योऽयं तथागतस्य ज्ञानकोशः, एष एव युष्माकं भविष्यतीति । भगवांश्चास्माकमुपायकौशल्येन अस्मिंस्तथागतज्ञानकोशे दायादान् संस्थापयति । निःस्पृहाश्च वयं भगवन् । तत एवं जानीम - एतदेवास्माकं बहुकरं यद्वयं तथागतस्यान्तिकाद्दिवसमुद्रामिव निर्वाणं प्रतिलभामहे । ते वयं भगवन् बोधिसत्त्वानां महासत्त्वानां तथागतज्ञानदर्शनमारभ्य उदारां धर्मदेशनां कुर्मः । तथागतज्ञानं विवरामो दर्शयाम उपदर्शयामः । वयं भगवंस्ततो निःस्पृहाः समानाः । तत्कस्य हेतोः? उपायकौशल्येन तथागतोऽस्माकमधिमुक्तिं प्रजानाति । तच्च वयं न जानीमो न बुध्यामहे यदिदं भगवता एतर्हि कथितम् - यथा वयं भगवतो भूताः पुत्राः, भगवांश्चास्माकं स्मारयति तथागतज्ञानदायादान् । तत्कस्य हेतोः? यथापि नाम वयं तथागतस्य भूताः पुत्राः इति, अपि तु खलु पुनर्हीनाधिमुक्ताः । सचेद्भगवानस्माकं पश्येदधिमुक्तिबलम्, बोधिसत्त्वशब्दं भगवानस्माकमुदाहरेत् । वयं पुनर्भगवता द्वे कार्ये कारापिताः - बोधिसत्त्वानां चाग्रतो हीनाधिमुक्तिका इत्युक्ताः, ते चोदारायां बुद्धबोधौ समादापिताः, अस्माकं चेदानीं भगवानधिमुक्तिबलं ज्ञात्वा इदमुदाहृतवान् । अनेन वयं भगवन् पर्यायेणैवं वदामः - सहसैवास्माभिर्निःस्पृहैराकाङ्क्षितममार्गितमपर्येषितमचिन्तितमप्रार्थितं सर्वज्ञतारत्नं प्रतिलब्धं यथापीदं तथागतस्य पुत्रैः ॥

अथ खल्वायुष्मान्महाकाश्यपस्तस्यां वेलायामिमा गाथा अभाषत्-

आश्चर्यभूताः स्म तथाद्भुताश्च औद्बिल्यप्राप्ताः स्म श्रुणित्व घोषम् ।
सहसैव अस्माभिरयं तथाद्य मनोज्ञघोषः श्रुतु नायकस्य ॥ ४.१ ॥
विशिष्टरत्नान महन्तराशिर्मुहूर्तमात्रेणयमद्य लब्धः ।
(वैद्य ७६)
न चिन्तितो नापि कदाचि प्रार्थितस्तं श्रुत्व आश्चर्यगताः स्म सर्वे ॥ ४.२ ॥
यथापि बालः पुरुषो भवेत उत्प्लावितो बालजनेन सन्तः ।
पितुः सकाशातु अपक्रमेत अन्यं च देशं व्रजि सो सुदूरम् ॥ ४.३ ॥
पिता च तं शोचति तस्मि काले पलायितं ज्ञात्व स्वकं हि पुत्रम् ।
शोचन्तु सो दिग्विदिशासु अञ्चे वर्षाणि पञ्चाशदनूनकानि ॥ ४.४ ॥
तथा च सो पुत्र गवेषमाणो अन्यं महन्तं नगरं हि गत्वा ।
निवेशनं मापिय तत्र तिष्ठेत्समर्पितो कामुगणेहि पञ्चभिः ॥ ४.५ ॥
बहुं हिरण्यं च सुवर्णरूप्यं धान्यं धनं शङ्खशिलाप्रवालम् ।
हस्ती च अश्वाश्च पदातयश्च गावः पशूश्चैव तथैडकाश्च ॥ ४.६ ॥
प्रयोग आयोग तथैव क्षेत्रा दासी च दासा बहु प्रेष्यवर्गः ।
सुसत्कृतः प्राणिसहस्रकोटिभी राज्ञश्च सो वल्लभु नित्यकालम् ॥ ४.७ ॥
कृताञ्जली तस्य भवन्ति नागरा ग्रामेषु ये चापि वसन्ति ग्रामिणः ।
बहुवाणिजास्तस्य व्रजन्ति अन्तिके बहूहि कार्येहि कृताधिकाराः ॥ ४.८ ॥
एतादृशो ऋद्धिमतो नरः स्याज्जीर्णश्च वृद्धश्च महल्लकश्च ।
स पुत्रशोकमनुचिन्तयन्तः क्षपेय रात्रिंदिव नित्यकालम् ॥ ४.९ ॥
(वैद्य ७७)
स तादृशो दुर्मति मह्य पुत्रः पञ्चाश वर्षाणि तदा पलानकः ।
अयं च कोशो विपुलो ममास्ति कालक्रिया चो मम प्रत्युपस्थिता ॥ ४.१० ॥
सो चापि बालो तद तस्य पुत्रो दरिद्रकः कृपणकु नित्यकालम् ।
ग्रामेण ग्राममनुचंक्रमन्तः पर्येषते भक्त अथापि चोलम् ॥ ४.११ ॥
पर्येषमाणोऽपि कदाचि किंचिल्लभेत किंचित्पुन नैव किंचित् ।
स शुष्यते परशरणेषु बालो दद्रूय कण्डूय च दिग्धगात्रः ॥ ४.१२ ॥
सो च व्रजेत्तं नगरं यहिं पिता अनुपूर्वशो तत्र गतो भवेत ।
भक्तं च चोलं च गवेषमाणो निवेशनं यत्र पितुः स्वकस्य ॥ ४.१३ ॥
सो चापि आढ्यः पुरुषो महाधनो द्वारस्मि सिंहासनि संनिषण्णः ।
परिवारितः प्राणिशतैरनेकैर्वितान तस्या विततोऽन्तरीक्षे ॥ ४.१४ ॥
आप्तो जनश्चास्य समन्ततः स्थितो धनं हिरण्यं च गणेन्ति केचित् ।
केचित्तु लेखानपि लेखयन्ति केचित्प्रयोगं च प्रयोजयन्ति ॥ ४.१५ ॥
सो चा दरिद्रो तहि एतु दृष्ट्वा विभूषितं गृहपतिनो निवेशनम् ।
कहिं नु अद्य अहमत्र आगतो राजा अयं भेष्यति राजमात्रः ॥ ४.१६ ॥
मा दानि दोषं पि लभेयमत्र गृह्णित्व वेष्टिं पि च कारयेयम् ।
(वैद्य ७८)
अनुचिन्तयन्तः स पलायते नरो दरिद्रवीथीं परिपृच्छमानः ॥ ४.१७ ॥
सो चा धनी तं स्वकु पुत्र दृष्ट्वा सिंहासनस्थश्च भवेत्प्रहृष्टः ।
स दूतकान् प्रेषयि तस्य अन्तिके आनेथ एतं पुरुषं दरिद्रम् ॥ ४.१८ ॥
समनन्तरं तेहि गृहीतु सो नरो गृहीतमात्रोऽथ च मूर्च्छ गच्छेत् ।
ध्रूवं खु मह्यं वधका उपस्थिताः किं मह्य चोलेनथ भोजनेन वा ॥ ४.१९ ॥
दृष्ट्वा च सो पण्डितु तं महाधनी हीनाधिमुक्तो अयु बाल दुर्मतिः ।
न श्रद्दधी मह्यमिमां विभूषितां पिता ममायं ति न चापि श्रद्दधीत् ॥ ४.२० ॥
पुरुषांश्च सो तत्र प्रयोजयेत वङ्काश्च ये काणक कुण्ठकाश्च ।
कुचेलकाः कृष्णक हीनसत्त्वाः पर्येषथा तं नरु कर्मकारकम् ॥ ४.२१ ॥
संकारधानमिमु मह्य पूतिकमुच्चारप्रस्रावविनाशितं च ।
तं शोधनार्थाय करोहि कर्म द्विगुणं च ते वेतनकं प्रदास्ये ॥ ४.२२ ॥
एतादृशं घोष श्रुणित्व सो नरो आगत्य संशोधयि तं प्रदेशम् ।
तत्रैव सो आवसथं च कुर्यान्निवेशनस्योपलिकुञ्चिकेऽस्मिन् ॥ ४.२३ ॥
सो चा धनी तं पुरुषं निरीक्षेद्गवाक्षओलोकनकेऽपि नित्यम् ।
हीनाधिमुक्तो अयु मह्य पुत्रः संकारधानं शुचिकं करोति ॥ ४.२४ ॥
(वैद्य ७९)
स ओतरित्वा पिटकं गृहीत्वा मलिनानि वस्त्राणि च प्रावरित्वा ।
उपसंक्रमेत्तस्य नरस्य अन्तिके अवभर्त्सयन्तो न करोथ कर्म ॥ ४.२५ ॥
द्विगुणं च ते वेतनकं ददामि द्विगुणां च भूयस्तथ पादम्रक्षणम् ।
सलोणभक्तं च ददामि तुभ्य शाकं च शाटिं च पुनर्ददामि ॥ ४.२६ ॥
एवं च तं भर्त्सिय तस्मि काले संश्लेषयेत्तं पुनरेव पण्डितः ।
सुष्ठुं खलू कर्म करोषि अत्र पुत्रोऽसि व्यक्तं मम नात्र संशयः ॥ ४.२७ ॥
स स्तोकस्तोकं च गृहं प्रवेशयेत्कर्मं च कारापयि तं मनुष्यम् ।
विंशच्च वर्षाणि सुपूरितानि क्रमेण विश्रम्भयि तं नरं सः ॥ ४.२८ ॥
हिरण्यु सो मौक्तिकु स्फाटिकं च प्रतिसामयेत्तत्र निवेशनस्मिन् ।
सर्वं च सो संगणनां करोति अर्थं च सर्वमनुचिन्तयेत ॥ ४.२९ ॥
बहिर्धा सो तस्य निवेशनस्य कुटिकाय एको वसमानु बालः ।
दरिद्रचिन्तामनुचिन्तयेत न मेऽस्ति एतादृश भोग केचित् ॥ ४.३० ॥
ज्ञात्वा च सो तस्य इमेवरूपमुदारसंज्ञाभिगतो मि पुत्रः ।
स आनयित्वा सुहृज्ञातिसंघं निर्यातयिष्याम्यहु सर्वमर्थम् ॥ ४.३१ ॥
राजान सो नैगमनागरांश्च समानयित्वा बहुवाणिजांश्च ।
(वैद्य ८०)
उवाच एवं परिषाय मध्ये पुत्रो ममायं चिर विप्रनष्टकः ॥ ४.३२ ॥
पञ्चाश वर्षाणि सुपूर्णकानि अन्ये चऽतो विंशतिये मि दृष्टः ।
अमुकातु नगरातु ममैष नष्टो अहं च मार्गन्त इहैवमागतः ॥ ४.३३ ॥
सर्वस्य द्रव्यस्य अयं प्रभुर्मे एतस्य निर्यातयि सर्वशेषतः ।
करोतु कार्यं च पितुर्धनेन सर्वं कुटुम्बं च ददामि एतत् ॥ ४.३४ ॥
आश्चर्यप्राप्तश्च भवेन्नरोऽसौ दरिद्रभावं पुरिमं स्मरित्वा ।
हीनाधिमुक्तिं च पितुश्च तान् गुणांल्लब्ध्वा कुटुम्बं सुखितोऽस्मि अद्य ॥ ४.३५ ॥
तथैव चास्माक विनायकेन हीनाधिमुक्तित्व विजानियान ।
न श्रावितं बुद्ध भविष्यथेति यूयं किल श्रावक मह्य पुत्राः ॥ ४.३६ ॥
अस्मांश्च अध्येषति लोकनाथो ये प्रस्थिता उत्तममग्रबोधिम् ।
तेषां वदे काश्यप मार्ग नुत्तरं यं मार्ग भावित्व भवेयु बुद्धाः ॥ ४.३७ ॥
वयं च तेषां सुगतेन प्रेषिता बहुबोधिसत्त्वान महाबलानाम् ।
अनुत्तरं मार्ग प्रदर्शयाम दृष्टान्तहेतूनयुतान कोटिभिः ॥ ४.३८ ॥
श्रुत्वा च अस्माकु जिनस्य पुत्रा बोधाय भावेन्ति सुमार्गमग्र्यम् ।
ते व्याक्रियन्ते च क्षणस्मि तस्मिन् भविष्यथा बुद्ध इमस्मि लोके ॥ ४.३९ ॥
(वैद्य ८१)
एतादृशं कर्म करोम तायिनः संरक्षमाणा इम धर्मकोशम् ।
प्रकाशयन्तश्च जिनात्मजानां वैश्वासिकस्तस्य यथा नरः सः ॥ ४.४० ॥
दरिद्रचिन्ताश्च विचिन्तयाम विश्राणयन्तो इमु बुद्धकोशम् ।
न चैव प्रार्थेम जिनस्य ज्ञानं जिनस्य ज्ञानं च प्रकाशयामः ॥ ४.४१ ॥
प्रत्यात्मिकीं निर्वृति कल्पयाम एतावता ज्ञानमिदं न भूयः ।
नास्माक हर्षोऽपि कदाचिअ भोति क्षेत्रेषु बुद्धान श्रुणित्व व्यूहान् ॥ ४.४२ ॥
शान्ताः किला सर्विमि धर्मनास्रवा निरोधौत्पादविवर्जिताश्च ।
न चात्र कश्चिद्भवतीह धर्मो एवं तु चिन्तेत्व न भोति श्रद्धा ॥ ४.४३ ॥
सुनिःस्पृहा स्मा वय दीर्घरात्रं बौद्धस्य ज्ञानस्य अनुत्तरस्य ।
प्रणिधानमस्माक न जातु तत्र इयं परा निष्ठ जिनेन उक्ता ॥ ४.४४ ॥
निर्वाणपर्यन्ति समुच्छ्रयेऽस्मिन् परिभाविता शून्यत दीर्घरात्रम् ।
परिमुक्त त्रैधातुकदुःखपीडिताः कृतं च अस्माभि जिनस्य शासनम् ॥ ४.४५ ॥
यं हि प्रकाशेम जिनात्मजानां ये प्रस्थिता भोन्ति इहाग्रबोधौ ।
तेषां च यत्किंचि वदाम धर्मं स्पृह तत्र अस्माक न जातु भोति ॥ ४.४६ ॥
तं चास्म लोकाचरियः स्वयंभूरुपेक्षते कालमवेक्षमाणः ।
न भाषते भूतपदार्थसंधिमधिमुक्तिमस्माकु गवेषमाणः ॥ ४.४७ ॥
(वैद्य ८२)
उपायकौशल्य यथैव तस्य महाधनस्य पुरुषस्य काले ।
हीनाधिमुक्तं सततं दमेति दमियान चास्मै प्रददाति वित्तम् ॥ ४.४८ ॥
सुदुष्करं कुर्वति लोकनाथो उपायकौशल्य प्रकाशयन्तः ।
हीनाधिमुक्तान् दमयन्तु पुत्रान् दमेत्व च ज्ञानमिदं ददाति ॥ ४.४९ ॥
आश्चर्यप्राप्ताः सहसा स्म अद्य यथा दरिद्रो लभियान वित्तम् ।
फलं च प्राप्तमिह बुद्धाशासने प्रथमं विशिष्टं च अनास्रवं च ॥ ४.५० ॥
यच्छीलमस्माभि च दीर्घरात्रं संरक्षितं लोकविदुस्य शासने ।
अस्माभि लब्धं फलमद्य तस्य शीलस्य पूर्वं चरितस्य नाथ ॥ ४.५१ ॥
यद्ब्रह्मचर्यं परमं विशुद्धं निषेवितं शासनि नायकस्य ।
तस्यो विशिष्टं फलमद्य लब्धं शान्तमुदारं च अनास्रवं च ॥ ४.५२ ॥
अद्यो वयं श्रावकभूत नाथ संश्रावयिष्यामथ चाग्रबोधिम् ।
बोधीय शब्दं च प्रकाशयामस्तेनो वयं श्रावक भीष्मकल्पाः ॥ ४.५३ ॥
अर्हन्तभूता वयमद्य नाथ अर्हामहे पूज सदेवकातः ।
लोकात्समारातु सब्रह्मकातः सर्वेष सत्त्वान च अन्तिकातः ॥ ४.५४ ॥
को नाम शक्तः प्रतिकर्तु तुभ्यमुद्युक्तरूपो बहुकल्पकोट्यः ।
सुदुष्कराणीदृशका करोषि सुदुष्करान् यानिह मर्त्यलोके ॥ ४.५५ ॥
(वैद्य ८३)
हस्तेहि पादेहि शिरेण चापि प्रतिप्रियं दुष्करकं हि कर्तुम् ।
शिरेण अंसेन च यो धरेत परिपूर्णकल्पान् यथ गङ्गवालिकाः ॥ ४.५६ ॥
खाद्यं ददेद्भोजनवस्त्रपानं शयनासनं चो विमलोत्तरच्छदम् ।
विहार कारापयि चन्दनामयान् संस्तीर्य चो दूष्ययुगेहि दद्यात् ॥ ४.५७ ॥
गिलानभैषज्य बहुप्रकारं पूजार्थ दद्यात्सुगतस्य नित्यम् ।
ददेय कल्पान् यथ गङ्गवालिका नैवं कदाचित्प्रतिकर्तु शक्यम् ॥ ४.५८ ॥
महात्मधर्मा अतुलानुभावा महर्द्धिकाः क्षान्तिबले प्रतिष्ठिताः ।
बुद्धा महाराज अनास्रवा जिना सहन्ति बालान इमीदृशानि ॥ ४.५९ ॥
अनुवर्तमानस्तथ नित्यकालं निमित्तचारीण ब्रवीति धर्मम् ।
धर्मेश्वरो ईश्वरु सर्वलोके महेश्वरो लोकविनायकेन्द्रः ॥ ४.६० ॥
प्रतिपत्ति दर्शेति बहुप्रकारं सत्त्वान स्थानानि प्रजानमानः ।
नानाधिमुक्तिं च विदित्व तेषां हेतूसहस्रेहि ब्रवीति धर्मम् ॥ ४.६१ ॥
तथागतश्चर्य प्रजानमानः सर्वेष सत्त्वानथ पुद्गलानाम् ।
बहुप्रकारं हि ब्रवीति धर्मं निदर्शयन्तो इममग्रबोधिम् ॥ ४.६२ ॥

इत्यार्यसद्धर्मपुण्डरीके धर्मपर्याये अधिमुक्तिपरिवर्तो नाम चतुर्थः ॥



_______________________________________________________________________________




(वैद्य ८४)
५: ओषधीपरिवर्तः ।

अथ खलु भगवानायुष्मन्तं महाकाश्यपं तांश्चान्यान् स्थविरान्महाश्रावकानामन्त्रयामास - साधु साधु महाकाश्यप । साधु खलु पुनर्युष्माकं काश्यप यद्यूयं तथागतस्य भूतान् गुणवर्णान् भाषध्वे । एते च काश्यप तथागतस्य भूता गुणाः । अतश्चान्येऽप्रमेया असंख्येयाः, येषां न सुकरः पर्यन्तोऽधिगन्तुमपरिमितानपि कल्पान् भाषमाणैः । धर्मस्वामी काश्यप तथागतः, सर्वधर्माणां राजा प्रभुर्वशी । यं च काश्यप तथागतो धर्मं यत्रोपनिक्षिपति, स तथैव भवति । सर्वधर्माश्च काश्यप तथागतो युक्त्योपनिक्षिपति । तथागतज्ञानेनोपनिक्षिपति । यथा ते धर्माः सर्वज्ञभूमिमेव गच्छन्ति । सर्वधर्मार्थगतिं च तथागतो व्यवलोकयति । सर्वधर्मार्थवशिताप्राप्तः सर्वधर्माध्याशयप्राप्तः सर्वधर्मविनिश्चयकौशल्यज्ञानपरमपारमिताप्राप्तः सर्वज्ञज्ञानसंदर्शकः सर्वज्ञज्ञानावतारकः सर्वज्ञज्ञानोपनिक्षेपकः काश्यप तथागतोऽर्हन् सम्यक्संबुद्धः ॥

तद्यथापि नाम काश्यप अस्यां त्रिसाहस्रमहासाहस्रायां लोकधातौ यावन्तस्तृणगुल्मौषधिवनस्पतयो नानावर्णा नानाप्रकारा ओषधिग्रामा नानानामधेयाः पृथिव्यां जाताः पर्वतगिरिकन्दरेषु वा । मेघश्च महावारिपरिपूर्ण उन्नमेत्, उन्नमित्वा सर्वावतीं त्रिसाहस्रमहासाहस्रां लोकधातुं संछादयेत् । संछाद्य च सर्वत्र समकालं वारि प्रमुञ्चेत् । तत्र काश्यप ये तृणगुल्मौषधिवनस्पतयोऽस्यां त्रिसाहस्रमहासाहस्रलोकधातौ, तत्र ये तरुणाः कोमलनालशाखापत्रपलाशास्तृणगुल्मौषधिवनस्पतयो द्रुमा महाद्रुमाः, सर्वे ते ततो महामेघप्रमुक्ताद्वारिणो यथाबलं यथाविषयमब्धातुं प्रत्यापिबन्ति । ते चैकरसेन वारिणा प्रभूतेन मेघप्रमुक्तेन यथाबीजमन्वयं विवृद्धिं विरूढिं विपुलतामापद्यन्ते, तथा च पुष्पफलानि प्रसवन्ति । ते च पृथक्पृथगू नानानामधेयानि प्रतिलभन्ते । एकधरणीप्रतिष्ठिताश्च ते सर्वे ओषधिग्रामा बीजग्रामा एकरसतोयाभिष्यन्दिताः । एवमेव काश्यप तथागतोऽर्हन् सम्यक्संबुद्धो लोक उत्पद्यते । यथा महामेघः उन्नमते, तथा तथागतोऽप्युत्पद्य सर्वावन्तं सदेवमानुषासुरं लोकं स्वरेणाभिविज्ञापयति । तद्यथापि नाम काश्यप महामेघः सर्वावतीं त्रिसाहस्रमहासाहस्रां लोकधातुमवच्छादयति, एवमेव काश्यप तथागतोऽर्हन् सम्यक्संबुद्धः सदेवमानुषासुरस्य लोकस्य पुरत एवं शब्दमुदीरयति, घोषमनुश्रावयति - तथागतोऽस्मि भवन्तो देवमनुष्याः अर्हन् सम्यक्संबुद्धः, तीर्णस्तारयामि, मुक्तो मोचयामि, आश्वस्त आश्वासयामि, परिनिर्वृतः परिनिर्वापयामि । अहमिमं च लोकं परं च लोकं सम्यक्प्रज्ञया यथाभूतं प्रजानामि सर्वज्ञः सर्वदर्शी । उपसंक्रामन्तु मां भवन्तो देवमनुष्या धर्मश्रवणाय । अहं मार्गस्याख्याता मार्गदेशिको मार्गवित्मार्गकोविदः । तत्र काश्यप बहूनि प्राणिकोटीनयुतशतसहस्राणि तथागतस्य धर्मश्रवणायोपसंक्रामन्ति । अथ तथागतोऽपि तेषां सत्त्वानामिन्द्रियवीर्यपरापरवैमात्रतां (वैद्य ८५) ज्ञात्वा तांस्तान् धर्मपर्यायानुपसंहरति, तां तां धर्मकथां कथयति बह्वीं विचित्रां हर्षणीयां परितोषणीयां प्रामोद्यकरणीयां हितसुखसंवर्तनकरणीयाम् । यया कथय ते सत्त्वाः दृष्ट एव धर्मे सुखिता भवन्ति, कालं च कृत्वा सुगतीषूपपद्यन्ते, यत्र प्रभूतांश्च कामान् परिभुञ्जन्ते, धर्मं च शृण्वन्ति । श्रुत्वा च तं धर्मं विगतनीवरणा भवन्ति । अनुपूर्वेण च सर्वज्ञधर्मेष्वभियुज्यन्ते यथाबलं यथाविषयं यथास्थानम् ॥

तद्यथापि नाम काश्यप महामेघः सर्वावतीं त्रिसाहस्रमहासाहस्रां लोकधातुं संछाद्य समं वारि प्रमुञ्चति, सर्वांश्च तृणगुल्मौषधिवनस्पतीन् वारिणा संतर्पयति । यथाबलं यथाविषयं यथास्थामं च ते तृणगुल्मौषधिवनस्पतयो वार्यापिबन्ति, स्वकस्वकां च जातिप्रमाणतां गच्छन्ति । एवमेव काश्यप तथागतोऽर्हन् सम्यक्संबुद्धो यं धर्मं भाषते, सर्वः स धर्म एकरसो यदुत विमुक्तिरसो विरागरसो निरोधरसः सर्वज्ञज्ञानपर्यवसानः । तत्र काश्यप ये ते सत्त्वास्तथागतस्य धर्मं भाषमाणस्य शृण्वन्ति धारयन्ति अभिसंयुज्यन्ते, न ते आत्मनात्मानं जानन्ति वा वेदयन्ति वा बुध्यन्ति वा । तत्कस्य हेतोः? तथागत एव काश्यप तान् सत्त्वांस्तथा जानाति, ये च ते, यथा च ते, यादृशाश्च ते । यं च ते चिन्तयन्ति, यथा च ते चिन्तयन्ति, येन च ते चिन्तयन्ति । यं च ते भावयन्ति, यथा च ते भावयन्ति, येन च ते भावयन्ति । यं च ते प्राप्नुवन्ति, यथा च ते प्राप्नुवन्ति, येन च ते प्राप्नुवन्ति । तथागत एव काश्यप तत्र प्रत्यक्षः प्रत्यक्षदर्शी यथा च दर्शी तेषां सत्त्वानां तासु तासु भूमिषु स्थितानां तृणगुल्मौषधिवनस्पतीनां हीनोत्कृष्टमध्यमानाम् । सोऽहं काश्यप एकरसधर्म विदित्वा यदुत विमुक्तिरसं निर्वृतिरसं निर्वाणपर्यवसानं नित्यपरिनिर्वृतमेकभूमिकमाकाशगतिकमधिमुक्तिं सत्त्वानामनुरक्षमाणो न सहसैव सर्वज्ञज्ञानं संप्रकाशयामि । आश्चर्यप्राप्ता अद्भुतप्राप्ता यूयं काश्यप यद्यूयं संधाभाषितं तथागतस्य न शक्नुथ अवतरितुम् । तत्कस्य हेतोः? दुर्विज्ञेयं काश्यप तथागतानामर्हतां सम्यक्संबुद्धानां संधाभाषितमिति ॥

अथ खलु भगवांस्तस्यां वेलायामिममेवार्थं भूयस्या मात्रया संदर्शयमान इमा गाथा अभाषत -

धर्मराजा अहं लोके उत्पन्नो भवमर्दनः ।
धर्मं भाषामि सत्त्वानामधिमुक्तिं विजानिय ॥ ५.१ ॥
धीरबुद्धी महावीरा चिरं रक्षन्ति भाषितम् ।
रहस्यं चापि धारेन्ति न च भाषन्ति प्राणिनाम् ॥ ५.२ ॥
दुर्बोध्यं चापि तज्ज्ञानं सहसा श्रुत्व बालिशाः ।
काङ्क्षां कुर्युः सुदुर्मेधास्ततो भ्रष्टा भ्रमेयु ते ॥ ५.३ ॥
(वैद्य ८६)
यथाविषयु भाषामि यस्य यादृशकं बलम् ।
अन्यमन्येहि अर्थेहि दृष्टिं कुर्वामि उज्जुकाम् ॥ ५.४ ॥
यथापि काश्यपा मेघो लोकधातूय उन्नतः ।
सर्वमोनहती चापि छादयन्तो वसुंधराम् ॥ ५.५ ॥
सो च वारिस्य संपूर्णो विद्युन्माली महाम्बुदः ।
निर्नादयन्त शब्देन हर्षयेत्सर्वदेहिनः ॥ ५.६ ॥
सूर्यरश्मी निवारित्वा शीतलं कृत्व मण्डलम् ।
हस्तप्राप्तोऽवतिष्ठन्तो वारि मुञ्चेत्समन्ततः ॥ ५.७ ॥
स चैव मम मुञ्चेत आपस्कन्धमनल्पकम् ।
प्राखरन्तः समन्तेन तर्पयेन्मेदिनीमिमाम् ॥ ५.८ ॥
इह या काचि मेदिन्यां जाता ओषधयो भवेत् ।
तृणगुल्मवनस्पत्यो द्रुमा वाथ महाद्रुमाः ॥ ५.९ ॥
सस्यानि विविधान्येव यद्वापि हरितं भवेत् ।
पर्वते कन्दरे चैव निकुञ्जेषु च यद्भवेत् ॥ ५.१० ॥
सर्वान् संतर्पयेन्मेघस्तृणगुल्मवनस्पतीन् ।
तृषितां धरणीं तर्पेत्परिषिञ्चति चौषधीः ॥ ५.११ ॥
तच्च एकरसं वारि मेघमुक्तमिहस्थितम् ।
यथाबलं यथाविषयं तृणगुल्मा पिबन्ति तत् ॥ ५.१२ ॥
द्रुमाश्च ये केचि महाद्रुमाश्च खुद्राक मध्याश्च यथावयाश्च ।
यथाबलं सर्वे पिबन्ति वारि पिबन्ति वर्धन्ति यथेच्छकामाः ॥ ५.१३ ॥
काण्डेन नालेन त्वचा यथैव शाखाप्रशाखाय तथैव पत्रैः ।
वर्धन्ति पुष्पेहि फलेहि चैव मेघाभिवृष्टेन महौषधीयः ॥ ५.१४ ॥
यथाबलं ता विषयश्च यादृशो यासां च यद्यादृशकं च बीजम् ।
स्वकस्वकं ताः प्रसवं ददन्ति वारिं च तमेकरसं प्रमुक्तम् ॥ ५.१५ ॥
(वैद्य ८७)
एमेव बुद्धोऽपि ह लोके काश्यप उत्पद्यते वारिधरो व लोके ।
उत्पद्य च भाषति लोकनाथो भूतां चरिं दर्शयते च प्राणिनाम् ॥ ५.१६ ॥
एवं च संश्रावयते महर्षिः पुरस्कृतो लोके सदेवकेऽस्मिन् ।
तथागतोऽहं द्विपदोत्तमो जिनो उत्पन्नु लोकस्मि यथैव मेघः ॥ ५.१७ ॥
संतर्पयिष्याम्यहु सर्वसत्त्वान् संशुष्कगात्रांस्त्रिभवे विलग्नान् ।
दुःखेन शुष्यन्त सुखे स्थपेयं कामांश्च दास्याम्यहु निर्वृतिं च ॥ ५.१८ ॥
शृणोथ मे देवमनुष्यसंघा उपसंक्रमध्वं मम दर्शनाय ।
तथागतोऽहं भगवाननाभिभूः संतारणार्थमिह लोकि जातः ॥ ५.१९ ॥
भाषामि च प्राणिसहस्रकोटिनां धर्मं विशुद्धमभिदर्शनीयम् ।
एका च तस्यो समता तथत्वं यदिदं विमुक्तिश्चथ निर्वृती च ॥ ५.२० ॥
स्वरेण चैकेन वदामि धर्मं बोधिं निदानं करियान नित्यम् ।
समं हि एतद्विषमत्व नास्ति न कश्चि विद्वेषु न रागु विद्यते ॥ ५.२१ ॥
अनुनीयता मह्य न काचिदस्ति प्रेमा च दोषश्च न मे कहिंचित् ।
समं च धर्मं प्रवदामि देहिनां यथैकसत्त्वस्य तथा परस्य ॥ ५.२२ ॥
अनन्यकर्मा प्रवदामि धर्मं गच्छन्तु तिष्ठन्तु निषीदमानः ।
(वैद्य ८८)
निषण्ण शय्यासनमारुहित्वा किलासिता मह्य न जातु विद्यते ॥ ५.२३ ॥
संतर्पयामी इमु सर्वलोकं मेघो व वारिं सम मुञ्चमानः ।
आर्येषु नीचेषु च तुल्यबुद्धिर्दुःशीलभूतेष्वथ शीलवत्सु ॥ ५.२४ ॥
विनष्टचारित्र तथैव ये नराश्चारित्रआचारसमन्विताश्च ।
दृष्टिस्थिता ये च विनष्टदृष्टी सम्यग्दृशो ये चाविशुद्धदृष्टयः ॥ ५.२५ ॥
हीनेषु चोत्कृष्टमतीषु चापि मृद्विन्द्रियेषु प्रवदामि धर्मम् ।
किलासितां सर्व विवर्जयित्वा सम्यक्प्रमुञ्चाम्यहु धर्मवर्षम् ॥ ५.२६ ॥
यथाबलं च श्रुणियान मह्यं विविधासु भूमीषु प्रतिष्ठिहन्ति ।
देवेषु मर्त्येषु मनोरमेषु शक्रेषु ब्रह्मेष्वथ चक्रवर्तिषु ॥ ५.२७ ॥
क्षुद्रानुक्षुद्रा इम ओषधीयो क्षुद्रीक एता इह याव लोके ।
अन्या च मध्या महती च ओषधी शृणोथ ताः सर्व प्रकाशयिष्ये ॥ ५.२८ ॥
अनास्रवं धर्म प्रजानमाना निर्वाणप्राप्ता विहरन्ति ये नराः ।
षडभिज्ञ त्रैविद्य भवन्ति ये च सा क्षुद्रिका ओषधि संप्रवुत्ता ॥ ५.२९ ॥
गिरिकन्देषू विहरन्ति ये च प्रत्येकबोधिं स्पृहयन्ति ये नराः ।
ये ईदृशा मध्यविशुद्धबुद्धयः सा मध्यमा ओषधि संप्रवुत्ता ॥ ५.३० ॥
(वैद्य ८९)
ये प्रार्थयन्ते पुरुषर्षभत्वं बुद्धो भविष्ये नरदेवनाथः ।
वीर्यं च ध्यानं च निषेवमाणाः सा ओषधी अग्र इयं प्रवुच्चति ॥ ५.३१ ॥
ये चापि युक्ताः सुगतस्य पुत्रा मैत्रीं निषेवन्तिह शान्तचर्याम् ।
निष्काङ्क्षप्राप्ता पुरुषर्षभत्वे अयं द्रुमो वुच्यति एवरूपः ॥ ५.३२ ॥
अविवर्तिचक्रं हि प्रवर्तयन्ता ऋद्धीबलस्मिन् स्थित ये च धीराः ।
प्रमोचयन्तो बहु प्राणिकोटी महाद्रुमो सो च प्रवुच्चते हि ॥ ५.३३ ॥
समश्च सो धर्म जिनेन भाषितो मेघेन वा वारि समं प्रमुक्तम् ।
चित्रा अभिज्ञा इम एवरूपा यथौषधीयो धरणीतलस्थाः ॥ ५.३४ ॥
अनेन दृष्टान्तनिदर्शनेन उपायु जानाहि तथागतस्य ।
यथा च सो भाषति एकधर्मं नानानिरुक्ती जलबिन्दवो वा ॥ ५.३५ ॥
ममापि चो वर्षतु धर्मवर्षं लोको ह्ययं तर्पितु भोति सर्वः ।
यथाबलं चानुविचिन्तयन्ति सुभाषितमेकरसं पि धर्मम् ॥ ५.३६ ॥
तृणगुल्मका वा यथ वर्षमाणे मध्या पि वा ओषधियो यथैव ।
द्रुमा पि वा ते च महाद्रुमा वा यथ शोभयन्ते दशदिक्षु सर्वे ॥ ५.३७ ॥
इयं सदा लोकहिताय धर्मता तर्पेति धर्मेणिमु सर्वलोकम् ।
संतर्पितश्चाप्यथ सर्वलोकः प्रमुञ्चते ओषधि पुष्पकाणि ॥ ५.३८ ॥
(वैद्य ९०)
मध्यापि च ओषधियो विवर्धयी अर्हन्त ये ते स्थित आस्रवक्षये ।
प्रत्येकबुद्धा वनषण्डचारिणो निष्पादयी धर्ममिमं सुभाषितम् ॥ ५.३९ ॥
बहुबोधिसत्त्वाः स्मृतिमन्त धीराः सर्वत्र त्रैधातुकि ये गतिंगताः ।
पर्येषमाणा इममग्रबोधिं द्रुमा व वर्धन्ति ति नित्यकालम् ॥ ५.४० ॥
ये ऋद्धिमन्तश्चतुध्यानध्यायिनो ये शून्यतां श्रुत्व जनेन्ति प्रीतिम् ।
रश्मीसहस्राणि प्रमुञ्चमानास्ते चैव वुच्चन्ति महाद्रुमा इह ॥ ५.४१ ॥
एतादृशी काश्यप धर्मदेशना मेघेन वा वारि समं प्रमुक्तम् ।
बह्वी विवर्धन्ति महौषधीयो मनुष्यपुष्पाणि अनन्तकानि ॥ ५.४२ ॥
स्वप्रत्ययं धर्म प्रकाशयामि कालेन दर्शेमि च बुद्धबोधिम् ।
उपायकौशल्यु ममैतदग्रं सर्वेष चो लोकविनायकानाम् ॥ ५.४३ ॥
परमार्थ एवं मयं भूतभाषितो ते श्रावकाः सर्वि न एन्ति निर्वृतिम् ।
चरन्ति एते वर बोधिचारिकां बुद्धा भविष्यन्तिमि सर्वश्रावकाः ॥ ५.४४ ॥

पुनरपरं काश्यप तथागतः सत्त्वविनये समो न चासमः । तद्यथा काश्यप चन्द्रसुर्यप्रभा सर्वलोकमवभासयति कुशलकारिणमकुशलकारिणं चोर्ध्वावस्थितमधरावस्थितं च सुगन्धि दुर्गन्धि, सा सर्वत्र समं प्रभा निपतति न विषमम्, एवमेव काश्यप तथागतानामर्हतां सम्यक्संबुद्धानां सर्वज्ञज्ञानचित्तप्रभा सर्वेषु पञ्चगत्युपपन्नेषु सत्त्वेषु यथाधिमुक्तिं महायानिकप्रत्येकबुद्धयानिकश्रावकयानिकेषु सद्धर्मदेशना समं प्रवर्तते । न च तथागतस्य ज्ञानप्रभाया ऊनता वा अतिरिक्तता वा यथापुण्यज्ञानसमुदागमाय संभवति । न सन्ति काश्यप त्रीणि यानानि । केवलमन्योन्यचरिताः सत्त्वाः, तेन त्रीणि यानानि प्रज्ञप्यन्ते ॥
(वैद्य ९१)

एवमुक्ते आयुष्मान्महाकाश्यपो भगवन्तमेतदवोचत्- यदि भगवन्न सन्ति त्रीणि यानानि, किं कारणं प्रत्युत्पन्नेऽध्वनि श्रावकप्रत्येकबुद्धबोधिसत्त्वानां प्रज्ञप्तिः प्रज्ञप्यते? एवमुक्ते भगवानायुष्मन्तं महाकाश्यपमेतदवोचत्- तद्यथा काश्यप कुम्भकारः समासु मृत्तिकासु भाजनानि करोति । तत्र कानिचिद्गुडभाजनानि भवन्ति, कानिचिद्घृतभाजनानि, कानिचिद्दधिक्षीरभाजनानि, कानिचिधीनान्यशुचिभाजनानि भवन्ति, न च मृत्तिकाया नानात्वम्, अथ च द्रव्यप्रक्षेपमात्रेण भाजनानां नानात्वं प्रज्ञायते । एवमेव काश्यप एकमेवेदं यानं यदुत बुद्धयानम् । न द्वितीयं न तृतीयं वा यानं संविद्यते ॥

एवमुक्ते आयुष्मान्महाकाश्यपो भगवन्तमेतदवोचत्- यद्यपि भगवन् सत्त्वा नानाधिमुक्तयो ये त्रैधातुकान्निःसृताः, किं तेषामेकं निर्वाणमुत द्वे त्रीणि वा? भगवानाह - सर्वधर्मसमतावबोधाद्धि काश्यप निर्वाणम् । तच्चैकम्, न द्वे न त्रीणि । तेन हि काश्यप उपमां ते करिष्यामि । उपमया इहैकत्या विज्ञपुरुषा भाषितस्यार्थमाजानन्ति । तद्यथा काश्यप जात्यन्धः पुरुषः । स एवं ब्रूयान्न सन्ति सुवर्णदुर्वणानि रूपाणि, न सन्ति सुवर्णदुर्वर्णानां रूपाणां द्रष्टारः, न स्तः सूर्याचन्द्रमसौ, न सन्ति नक्षत्राणि, न सन्ति ग्रहाः, न सन्ति ग्रहाणां द्रष्टारः । अथान्ये पुरुषास्तस्य जात्यन्धस्य पुरुषस्य पुरत एवं वदेयुः - सन्ति सुवर्णदुर्वर्णानि रूपाणि, सन्ति सुवर्णदुर्वर्णानां रूपाणां द्रष्टारः, स्तः सूर्याचन्द्रमसौ, सन्ति नक्षत्राणि, सन्ति ग्रहाः, सन्ति ग्रहाणां द्रष्टारः । स च जात्यन्धः पुरुषस्तेषां पुरुषाणां न श्रद्दध्यात्, नोक्तं गृह्णीयात् । अथ कश्चिद्वैद्यः सर्वव्याधिज्ञः स्यात् । स तं जात्यन्धं पुरुषं पश्येत् । तस्यैवं स्यात्- तस्य पुरुषस्य पूर्वपापेन कर्मणा व्याधिरुत्पन्नः । ये च केचन व्याधय उत्पद्यन्ते, ते सर्वे चतुर्विधाः - वातिकाः पैत्तिकाः श्लैःमिकाः सांनिपातिकाश्च । अथ स वैद्यस्तस्य व्याधेर्व्युपशमनार्थं पुनः पुनरुपायं चिन्तयेत् ।
तस्यैवं स्यात्- यानि खल्विमानि द्रव्याणि प्रचरन्ति, न तैः शक्योऽयं व्याधिश्चिकित्सितुम् । सन्ति तु हिमवति पर्वतराजे चतस्र ओषधयः । कतमाश्चतस्रः? तद्यथा - प्रथमा सर्ववर्णरसस्थानानुगता नाम, द्वितीया सर्वव्याधिप्रमोचनी नाम, तृतीया सर्वविषविनाशनी नाम, चतुर्थी यथास्थानस्थितसुखप्रदा नाम । इमाश्चतस्रः ओषधयः । अथ स वैद्यस्तस्मिन् जात्यन्धे कारुण्यमुत्पाद्य तादृशमुपायं चिन्तयेत्, येनोपायेन हिमवन्तं पर्वतराजं शक्नुयाद्गन्तम् । गत्वा चोर्ध्वमप्यारोहेत्, अधोऽप्यवतरेत्, तिर्यगपिप्रविचिनुयात् । स एवं प्रविचिन्वंस्ताश्चतस्र ओषधीरारागयेत् । आराग्य च कांचिद्दन्तैः क्षोदितां कृत्वा दद्यात्, कांचित्पेषयित्वा दद्यात्, कांचिदन्यद्रव्यसंयोजितां पाचयित्वा दद्यात्, कांचिदामद्रव्यसंयोजितां कृत्वा दद्यात्, कांचिच्छलाकया शरीरस्थानं विद्ध्वा दद्यात्, कांचिदग्निना परिदाह्य दद्यात्, कांचिदन्योन्यद्रव्यसंयुक्तां यावत्पानभोजनादिष्वपि योजयित्वा दद्यात् । अथ स जात्यन्धपुरुषस्तेनोपाययोगेन चक्षुः प्रतिलभेत । स प्रतिलब्धचक्षुर्बहिरध्यात्मं दूरे आसन्ने च चन्द्रसूर्यप्रभां नक्षत्राणि ग्रहान् सर्वरूपाणि च पश्येत् । एवं च वदेत्- अहो बताहं मूढः, योऽहं पूर्वमाचक्षमाणानां न श्रद्दधामि, नोक्तं (वैद्य ९२) गृह्णामि । सोऽहमिदानीं सर्वं पश्यामि । मुक्तोऽस्मि अन्धभावात् । प्रतिलब्धचक्षुश्चास्मि । न च मे कश्चिद्विशिष्टतरोऽस्तीति । तेन च समयेन पञ्चाभिज्ञा ऋषयो भवेयुर्दिव्यचक्षुर्दिव्यश्रोत्रपरचित्तज्ञानपूर्वनिवासानुस्मृतिज्ञानर्द्धिविमोक्षक्रियाकुशलाः, ते तं पुरुषमेवं वदेयुः - केवलं भोः पुरुष त्वया चक्षुः प्रतिलब्धम् । न तु भवान् किंचिज्जानाति । कुतोऽभिमानस्ते समुत्पन्नः? न च तेऽस्ति प्रज्ञा । न चासि पण्डितः । तमेनमेवं वदेयुः - यदा त्वं भोः पुरुष अन्तर्गृहं निषण्णो बहिरन्यानि रूपाणि न पश्यसि, न च जानासि, नापि ते ये सत्त्वाः स्निग्धचित्ता वा द्रुग्धचित्ता वा । न विजानीषे पञ्चयोजनान्तरस्थितस्य जनस्य भाषमाणस्य । भेरीशङ्खादीनां शब्दं न प्रजानासि, न शृणोषि । क्रोशान्तरमप्यनुत्क्षिप्य पादौ न शक्नोषि गन्तुम् । जातसंवृद्धश्चासि मातुः कुक्षौ । तां च क्रियां न स्मरसि । तत्कथमसि पण्डितः? कथं च सर्वं पश्यामीति वदसि? तत्साधु भोः पुरुष यदन्धकारं तत्प्रकाशमिति संजानीषे, यच्च प्रकाशं तदन्धकारमिति संजानीषे ॥

अथ स पुरुषस्तानृषीनेवं वदेत्- क उपायः, किं वा शुभं कर्म कृत्वेदृशीं प्रज्ञां प्रतिलभेय, युष्माकं प्रसादाच्चैतान् गुणान् प्रतिलभेय? अथ खलु ते ऋषयस्तस्य पुरुषस्यैवं कथयेयुः - यदीच्छसि, अरण्ये वस । पर्वतगुहासु वा निषण्णो धर्मं चिन्तय । क्लेशाश्च ते प्रहातव्याः । तथा धूतगुणसमन्वागतोऽभिज्ञाः प्रतिलप्स्यसे । अथ स पुरुषस्तमर्थं गृहीत्वा प्रव्रजितः । अरण्ये वसनेकाग्रचित्तो लोकतृष्णां प्रहाय पञ्चाभिज्ञाः प्राप्नुयात् । प्रतिलब्धाभिज्ञश्च चिन्तयेत्- यदहं पूर्वमन्यत्कर्म कृतवान्, तेन मे न कश्चिद्गुणोऽधिगतः । इदानीं यथाचिन्तितं गच्छामि । पूर्वं चाहमल्पप्रज्ञोऽल्पप्रतिसंवेदी अन्धभूतोऽस्म्यासीत् ॥

इति हि काश्यप उपमैषा कृता अस्यार्थस्य विज्ञप्तये । अयं च पुनरत्रार्थो द्रष्टव्यः । जात्यन्ध इति काश्यप षड्गतिसंसारस्थितानां सत्त्वानामेतदधिवचनम्, ये सद्धर्मं न जानन्ति, क्लेशतमोन्धकारं च संवर्धयन्ति । ते चाविद्यान्धाः । अविद्यान्धाश्च संस्कारानुपविचिन्वति, संस्कारप्रत्ययं च नामरूपम्, यावदेवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति । एवमविद्यान्धास्तिष्ठन्ति सत्त्वाः संसारे । तथागतस्तु करुणां जनयित्वा त्रैधातुकान्निःसृतः पितेव प्रिये एकपुत्रके करुणां जनयित्वा त्रैधातुकेऽवतीर्य सत्त्वान् संसारचक्रे परिभ्रमतः संपश्यति । न च ते संसारान्निःसरणं प्रजानन्ति । अथ भगवांस्तान् प्रज्ञाचक्षुषा पश्यति । दृष्ट्वा च जानाति - अमी सत्त्वाः पूर्वं कुशलं कृत्वा मन्दद्वेषास्तीव्ररागाः, मन्दरागास्तीव्रद्वेषाः, केचिदल्पप्रज्ञाः, केचित्पण्डिताः, केचित्परिपाकशुद्धाः, केचिन्मिथ्यादृष्टयः । तेषां सत्त्वानां तथागत उपायकौशल्येन त्रीणि यानानि देशयति । तत्र यथा ते ऋषयः पञ्चाभिज्ञा विशुद्धचक्षुषः, एवं बोधिसत्त्वा बोधिचित्तान्युत्पाद्य अनुत्पत्तिकीं धर्मक्षान्तिं प्रतिलभ्य अनुत्तरां सम्यक्संबोधिमभिसंबुध्यन्ते ॥
(वैद्य ९३)

तत्र यथासौ महावैद्यः, एवं तथागतो द्रष्टव्यः । यथासौ जात्यन्धस्तथा मोहान्धाः सत्त्वा द्रष्टव्याः । यथा वातपित्तश्लेष्माणः, एवं रागद्वेषमोहाः, द्वाषष्टि च दृष्टिकृतानि द्रष्टव्यानि । यथा चतस्र ओषधयस्तथा शून्यतानिमित्ताप्रणिहितनिर्वाणद्वारं च द्रष्टव्यम् । यथा यथा द्रव्याण्युपयुज्यन्ते, तथा तथा व्याधयः प्रशाम्यन्तीति । एवं शून्यतानिमित्ताप्रणिहितानि विमोक्षमुखानि भावयित्वा सत्त्वा अविद्यां निरोधयन्ति । अविद्यानिरोधात्संस्कारनिरोधः, यावदेवमस्य केवलस्य महतो दुःखस्कन्धस्य निरोधो भवति । एवं चास्य चित्तं न कुशले तिष्ठति न पापे ॥

यथा अन्धश्चक्षुः प्रतिलभते, तथा श्रावकप्रत्येकबुद्धयानीयो द्रष्टव्यः । संसारक्लेशबन्धनानि च्छिनत्ति । क्लेशबन्धनान्निर्मुक्तः प्रमुच्यते षङ्गतिकात्त्रैधातुकात् । तेन श्रावकयानीयः एवं जानाति, एवं च वाचं भाषते - न सन्त्यपरे धर्मा अभिसंबोद्धव्याः । निर्वाणप्राप्तोऽस्मीति । अथ खलु तथागतस्तस्मै धर्मं देशयति । येन सर्वधर्मा न प्राप्ताः, कुतस्तस्य निर्वाणमिति? तं भगवान् बोधौ समादापयति । स उत्पन्नबोधिचित्तो न संसारस्थितो न निर्वाणप्राप्तो भवति । सोऽवबुध्य त्रैधातुकं दशसु दिक्षु शून्यं निर्मितोपमं मायोपमं स्वप्नमरीचिप्रतिश्रुत्कोपमं लोकं पश्यति । स सर्वधर्माननुत्पन्नाननिरुद्धानबद्धानमुक्तानतमोन्धकारान्नप्रकाशान् पश्यति । य एवं गम्भीरान् धर्मान् पश्यति, स पश्यति अपश्यनया सर्वत्रैधातुकं परिपूर्णमन्योन्यसत्त्वाशयाधिमुक्तम् ॥

अथ खलु भगवानिममेवार्थं भूयस्या मात्रया संदर्शयमानः तस्यां वेलायामिमा गाथा अभाषत -

चन्द्रसूर्यप्रभा यद्वन्निपतन्ति समं नृषु ।
गुणवत्स्वथ पापेषु प्रभाया नोनपूर्णता ॥ ५.४५ ॥
तथागतस्य प्रज्ञाभा समा ह्यादित्यचन्द्रवत् ।
सर्वसत्त्वान् विनयते न चोना नैव चाधिका ॥ ५.४६ ॥
यथा कुलालो मृद्भाण्डं कुर्वन्मृत्सु समास्वपि ।
भवन्ति भाजना तस्य गुडक्षीरधृताम्भसाम् ॥ ५.४७ ॥
अशुचेः कानिचित्तत्र दध्नोऽन्यानि भवन्ति तु ।
मृदमेकां स गृह्णाति कुर्वन् भाण्डानि भार्गवः ॥ ५.४८ ॥
यादृक्प्रक्षिप्यते द्रव्यं भाजनं तेन लक्ष्यते ।
सत्त्वाविशेषेऽपि तथा रुचिभेदात्तथागताः ॥ ५.४९ ॥
(वैद्य ९४)
यानभेदं वर्णयन्ति बुद्धयानं तु निंश्चितम् ।
संसारचक्रस्याज्ञानान्निर्वृतिं न विजानते ॥ ५.५० ॥
यस्तु शून्यान् विजानाति धर्मानात्मविवर्जितान् ।
संबुद्धानां भगवतां बोधिं जानाति तत्त्वतः ॥ ५.५१ ॥
प्रज्ञामध्यव्यवस्थानात्प्रत्येकजिन उच्यते ।
शून्यज्ञानविहीनत्वाच्छ्रावकः संप्रभाष्यते ॥ ५.५२ ॥
सर्वधर्मावबोधात्तु सम्यक्संबुद्ध उच्यते ।
तेनोपायशतैर्नित्यं धर्मं देशेति प्राणिनाम् ॥ ५.५३ ॥
यथा हि कश्चिज्जात्यन्धः सूर्येन्दुग्रहतारकाः ।
अपश्यन्नेवमाहासौ नास्ति रूपाणि सर्वशः ॥ ५.५४ ॥
जात्यन्धे तु महावैद्यः कारुण्यं संनिवेश्य ह ।
हिमवन्तं स गत्वान तिर्यगूर्ध्वमधस्तथा ॥ ५.५५ ॥
सर्ववर्णरस्थाना नगाल्लभत ओषधीः ।
एवमादीश्चतस्रोऽथ प्रयोगमकरोत्ततः ॥ ५.५६ ॥
दन्तैः संचूर्ण्य कांचित्तु पिष्ट्वा चान्यां तथापराम् ।
सूच्यग्रेण प्रवेश्याङ्गे जात्यन्धाय प्रयोजयेत् ॥ ५.५७ ॥
स लब्धचक्षुः संपश्येत्सूर्येन्दुग्रहतारकाः ।
एवं चास्य भवेत्पूर्वज्ञानात्तदुदाहृतम् ॥ ५.५८ ॥
एवं सत्त्वा महाज्ञाना जात्यन्धाः संसरन्ति हि ।
प्रतीत्योत्पादचक्रस्य अज्ञानाद्दुःखवर्त्मनः ॥ ५.५९ ॥
एवमज्ञानसंमूढे लोके सर्वविदुत्तमः ।
तथागतो महावैद्य उत्पन्नः करुणात्मकः ॥ ५.६० ॥
उपायकुशलः शास्ता सद्धर्मं देशयत्यसौ ।
अनुत्तरां बुद्धबोधिं देशयत्यग्रयानिके ॥ ५.६१ ॥
प्रकाशयति मध्यां तु मध्यप्रज्ञाय नायकः ।
संसारभीरवे बोधिमन्यां संवर्णयत्यपि ॥ ५.६२ ॥
त्रैधातुकान्निःसृतस्य श्रावकस्य विजानतः ।
भवत्येवं मया प्राप्तं निर्वाणममलं शिवम् ॥ ५.६३ ॥
(वैद्य ९५)
तामेव तत्र प्रकाशेमि नैतन्निर्वाणमुच्यते ।
सर्वधर्मावबोधात्तु निर्वाणं प्राप्यतेऽमृतम् ॥ ५.६४ ॥
महर्षयो यथा तस्मै करुणां संनिवेश्य वै ।
कथयन्ति च मूढोऽसि मा तेऽभूज्ज्ञानवानहम् ॥ ५.६५ ॥
अभ्यन्तरावस्थितस्त्वं यदा भवसि कोष्ठके ।
बहिर्यद्वर्तते तद्वै न जानीषे त्वमल्पधीः ॥ ५.६६ ॥
योऽभ्यन्तरेऽवस्थितस्तु बहिर्ज्ञातं कृताकृतम् ।
सो अद्यापि न जानाति कुतस्त्वं वेत्स्यसेऽल्पधीः ॥ ५.६७ ॥
पञ्चयोजनमात्रं तु यः शब्दो निश्चरेदिह ।
तं श्रोतुं न समर्थोऽसि प्रागेवान्यं विदूरतः ॥ ५.६८ ॥
त्वयि ये पापचित्त वा अनुनीतास्तथापरे ।
ते न शक्यं त्वया ज्ञातुमभिमानः कुतोऽस्ति ते ॥ ५.६९ ॥
क्रोशमात्रेऽपि गन्तव्ये पदवीं न विना गतिः ।
मातुः कुक्षौ च यद्वृत्तं विस्मृतं तत्तदेव ते ॥ ५.७० ॥
अभिज्ञा यस्य पञ्चैताः स सर्वज्ञ इहोच्यते ।
त्वं मोहादप्यकिंचिज्ज्ञः सर्वज्ञोऽस्मीति भाषसे ॥ ५.७१ ॥
सर्वज्ञत्वं प्रार्थयसे यद्यभिज्ञाभिनिर्हरेः ।
तं चाभिज्ञाभिनिर्हारमरण्यस्थो विचिन्तय ।
धर्मं विशुद्धं तेन त्वमभिज्ञाः प्रतिलप्स्यसे ॥ ५.७२ ॥
सोऽर्थं गृह्य गतोऽरण्यं चिन्तयेत्सुसमाहितः ।
अभिज्ञाः प्राप्तवान् पञ्च नचिरेण गुणान्वितः ॥ ५.७३ ॥
तथैव श्रावकाः सर्वे प्राप्तनिर्वाणसंज्ञिनः ।
जिनोऽथ देशयेत्तस्मै विश्रामोऽयं न निर्वृतिः ॥ ५.७४ ॥
उपाय एष बुद्धानां वदन्ति यदिमं नयम् ।
सर्वज्ञत्वमृते नास्ति निर्वाणं तत्समारभ ॥ ५.७५ ॥
त्र्यध्वज्ञानमनन्तं च षट्च पारमिताः शुभाः ।
शून्यतामनिमित्तं च प्रणिधानविवर्जितम् ॥ ५.७६ ॥
बोधिचित्तं च ये चान्ये धर्मा निर्वाणगामिनः ।
सास्रवानास्रवाः शान्ताः सर्वे गगनसंनिभाः ॥ ५.७७ ॥
(वैद्य ९६)
ब्रह्मविहाराश्चत्वारः संग्रहा ये च कीर्तिताः ।
सत्त्वानां विनयार्थाय कीर्तिताः परमर्षिभिः ॥ ५.७८ ॥
यश्च धर्मान् विजानाति मायास्वप्नस्वभावकान् ।
कदलीस्कन्धनिःसारान् प्रतिश्रुत्कासमानकान् ॥ ५.७९ ॥
तत्स्वभावं च जानाति त्रैधातुकमशेषतः ।
अबद्धमविमुक्तं च न विजानाति निर्वृतिम् ॥ ५.८० ॥
सर्वधर्मान् समान् शून्यान्निर्नानाकरणात्मकान् ।
न चैतान् प्रेक्षते नापि किंचिद्धर्मं विपश्यति ॥ ५.८१ ॥
स पश्यति महाप्रज्ञो धर्मकायमशेषतः ।
नास्ति यानत्रयं किंचिदेकयानमिहास्ति तु ॥ ५.८२ ॥
सर्वधर्माः समाः सर्वे समाः समसमाः सदा ।
एवं ज्ञात्वा विजानाति निर्वाणममृतं शिवम् ॥ ५.८३ ॥

इत्यार्यसद्धर्मपुण्डरीके धर्मपर्याये ओषधीपरिवर्तो नाम पञ्चमः ॥



_______________________________________________________________________________




(वैद्य ९७)
६: व्याकरणपरिवर्तः ।

अथ खलु भगवानिमा गाथा भाषित्वा सर्वावन्तं भिक्षुसंघमामन्त्रयते स्म - आरोचयामि वो भिक्षवः, प्रतिवेदयामि । अयं मम श्रावकः काश्यपो भिक्षुस्त्रिंशतो बुद्धकोटीसहस्राणामन्तिके सत्कारं करिष्यति, गुरुकारं माननां पूजनामर्चनामपचायनां करिष्यति, तेषां च बुद्धानां भगवतां सद्धर्मं धारयिष्यति । स पश्चिमे समुच्छ्रये अवभासप्राप्तायां लोकधातौ महाव्यूहे कल्पे रश्मिप्रभासो नाम तथागतोऽर्हन् सम्यक्संबुद्धो लोके भविष्यति विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् । द्वादश चास्यान्तरकल्पानायुष्प्रमाणं भविष्यति । विंशतिं चास्यान्तरकल्पान् सद्धर्मः स्थास्यति । विंशतिमेवान्तरकल्पान् सद्धर्मप्रतिरूपकः स्थास्यति । तच्चास्य बुद्धक्षेत्रं शुद्धं भविष्यति शुचि अपगतपाषाणशर्करकठल्यमपगतश्वभ्रप्रपातमपगतस्यन्दनिकागूथोलिगल्लं समं रमणीयं प्रासादिकं दर्शनीयं वैडूर्यमयं रत्नवृक्षप्रतिमण्डितं सुवर्णसूत्राष्टापदनिबद्धं पुष्पाभिकीर्णम् । बहूनि च तत्र बोधिसत्त्वशतसहस्राण्युत्पत्स्यन्ते । अप्रमेयाणि च तत्र श्रावककोटीनयुतशतसहस्राणि भविष्यन्ति । न च तत्र मारः पापीयानवतारं लप्स्यते, न च मारपर्षत्प्रज्ञास्यते । भविष्यन्ति तत्र खलु पुनर्मारश्च मारपर्षदश्च । अपि तु खलु पुनस्तत्र लोकधातौ तस्यैव भगवतो रश्मिप्रभासस्य तथागतस्य शासने सद्धर्मपरिग्रहायाभियुक्ता भविष्यन्ति ॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -

पश्याम्यहं भिक्षव बुद्धचक्षुषा स्थविरो ह्ययं काश्यप बुद्ध भेष्यति ।
अनागतेऽध्वानि असंख्यकल्पे कृत्वान पूजां द्विपदोत्तमानाम् ॥ ६.१ ॥
त्रिंशत्सहस्राः परिपूर्णकोट्यो जिनानयं द्रक्ष्यति काश्यपो ह्ययम् ।
चरिष्यती तत्र च ब्रह्मचर्यं बौद्धस्य ज्ञानस्य कृतेन भिक्षवः ॥ ६.२ ॥
कृत्वान पूजां द्विपदोत्तमानां समुदानिय ज्ञानमिदमनुत्तरम् ।
स पश्चिमे चोच्छ्रयि लोकनाथो भविष्यते अप्रतिमो महर्षिः ॥ ६.३ ॥
क्षेत्रं च तस्य प्रवरं भविष्यति विचित्र शुद्धं शुभ दर्शनीयम् ।
(वैद्य ९८)
मनोज्ञरूपं सद प्रेमणीयं सुवर्णसूत्रैः समलंकृतं च ॥ ६.४ ॥
रत्नामया वृक्ष तहिं विचित्रा अष्टापदस्मिं तहि एकमेके ।
मनोज्ञगन्धं च विमुञ्चमाना भेष्यन्ति क्षेत्रस्मि इमस्मि भिक्षो ॥ ६.५ ॥
पुष्पप्रकारैः समलंकृतं च विचित्रपुष्पैरुपशोभितं च ।
श्वभ्रप्रपाता न च तत्र सन्ति समं शिवं भेष्यति दर्शनीयम् ॥ ६.६ ॥
तहि बोधिसत्त्वान सहस्रकोट्यः सुदान्तचित्तान महर्द्धिकानाम् ।
वैपुल्यसूत्रान्तधराण तायिनां बहू भविष्यन्ति सहस्र नेके ॥ ६.७ ॥
अनास्रवा अन्तिमदेहधारिणो भेष्यन्ति ये श्रावक धर्मराज्ञः ।
प्रमाणु तेषां न कदाचि विद्यते दिव्येन ज्ञानेन गणित्व कल्पान् ॥ ६.८ ॥
सो द्वादश अन्तरकल्प स्थास्यति सद्धर्म विंशान्तरकल्प स्थास्यति ।
प्रतिरूपकश्चान्तरकल्प विंशतिं रश्मिप्रभासस्य वियूह भेष्यति ॥ ६.९ ॥

अथ खल्वायुष्मान्महामौद्गल्यायनः स्थविर आयुष्मांश्च सुभूतिरायुष्मांश्च महाकात्यायनः प्रवेपमानैः कायैर्भगवन्तमनिमिषैर्नेत्रैर्व्यवलोकयन्ति स्म ।
तस्यां च वेलायां पृथक्पृथङमनःसंगीत्या इमा गाथा अभाषन्त -

अर्हन्त हे महावीर शाक्यसिंह नरोत्तम ।
अस्माकमनुकम्पाय बुद्धशब्दमुदीरय ॥ ६.१० ॥
अवश्यमवसरं ज्ञात्वा अस्माकं पि नरोत्तम ।
अमृतेनेव सिञ्चित्वा व्याकुरुष्व विभोजन ॥ ६.११ ॥
दुर्भिक्षादागतः कश्चिन्नरो लब्ध्वा सुभोजनम् ।
प्रतीक्ष भूय उच्येत हस्तप्राप्तस्मि भोजने ॥ ६.१२ ॥
(वैद्य ९९)
एवमेवोत्सुका अस्मो हीनयानं विचिन्तय ।
दुष्कालभुक्तसत्त्वा वा बुद्धज्ञानं लभामहे ॥ ६.१३ ॥
न तावदस्मान् संबुद्धो व्याकरोति महामुनिः ।
यथा हस्तस्मि प्रक्षिप्तं न तद्भुञ्जीत भोजनम् ॥ ६.१४ ॥
एवं च उत्सुका वीर श्रुत्वा घोषमनुत्तरम् ।
व्याकृता यद भेष्यामस्तदा भेष्याम निर्वृताः ॥ ६.१५ ॥
व्याकरोहि महावीर हितैषी अनुकम्पकः ।
अपि दारिद्र्यचित्तानां भवेदन्तो महामुने ॥ ६.१६ ॥

अथ खलु भगवांस्तेषा महाश्रावकाणां स्थविराणामिममेवंरूपं चेतसैव चेतःपरिवितर्कमाज्ञाय पुनरपि सर्वावन्तं भिक्षुसंघमामन्त्रयते स्म - अयं मे भिक्षवो महाश्रावकः स्थविरः सुभूतिस्त्रिंशत एव बुद्धकोटीनयुतशतसहस्राणां सत्कारं करिष्यति, गुरुकारं माननां पूजनामर्चनामपचायनां करिष्यति । तत्र च ब्रह्मचर्यं चरिष्यति, बोधिं च समुदानयिष्यति । एवंरूपांश्चाधिकारान् कृत्वा पश्चिमे समुच्छ्रये शशिकेतुर्नाम तथागतोऽर्हन् सम्यक्संबुद्धो लोके भविष्यति विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् । रत्नसंभवं च नामास्य तद्बुद्धक्षेत्रं भविष्यति । रत्नावभासश्च नाम स कल्पो भविष्यति । समं च तद्बुद्धक्षेत्रं भविष्यति, रमणीयं स्फटिकमयं रत्नवृक्षविचित्रितमपगतश्वभ्रप्रपातमपगतगूथोलिगल्लं मनोज्ञं पुष्पाभिकीर्णम् । कूटागारपरिभोगेषु चात्र पुरुषा वासं कल्पयिष्यन्ति । बहवश्चास्य श्रावका भविष्यन्त्यपरिमाणाः, येषां न शक्यं गणनया पर्यन्तोऽधिगन्तुम् । बहूनि चात्र बोधिसत्त्वकोटीनयुतशतसहस्राणि भविःयन्ति । तस्य च भगवतो द्वादशान्तरकल्पानायुःप्रमाणं भविःयति । विंशतिं चान्तरकल्पान् सद्धर्मः स्थास्यति । विंशतिमेवान्तरकल्पान् सद्धर्मप्रतिरूपकः स्थास्यति । स च भगवान् वैहायसमन्तरीक्ःे स्थित्वा अभीक्ःणं धर्मं देशयिःयति, बहूनि च बोधिसत्त्वशतसहस्राणि बहूनि च श्रावकशतसहस्राणि विनेःयति ॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -

आरोचयामि अहमद्य भिक्षवः प्रतिवेदयाम्यद्य ममा शृणोथ ।
स्थविरः सुभूतिर्मम श्रावकोऽयं भविष्यते बुद्ध अनागतेऽध्वनि ॥ ६.१७ ॥
बुद्धांश्च पश्यित्व महानुभावान् त्रिंशच्च पूर्णानयुतान कोटीः ।
(वैद्य १००)
चरिष्यते चर्य तदानुलोमिकीमिमस्य ज्ञानस्य कृतेन चैषः ॥ ६.१८ ॥
स पश्चिमे वीर समुच्छ्रयस्मिन् द्वात्रिंशतीलक्षणरूपधारी ।
सुवर्णयूपप्रतिमो महर्षिर्भविष्यते लोकहितानुकम्पी ॥ ६.१९ ॥
सुदर्शनीयं च सुक्षेत्र भेष्यति इष्टं मनोज्ञं च महाजनस्य ।
विहरिष्यते यत्र स लोकबन्धुस्तारित्व प्राणीनयुतान कोटीः ॥ ६.२० ॥
बहुबोधिसत्त्वात्र महानुभावा अविवर्त्यचक्रस्य प्रवर्तितारः ।
तीक्ष्णेन्द्रियास्तस्य जिनस्य शासने ये शोभयिष्यन्ति त बुद्धक्षेत्रम् ॥ ६.२१ ॥
बहुश्रावकास्तस्य न संख्य तेषां प्रमाणु नैवास्ति कदाचि तेषाम् ।
षडभिज्ञ त्रैविद्य महर्द्धिकाश्च अष्टाविमोक्षेषु प्रतिष्ठिताश्च ॥ ६.२२ ॥
अचिन्तियमृद्धिबलं च भेष्यति प्रकाशयन्तस्यिममग्रबोधिम् ।
देवा मनुष्या यथ गङ्गवालिका भेष्यन्ति तस्यो सततं कृताञ्जली ॥ ६.२३ ॥
सो द्वादशो अन्तरकल्प स्थास्यपि सद्धर्मु विंशान्तरकल्प स्थास्यति ।
प्रतिरूपको विंशतिमेव स्थास्यति � कल्पान्तराणि द्विपदोत्तमस्य ॥ ६.२४ ॥

अथ खलु भगवान् पुनरेव सर्वावन्तं भिक्षुसंघमामन्त्रयते स्म - आरोचयामि वो भिक्षयः, प्रतिवेदयामि । अयं मम श्रावकः स्थविरो महाकात्यायनोऽष्टानां बुद्धकोटीशतसहस्राणामन्तिके सत्कारं करिष्यति, गुरुकारं माननां पूजनामर्चनामपचायनां करिष्यति । परिनिर्वृतानां च तेषां तथागतानां स्तूपान् करिष्यति योजनसहस्रं समुच्छ्रयेण पञ्चाशद्योजनानि परिणाहेन सप्तानां रत्नानाम् । तद्यथा सुवर्णस्य रूप्यस्य वैडूर्यस्य स्फटिकस्य लोहितमुक्तेरश्मर्गभस्य मुसारगल्वस्य सप्तमस्य रत्नस्य । तेषां च स्तूपानां पूजां करिष्यति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकावैजयन्तीभिश्च (वैद्य १०१) । ततश्च भूयः परेण परतरेण पुनर्विशतीनां बुद्धकोटीनामन्तिके एवरूपमेव सत्कारं करिष्यति, गुरुकारं माननां पूजनामर्चनामपचायनां करिष्यति । स पश्चिमे समुच्छ्रये पश्चिमे आत्मभावप्रतिलम्भे जाम्बूनदप्रभासो नाम तथागतोऽर्हन् सम्यक्संबुद्धो लोके भविष्यति विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवन् । परिशुद्धं चास्य बुद्धक्षेत्रं भविष्यति समं रमणीयं प्रासादिकं दर्शनीयं स्फटिकमयं रत्नवृक्षाभिविचित्रितं सुवर्णसूत्राच्छोडितं पुष्पसंस्तरसंस्तृतमपगतनिरयतिर्यग्योनियमलोकासुरकायं बहुनरदेवप्रतिपूर्णं बहुश्रावकःतसहस्रोपःोभितं बहुबोधिसत्त्वःतसहस्रालंकृतम् । द्वादः चास्य अन्तरकल्पानायुष्प्रमाणं भविष्यति । विंःतिं चास्य अन्तरकल्पान् सद्धर्मः स्थास्यति । विंःतिमेवान्तरकल्पान् सद्धर्मप्रतिरूपकः स्थास्यति ॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -

शृणोथ मे भिक्षव अद्य सर्वे उदाहरन्तस्य गिरामनन्यथाम् ।
कात्यायनः स्थविरु अयं मि श्रावकः करिष्यते पूज विनायकानाम् ॥ ६.२५ ॥
सत्कारु तेषां च बहुप्रकारं बहूविधं लोकविनायकानाम् ।
स्तूपांश्च कारापयि निर्वृतानां पुष्पेहि गन्धेहि च पूजयिष्यति ॥ ६.२६ ॥
लभित्व सो पश्चिमकं समुच्छ्रयं परिशुद्धक्षेत्रस्मि जिनो भविष्यति ।
परिपूरयित्वा इममेव ज्ञानं देशेष्यते प्राणिसहस्रकोटिनाम् ॥ ६.२७ ॥
स सत्कृतो लोकि सदेवकस्मिन् प्रभाकरो बुद्ध विभुर्भविष्यति ।
जाम्बूनदाभासु स चापि नाम्ना संतारको देवमनुष्यकोटिनाम् ॥ ६.२८ ॥
बहुबोधिसत्त्वास्तथ श्रावकाश्च अमिता असंख्या पि च तत्र क्षेत्रे ।
उपशोभयिष्यन्ति ति बुद्धशासनं भवप्रहीणा विभवाश्च सर्वे ॥ ६.२९ ॥
(वैद्य १०२)

अथ खलु भगवान् पुनरेव सर्वावन्तं भिक्षुसंघमामन्त्रयते स्म - आरोचयामि वो भिक्षवः, प्रतिवेदयामि । अयं मम श्रावकः स्थविरो महामौद्गल्यायनोऽष्टाविंशतिबुद्धसहस्राण्यारागयिष्यति, तेषां च बुद्धानां भगवतां विविधं सत्कारं करिष्यति, गुरुकारं माननां पूजनामर्चनामपचायनां करिष्यति । परिनिर्वृतानां च तेषां बुद्धानां भगवतां स्तूपान् कारयिष्यति सप्तरत्नमयान् । तद्यथा सुवर्णस्य रूप्यस्य वैदूर्यस्य स्फटिकस्य लोहितमुक्तेरश्मगर्भस्य मुसारगल्वस्य । योजनसहस्रं समुच्छ्रयेण पञ्चयोजनशतानि परिणाहेन । तेषां च स्तूपानां विविधां पूजां करिष्यति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकावैजयन्तीभिः । ततश्च भूयः परेण परतरेण विंशतेर्बुद्धकोटीशतसहस्राणामेवंरूपमेव सत्कारं करिष्यति, गुरुकारं माननां पूजनामर्चनामपचायनां करिष्यति । पश्चिमे च आत्मभावप्रतिलम्भे तमालपत्रचन्दनगन्धो नाम तथागतोऽर्हन् सम्यक्संबुद्धो लोके भविष्यति विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् । मनोभिरामं च नामास्य तद्बुद्धक्षेत्रं भविष्यति । रतिप्रपूर्णश्च नाम स कल्पो भविष्यति । परिशुद्धं चास्य तद्बुद्धक्षेत्रं भविष्यति, समं रमणीयं प्रासादिकं सुदर्शनीयं स्फटिकमयं रत्नवृक्षाभिविचित्रितं मुक्तकुसुमाभिकीर्णं बहुनरदेवप्रतिपूर्णमृषिशतसहस्रनिषेवितं यदुत श्रावकैश्च बोधिसत्त्वैश्च । चतुर्विशतिं चास्य अन्तरकल्पानायुष्प्रमाणं भविष्यति । चत्वारिंशच्च अन्तरकल्पान् सद्धर्मः स्थास्यति । चत्वारिंशदेव अन्तरकल्पान् सद्धर्मप्रतिरूपकः स्थास्यति ॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -

मौद्गल्यगोत्रो मम श्रावकोऽयं जहित्व मानुष्यकमात्मभावम् ।
विंशत्सहस्राणि जिनान तायिनामन्यांश्च अष्टौ विरजान द्रक्ष्यति ॥ ६.३० ॥
चरिष्यते तत्र च ब्रह्मचर्यं बौद्धमिमं ज्ञान गवेषमाणः ।
सत्कारु तेषां द्विपदोत्तमानां विविधं तदा काहि विनायकानाम् ॥ ६.३१ ॥
सद्धर्मु तेषां विपुलं प्रणीतं धारेत्व कल्पान सहस्रकोट्यः ।
पूजां च स्तूपेषु करिष्यते तदा परिनिर्वृतानां सुगतान तेषाम् ॥ ६.३२ ॥
रत्नामयान् स्तूप सवैजयन्तान् करिष्यते तेष जिनोत्तमानाम् ।
(वैद्य १०३)
पुष्पेहि गन्धेहि च पूजयन्तो वाद्येहि वा लोकहितानुकम्पिनाम् ॥ ६.३३ ॥
तत्पश्चिमे चैव समुच्छ्रयस्मिन् प्रियदर्शने तत्र मनोज्ञक्षेत्रे ।
भविष्यते लोकहितानुकम्पी तमालपत्रचन्दनगन्ध नाम्ना ॥ ६.३४ ॥
चतुर्विशपूर्णान्तरकल्प तस्य आयुष्प्रमाणं सुगतस्य भेष्यति ।
प्रकाशयन्तस्यिम बुद्धनेत्रीं मनुजेषु देवेषु च नित्यकालम् ॥ ६.३५ ॥
बहुश्रावकातस्य जिनस्य तत्र कोटी सहस्रा यथ गङ्गवालिकाः ।
षडभिज्ञ त्रैविद्य महर्द्धिकाश्च अभिज्ञप्राप्ताः सुगतस्य शासने ॥ ६.३६ ॥
अवैवर्तिकाश्चो बहुबोधिसत्त्वा आरब्धवीर्याः सद संप्रजानाः ।
अभियुक्तरूपाः सुगतस्य शासने तेषां सहस्राणि बहूनि तत्र ॥ ६.३७ ॥
परिनिर्वृतस्यापि जिनस्य तस्य सद्धर्मु संस्थास्यति तस्मि काले ।
विंशच्च विंशान्तरकल्प पूर्णा एतत्प्रमाणं प्रतिरूपकस्य ॥ ६.३८ ॥
महर्द्धिकाः पञ्च मि श्रावका ये निर्दिष्ट ये ते मय अग्रबोधये ।
अनागतेऽध्वानि जिनाः स्वयंभुवस्तेषां च चर्यां शृणुथा ममान्तिकात् ॥ ६.३९ ॥

इत्यार्यसद्धर्मपुण्डरीके धर्मपर्याये व्याकरणपरिवर्तो नाम षष्ठः ॥



_______________________________________________________________________________



(वैद्य १०४)
७: पूर्वयोगपरिवर्तः ।

भूतपूर्व भिक्षवोऽतीतेऽध्वनि असंख्येयैः कल्पैरसंख्येयतरैर्विपुलैरप्रमेयैरचिन्त्यैरपरिमितैरप्रमाणैस्ततः परेण परतरेण यदासीत्- तेन कालेन तेन समयेन महाभिज्ञाज्ञानाभिभूर्नाम तथागतोऽर्हन् सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ताः देवानां च मनुष्याणां च बुद्धो भगवान् संभवायां लोकधातौ महारूपे कल्पे । कियच्चिरोत्पन्नः स भिक्षवस्तथागतोऽभूत् । तद्यथापि नाम भिक्षवो यावानिह त्रिसाहस्रमहासाहस्रे लोकधातौ पृथिवीधातुः, तं कश्चिदेव पुरुषः सर्वं चूर्णीकुर्यात्, मषिं कुर्यात् । अथ खलु स पुरुषस्तस्माल्लोकधातोरेकं परमाणुरजो गृहीत्वा पूर्वस्यां दिशि लोकधातुसहस्रमतिक्रम्य तदेकं परमाणुरज उपनिक्षिपेत् । अथ स पुरुषो द्वितीयं च परमाणुरजो गृहीत्वा ततः परेण परतरं लोकधातुसहस्रमतिक्रम्य द्वितीयं परमाणुरज उपनिक्षिपेत् । अनेन पर्यायेण स पुरुषः सर्वावन्तं पृथिवीधातुमुपनिक्षिपेत्पूर्वस्यां दिशि । तत्किं मन्यध्वे भिक्षवः शक्यं तेषां लोकधातूनामन्तो वा पर्यन्तो वा गणनयाधिगन्तुम्? त आहुः - नो हीदं भगवन्, नो हीदं सुगत । भगवानाह - शक्यं पुनर्भिक्षवस्तेषां लोकधातूनां केनचिद्गणकेन वा गणकमहामात्रेण वा गणनया पर्यन्तोऽधिगन्तुम्, येषु वोपनिक्षिप्तानि तानि परमाणुरजांसि, येषु वा नोपनिक्षिप्तानि । न त्वेव तेषां कल्पकोटीनयुतशतसहस्राणां शक्यं गणनायोगेन पर्यन्तोऽधिगन्तुम् । यावन्तः कल्पास्तस्य भगवतो महाभिज्ञाज्ञानाभिभुवस्तथागतस्य परिनिर्वृतस्य, एतावान् स कालोऽभूदेवमचिन्त्यः, एवमप्रमाणः । तं चाहं भिक्षवस्तथागतं तावच्चिरं परिनिर्वृतमनेन तथागतज्ञानदर्शनबलाधानेन यथाद्य श्वो वा परिनिर्वृतमनुस्मरामि ॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -

अभू अतीता बहु कल्पकोट्यो अनुस्मरामि द्विपदानमुत्तमम् ।
अभिज्ञज्ञानाभिभूवं महामुनिमभूषि तत्कालमनुत्तमो जिनः ॥ ७.१ ॥
यथा त्रिसाहस्रिम लोकधातुं कश्चिद्रजं कुर्य अणुप्रमाणम् ।
परमाणुमेकं च ततो गृहीत्वा क्षेत्रं सहस्रं गमियान निक्षिपेत् ॥ ७.२ ॥
द्वितीयं तृतीयं पि च एव निक्षिपेत्सर्वं पि सो निक्षिपि तं रजोगतम् ।
रिक्ता भवेता इय लोकधातुः सर्वश्च सो पांसु भवेत क्षीणः ॥ ७.३ ॥
(वैद्य १०५)
यो लोकधातूषु भवेत तासु पांसु रजो यस्य प्रमाणु नास्ति ।
रजं करित्वान अशेषतस्तं लक्ष्यं ददे कल्पशते गते च ॥ ७.४ ॥
एवाप्रमेया बहु कल्पकोट्यः परिनिर्वृतस्य सुगतस्य तस्य ।
परमाणु सर्वे न भवन्ति लक्ष्यास्तावद्बहु क्षीण भवन्ति कल्पाः ॥ ७.५ ॥
तावच्चिरं निर्वृतु तं विनायकं तान् श्रावकांस्तांश्च पि बोधिसत्त्वान् ।
एतादृशं ज्ञानु तथागतानां स्मरामि वृत्तं यथ अद्य श्वो वा ॥ ७.६ ॥
एतादृशं भिक्षव ज्ञानमेतदनन्तज्ञानश्च तथागतस्य ।
बुद्धं मया कल्पशतैरनेकैः स्मृतीय सूक्ष्माय अनास्रवाय ॥ ७.७ ॥

तस्य खलु पुनर्भिक्षवो महाभिज्ञाज्ञानाभिभुवस्तथागतस्यार्हतः सम्यक्संबुद्धस्य चतुष्पञ्चाशत्कल्पकोटीनयुतशतसहस्राण्यायुष्प्रमाणमभूत् । पूर्वे च स भगवान्महाभिज्ञानाभिभूस्तथागतोऽनभिसंबुद्धोऽनुत्तरां सम्यक्संबोधिं बोधिमण्डवराग्रग्रत एव सर्वां मारसेनां प्राभञ्जीत्पराजैषीत् । प्रभञ्जयित्वा पराजयित्वा अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यामिति न च तावत्तस्य ते धर्मा आमुखीभवन्ति स्म । स बोधिवृक्षमूले बोधिमण्डे एकमन्तरकल्पमस्थात् । द्वितीयमप्यन्तरकल्पस्थात् । न च तावदनुत्तरां सम्यक्संबोधिमभिसंबुध्यते । तृतीयमपि चतुर्थमपि पञ्चममपि षष्ठमपि सप्तममपि अष्टममपि नवममपि दशममप्यन्तरकल्पं
बोधिवृक्षमूले बोधिमण्डेऽस्थात्सकृद्वर्तनेन पर्यङ्केन अन्तरादव्युत्थितः । अनिञ्जमानेन चित्तेन अचलमानेन अवेपमानेन कायेनास्थात् । न च तावदस्य ते धर्मा आमुखीभवन्ति स्म ॥

तस्य खलु पुनर्भिक्षवो भगवतो बोधिमण्डवराग्रगतस्य देवैस्त्रायस्त्रिंशैर्महासिंहासनं प्रज्ञप्तमभूद्योजनशतसहस्रं समुच्छ्रयेण, यत्र स भगवान्निषद्य अनुत्तरां सम्यक्संबोधिमभिसंबुद्धः । समनन्तरनिषण्णस्य च खलु पुनस्तस्य भगवतो बोधिमण्डे, अथ ब्रह्मकायिका देवपुत्रा दिव्यं पुष्पवर्षमभिप्रवर्षयामासुः । बोधिमण्डस्य परिसामन्तकेन योजनशतमन्तरिक्षे च वातान् प्रमुञ्चन्ति, ये तं जीर्णपुष्पमवकर्षयन्ति । यथाप्रवर्षितं च तत्पुष्पवर्षं तस्य भगवतो बोधिमण्डे निषण्णस्य अव्युच्छिन्नं प्रवर्षयन्ति । परिपूर्णान् दशान्तरकल्पान् तं भगवन्तमभ्यवकिरन्ति (वैद्य १०६) स्म । तथा प्रवर्षितं च तत्पुःपवर्ःं प्रवर्ःयन्ति यावत्परिनिर्वाणकालसमये तस्य भगवतस्तं भगवन्तमभ्यवकिरन्ति । चातुर्महाराजकायिकाश्च देवपुत्रा दिव्यां देवदुन्दुभिमभिप्रवादयामासुः । तस्य भगवतो बोधिमण्डवराग्रगतस्य सत्कारार्थमव्युच्छिन्नं प्रवादयामासुः परिपूर्णान् दशान्तरकल्पान् तस्य भगवतो निःण्णस्य । तत उत्तरि तानि दिव्याणि तूर्याणि सततसमितं प्रवादयामासुर्यावत्तस्य भगवतो महापरिनिर्वाणकालसमयात् ॥

अथ खलु भिक्षवो दशानामन्तरकल्पानामत्ययेन स भगवान्महाभिज्ञाज्ञानाभिभूस्तथागतोऽर्हन् सम्यक्संबुद्धोऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धः । समनन्तराभिसंबुद्धं च तं विदित्वा ये तस्य भगवतः कुमारभूतस्य षोडश पुत्रा अभूवन्नौरसाः, ज्ञानाकरो नाम तेषां ज्येष्ठोऽभूत् । तेषां च खलु पुनर्भिक्षवः षोडशानां राजकुमाराणामेकैकस्य च विविधानि क्रीडनकानि रामणीयकान्यभूवन् विचित्राणि दर्शनीयानि । अथ खलु भिक्षवस्ते षोडश राजकुमारास्तानि विविधानि क्रीडनकानि रामणीयकानि विसर्जयित्वा, तं भगवन्तं महाभिज्ञाज्ञानाभिभुवं तथागतमर्हन्तं सम्यक्संबुद्धमनुत्तरां सम्यक्संबोधिमभिसंबुद्धं विदित्वा, मातृभिर्धात्रीभिश्च रुदन्तीभिः परिवृताः पुरस्कृताः तेन च महाराज्ञा चक्रवर्तिना आर्यकेण महाकोशेन राजामात्यैश्च बहुभिश्च प्राणिकोटीनयुतशतसहस्रैः परिवृताः पुरस्कृताः येन भगवान्महाभिज्ञाज्ञानाभिभूस्तथागतोऽर्हन् सम्यक्संबुद्धो बोधिमण्डवराग्रगतः, तेनोपसंक्रामन्ति स्म । तस्य भगवतः सत्कारार्थाय गुरुकारार्थाय माननार्थाय पूजनार्थाय अर्चनार्थाय अपचायनार्थाय उपसंक्रान्ताः । उपसंक्रम्य तस्य भगवतः पादौ शिरोभिर्वन्दित्वा तं भगवन्तं त्रिष्प्रदक्षिणीकृत्य अञ्जलिं प्रगृह्य तं भगवन्तं संमुखमाभिर्गाथाभिः सारूप्याभिरभिष्टुवन्ति स्म -

महाभिषट्कोऽसि अनुत्तरोऽसि अनन्तकल्पैः समुदागतोऽसि ।
उत्तारणार्थायिह सर्वदेहिनां परिपूर्ण संकल्पु अयं ति भद्रकः ॥ ७.८ ॥
सुदुष्करा अन्तरकल्पिमान् दश कृतानि एकासनि संनिषद्य ।
न च तेऽन्तरा कायु कदाचि चालितो न हस्तपादं न पि चान्यदङ्गम् ॥ ७.९ ॥
चित्तं पि ते शान्तगतं सुसंस्थितमनिञ्ज्यभूतं सद अप्रकम्प्यम् ।
विक्षेपु नैवास्ति कदाचि पि तव अत्यन्तशान्तस्थितु त्वमनास्रवः ॥ ७.१० ॥
(वैद्य १०७)
दिष्टयासि क्षेमेण च स्वस्तिना च अविहेठितः प्राप्त इमाग्रबोधिम् ।
अस्माकमृद्धी इयमेवरूपा दिष्टया च वर्धाम नरेन्द्रसिंह ॥ ७.११ ॥
अनायिकेयं प्रज सर्व दुःखिता उत्पाटिताक्षी व निहीनसौख्या ।
मार्गं न जानन्ति दुखान्तगामिनं न मोक्षहेतोर्जनयन्ति वीर्यम् ॥ ७.१२ ॥
अपाय वर्धन्ति च दीर्घरात्रं दिव्याश्च कायाः परिहाणधर्माः ।
न श्रूयते जातु जिनान शब्दस्तमोन्धकारो अयु सर्वलोकः ॥ ७.१३ ॥
प्राप्तं च ते लोकविदू इहाद्य शिवं पदमुत्तम नास्रवं च ।
वयं च लोकश्च अनुगृहीतः शरणं च त्वा एति व्रजाम नाथ ॥ ७.१४ ॥

अथ खलु भिक्षवस्ते षोडश राजकुमाराः कुमारभूता एव बालकाः, तं भगवन्तं महाभिज्ञाज्ञानाभिमुखं तथागतमर्हन्तं सम्यक्संबुद्धमाभिः सारूप्यभीर्गाथाभिः संमुखमभिष्टुत्य तं भगवन्तमध्येषन्ते स्म धर्मचक्रप्रवर्तनतायै - देशयतु भगवान् धर्मम्, देशयतु सुगतो धर्मं बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च । तस्यां च वेलायामिमा गाथा अभाषन्त -

देशेहि धर्मं शतपुण्यलक्षणा विनायका अप्रतिमा महर्षे ।
लब्धं ति ज्ञानं प्रवरं विशिष्टं प्रकाशया लोकि सदेवकस्मिन् ॥ ७.१५ ॥
अस्मांश्च तारेहि इमांश्च सत्त्वान्निदर्शय ज्ञानु तथागतानाम् ।
यथा वयं पि इममग्रबोधिमनुप्राप्नुयामोऽथ इमे च सत्त्वाः ॥ ७.१६ ॥
चर्यां च ज्ञानं पि च सर्व जानसि अध्याशयं पूर्वकृतं च पुण्यम् ।
(वैद्य १०८)
अधिमुक्ति जानासि च सर्वप्राणिनां प्रवर्तया चक्रवरमनुत्तरम् ॥ ७.१७ ॥
इति ॥

तेन खलु पुनर्भिक्षवः समयेन तेन भगवता महाभिज्ञाज्ञानाभिभुवा तथागतेनार्हता सम्यक्संबुद्धेन अनुत्तरां सम्यक्संबोधिमभिसंबुध्यमानेन दशसु दिक्ष्वैकैकस्यां दिशि पञ्चाशल्लोकधातुकोटीनयुतशतसहस्राणि षड्विकारं प्रकम्पितान्यभूईवन्, महता चावभासेन स्फुटान्यभूवन् । सर्वेषु च तेषु लोकधातुषु या लोकान्तरिकास्तासु ये अक्षणाः संवृता अन्धकारतमिस्राः यत्र इमावपि चन्द्रसूर्यौ एवंमहर्द्धिकौ एवंमहानुभावौ एवंमहौजस्कौ आभयाप्याभां नानुभवतः, वर्णेनापि वर्णं तेजसापि तेजो नानुभवतः, तास्वपि तस्मिन् समये महतोऽवभासस्य प्रादुर्भावोऽभूत् । येऽपि तासु लोकान्तरिकासु सत्त्वा उपपन्नाः, तेऽप्यन्योन्यमेवं पश्यन्ति अन्योन्यमेवं संजानन्ति - अन्येऽपि बत भोः सत्त्वाः सन्तीहोपपन्नाः । अन्येऽपि बत भोः सत्त्वाः सन्तीहोपपन्नाः इति । सर्वेषु च तेषु लोकधातुषु यानि देवभवनानि देवविमानानि च, यावद्ब्रह्मलोकाद्षड्विकारं प्रकम्पितान्यभूवन्, महता चावभासेन स्फुटान्यभूवनतिक्रम्य देवानां देवानुभावम् । इति हि भिक्षवस्तस्मिन् समये तेषु लोकधातुषु महतः पृथिवीचालस्य महतश्च औदारिकस्यावभासस्य लोके प्रादुर्भावोऽभूत् ॥

अथ पूर्वस्यां दिशि तेषु पञ्चाशत्सु लोकधातुकोटीनयुतशतसहस्रेषु यानि ब्राह्माणि विमानानि, तान्यतीव भ्राजन्ति तपन्ति विराजन्ति, श्रीमन्ति औजस्वीनि च । अथ खलु भिक्षवस्तेषां महाब्रह्मणामेतदभवत्- इमानि खलु पुनर्ब्राह्माणि विमानान्यतीव भ्राजन्ति तपन्ति विराजन्ति श्रीमन्ति औजस्वीनि च । कस्य खल्विदं पूर्वनिमित्तं भविष्यतीति? अथ खलु भिक्षवस्तेषु पञ्चाशत्सु लोकधातुकोटीनयुतशतसहस्रेषु ये महाब्रह्माणः, ते सर्वेऽन्योन्यभवनानि गत्वा आरोचयामासुः ॥

अथ खलु भिक्षवः सर्वसत्त्वत्राता नाम महाब्रह्मा तं महान्तं ब्रह्मगणं गाथाभिरध्यभाषत -

अतीव नो हर्षित अद्य सर्वे विमानश्रेष्ठा इमि प्रज्वलन्ति ।
श्रिया द्युतीया च मनोरमा ये किं कारणमीदृशु भेष्यतेऽद्य ॥ ७.१८ ॥
साधु गवेषामथ एतमर्थं को देवपुत्रो उपपन्नु अद्य ।
यस्यानुभावो अयमेवरूपो अभूतपूर्वो अयमद्य दृश्यते ॥ ७.१९ ॥
(वैद्य १०९)
यदि वा भवेद्बुद्ध नरेन्द्रराजा उत्पन्नु लोकस्मि कहिंचिदद्य ।
यस्यो निमित्तमिममेवरूपं श्रिया दशो दिक्षु ज्वलन्ति अद्य ॥ ७.२० ॥

अथ खलु भिक्षवस्तेषु पञ्चाशत्सु लोकधातुकोटीनयुतशतसहस्रेषु ये महाब्रह्माणः, ते सर्वे सहिताः समग्रास्तानि दिव्यानि स्वानि स्वानि ब्राह्माणि विमानान्यभिरुह्य दिव्यांश्च सुमेरुमात्रान् पुष्पपुटान् गृहीत्वा चतसृषु दिक्ष्वनुचंक्रमन्तोऽनुविचरन्तः पश्चिमं दिग्भागं प्रक्रान्ताः । अद्राक्षुः खलु पुनस्तेषु पञ्चाशत्सु लोकधातुकोटीनयुतशतसहस्रेषु भिक्षवस्ते महाब्रह्माणः पश्चिमे दिग्भागे तं भगवन्तं महाभिज्ञाज्ञानाभिभुवं तथागतमर्हन्तं सम्यक्संबुद्धं बोधिमण्डवराग्रगतं बोधिवृक्षमूले सिंहासनोपविष्टं परिवृतं पुरस्कृतं देवनागयक्षगन्धर्वासुरगरूडकिन्नरमहोरगमनुष्यामनुष्यैः, तैश्च पुत्रैः षोडशभी राजकुमारैरध्येष्यमाणं धर्मचक्रप्रवर्तनतायै । दृष्ट्वा च पुनर्येन स भगवांस्तेनोपसंक्रान्ताः । उपसंक्रम्य तस्य भगवतः पादौ शिरोभिर्वन्दित्वा तं भगवन्तमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य तैश्च सुमेरुमात्रैः पुष्पपुटैस्तं भगवन्तमभ्यवकिरन्ति स्म, अभिप्रकिरन्ति स्म, तं च बोधिवृक्षं दशयोजनप्रमाणम् । अभ्यवकीर्य तानि ब्राह्माणि विमानानि तस्य भगवतो निर्यातयामासुः - परिगृह्णातु भगवानिमानि ब्राह्माणि विमानानि अस्माकमनुकम्पामुपादाय । परिभुञ्जतु सुगत इमानि ब्राह्माणि विमानान्यस्माकमनुकम्पामुपादाय ॥

अथ खलु भिक्षवस्ते महाब्रह्माणस्तानि स्वानि स्वानि विमानानि तस्य भगवतो निर्यात्य तस्यां वेलायां तं भगवन्तं संमुखमाभिर्गाथाभिः सारूप्याभिरभिष्टुवन्ति स्म -

आश्चर्यभूतो जिन अप्रमेयो उत्पन्न लोकस्मि हितानुकम्पी ।
नाथोऽसि शास्तासि गुरूसि जातो अनुगृहीता दशिमा दिशोऽद्य ॥ ७.२१ ॥
पञ्चाशती कोटिसहस्र पूर्णा या लोकधातून इतो भवन्ति ।
यतो वयं वन्दन आगता जिनं विमानश्रेष्ठान् प्रजहित्व सर्वशः ॥ ७.२२ ॥
पूर्वेण कर्मेण कृतेन अस्मिन् विचित्रचित्रा हि इमे विमानाः ।
प्रतिगृह्य अस्माकमनुग्रहार्थं परिभुञ्जतां लोकविदू यथेष्टम् ॥ ७.२३ ॥
(वैद्य ११०)

अथ खलु भिक्षवस्ते महाब्रह्माणस्तं भगवन्तं महाभिज्ञाज्ञानभिभुवं तथागतमर्हन्तं सम्यक्संबुद्धं संमुखमाभिः सारूप्याभिर्गाथाभिरभिष्टुत्य तं भगवन्तमेतदूचुः - प्रवर्तयतु भगवान् धर्मचक्रम्, प्रवर्तयतु सुगतो धर्मचक्रं लोके । देशयतु भगवान्निर्वृतिम् । तारयतु भगवान् सत्त्वान् । अनुगृह्णातु भगवानिमं लोकम् । देशयतु भगवान् धर्मस्वामी धर्ममस्य लोकस्य समारकस्य सब्रह्मकस्य सश्रमणब्राह्मणिकायाः प्रजायाः सदेवमानुषासुरायाः । तद्भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च ॥

अथ खलु भिक्षवस्तानि पञ्चाशद्ब्रह्मकोटीनयुतशतसहस्राण्येकस्वरेण समसंगीत्या तं भगवन्तमाभिः सारूप्याभिर्गाथाभिरध्यभाषन्त -

देशेहि भगवन् धर्मं देशेहि द्विपदोत्तम ।
मैत्रीबलं च देशेहि सत्त्वांस्तारेहि दुःखितान् ॥ ७.२४ ॥
दुर्लभो लोकप्रद्योतः पुष्पमौदुम्बरं यथा ।
उत्पन्नोऽसि महावीर अध्येषामस्तथागतम् ॥ ७.२५ ॥

अथ खलु भिक्षवः स भगवांस्तेषां महाब्रह्मणां तूष्णींभावेनाधिवासयति स्म ॥

तेन खलु पुनर्भिक्षवः समयेन पूर्वदक्षिणे दिग्भागे तेषु पञ्चाशत्सु लोकधातुकोटीनयुतशतसहस्रेषु यानि ब्राह्माणि विमानानि, तान्यतीव भ्राजन्ति तपन्ति विराजन्ति श्रीमन्ति ओजस्वीनि च । अथ खलु भिक्षवस्तेषां ब्रह्मणामेतदभवत्- इमानि खलु पुनर्ब्राह्माणि विमानान्यतीव भ्राजन्ति तपन्ति विराजन्ति श्रीमन्ति ओजस्वीनि च । कस्य खल्विदं पूर्वनिमित्तं भविष्यतीति? अथ खलु भिक्षवस्तेषु पञ्चाशत्सु लोकधातुकोटीनयुतशतसहस्रेषु ये महाब्रह्माणः, तेऽपि सर्वेऽन्योन्यभवनानि गत्वा आरोचयामासुः । अथ खलु भिक्षवोऽधिमात्रकारुणिको नाम महाब्रह्मा तं महान्तं ब्रह्मगणं गाथाभिरध्यभाषत -

कस्य पूर्वनिमित्तेन मारिषा अथ दृश्यते ।
विमानाः सर्वि भ्राजन्ति अधिमात्रं यशस्विनः ॥ ७.२६ ॥
यदि वा देवपुत्रोऽद्य पुण्यवन्त इहागतः ।
यस्येमे अनुभावेन विमानाः सर्वि शोभिताः ॥ ७.२७ ॥
अथ वा बुद्ध लोकेऽस्मिन्नुत्पन्नो द्विपदोत्तमः ।
अनुभावेन यस्याद्य विमाना इमि ईदृशाः ॥ ७.२८ ॥
सहिताः सर्वि मार्गामो नैतत्कारणमल्पकम् ।
न खल्वेतादृशं पूर्वं निमित्तं जातु दृश्यते ॥ ७.२९ ॥
चतुर्दिशं प्रपद्यामो अञ्चामः क्षेत्रकोटियो ।
व्यक्तं लोकेऽद्य बुद्धस्य प्रादुर्भावो भविष्यति ॥ ७.३० ॥
(वैद्य १११)

अथ खलु भिक्षवस्तान्यपि पञ्चाशद्ब्रह्मकोटीनयुतःतसहस्राणि तानि स्वानि स्वानि दिव्यानि ब्राह्माणि विमानान्यभिरुह्य दिव्यांःच सुमेरुमात्रान् पुष्पपुटान् गृहीत्वा चतसृषु दिक्ष्वनुचंक्रमन्तोऽनुविचरन्त उत्तरपःचिमं दिग्भागं प्रक्रान्ताः । अद्राक्षुः खलु पुनर्भिक्षवस्ते महाब्रह्माण उत्तरपःचिमे दिग्भागे तं भगवन्तं महाभिज्ञाज्ञानाभिभुवं तथागतमर्हन्तं सम्यक्संबुद्धं बोधिमण्डवराग्रगतं बोधिवृक्षमूले सिंहासनोपविष्ट परिवृतं पुरस्कृतं देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्यैः, तैःच पुत्रैः षोडःभी राजकुमारैरध्येष्यमाणं धर्मचक्रप्रवर्तनतायै । दृष्ट्वा च पुनर्येन स भगवान्महाभिज्ञाज्ञानाभिभूस्तथागतोऽर्हन् सम्यक्संबुद्धस्तेनोपसंक्रन्ताः । उपसंक्रम्य च तस्य भगवतः पादौ ःिरोभिर्वन्दित्वा तं भगवन्तमनेकःतसहस्रकृत्वः प्रदक्षिणीकृत्य तैः सुमेरुमात्रैः पुष्पपुटैस्तं भगवन्तमभ्यवकिरन्ति स्म, अभिप्रकिरन्ति स्म तं च बोधिवृक्षं दःयोजनप्रमाणम् । अभ्यवकीर्य तानि ब्राह्माणि विमानानि तस्य भगवतो निर्यातयामासुः - परिगृह्णातु भगवानिमानि ब्राह्माणि विमानान्यस्माकमनुकम्पामुपादाय । परिभुञ्जतु सुगत इमानि ब्राह्माणि विमानान्यस्माकमनुकम्पामुपादाय ॥

अथ खलु भिक्षवस्ते महाब्रह्माणस्तानि स्वानि स्वानि विमानानि तस्य भगवतो निर्यात्य तस्यां वेलायां तं भगवन्तं संमुखमाभिः सारूप्याभिर्गाथाभिरभिष्टुवन्ति स्म -

नमोऽस्तु ते अप्रतिमा महर्षे देवातिदेवा कलविङ्कसुस्वरा ।
विनायका लोकि सदेवकस्मिन् वन्दामि ते लोकहितानुकम्पी ॥ ७.३१ ॥
आश्चर्यभूतोऽसि कथंचिलोके उत्पन्नु अद्यो सुचिरेण नाथ ।
कल्पान पूर्णा शत शून्य आसीदशीति बुद्धैरयु जीवलोकः ॥ ७.३२ ॥
शून्यश्च आसीद्द्विपदोत्तमेहि अपायभूमी तद उत्सदासि ।
दिव्याश्च कायाः परिहायिषू तदा अशीति कल्पान शता सुपूर्णा ॥ ७.३३ ॥
सो दानि चक्षुश्च गतिश्च लेणं त्राणं पिता चो तथ बन्धुभूतः ।
उत्पन्नु लोकस्मि हितानुकम्पी अस्माक पुण्यैरिह धर्मराजा ॥ ७.३४ ॥
(वैद्य ११२)

अथ खलु भिक्षवस्ते महाब्रह्माणस्तं भगवन्तं महाभिज्ञाज्ञानाभिभुवं तथागतमर्हन्तं सम्यक्संबुद्धं संमुखमाभिः सारूप्याभिर्गाथाभिरभिष्टुत्य तं भगवन्तमेतदूचुः - प्रवर्तयतु भगवान् धर्मचक्रम् । प्रवर्तयतु सुगतो धर्मचक्रं लोके । देशयतु भगवान्निर्वृतिम् । तारयतु भगवान् सत्त्वान् । अनुगृह्णातु भगवानिमं लोकम् । देशयतु भगवान् धर्ममस्य लोकस्य समारकस्य सब्रह्मकस्य सश्रमणब्राह्मणिकायाः प्रजायाः सदेवमानुषासुरयाः । तद्भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च ॥

अथ खलु भिक्षवस्तानि पञ्चाशद्ब्रह्मकोटीनयुतशतसहस्राणि एकस्वरेण समसंगीत्या तं भगवन्तमाभ्यां सारूप्याभ्यां गाथाभ्यामध्यभाषन्त -

प्रवर्तया चक्रवरं महामुने प्रकाशया धर्मु दशादिशासु ।
तारेहि सत्त्वान् दुखधर्मपीडितान् प्रामोद्य हर्षं जनयस्व देहिनाम् ॥ ७.३५ ॥
यं श्रुत्व बोधीय भवेयु लाभिनो दिव्यानि स्थानानि व्रजेयु चापि ।
हायेयु चो आसुरकाय सर्वे शान्ताश्च दान्ताश्च सुखी भवेयुः ॥ ७.३६ ॥

अथ खलु भिक्षवः स भगवांस्तेषामपि महाब्रह्मणां तूष्णीभावेनाधिवासयति स्म ॥

तेन खलु पुनर्भिक्षवः समयेन दक्षिणस्यां दिशि तेषु पञ्चाशत्सु लोकधातुकोटीनयुतशतसहस्रेषु यानि ब्राह्माणि विमानानि तान्यतीव भ्राजन्ति तपन्ति विराजन्ति, श्रीमन्ति ओजस्वीनि च । अथ खलु भिक्षवस्तेषां महाब्रह्मणामेतदभवत्- इमानि खलु पुनर्ब्राह्माणि विमानान्यतीव
भ्राजन्ति तपन्ति विराजन्ति श्रीमन्ति ओजस्वीनि च । कस्य खल्विदमेवंरूपं पूर्वनिमित्तं भविष्यति? अथ खलु भिक्षवस्तेषु पञ्चाशत्सु लोकधातुकोटीनयुतशतसहस्रेषु ये महाब्रह्माणः, ते सर्वेऽन्योन्यभवनानि गत्वा आरोचयामासुः । अथ खलु भिक्षवः सुधर्मो नाम महाब्रह्मा तं महान्तं ब्रह्मगणं गाथाभ्यामध्यभाषत -
नाहेतु नाकारणमद्य मार्षाः सर्वे विमाना इह जाज्वलन्ति ।
निमित्त दर्शेन्ति ह किं पि लोके साधु गवेषाम तमेतमर्थम् ॥ ७.३७ ॥
अनून कल्पान शता ह्यतीता नैतादृशं जातु निमित्तमासीत् ।
(वैद्य ११३)
यदि वोपपन्नो इह देवपुत्रो उत्पन्नु लोके यदि वेह बुद्धः ॥ ७.३८ ॥

अथ खलु भिक्षवस्तेषु पञ्चाशत्सु लोकधातुकोटीनयुतशतसहस्रेषु ये महाब्रह्माणः ते सर्वे सहिताः समग्रास्तानि दिव्यानि स्वानि स्वानि ब्राह्माणि विमानान्यभिरुह्य दिव्यांश्च सुमेरुमात्रान् पुष्पपुटान् गृहीत्वा चतसृषु दिक्ष्वनुचंक्रमन्तोऽनुविचरन्त उत्तरं दिग्भागं प्रक्रान्ताः । अद्राक्षुः खलु पुनर्भिक्षवस्ते महाब्रह्माण उत्तरं दिग्भागं तं भगवन्तं महाभिज्ञाज्ञानाभिभुवं तथागतमर्हन्तं सम्यक्संबुद्धं बोधिमण्डवराग्रगतं बोधिवृक्षमूले सिंहासनोपविष्टं परिवृतं पुरस्कृतं देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्यैः, तैश्च पुत्रैः षोडषभी राजकुमारैरध्येष्यमाणं धर्मचक्रप्रवर्तनतायै । दृष्ट्वा च पुनर्येन स भगवांस्तेनोपसंक्रान्ताः । उपसंक्रम्य तस्य भगवतः पादौ शिरोभिर्वन्दित्वा तं भगवन्तमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य तैः सुमेरुमात्रैः पुष्पपुटैस्तं भगवन्तमभ्यवकिरन्ति स्म, अभिप्रकिरन्ति स्म तं च बोधिवृक्षं दशयोजनप्रमाणम् । अभ्यवकीर्य तानि ब्राह्माणि दिव्यानि विमानानि तस्य भगवतो निर्यातयामासुः - परिगृह्णातु भगवानिमानि ब्राह्माणि विमानानि अस्माकमनुकम्पामुपादाय । परिभुञ्जतु सुगत इमानि ब्राह्माणि विमानानि अस्माकमनुकम्पामुपादाय ॥

अथ खलु भिक्षवस्तेऽपि महाब्रह्माणस्तानि स्वानि स्वानि विमानानि तस्य भगवतो निर्यात्य तस्यां वेलायां तं भगवन्तं संमुखमाभिः सारूप्याभिर्गाथाभिरभिष्टुवन्ति स्म -

सुदुर्लभं दर्शन नायकानां स्वभ्यागतं ते भवरागमर्दन ।
सुचिरस्य ते दर्शनमद्य लोके परिपूर्ण कल्पान शतेभि दृश्यसे ॥ ७.३९ ॥
तृषितां प्रजां तर्पय लोकनाथ अदृष्टपूर्वोऽसि कथंचि दृश्यसे ।
औदुम्बरं पुष्प यथैव दुर्लभं तथैव दृष्टोऽसि कथंचि नायक ॥ ७.४० ॥
विमान अस्माकमिमा विनायक तवानुभावेन विशोभिताद्य ।
परिगृह्य एतानि समन्तचक्षुः परिभुञ्ज चास्माकमनुग्रहार्थम् ॥ ७.४१ ॥

अथ खलु भिक्षवस्ते महाब्रह्माणस्तं भगवन्तं महाभिज्ञाज्ञानाभिभुवं तथागतमर्हन्तं सम्यक्संबुद्धं संमुखमाभिः सारूप्यभिर्गाथाभिरभिष्टुत्य ते भगवन्तमेतदूचुः - प्रवर्तयतु भगवान् धर्मचक्रं लोके । देशयतु भगवान्निर्वृतिम् । तारयतु भगवान् सत्त्वान् । अनुगृह्णातु भगवानिमं लोकम् । देशयतु भगवान् धर्ममस्य लोकस्य समारकस्य सब्रह्मकस्य सश्रमणब्राह्मणिकायाः (वैद्य ११४) प्रजायाः सदेवमानुषासुरायाः । तद्भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च ॥

अथ खलु भिक्षवस्तानि पञ्चाशद्ब्रह्मकोटीनयुतशतसहस्राणि एकस्वरेण समसंगीत्या तं भगवन्तमाभ्यां सारूप्याभ्यां गाथाभ्यामध्यभाषन्त -

देशेहि धर्मं भगवन् विनायक प्रवर्तया धर्ममयं च चक्रम् ।
निर्नादया धर्ममयं च दुन्दुभिं तं धर्मशङ्खं च प्रपूरयस्व ॥ ७.४२ ॥
सद्धर्मवर्षं वर्षयस्व लोके वल्गुस्वरं भाष सुभाषितं च ।
अध्येषितो धर्ममुदीरयस्व मोचेहि सत्त्वा नयुतान कोट्यः ॥ ७.४३ ॥

अथ खलु भिक्षवः स भगवांस्तेषां महाब्रह्मणां तूष्णींभावेनाधिवासयति स्म । पेयालम् । एवं दक्षिणपश्चिमायां दिशि, एवं पश्चिमायां दिशि, एवं पश्चिमोत्तरस्यां दिशि, एवमुत्तरस्यां दिशि, एवमुत्तरपूर्वस्यां दिशि, एवमधोदिशि ॥

अथ खलु भिक्षव ऊर्ध्वायां दिशि तेषु पञ्चाशत्सु लोकधातुकोटीनयुतशतसहस्रेषु यानि ब्राह्माणि विमानानि, तान्यतीव भ्राजन्ति तपन्ति विराजन्ति श्रीमन्ति ओजस्वीनि च । अथ खलु भिक्षवस्तेषां महाब्रह्मणामेतदभवत्- इमानि खलु पुनर्ब्राह्माणि विमानान्यतीव भ्राजन्ति तपन्ति विराजन्ति श्रीमन्ति ओजस्वीनि च । कस्य खल्विदमेवंरूपं पूर्वंनिमित्तं भविष्यतीति? अथ खलु भिक्षवस्तेषु पञ्चाशत्सु लोकधातुकोटीनयुतशतसहस्रेषु ये महाब्रह्माणः, ते सर्वेऽन्योन्यभवनानि गत्वा आरोचयामासुः ॥

अथ खलु भिक्षवः शिखी नाम महाब्रह्मा तं महान्तं ब्रह्मगणं गाथाभिरध्यभाषत -

किं कारणं मार्ष इदं भविष्यति येना विमानानि परिस्फुटानि ।
ओजेन वर्णेन द्युतीय चापि अधिमात्र वृद्धानि किमत्र कारणम् ॥ ७.४४ ॥
न ईदृशं नो अभिदृष्टपूर्वं श्रुतं च केनो तथ पूर्व आसीत् ।
ओजऽस्फुटानि यथ अद्य एता अधिमात्र भ्राजन्ति किमत्र कारणम् ॥ ७.४५ ॥
(वैद्य ११५)
यदि वा नु कश्चिद्भवि देवपुत्रः शुभेन कर्मेण समन्वितो इह ।
उपपन्नु तस्यो अयमानुभावो यदि वा भवेद्बुद्ध कदाचि लोके ॥ ७.४६ ॥

अथ खलु भिक्षवस्तेषु पञ्चाशत्सु लोकधातुकोटीनयुतशतसहस्रेषु ये महाब्रह्माणः, ते सर्वे सहिताः समग्रास्तानि दिव्यानि स्वानि स्वानि ब्राह्माणि विमानान्यभिरुह्य दिव्यांश्च सुमेरुमात्रान् पुष्पपुटान् गृहीत्वा चतसृषु दिक्ष्वनुचंक्रमन्तोऽनुविचरन्तो येन अधोदिग्भागस्तेनोपसंक्रान्ताः । अद्राक्षुः खलु पुनर्भिक्षवस्ते महाब्रह्माणोऽधोदिग्भागे तं भगवन्तं महाभिज्ञाज्ञानाभिभुवं तथागतमर्हन्तं सम्यक्संबुद्धं बोधिमण्डवराग्रगतं बोधिवृक्षमूले सिंहासनोपविष्टं परिवृतं पुरस्कृतं देवनागयक्षगन्धर्वासुरगरूडकिन्नरमहोरगमनुष्यामनुष्यैः, तैश्च पुत्रैः षोडशभी राजकुमारैरध्येष्यमाणं धर्मचक्रप्रवर्तनतायै । दृष्ट्वा च पुनर्येन स भगवांस्तेनोपसंक्रान्ताः । उपसंक्रम्य भगवतः पादौ शिरोभिर्वन्दित्वा तं भगवन्तमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य तैः सुमेरुमात्रैः पुष्पपुटैस्तं भगवन्तमभ्यवकिरन्ति स्म, अभिप्रकिरन्ति स्म तं च बोधिवृक्षं दशयोजनप्रमाणम् । अभ्यवकीर्य तानि दिव्यानि स्वानि स्वानि ब्राह्माणि विमानानि तस्य भगवतो निर्यातयामासुः - प्रतिगृह्णातु भगवानिमानि ब्राह्माणि विमानान्यस्माकमनुकम्पामुपादाय । परिभुञ्जतु सुगत इमानि ब्राह्माणि विमानान्यस्माकमनुकम्पामुपादायेति ॥

अथ खलु भिक्षवस्तेऽपि महाब्रह्माणस्तानि स्वानि स्वानि विमानानि तस्य भगवतो निर्यात्य तस्यां वेलायां तं भगवन्तं संमुखमाभिः सारूप्याभिर्गाथाभिरभिष्टुवन्ति स्म -

साधु दर्शन बुद्धान लोकनाथान तायिनाम् ।
त्रधातुकस्मि बुद्धा वै सत्त्वानां ये प्रमोचकाः ॥ ७.४७ ॥
समन्तचक्षु लोकेन्द्रा व्यवलोकेन्ति दिशो दश ।
विवरित्वामृतद्वारमोतारेन्ति बहून् जनान् ॥ ७.४८ ॥
शून्या अचिन्तियाः कल्पा अतीताः पूर्वि ये अभू ।
अदर्शनाज्जिनेन्द्राणामन्धा आसीद्दिशो दश ॥ ७.४९ ॥
वर्धन्ति नरकास्तीव्रास्तिर्यग्योनिस्तथासुराः ।
प्रेतेषु चोपपद्यन्ते प्राणिकोट्यः सहस्रशः ॥ ७.५० ॥
दिव्याः कायाश्च हीयन्ते च्युता गच्छन्ति दुर्गतिम् ।
अश्रुत्वा धर्म बुद्धानां गत्येषां भोति पापिका ॥ ७.५१ ॥
चर्याशुद्धिगतिप्रज्ञा हीयन्ते सर्वप्राणिनाम् ।
सुखं विनश्यती तेषां सुखसंज्ञा च नश्यति ॥ ७.५२ ॥
(वैद्य ११६)
अनाचाराश्च ते भोन्ति असद्धर्मे प्रतिष्ठिताः ।
अदान्ता लोकनाथेन दुर्गतिं प्रपतन्ति ते ॥ ७.५३ ॥
दृष्टोऽसि लोकप्रद्योत सुचिरेणासि आगतः ।
उत्पन्नु सर्वसत्त्वानां कृतेन अनुकम्पकः ॥ ७.५४ ॥
दिष्टया क्षेमेण प्राप्तोऽसि बुद्धज्ञानमनुत्तरम् ।
वयं ते अनुमोदामो लोकश्चैव सदेवकः ॥ ७.५५ ॥
विमानानि सुचित्राणि अनुभावेन ते विभो ।
ददाम ते महावीर प्रतिगृह्ण महामुने ॥ ७.५६ ॥
अस्माकमनुकम्पार्थं परिभुञ्ज विनायक ।
वयं च सर्वसत्त्वाश्च अग्रां बोधिं स्पृशेमहि ॥ ७.५७ ॥

अथ खलु भिक्षवस्ते महाब्रह्माणस्तं भगवन्तं महाभिज्ञाज्ञानाभिभुवं तथागतमर्हन्तं सम्यक्संबुद्धं संमुखमाभिः सारूप्याभिर्गाथाभिरभिष्टुत्य तं भगवन्तमेतदूचुः - प्रवर्तयतु भगवान् धर्मचक्रम् । प्रवर्तयतु सुगतो धर्मचक्रम् । देशयतु भगवान्निर्वृतिम् । तारयतु भगवान् सर्वसत्त्वान् । अनुगृह्णातु भगवानिमं लोकम् । देशयतु भगवान् । धर्ममस्य लोकस्य समारकस्य सब्रह्मकस्य सश्रमणब्राह्मणिकायाः प्रजायाः सदेवमानुषासुरायाः । तद्भविष्यति बहुजनहिताय बहुजनसुखाय लोकनुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च ॥

अथ खलु भिक्षवस्तानि पञ्चाशद्ब्रह्मकोटीनयुतशतसहस्राण्येकस्वरेण समसंगीत्या तं भगवन्तमाभ्यां सारूप्याभ्यां गाथाभ्यामध्यभाषन्त -

प्रवर्तया चक्रवरमनुत्तरं पराहनस्वा अमृतस्य दुन्दुभिम् ।
प्रमोचया दुःखशतैश्च सत्त्वान्निर्वाणमार्गं च प्रदर्शयस्व ॥ ७.५८ ॥
अस्माभिरध्येषितु भाष धर्ममस्माननुगृह्ण इमं च लोकम् ।
वल्गुस्वरं चो मधुरं प्रमुञ्च समुदानितं कल्पसहस्रकोटिभिः ॥ ७.५९ ॥
अथ खलु भिक्षवः स भगवान्महाभिज्ञाज्ञानाभिभूस्तथागतोऽर्हन् सम्यक्संबुद्धस्तेषां ब्रह्मकोटीनयुतशतसहस्राणामध्येषणां विदित्वा तेषां च षोडशानां पुत्राणां राजकुमाराणाम्, तस्यां वेलायां धर्मचक्रं प्रवर्तयामास त्रिपरिवर्तं द्वादशाकारमप्रवर्तितं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा ब्रह्मणा वा अन्येन वा केनचित्पुनर्लोके सह धर्मेण । यदिदं (वैद्य ११७) दुःखम्, अयं दुःखसमुदयः, अयं दुःखनिरोधः, इयं दुःखनिरोधगामिनी प्रतिपदार्यसत्यमिति । प्रतीत्यसमुत्पादप्रवृत्तिं च विस्तरेण संप्रकाशयामास - इति हि भिक्षवोऽविद्याप्रत्ययाः संस्काराः, संस्कारप्रत्ययं विज्ञानम्, विज्ञानप्रत्ययं नामरूपम्, नामरूपप्रत्ययं षडायतनम्, षडायतनप्रत्ययः स्पर्शः, स्पर्शप्रत्यया वेदना वेदनाप्रत्यया तृष्णा, तृष्णाप्रत्ययमुपादानम्, उपादानप्रत्ययो भवः, भवप्रत्यया जातिः, जातिप्रत्यया जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाः संभवन्ति । एवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति । अविद्यानिरोधात्संस्कारनिरोधः, संस्कारनिरोधाद्विज्ञाननिरोधः, विज्ञाननिरोधान्नामरूपनिरोधः, नामरूपनिरोधात्षडायतननिरोधः, षडायतननिरोधात्स्पर्शनिरोधः, स्पर्शनिरोधाद्वेदनानिरोधः, वेदनानिरोधात्तृष्णानिरोधः, तृष्णानिरोधादुपादाननिरोधः, उपादाननिरोधाद्भवनिरोधः, भवनिरोधाज्जातिनिरोधः, जातिनिरोधाज्जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासा निरुध्यन्ते । एवमस्य केवलस्य महतो दुःखस्कन्धस्य निरोधो भवति ॥

सहप्रवर्तितं चेदं भिक्षवस्तेन भगवता महाभिज्ञाज्ञानाभिभुवा तथागतेनार्हता सम्यक्संबुद्धेन धर्मचक्रं सदेवकस्य लोकस्य समारकस्य सब्रह्मकस्य सश्रमणब्राह्मणिकायाः प्रजायाः सदेवमानुषासुरायाः पर्षदः पुरस्तात्, अथ तस्मिन्नेव क्षणलवमुहूर्ते षष्टेः प्राणिकोटीनयुतशतसहस्राणामनुपादाय आस्रवेभ्यश्चित्तानि विमुक्तानि । सर्वे च ते त्रैविद्याः षडभिज्ञा अष्टविमोक्षध्यायिनः संवृत्ताः । पुनरनुपूर्वेण भिक्षवः स भगवान्महाभिज्ञाज्ञानाभिभूस्तथागतोऽर्हन् सम्यक्संबुद्धो द्वितीयां धर्मदेशनामकार्षीत्, तृतीयामपि धर्मदेशनामकार्षीत्, चतुर्थीमपि धर्मदेशनामकार्षीत् ॥

अथ खलु भिक्षवस्तस्य भगवतो महाभिज्ञाज्ञानाभिभुवस्तथागतस्यार्हतः सम्यक्संबुद्धस्यैकैकस्यां धर्मदेशनायां गङ्गानदीवालुकासमानां प्राणिकोटीनयुतशतसहस्राणामनुपादाय आस्रवेभ्यश्चित्तानि विमुक्तानि । ततः पश्चाद्भिक्षवस्तस्य भगवतो गणनासमतिक्रान्तः श्रावकसंघोऽभूत् ॥

तेन खलु पुनर्भिक्षवः समयेन ते षोडश राजकुमाराः कुमारभूता एव समानाः श्रद्धया अगारादनागारिकां प्रव्रजिताः । सर्वे च ते श्रामणेरा अभूवन् पण्डिता व्यक्ता मेधाविनः कुशला बहुबुद्धशतसहस्रचरिताविनोऽर्थिनश्चानुत्तरायाः सम्यक्संबोधेः । अथ खलु भिक्षवस्ते षोडश श्रामणेरास्तं भगवन्तं महाभिज्ञाज्ञानाभिभुवं तथागतमर्हन्तं सम्यक्संबुद्धमेतदूचुः - इमानि खलु पुनर्भगवंस्तथागतस्य बहूनि श्रावककोटीनयुतशतसहस्राणि महर्द्धिकानि महानुभावानि महेशाख्यानि भगवतो धर्मदेशनया परिनिष्पन्नानि । तत्साधु भगवांस्तथागतोऽर्हन् सम्यक्संबुद्धोऽस्माकमनुकम्पामुपादाय अनुत्तरां सम्यक्संबोधिमारभ्य धर्मं देशयतु, यद्वयमपि तथागतस्यानुशिक्षेमहि । अर्थिनो वयं भगवंस्तथागतज्ञानदर्शनेन । भगवानेवास्माकमस्मिन्नेवार्थे साक्षी । त्वं च भगवन् सर्वसत्त्वाशयज्ञो जानीषे अस्माकमध्याशयमिति ॥
(वैद्य ११८)

तेन खलु पुनर्भिक्षवः समयेन तान् बालान् दारकान् राजकुमारान् प्रव्रजितान् श्रामणेरान् दृष्ट्वा यावांस्तस्य राज्ञश्चक्रवर्तिनः परिवारः, ततोऽर्धः प्रव्रजितोऽभूदशीतिप्राणिकोटीनयुतशतसहस्राणि ॥

अथ खलु भिक्षवः स भगवान्महाभिज्ञाज्ञानाभिभूस्तथागतोऽर्हन् सम्यक्संबुद्धस्तेषां श्रामणेराणामध्याशयं विदित्वा विंशतेः कल्पसहस्राणामत्ययेन सद्धर्मपुण्डरीकं नाम धर्मपर्यायं सूत्रान्तं महावैपुल्यं बोधिसत्त्वाववादं सर्वबुद्धपरिग्रहं विस्तरेण संप्रकाशयामास तासां सर्वासां चतसृणां पर्षदाम् ॥

तेन खलु पुनर्भिक्षवः समयेन तस्य भगवतो भाषितं ते षोदश राजकुमाराः श्रामणेरा उद्गृहीतवन्तो धारितवन्त आराधितवन्तः पर्याप्तवन्तः ॥

अथ खलु भिक्षवः स भगवान्महाभिज्ञाज्ञानाभिभूस्तथागतोऽर्हन् सम्यक्संबुद्धस्तान् षोडश श्रामणेरान् व्याकार्षीदनुत्तरायां सम्यक्संबोधौ । तस्य खलु पुनर्भिक्षवो महाभिज्ञाज्ञानाभिभुवस्तथागतस्यार्हतः सम्यक्संबुद्धस्येमं सद्धर्मपुण्डरीकं धर्मपर्यायं भाषमाणस्य श्रावकाश्चाधिमुक्तवन्तः । ते च षोडश श्रामणेरा बहूनि च प्राणिकोटीनयुतशतसहस्राणि विचिकित्साप्राप्तान्यभूवन् ॥

अथ खलु भिक्षवः स भगवान्महाभिज्ञाज्ञानाभिभूस्तथागतोऽर्हन् सम्यक्संबुद्ध इमं सद्धर्मपुण्डरीकं धर्मपर्यायमष्टौ कल्पसहस्राण्यविश्रान्तो भाषित्वा विहारं प्रविष्टः प्रतिसंलयनाय । तथा प्रतिसंलीनश्च भिक्षवः स तथागतश्चतुरशीतिकल्पसहस्राणि विहारस्थित एवासीत् ॥

अथ खलु भिक्षवस्ते षोडश श्रामणेरास्तं भगवन्तं महाभिज्ञाज्ञानाभिभुवं तथागतं प्रतिसंलीनं विदित्वा पृथक्पृथग्धर्मासनानि सिंहासनानि प्रज्ञाप्य तेषु निषण्णास्तं भगवन्तं महाभिज्ञाज्ञानाभिभुवं तथागतं नमस्कृत्य तं सद्धर्मपुण्डरीकं धर्मपर्यायं विस्तरेण चतसृणां पर्षदां चतुरशीतिकल्पसहस्राणि संप्रकाशितवन्तः । तत्र भिक्षव एकैकः श्रामणेरो बोधिसत्त्वः षष्टिषष्टिगङ्गानदीवालुकासमानि प्राणिकोटीनयुतशतसहस्राण्यनुत्तरायां सम्यक्संबोधौ परिपाचितवान् समादापितवान् संहर्षितवान् समुत्तेजितवान् संप्रहर्षितवानवतारितवान् ॥

अथ खलु भिक्षवः स भगवान्महाभिज्ञाज्ञानाभिभूस्तथागतोऽर्हन् सम्यक्संबुद्धस्तेषां
चतुरशीतेः कल्पसहस्राणामत्ययेन स्मृतिमान् संप्रजानस्तस्मात्समाधेर्व्युत्तिष्ठत् । व्युत्थाय च स भगवान्महाभिज्ञाज्ञानाभिभूस्तथागतो येन तद्धर्मासनं तेनोपसंक्रामत् । उपसंक्रम्य प्रज्ञप्त एवासने न्यषीदत् । समनन्तरनिषण्णश्च खलु पुनर्भिक्षवः स भगवान्महाभिज्ञाज्ञानाभिभूस्तथागतस्तस्मिन् धर्मासने, अथ तावदेव सर्वावन्तं पर्षन्मण्डलमवलोक्य भिक्षुसंघमामन्त्रयामासआश्चर्यप्राप्ता भिक्षवोऽद्भुतप्राप्ता इमे षोडश श्रामणेराः प्रज्ञावन्तो बहुबुद्धकोटीनयुतशतसहस्रपर्युपासिताश्चीर्णचरिता बुद्धज्ञानपर्युपासका बुद्धज्ञानप्रतिग्राहका बुद्धाज्ञानावतारका बुद्धज्ञानसंदर्शकाः । पर्युपासध्वं भिक्षव एतान् षोडश श्रामणेरान् पुनः पुनः । ये केचिद्भिक्षवः (वैद्य ११९) श्रावकयानिका वा प्रत्येकबुद्धयानिका वा बोधिसत्त्वयानिका वा एषां कुलपुत्राणां धर्मदेशनां न प्रतिक्षेप्स्यन्ति । न प्रतिबाधिष्यन्ते, सर्वे ते क्षिप्रमनुत्तरायाः सम्यक्संबोधेर्लाभिनो भविष्यन्ति, सर्वे च ते तथागतज्ञानमनुप्राप्स्यन्ति ॥

तैः खलु पुनर्भिक्षवः षोडशभिः कुलपुत्रैस्तस्य भगवतः शासनेऽयं सद्धर्मपुण्डरीको धर्मपर्यायः पुनः पुनः संप्रकाशितोऽभूत् । तैः खलु पुनर्भिक्षवः षोडशभिः श्रामणेरैर्बोधिसत्त्वैर्महासत्त्वैर्यानि तान्येकैकेन बोधिसत्त्वेन महासत्त्वेन षष्टिषष्टिगङ्गानदीवालुकासमानि सत्त्वकोटीनयुतशतसहस्राणि बोधाय समादापितान्यभूवन्, सर्वाणि च तानि तैरेव सार्धं तासु तासु जातिष्वनुप्रव्रजितानि । तान्येव समनुपश्यन्तस्तेषामेवान्तिकाद्धर्ममश्रौषुः । तैश्चत्वारिंशद्बुद्धकोटीसहस्राण्यारागितानि । केचिदद्याप्यारागयन्ति ॥

आरोचयामि वो भिक्षवः, प्रतिवेदयामि वः । ये ते षोडश राजकुमाराः कुमारभूता ये तस्य भगवतः शासने श्रामणेरा धर्मभाणका अभूवन्, सर्वे तेऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः । सर्वे च त एतर्हि तिष्ठन्ति ध्रियन्ते यापयन्ति । दशसु दिक्षु नानाबुद्धक्षेत्रेषु बहूनां श्रावकबोधिसत्त्वकोटीनयुतशतसहस्राणां धर्मं देशयन्ति । यदुत पूर्वस्यां दिशि भिक्षवोऽभिरत्यां लोकधातावक्षोभ्यो नाम तथागतोऽर्हन् सम्यक्संबुद्धो मेरुकूटश्च नाम तथागतोऽर्हन् सम्यक्संबुद्धः । पूर्वदक्षिणस्यां दिशि भिक्षवः सिंहघोषश्च नाम तथागतोऽर्हन् सम्यक्संबुद्धः सिंहध्वजश्च नाम तथागतोऽर्हन् सम्यक्संबुद्धः । दक्षिणस्यां दिशि भिक्षवः आकाशप्रतिष्ठितश्च नाम तथागतोऽर्हन् सम्यक्संबुद्धो नित्यपरिनिर्वृतश्च नाम तथागतोऽर्हन् सम्यक्संबुद्धः । दक्षिणपश्चिमायां दिशि भिक्षव इन्द्रध्वजश्च नाम तथागतोऽर्हन् सम्यक्संबुद्धो ब्रह्मध्वजश्च नाम तथागतोऽर्हन् सम्यक्संबुद्धः ।
पश्चिमायां दिशि भिक्षवोऽमितायुश्च नाम तथागतोऽर्हन् सम्यक्संबुद्धः सर्वलोकधातूपद्रवोद्वेगप्रत्युत्तीर्णश्च नाम तथागतोऽर्हन् सम्यक्संबुद्धः । पश्चिमोत्तरस्यां दिशि भिक्षवस्तमालपत्रचन्दनगन्धाभिज्ञश्च नाम तथागतोऽर्हन् सम्यक्संबुद्धो मेरुकल्पश्च नाम तथागतोऽर्हन् सम्यक्संबुद्धः । उत्तरस्यां दिशि भिक्षवो मेघस्वरदीपश्च नाम तथागतोऽर्हन् सम्यक्संबुद्धो मेघस्वरराजश्च नाम तथागतोऽर्हन् सम्यक्संबुद्धः । उत्तरपूर्वस्यां दिशि भिक्षवः सर्वलोकभयच्छम्भितत्वविध्वंसनरकरश्च नाम तथागतोऽर्हन् सम्यक्संबुद्धः । अहं च भिक्षवः शाक्यमुनिर्नाम तथागतोऽर्हन् सम्यक्संबुद्धः षोडशमो मध्ये खल्वस्यां सहायां लोकधातावनुत्तरां सम्यक्संबोधिमभिसंबुद्धः ॥

ये पुनस्ते भिक्षवस्तदा अस्माकं श्रामणेरभूतानां सत्त्वां धर्मं श्रुतवन्तः तस्य भगवतः शासन एकैकस्य बोधिसत्त्वस्य महासत्त्वस्य बहूनि गङ्गानदीवालुकासमानि सत्त्वकोटीनयुतशतसहस्राणि यान्यस्माभिः समादापितान्यनुत्तरायां सम्यक्संबोधौ, तान्येतानि भिक्षवोऽद्यापि श्रावकभूमावेवावस्थितानि । परिपाच्यन्त एवानुत्तरायां सम्यक्संबोधौ । एषैवैषामानुपूर्वी अनुत्तरायाः सम्यक्संबोधेरभिसंबोधनाय । तत्कस्य हेतोः? एवं दुरधिमोच्यं हि भिक्षवस्तथागतज्ञानम् (वैद्य १२०) । कतमे च ते भिक्षवः सत्त्वाः, ये मया बोधिसत्त्वेन तस्य भगवतः शासने अप्रमेयाण्यसंख्येयानि गङ्गानदीवालुकासमानि सत्त्वकोटीनयुतशतसहस्राणि सर्वज्ञताधर्ममनुश्रावितानि? यूयं ते भिक्षवस्तेन कालेन तेन समयेन सत्त्वा अभूवन् ॥

ये च मम परिनिर्वृतस्य अनागतेऽध्वनि श्रावका भविष्यन्ति, बोधिसत्त्वचर्यां च श्रोष्यन्ति, न चावभोत्स्यन्ते बोधिसत्त्वा वयमिति, किंचापि ते भिक्षवः सर्वे परिनिर्वाणसंज्ञिनः परिनिर्वास्यन्ति, अपि तु खलु पुनर्भिक्षवो यदहमन्यासु लोकधातुष्वन्योन्यैर्नामधेयैर्विहरामि, तत्र ते पुनरुत्पत्स्यन्ते तथागतज्ञानं पर्येषमाणाः । तत्र च ते पुनरेवैतां क्रियां श्रोष्यन्ति । एकमेव तथागतानां परिनिर्वाणम् । नास्त्यन्यद्द्वितीयमितो बहिर्निर्वाणम् । तथागतानामेतद्भिक्षव उपायकौशल्यं वेदितव्यं धर्मदेशनाभिनिर्हारश्च । यस्मिन् भिक्षवः समये तथागतः परिनिर्वाणकालसमयमात्मनः समनुपश्यति, परिशुद्धं च पर्षदं पश्यति अधिमुक्तिसारां शून्यधर्मगतिं गतां ध्यानवतीं महाध्यानवतीम्, अथ खलु भिक्षवस्तथागतोऽयं काल इति विदित्वा सर्वान् बोधिसत्त्वान् सर्वश्रावकांश्च संनिपात्य पश्चादेतमर्थं संश्रावयति । न भिक्षवः किंचिदस्ति लोके द्वितीयं नाम यानं परिनिर्वाणं वा, कः पुनर्वादस्तृतीयस्य? उपायकौशल्यं खल्विदं भिक्षवस्तथागतानामर्हताम् - दूरप्रनष्टं सत्त्वधातुं विदित्वा हीनाभिरतान् कामपङ्कमग्नान्, तत एषां भिक्षवस्तथागतस्तन्निर्वाणं भाषते यदधिमुच्यन्ते ॥

तद्यथापि नाम भिक्षव इह स्यात्पञ्चयोजनशतिकमटवीकान्तारम् । महांश्चात्र जनकायः प्रतिपन्नो भवेद्रत्नदीपं गमनाय । देशिकश्चैषामेको भवेद्व्यक्तः पण्डितो निपुणो मेधावी कुशलः खल्वटवीदुर्गाणाम् । स च तं सार्थमटवीमवक्रामयेत् । अथ खलु स महाजनकायः श्रान्तः क्लान्तो भीतस्त्रस्तः एवं वदेत्- यत्खल्वार्य देशिक परिणायक जानीयाः - वयं हि श्रान्ताः क्लान्ता भीतास्त्रस्ता अनिर्वृताः । पुनरेव प्रतिनिवर्तयिष्यामः । अतिदूरमितोऽटवीकान्तारमिति । अथ खलु भिक्षवः स देशिक उपायकुशलस्तान् पुरुषान् प्रतिनिवर्तितुकामान् विदित्वा एवं चिन्तयेत्- मा खल्विमे तपस्विनस्तादृशं महारत्नद्वीपं न गच्छेयुरिति । स तेषामनुकम्पार्थमुपायकौशल्यं प्रयोजयेत् । तस्या अटव्या मध्ये योजनशतं वा द्वियोजनशतं वा त्रियोजनशतं वा अतिक्रम्य ऋद्धिमयं नगरमभिनिर्मिमीयात् । ततस्तान् पुरुषानेवं वदेत्- मा भवन्तो भैष्ट, मा निवर्तध्वम् । अयमसौ महाजनपदः । अत्र विश्राम्यत । अत्र वो यानि कानिचित्करणीयानि तानि सर्वाणि कुरुध्वम् । अत्र निर्वाणप्राप्ता विहरध्वमत्र विश्रान्ताः । यस्य पुनः कार्यं भविष्यति, स तं महारत्नद्वीपं गमिष्यति ॥

अथ खलु भिक्षवस्ते कान्तारप्राप्ताः सत्त्वा आश्चर्यप्राप्ता अद्भुतप्राप्ता भवेयुः - मुक्ता वयमटवीकान्तारात् । इह निर्वाणप्राप्ता विहरिष्याम इति । अथ खलु भिक्षवस्ते पुरुषास्तदृद्धिमयं नगरं प्रविशेयुः, आगतसंज्ञिनश्च भवेयुः, निस्तीर्णसंज्ञिनश्च भवेयुः । निर्वृताः शीतीभूता स्म इति मन्येरन् । ततस्तान् देशिको विश्रान्तान् विदित्वा तदृद्धिमयं नगरमन्तर्धापयेत् । अन्तर्धापयित्वा च तान् पुरुषानेवं वदेत्- आगच्छन्तु भवन्तः सत्त्वाः । अभ्यासन्न एष महारत्नद्वीपः । इदं तु मया नगरं युष्माकं विश्रामणार्थमभिनिर्मितमिति ॥
(वैद्य १२१)

एवमेव भिक्षवस्तथागतोऽर्हन् सम्यक्संबुद्धो युष्माकं सर्वसत्त्वानां च देशिकः । अथ खलु भिक्षवस्तथागतोऽर्हन् सम्यक्संबुद्ध एवं
पश्यति - महदिदं क्लेशकान्तारं निर्गन्तव्यं निष्क्रान्तव्यं प्रहातव्यम् । मा खल्विमे एकमेव बुद्धज्ञानं श्रुत्वा द्रवेणैव प्रतिनिवर्तयेयुः, नैवोपसंक्रमेयुः । बहुपरिक्लेशमिदं बुद्धज्ञानं समुदानयितव्यमिति । तत्र तथागतः सत्त्वान् दुर्बलाशयान् विदित्वा यथा स देशिकस्तदृद्धिमयं नगरमभिनिर्मितीते तेषां सत्त्वानां विश्रामणार्थम्, विश्रान्तानां चैषामेवं कथयति - इदं खलु ऋद्धिमयं नगरमिति, एवमेव भिक्षवस्तथागतोऽप्यर्हन् सम्यक्संबुद्धो महोपायकौशल्येन अन्तरा द्वे निर्वाणभूमी सत्त्वानां विश्रामणार्थं देशयति संप्रकाशयति यदिदं श्रावकभूमिं प्रत्येकबुद्धभूमिं च । यस्मिंश्च भिक्षवः समये ते सत्त्वास्तत्र स्थिता भवन्ति, अथ खलु भिक्षवस्तथागतोऽप्येवं संश्रावयति - न खलु पुनर्भिक्षवो यूयं कृतकृत्याः कृतकरणीयाः । अपि तु खलु पुनर्भिक्षवो युष्माकमभ्यासः । इतस्तथागतज्ञानं व्यवलोकयध्वं भिक्षवो व्यवचारयध्वम् । यद्युष्माकं निर्वाणं नैव निर्वाणम्, अपि तु खलु पुनरूपायकौशल्यमेतद्भिक्षवस्तथागतानामर्हतां सम्यक्संबुद्धानां यत्त्रीणि यानानि संप्रकाशयन्तीति ॥

अथ खलु भगवानिममेवार्थं भूयस्या मात्रयोपदर्शयमानस्तस्यां वेलायामिमा गाथा अभाषत -

अभिज्ञज्ञानाभिभु लोकनायको यद्बोधिमण्डस्मि निषण्ण आसीत् ।
दशेह सो अन्तरकल्प पूर्णान्न लप्सि बोधिं परमार्थदर्शी ॥ ७.६० ॥
देवाथ नागा असुराथ गुह्यका उद्युक्त पूजार्थ जिनस्य तस्य ।
पुष्पाण वर्षं प्रमुमोचु तत्र बुद्धे च बोधिं नरनायकेऽस्मिन् ॥ ७.६१ ॥
उपरिं च खे दुन्दुभयो विनेदुः सत्कारपूजार्थ जिनस्य तस्य ।
सुदुःखिता चापि जिनेन तत्र चिरबुध्यमानेन अनुत्तरं पदम् ॥ ७.६२ ॥
दशान चो अन्तरकल्प अत्ययात्स्पृशे स बोधिं भगवाननाभिभूः ।
हृष्टा उदग्रास्तद आसु सर्वे देवा मनुष्या भुजगासुराश्च ॥ ७.६३ ॥
वीराः कुमारा अथ तस्य षोडश पुत्रा गुणाढ्या नरनायकस्य ।
(वैद्य १२२)
उपसंक्रमी प्राणीसहस्रकोटिभिः पुरस्कृतास्तं द्विपदेन्द्रमग्र्यम् ॥ ७.६४ ॥
वन्दित्व पादौ च विनायकस्य अध्येषिषू धर्म प्रकाशयस्व ।
अस्मांश्च तर्पेहि इमं च लोकं सुभाषितेनेह नरेन्द्रसिंह ॥ ७.६५ ॥
चिरस्य लोकस्य दशद्दिशेऽस्मिन् विदितोऽसि उत्पन्नु महाविनायक ।
निमित्तसंचोदनहेतु प्राणिनां ब्राह्मा विमानानि प्रकम्पयन्तः ॥ ७.६६ ॥
दिशाय पूर्वाय सहस्रकोट्यः क्षेत्राण पञ्चाशदभूषि कम्पिताः ।
तत्रापि ये ब्राह्म विमान अग्रास्ते तेजवन्तो अधिमात्रमासि ॥ ७.६७ ॥
विदित्व ते पूर्वनिमित्तमीदृशमुपसंक्रमी लोकविनायकेन्द्रम् ।
पुष्पैरिहाभ्योकिरियाण नायकमर्पेन्ति ते सर्व विमान तस्य ॥ ७.६८ ॥
अध्येषिषू चक्रप्रवर्तनाय गाथाभिगीतेन अभिसंस्तविंसु ।
तूष्णीं च सो आसि नरेन्द्रराजा न ताव कालो मम धर्म भाषितुम् ॥ ७.६९ ॥
एवं दिशि दक्षिणियां पि तत्र अथ पश्चिमा हेष्टिम उत्तरस्याम् ।
उपरिष्टिमायां विदिशासु चैव आगत्य ब्रह्माण सहस्रकोट्यः ॥ ७.७० ॥
पुष्पेभि अभ्योकिरियाण नायकं पादौ च वन्दित्व विनायकस्य ।
निर्यातयित्वा च विमान सर्वानभिष्टवित्वा पुनरभ्ययाचि ॥ ७.७१ ॥
(वैद्य १२३)
प्रवर्तया चक्रमनन्तचक्षुः सुदुर्लभस्त्वं बहुकल्पकोटिभिः ।
दर्शेहि मैत्रीबल पूर्वसेवितमपावृणोही अमृतस्य द्वारम् ॥ ७.७२ ॥
अध्येषणां ज्ञात्व अनन्तचक्षुः प्रकाशते धर्म बहुप्रकारम् ।
चत्वारि सत्यानि च विस्तरेण प्रतीत्य सर्वे इमि भाव उत्थिताः ॥ ७.७३ ॥
अविद्य आदीकरियाण चक्षुमान् प्रभाषते स मरणान्तदुःखम् ।
जातिप्रसूता इमि सर्वदोषा मृत्युं च मानुष्यमिमेव जानथ ॥ ७.७४ ॥
समनन्तरं भाषितु धर्म तेन बहुप्रकारा विविधा अनन्ताः ।
श्रुत्वानशीती नयुतान कोट्यः सत्त्वाः स्थिताः श्रावक भूतले लघुम् ॥ ७.७५ ॥
क्षणं द्वितीयमपरमभूषि जिनस्य तस्यो बहु धर्म भाषतः ।
विशुद्धसत्त्वा यथ गङ्गवालुकाः क्षणेन ते श्रावकभूत आसीत् ॥ ७.७६ ॥
ततोत्तरी अगणियु तस्य आसीत्संघस्तदा लोकविनायकस्य ।
कल्पान कोटीन्ययुता गणेन्त एकैक नो चान्तु लभेय तेषाम् ॥ ७.७७ ॥
ये चापि ते षोडश राजपुत्रा ये औरसा चैलकभूत सर्वे ।
ते श्रामणेरा अवचिंसु तं जिनं प्रकाशया नायक अग्रधर्मम् ॥ ७.७८ ॥
यथा वयं लोकविदू भवेम यथैव त्वं सर्वजिनानमुत्तम ।
(वैद्य १२४)
इमे च सत्त्वा भवि सर्वि एव यथैव त्वं वीर विशुद्धचक्षुः ॥ ७.७९ ॥
सो चा जिनो आंशयु ज्ञात्व तेषां कुमारभूतान तथात्मजानाम् ।
प्रकाशयी उत्तममग्रबोधिं दृष्टान्तकोटीनयुतैरनेकैः ॥ ७.८० ॥
हेतूसहस्रैरुपदर्शयन्तो अभिज्ञज्ञानं च प्रवर्तयन्तः ।
भूतां चरिं दर्शयि लोकनाथो यथा चरन्तो विदु बोधिसत्त्वाः ॥ ७.८१ ॥
इदमेव सद्धर्मपुण्डरीकं वैपुल्यसूत्रं भगवानुवाच ।
गाथासहस्रेहि अनल्पकेहि येषां प्रमाणं यथ गङ्गवालिकाः ॥ ७.८२ ॥
सो चा जिनो भाषिय सूत्रमेतद्विहारु प्रविशित्व विलक्षयीत ।
पूर्णानशीतिं चतुरश्च कल्पान् समाहितैकासनि लोकनाथः ॥ ७.८३ ॥
ते श्रामणेराश्च विदित्व नायकं विहारि आसन्नमनिष्क्रमन्तम् ।
संश्रावयिंसु बहुप्राणिकोटिनां बौद्ध इमं ज्ञानमनास्रवं शिवम् ॥ ७.८४ ॥
पृथक्पृथगासन प्रज्ञपित्वा अभाषि तेषामिदमेव सूत्रम् ।
सुगतस्य तस्य तद शासनस्मिनधिकार कुर्वन्ति ममेवरूपम् ॥ ७.८५ ॥
गङ्गा यथा वालुक अप्रमेया सहस्र षष्टिं तद श्रावयिंसु ।
एकैकु तस्य सुगतस्य पुत्रो विनेति सत्त्वानि अनल्पकानि ॥ ७.८६ ॥
(वैद्य १२५)
तस्यो जिनस्य परिनिर्वृतस्य चरित्व ते पश्यिसु बुद्धकोट्यः ।
तेही तदा श्रावितकेहि सार्धं कुर्वन्ति पूजां द्विपदोत्तमानाम् ॥ ७.८७ ॥
चरित्व चर्यां विपुलां विशिष्टां बुद्धा च ते बोधि दशद्दिशासु ।
ते षोडशा तस्य जिनस्य पुत्रा दिशासु सर्वासु द्वयो द्वयो जिनाः ॥ ७.८८ ॥
ये चापि संश्रावितका तदासी ते श्रावका तेष जिनान सर्वे ।
इममेव बोधिमुपनामयन्ति क्रमक्रमेण विविधैरुपायैः ॥ ७.८९ ॥
अहं पि अभ्यन्तरि तेष आसीन्मयापि संश्रावित सर्वि यूयम् ।
तेनो मम श्रावक यूयमद्य बोधावुपायेनिह सर्वि नेमि ॥ ७.९० ॥
अयं खु हेतुस्तद पूर्व आसीदयं प्रत्ययो येन हु धर्म भाषे ।
नयाम्यहं येन ममाग्रबोधिं मा भिक्षवो उत्रसथेह स्थाने ॥ ७.९१ ॥
यथाटवी उग्र भवेय दारुणा शून्या निरालम्ब निराश्रया च ।
बहुश्वापदा चैव अपानिया च बालान सा भीषणिका भवेत ॥ ७.९२ ॥
पुरूषाण चो तत्र सहस्र नेका ये प्रस्थितास्तामटवीं भवेयुः ।
अटवी च सा शून्य भवेत दीर्घा पूर्णानि पञ्चाशत योजनानि ॥ ७.९३ ॥
पुरुषश्च आढ्यः स्मृतिमन्तु व्यक्तो धीरो विनीतश्च विशारदश्च ।
यो देशिकस्तेष भवेत तत्र अटवीय दुर्गाय सुभैरवाय ॥ ७.९४ ॥
(वैद्य १२६)
ते चापि खिन्ना बहुप्राणिकोट्य उवाच तं देशिक तस्मि काले ।
खिन्ना वयमार्य न शक्नुयाम निवर्तनमद्यिह रोचते नः ॥ ७.९५ ॥
कुशलश्च सो पि तद पण्डितश्च प्रणायकोपाय तदा विचिन्तयेत् ।
धिक्कष्ट रत्नैरिमि सर्वि बाला भ्रश्यन्ति आत्मान निवर्तयन्तः ॥ ७.९६ ॥
यन्नूनहमृद्धिबलेन वाद्य नगरं महन्तमभिनिर्मिणेयम् ।
प्रतिमण्डितं वेश्मसहस्रकोटिभिर्विहारौद्यानुपशोभितं च ॥ ७.९७ ॥
वापी नदीयो अभिनिर्मिणेयमारामपुष्पैः प्रतिमण्डितं च ।
प्राकारद्वारैरुपशोभितं च नारीनरैश्चाप्रतिमैरुपेतम् ॥ ७.९८ ॥
निर्माणु कृत्व इति तान् वदेय मा भायथा हर्ष करोथ चैव ।
प्राप्ता भवन्तो नगरं वरिष्ठं प्रविश्य कार्याणि कुरुष्व क्षिप्रम् ॥ ७.९९ ॥
उदग्रचित्ता भणथेह निर्वृता निस्तीर्ण सर्वा अटवी अशेषतः ।
आश्वासनार्थाय वदेति वाचं कथं न प्रत्यागत सर्वि अस्या ॥ ७.१०० ॥
विश्रान्तरूपांश्च विदित्व सर्वान् समानयित्वा च पुनर्ब्रवीति ।
आगच्छथ मह्य शृणोथ भाषतो ऋद्धीमयं नगरमिदं विनिर्मितम् ॥ ७.१०१ ॥
युष्माक खेदं च मया वित्दिवा निवर्तनं मा च भविष्यतीति ।
उपायकौशल्यमिदं ममेति जनेथ वीर्यं गमनाय द्वीपम् ॥ ७.१०२ ॥
(वैद्य १२७)
एमेव हं भिक्षव देशिको वा प्रणायकः प्राणिसहस्रकोटिनाम् ।
खिद्यन्त पश्यामि तथैव प्राणिनः क्लेशाण्डकोशं न प्रभोन्ति भेत्तुम् ॥ ७.१०३ ॥
ततो मया चिन्तितु एष अर्थो विश्रामभूता इमि निर्वृतीकृताः ।
सर्वस्य दुःखस्य निरोध एष अर्हन्तभूमौ कृतकृत्य यूयम् ॥ ७.१०४ ॥
समये यदा तु स्थित अत्र स्थाने पश्यामि यूयामर्हन्त तत्र सर्वान् ।
तदा च सर्वानिह संनिपात्य भूतार्थमाख्यामि यथैष धर्मः ॥ ७.१०५ ॥
उपायकौशल्य विनायकानां यद्यान देशेन्ति त्रयो महर्षी ।
एकं हि यानं न द्वितीयमस्ति विश्रामणार्थं तु द्वियान देशिता ॥ ७.१०६ ॥
ततो वदेमि अहमद्य भिक्षवो जनेथ वीर्यं परममुदारम् ।
सर्वज्ञज्ञानेन कृतेन यूयं नैतावता निर्वृति काचि भोति ॥ ७.१०७ ॥
सर्वज्ञज्ञानं तु यदा स्पृशिष्यथ दशो बला ये च जिनान धर्माः ।
द्वात्रिंशतीलक्षणरूपधारी बुद्धा भवित्वान भवेथ निर्वृताः ॥ ७.१०८ ॥
एतादृशी देशन नायकानां विश्रामहेतोः प्रवदन्ति निर्वृतिम् ।
विश्रान्त ज्ञात्वान च निर्वृतीये सर्वज्ञज्ञाने उपनेन्ति सर्वान् ॥ ७.१०९ ॥

इत्यार्यसद्धर्मपुण्डरीके धर्मपर्याये पूर्वयोगपरिवर्तो नाम सप्तमः ॥


_______________________________________________________________________________



(वैद्य १२८)

८: पञ्चभिक्षुशतव्याकरणपरिवर्तः ।

अथ खल्वायुष्मान् पूर्णो मैत्रायणीपुत्रो भगवतोऽन्तिकादिदमेवंरूपमुपायकौशल्यज्ञानदर्शनं संधाभाषितनिर्देशं श्रुत्वा एषां च महाश्रावकाणां व्याकरणं श्रुत्वा इमां च पूर्वयोगप्रतिसंयुक्तां कथां श्रुत्वा इमां च भगवतो वृषभतां श्रुत्वा आश्चर्यप्राप्तोऽभूदद्भुतप्राप्तोऽभून्निरामिषेण च चित्तेन प्रीतिप्रामोद्येन स्फुटोऽभूत् । महता च प्रीतिप्रामोद्येन महता च धर्मगौरवेण उत्थायासनाद्भगवतश्चरणयोः प्रणिपत्य एवं चित्तमुत्पादितवान् - आश्चर्यं भगवन्, आश्चर्यं सुगत । परमदुष्करं तथागता अर्हन्तः सम्यक्संबुद्धाः कुर्वन्ति, य इमं नानाधातुकं लोकमनुवर्तयन्ते, बहुभिश्चोपायकौशल्यज्ञाननिदर्शनैः सत्त्वानां धर्मं देशयन्ति, तस्मिंस्तस्मिंश्च सत्त्वान् विलग्नानुपायकौशल्येन प्रमोचयन्ति । किमत्र भगवनस्माभिः शक्यं कर्तुम्? तथागत एवास्माकं जानीते आशयं पूर्वयोगचर्यां च । स भगवतः पादौ शिरसाभिवन्द्य एकान्ते स्थितोऽभूद्भगवन्तमेव नमस्कुर्वननिमिषाभ्यां च नेत्राभ्यां संप्रेक्षमाणः ॥

अथ खलु भगवानायुष्मन्तः पूर्णस्य मैत्रायणीपुत्रस्य चित्ताशयमवलोक्य सर्वावन्तं भिक्षुसंघमामन्त्रयते स्म - पश्यथ भिक्षवो यूयमिमं श्रावकं पूर्णं मैत्रायणीपुत्रं यो मयास्य भिक्षुसंघस्य धर्मकथिकानामग्र्यो निर्दिष्टः, बहुभिश्च भूतैर्गुणैरभिष्टुतः, बहुभिश्च प्रकारैरस्मिन्मम शासने सद्धर्मपरिग्रहायाभियुक्तः । चतसृणां पर्षदां संहर्षकः समादापकः समुत्तेजकः संप्रहर्षकोऽक्लान्तो धर्मदेशनया, अलमस्य धर्मस्याख्याता, अलमनुग्रहीता सब्रह्मचारिणाम् । मुक्त्वा भिक्षवस्तथागतं नान्यः शक्तः पूर्णं मैत्रायणीपुत्रमर्थतो वा व्यञ्जनतो वा पर्यादातुम् । तत्किं मन्यध्वे भिक्षवो ममैवायं सद्धर्मपरिग्राहक इति? न खलु पुनर्भिक्षवो युष्माभिरेवं द्रष्टव्यम् । तत्कस्य हेतोः? अभिजानाम्यहं भिक्षवोऽतीतेऽध्वनि नवनवतीनां बुद्धकोटीनाम्, यत्र अनेनैव तेषां बुद्धानां भगवतां शासने सद्धर्मः परिगृहीतः । तद्यथापि नाम मम एतर्हि सर्वत्र चाग्र्यो धर्मकथिकानामभूत्, सर्वत्र च शून्यतागतिं गतोऽभूत् । सर्वत्र च प्रतिसंविदां लाभी अभूत्, सर्वत्र च बोधिसत्त्वाभिज्ञासु गतिं गतोऽभूत् । सुविनिश्चितधर्मदेशको निर्विचिकित्सधर्मदेशकः परिशुद्धधर्मदेशकश्चाभूत् । तेषां च बुद्धानां भगवतां शासने यावदायुष्प्रमाणं ब्रह्मचर्यं चरितवान् । सर्वत्र च श्रावक इति संज्ञायते स्म । स खल्वनेनोपायेन अप्रमेयाणामसंख्येयानां सत्त्वकोटीनयुतशतसहस्राणामर्थमकार्षीत्, अप्रमेयानसंख्येयांश्च सत्त्वान् परिपाचितवाननुत्तरायां सम्यक्संबोधौ । सर्वत्र च बुद्धकृत्येन सत्त्वानां प्रत्युपस्थितोऽभूत् । सर्वत्र चात्मनो बुद्धक्षेत्रं परिशोधयति स्म । सत्त्वानां च परिपाकायाभियुक्तोऽभूत् । एषामपि भिक्षवो विपश्यिप्रमुखानां सप्तानां तथागतानां येषामहं सप्तमः, एष एवाग्र्यो धर्मकथिकानामभूत् ॥
(वैद्य १२९)

यदपि तद्भिक्षवो भविष्यत्यनागतेऽध्वनि अस्मिन् भद्रकल्पे चतुर्भिर्बुद्धैरूनं बुद्धसहस्रम्, तेषामपि शासने एष एव पूर्णो मैत्रायणीपुत्रोऽग्र्यो धर्मकथिकानां भविष्यति, सद्धर्मपरिग्राहकश्च भविष्यति । एवमनागतेऽध्वनि अप्रमेयाणामसंख्येयानां बुद्धानां भगवतां सद्धर्ममाधारयिष्यति, अप्रमेयाणामसंख्येयानां सत्त्वानामर्थं करिष्यति, अप्रमेयानसंख्येयांश्च सत्त्वान् परिपाचयिष्यत्यनुत्तरायां सम्यक्संबोधौ । सततसमितं चाभियुक्तो भविष्यत्यात्मनो बुद्धक्षेत्रपरिशुद्धये सत्त्वपरिपाचनाय । स इमामेवंरूपां बोधिसत्त्वचर्यां परिपूर्य अप्रमेयैरसंख्येयैः कल्पैरनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते । धर्मप्रभासो नाम तथागतोऽर्हन् सम्यक्संबुद्धो लोके भविष्यति विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् । अस्मिन्नेव बुद्धक्षेत्र उत्पत्स्यते ॥

तेन खलु पुनर्भिक्षवः समयेन गङ्गानदीवालुकोपमास्त्रिसाहस्रमहासाहस्रलोकधातव एकं बुद्धक्षेत्रं भविष्यति । समं पाणितलजातं सप्तरत्नमयमपगतपर्वतं सप्तरत्नमयैः कूटागारैः परिपूर्णं भविष्यति । देवविमानानि चाकाशस्थितानि भविष्यन्ति । देवा अपि मनुष्यान् द्रक्ष्यन्ति, मनुष्या अपि देवान् द्रक्ष्यन्ति । तेन खलु पुनर्भिक्षवः समयेन इदं बुद्धक्षेत्रमपगतपापं भविष्यति अपगतमातृग्रामं च । सर्वे च ते सत्त्वा औपपादुका भविष्यन्ति ब्रह्मचारिणो मनोमयैरात्मभावैः स्वयंप्रभा ऋद्धिमन्तो वैहायसंगमा वीर्यवन्तः स्मृतिमन्तः प्रज्ञावन्तः सुवर्णवर्णैः समुच्छ्रयैर्द्वात्रिंशद्भिर्महापुरुषलक्षणैः समलंकृतविग्रहाः । तेन खलु पुनर्भिक्षवः समयेन तस्मिन् बुद्धक्षेत्रे तेषां सत्त्वानां द्वावाहारौ भविष्यतः । कतमौ द्वौ? यदुत धर्मप्रीत्याहारो ध्यानप्रीत्याहारश्च । अप्रमेयाणि चासंख्येयानि बोधिसत्त्वकोटीनयुतशतसहस्राणि भविष्यन्ति सर्वेषां च महाभिज्ञाप्राप्तानां प्रतिसंविद्गतिंगतानां सत्त्वाववादकुशलानाम् । गणनासमतिक्रान्ताश्चास्य श्रावका भविष्यन्ति महर्द्धिका महानुभावा अष्टविमोक्षध्यायिनः । एवमपरिमितगुणसमन्वागतं तद्बुद्धक्षेत्रं भविष्यति । रत्नावभासश्च नाम स कल्पो भविष्यति । सुविशुद्धा च नाम सा लोकधातुर्भविष्यति । अप्रमेयानसंख्येयांश्चास्य कल्पानायुष्प्रमाणं भविष्यति । परिनिर्वृतस्य च तस्य भगवतो धर्मप्रभासस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य सद्धर्मश्चिरस्थायी भविष्यति । रत्नमयैश्च स्तूपैः सा लोकधातुः स्फुटा भविष्यति । एवमचिन्त्यगुणसमन्वागतं भिक्षवस्तस्य भगवतस्तद्बुद्धक्षेत्रं भविष्यति ॥

इदमवोचद्भगवान् । इदं वदित्वा सुगतो ह्यथापरमेतदुवाच शास्ता -

शृणोथ मे भिक्षव एतमर्थं यथा चरी मह्य सुतेन चीर्णा ।
उपायकौशल्यसुशिक्षितेन यथा च चीर्णा इय बोधिचर्या ॥ ८.१ ॥
हीनाधिमुक्ता इम सत्त्व ज्ञात्वा उदारयाने च समुत्त्रसन्ति ।
(वैद्य १३०)
ततु श्रावका भोन्तिमि बोधिसत्त्वाः प्रत्येकबोधिं च निदर्शयन्ति ॥ ८.२ ॥
उपायकौशल्यशतैरनेकैः परिपाचयन्ति बहुबोधिसत्त्वान् ।
एवं च भाषन्ति वयं हि श्रावका दूरे वयमुत्तममग्रबोधिया ॥ ८.३ ॥
एतां चरिं तेष्वनुशिक्षमाणाः परिपाकु गच्छन्ति हि सत्त्वकोट्यः ।
हीनाधिमुक्ताश्च कुसीदरूपा अनुपूर्व ते सर्वि भवन्ति बुद्धाः ॥ ८.४ ॥
अज्ञानचर्यां च चरन्ति एते वयं खलु श्रावक अल्पकृत्याः ।
निर्विण्ण सर्वासु च्युतोपपत्तिषु स्वकं च क्षेत्रं परिशोधयन्ति ॥ ८.५ ॥
सरागतामात्मनि दर्शयन्ति सदोषतां चापि समोहतां च ।
दृष्टीविलग्नांश्च विदित्व सत्त्वांस्तेषां पि दृष्टिं समुपाश्रयन्ति ॥ ८.६ ॥
एवं चरन्तो बहु मह्य श्रावकाः सत्त्वानुपायेन विमोचयन्ति ।
उन्मादु गच्छेयु नरा अविद्वसू स चैव सर्वं चरितं प्रकाशयेत् ॥ ८.७ ॥
पूर्णो अयं श्रावक मह्य भिक्षवश्चरितो पुरा बुद्धसहस्रकोटिषु ।
तेषां च सद्धर्म परिग्रहीषीद्बौद्धमिदं ज्ञान गवेषमाणः ॥ ८.८ ॥
सर्वत्र चैषो अभु अग्रश्रावको बहुश्रुतश्चित्रकथी विशारदः ।
संहर्षकश्चा अकिलासि नित्यं सद बुद्धकृत्येन च प्रत्युपस्थितः ॥ ८.९ ॥
(वैद्य १३१)
महाअभिज्ञासु सदा गतिंगतः प्रतिसंविदानां च अभूषि लाभी ।
सत्त्वान चो इन्द्रियगोचरज्ञो धर्मं च देशेति सदा विशुद्धम् ॥ ८.१० ॥
सद्धर्म श्रेष्ठं च प्रकाशयन्तः परिपाचयी सत्त्वसहस्रकोट्यः ।
अनुत्तरस्मिन्निह अग्रयाने क्षेत्रं स्वकं श्रेष्ठु विशोधयन्तः ॥ ८.११ ॥
अनागते चापि तथैव अध्वे पूजेष्यती बुद्धसहस्रकोट्यः ।
सद्धर्म श्रेष्ठं च परिग्रहीष्यति स्वकं च क्षेत्रं परिशोधयिष्यति ॥ ८.१२ ॥
देशेष्यती धर्म सदा विशारदो उपायकौशल्यसहस्रकोटिभिः ।
बहूंश्च सत्त्वान् परिपाचयिष्यति सर्वज्ञज्ञानस्मि अनास्रवस्मिन् ॥ ८.१३ ॥
सो पूज कृत्वा नरनायकानां सद्धर्म श्रेष्ठं सद धारयित्वा ।
भविष्यती बुद्ध स्वयंभु लोके धर्मप्रभासो दिशतासु विश्रुतः ॥ ८.१४ ॥
क्षेत्रं च तस्य सुविशुद्ध भेष्यती रत्नान सप्तान सदा विशिष्टम् ।
रत्नवभासश्च स कल्पु भेष्यती सुविशुद्ध सो भेष्यति लोकधातुः ॥ ८.१५ ॥
बहुबोधिसत्त्वान सहस्रकोट्यो महाअभिज्ञासु सुकोविदानाम् ।
येहि स्फुटो भेष्यति लोकधातुः सुविशुद्ध शुद्धेहि महर्द्धिकेहि ॥ ८.१६ ॥
अथ श्रावकाणां पि सहस्रकोट्यः संघस्तदा भेष्यति नायकस्य ।
महर्द्धिकानष्टविमोक्षध्यायिनां प्रतिसंविदासू च गतिंगतानाम् ॥ ८.१७ ॥
(वैद्य १३२)
सर्वे च सत्त्वास्तहि बुद्धक्षेत्रे शुद्धा भविष्यन्ति च ब्रह्मचारिणः ।
उपपादुकाः सर्वि सुवर्णवर्णा द्वात्रिंशतीलक्षणरूपधारिणः ॥ ८.१८ ॥
आहारसंज्ञा च न तत्र भेष्यति अन्यत्र धर्मे रति ध्यानप्रीतिः ।
न मातृग्रामोऽपि च तत्र भेष्यति न चाप्यपायान च दुर्गतीभयम् ॥ ८.१९ ॥
एतादृशं क्षेत्रवरं भविष्यति पूर्णस्य संपूर्णगुणान्वितस्य ।
आकीर्ण सत्त्वेहि सुभद्रकेहि यत्किंचिमात्रं पि इदं प्रकाशितम् ॥ ८.२० ॥

अथ खलु तेषां द्वादशानां वशीभूतशतानामेतदभवत्- आश्चर्यप्राप्त स्म, अद्भुतप्राप्ताः स्म । सचेदस्माकमपि भगवान् यथेमेऽन्ये महाश्रावका व्याकृताः, एवमस्माकमपि तथागतः पृथक्पृथग्व्याकुर्यात् । अथ खलु भगवांस्तेषां महाश्रावकाणां चेतसैव चेतःपरिवितर्कमाज्ञाय आयुष्मन्तं महाकाश्यपमामन्त्रयते स्म - इमानि काश्यप द्वादश वशीभूतशतानि, येषामहमेतर्हि संमुखीभूतः । सर्वाण्येतान्यहं काश्यप द्वादश वशीभूतशतान्यनन्तरं व्याकरोमि । तत्र काश्यप कौण्डिन्यो भिक्षुर्महाश्रावको द्वाषष्टीनां बुद्धकोटीनयुतशतसहस्राणां परेण परतरं समन्तप्रभासो नाम तथागतोऽर्हन् सम्यक्संबुद्धो लोके भविष्यति, विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् । तत्र काश्यप अनेनैकेन नामधेयेन पञ्च तथागतशतानि भविष्यन्ति । अतः पञ्च महाश्रावकशतानि सर्वाण्यनन्तरमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते । सर्वाण्येव समन्तप्रभासनामधेयानि भविष्यन्ति । तद्यथा गयाकाश्यपो नदीकाश्यपः उरुबिल्वकाश्यपः कालः कालोदायी अनिरुद्धो रेवतः कप्फिणो बक्कुलश्चुन्दः स्वागतः इत्येवंप्रमुखानि पञ्च वशीभूतशतानि ॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -

कौण्डिन्यगोत्रो मम श्रावकोऽयं तथागतो भेष्यति लोकनाथः ।
अनागतेऽध्वानि अनन्तकल्पे विनेष्यते प्राणिसहस्रकोट्यः ॥ ८.२१ ॥
समन्तप्रभो नाम जिनो भविष्यति क्षेत्रं च तस्य परिशुद्ध भेष्यति ।
(वैद्य १३३)
अनन्तकल्पस्मि अनागतेऽध्वनि दृष्ट्वान बुद्धान् बहवो ह्यनन्तान् ॥ ८.२२ ॥
प्रभास्वरो बुद्धबलेनुपेतो विघुष्टशब्दो दशसु द्दिशासु ।
पुरस्कृतः प्राणिसहस्रकोटिभिर्देशेष्यती उत्तममग्रबोधिम् ॥ ८.२३ ॥
ततु बोधिसत्त्वा अभियुक्तरूपा विमानश्रेष्ठान्यभिरुह्य चापि ।
विहरन्त तत्र अनुचिन्तयन्ति विशुद्धशीला सद साधुवृत्तयः ॥ ८.२४ ॥
श्रुत्वान धर्मं द्विपदोत्तमस्य अन्यानि क्षेत्राण्यपि चो सदा ते ।
व्रजन्ति ते बुद्धसहस्रवन्दकाः पूजां च तेषां विपुलां करोन्ति ॥ ८.२५ ॥
क्षेणेन ते चापि तदास्य क्षेत्रं प्रत्यागमिष्यन्ति विनायकस्य ।
प्रभासनामस्य नरोत्तमस्य चर्याबलं तादृशकं भविष्यति ॥ ८.२६ ॥
षष्टिः सहस्रा परिपूर्णकल्पानायुष्प्रमाणं सुगतस्य तस्य ।
ततश्च भूयो द्विगुणेन तायिनः परिनिर्वृतस्येह स धर्म स्थास्यति ॥ ८.२७ ॥
प्रतिरूपकश्चास्य भविष्यते पुनस्त्रिगुणं ततो एत्तकमेव कालम् ।
सद्धर्मभ्रष्टे तद तस्य तायिनो दुखिता भविष्यन्ति नरा मरू च ॥ ८.२८ ॥
जिनान तेषां समनामकानां समन्तप्रभाणां पुरुषोत्तमानाम् ।
परिपूर्ण पञ्चाशत नायकानामेते भविष्यन्ति परंपराय ॥ ८.२९ ॥
(वैद्य १३४)
सर्वेष एतादृशकाश्च व्यूहा ऋद्धिबलं च तथ बुद्धक्षेत्रम् ।
गणश्च सद्धर्म तथैव ईदृशः सद्धर्मस्थानं च समं भविष्यति ॥ ८.३० ॥
सर्वेषमेतादृशकं भविष्यति नामं तदा लोकि सदेवकस्मिन् ।
यथा मया पूर्वि प्रकीर्तितासीत्समन्तप्रभासस्य नरोत्तमस्य ॥ ८.३१ ॥
परंपरा एव तथान्यमन्यं ते व्याकरिष्यन्ति हितानुकम्पी ।
अनन्तरायं मम अद्य भेष्यति यथैव शासाम्यहु सर्वलोकम् ॥ ८.३२ ॥
एवं खु एते त्वमिहाद्य काश्यप धारेहि पञ्चाशतनूनकानि ।
वशिभूत ये चापि ममान्यश्रावकाः कथयाहि चान्येष्वपि श्रावकेषु ॥ ८.३३ ॥

अथ खलु तानि पञ्चार्हच्छतानि भगवतः संमुखमात्मनो व्याकरणानि श्रुत्वा तुष्टा उदग्रा आत्तमनस प्रमुदिताः प्रीतिसौमनस्यजाता येन भगवांस्तेनोपसंक्रान्ताः । उपसंक्रम्य भगवतः पादयोः शिरोभिर्निपत्य एवमाहुः - अत्ययं वयं भगवन् देशयामो यैरस्माभिर्भगवन्नेवं सततसमितं चित्तं परिभावितम् - इदमस्माकं परिनिर्वाणम् । परिनिर्वृता वयमिति । यथापीदं भगवनव्यक्ता अकुशला अविधिज्ञाः । तत्कस्य हेतोः? यैर्नाम अस्माभिर्भगवंस्तथागतज्ञानेऽभिसंबोद्धव्ये एवंरूपेण परीत्तेन ज्ञानेन परितोषं गताः स्म । तद्यथापि नाम भगवन् कस्यचिदेव पुरुषस्य कंचिदेव मित्रगृहं प्रविष्टस्य मत्तस्य वा सुप्तस्य वा स मित्रोऽनर्घमणिरत्नं वस्त्रान्ते बध्नीयात्- अस्येदं मणिरत्नं भवत्विति । अथ खलु भगवन् स पुरुष उत्थायासनात्प्रकामेत् । सोऽन्यं जनपदप्रदेशं प्रपद्येत । स तत्र कृच्छ्रप्राप्तो भवेत् । आहारचीवरपर्येष्टिहेतोः कृच्छ्रमापद्येत । महता च व्यायामेन कथंचित्कंचिदाहारं प्रतिलभेत । तेन च संतुष्टो भवेदात्तमनस्कः प्रमुदितः । अथ खलु भगवंस्तस्य पुरुषस्य स पुराणमित्रः पुरुषो येन तस्य तदनर्घेयं मणिरत्नं वस्त्रान्ते बद्धम्, स तं पुनरेव पश्येत् । तमेवं वदेत्- किं त्वं भोः पुरुष कृच्छ्रमापद्यसे आहारचीवरपर्येष्टिहेतोः, यदा यावद्भोः पुरुष मया तव सुखविहारार्थं सर्वकामनिवर्तकमनर्घेयं मणिरत्नं वस्त्रान्ते उपनिबद्धम् । निर्यातितं ते भोः पुरुष ममैतन्मणिरत्नम् । तदेवमुपनिबद्धमेव भोः पुरुष वस्त्रान्ते मणिरत्नम् । न च नाम त्वं भोः पुरुष प्रत्यवेक्षसे - किं मम बद्धं येन वा बद्धं को हेतुः किंनिदानं वा (वैद्य १३५) बद्धमेतत्? बालजातीयस्त्वं भोः पुरुष यस्त्वं कृच्छ्रेण आहारचीवरं पर्येषमाणस्तुष्टिमापद्यसे । गच्छ त्वं भोः पुरुष एतन्मणिरत्नं ग्रहाय महानगरं गत्वा परिवर्तयस्त्व । तेन च धनेन सर्वाणि धनकरणीयानि कुरुष्वेति ॥

एवमेव भगवनस्माकमपि तथागतेन पूर्वमेव बोधिसत्त्वचर्यां चरता सर्वज्ञताचित्तान्युत्पादितान्यभूवन् । तानि च वयं भगवन्न जानीमो न बुध्यामहे । ते वयं भगवनर्हद्भूमौ निर्वृताः स्म इति संजानीमः । वयं कृच्छ्रं जीवामः, यद्वयं भगवनेवं परीत्तेन ज्ञानेन परितोषमापद्यामः । सर्वज्ञज्ञानप्रणिधानेन सदा अविनष्टेन । ते वयं भगवंस्तथागतेन संबोध्यमानाः - मा यूयं भिक्षव एतन्निर्वाणं मन्यध्वम् । संविद्यन्ते भिक्षवो युष्माकं संताने कुशलमूलानि यानि मया पूर्वं परिपाचितानि । एतर्हि च ममैवेदमुपायकौशल्यं धर्मदेशनाभिलापेन यद्यूयमेतर्हि निर्वाणमिति मन्यध्वे । एवं च वयं भगवता संबोधयित्वा अद्यानुत्तरायां सम्यक्संबोधौ व्याकृताः ॥

अथ खलु तानि पञ्च वशीभूतशतान्याज्ञातकौण्डिन्यप्रमुखानि तस्यां वेलायमिमा गाथा अभाषन्त -

हृष्टा प्रहृष्टा स्म श्रुणित्व एतामाश्वासनामीदृशिकामनुत्तराम् ।
यं व्याकृताः स्म परमाग्रबोधये नमोऽस्तु ते नायक नन्तचक्षुः ॥ ८.३४ ॥
देशेमहे अत्ययु तुभ्यमन्तिके यथैव बाला अविदू अजानकाः ।
यं वै वयं निर्वृतिमात्रकेण परितुष्ट आसीत्सुगतस्य शासने ॥ ८.३५ ॥
यथापि पुरुषो भवि कश्चिदेव प्रविष्ट स स्यादिह मित्रशालम् ।
मित्रं च तस्य धनवन्तमाढ्यं सो तस्य दद्याद्बहू खाद्यभोज्यम् ॥ ८.३६ ॥
संतर्पयित्वान च भोजनेन अनेकमूल्यं रतनं च दद्यात् ।
बद्ध्वान्तरीये वसनान्ति ग्रन्थिं दत्वा च तस्येह भवेत तुष्टः ॥ ८.३७ ॥
सो चापि प्रक्रान्तु भवेत बालो उत्थाय सोऽन्यं नगरं व्रजेत ।
सो कृच्छ्रप्राप्तः कृपणो गवेषी आहार पर्येषति खिद्यमानः ॥ ८.३८ ॥
(वैद्य १३६)
पर्येषितः भोजननिर्वृतः स्याद्भक्तमुदारमविचिन्तयन्तः ।
तं चापि रत्नं हि भवेत विस्मृतं बद्ध्वान्तरीये स्मृतिरस्य नास्ति ॥ ८.३९ ॥
तमेव सो पश्यति पूर्वमित्रो येनास्य दत्तं रतनं गृहे स्वे ।
तमेव सुष्ठू परिभाषयित्वा दर्शेति रत्नं वसनान्तरस्मिन् ॥ ८.४० ॥
दृष्ट्वा च सो परमसुखैः समर्पितो रत्नस्य तस्यो अनुभाव ईदृशः ।
महाधनी कोशबली च सो भवेत्समर्पितः कामगुणेहि पञ्चहि ॥ ८.४१ ॥
एमेव भगवन् वयमेवरूपमजानमाना प्रणिधानपूर्वकम् ।
तथागतेनैव इदं हि दत्तं भवेषु पूर्वेष्विह दीर्घरात्रम् ॥ ८.४२ ॥
वयं च भगवन्निह बालबुद्धयो अजानकाः स्मो सुगतस्य शासने ।
निर्वाणमात्रेण वयं हि तुष्टा न उत्तरी प्रार्थयि नापि चिन्तयी ॥ ८.४३ ॥
वयं च संबोधित लोकबन्धुना न एष एतादृश काचि निर्वृतिः ।
ज्ञानं प्रणीतं पुरुषोत्तमानां या निर्वृतीयं परमं च सौख्यम् ॥ ८.४४ ॥
इदं चुदारं विपुलं बहूविधमनुत्तरं व्याकरणं च श्रुत्वा ।
प्रीता उदग्रा विपुला स्म जाताः परस्परं व्याकरणाय नाथ ॥ ८.४५ ॥

इत्यार्यसद्धर्मपुण्डरीके धर्मपर्याये पञ्चभिक्षुशतव्याकरणपरिवर्तो नामाष्टमः ॥



_______________________________________________________________________________




(वैद्य १३७)

९: आनन्दादिव्याकरणपरिवर्तः ।

अथ खल्वायुष्मानानन्दस्तस्यां वेलायामेवं चिन्तयामास - अप्येव नाम वयमेवंरूपं व्याकरणं प्रतिलभेमहि । एवं च चिन्तयित्वा अनुविचिन्त्य प्रार्थयित्वा उत्थायासनाद्भगवतः पादयोर्निपत्य, आयुष्मांश्च राहुलोऽप्येवं चिन्तयित्वा अनुविचिन्त्य प्रार्थयित्वा भगवतः पादयोर्निपत्य एवं वाचमभाषत - अस्माकमपि तावद्भगवनवसरो भवतु । अस्माकमपि तावत्सुगत अवसरो भवतु । अस्माकं हि भगवान् पिता जनको लयनं त्राणं च । वयं हि भगवन् सदेवमानुषासुरे लोकेऽतीव चित्रीकृताः - भगवतश्चैते पुत्रः भगवतश्चोपस्थायकाः भगवतश्च धर्मकोशं धारयन्तीति । तन्नाम भगवन् क्षिप्रमेव प्रतिरूपं भवेद्यद्भगवानस्माकं व्याकुर्यादनुत्तरायां सम्यक्संबोधौ ॥

अन्ये च द्वे भिक्षुसहस्रे सातिरेके शैक्षाशैक्षाणां श्रावकाणामुत्थायासनेभ्य एकांसमुत्तरासङ्गं कृत्वा अञ्जलिं प्रगृह्य भगवतोऽभिमुखं भगवन्तमुल्लोकयमाने तस्थतुः एतामेव चिन्तामनुविचिन्तयमाने यदुत इदमेव बुद्धज्ञानम् - अप्येव नाम वयमपि व्याकरणं प्रतिलभेमहि अनुत्तरायां सम्यक्संबोधाविति ॥

अथ खलु भगवानायुष्मन्तमानन्दमामन्त्रयते स्म - भविष्यसि त्वमानन्द अनागतेऽध्वनि सागरवरधरबुद्धिविक्रीडिताभिज्ञो नाम तथागतोऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् । द्वाषष्टीनां बुद्धकोटीनां सत्कारं कृत्वा, गुरुकारं माननां पूजनां च कृत्वा, तेषां बुद्धानां भगवतां सद्धर्मं धारयित्वा, शासनपरिग्रहं च कृत्वा अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसि । स त्वमानन्द अनुत्तरां सम्यक्संबोधिं संबुद्धः समानो विंशतिगङ्गानदीवालुकासमानि बोधिसत्त्वकोटीनयुतशतसहस्राणि परिपाचयिष्यस्यनुत्तरायां सम्यक्संबोधौ । समृद्धं च ते बुद्धक्षेत्रं भविष्यति वैडूर्यमयं च । अनवनामितवैजयन्ती च नाम सा लोकधातुर्भविष्यति । मनोज्ञशब्दाभिगर्जितश्च नाम स कल्पो भविष्यति । अपरिमितांश्च कल्पांस्तस्य भगवतः सागरवरधरबुद्धिविक्रीडिताभिज्ञस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य आयुष्प्रमाणं भविष्यति, येषां कल्पानां न शक्यं गणनया पर्यन्तोऽधिगन्तुम् । तावदसंख्येयानि तानि कल्पकोटीनयुतशतसहस्राणि तस्य भगवत आयुष्प्रमाणं भविष्यति । यावच्च आनन्द तस्य भगवतः सागरवरधरबुद्धिविक्रीडिताभिज्ञस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यायुष्प्रमाणं भविष्यति, तद्द्विगुणं परिनिर्वृतस्य सद्धर्मः स्थास्यति । यावांस्तस्य भगवतः सद्धर्मः स्थास्यति, तद्द्विगुणः सद्धर्मप्रतिरूपकं स्थास्यति । तस्य खलु पुनरानन्द सागरवरधरबुद्धिविक्रीडिताभिज्ञस्य तथागतस्य दशसु दिक्षु बहूनि गङ्गानदीवालुकासमानि बुद्धकोटीनयुतशतसहस्राणि वर्णं भाषिष्यन्ति ॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -

आरोचयामि अहु भिक्षुसंघे आनन्दभद्रो मम धर्मधारकः ।
(वैद्य १३८)
अनागतेऽध्वानि जिनो भविष्यति पूजित्व षष्टिं सुगतान कोट्यः ॥ ९.१ ॥
नामेन सो सागरबुद्धिधारी अभिज्ञप्राप्तो इति तत्र विश्रुतः ।
परिशुद्धक्षेत्रस्मि सुदर्शनीये अनोनतायां ध्वजवैजयन्त्याम् ॥ ९.२ ॥
तहि बोधिसत्त्वा यथा गङ्गवालिकास्ततश्च भूयो परिपाचयिष्यति ।
महर्द्धिकश्चो स जिनो भविष्यति दशद्दिशे लोकविघुष्टशब्दः ॥ ९.३ ॥
अमितं च तस्यायु तदा भविष्यति यः स्थास्यते लोकहितानुकम्पकः ।
परिनिर्वृतस्यापि जिनस्य तायिनो द्विगुणं च सद्धर्मु स तस्य स्थास्यति ॥ ९.४ ॥
प्रतिरूपकं तद्द्विगुणेन भूयः संस्थास्यते तस्य जिनस्य शासने ।
तदापि सत्त्वा यथा गङ्गवालिका हेतुं जनेष्यन्तिह बुद्धबोधौ ॥ ९.५ ॥

अथ खलु तस्यां पर्षदि नवयानसंप्रस्थितानामष्टानां बोधिसत्त्वसहस्राणामेतदभवत्- न बोधिसत्त्वानामपि तावदस्माभिरेवमुदारं व्याकरणं श्रुतपूर्वम्, कः पुनर्वादः श्रावकाणाम्? कः खल्वत्र हेतुर्भविष्यति, कः प्रत्यय इति? अथ खलु भगवांस्तेषां बोधिसत्त्वानां चेतसैव चेतः परिवितर्कमाज्ञाय तान् बोधिसत्त्वानामन्त्रयामास - सममस्माभिः कुलपुत्रा एकक्षणे एकमुहूर्ते मया च आनन्देन च अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितं धर्मगगनाभ्युद्गतराजस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य संमुखम् । तत्रैष कुलपुत्रा बाहुश्रुत्ये च सततसमितमभियुक्तोऽभूत्, अहं च वीर्यारम्भेऽभियुक्तः । तेन मया क्षिप्रतरमनुत्तरा सम्यक्संबोधिरभिसंबुद्धा । अयं पुनरानन्दभद्रो बुद्धानां भगवतां सद्धर्मकोशधर एव भवति स्म - यदुत बोधिसत्त्वानां परिनिष्पत्तिहेतोः प्रणिधानमेतत्कुलपुत्रा अस्य कुलपुत्रस्येति ॥

अथ खल्वायुष्मानानन्दो भगवतोऽन्तिकादात्मनो व्याकरणं श्रुत्वा अनुत्तरायां सम्यक्संबोधौ, आत्मनश्च बुद्धक्षेत्रगुणव्यूहान् श्रुत्वा, पूर्वप्रणिधानचर्यां च श्रुत्वा, तुष्ट उदग्र आत्तमनस्कः प्रमुदितः प्रीतिसौमनस्यजातोऽभूत् । तस्मिंश्च समये बहूनां बुद्धकोटीनयुतशतसहस्राणां सद्धर्ममनुस्मरति स्म, आत्मनश्च पुर्वप्रणिधानम् ॥
(वैद्य १३९)

अथ खल्वायुष्मानानन्दस्तस्यां वेलायामिमा गाथा अभाषत -

आश्चर्यभूता जिन अप्रमेया ये स्मारयन्ति मम धर्मदेशनाम् ।
परिनिर्वृतानां हि जिनान तायिनां समनुस्मरामी यथ अद्य श्वो वा ॥ ९.६ ॥
निष्काङ्क्षप्राप्तोऽस्मि स्थितोऽस्मि बोधये उपायकौशल्य ममेदमीद्दशम् ।
परिचारकोऽहं सुगतस्य भोमि सद्धर्म धारेमि च बोधिकारणात् ॥ ९.७ ॥

अथ खलु भगवानायुष्मन्तं राहुलभद्रमामन्त्रयते स्म - भविष्यसि त्वं राहुलभद्र अनागतेऽध्वनि सप्तरत्नपद्मविक्रान्तगामी नाम तथागतोऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् दशलोकधातुपरमाणुरजःसमांस्तथागतानर्हतः सम्यक्संबुद्धान् सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वा अर्चयित्वा । सदा तेषां बुद्धानां भगवतां ज्येष्ठपुत्रो भविष्यसि तद्यथापि नाम ममैतर्हि । तस्य खलु पुना राहुलभद्र भगवतः सप्तरत्नपद्मविक्रान्तगामिनस्तथागतस्यार्हतः सम्यक्संबुद्धस्य एवंरूपमेवायुष्प्रमाणं भविष्यति, एवं रूपैव सर्वाकारगुणसंपद्भविष्यति तद्यथापि नाम तस्य भगवतः सागरवरधरबुद्धिविक्रीडिताभिज्ञस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य सर्वाकारगुणोपेता बुद्धक्षेत्रगुणव्यूहा भविष्यन्ति । तस्यापि राहुल सागरवरधरबुद्धिविक्रीडिताभिज्ञस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य त्वमेव ज्येष्ठपुत्रो भविष्यसि । ततः पश्चात्परेणानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसीति ॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -

अयं ममा राहुल ज्येष्ठपुत्रो यो औरसो आसि कुमारभावे ।
बोधिं पि प्राप्तस्य ममैष पुत्रो धर्मस्य दायाद्यधरो महर्षिः ॥ ९.८ ॥
अनागतेऽध्वे बहुबुद्धकोट्यो यान् द्रक्ष्यसे येष प्रमाणु नास्ति ।
सर्वेष तेषां हि जिनान पुत्रो भविष्यती बोधि गवेषमाणः ॥ ९.९ ॥
(वैद्य १४०)
अज्ञातचर्या इय राहुलस्य प्रणिधानमेतस्य अहं प्रजानमि ।
करोति संवर्णन लोकबन्धुषु अहं किला पुत्र तथागतस्य ॥ ९.१० ॥
गुणान कोटीनयुताप्रमेयाः प्रमाणु येषां न कदाचिदस्ति ।
ये राहुलस्येह ममौरसत्य तथा हि एषो स्थितु बोधिकारणात् ॥ ९.११ ॥

अद्राक्षीत्खलु पुनर्भगवांस्ते द्वे श्रावकसहस्रे शैक्षाशैक्षाणां श्रावकाणां भगवन्तमवलोकयमाने अभिमुखं प्रसन्नचित्ते मृदुचित्ते मार्दवचित्ते । अथ खलु भगवांस्तस्यां वेलायामायुष्मन्तमानन्दमामन्त्रयते स्म - पश्यसि त्वमानन्द एते द्वे श्रावकसहस्रे शैक्षाशैक्षाणां श्रावकाणाम्? आह - पश्यामि भगवन्, पश्यामि सुगत । भगवानाह - सर्व एवैते आनन्द द्वे भिक्षु सहस्रे समं बोधिसत्त्वचर्यां समुदानयिष्यन्ति, पञ्चाशल्लोकधातुपरमाणुरजःसमांश्च बुद्धान् भगवतः सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वा अर्चयित्वा अपचायित्वा सद्धर्म च धारयित्वा पश्चिमे समुच्छ्रये एकक्षणेनैकमुहूर्तेनैकलवेनैकसंनिपातेन दशसु दिक्ष्वन्योन्यासु लोकधातुषु स्वेषु स्वेषु बुद्धक्षेत्रेष्वनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते । रत्नकेतुराजा नाम तथागता अर्हन्तः सम्यक्संबुद्धा भविष्यन्ति । परिपूर्णं चैषां कल्पमायुष्प्रमाणं भविष्यति । समाश्चैषां बुद्धक्षेत्रगुणव्यूहा भविष्यन्ति । समः श्रावकगणो बोधिसत्त्वगणश्च भविष्यति । समं चैषां परिनिर्वाणं भविष्यति । समश्चैषां सद्धर्मः स्थास्यति ॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -

द्वे वै सहस्रे इमे श्रावकाणामानन्द ये ते मम अग्रतः स्थिताः ।
तान् व्याकरोमी अहमद्य पण्डिताननागतेऽध्वानि तथागतत्वे ॥ ९.१२ ॥
अनन्त औपम्यनिदर्शनेहि बुद्धान अग्र्यां करियाण पूजाम् ।
आरागयिष्यन्ति ममाग्रबोधिं स्थिहित्व चरिमस्मि समुच्छ्रयस्मिन् ॥ ९.१३ ॥
एकेन नामेन दशद्दिशासु क्षणस्मि एकस्मि तथा मुहूर्ते ।
(वैद्य १४१)
निषद्य च द्रुमप्रवराण मूले बुद्धा भविष्यन्ति स्पृशित्व ज्ञानम् ॥ ९.१४ ॥
एकं च तेषामिति नाम भेष्यति रत्नस्य केतूतिह लोकि विश्रुताः ।
समानि क्षेत्राणि वराणि तेषां समो गणः श्रावकबोधिसत्त्वाः ॥ ९.१५ ॥
ऋद्धिप्रभूता इह सर्वि लोके समन्ततस्ते दशसु द्दिशासु ।
धर्मं प्रकाशेत्व यदापि निर्वृताः सद्धर्मु तेषां सममेव स्थास्यति ॥ ९.१६ ॥

अथ खलु ते शैक्षाशैक्षाः श्रावका भगवतोऽन्तिकात्संमुखं स्वानि स्वानि व्याकरणानि श्रुत्वा तुष्टा उदग्रा आत्तमनस्काः प्रमुदिताः प्रीतिसौमनस्यजाता भगवन्तं गाथाभ्यामध्यभाषन्त -

तृप्ताः स्म लोकप्रद्योत श्रुत्वा व्याकरणमिदम् ।
अमृतेन यथा सिक्ताः सुखिताः सम तथागत ॥ ९.१७ ॥
नास्माकं काङ्क्षा विमतिर्न भेष्याम नरोत्तमाः ।
अद्यास्माभिः सुखं प्राप्तं श्रुत्वा व्याकरणमिदम् ॥ ९.१८ ॥

इत्यार्यसद्धर्मपुण्डरीके धर्मपर्याये आनन्दराहुलाभ्यामन्याभ्यां च द्वाभ्यां भिक्षुसहस्राभ्यां व्याकरणपरिवर्तो नाम नवमः ॥



_______________________________________________________________________________




(वैद्य १४२)

१०: धर्मभाणकपरिवर्तः ।

अथ खलु भगवन् भैषज्यराजं बोधिसत्त्वं महासत्त्वमारभ्य तान्यशीतिं बोधिसत्त्वसहस्राण्यामन्त्रयते स्म - पश्यसि त्वं भैषज्यराज अस्यां पर्षदि बहुदेवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्यान् भिक्षुभिक्षुण्युपासकोपासिकाः श्रावकयानीयान् प्रत्येकबुद्धयानियान् बोधिसत्त्वयानीयांश्च, यैरयं धर्मपर्यायस्तथागतस्य संमुखं श्रुतः? आह - पश्यामि भगवन्, पश्यामि सुगत । भगवानाह - सर्वे स्वल्वेते भैषज्यराज बोधिसत्त्वा महासत्त्वाः, यैरस्यां पर्षदि अन्तशः एकापि गाथा श्रुता, एकपदमपि श्रुतम्, यैर्वा पुनरन्तश एकचित्तोत्पादेनाप्यनुमोदितमिदं सूत्रम् । सर्वा एता अहं भैषज्यराज चतस्रः पर्षदो व्याकरोम्यनुत्तरायां सम्यक्संबोधौ । येऽपि केचिद्भैषज्यराज तथागतस्य परिनिर्वृतस्य इमं धर्मपर्यायं श्रोष्यन्ति, अन्तश एकगाथामपि श्रुत्वा, अन्तश एकेनापि चित्तोत्पादेन अभ्यमुमोदयिष्यन्ति, तानप्यहं भैषज्यराज कुलपुत्रान् व कुलदुहितृर्वा व्याकरोम्यनुत्तरायां सम्यक्संबोधौ । परिपूर्णबुद्धकोटीनयुतशतसहस्रपर्युपासिताविनस्ते भैषज्यराज कुलपुत्रा वा कुलदुहितरो वा भैष्यन्ति । बुद्धकोटीनयुतशतसहस्रकृतप्रणिधानास्ते भैषज्यराजकुलपुत्रा वा कुलदुहितरो वा भविष्यन्ति । सत्त्वानामनुकम्पार्थमस्मिन् जम्बुद्वीपे मनुष्येषु प्रत्याजाता वेदितव्याः, य इतो धर्मपर्यायादन्तश एकगाथामपि धारयिष्यन्ति वाचयिष्यन्ति प्रकाशयिष्यन्ति संग्राहयिष्यन्ति लिखिष्यन्ति, लिखित्वा चानुस्मरिष्यन्ति, कालेन च कालं व्यवलोकयिष्यन्ति । तस्मिंश्च पुस्तके तथागतगौरवमुत्पादयिष्यन्ति, शास्तृगौरवेण सत्करिष्यन्ति गुरुकरिष्यन्ति मानयिष्यन्ति पूजयिष्यन्ति । तं च पुस्तकं पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकावाद्यादिभिर्नमस्काराञ्जलिकर्मभिश्च पूजयिष्यन्ति । ये केचिद्भैषज्यराज कुलपुत्रा वा कुलदुहितरो वा इतो धर्मपर्यायादन्तश एकगाथामपि धारयिष्यन्ति अनुमोदयिष्यन्ति वा, सर्वांस्तानहं भैषज्यराज व्याकरोम्यनुत्तरायां सम्यक्संबोधौ ॥

तत्र भैषज्यराज यः कश्चिदन्यतरः पुरुषो वा स्त्री वा एवं वदेत्- कीदृशाः खल्वपि ते सत्त्वा भविष्यन्त्यनागतेऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धा इति? तस्य भैषज्यराज पुरुषस्य वा स्त्रिया वा स कुलपुत्रो वा कुलदुहिता वा दर्शयितव्यः, य इतो धर्मपर्यायादन्तशश्चतुष्पादिकामपि गाथां धारयिता श्रावयिता वा देशयिता वा सगौरवो वेह धर्मपर्याये । अयं स कुलपुत्रो वा कुलदुहिता वा, यो ह्यनागतेऽध्वनि तथागतोऽर्हन् सम्यक्संबुद्धो भविष्यति । एवं पश्य । तत्कस्य हेतोः? स हि भैषज्यराज कुलपुत्रो वा कुलदुहिता व तथागतो वेदितव्यः सदेवकेन लोकेन । तस्य च तथागतस्यैवं सत्कारः कर्तव्यः, यः खल्वस्माद्धर्मपर्यायादन्तश एकगाथामपि धारयेत्, कः पुनर्वादो य इमं धर्मपर्यायं सकलसमाप्त मुद्गृह्णीयाद्धारयेद्वा वाचयेद्वा पर्यवाप्नुयाद्वा प्रकाशयेद्वा लिखेद्वा लिखापयेद्वा, लिखित्वा चानुस्मरेत् । तत्र च पुस्तके सत्कारं कुर्यात्गुरुकारं कुर्यात्माननां पूजनामर्चनामपचायनां पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकावाद्याञ्जलिनमस्कारैः प्रणामैः । परिनिष्पन्नः (वैद्य १४३) स भैषज्यराज कुलपुत्रो वा कुलदुहिता वा अनुत्तरायां सम्यक्संबोधौ वेदितव्यः । तथागतदर्शी च वेदितव्यः । लोकस्य हितानुकम्पकः प्रणिधानवशेनोपपन्नोऽस्मिन् जम्बुद्वीपे मनुष्येषु अस्य धर्मपर्यायस्य संप्रकाशनतायैः । यः स्वयमुदारं धर्माभिसंस्कारमुदारां च बुद्धक्षेत्रोपपत्तिं स्थापयित्वा अस्य धर्मपर्यायस्य संप्रकाशनहेतोर्मयि परिनिर्वृते सत्त्वानां हितार्थमनुकम्पार्थं च इहोपपन्नो वेदितव्यः । तथागतदूतः स
भैषज्यराज कुलपुत्रो वा कुलदुहिता वा वेदितव्यः । तथागतकृत्यकरस्तथागतसंप्रेषितः स भैषज्यराज कुलपुत्रो वा कुलदुहिता वा संज्ञातव्यः, य इमं धर्मपर्यायं तथागतस्य परिनिर्वृतस्य संप्रकाशयेत्, अन्तशो रहसि चौर्येणापि कस्यचिदेकसत्त्वस्यापि संप्रकाशयेदाचक्षीत वा ॥
यः खलु पुनर्भैषज्यराज कश्चिदेव सत्त्वो दुष्टचित्तः पापचित्तो रौद्रचित्तस्तथागतस्य संमुखं कल्पमवर्णं भाषेत्, यश्च तेषां तथारूपाणां धर्मभाणकानामस्य सूत्रान्तस्य धारकाणां गृहस्थानां वा प्रव्रजितानां वा एकामपि वाचमप्रियां संश्रावयेद्भूतां वा अभूतां वा, इद मागाढतरं पापकं कर्मेति वदामि । तत्कस्य हेतोः? तथागतभारणप्रतिमण्डितः स भैषज्यराज कुलपुत्रो वा कुलदुहिता वा वेदितव्यः । तथागतं स भैषज्यराज अंसेन परिहरति, य इमं धर्मपर्यायं लिखित्वा पुस्तकगतं कृत्वा अंसेन परिहरति । स येन येनैव प्रक्रामेत्, तेन तेनैव सत्त्वैरञ्जलीकरणीयः सत्कर्तव्यो गुरुकर्तव्यो मानयितव्यः पूजयितव्योऽर्चयितव्योऽपचायितव्यो दिव्यमानुष्यकैः पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकावाद्यखाद्यभोज्यान्नपानयानैरग्रप्राप्तैश्च दिव्यै रत्नराशिभिः । स धर्मभाणकः सत्कर्तव्यो गुरुकर्तव्यो मानयितव्यः पूजयितव्यः, दिव्याश्च रत्नराशयस्तस्य धर्मभाणकस्योपनामयितव्याः । तत्कस्य हेतोः? अप्येव नाम एकवारमपि इमं धर्मपर्यायं संश्रावयेत्, यं श्रुत्वा अप्रमेया असंख्येयाः सत्त्वाः क्षिप्रमनुत्तरायां सम्यक्संबोधौ परिनिष्पद्येयुः ॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -

बुद्धत्वे स्थातुकामेन स्वयंभूज्ञानमिच्छता ।
सत्कर्तव्याश्च ते सत्त्वा ये धारेन्ति इमं नयम् ॥ १०.१ ॥
सर्वज्ञत्वं च यो इच्छेत्कथं शीर्घं भवेदिति ।
स इमं धारयेत्सूत्रं सत्कुर्याद्वापि धारकम् ॥ १०.२ ॥
प्रेषितो लोकनाथेन सत्त्ववैनेयकारणात् ।
सत्त्वानामनुकम्पार्थं सूत्रं यो वाचयेदिदम् ॥ १०.३ ॥
उपपत्तिं शूभां त्यक्त्वा स धीर इह आगतः ।
सत्त्वानामनुकम्पार्थं सूत्रं यो धारयेदिदम् ॥ १०.४ ॥
उपपत्ति वशा तस्य येन सो दृश्यते तहि ।
पश्चिमे कालि भाषन्तो इदं सूत्रं निरुत्तरम् ॥ १०.५ ॥
(वैद्य १४४)
दिव्येहि पुष्पेहि च सत्करेत मानुष्यकैश्चापि हि सर्वगन्धैः ।
दिव्येहि वस्त्रेहि च छादयेया रत्नेहि अभ्योकिरि धर्मभाणकम् ॥ १०.६ ॥
कृताञ्जली तस्य भवेत नित्यं यथा जिनेन्द्रस्य स्वयंभुवस्तथा ।
यः पश्चिमे कालि सुभैरवेऽस्मिन् परिनिर्वृतस्य इद सुत्र धारयेत् ॥ १०.७ ॥
खाद्यं च भोज्यं च तथान्नपानं विहारशय्यासनवस्त्रकोट्यः ।
ददेय पूजार्थ जिनात्मजस्य अप्येकवारं पि वदेत सूत्रम् ॥ १०.८ ॥
तथागतानां करणीय कुर्वते मया च सो प्रेषित मानुषं भवम् ।
यः सूत्रमेतच्चरिमस्मि काले लिखेय धारेय श्रुणेय वापि ॥ १०.९ ॥
यश्चैव स्थित्वेह जिनस्य संमुखं श्रावेदवर्णं परिपूर्णकल्पम् ।
प्रदुष्टचित्तो भृकुटिं करित्वा बहुं नरोऽसौ प्रसवेत पापम् ॥ १०.१० ॥
यश्चापि सूत्रान्तधराण तेषां प्रकाशयन्तानिह सूत्रमेतत् ।
अवर्णमाक्रोश वदेय तेषां बहूतरं तस्य वदामि पापम् ॥ १०.११ ॥
नरश्च यो संमुख संस्तवेया कृताञ्जली मां परिपूर्णकल्पम् ।
गाथान कोटीनयुतैरनेकैः पर्येषमाणो इममग्रबोधिम् ॥ १०.१२ ॥
बहुं खु सो तत्र लभेत पुण्यं मां संस्तवित्वान प्रहर्षजातः ।
(वैद्य १४५)
अतश्च सो बहुतरकं लभेत यो वर्ण तेषां प्रवदेन्मनुष्यः ॥ १०.१३ ॥
अष्टादश कल्पसहस्रकोट्यो यस्तेषु पुस्तेषु करोति पूजाम् ।
शब्देहि रूपेहि रसेहि चापि दिव्यैश्च गन्धैश्च स्पर्शैश्च दिव्यैः ॥ १०.१४ ॥
करित्व पुस्तान तथैव पूजामष्टादश कल्पसहस्रकोट्यः ।
यदि श्रुणो एकश एत सूत्रमाश्चर्यलाभोऽस्य भवेन्महानिति ॥ १०.१५ ॥

आरोचयामि ते भैषज्यराज, प्रतिवेदयामि ते । बहवो हि मया भैषज्यराज धर्मपर्याया भाषिताः, भाषामि भाषिष्ये च । सर्वेषां च तेषां भैषज्यराज धर्मपर्यायाणामयमेव धर्मपर्यायः सर्वलोकविप्रत्यनीकः सर्वलोकाश्रद्दधनीयः । तथागतस्याप्येतद्भैषज्यराज आध्यात्मिकधर्मरहस्यं तथागतबलसंरक्षितमप्रतिभिन्नपूर्वमनाचक्षितपूर्वमनाख्यातमिदं स्थानम् । बहुजनप्रतिक्षिप्तोऽयं भैषज्यराज धर्मपर्यायस्तिष्ठतोऽपि तथागतस्य, कः पुनर्वादः परिनिर्वृतस्य ॥
अपि तु खलु पुनर्भैषज्यराज तथागतचीवरच्छन्नास्ते कुलपुत्रा वा कुलदुहितरो वा वेदितव्याः । अन्यलोकधातुस्थितैश्च तथागतैरवलोकिताश्च अधिष्ठिताश्च । प्रत्यात्मिकं च तेषां श्रद्धाबलं भविष्यति, कुशलमूलबलं च प्रणिधानबलं च । तथागतविहारैकस्थाननिवासिनश्च ते भैषज्यराज कुलपुत्रा वा कुलदुहितरो वा भविष्यन्ति, तथागतपाणिपरिमार्जितमूर्धानश्च ते भविष्यन्ति, य इमं धर्मपर्यायं तथागतस्य परिनिर्वृतस्य श्रद्दधिष्यन्ति वाचयिष्यन्ति लिखिष्यन्ति सत्करिष्यन्ति गुरुकरिष्यन्ति परेषां च संश्रावयिष्यन्ति ॥

यस्मिन् खलु पुनर्भैषज्यराज पृथिवीप्रदेशेऽयं धर्मपर्यायो भाष्येत वा देश्येत वा लिख्येत वा स्वाध्यायेत वा संगायेत वा, तस्मिन् भैषज्यराज पृथिवीप्रदेशे तथागतचैत्यं कारयितव्यं महन्तं रत्नमयमुच्चं प्रगृहीतम् । न च तस्मिन्नवश्यं तथागतशरीराणि प्रतिष्ठापयितव्यानि । तत्कस्य हेतोः? एकघनमेव तस्मिंस्तथागतशरीरमुपनिक्षिप्तं भवति, यस्मिन् पृथिवीप्रदेशेऽयं धर्मपर्यायो भाष्येत वा देश्येत वा पठ्येत वा संगायेत वा लिख्येत वा लिखितो वा पुस्तकगतस्तिष्ठेत् । तस्मिंश्च स्तूपे सत्कारो गुरुकारो मानना पूजना अर्चना करणीया सर्वपुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकावैजयन्तीभिः । सर्वगीतवाद्यनृत्यतूर्यतालावचरसंगीतिसंप्रवादितैः पूजा करणीया । ये च खलु पुनर्भैषज्यराज सत्त्वास्तं तथागतचैत्यं लभेरन् वन्दनाय पूजनाय दर्शनाय वा, सर्वे ते भैषज्यराज अभ्यासन्नीभूता वेदितव्या अनुत्तरायाः सम्यक्संबोधेः । तत्कस्य हेतोः? बहवो भैषज्यराज गृहस्थाः प्रव्रजिताश्च (वैद्य १४६) बोधिसत्त्वचर्यां चरन्ति, न च पुनरिमं धर्मपर्यायं लभन्ते दर्शनाय वा श्रवणाय वा लिखनाय वा पूजनाय वा । न तावत्ते भैषज्यराज बोधिसत्त्वचर्यायां कुशला भवन्ति, यावन्नेमं धर्मपर्यायं शृण्वन्ति । ये त्विमं धर्मपर्यायं शृण्वन्ति, श्रुत्वा चाधिमुच्यन्ति अवतरन्ति विजानन्ति परिगृह्णन्ति, तस्मिन् समये ते आसन्नस्थायिनो भविष्यन्त्यनुत्तरायां सम्यक्संबोधौ, अभ्याशीभूताः ॥

तद्यथापि नाम भैषज्यराज कश्चिदेव पुरुषो भवेदुदकार्थी उदकगवेषी । स उदकार्थमुज्जङ्गले पृथिवीप्रदेशे उदपानं खानयेत् । स यावत्पश्येच्छुष्कं पाण्डरं पांसुं निर्वाह्यमानम्, तावज्जानीयात्, दूर इतस्तावदूदकमिति । अथ परेण समयेन स पुरुष आर्द्रपंसुमुदकसंनिश्रं कर्दमपङ्कभुतमुदकबिन्दुभिः स्रवद्भिर्निर्वाह्यमानं पश्येत्, तांश्च पुरुषानुदपानखानकान् कर्दमपङ्कदिग्धाङ्गान्, अथ खलु पुनर्भैषज्यराज स पुरुषस्तत्पूर्वनिमित्तं दृष्ट्वा निष्काङ्क्षो भवेन्निर्विचिकित्सः - आसन्नमिदं खलूदकमिति । एवमेव भैषज्यराज दूरे ते बोधिसत्त्वा महासत्त्वा भवन्त्यनुत्तरायां सम्यक्संबोधौ, यावन्नेमं धर्मपर्यायं शृण्वन्ति, नोद्गृह्णन्ति नावतरन्ति नावगाहन्ते न चिन्तयन्ति । यदा खलु पुनर्भैषज्यराज बोधिसत्त्वा महासत्त्वा इमं धर्मपर्यायं शृण्वन्ति उद्गृह्णन्ति धारयन्ति वाचयन्ति अवतरन्ति स्वाध्यायन्ति चिन्तयन्ति भवयन्ति, तदा तेऽभ्याशीभूता भविष्यन्त्यनुत्तरायां सम्यक्संबोधौ । सत्त्वानामितो भैषज्यराज धर्मपर्यायादनुत्तरा सम्यक्संबोधिराजायते । तत्कस्य हेतोः? परमसंधाभाषितविवरणो ह्ययं धर्मपर्यायस्तथागतैरर्हद्भिः सम्यक्संबुद्धैः । धर्मनिगूढस्थानमाख्यातं बोधिसत्त्वानां महासत्त्वानां परिनिष्पत्तिहेतोः । यः कश्चिद्भैषज्यराज बोधिसत्त्वोऽस्य धर्मपर्यायस्योत्रसेत्संत्रसेत्संत्रासमापद्येत्, नवयानसंप्रस्थितः स भैषज्यराज बोधिसत्त्वो महासत्त्वो वेदितव्यः । सचेत्पुनः श्रावकयानीयोऽस्य धर्मपर्यायस्योत्रसेत्संत्रसेत्संत्रासमापद्येत, अधिमानिकः स भैषज्यराज श्रावकयानिकः पुद्गलो वेदितव्यः ॥

यः कश्चिद्भैषज्यराज बोधिसत्त्वो महासत्त्वस्तथागतस्य परिनिर्वृतस्य पश्चिमे काले पश्चिमे समये इमं धर्मपर्यायं चतसृणां पर्षदां संप्रकाशयेत्, तेन भैषज्यराज बोधिसत्त्वेन महासत्त्वेन तथागतलयनं प्रविश्य तथागतचीवरं प्रावृत्य तथागतस्यासने निषद्य अयं धर्मपर्यायश्चतसृणां पर्षदां संप्रकाशयितव्यः । कतमश्च भैषज्यराज तथागतलयनम्? सर्वसत्त्वमैत्रीविहारः स्वलु पुनर्भैषज्यराज तथागतलयनम् । तत्र तेन कुलपुत्रेण प्रवेष्टव्यम् । कतमच्च भैषज्यराज तथागतचीवरम्? महाक्षान्तिसौरत्यं खलु पुनर्भैषज्यराज तथागतचीवरम् । तत्तेन कुलपुत्रेण वा कुलदुहित्रा वा प्रावरितव्यम् । कतमच्च भैषज्यराज तथागतस्य धर्मासनम्? सर्वधर्मशून्यताप्रवेशः खलु पुनर्भैषज्यराज तथागतस्य धर्मासनम् । तत्र तेन कुलपुत्रेण निषत्तव्यम्, निषद्य चायं धर्मपर्यायश्चतसृणां पर्षदां संप्रकाशयितव्यः । अनवलीनचित्तेन बोधिसत्त्वेन पुरस्ताद्बोधिसत्त्वगणस्य बोधिसत्त्वयानसंप्रस्थितानां चतसृणां पर्षदां संप्रकाशयितव्यः । अन्यलोकधातुस्थितश्चाहं भैषज्यराज तस्य कुलपुत्रस्य निर्मितैः (वैद्य १४७) पर्षदः समावर्तयिष्यामि । निर्मितांश्च भिक्षुभिक्षुण्युपासकोपासिकाः संप्रेषयिष्यामि धर्मश्रवणाय । ते तस्य धर्मभाणकस्य भाषितं न प्रतिबाधिष्यन्ति, न प्रतिक्षेप्स्यन्ति । सचेत्खलु पुनररण्यगतो भविष्यति, तत्राप्यहमस्य बहुदेवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगान् संप्रेषयिष्यामि धर्मश्रवणाय । अन्यलोकधातुस्थितश्चाहं भैषज्यराज तस्य कुलपुत्रस्य मुखमुपदर्शयिष्यामि । यानि च अस्य अस्माद्धर्मपर्यायात्पदव्यञ्जनानि परिभ्रष्टानि भविष्यन्ति, तानि तस्य स्वाध्यायतः प्रत्युच्चारयिष्यामि ॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -

लीयनां सर्व वर्जित्वा शृणुयात्सूत्रमीदृशम् ।
दुर्लभो वै श्रवो ह्यस्य अधिमुक्ती पि दुर्लभा ॥ १०.१६ ॥
उदकार्थी यथा कश्चित्खानयेत्कूप जङ्गले ।
शुष्कं च पांसु पश्येत खान्यमाने पुनः पुनः ॥ १०.१७ ॥
सो दृष्ट्वा चिन्तयेत्तत्र दूरे वारि इतो भवेत् ।
इदं निमित्तं दूरे स्यात्शुष्कपांसुरितोत्सृतः ॥ १०.१८ ॥
यदा तु आर्द्रं पश्येत पांसुं स्निग्धं पुनः पुनः ।
निष्ठा तस्य भवेत्तत्र नास्ति दूरे जलमिह ॥ १०.१९ ॥
एवमेव तु ते दूरे बुद्धज्ञानस्य तादृशाः ।
अशृण्वन्त इदं सूत्रमभावित्वा पुनः पुनः ॥ १०.२० ॥
यदा तु गम्भीरमिदं श्रावकाणां विनिश्चयम् ।
सूत्रराजं श्रुणिष्यन्ति चिन्तयिष्यन्ति वा सकृत् ॥ १०.२१ ॥
ते भोन्ति संनिकृष्टा वै बुद्धज्ञानस्य पण्डिताः ।
यथैव चार्द्रे पांसुस्मिनासन्नं जलमुच्यते ॥ १०.२२ ॥
जिनस्य लेनं प्रविशित्वा प्रावरित्वा मि चीवरम् ।
ममासने निषीदित्वा अभीतो भाषि पण्डितः ॥ १०.२३ ॥
मैत्रीबलं च लयनं क्षान्तिसौरत्य चीवरम् ।
शून्यता चासनं मह्यमत्र स्थित्वा हि देशयेत् ॥ १०.२४ ॥
लोष्टं दण्डं वाथ शक्ती आक्रोश तर्जनाथ वा ।
भाषन्तस्य भवेत्तत्र स्मरन्तो मम ता सहेत् ॥ १०.२५ ॥
क्षेत्रकोटीसहस्रेसु आत्मभावो दृढो मम ।
देशेमि धर्म सत्त्वानां कल्पकोटीरचिन्तियाः ॥ १०.२६ ॥
अहं पि तस्य वीरस्य यो मह्य परिनिर्वृते ।
इदं सूत्रं प्रकाशेया प्रेषेष्ये बहु निर्मितान् ॥ १०.२७ ॥
(वैद्य १४८)
भिक्षवो भिक्षुणीया च उपासका उपासिकाः ।
तस्य पूजां करिष्यन्ति पर्षदश्च समा अपि ॥ १०.२८ ॥
लोष्टं दण्डांस्तथाक्रोशांस्तर्जनां परिभाषणाम् ।
ये चापि तस्य दास्यन्ति वारेष्यन्ति स्म निर्मिताः ॥ १०.२९ ॥
यदापि चैको विहरन् स्वाध्यायन्तो भविष्यति ।
नरैर्विरहिते देशे अटव्यां पर्वतेषु वा ॥ १०.३० ॥
ततोऽस्य अहं दर्शिष्ये आत्मभाव प्रभास्वरम् ।
स्खलितं चास्य स्वाध्यायमुच्चारिष्ये पुनः पुनः ॥ १०.३१ ॥
तहिं च स्य विहरतो एकस्य वनचारिणः ।
देवान् यक्षांश्च प्रेषिष्ये सहायांस्तस्य नैकशः ॥ १०.३२ ॥
एतादृशास्तस्य गुणा भवन्ति चतुर्ण पर्षाण प्रकाशकस्य ।
एको विहारे वनकन्दरेषु स्वाध्याय कुर्वन्तु ममाहि पश्येत् ॥ १०.३३ ॥
प्रतिभान तस्य भवती असङ्गं निरुक्ति धर्माण बहू प्रजानाति ।
तोषेति सो प्राणिसहस्रकोट्यः यथापि बुद्धेन अधिष्ठितत्वात् ॥ १०.३४ ॥
ये चापि तस्याश्रित भोन्ति सत्त्वास्ते बोधिसत्त्वा लघु भोन्ति सर्वे ।
तत्संगतिं चापि निषेवमाणाः पश्यन्ति बुद्धान यथ गङ्गवालिकाः ॥ १०.३५ ॥

इत्यार्यसद्धर्मपुण्डरीके धर्मपर्याये धर्मभाणकपरिवर्तो नाम दशमः ॥



_______________________________________________________________________________




(वैद्य १४९)

११: स्तूपसंदर्शनपरिवर्तः ।

अथ खलु भगवतः पुरस्तात्ततः पृथिवीप्रदेशात्पर्षन्मध्यात्सप्तरत्नमयः स्तूपोऽभ्युद्गतः पञ्चयोजनशतान्युच्चैस्त्वेन तदनुरूपेण च परिणाहेन । अभ्युद्गम्य वैहायसमन्तरीक्षे समवातिष्ठच्चित्रो दर्शनीयः पञ्चभिः पुष्पग्रहणीयवेदिकासहस्रैः स्वभ्यलंकृतो बहुतोरणसहस्रैः प्रतिमण्डितः पताकावैजयन्तीसहस्राभिः प्रलम्बितो रत्नदामसहस्राभिः प्रलम्बितः पट्टघण्टासहस्रैः प्रलम्बितः तमालपत्रचन्दनगन्धं प्रमुञ्चमानः । तेन च गन्धेन सर्वावतीयं लोकधातुः संमूर्च्छिताभूत् । छत्रावली चास्य यावच्चातुर्महाराजकायिकदेवभवनानि समुच्छ्रिताभूत्सप्तरत्नमयी, तद्यथा - सुवर्णस्य रूप्यस्य वैडूर्यस्य मुसारगल्वस्याश्मगर्भस्य लोहितमुक्तेः कर्केतनस्य । तस्मिंश्च स्तूपे त्रायस्त्रिंशत्कायिका देवपुत्रा दिव्यैर्मान्दारवमहामान्दारवैः पुष्पैस्तं रत्नस्तूपमवकिरन्ति अध्यवकिरन्ति अभिप्रकिरन्ति । तस्माच्च रत्नस्तूपादेवंरूपः शब्दो निश्चरति स्म - साधु साधु भगवन् शाक्यमुने । सुभाषितस्तेऽयं सद्धर्मपुण्डरीको धर्मपर्यायः । एवमेतत्भगवन्, एवमेतत्सुगत ॥

अथ खलु ताश्चतस्रः पर्षदस्तं महान्तं रत्नस्तूपं दृष्ट्वा वैहायसमन्तरीक्षे स्थितं संजातहर्षाः प्रीतिप्रामोद्यप्रसादप्राप्ताः तस्यां वेलायामुत्थाय आसनेभ्योऽञ्जलिं प्रगृह्यावस्थिताः ॥

अथ खलु तस्यां वेलायां महाप्रतिभानो नाम बोधिसत्त्वो महासत्त्वः सदेवमानुषासुरं लोकं कौतूहलप्राप्तं विदित्वा भगवन्तमेतदवोचत्- को भगवन् हेतुः, कः प्रत्ययः, अस्यैवंरूपस्य महारत्नस्तूपस्य लोके प्रादुर्भावाय? को वा भगवनस्मान्महारत्नस्तूपादेवंरूपं शब्दं निश्चारयति? एवमुक्ते भगवान्महाप्रतिभानं बोधिसत्त्वं महासत्त्वमेतदवोचत्- अस्मिन्महाप्रतिभान महारत्नस्तूपे तथागतस्यात्मभावस्तिष्ठति एकघनः । तस्यैष स्तूपः । स एष शब्दं निश्चारयति । अस्ति महाप्रतिभान अधस्तायां दिशि असंख्येयानि लोकधातुकोटीनयुतशतसहस्राण्यतिक्रम्य रत्नविशुद्धा नाम लोकधातुः । तस्यां प्रभूतरत्नो नाम तथागतोऽर्हन् सम्यक्संबुद्धोऽभूत् । तस्यैतद्भगवतः पुर्वप्रणिधानमभूत्- अहं खलु पूर्वं बोधिसत्त्वचर्यां चरमाणो न तावन्निर्यातोऽनुत्तरायां सम्यक्संबोधौ, यावन्मयायं सद्धर्मपुण्डरीको धर्मपर्यायो बोधिसत्त्वाववादो न श्रुतोऽभूत् । यदा तु मया अयं सद्धर्मपुण्डरीको धर्मपर्यायः श्रुतः, तदा पश्चादहं परिनिष्पन्नोऽभूवमनुत्तरायां सम्यक्संबोधौ । तेन खलु पुनर्महाप्रतिभान भगवता प्रभूतरत्नेन तथागतेनार्हता सम्यक्संबुद्धेन परिनिर्वाणकालसमये सदेवकस्य लोकस्य समारकस्य सब्रह्मकस्य सश्रमणब्राह्मणिकायाः प्रजायाः पुरस्तादेवमारोचितम् - मम खलु भिक्षवः परिनिर्वृतस्य अस्य तथागतात्मभावविग्रहस्य एको महारत्नस्तूपः कर्तव्यः । शेषाः पुनः स्तूपा ममोद्दिश्य कर्तव्याः । तस्य खलु पुनर्महाप्रतिभान भगवतः प्रभूतरत्नस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यैतदधिष्ठानमभूत्- अयं मम स्तूपो दशसु दिक्षु सर्वलोकधातुषु येषु बुद्धक्षेत्रेष्वयं (वैद्य १५०) सद्धर्मपुण्डरीको धर्मपर्यायः संप्रकाश्येत, तेषु तेष्वयं ममात्मभावविग्रहस्तूपः समभ्युद्गच्छेत् । तैस्तैर्बुद्धैर्भगवद्भिरस्मिन् सद्धर्मपुण्डरीके धर्मपर्याये भाष्यमाणे पर्षन्मण्डलस्योपरि वैहायसं तिष्ठेत् । तेषां च बुद्धानां भगवतामिमं सद्धर्मपुण्डरीकं धर्मपर्यायं भाषमाणानामयं ममात्मभावविग्रहस्तूपः साधुकारं दद्यात् । तदयं महाप्रतिभान तस्य भगवतः प्रभूतरत्नस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य शरीरस्तूपः । अस्यां सहायां लोकधातौ अस्मिन् सद्धर्मपुण्डरीके धर्मपर्याये मया भाष्यमाणेऽस्मात्पर्षन्मण्डलमध्यादभ्युद्गम्य उपर्यन्तरीक्षे वैहायसं स्थित्वा साधुकारं ददाति स्म ॥

अथ खलु महाप्रतिभानो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्- पश्याम वयं भगवनेतं तथागतविग्रहं भगवतोऽनुभावेन । एवमुक्ते भगवान्महाप्रतिभानं बोधिसत्त्वं महासत्त्वमेतदवोचत्- तस्य खलु पुनर्महाप्रतिभान भगवतः प्रभूतरत्नस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य प्रणिधानं गुरुकमभूत् । एतदस्य प्रणिधानम् - यदा खल्वन्येषु बुद्धक्षेत्रेषु बुद्धा भगवन्त इमं सद्धर्मपुण्डरीकं धर्मपर्यायं भाषेयुः, तदायं ममात्मभावविग्रहस्तूपोऽस्य सद्धर्मपुण्डरीकस्य धर्मपर्यायस्य श्रवणाय गच्छेत्तथागतानामन्तिकम् । यदा पुनस्ते बुद्धा भगवन्तो ममात्मभावविग्रहमुद्धाट्य दर्शयितुकामा भवेयुश्चतसृणां पर्षदाम्, अथ तैस्तथागतैर्दशसु दिक्ष्वन्योन्येषु बुद्धक्षेत्रेषु य आत्मभावनिर्मितास्तथागतविग्रहा अन्यान्यनामधेयाः, तेषु तेषु बुद्धक्षेत्रेषु सत्त्वानां धर्मं देशयन्ति, तान् सर्वान् संनिपात्य तैरात्मभावनिर्मितैस्तथागतविग्रहैः सार्धं पश्चादयं ममात्मभावविग्रहस्तूपः समुद्धाट्य उपदर्शयितव्यश्चतसृणां पर्षदाम् । तन्मयापि महाप्रतिभान बहवस्तथागतविग्रहा निर्मिताः, ये दशसु दिक्ष्वन्योन्येषु बुद्धक्षेत्रेषु लोकधातुसहस्रेषु सत्त्वानां धर्मं देशयन्ति । ते सर्वे खल्विहानयितव्या भविष्यन्ति ॥

अथ खलु महाप्रतिभानो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्- तानपि तावद्भगवंस्तथागतात्मभावांस्तथागतनिर्मितान् सर्वान् वन्दामहै ॥

अथ खलु भगवांस्तस्यां वेलायामूर्णाकोशाद्रश्मिं प्रामुञ्चत्, यया रश्म्या समनन्तरप्रमुक्तया पूर्वस्यां दिशि पञ्चाशत्सु गङ्गानदीवालुकासमेषु लोकधातुकोटीनयुतशतसहस्रेषु ये बुद्धा भगवन्तो विहरन्ति स्म, ते सर्वे संदृश्यन्ते स्म । तानि च बुद्धक्षेत्राणि स्फटिकमयानि संदृश्यन्ते स्म, रत्नवृक्षैश्च चित्राणि संदृश्यन्ते स्म, दूष्यपट्टदामसमलंकृतानि बहुबोधिसत्त्वशतसहस्रपरिपूर्णानि वितानविततानि सप्तरत्नहेमजालप्रतिच्छन्नानि । तेषु तेषु बुद्धा भगवन्तो मधुरेण वल्गुना स्वरेण सत्त्वानां धर्मं देशयमानाः संदृश्यन्ते स्म । बोधिसत्त्वशतसहस्रैश्च परिपूर्णानि तानि बुद्धक्षेत्राणि संदृश्यन्ते स्म । एवं पूर्वदक्षिणस्यां दिशि । एवं दक्षिणस्यां दिशि । एवं दक्षिणपश्चिमायां दिशि । एवं पश्चिमायां दिशि । एवं पश्चिमोत्तरायां दिशि । एवमुत्तरायां दिशि । एवमुत्तरपूर्वस्यां दिशि । एवमधस्तायां दिशि । एवमूर्ध्वायां दिशि । एवं समन्ताद्दशसु दिक्षु एकैकस्यां दिशि बहूनि गङ्गानदीवालुकोपमानि बुद्धक्षेत्रकोटीनयुतशतसहस्राणि बहुषु गङ्गानदीवालुकोपमेषु लोकधातुकोटीनयुतशतसहस्रेषु ये बुद्धा भगवन्तस्तिष्ठन्ति, ते सर्वे संदृश्यन्ते स्म ॥
(वैद्य १५१)

अथ खलु ते दशसु दिक्षु तथागता अर्हन्तः सम्यक्संबुद्धाः स्वान् स्वान् बोधिसत्त्वगणानामन्त्रयन्ति स्म - गन्तव्यं खलु पुनः कुलपुत्रा भविष्यति अस्माभिः सहां लोकधातुम्, भगवतः शाक्यमुनेस्तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिकम्, प्रभूतरत्नस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य शरीरस्तूपवन्दनाय । अथ खलु ते बुद्धा भगवन्तः स्वैः स्वैरुपस्थायकैः सार्धमात्मद्वितीया आत्मतृतीया इमां सहां लोकधातुमागच्छन्ति स्म । इति हि तस्मिन् समये इयं सर्वावती लोकधातू रत्नवृक्षप्रतिमण्डिताभूद्वैडूर्यमयी सप्तरत्नहेमजालसंछन्ना महारत्नगन्धधूपनधूपिता मान्दारवमहामान्दारवपुष्पसंस्तीर्णा किङ्किणीजालालंकृता सुवर्णसूत्राष्टापदनिबद्धा अपगतग्रामनगरनिगमजनपदराष्ट्रराजधानी अपगतकालपर्वता अपगतमुचिलिन्दमहामुचिलिन्दपर्वता अपगतचक्रवालमहाचक्रवालपर्वता अपगतसुमेरुपर्वता अपगततदन्यमहापर्वता अपगतमहासमुद्रा अपगतनदीमहानदीपरिसंस्थिताभूत्, अपगतेदवमनुष्यासुरकाया अपगतनिरयतिर्यग्योनियमलोका । इति हि तस्मिन् समये येऽस्यां सहायां लोकधातौ षड्गत्युपपन्नाः सत्त्वाः, ते सर्वेऽन्येषु लोकधातुषूपनिक्षिप्ता अभूवन्, स्थापयित्वा ये तस्यां पर्षदि संनिपतिता अभूवन् । अथ खलु ते बुद्धा भगवन्त उपस्थायकद्वितीया उपस्थायकतृतीया इमां सहां लोकधातुमागच्छन्ति स्म । आगतागताश्च ते तथागता रत्नवृक्षमूले सिंहासनमुपनिश्रित्य विहरन्ति स्म । एकैकश्च रत्नवृक्षः पञ्चयोजनशतान्युच्चैस्त्वेनाभूतनुपूर्वशाखापत्रपलाशपरिणाहः पुष्पफलप्रतिमण्डितः । एकैकस्मिंश्च रत्नवृक्षमूले सिंहासनं प्रज्ञप्तमभूत्पञ्चयोजनशतान्युच्चैस्त्वेन महारत्नप्रतिमण्डितम् । तस्मिन्नेकैकस्तथागतः पर्यङ्कं बद्ध्वा निषण्णोऽभूत् । अनेन पर्यायेण सर्वस्यां त्रिसाहस्रमहासाहस्रायां लोकधातौ सर्वरत्नवृक्षमूलेषु तथागताः पर्यङ्कं बद्ध्वा निषण्णा अभूवन् ॥

तेन खलु पुनः समयेन इयं त्रिसाहस्रमहासाहस्री लोकधातुस्तथागतपरिपूर्णाभूत् । न तावद्भगवतः शाक्यमुनेस्तथागतस्यात्मभावनिर्मिता एकस्मादपि दिग्भागात्सर्व आगता अभूवन् । अथ खलु पुनर्भगवान् शाक्यमुनिस्तथागतोऽर्हन् सम्यक्संबुद्धस्तेषां तथागतविग्रहाणामागतागतानामवकाशं निर्मिमीते स्म । समन्तादष्टभ्यो दिग्भ्यो विंशतिबुद्धक्षेत्रकोटीनयुतशतसहस्राणि सर्वाणि वैडूर्यमयानि सप्तरत्नहेमजालसंछन्नानि किङ्किणीजालालंकृतानि मान्दारवमहामान्दारवपुष्पसंस्तीर्णानि दिव्यवितानविततानि दिव्यपुष्पदामाभिप्रलम्बितानि दिव्यगन्धधूपनधूपितानि । सर्वाणि च तानि विंशतिबुद्धक्षेत्रकोटीनयुतशतसहस्राण्यपगतग्रामनगरनिगमजनपदराष्ट्रराजधानीनि अपगतकालपर्वतानि अपगतमुचिलिन्दमहामुचिलिन्दपर्वतानि अपगतचक्रवालमहाचक्रवालपर्वतानि अपगतसुमेरुपर्वतानि अपगततदन्यमहापर्वतानि अपगतमहासमुद्राणि अपगतनदीमहानदीनि परिसंस्थापयति अपगतदेवमनुष्यासुरकायानि अपगतनिरयतिर्यग्योनियमलोकानि । तानि च सर्वाणि बहुबुद्धक्षेत्राणि एकमेव बुद्धक्षेत्रमेकमेव पृथिवीप्रदेशं परिसंस्थापयामास समं रमणीयं सप्तरत्नमयैश्च (वैद्य १५२) वृक्षैश्चित्रितम् । तेषां च रत्नवृक्षाणां पञ्चयोजनशतान्यारोहपरिणाहोऽनुपूर्वशाखापत्रपुष्पफलोपेतः । सर्वस्मिंश्च रत्नवृक्षमूले पञ्चयोजनशतान्यारोहपरिणाहं दिव्यरत्नमयं विचित्रं दर्शनीयं सिंहासनं प्रज्ञप्तमभूत् । तेषु रत्नवृक्षमूलेष्वागतागतास्तथागताः सिंहासनेषु पर्यङ्कं बद्ध्वा निषीदन्ते स्म । अनेन पर्यायेण पुनरपराणि विंशतिलोकधातुकोटीनयुतशतसहस्राण्येकैकस्यां दिशि शाक्यमुनिस्तथागतः परिशोधयति स्म तेषां तथागतानामागतानामवकाशार्थम् । तान्यपि विंशतिलोकधातुकोटीनयुतशतसहस्राण्यैकैकस्यां दिशि अपगतग्रामनगरनिगमजनपदराष्ट्रराजधानीनि अपगतकालपर्वतानि अपगतमुचिलिन्दमहामुचिलिन्दपर्वतानि अपगतचक्रवालमहाचक्रवालपर्वतानि अपगतसुमेरुपर्वतानि अपगततदन्यमहापर्वतानि अपगतमहासमुद्राणि अपगतनदीमहानदीनि परिसंस्थापयति अपगतदेवमनुष्यासुरकायानि अपगतनिरयतिर्यग्योनियमलोकानि । ते च सर्वसत्त्वा अन्येषु लोकधातुषूपनिक्षिप्ताः । तान्यपि बुद्धक्षेत्राणि वैडूर्यमयानि सप्तरत्नहेमजालप्रतिच्छन्नानि किङ्किणीजालालंकृतानि मान्दारवमहामान्दारवपुष्पसंस्तीर्णानि दिव्यवितानविततानि दिव्यपुष्पदामाभिप्रलम्बितानि दिव्यगन्धधूपनधूपितानि रत्नवृक्षोपशोभितानि । सर्वे च ते रत्नवृक्षाः पञ्चयोजनशतप्रमाणाः । पञ्चयोजनप्रमाणानि च सिंहासनान्यभिनिर्मितानि । ततस्ते तथागता निषीदन्ते स्म पृथक्पृथक्सिंहासनेषु रत्नवृक्षमूलेषु पर्यङ्कं बद्ध्वा ॥

तेन खलु पुनः समयेन भगवता शाक्यमुनिना ये निर्मितास्तथागताः पूर्वस्यां दिशि सत्त्वानां धर्मं देशयन्ति स्म गङ्गानदीवालुकोपमेषु बुद्धक्षेत्रकोटीनयुतशतसहस्रेषु, ते सर्वे समागता दशभ्यो दिग्भ्यः । ते चागता अष्टासु दिक्षु निषण्णा अभूवन् । तेन खलु पुनः समयेनैकैकस्यां दिशि त्रिंशल्लोकधातुकोटीशतसहस्राण्यष्टभ्यो दिग्भ्यः समन्तात्तैस्तथागतैराक्रान्ता अभूवन् । अथ खलु ते तथागताः स्वेषु स्वेषु सिंहासनेषूपविष्टाः स्वान् स्वानुपस्थायकान् संप्रेषयन्ति स्म भगवतः शाक्यमुनेरन्तिकम् । रत्नपुष्पपुटान् दत्वा एवं वदन्ति स्म - गच्छत यूयं गृध्रकूटं पर्वतम् । गत्वा च पुनस्तस्मिंस्तं भगवन्तं शाक्यमुनिं तथागतमर्हन्तं सम्यक्संबुद्धं वन्दित्वा अस्मद्वचनादल्पाबाधतां मन्दग्लानतां च बलं च स्पर्शविहारतां च परिपृच्छध्वं सार्धं बोधिसत्त्वगणेन श्रावकगणेन । अनेन च रत्नराशिना अभ्यवकिरध्वम्, एवं च वदध्वम् - ददाति खलु पुनर्भगवांस्तथागतश्छन्दमस्य महारत्नस्तूपस्य समुद्धाटने । एवं ते तथागताः सर्वे स्वान् स्वानुपस्थायकान् संप्रेषयामासुः ॥

अथ खलु भगवान् शाक्यमुनिस्तथागतस्तस्यां वेलायां स्वान्निर्मितानशेषतः समागतान् विदित्वा, पृथक्पृथक्सिंहासनेषु निषण्णांश्च विदित्वा, तांश्चोपस्थायकांस्तेषां तथागतानामर्हतां सम्यक्संबुद्धानामागतान् विदित्वा, छन्दं च तैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैरारोचितं विदित्वा, तस्यां वेलायां स्वकाद्धर्मासनादुत्थाय वैहायसमन्तरीक्षेऽतिष्ठत् । ताश्च सर्वाश्चतस्रः परिषदः उत्थायासनेभ्योऽञ्जलीः परिगृह्य भगवतो मुखमुल्लोकयन्त्यस्तस्थुः । अथ खलु भगवांस्तं (वैद्य १५३) महान्तं रत्नस्तूपं वैहायसं स्थितं दक्षिणया हस्ताङ्गुल्या मध्ये समुद्धाटयति स्म । समुद्धाट्य च द्वे भित्ती प्रविसारयति स्म । तद्यथापि नाम महानगरद्वारेषु महाकपाटसंपुटावर्गलविमुक्तौ प्रविसार्येते, एवमेव भगवांस्तं महान्तं रत्नस्तूपं वैहायसं स्थितं दक्षिणया हस्ताङ्गुल्या मध्ये समुद्धाट्य अपावृणोति स्म । समनन्तरविवृतस्य खलु पुनस्तस्य महारत्नस्तूपस्य, अथ खलु भगवान् प्रभूतरत्नस्तथागतोऽर्हन् सम्यक्संबुद्धः सिंहासनोपविष्टः पर्यङ्कं बद्द्वा परिशुष्कगात्रः संघटितकायो यथा समाधिसमापन्नस्तथा संदृश्यते स्म । एवं च वाचमभाषत - साधु साधु भगवन् शाक्यमुने । सुभाषितस्तेऽयं सद्धर्मपुण्डरीको धर्मपर्यायः । साधु खलु पुनस्त्वं भगवन् शाक्यमुने यस्त्वमिमं सद्धर्मपुण्डरीकं धर्मपर्यायं पर्षन्मध्ये भाषसे । अस्यैवाहं भगवन् सद्धर्मपुण्डरीकस्य धर्मपर्यायस्य श्रवणायेहागतः ॥

अथ खलु ताश्चतस्रः पर्षदस्तं भगवन्तं प्रभूतरत्नं तथागतमर्हन्तं सम्यक्संबुद्धं बहुकल्पकोटीनयुतशतसहस्रपरिनिर्वृतं तथा भाषमाणं दृष्ट्वा आश्चर्यप्राप्ता अद्भुतप्राप्ता अभूवन् । तस्यां वेलायां तं भगवन्तं प्रभूतरत्नं तथागतमर्हन्तं सम्यक्संबुद्ध तं च भगवन्तं शाक्यमुनिं तथागतमर्हन्तं सम्यक्संबुद्धं दिव्यमानुष्यकै रत्नराशिभिरभ्यवकिरन्ति स्म । अथ खलु भगवान् प्रभूतरत्नस्तथागतोऽर्हन् सम्यक्संबुद्धो भगवतः शाक्यमुनेस्तथागतस्यार्हतः सम्यक्संबुद्धस्य तस्मिन्नेव सिंहासनेऽर्धासनमदासीत्, तस्यैव महारत्नस्तूपाभ्यन्तरे, एवं च वदति - इहैव भगवान् शाक्यमुनिस्तथागतो निषीदतु । अथ खलु भगवान् शाक्यमुनिस्तथागतस्तस्मिन्नर्धासने निषसाद तेनैव तथागतेन सार्धम् । उभौ च तौ तथागतौ तस्य महारत्नस्तूपस्य मध्ये सिंहासनोपविष्टौ वैहायसमन्तरीक्षस्थौ संदृश्येते ॥

अथ खलु तासां चतसृणां पर्षदामेतदभवत्- दूरस्था वयमाभ्यां तथागताभ्याम् । यन्नूनं वयमपि तथागतानुभावेन वैहायसमभ्युद्गच्छेम इति । अथ खलु भगवान् शाक्यमुनिस्तथागतस्तासां चतसृणां पर्षदां चेतसैव चेतःपरिवितर्कमाज्ञाय तस्यां वेलायामृद्धिबलेन ताश्चतस्रः पर्षदो वैहायसमुपर्यन्तरीक्षे प्रतिष्ठापयति स्म । अथ खलु भगवान् शाक्यमुनिस्तथागतस्तस्यां वेलायां ताश्चतस्रः पर्षद आमन्त्रयते स्म - को भिक्षवो युष्माकमुत्सहते तस्यां सहायां लोकधातौ इमं सद्धर्मपुण्डरीकं धर्मपर्यायं संप्रकाशयितुम्? अयं स कालः, अयं स समयः । संमुखीभूतस्तथागतः । परिनिर्वायितुकाभो भिक्षवस्तथागत इमं सद्धर्मपुण्डरीकं धर्मपर्यायमुपनिक्षिप्य ॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -

अयमागतो निर्वृतको महर्षी रतनामयं स्तूप प्रविश्य नायकः ।
श्रवणार्थ धर्मस्य इमस्य भिक्षवः को धर्महेतोर्न जनेत वीर्यम् ॥ ११.१ ॥
(वैद्य १५४)
बहुकल्पकोटीपरिनिर्वृतोऽपि सो नाम अद्यापि शृणोति धर्मम् ।
तहिं तहिं गच्छति धर्महेतोः सुदुर्लभो धर्म यमेवरूपः ॥ ११.२ ॥
प्रणिधानमेतस्य विनायकस्य निषेवितं पूर्वभवे यदासीत् ।
परिनिर्वृतोऽपी इमु सर्वलोकं पर्येषती सर्वदशद्दिशासु ॥ ११.३ ॥
इमे च सर्वे मम आत्मभावाः सहस्रकोट्यो यथ गङ्गवालिकाः ।
ते धर्मकृत्यस्य कृतेन आगताः परिनिर्वृतं च इमु द्रष्टु नाथम् ॥ ११.४ ॥
छोरित्व क्षेत्राणि स्वकस्वकानि तथ श्रावकान्तर मरुतश्च सर्वान् ।
सद्धर्मसंरक्षणहेतु सर्वे कथं चिरं तिष्ठिय धर्मनेत्री ॥ ११.५ ॥
एतेषु बुद्धान निषीदनार्थं बहुलोकधातून सहस्रकोट्यः ।
संक्रामिता मे तथ सर्वसत्त्वा ऋद्धीबलेन परिशोधिताश्च ॥ ११.६ ॥
एतादृशी उत्सुकता इयं मे कथं प्रकाशेदिय धर्मनेत्री ।
इमे च बुद्धा स्थित अप्रमेया द्रुमाण मूले यथ पद्मराशिः ॥ ११.७ ॥
द्रुममूलकोटीय अनल्पकायो सिंहासनस्थेहि विनायकेहि ।
शोभन्ति तिष्ठन्ति च नित्यकालं हुताशनेनेव यथान्धकारम् ॥ ११.८ ॥
गन्धो मनोज्ञो दशसू दिशासु प्रवायते लोकविनायकानाम् ।
(वैद्य १५५)
येना इमे मूर्च्छित सर्वसत्त्वा वाते प्रवाते इह नित्यकालम् ॥ ११.९ ॥
मयि निर्वृते यो एतं धर्मपर्यायु धारयेत् ।
क्षिप्रं व्याहरतां वाचं लोकनाथान संमुखम् ॥ ११.१० ॥
परिनिर्वृतो हि संबुद्धः प्रभूतरतनो मुनिः ।
सिंहनादं श्रुणे तस्य व्यवसायं करोति यः ॥ ११.११ ॥
अहं द्वितीयो बहवो इमे च ये कोटियो आगत नायकानाम् ।
व्यवसाय श्रोष्यामि जिनस्य पुत्रात्यो उत्सहेद्धर्ममिमं प्रकाशितुम् ॥ ११.१२ ॥
अहं च तेन भवि पूजितः सदा प्रभूतरत्नश्च जिनः स्वयंभूः ।
यो गच्छते दिशविदिशासु नित्यं श्रवणाय धर्ममिममेवरूपम् ॥ ११.१३ ॥
इमे च ये आगत लोकनाथा विचित्रिता यैरिय शोभिता भूः ।
तेषां पि पूजा विपुल अनल्पका कृता भवेत्सूत्रप्रकाशनेन ॥ ११.१४ ॥
अहं च दृष्टो इह आसनस्मिन् भगवांश्च योऽयं स्थितु स्तूपमध्ये ।
इमे च अन्ये बहुलोकनाथा ये आगताः क्षेत्रशतैरनेकैः ॥ ११.१५ ॥
चिन्तेथ कुलपुत्राहो सर्वसत्वानुकम्पया ।
सुदुष्करमिदं स्थानमुत्सहन्ति विनायकाः ॥ ११.१६ ॥
बहुसूत्रसहस्राणि यथा गङ्गाय वालिकाः ।
तानि कश्चित्प्रकाशेत न तद्भवति दुष्करम् ॥ ११.१७ ॥
सुमेरुं यश्च हस्तेन अध्यालम्बित्व मुष्टिना ।
क्षिपेत क्षेत्रकोटीयो न तद्भवति दुष्करम् ॥ ११.१८ ॥
यश्च इमां त्रिसाहस्रीं पादाङ्गुष्ठेन कम्पयेत् ।
क्षिपेत क्षेत्रकोटीयो न तद्भवति दुष्करम् ॥ ११.१९ ॥
(वैद्य १५६)
भवाग्रे यश्च तिष्ठित्वा धर्मं भाषेन्नरो इह ।
अन्यसूत्रसहस्राणि न तद्भवति दुष्करम् ॥ ११.२० ॥
निर्वृतस्मिंस्तु लोकेन्द्रे पश्चात्काले सुदारुणे ।
य इदं धारयेत्सूत्रं भाषेद्वा तत्सुदुष्करम् ॥ ११.२१ ॥
आकाशधातुं यः सर्वामेकमुष्टिं तु निक्षिपेत् ।
प्रक्षिपित्वा च गच्छेत न तद्भवति दुष्करम् ॥ ११.२२ ॥
यस्तु ईदृशकं सूत्रं निर्वृतस्मिंस्तदा मयि ।
पश्चात्काले लिखेच्चापि इदं भवति दुष्करम् ॥ ११.२३ ॥
पृथिवीधातुं च यः सर्वं नखाग्रे संप्रवेशयेत् ।
प्रक्षिपित्वा च गच्छेत ब्रह्मलोकं पि आरुहेत् ॥ ११.२४ ॥
न दुष्करं हि सो कुर्यान्न च वीर्यस्य तत्तकम् ।
तं दुष्करं करित्वान सर्वलोकस्यिहाग्रतः ॥ ११.२५ ॥
अतोऽपि दुष्करतरं निर्वृतस्य तदा मम ।
पश्चात्काले इदं सूत्रं वदेया यो मुहूर्तकम् ॥ ११.२६ ॥
न दुष्करमिदं लोके कल्पदाहस्मि यो नरः ।
मध्ये गच्छेददह्यन्तस्तृणभारं वहेत च ॥ ११.२७ ॥
अतोऽपि दुष्करतरं निर्वृतस्य तदा मम ।
धारयित्वा इदं सूत्रमेकसत्त्वं पि श्रावयेत् ॥ ११.२८ ॥
धर्मस्कन्धसहस्राणि चतुरशीति धारयेत् ।
सोपदेशान् यथाप्रोक्तान् देशयेत्प्राणिकोटिनाम् ॥ ११.२९ ॥
न ह्येतं दुष्करं भोति तस्मिन् कालस्मि भिक्षुणाम् ।
विनयेच्छ्रावकान्मह्यं पञ्चाभिज्ञासु स्थापयेत् ॥ ११.३० ॥
तस्येदं दुष्करतरमिदं सूत्रं च धारयेत् ।
श्रद्दधेदधिमुच्येद्वा भाषेद्वापि पुनः पुनः ॥ ११.३१ ॥
कोटीसहस्रान् बहवः अर्हत्त्वे योऽपि स्थापयेत् ।
षडभिज्ञान्महाभागान् यथा गङ्गाय वालिकाः ॥ ११.३२ ॥
अतो बहुतरं कर्म करोति स नरोत्तमः ।
निर्वृतस्य हि यो मह्यं सूत्रं धारयते वरम् ॥ ११.३३ ॥
लोकधातुसहस्रेषु बहु मे धर्म भाषिताः ।
अद्यापि चाहं भाषामि बुद्धज्ञानस्य कारणात् ॥ ११.३४ ॥
(वैद्य १५७)
इदं तु सर्वसूत्रेषु सूत्रमग्रं प्रवुच्यते ।
धारेति यो इदं सूत्रं स धारे जिनविग्रहम् ॥ ११.३५ ॥
भाषध्वं कुलपुत्राहो संमुखं वस्तथागतः ।
य उत्सहति वः कश्चित्पश्चात्कालस्मि धारणम् ॥ ११.३६ ॥
महत्प्रियं कृतं भोति लोकनाथान सर्वशः ।
दुराधारमिदं सुत्रं धारयेद्यो मुहूर्तकम् ॥ ११.३७ ॥
संवर्णितश्च सो भोति लोकनाथेहि सर्वदा ।
शूरः शौटीर्यवांश्चापि क्षिप्राभिज्ञश्च बोधये ॥ ११.३८ ॥
धुरावाहश्च सो भोति लोकनाथान औरसः ।
दान्तभूमिमनुप्राप्तः सूत्रं धारेति यो इदम् ॥ ११.३९ ॥
चक्षुभूतश्च सो भोति लोके सामरमानुषे ।
इदं सुत्रं प्रकाशित्वा निर्वृते नरनायके ॥ ११.४० ॥
वन्दनीयश्च सो भोति सर्वसत्त्वान पण्डितः ।
पश्चिमे कालि यो भाषेत्सूत्रमेकं मुहूर्तकम् ॥ ११.४१ ॥

अथ खलु भगवान् कृत्स्नं बोधिसत्त्वगणं ससुरासुरं च लोकमामन्त्रय एतदवोचत्- भूतपूर्वं भिक्षवोऽतीतेऽध्वनि अहमप्रमेयासंख्येयान् कल्पान् सद्धर्मपुण्डरीकं सूत्रं पर्येषितवानखिन्नोऽविश्रान्तः । पूर्वं च अहमनेकान् कल्पाननेकानि कल्पशतसहस्राणि राजाभूवमनुत्तरायां सम्यक्संबोधौ कृतप्रणिधानः । न च मे चित्तव्यावृत्तिरभूत् । षण्णां च पारमितानां परिपूर्या उद्युक्तोऽभूवमप्रमेयदानप्रदः सुवर्णमणिमुक्तावैदूर्यशङ्खशिलाप्रवालजातरूपरजताश्मगर्भमुसारगल्वलोहितमुक्ताग्रामनगरनिगमजनपदराष्ट्रराजधानीभार्यापुत्रदुहितृदासीदासकर्मकरपौरुषेयहस्त्यश्वरथं यावदात्मशरीरपरित्यागी करचरणशिरोत्तमाङ्गप्रत्यङ्गजीवितदाता । न च मे कदाचिदाग्रहचित्तमुत्पन्नम् । तेन च समयेन अयं लोको दीर्घायुरभत् । अनेकवर्षशतसहस्रजीवितेन च अहं कालेन धर्मार्थं राज्यं कारितवान्, न विषयार्थम् । सोऽहं ज्येष्ठं कुमारं राज्येऽभिषिच्य चतुर्दिशं ज्येष्ठधर्मगवेषणाय उद्युक्तोऽभूवम् । एवं घण्टया घोषापयितवान् - यो मे ज्येष्ठं धर्ममनुप्रदास्यति, अर्थं चाख्यास्यति, तस्याहं दासो भूयासम् । तेन च कालेन ऋषिरभूत् । स मामेतदवोचत्- अस्ति महाराज सद्धर्मपुण्डरीकं नाम सुत्रं ज्येष्ठधर्मनिर्देशकम् । तद्यदि दास्यमभ्युपगच्छसि, ततस्तेऽहं तं धर्मं श्रावयिष्यामि । सोऽहं श्रुत्वा तस्यर्षेर्वचनं हृष्टस्तुष्ट उदग्र आत्तमनाः प्रीतिसौमनस्यजातो येन स ऋषिस्तेनोपेयिवान् । उपेत्यावोचत्- यत्ते दासेन कर्म करणीयं तत्करोमि । सोऽहं तस्यर्षेर्दासभावमभ्युपेत्य तृणकाष्ठपानीयकन्दमूलफलादीनि प्रेष्यकर्माणि कृतवान्, यावद्द्वाराध्यक्षोऽप्यहमासम् । दिवसं चैवंविधं कर्म कृत्वा रात्रौ शयानस्य मञ्चके पादान् धारयामि । न च मे कायक्लमो न चेतसि क्लमोऽभूत् । एवं च मे कुर्वतः परिपूर्णं वर्षासहस्रं गतम् ॥
(वैद्य १५८)

अथ खलु भगवांस्तस्यां वेलायामेतमेवार्थं परिद्योतयन्निमा गाथा अभाषत -

कल्पानतीतान् समनुस्मरामि यदाहमासं धार्मिको धर्मराजा ।
राज्यं चमे धर्महेतोः कृतं तन्न च कामहेतोर्ज्येष्ठधर्महेतोः ॥ ११.४२ ॥
चतुर्दिशं मे कृत घोषणोऽयं धर्मं वदेद्यस्तस्य दास्यं व्रजेयम् ।
आसीदृषिस्तेन कालेन धीमान् सूत्रस्य सद्धर्मनाम्नः प्रवक्ताः ॥ ११.४३ ॥
स मामवोचद्यदि ते धर्मकाङ्क्षा उपेहि दास्यं धर्ममतः प्रवक्ष्ये ।
तुष्टश्चाहं वचनं तं निशाम्य कर्माकरोद्दासयोग्यं तदा यम् ॥ ११.४४ ॥
न कायचित्तक्लमथो स्पृशेन्मां सद्धर्महेतोर्दासमागतस्य ।
प्रणिधिस्तदा मे भवि सत्त्वहेतोर्नात्मानमुद्दिश्य न कामहेतोः ॥ ११.४५ ॥
स राज आसीत्तदा अब्धवीर्यो अनन्यकर्माणि दशद्दिशासु ।
परिपूर्ण कल्पान सहस्रखिन्नो यावत्सूत्रं लब्धवान् धर्मनामम् ॥ ११.४६ ॥

तत्किं मन्यध्वे भिक्षवः अन्यः स तेन कालेन तेन समयेन राजाभूत्? न खलु पुनरेवं द्रष्टव्यम् । तत्कस्य हेतोः? अहं स तेन कालेन तेन समयेन राजाभूवम् । स्यात्खलु पुनर्भिक्षवोऽन्यः स तेन कालेन तेन समयेनर्षिरभूत्? न खलु पुनरेवं द्रष्टव्यम् । अयमेव स तेन कालेन तेन समयेन देवदत्तो भिक्षुरृषिरभुत् । देवदत्तो हि भिक्षवो मम कल्याणमित्रम् । देवदत्तमेव चागम्य मया षटू पारमिताः परिपूरिताः, महामैत्री महाकरुणा महामुदिता महोपेक्षा । द्वात्रिंशन्महापुरुषलक्षणानि अशीत्यनुव्यञ्जनानि सुवर्णवर्णच्छविता दश बलानि चत्वारि वैशारद्यानि चत्वारि संग्रहवस्तूनि अष्टादशावेणिकबुद्धधर्मा महर्द्धिबलता दशदिक्सत्त्वनिस्तारणता, सर्वमेतद्देवदत्तमागस्य । आरोचयामि वो भिक्षवः, प्रतिवेदयामि - एष देवदत्तो भिक्षुरनागतेऽध्वनि अप्रमेयैः कल्पैरसंख्येयैर्देवराजो नाम तथागतोऽर्हन् सम्यक्संबुद्धो (वैद्य १५९) भविष्यति विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च भगवान् देवसोपानायां लोकधातौ । देवराजस्य खलु पुनर्भिक्षवस्तथागतस्य विंशत्यन्तरकल्पानायुष्प्रमाणं भविष्यति । विस्तरेण च धर्मं देशयिष्यति । गङ्गानदीवालुकासमाश्च सत्त्वाः सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्करिष्यन्ति । अनेके च सत्त्वाः प्रत्येकबोधौ चित्तमुत्पादयिष्यन्ति । गङ्गानदीवालुकासमाश्च सत्त्वा अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयिष्यन्ति, अवैवर्तिकक्षान्तिप्रतिलब्धाश्च भविष्यन्ति । देवराजस्य खलु पुनर्भिक्षवस्तथागतस्य परिनिर्वृतस्य विंशत्यन्तरकल्पान् सद्धर्मः स्थास्यति । न च शरीरं धातुभेदेन भेत्स्यते । एकघनं चास्य शरीरं भविष्यति सप्तरत्नस्तूपं प्रविष्टम् । स च स्तूपः षष्टियोजनशतान्युच्चैस्त्वेन भविष्यति, चत्वारिंशद्योजनान्यायामेन । सर्वे च तत्र देवमनुष्याः पूजां करिष्यन्ति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिर्गाथाभिः । तेन चाभिष्टोष्यन्ति । ये च तं स्तूपं प्रदक्षिणं करिष्यन्ति प्रणामं वा, तेषां केचिदग्रफलमर्हत्त्वं साक्षात्करिष्यन्ति केचित्प्रत्येकबोधिमनुप्राप्स्यन्ते अचिन्त्याचाश्चाप्रमेया देवमनुष्या अनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पाद्य अविनिवर्तनीया भविष्यन्ति ॥

अथ खलु भगवान् पुनरेव भिक्षुसंघमामन्त्रयते स्म - यः कश्चित्भिक्षवोऽनागतेऽध्वनि कुलपुत्रो वा कुलदुहिता वा इमं सद्धर्मपुण्डरीकं सूत्रपरिवर्तं श्रोष्यति, श्रुत्वा च न काङ्क्षिष्यति न विचिकित्सिष्यति, विशुद्धचित्तश्चाधिमोक्ष्यते, तेन तिसृणां दुर्गतीनां द्वारं पिथितं भविष्यति ः नरकतिर्यग्योनियमलोकोपपत्तिषु न पतिष्यति । दशदिग्बुद्धक्षेत्रोपपन्नश्चेदमेव सूत्रं जन्मनि जन्मनि श्रोष्यति । देवमनुष्यलोकोपपन्नस्य चास्य विशिष्टस्थानप्राप्तिर्भविष्यति । यस्मिंश्च बुद्धक्षेत्र उपपत्स्यते, तस्मिन्नौपपादुके सप्तरत्नमये पद्मे उपपत्स्यते तथागतस्य संमुखम् ॥

अथ खलु तस्यां वेलायामधस्ताद्दिशः प्रभूतरत्नस्य तथागतस्य बुद्धक्षेत्रादागतः प्रज्ञाकूटो नाम बोधिसत्त्वः । स तं प्रभूतरत्नं तथागतमेतदवोचत्- गच्छामो भगवन् स्वकं बुद्धक्षेत्रम् । अथ खलु भगवान् शाक्यमुनिस्तथागतः प्रज्ञाकूटं बोधिसत्त्वमेतदवोचत्- मुहूर्तं तावत्कुलपुत्र आगमयस्व यावन्मदीयेन बोधिसत्त्वेन मञ्जुश्रिया कुमारभूतेन सार्धं कंचिदेव धर्मविनिश्चयं कृत्वा पश्चात्स्वकं बुद्धक्षेत्रं गमिष्यसि । अथ खलु तस्यां वेलायां मञ्जुश्रीः कुमारभूतः सहस्रपत्रे पद्मे शकटचक्रप्रमाणमात्रे निषण्णोऽनेकबोधिसत्त्वपरिवृतः पुरस्कृतः समुद्रमध्यात्सागरनागराजभवनादभ्युद्गम्य उपरि वैहायसं खगपथेन गृध्रकूटे पर्वते भगवतोऽन्तिकमुपसंक्रान्तः । अथ मञ्जुश्रीः कुमारभूतः पद्मादवतीर्य भगवतः शाक्यमुनेः प्रभूतरत्नस्य च तथागतस्य पादौ शिरसाभिवन्दित्वा येन प्रज्ञाकूटो बोधिसत्त्वस्तेनोपसंक्रान्तः । उपसंक्रम्य प्रज्ञाकूटेन बोधिसत्त्वेन सार्धं संमुखं संमोदनीं संरञ्जनीं विविधां कथामुपसंगृह्य एकान्ते न्यषीदत् । अथ खलु प्रज्ञाकूटो बोधिसत्त्वो मञ्जुश्रियं कुमारभूतमेतदवोचत्- समुद्रमध्यगतेन त्वया मञ्जुश्रीः कियान् सत्त्वधातुर्विनीतः? मञ्जुश्रीराह - अनेकान्यप्रमेयाण्यसंख्येयानि सत्त्वानि विनीतानि । तावदप्रमेयाण्यसंख्येयानि यावद्वाचा न शक्यं विज्ञापयितुं चित्तेन वा चिन्तयितुम् (वैद्य १६०) । मुहूर्तं तावत्कुलपुत्र आगमयस्व यावत्पूर्वनिमित्तं द्रक्ष्यसि । समनन्तरभाषिता चेयं मञ्जुश्रिया कुमारभूतेन वाक्, तस्यां वेलायामनेकानि पद्मसहस्राणि समुद्रमध्यादभ्युद्गतानि उपरि वैहायसम् । तेषु च पद्मेष्वनेकानि बोधिसत्त्वसहस्राणि संनिषण्णानि । अथ ते बोधिसत्त्वास्तेनैव खगपथेन येन गृध्रकूटः पर्वतस्तेनोपसंक्रान्ताः । उपसंक्रम्य ततश्चोपरि वैहायसं स्थिताः संदृश्यन्ते स्म । सर्वे च ते मञ्जुश्रिया कुमारभूतेन विनीता अनुत्तरायां सम्यक्संबोधौ । तत्र ये बोधिसत्त्वा महायानसंप्रस्थिताः पूर्वमभूवन्, ते महायानगुणान् षट्पारमिताः संवर्णयन्ति । ये श्रावकपूर्वा बोधिसत्त्वास्ते श्रावकयानमेव संवर्णयन्ति । सर्वे च ते सर्वधर्मान् शून्यानिति संजानन्ति स्म, महायानगूणांश्च । अथ खलु मञ्जुश्रीः कुमारभूतः प्रज्ञाकूटं बोधिसत्त्वमेतदवोचत्- सर्वोऽयं कुलपुत्र मया समुद्रमध्यगतेन सत्त्वविनयः कृतः । स चायं संदृश्यते । अथ खलु प्रज्ञाकूटो बोधिसत्त्वो मञ्जुश्रियं कुमारभूतं गाथाभिगीतेन परिपृच्छति -

महाभद्र प्रज्ञया सूरनामनसंख्येया ये विनीतास्त्वयाद्य ।
सत्त्वा अमी कस्य चायं प्रभावस्तद्बूहि पृष्टो नरदेव त्वमेतत् ॥ ११.४७ ॥
कं वा धर्मं देशितवानसि त्वं किं वा सूत्रं बोधिमार्गोपदेशम् ।
यच्छ्रुत्वामी बोधये जातचित्ताः सर्वज्ञत्वे निश्चितं लब्धगाधाः ॥ ११.४८ ॥

मञ्जुश्रीराह - समुद्रमध्ये सद्धर्मपुण्डरीकं सूत्रं भाषितवान्, न चान्यत् । प्रज्ञाकूट आह - इदं सूत्रं गम्भीरं सूक्ष्मं दुर्दृशम्, न चानेन सुत्रेण किंचिदन्यत्सूत्रं सममस्ति । अस्ति कश्चित्सत्त्वो य इदं सूत्ररत्नं सत्कुर्यादवबोद्धुमनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम्? मञ्जुश्रीराह - अस्ति कुलपुत्र सागरस्य नागराज्ञो दुहिता अष्टवर्षा जात्या महाप्रज्ञा तीक्ष्णेन्द्रिया ज्ञानपूर्वंगमेन कायवाङ्मनस्कर्मणा समन्वागता सर्वतथागतभाषितव्यञ्जनार्थोद्ग्रहणे धारणीप्रतिलब्धा सर्वधर्मसत्त्वसमाधानसमाधिसहस्रैकक्षणप्रतिलाभिनी । बोधिचित्ताविनिवर्तिनी विस्तीर्णप्रणिधाना सर्वसत्त्वेष्वात्मप्रेमानुगता गुणोत्पादने च समर्था । न च तेभ्यः परिहीयते । स्मितमुखी परमया शुभवर्णपुष्कलतया समन्वागता मैत्रचित्ता करुणां च वाचं भाषते । सा सम्यक्संबोधिमभिसंबोद्धुं समर्थाम् । प्रज्ञाकूटो बोधिसत्त्व आह - दृष्टो मया भगवान् शाक्यमुनिस्तथागतो बोधाय घटमानो बोधिसत्त्वभूतोऽनेकानि पुण्यानि कृतवान् । अनेकानि च कल्पसहस्राणि न कदाचिद्वीर्यं स्रंसितवान् । त्रिसाहस्रमहासाहस्रायां लोकधातौ नास्ति कश्चिदन्तशः सर्षपमात्रोऽपि पृथिवीप्रदेशः यत्रानेन शरीरं न निक्षिप्तं सत्त्वहितहेतोः । पश्चाद्बोधिमभिसंबुद्ध । क एवं श्रद्दध्यात्, यदनया शक्यं मुहूर्तेन अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम्?(वैद्य १६१)

अथ खलु तस्यां वेलायां सागरनागराजदुहिता अग्रतः स्थिता संदृश्यते स्म । सा भगवतः पादौ शिरसाभिवन्द्य एकान्तेऽस्थात् ।
तस्यां वेलायामिमा गाथा अभाषत -

पुण्यं पुण्यं गभीरं च दिशः स्फुरति सर्वशः ।
सूक्ष्मं शरीरं द्वात्रिंशल्लक्षणैः समलंकृतम् ॥ ११.४९ ॥
अनुव्यजनयुक्तं च सर्वसत्त्वनमस्कृतम् ।
सर्वसत्त्वाभिगम्यं च अन्तरापणवद्यथा ॥ ११.५० ॥
यथेच्छया मे संबोधिः साक्षी मेऽत्र तथागतः ।
विस्तीर्णं देशयिष्यामि धर्मं दुःखप्रमोचनम् ॥ ११.५१ ॥

अथ खलु तस्यां वेलायामायुष्मान् शारिपुत्रस्तां सागरनागराजदुहितरमेतदवोचत्- केवलं कुलपुत्रि बोधाय चित्तमुत्पन्नम् । अविवर्त्याप्रमेयप्रज्ञा चासि । सम्यक्संबुद्धत्वं तु दुर्लभम् । अस्ति कुलपुत्रि स्त्री न च वीर्यं स्रंसयति, अनेकानि च कल्पशतान्यनेकानि च कल्पसहस्राणि पुण्यानि करोति, षट्पारमिताः परिपूरयति, न चाद्यापि बुद्धत्वं प्राप्नोति । किं कारणम्? पञ्च स्थानानि स्त्री अद्यापि न प्राप्नोति । कतमानि पञ्च? प्रथमं ब्रह्मस्थानं द्वितीयं शक्रस्थानं तृतीयं महाराजस्थानं चतुर्थं चक्रवर्तिस्थानं पञ्चममवैवर्तिकबोधिसत्त्वस्थानम् ॥

अथ खलु तस्यां वेलायां सागरनागराजदुहितुरेको मणिरस्ति, यः कृत्स्नां महासाहस्रां लोकधातुं मूल्यं क्षमते । स च मणिस्तया सागरनागराजदुहित्रा भगवते दत्तः । स भगवता च अनुकम्पामुपादाय प्रतिगृहीतः । अथ सागरनागराजदुहिता प्रज्ञाकूटं बोधिसत्त्वं स्थविरं च शारिपुत्रमेतदवोचत्- योऽयं मणिर्मया भगवतो दत्तः, स च भगवता शीर्घ्रं प्रतिगृहीतो वेति? स्थविर आह - त्वया च शीघ्रं दत्तो भगवता च शीघ्रं प्रतिगृहीतः । सागरनागराजदुहिता आह - यद्यहं भदन्त शारिपुत्र महर्द्धिकी स्याम्, शीघ्रतरं सम्यक्संबोधिमभिसंबुध्येयम् । न चास्य मणेः प्रतिग्राहकः स्यात् ॥

अथ तस्यां वेलायां सागरनागराजदुहिता सर्वलोकप्रत्यक्षं स्थविरस्य च शारिपुत्रस्य प्रत्यक्षं तत्स्त्रीन्द्रियमन्तर्हितं पुरुषेन्द्रियं च प्रादुर्भूतं बोधिसत्त्वभूतं चात्मानं संदर्शयति । तस्यां वेलायां दक्षिणां दिशं प्रक्रान्तः । अथ दक्षिणस्यां दिशि विमला नाम लोकधातुः । तत्र सप्तरत्नमये बोधिवृक्षमूले निषण्णमभिसंबुद्धमात्मानं संदर्शयति स्म, द्वात्रिंशल्लक्षणधरं सर्वानुव्यजनरूपं प्रभया च दशदिशं स्फुरित्वा धर्मदेशनां कुर्वाणम् । ये च सहायां लोकधातौ सत्त्वाः, ते सर्वे तं तथागतं पश्यन्ति स्म, सर्वैश्च देवनागयक्षगन्धर्वासुरगरुडकिन्नरमनुष्यामनुष्यैर्नमस्यमानं धर्मदेशनां च कुर्वन्तम् । ये च सत्त्वास्तस्य तथागतस्य धर्मदेशनां शृण्वन्ति, सर्वे तेऽविनिवर्तनीया भवन्त्यनुत्तरायां सम्यक्संबोधौ । सा च विमला लोकधातुः, इयं च सहा लोकधातुः षड्विकारं प्राकम्पत् । भगवतश्च शाक्यमुनेः पर्षन्मण्डलानां त्रयाणां प्राणिसहस्राणामनुत्पत्तिकधर्मक्षान्तिप्रतिलाभोऽभूत् । त्रयाणां च प्राणिशतसहस्राणामनुत्तरायां सम्यक्संबोधौ व्याकरणप्रतिलाभोऽभूत् । अथ प्रज्ञाकूटो बोधिसत्त्वो महासत्त्वः स्थविरश्च शारिपुत्रस्तूष्णीमभूताम् ॥

इत्यार्यसद्धर्मपुण्डरीके धर्मपर्याये स्तूपसंदर्शनपरिवर्तो नामैकादशमः ॥



_______________________________________________________________________________




(वैद्य १६२)

१२: उत्साहपरिवर्तः ।

अथ खलु भैषज्यराजो बोधिसत्त्वो महासत्त्वो महाप्रतिभानश्च बोधिसत्त्वो महासत्त्वो विंशतिबोधिसत्त्वशतसहस्रपरिवारो भगवतः संमुखमिमां वाचमभाषेताम् - अल्पोत्सुको भगवान् भवत्वस्मिन्नर्थे । वयमिमं भगवन् धर्मपर्यायं तथागतस्य परिनिर्वृतस्य सत्त्वानां देशयिष्यामः संप्रकाशयिष्यामः । किंचापि भगवन् शठकाः सत्त्वास्तस्मिन् काले भविष्यन्ति, परीत्तकुशलमूला अधिमानिका लाभसत्कारसंनिश्रिता अकुशलमूलप्रतिपन्ना दुर्दमा अधिमुक्तिविरहिता अनधिमुक्तिबहुलाः, अपि तु खलु पुनर्वयं भगवन् क्षान्तिबलमुपदर्शयित्वा तस्मिन् काले इदं सूत्रमुद्देक्ष्यामो धारयिष्यामो देशयिष्यामो लिखिष्यामः सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः । कायजीवितं च वयं भगवनुत्सृज्य इदं सूत्रं प्रकाशयिष्यामः । अल्पोत्सुको भगवान् भवत्विति ॥

अथ खलु तस्यां पर्षदि शैक्षाशैक्षाणां भिक्षूणां पञ्चमात्राणि भिक्षुशतानि भगवन्त मेतदूचुः - वयमपि भगवनुत्सहामहे इमं धर्मपर्यायं संप्रकाशयितुम्, अपि तु खलु पुनर्भगवनन्यासु लोकधातुष्विति । अथ खलु यावन्तस्ते भगवतः श्रावकाः शैक्षाशैक्षा भगवता व्याकृता अनुत्तरायां सम्यक्संबोधौ, अष्टौ भिक्षुसहस्राणि, सर्वाणि तानि येन भगवांस्तेनाञ्जलिं प्रणमय्य भगवन्तमेतदूचुः - अल्पोत्सुको भगवान् भवतु । वयमपीमं धर्मपर्यायं संप्रकाशयिष्यामस्तथागतस्य परिनिर्वृतस्य पश्चिमे काले पश्चिमे समये अपि त्वन्यासु लोकधातुषु । तत्कस्य हेतोः? अस्यां भगवन् सहायां लोकधातौ अधिमानिकाः सत्त्वा अल्पकुशलमूला नित्यं व्यापन्नचित्ताः शठा वङ्कजातीयाः ॥

अथ खलु महाप्रजापती गौतमी भगवतो मातृभगिनी षड्भिर्भिक्षुणीसहस्रैः सार्धं शैक्षाशैक्षाभिर्भिक्षुणीभिः उत्थायासनाद्येन भगवांस्तेनाञ्जलिं प्रणमय्य भगवन्तमुल्लोकयन्ती स्थिताभूत् । अथ खलु भगवांस्तस्यां वेलायां महाप्रजापतीं गौतमीमामन्त्रयामास - किं त्वं गौतमि दुर्मनस्विनी स्थिता तथागतं व्यवलोकयसि? नाहं परिकीर्तिता व्याकृता च अनुत्तरायां सम्यक्संबोधौ । अपि तु खलु पुनर्गौतमि सर्वपर्षद्वयाकरणेन व्याकृतासि । अपि तु खलु पुनस्त्वं गौतमि इत उपादाय अष्टात्रिंशतां बुद्धकोटीनियुतशतसहस्राणामन्तिके सत्कारं गुरुकारं माननां पूजनामर्चनामपचायनां कृत्वा बोधिसत्त्वा महासत्त्वो धर्मभाणको भविष्यसि । इमान्यपि षड्भिक्षुणीसहस्राणि शैक्षाशैक्षाणां भिक्षुणीनां त्वयैव सार्धं तेषां तथागतानामर्हतां सम्यक्संबुद्धानामन्तिके बोधिसत्त्वा धर्मभाणका भविष्यन्ति । ततः परेण परतरेण बोधिसत्त्वचर्यां परिपूर्य सर्वसत्त्वप्रियदर्शनो नाम तथागतोऽर्हन् सम्यक्संबुद्धो लोके भविष्यसि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् । स च गौतमि सर्वसत्त्वप्रियदर्शनस्तथागतोऽर्हन् सम्यक्संबुद्धस्तानि षड्बोधिसत्त्वसहस्राणि परंपराव्याकरणेन व्याकरिष्यत्यनुत्तरायां सम्यक्संबोधौ ॥
(वैद्य १६३)

अथ खलु राहुलमातुर्यशोधराया भिक्षुण्या एतदभवत्- न मे भगवता नामधेयं परिकीर्तितम् । अथ खलु भगवान् यशोधराया भिक्षुण्याश्चेतसैव चेतःपरिवितर्कमाज्ञाय यशोधरां भिक्षुणीमेतदवोचत्- आरोचयामि ते यशोधरे, प्रतिवेदयामि ते । त्वमपि दशानां बुद्धकोटीसहस्राणामन्तिके सत्कारं गुरुकारं माननां पूजनामर्चनामपचायनां कृत्वा बोधिसत्त्वो धर्मभाणको भविष्यसि । बोधिसत्त्वचर्यां च अनुपूर्वेण परिपूर्य रश्मिशतसहस्रपरिपूर्णध्वजो नाम तथागतोऽर्हन् सम्यक्संबुद्धो लोके भविष्यसि विधाचरणसंपन्नः सुगतोलोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् भद्रायां लोकधातौ । अपरिमितं च तस्य भगवतो रश्मिशतसहस्रपरिपूर्णध्वजस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यायुष्प्रमाणं भविष्यति ॥

अथ खलु महाप्रजापती गौतमी भिक्षुणी षड्भिक्षुणीसहस्रपरिवारा यशोधरा च भिक्षुणी चतुर्भिक्षुणीसहस्रपरिवारा भगवतोऽन्तिकात्स्वकं व्याकरणं श्रुत्वा अनुत्तरायां सम्यक्संबोधौ आश्चर्यप्राप्ता अद्भुतप्राप्ताश्च तस्यां वेलायामिमां गाथामभाषन्त -

भगवन् विनेतासि विनायकोऽसि शास्तासि लोकस्य सदेवकस्य ।
आश्वासदाता नरदेवपूजितो वयं पि संतोषित अद्य नाथ ॥ १२.१ ॥

अथ खलु ता भिक्षुण्यः इमां गाथां भाषित्वा भगवन्तमेतदूचुः - वयमपि भगवन् समुत्सहामहे इमं धर्मपर्यायं संप्रकाशयितुं पश्चिमे काले पश्चिमे समये, अपि त्वन्यासु लोकधातुष्विति ॥

अथ खलु भगवान् येन तान्यशीतिबोधिसत्त्वकोटीनयुतशतसहस्राणि धारणीप्रतिलब्धानां बोधिसत्त्वानामवैवर्तिकधर्मचक्रप्रवर्तकानां तेनावलोकयामास । अथ खलु ते बोधिसत्त्वा महासत्त्वाः समनन्तरावलोकिता भगवता उत्थायासनेभ्यो येन भगवांस्तेनाञ्जलिं प्रणाम्यैवं चिन्तयामासुः - अस्माकं भगवानध्येषति अस्य धर्मपर्यायस्य संप्रकाशनतायै । ते खल्वेवमनुविचिन्त्य संप्रकम्पिताः परस्परमूचुः - कथं वयं कुलपुत्राः करिष्यामो यद्भगवानध्येषति अस्य धर्मपर्यायस्यानागतेऽध्वनि संप्रकाशनतायै? अथ खलु ते कुलपुत्रा भगवतो गौरवेण आत्मनश्च पुर्वचर्याप्रणिधानेन भगवतोऽभिमुखं सिंहनादं नदन्ते स्म - वयं भगवननागतेऽध्वनि इमं धर्मपर्यायं तथागते परिनिर्वृते दशसु दिक्षु गत्वा सर्वसत्त्वांल्लेखयिष्यामः पाठयिष्यामश्चिन्तापयिष्यामः प्रकाशयिष्यामो भगवत एवानुभावेन । भगवांश्च अस्माकमन्यलोकधातुस्थितो रक्षावरणगुप्तिं करिष्यति ॥

अथ खलु ते बोधिसत्त्वा महासत्त्वाः समसंगीत्या भगवन्तमाभिर्गाथाभिरध्यभाषन्त -(वैद्य १६४)

अल्पोत्सुकस्त्वं भगवन् भवस्व वयं तदा ते परिनिर्वृतस्य ।
स्वं पश्चिमे कालि सुभैरवस्मिन् प्रकाशयिष्यामिद सूत्रमुत्तमम् ॥ १२.२ ॥
आक्रोशांस्तर्जनांश्चैव दण्डोद्गूरणानि च ।
बालानां संसहिष्यामोऽधिवासिष्याम नायक ॥ १२.३ ॥
दुर्बुद्धिनश्च वङ्काश्च शठा बालाधिमानिनः ।
अप्राप्ते प्राप्तसंज्ञी च घोरे कालस्मि पश्चिमे ॥ १२.४ ॥
अरण्यवृत्तकाश्चैव कन्थां प्रावरियाण च ।
संलेखवृत्तिचारि स्म एवं वक्ष्यन्ति दुर्मती ॥ १२.५ ॥
रसेषु गृद्ध सक्ताश्च गृहीणां धर्म देशयी ।
सत्कृताश्च भविष्यन्ति षडभिज्ञा यथा तथा ॥ १२.६ ॥
रौद्रचित्ताश्च दुष्टाश्च गृहवित्तविचिन्तकाः ।
अरण्यगुप्तिं प्रविशित्वा अस्माकं परिवादकाः ॥ १२.७ ॥
अस्माकं चैव वक्ष्यन्ति लाभसत्कारनिश्रिताः ।
तीर्थिका बतिमे भिक्षू स्वानि काव्यानि देशयुः ॥ १२.८ ॥
स्वयं सूत्राणि ग्रन्थित्वा लाभसत्कारहेतवः ।
पर्षाय मध्ये भाषन्ते अस्माकमनुकुट्टकाः ॥ १२.९ ॥
राजेषु राजपुत्रेषु राजामात्येषु वा तथा ।
विप्राणां गृहपतीनां च अन्येषां चापि भिक्षुणाम् ॥ १२.१० ॥
वक्ष्यन्त्यवर्णमस्माकं तीर्थ्यवादं च कारयी ।
सर्वं वयं क्षमिष्यामो गौरवेण महर्षिणाम् ॥ १२.११ ॥
ये चास्मान् कुत्सयिष्यन्ति तस्मिन् कालस्मि दुर्मती ।
इमे बुद्धा भविष्यन्ति क्षमिष्यामथ सर्वशः ॥ १२.१२ ॥
कल्पसंक्षोभमीष्मस्मिन् दारुणस्मि महाभये ।
यक्षरूपा बहु भिक्षू अस्माकं परिभाषकाः ॥ १२.१३ ॥
गौरवेणेह लोकेन्द्रे उत्सहाम सुदुष्करम् ।
क्षान्तीय कक्ष्यां बन्धित्वा सूत्रमेतं प्रकाशये ॥ १२.१४ ॥
अनर्थिकाः स्म कायेन जीवितेन च नायक ।
अर्थिकाश्च स्म बोधीय तव निक्षेपधारकाः ॥ १२.१५ ॥
(वैद्य १६५)
भगवानेव जानीते यादृशाः पापभिक्षवः ।
पश्चिमे कालि भेष्यन्ति संधाभाष्यमजानकाः ॥ १२.१६ ॥
भृकुटी सर्व सोढव्या अप्रज्ञप्तिः पुनः पुनः ।
निष्कासनं विहारेभ्यो बन्धकुट्टी बहूविधा ॥ १२.१७ ॥
आज्ञप्तिं लोकनाथस्य स्मरन्ता कालि पश्चिमे ।
भाषिष्याम इदं सूत्रं पर्षन्मध्ये विशारदाः ॥ १२.१८ ॥
नगरेष्वथ ग्रामेषु ये भेष्यन्ति इहार्थिकाः ।
गत्वा गत्वास्य दास्यामो निक्षेपं तव नायक ॥ १२.१९ ॥
प्रेषणं तव लोकेन्द्र करिष्यामो महामुने ।
अल्पोत्सुको भव त्वं हि शान्तिप्राप्तो सुनिर्वृतः ॥ १२.२० ॥
सर्वे च लोकप्रद्योता आगता ये दिशो दश ।
सत्यां वाचं प्रभाषामो अधिमुक्तिं विजानसि ॥ १२.२१ ॥

इत्यार्यसद्धर्मपुण्डरीके धर्मपर्याये उत्साहपरिवर्तो नाम द्वादशमः ॥



_______________________________________________________________________________



(वैद्य १६६)

१३: सुखविहारपरिवर्तः ।


अथ खलु मञ्जुश्रीः कुमारभूतो भगवन्तमेतदवोचत - दुष्करं भगवन् परमदुष्करमेभिर्बोधिसत्त्वैर्महासत्त्वैरुत्सोढं भगवतो गौरवेण । कथं भगवनेभिर्बोधिसत्त्वैर्महासत्त्वैरयं धर्मपर्यायः पश्चिमे काले पश्चिमे समये संप्रकाशयितव्यः? एवमुक्ते भगवान्मञ्जुश्रियं कुमारभूतमेतदवोचत्- चतुर्षु मञ्जुश्रीर्धर्मेषु प्रतिष्ठितेन बोधिसत्त्वेन महासत्त्वेन अयं धर्मपर्यायः पश्चिमे काले पश्चिमे समये संप्रकाशयितव्यः । कतमेषु चतुर्षु? इह मञ्जुश्रीर्बोधिसत्त्वेन महासत्त्वेन आचारगोचरप्रतिष्ठितेन अयं धर्मपर्यायं पश्चिमे काले पश्चिमे समये संप्रकाशयितव्यः । कथं च मञ्जुश्रीर्बोधिसत्त्वो महासत्त्व आचारगोचरप्रतिष्ठितो भवति? यदा च मञ्जुश्रीर्बोधिसत्त्वो महासत्त्वः क्षान्तो भवति, दान्तो दान्तभूमिमनुप्राप्तोऽनुत्रस्तासंत्रस्तमना अनभ्यसूयकः, यदा च मञ्जुश्रीर्बोधिसत्त्वो महासत्त्वो न कस्मिंश्चिद्धर्मे चरति, यथाभूतं च धर्माणां स्वलक्षणं व्यवलोकयति ।
या खल्वेषु धर्मेष्वविचारणा अविकल्पना, अयमुच्यते मञ्जुश्रीर्बोधिसत्त्वस्य महासत्त्वस्याचारः । कतमश्च मञ्जुश्रीर्बोधिसत्त्वस्य महासत्त्वस्य गोचरः? यदा च मञ्जुश्रीर्बोधिसत्त्वो महासत्त्वो न राजानं संसेवते, न राजपुत्रान्न राजमहामात्रान्न राजपुरुषान् संसेवते न भजते न पर्युपास्ते नोपसंक्रामति, नान्यतीर्थ्याश्चरकपरिव्राजकाजीवकनिर्ग्रन्थान्न काव्यशास्त्रप्रसृतान् सत्त्वान् संसेवते, न भजते न पर्युपास्ते, न च लोकायतमन्त्रधारकान्न लोकायतिकान् सेवते न भजते न पर्युपास्ते, न च तैः सार्धं संस्तवं करोति । न चाण्डलान्न मौष्टिकान्न सौकरिकान्न कौक्कुटिकान्न मृगलुब्धकान्न मांसिकान्न नटनृत्तकान्न झल्लान्न मल्लान् । अन्यानि परेषां रतिक्रीडास्थानानि तानि नोपसंक्रामति । न च तैः सार्धं संस्तवं करोति । अन्यत्रोपसंक्रान्तानां कालेन कालं धर्मं भाषते, तं चानिश्रितो भाषते । श्रावकयानीयांश्च भिक्षुभिक्षुण्युपासकोपासिका न सेवते न भजते न पर्युपास्ते, न च तैः सार्धं संस्तवं करोति । न च तैः सह समवधानगोचरो भवति चंक्रमे वा विहारे वा । अन्यत्रोपसंक्रान्तानां चैषां कालेन कालं धर्मं भाषते, तं चानिश्रितो भाषते । अयं मञ्जुश्रीर्बोधिसत्त्वस्य महासत्त्वस्य गोचरः ॥

पुनरपरं मञ्जुश्रीर्बोधिसत्त्वो महासत्त्वो न मातृग्रामस्य अन्यतरान्यतरमनुनयनिमित्तमुद्गृह्य अभीक्ष्णं धर्मं देशयति, न च मातृग्रामस्य अभीक्ष्णं दर्शनकामो भवति । न च कुलान्युपसंक्रमति, न च दारिकां वा कन्यां वा वधुकां वा अभीक्ष्णमाभाषितव्यां मन्यते, न प्रतिसंमोदयति । न च पण्डकस्य धर्मं देशयति, न च तेन सार्धं संस्तवं करोति, न च प्रतिसंमोदयति । न चैकाकी भिक्षार्थमन्तर्गृहं प्रविशति अन्यत्र तथागतानुस्मृतिं भावयमानः । सचेत्पुनर्मातृग्रामस्य धर्मं देशयति, स नान्तशो धर्मसंरागेणापि धर्मं (वैद्य १६७) देशयति, कः पुनर्वादः स्त्रीसंरागेण । नान्तशो दन्तावलीमप्युपदर्शयति, कः पुनर्वाद औदारिकमुखविकारम् । न च श्रामणेरं न च श्रामणेरीं न भिक्षुं न भिक्षुणीं न कुमारकं न कुमारिकां सातीयति, न च तैः सार्धं संस्तवं करोति, न च संलापं करोति । स च प्रतिसंलयनगुरुको भवति, अभीक्ष्णं च प्रतिसंलयनं सेवते । अयमुच्यते मञ्जुश्रीर्बोधिसत्त्वस्य महासत्त्वस्य प्रथमो गोचरः ॥

पुनरपरं मञ्जुश्रीर्बोधिसत्त्वो महासत्त्वः सर्वधर्मान् शून्यान् व्यवलोकयति, यथावत्प्रतिष्ठितान् धर्मानविपरीतस्थायिनो यथाभूतस्थितानचलानकम्प्यानविवर्त्यानपरिवर्तान् सदा यथाभूतस्थितानाकाशस्वभावान्निरुक्तिव्यवहारविवर्जितानजातानभुताननसंभूतानसंस्कृतानसंतानानसत्ताभिलापप्रव्याहृतानसङ्गस्थानस्थितान् संज्ञाविपर्यासप्रादुर्भूतान् । एवं हि मञ्जुश्रीर्बोधिसत्त्वो महासत्त्वोऽभीक्ष्णं सर्वधर्मान् व्यवलोकयन् विहरति अनेन विहारेण विहरन् बोधिसत्त्वो महासत्त्वो गोचरे स्थितो भवति । अयं मञ्जुश्रीर्बोधिसत्त्वस्य द्वितीयो गोचरः ॥

अथ खलु भगवानेतमेवार्थं भूयस्या मात्रया संदर्शयमानस्तस्यां वेलायामिमा गाथा अभाषत -

यो बोधिसत्त्व इच्छेया पश्चात्काले सुदारुणे ।
इदं सूत्रं प्रकाशेतुमनोलीनो विशारदः ॥ १३.१ ॥
आचारगोचरं रक्षेदसंसृष्टः शुचिर्भवेत् ।
वर्जयेत्संस्तवं नित्यं राजपुत्रेहि राजभिः ॥ १३.२ ॥
ये चापिं राजपुरुषाः कुर्यात्तेहि न संस्तवम् ।
चण्डालमुष्टिकैः शौण्डैस्तीर्थिकैश्चापि सर्वशः ॥ १३.३ ॥
अधिमानीन्न सेवेत विनये चागमे स्थितान् ।
अर्हन्तसंमतान् भिक्षून् दुःशीलांश्चैव वर्जयेत् ॥ १३.४ ॥
भिक्षुणीं वर्जयेन्नित्यं हास्यसंलापगोचराम् ।
उपासिकाश्च वर्जेत प्राकटा या अवस्थिताः ॥ १३.५ ॥
या निर्वृतिं गवेषन्ति दृष्टे धर्मे उपासिकाः ।
वर्जयेत्संस्तवं ताभिः आचारो अयमुच्यते ॥ १३.६ ॥
यश्चैनमुपसंक्रम्य धर्मं पृच्छेऽग्रबोधये ।
तस्य भाषेत्सदा धीरो अनोलीनो अनिश्रितः ॥ १३.७ ॥
(वैद्य १६८)
स्त्रीपण्डकाश्च ये सत्त्वाः संस्तवं तैर्विवर्जयेत् ।
कुलेषु चापि वधुकां कुमार्यश्च विवर्जयेत् ॥ १३.८ ॥
न ता संमोदयेज्जातु कौशल्यं हास पृच्छितुम् ।
संस्तवं तेहि वर्जेत सौकरौरभ्रिकैः सह ॥ १३.९ ॥
ये चापि विविधान् प्राणीन् हिंसेयुर्भोगकारणात् ।
मांसं सूनाय विक्रेन्ति संस्तवं तैर्विवर्जयेत् ॥ १३.१० ॥
स्त्रीपोषकाश्च ये सत्त्वा वर्जयेत्तेहि संस्तवम् ।
नटेभिर्झल्लमल्लेभिर्ये चान्ये तादृशा जनाः ॥ १३.११ ॥
वारमुख्या न सेवेत ये चान्ये भोगवृत्तिनः ।
प्रतिसंमोदनं तेभिः सर्वशः परिवर्जयेत् ॥ १३.१२ ॥
यदा च धर्मं देशेया मातृग्रामस्य पण्डितः ।
न चैकः प्रविशेत्तत्र नापि हास्यस्थितो भवेत् ॥ १३.१३ ॥
यदापि प्रविशेद्ग्रामं भोजनार्थी पुनः पुनः ।
द्वितीयं भिक्षु मार्गेत बुद्धं वा समनुस्मरेत् ॥ १३.१४ ॥
आचारगोचरो ह्येष प्रथमो मे निदर्शितः ।
विहरन्ति येन सप्रज्ञा धारेन्ता सूत्रमीदृशम् ॥ १३.१५ ॥
यदा न चरते धर्मं हीनौत्कृष्टमध्यमे ।
संस्कृतासंस्कृते चापि भूताभूते च सर्वशः ॥ १३.१६ ॥
स्त्रीति नाचरते धीरो पुरुषेति न कल्पयेत् ।
सर्वधर्म अजातत्वाद्गवेषन्तो न पश्यति ॥ १३.१७ ॥
आचारो हि अयमुक्तो बोधिसत्त्वान सर्वशः ।
गोचरो यादृशस्तेषां तं शृणोथ प्रकाशतः ॥ १३.१८ ॥
असन्तका धर्म इमे प्रकाशिता अप्रादुभूताश्च अजात सर्वे ।
शून्या निरीहा स्थित नित्यकालमयं गोचरो उच्यति पण्डितानाम् ॥ १३.१९ ॥
विपरीतसंज्ञीहि इमे विकल्पिता असन्तसन्ता हि अभूतभूततः ।
(वैद्य १६९)
अनुत्थिताश्चापि अजातधर्मा जाताथ भूता विपरीतकल्पिताः ॥ १३.२० ॥
एकाग्रचित्तो हि समाहितः सदा सुमेरुकूटो यथ सुस्थितश्च ।
एवं स्थितश्चापि हि तान्निरीक्षेदाकाशभूतानिम सर्वधर्मान् ॥ १३.२१ ॥
सदापि आकाशसमानसारकाननिञ्जितान्मन्यनवर्जितांश्च ।
स्थिता हि धर्मा इति नित्यकालमयु गोचरो उच्यति पण्डितानाम् ॥ १३.२२ ॥
ईर्यापथं यो मम रक्षमाणो भवेत भिक्षू मम निर्वृतस्य ।
प्रकाशयेत्सूत्रमिदं हि लोके न चापि संलीयन तस्य काचित् ॥ १३.२३ ॥
कालेन वा चिन्तयमानु पण्डितः प्रविश्य लेनं तथ घट्टयित्वा ।
विपश्य धर्ममिमु सर्व योनिशो उत्थाय देशेत अलीनचित्तः ॥ १३.२४ ॥
राजान तस्येह करोन्ति रक्षां ये राजपुत्राश्च शृणोन्ति धर्मम् ।
अन्येऽपि चो गृहपति ब्राह्मणाश्च परिवार्य सर्वेऽस्य स्थिता भवन्ति ॥ १३.२५ ॥

पुनरपरं मञ्जुश्रिर्बोधिसत्त्वो महासत्त्वस्तथागतस्य परिनिर्वृतस्य पश्चिमे काले पश्चिमे समये सद्धर्मविप्रलोपे वर्तमाने इमं धर्मपर्यायं संप्रकाशयितुकामः सुखस्थितो भवति । स सुखस्थितश्च धर्मं भाषते कायगतं वा पुस्तकगतं वा । परेषां च देशयमानो नाधिमात्रमुपालम्भजातीयो भवति, न चान्यान् धर्मभाणकान् भिक्षून् परिवदति, न चावर्णं भाषते, न चावर्णं निश्चारयति, न चान्येषां श्रावकयानीयानां भिक्षूणां नाम गृहीत्वा अवर्ण भाषते, न चावर्णं चारयति, न च तेषामन्तिके प्रत्यर्थिकसंज्ञी भवति । तत्कस्य हेतोः? यथापीदं सुखस्थानवस्थितत्वात् । स आगतागतानां धार्मश्रावणिकानामनुपरिग्राहिकया अनभ्यसूयया (वैद्य १७०) धर्मं देशयति । अविवदमानो न च प्रश्नं पृष्टः श्रावकयानेन विसर्जयति । अपि तु खलु पुनस्तथा विसर्जयति, यथा बुद्धज्ञानमभिसंबुध्यते ॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -

सुखस्थितो भोति सदा विचक्षणः सुखं निषण्णस्तथ धर्मु भाषते ।
उदार प्रज्ञप्त करित्व आसनं चौक्षे मनोज्ञे पृथिवीप्रदेशे ॥ १३.२६ ॥
चौक्षं चासौ चीवर प्रावरित्वा सुरक्तरङ्गं सुप्रशस्तरङ्गैः ।
आसेवकां कृष्ण तथाददित्वा महाप्रमाणं च निवासयित्वा ॥ १३.२७ ॥
सपादपीठस्मि निषद्य आसने विचित्रदूष्येहि सुसंस्तृतस्मिन् ।
सुधौतपादश्च उपारुहित्वा स्निग्धेन शीर्षेण मुखेन चापि ॥ १३.२८ ॥
धर्मासने चात्र निषीदियान एकाग्रसत्त्वेषु समागतेषु ।
उपसंहरेच्चित्रकथा बहूश्च भिक्षूण चो भिक्षूणिकान चैव ॥ १३.२९ ॥
उपासकानां च उपासिकानां राज्ञां तथा राजसुतान चैव ।
विचित्रितार्थां मधुरां कथेया अनभ्यसूयन्तु सदा स पण्डितः ॥ १३.३० ॥
पृष्टोऽपि चासौ तद प्रश्न तेहि अनुलोममर्थं पुनर्निर्दिशेत ।
तथा च देशेय तमर्थजातं यथ श्रुत्व बोधीय भवेयु लाभिनः ॥ १३.३१ ॥
किलासितां चापि विवर्जयित्वा न चापि उत्पादयि खेदसंज्ञाम् ।
(वैद्य १७१)
अरतिं च सर्वां विजहेत पण्डितो मैत्रीबलं चा परिषाय भावयेत् ॥ १३.३२ ॥
भाषेच्च रात्रिंदिवमग्रधर्मं दृष्टान्तकोटीनयुतैः स पण्डितः ।
संहर्षयेत्पर्ष तथैव तोषयेन्न चापि किंचित्ततु जातु प्रार्थयेत् ॥ १३.३३ ॥
खाद्यं च भोज्यं च तथान्नपानं वस्त्राणि शय्यासन चीवरं वा ।
गिलानभैषज्य न चिन्तयेत न विज्ञपेया परिषाय किंचित् ॥ १३.३४ ॥
अन्यत्र चिन्तेय सदा विचक्षणो भवेय बुद्धोऽहमिमे च सत्त्वाः ।
एतन्ममो सर्वसुखोपधानं यं धर्म श्रावेमि हिताय लोके ॥ १३.३५ ॥
यश्चापि भिक्षू मम निर्वृतस्य अनीर्षुको एत प्रकाशयेया ।
न तस्य दुःखं न च अन्तरायो शोकोपयासा न भवेत्कदाचित् ॥ १३.३६ ॥
न तस्य संत्रासन कश्चि कुर्यान्न ताडनां नापि अवर्ण भाषेत् ।
न चापि निप्कासन जातु तस्य तथा हि सो क्षान्तिबले प्रतिष्ठितः ॥ १३.३७ ॥
सुखस्थितस्यो तद पण्डितस्य एवं स्थितस्यो यथ भाषितं मया ।
गुणान कोटीशत भोन्त्यनेके न शक्यते कल्पशते हि वक्तुम् ॥ १३.३८ ॥

पुनरपरं मञ्जुश्रीर्बोधिसत्त्वो महासत्त्वस्तथागतस्य परिनिर्वृतस्य सद्धर्मक्षयान्तकाले वर्तमाने इदं सूत्रं धारयमाणो बोधिसत्त्वो महासत्त्वोऽनीर्षुको भवत्यशठोऽमायावी, न चान्येषां बोधिसत्त्वयानीयानां पुद्गलानामवर्णं भाषते, नापवदति नावसादयति । न चान्येषां भिक्षुभिक्षुण्युपासकोपासिकानां श्रावकयानीयानां वा प्रत्येकबुद्धयानीयानां वा बोधिसत्त्वयानीयानां वा कौकृत्यमुपसंहरति - दूरे यूयं कुलपुत्रा अनुत्तरायाः सम्यक्संबोधेः, न तस्यां यूयं (वैद्य १७२) सदृश्यध्वे । अत्यन्तप्रमादविहारिणो यूयम् । न यूयं प्रतिबलास्तं ज्ञानमभिसंबोद्धुम् । इत्येवं न कस्यचिद्बोधिसत्त्वयानीयस्य कौकृत्यमुपसंहरति । न च धर्मविवादाभिरतो भवति, न च धर्मविवादं करोति, सर्वसत्त्वानां चान्तिके मैत्रीबलं न विजहाति । सर्वतथागतानां चान्तिके पितृसंज्ञामुत्पादयति, सर्वबोधिसत्त्वानां चान्तिके शास्तृसंज्ञामुत्पादयति । ये च दशसु दिक्षु लोके बोधिसत्त्वा महासत्त्वाः, तानभीक्ष्णमध्याशयेन गौरवेण च नमस्कुरुते । धर्मं च देशयमानोऽनूनमनधिकं धर्मं देशयति समेन धर्मप्रेम्णा, न च कस्यचिदन्तशो धर्मप्रेम्णाप्यधिकतरमनुग्रहं करोति इमं धर्मपर्यायं संप्रकाशयमानः ॥

अनेन मञ्जुश्रीस्तृतीयेन धर्मेण समन्वागतो बोधिसत्त्वो महासत्त्वस्तथागतस्य परिनिर्वृतस्य सद्धर्मपरिक्षयान्तकाले वर्तमाने इमं धर्मपर्यायं संप्रकाशयमानः सुखस्पर्शं विहरति, अविहेठितश्चेमं धर्मपर्यायं संप्रकाशयति । भवन्ति चास्य
धर्मसंगीत्यां सहायकाः । उत्पत्स्यन्ते चास्य धार्मश्रावणिकाः, येऽस्येमं धर्मपर्यायं श्रोष्यन्ति श्रद्धास्यन्ति, पत्तीयिष्यन्ति धारयिष्यन्ति पर्यवाप्स्यन्ति लिखिष्यन्ति लिखापयिष्यन्ति, पुस्तकगतं च कृत्वा सत्करिष्यन्ति गुरुकरिष्यन्ति मानयिष्यन्ति पूजयिष्यन्ति ॥

इदमवोचद्भगवान् । इदं वदित्वा सुगतो ह्यथापरमेतदुवाच शास्ता -

शाठ्यं च मानं तथ कूटनां च अशेषतो उज्झिय धर्मभाणकः ।
ईर्ष्यां न कुर्यात्तथ जातु पण्डितो य इच्छते सूत्रमिदं प्रकाशितुम् ॥ १३.३९ ॥
अवर्ण जातू न वदेय कस्यचिद्दृष्टीविवादं च न जातु कुर्यात् ।
कौकृत्यस्थानं च न जातु कुर्यान्न लप्स्यसे ज्ञानमनुत्तर त्वम् ॥ १३.४० ॥
सदा च सो आर्जवु मर्दावश्च क्षान्तश्च भोती सुगतस्य पुत्रः ।
धर्मं प्रकाशेतुः पुनः पुनश्चिमं न तस्य खेदो भवती कदाचित् ॥ १३.४१ ॥
ये बोधिसत्त्वा दशसू दिशासु सत्त्वानुकम्पाय चरन्ति लोके ।
ते सर्वि शास्तार भवन्ति मह्यं गुरुगौरवं तेषु जनेत पण्डितः ॥ १३.४२ ॥
(वैद्य १७३)
स्मरित्व बुद्धान द्विपदानमुत्तमान् जिनेषु नित्यं पितृसंज्ञ कुर्यात् ।
अधिमानसंज्ञां च विहाय सर्वां न तस्य भोती तद अन्तरायः ॥ १३.४३ ॥
श्रुणित्व धर्ममिममेवरूपं स रक्षितव्यस्तद पण्डितेन ।
सुखं विहाराय समाहितश्च सुरक्षितो भोति च प्राणिकोटिभिः ॥ १३.४४ ॥

पुनरपरं मञ्जुश्रीर्बोधिसत्त्वो महासत्त्वस्तथागतस्य परिनिर्वृतस्य सद्धर्मप्रतिक्षयान्तकाले वर्तमाने इमं धर्मपर्यायं धारयितुकामस्तेन भिक्षुणा गृहस्थप्रव्रजितानामन्तिकाद्दूरेण दूरं विहर्तव्यम्, मैत्रीविहारेण च विहर्तव्यम् । ये च सत्त्वा बोधाय संप्रस्थिता भवन्ति, तेषां सर्वेषामन्तिके स्पृहोत्पादयितव्या । एवं चानेन चित्तमुत्पादयितव्यम् । महादुष्प्रज्ञजातीया बतेमे सत्त्वाः, ये तथागतस्योपायकौशल्यं संधाभाषितं न शृण्वन्ति न जानन्ति न बुध्यन्ते न पृच्छन्ति न श्रद्दधन्ति नाधिमुच्यन्ते । किंचाप्येते सत्त्वा इमं धर्मपर्यायं नावतरन्ति, न बुध्यन्ते, अपि तु खलु पुनरहमेतामनुत्तरां सम्यक्संबोधिमभिसंबुध्य यो यस्मिन् स्थितो भविष्यति, तं तस्मिन्नेव ऋद्धिबलेनावर्जयिष्यामि पत्तीयापयिष्यामि अवतारयिष्यामि परिपाचयिष्यामि ॥

अनेनापि मञ्जुश्रीश्चतुर्थेन धर्मेण समन्वागतो बोधिसत्त्वो महासत्त्वस्तथागतस्य परिनिर्वृतस्य इमं धर्मपर्यायं संप्रकाशयमानोऽव्याबाधो भवति, सत्कृतो गुरुकृतो मानितः पूजितो भिक्षुभिक्षुण्युपासकोपासिकानां राज्ञा रजपुत्राणां राजामात्यानां राजमहामात्राणां नैगमजानपदानां ब्राह्मणगृहपतीनाम् । अन्तरीक्षावचराश्चास्य देवताः श्राद्धाः पृष्ठतोऽनुबद्धा भविष्यन्ति धर्मश्रवणाय । देवपुत्राश्चास्य सदानुबद्धा भविष्यन्त्यारक्षायै ग्रामगतस्य वा विहारगतस्य वा । उपसंक्रमिष्यन्ति रात्रिंदिवं धर्मं परिपृच्छकाः । तस्य च व्याकरणेनं तुष्टा उदग्रा आत्तमनस्का भविष्यन्ति । तत्कस्य हेतोः? सर्वबुद्धाधिष्ठितोऽयं मञ्जुश्रीर्धर्मपर्यायः । अतीतानागतप्रत्युत्पन्नैर्मञ्जुश्रीस्तथागतैरर्हद्भिः सम्यक्संबुद्धैरयं धर्मपर्यायो नित्याधिष्ठितः । दुर्लभोऽस्य मञ्जुश्रीर्धर्मपर्यायस्य बहुषु लोकधातुषु शब्दो वा घोषो वा नामश्रवो वा ॥

तद्यथापि नाम मञ्जुश्री राजा भवति बलचक्रवर्ती, बलेन तं स्वकं राज्यं निर्जिनाति । ततोऽस्य प्रत्यर्थिकाः प्रत्यमित्राः प्रतिराजानस्तेन सार्धं विग्रहमापन्ना भवन्ति । अथ तस्य राज्ञो बलचक्रवर्तिनो विविधा योधा भवन्ति । ते तैः शत्रुभिः सार्धं युध्यन्ते । अथ स राजा तान् योधान् युध्यमानान् दृष्ट्वा तेषां योधानां प्रीतो भवत्यात्तमनस्कः । स प्रीत आत्तमनाः समानस्तेषां योधानां विविधानि दानानि ददाति । तद्यथा ग्रामं वा ग्रामक्षेत्राणि (वैद्य १७४) वा ददाति, नगरं नगरक्षेत्राणि वा ददाति, वस्त्राणि ददाति, वेष्टनानि हस्ताभरणानि पादाभरणानि कण्ठाभरणानि कर्णाभरणानि सौवर्णसूत्राणि हारार्धहाराणि हिरण्यसुवर्णमणिमुक्तावैडूर्यशङ्खशिलाप्रवालान्यपि ददाति, हस्त्यश्वरथपत्तिदासीदासानपि ददाति, यानानि शिबिकाश्च ददाति । न पुनः कस्यचिच्चूडामणिं ददाति । तत्कस्य हेतोः? एक एव हि स चूडामणी राज्ञो मूर्धस्थायी । यदा पुनर्मञ्जुश्री राजा तमपि चूडामणिं ददाति, तदा स सर्वो राज्ञश्चतुरङ्गबलकाय आश्चर्यप्राप्तो भवत्यद्भुतप्राप्तः । एवमेव मञ्जुश्रीस्तथागतोऽप्यर्हन् सम्यक्संबुद्धो धर्मस्वामी धर्मराजा स्वेन बाहुबलनिर्जितेन पुण्यबलनिर्जितेन त्रैधातुके धर्मेण धर्मराज्यं कारयति । तस्य मारः पापीयांस्त्रैधातुकमाक्रामति । अथ खलु तथागतस्यापि आर्या योधा मारेण सार्धं युध्यन्ते । अथ खलु मञ्जुश्रीस्तथागतोऽप्यर्हन् सम्यक्संबुद्धो धर्मस्वामी धर्मराजा तेषामार्याणां योधानां युध्यतां दृष्ट्वा विविधानि सूत्रशतसहस्राणि भाषते स्म चतसृणां पर्षदां संहर्षणार्थम् । निर्वाणनगरं चैषां महाधर्मनगरं ददाति । निर्वृत्या चैनान् प्रलोभयति स्म । न पुनरिममेवंरूपं धर्मपर्यायं भाषते स्म । तत्र मञ्जुश्रीर्यथा स राजा बलचक्रवर्ती तेषां योधानां युध्यतां महता पुरुषकारेण विस्मापितः समानः पश्चात्तं सर्वस्वभूतं पश्चिमं चूडामणिं ददाति सर्वलोकाश्रद्धेयं विस्मयभूतम् । यथा मञ्जुश्रीस्तस्य राज्ञः स चूडामणिश्चिररक्षितो मूर्धस्थायी, एवमेव मञ्जुश्रीस्तथागतोऽर्हन् सम्यक्संबुद्धस्त्रैधातुके धर्मराजो धर्मेण राज्यं कारयमाणो यस्मिन् समये पश्यति श्रावकांश्च बोधिसत्त्वांश्च स्कन्धमारेण वा क्लेशमारेण वा सार्धं युध्यमानान्, तैश्च सार्धं युध्यमानैर्यदा रागद्वेषमोहक्षयः सर्वत्रैधातुकान्निःसरणं सर्वमारनिर्घातनं महापुरुषकारः कृतो भवति, तदा तथागतोऽर्हन् सम्यक्संबुद्धोऽप्यारागितः समानस्तेषामार्य्ःण्ःं योध्ःन्ःमिममेवंरूपं सर्वलोकविप्रत्यनीकं सर्वलोक्ःश्रद्धेयमभ्ःषितपूर्वमनिर्दिष्टपूर्वं धर्मपर्य्ःयं भ्ःषते स्म । सर्वेष्ःं सर्वज्ञत्ःह्ःरकं मह्ःचूड्ःमणिप्रख्यं तथ्ःगतः श्र्ःवकेभ्योऽनुप्रयच्छति स्म । एष्ः हि मञ्जुश्रीस्तथ्ःगत्ःन्ःं परम्ः धर्मदेशन्ः, अयं पश्चिमस्तथ्ःगत्ःन्ःं
धर्मपर्य्ःयः । सर्वेष्ःं धर्मपर्य्ःय्ःण्ःमयं धर्मपर्य्ःयः सर्वगम्भीरः सर्वलोकविप्रत्यनीकः, योऽयं मञ्जुश्रीस्तथ्ःगतेन अद्य तेनैव र्ःज्ञ्ः बलचक्रवर्तिन्ः चिरपरिरक्षितश्चूड्ःमणिरवमुच्य योधेभ्यो दत्तः । एवमेव मञ्जुश्रीस्तथ्ःगतोऽपीमं धर्मगुह्यं चिर्ःनुरक्षितं सर्वधर्मपर्य्ःय्ःण्ःं मूर्धस्थ्ःयि तथ्ःगतविज्ञेयम् । तदिदं तथ्ःगतेन्ःद्य संप्रक्ःशितमिति ॥

अथ खलु भगवानेतमेवार्थं भूयस्या मात्रया संदर्शयमानस्तस्यां वेलायामिमा गाथा अभाषत -

मैत्रीबलं चो सद दर्शयन्तः कृपायमाणः सद सर्वसत्त्वान् ।
प्रकाशयेद्धर्ममिमेवरूपं सूत्रं विशिष्टं सुगतेहि वर्णितम् ॥ १३.४५ ॥
(वैद्य १७५)
गृहस्थ ये प्रव्रजिताश्च ये स्युरथ बोधिसत्त्वास्तद कालि पश्चिमे ।
सर्वेषु मैत्रीबल सो हि दर्शयी मा हैव क्षेप्स्यन्ति श्रुणित्व धर्मम् ॥ १३.४६ ॥
अहं तु बोधिमनुप्रापुणित्वा यदा स्थितो भेष्यि तथागतत्वे ।
ततो उपानेष्यि उपायि स्थित्वा संश्रावयिष्ये इममग्रबोधिम् ॥ १३.४७ ॥
यथापि राजा बलचक्रवर्ती योधान दद्याद्विविधं हिरण्यम् ।
हस्तींश्च अश्वांश्च रथान् पदातीन्नगराणि ग्रामांश्च ददाति तुष्टः ॥ १३.४८ ॥
केषांचि हस्ताभरणानि प्रीतो ददाति रूप्यं च सुवर्णसूत्रम् ।
मुक्तामणिं शङ्खशिलाप्रवालं विविधांश्च दासान् स ददाति प्रीतः ॥ १३.४९ ॥
यदा तु सो उत्तमसांहसेन विस्मापितो केनचि तत्र भोति ।
विज्ञाय आश्चर्यमिदं कृतं ति मुकुटं स मुञ्चित्व मणिं ददाति ॥ १३.५० ॥
तथैव बुद्धो अहु धर्मराजा क्षान्तीबलः प्रज्ञप्रभूतकोशः ।
धर्मेण शासामिमु सर्वलोकं हितानुकम्पी करूणायमानः ॥ १३.५१ ॥
सत्त्वांश्च दृष्ट्वाथ विहन्यमानान् भाषामि सूत्रान्तसहस्रकोट्यः ।
पराक्रमं जानिय तेष प्राणिनां ये शुद्धसत्त्वा इह क्लेशघातिनः ॥ १३.५२ ॥
अथ धर्मराजापि महाभिषट्कः पर्यायकोटीशत भाषमाणः ।
(वैद्य १७६)
ज्ञात्वा च सत्त्वान् बलवन्तु ज्ञानी चूडामणिं वा इम सूत्र देशयी ॥ १३.५३ ॥
इमु पश्चिमु लोकि वदामि सूत्रं सूत्राण सर्वेष ममाग्रभूतम् ।
संरक्षितं मे न च जातु प्रोक्तं तं श्रावयाम्यद्य शृणोथ सर्वे ॥ १३.५४ ॥
चत्वारि धर्मा इमि एवरूपाः मयि निर्वृते ये च निषेवितव्याः ।
ये चार्थिका उत्तममग्रबोधौ व्यापारणं ये च करोन्ति मह्यम् ॥ १३.५५ ॥
न तस्य शोको न पि चान्तरायो दौर्वर्णिकं नापि गिलानकत्वम् ।
न च च्छवी कृष्णिक तस्य भोति न चापि हीने नगरस्मि वासः ॥ १३.५६ ॥
प्रियदर्शनोऽसौ सततं महर्षी � तथागतो वा यथ पूज्य भोति ।
उपस्थायकास्तस्य भवन्ति नित्यं ये देवपुत्रा दहरा भवन्ति ॥ १३.५७ ॥
न तस्य शस्त्रं न विषं कदाचित्काये क्रमे नापि च दण्डलोष्टम् ।
संमीलितं तस्य मुखं भवेय यो तस्य आक्रोशमपी वदेया ॥ १३.५८ ॥
सो बन्धुभूतो भवतीह प्राणिनामालोकजातो विचरन्तु मेदिनीम् ।
तिमिरं हरन्तो बहुप्राणकोटिनां यो सूत्रधारे इमु निर्वृते मयि ॥ १३.५९ ॥
सुपिनस्मि सो पश्यति भद्ररूपं भिक्षूंश्च सो पश्यति भिक्षुणीश्च ।
सिहासनस्थं च तथात्मभावं धर्मं प्रकाशेन्तु बहुप्रकारम् ॥ १३.६० ॥
(वैद्य १७७)
देवांश्च यक्षान् यथ गङ्गावालिका असुरांश्च नागांश्च बहुप्रकारान् ।
तेषां च सो भाषति अग्रधर्मं सुपिनस्मि सर्वेष कृताञ्जलीनाम् ॥ १३.६१ ॥
तथागतं सो सुपिनस्मि पश्यति देशेन्त धर्मं बहुप्राणिकोटिनाम् ।
रश्मीसहस्राणि प्रमुञ्चमानं वल्गुस्वरं काञ्चनवर्णनाथम् ॥ १३.६२ ॥
सो चा तही भोति कृताञ्जलिस्थितो अभिष्टुवन्तो द्विपदुत्तमं मुनिम् ।
सो चा जिनो भाषति अग्रधर्मं चतुर्ण पर्षाण महाभिषटूकः ॥ १३.६३ ॥
सो च प्रहृष्टो भवती श्रुणित्वा प्रामोद्यजातश्च करोति पूजाम् ।
सुपिने च सो धारणि प्रापुणोति अविवर्तियं ज्ञान स्पृशित्व क्षिप्रम् ॥ १३.६४ ॥
ज्ञात्वा च सो आशयु लोकनाथस्तं व्याकरोती पुरुषर्षभत्वे ।
कुलपुत्र त्वं पीह अनुत्तरं शिवं स्पृशिष्यसि ज्ञानमनागतेऽध्वनि ॥ १३.६५ ॥
तवापि क्षेत्रं विपुलं भविष्यति पर्षाश्च चत्वारि यथैव मह्यम् ।
श्रोष्यन्ति धर्मं विपुलमनास्रवं सगौरवा भूत्व कृताञ्जली च ॥ १३.६६ ॥
पुनश्च सो पश्यति आत्मभावं भावेन्त धर्मं गिरिकन्दरेषु ।
भावित्व धर्मं च स्पृशित्व धर्मतां समाधि सो लब्धु जिनं च पश्यति ॥ १३.६७ ॥
सुवर्णवर्णं शतपुण्यलक्षणं सुपिनस्मि दृष्ट्वा च शृणोति धर्मम् ।
(वैद्य १७८)
श्रुत्वा च तं पर्षदि संप्रकाशयी सुपिनो खु तस्यो अयमेवरूपः ॥ १३.६८ ॥
स्वप्नेऽपि सर्वं प्रजहित्व राज्यमन्तःपुरं ज्ञातिगणं तथैव ।
अभिनिष्क्रमी सर्व जहित्व कामानुपसंक्रमी येन च बोधिमण्डम् ॥ १३.६९ ॥
सिंहासने तत्र निषीदियानो द्रुमस्य मूले तहि बोधिअर्थिकः ।
दिवसान सप्तान तथात्ययेन अनुप्राप्स्यते ज्ञानु तथागतानाम् ॥ १३.७० ॥
बोधिं च प्राप्तस्ततु व्युत्थहित्वा प्रवर्तयी चक्रमनास्रवं हि ।
चतुर्ण पर्षाण स धर्म देशयी अचिन्तिया कल्पसहस्रकोट्यः ॥ १३.७१ ॥
प्रकाशयित्वा तहि धर्म नास्रवं निर्वापयित्वा बहु प्राणिकोट्यः ।
निर्वायती हेतुक्षये व दीपः सुपिनो अयं सो भवतेवरूपः ॥ १३.७२ ॥
बहु आनुशंसाश्च अनन्तकाश्च ये मञ्जुघोषा सद तस्य भोन्ति ।
यो पश्चिमे कालि इअममग्रधर्मं सूत्रं प्रकाशेय मया सुदेशितम् ॥ १३.७३ ॥

इत्यार्यसद्धर्मपुण्डरीके धर्मपर्याये सुखविहारपरिवर्तो नाम त्रयोदशमः ॥



_______________________________________________________________________________




(वैद्य १७९)

१४: बोधिसत्त्वपृथिवीविरसमुद्गमपरिवर्तः ।

अथ खलु अन्यलोकधात्वागतानां बोधिसत्त्वानां महासत्त्वानामष्टौ गङ्गानदीवालुकासमा बोधिसत्त्वा महासत्त्वास्तस्मिन् समये ततः पर्षन्मण्डलादभ्युत्थिता अभूवन् । तेऽञ्जलिं प्रगृह्य भगवतोऽभिमुखा भगवन्तं नमस्यमाना भगवन्तमेतदूचुः - सचेद्भगवानस्माकमनुजानीयात्, वयमपि भगवनिमं धर्मपर्यायं तथागतस्य परिनिर्वृतस्य तस्यां सहायां लोकधातौ संप्रकाशेयम वाचयेम लेखयेम पूजयेम, अस्मिंश्च धर्मपर्याये योगमापद्येमहि । तत्साधु भगवानस्माकमपीमं धर्मपर्यायमनुजानातु । अथ खलु भगवांस्तान् बोधिसत्त्वानेतदवोचत्- अलं कुलपुत्राः । किं युष्माकमनेन कृत्येन? सन्ति कुलपुत्रा इह ममैवास्यां सहायां लोकधातौ षष्टिगङ्गानदीवालुकासमानि बोधिसत्त्वसहस्राणि एकस्य बोधिसत्त्वस्य परिवारः । एवंरूपाणां च बोधिसत्त्वानां षष्ट्येव गङ्गानदीवालुकासमानि बोधिसत्त्वसहस्राणि, येषामेकैकस्य बोधिसत्त्वस्य इयानेव परिवारः ये मम परिनिर्वृतस्य पश्चिमे काले पश्चिमे समये इमं धर्मपर्यायं धारयिष्यन्ति वाचयिष्यन्ति संप्रकाशयिष्यन्ति ॥

समनन्तरभाषिता चेयं भगवता वाक्, अथेयं सहा लोकधातुः समन्तात्स्फुटिता विस्फुटिता अभूत् । तेभ्यश्च स्फोटान्तरेभ्यो बहूनि बोधिसत्त्वकोटीनयुतशतसहस्राण्युत्तिष्ठन्ते स्म सुवर्णवर्णैः कायैर्द्वात्रिंशद्भिर्महापुरुषलक्षणैः समन्वागताः, येऽस्यां महापृथिव्यामध आकाशधातौ विहरन्ति स्म । इमामेव सहां लोकधातुं निश्रित्य ते खल्विममेवंरूपं भगवतः शब्दं श्रुत्वा पृथिव्या अधं समुत्थिताः, येषामेकैको बोधिसत्त्वः षष्टिगङ्गानदीवालुकोपमबोधिसत्त्वपरिवारो गणी महागणी गणाचर्यः । तादृशानां बोधिसत्त्वानां महासत्त्वानां गणीनां महागणीनां गणाचार्याणां षष्टिगङ्गानदीवालुकोपमानि बोधिसत्त्वकोटीनयुतशतसहस्राणि, ये इतः सहाया लोकधातोर्धरणीविवरेभ्यः समुन्मज्जन्ते स्म । कः पुनर्वादः पञ्चाशद्गङ्गानदीवालुकोपमबोधिसत्त्वपरिवाराणां बोधिसत्त्वानां महासत्त्वानाम्? कः पुनर्वादश्चत्वारिंशद्गङ्गानदीवालुकोपमबोधिसत्त्वपरिवाराणां बोधिसत्त्वानां महासत्त्वानाम्? कः पुनर्वादस्त्रिंशद्गङ्गानदीवालुकोपमबोधिसत्त्वपरिवाराणां बोधिसत्त्वानां महासत्त्वानाम्? कः पुनर्वादो विंशतिबोधिसत्त्वपरिवाराणां बोधिसत्त्वानां महासत्त्वानाम्? कः पुनर्वादो दशगङ्गानदीवालुकोपमबोधिसत्त्वपरिवाराणां बोधिसत्त्वानां महासत्त्वानाम्? कः पुनर्वादः पञ्चचतुस्त्रिद्विगङ्गानदीवालुकोपमबोधिसत्त्वपरिवाराणां बोधिसत्त्वानां महासत्त्वानाम्? कः पुनर्वाद एकगङ्गानदीवालुकोपमबोधिसत्त्वपरिवाराणां बोधिसत्त्वानां महासत्त्वानाम्? कः पुनर्वादोऽर्धगङ्गानदीवालुकोपमबोधिसत्त्वपरिवाराणां बोधिसत्त्वानां महासत्त्वानाम्? कः पुनर्वादश्चतुर्भाग-षड्भागाष्टभाग-दशभाग-विंशतिभाग-त्रिंशद्भाग-चत्वारिंशद्भाग-पञ्चाशद्भागशतभागसहस्रभागशतसहस्रभागकोटीभागकोटीशतभागकोटीसहस्रभागकोटीशतसहस्रभागकोटीनयुतशतसहस्रभागगङ्गानदीवालुकोपमबोधिसत्त्वपरिवाराणां बोधिसत्त्वानां महासत्त्वानाम्? (वैद्य १८०) कः पुनर्वादो बहुबोधिसत्त्वकोटीनयुतशतसहस्रपरिवाराणां बोधिसत्त्वानां महासत्त्वानाम्? कः पुनर्वादः कोटीपरिवाराणां बोधिसत्त्वानां महासत्त्वानाम्? कः पुनर्वादः शतसहस्रपरिवाराणां बोधिसत्त्वानां महासत्त्वानाम्? कः पुनर्वादः सहस्रपरिवाराणां बोधिसत्त्वानां महासत्त्वानाम्? कः पुनर्वादः पञ्चशतपरिवाराणां बोधिसत्त्वानां महासत्त्वानाम्? कः पुनर्वादश्चतुःशतत्रिशतद्विशतपरिवाराणां बोधिसत्त्वानां महासत्त्वानाम्? कः पुनर्वादः एकशतपरिवाराणां बोधिसत्त्वानां महासत्त्वानाम्? कः पुनर्वादः पञ्चाशद्बोधिसत्त्वपरिवाराणां बोधिसत्त्वानां महासत्त्वानाम्? पेयालम् । कः पुनर्वादश्चत्वारिंशत्रिंशद्विंशतिदशपञ्चचतुस्त्रिद्विबोधिसत्त्वपरिवाराणां बोधिसत्त्वानां महासत्त्वानाम्? कः पुनर्वाद आत्मद्वितीयानां बोधिसत्त्वानां महासत्त्वानाम्? कः पुनर्वादोऽपरिवाराणामेकविहारिणां बोधिसत्त्वानां महासत्त्वानाम्? न तेषां संख्या वा गणना वा उपमा वा उपनिषद्वा उपलभ्यते, य इह सहायां लोकधातौ धरणीविवरेभ्यो बोधिसत्त्वा महासत्त्वाः समुन्मज्जन्ते स्म । ते च उन्मज्ज्योन्मज्ज्य येन
स महारत्नस्तूपो वैहायसमन्तरीक्षे स्थितः, यस्मिन् स भगवान् प्रभूतरत्नस्तथागतोऽर्हन् सम्यक्संबुद्धः परिनिर्वृतः, भगवता शाक्यमुनिना तथागतेनार्हता सम्यक्संबुद्धेन सार्धं सिंहासने निषण्णः, तेनोपसंक्रामन्ति स्म । उपसंक्रम्य च उभययोस्तथागतयोरर्हतोः सम्यक्संबुद्धयोः पादौ शिरोभिर्वन्दित्वा सर्वांश्च तान् भगवतः शाक्यमुनेस्तथागतस्यात्मीयान्निर्मितांस्तथागतविग्रहान् ये ते समन्ततो दशसु दिक्ष्वन्योन्यासु लोकधातुषु संनिपतिताः, नानारत्नवृक्षमूलेषु सिंहासनोपविष्टाः, तान् सर्वानभिवन्द्य नमस्कृत्य च अनेकशतसहस्रकृत्वस्तांस्तथागतानर्हतः सम्यक्संबुद्धान् प्रदक्षिणीकृत्य नानाप्रकारैर्बोधिसत्त्वस्तवैरभिष्टुत्य एकान्ते तस्थुः । अञ्जलिं प्रगृह्य भगवन्तं शाक्यमुनिं तथागतमर्हन्तं सम्यक्संबुद्धं भगवन्तं च प्रभूतरत्नं तथागतमर्हन्तं सम्यक्संबुद्धमभिसंमुखं नमस्कुर्वन्ति स्म ॥

तेन खलु पुनः समयेन तेषां बोधिसत्त्वानां महासत्त्वानां पृथिवीविवरेभ्य उन्मज्जतां तथागतांश्च वन्दमानानां नानाप्रकारैर्बोधिसत्त्वस्तवैरभिष्टुवतां परिपूर्णाः पञ्चाशदन्तरकल्पा गच्छन्ति स्म । तांश्च पञ्चाशदन्तरकल्पान् स भगवान् शाक्यमुनिस्तथागतोऽर्हन् सम्यक्संबुद्धस्तूष्णीमभूत् । ताश्चतस्रः पर्षदस्तानेव पञ्चाशदन्तकल्पांस्तूष्णींभावेनावस्थिता अभूवन् । अथ खलु भगवांस्तथारूपमृद्ध्यभिसंस्कारमकरोत्, यथारूपेण ऋद्ध्यभिसंस्कारेणाभिसंस्कृतेन ताश्चतस्रः पर्षदस्तमेवैकं पश्चाद्भक्तं संजानन्ते स्म । इमां च सहां लोकधातुं शतसहस्राकाशपरिगृहीतां बोधिसत्त्वपरिपूर्णामद्राक्षुः । तस्य खलु पुनर्महतो बोधिसत्त्वगणस्य महतो बोधिसत्त्वराशेश्चत्वारो बोधिसत्त्वा महासत्त्वाः, ये प्रमुखा अभूवन्, तद्यथा विशिष्टचारित्रश्च नाम बोधिसत्त्वो महासत्त्वः, अनन्तचारित्रश्च नाम बोधिसत्त्वो महासत्त्वः, विशुद्धचारित्रश्च नाम बोधिसत्त्वो महासत्त्वः, सुप्रतिष्ठितचारित्रश्च नाम बोधिसत्त्वो महासत्त्वः । इमे चत्वारो बोधिसत्त्वा महासत्त्वास्तस्य महतो बोधिसत्त्वगणस्य महतो बोधिसत्त्वराशेः प्रमुखा अभूवन् । अथ खलु चत्वारो बोधिसत्त्वा महासत्त्वास्तस्य महतो (वैद्य १८१) बोधिसत्त्वगणस्य महतो बोधिसत्त्वराशेरग्रतः स्थित्वा भगवतोऽभिमुखमञ्जलिं प्रगृह्य भगवन्तमेतदूचुः - कच्चिद्भगवतोऽल्पाबाधता मन्दग्लानता सुखसंस्पर्शविहारता च? कच्चिद्भगवन् सत्त्वाः स्वाकाराः सुविज्ञापकाः सुविनेयाः सुविशोधकाः? मा हैव भगवतः खेदमुत्पादयन्ति ॥

अथ खलु ते चत्वारो बोधिसत्त्वा महासत्त्वा भगवन्तामाभ्यां गाथाभ्यामध्यभाषन्त -

कच्चित्सुखं विहरसि लोकनाथ प्रभंकर ।
आबाधविप्रमुक्तोऽसि स्पर्शः काये तवानघ ॥ १४.१ ॥
स्वाकाराश्चैव ते सत्त्वाः सुविनेयाः सुशोधकाः ।
मा हैव खेदं जनयन्ति लोकनाथस्य भाषतः ॥ १४.२ ॥

अथ खलु भगवांस्तस्य महतो बोधिसत्त्वगणस्य महतो बोधिसत्त्वराशेः प्रमुखांश्चतुरो बोधिसत्त्वान्महासत्त्वानेतदवोचत्- एवमेतत्कुलपुत्राः, एवमेतत् । सुखसंस्पर्शविहारोऽस्मि अल्पाबाधो मन्दग्लानः । स्वाकाराश्च ममैव ते सत्त्वाः सुविज्ञापकाः सुविनेयाः सुविशोधकाः । न च मे खेदं जनयन्ति विशोध्यमानाः । तत्कस्य हेतोः? ममैव ह्येते कुलपुत्राः सत्त्वाः पौर्वकेषु सम्यक्संबुद्धेषु कृतपरिकर्माणः । दर्शनादेव हि कुलपुत्राः श्रवणाच्च ममाधिमुच्यन्ते, बुद्धज्ञानमवतरन्ति अवगाहन्ते । यत्र येऽपि श्रावकभूमौ वा प्रतेकबुद्धभूमौ वा कृतपरिचर्या अभुवन्, तेऽपि मयैव एतर्हि बुद्धधर्मज्ञानमवतारिताः संश्राविताश्च परमार्थम् ॥

अथ खलु ते बोधिसत्त्वा महासत्त्वास्तस्यां वेलायामिमे गाथे अभाषन्त -

साधु साधु महावीर अनुमोदामहे वयम् ।
स्वाकारा येन ते सत्त्वाः सुविनेयाः सुशोधकाः ॥ १४.३ ॥
ये चेदं ज्ञान गम्भीरं शृण्वन्ति तव नायक ।
श्रुत्वा च अधिमुच्यन्ते उत्तरन्ति च नायक ॥ १४.४ ॥
एवमुक्ते भगवांस्तस्य महतो बोधिसत्त्वगणस्य महतो बोधिसत्त्वराशेः प्रमुखेभ्यश्चतुर्भ्यो बोधिसत्त्वेभ्यो महासत्त्वेभ्यः साधुकारमदात्- साधु साधु कुलपुत्राः, ये यूयं तथागतमभिनन्दथ इति ॥

तेन खलु पुनः समयेन मैत्रेयस्य बोधिसत्त्वस्य महासत्त्वस्य अन्येषां चाष्टानां गङ्गानदीवालुकोपमानां बोधिसत्त्वकोटीनयुतशतसहस्राणामेतदभवत्- अदृष्टपूर्वोऽयमस्माभिर्महाबोधिसत्त्वगणो महाबोधिसत्त्वराशिः । अश्रुतपूर्वश्च योऽयं पृथिवीविवरेभ्यः समुन्मज्य भगवतः पुरतः स्थित्वा भगवन्तं सत्कुर्वन्ति गुरुकुर्वन्ति मानयन्ति पूजयन्ति भगवन्तं च प्रतिसंमोदन्ते । कुतः खल्विमे बोधिसत्त्वा महासत्त्वा आगता इति?(वैद्य १८२)

अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्व आत्मना विचिकित्सां कथंकथां विदित्वा तेषां गङ्गानदीवालुकोपमानां बोधिसत्त्वकोटीनयुतशतसहस्राणां चेतसैव चेतः परिवितर्कमाज्ञाय तस्यां वेलायामञ्जलिं प्रगृह्य भगवन्तं गाथाभिगीतेनैतमेवार्थं परिपृच्छन्ति स्म -

बहुसहस्रा नयुताः कोटीयो च अनन्तकाः ।
अपूर्वा बोधिसत्त्वानामख्याहि द्विपदोत्तम ॥ १४.५ ॥
कुतो इमे कथं वापि आगच्छन्ति महर्द्धिकाः ।
महात्मभावा रूपेण कुत एतेष आगमः ॥ १४.६ ॥
धृतिमन्ताश्चिमे सर्वे स्मृतिमन्तो महर्षयः ।
प्रियदर्शनाश्च रूपेण कुत एतेष आगमः ॥ १४.७ ॥
एकैकस्य च लोकेन्द्र बोधिसत्त्वस्य विज्ञिनः ।
अप्रमेयः परिवारो यथा गङ्गाय वालिकाः ॥ १४.८ ॥
गङ्गावालिकसमा षष्टि परिपूर्णा यशस्विनः ।
परिवारो बोधिसत्त्वस्य सर्वे बोधाय प्रस्थिताः ॥ १४.९ ॥
एवंरूपाण वीराणां पर्षवन्तान तायिनाम् ।
षष्टिरेव प्रमाणेन गङ्गावालिकया इमे ॥ १४.१० ॥
अतो बहुतराश्चान्ये परिवारैरनन्तकैः ।
पञ्चाशतीय गङ्गाय चत्वारिंशच्च त्रिंशति ॥ १४.११ ॥
समो विंशति गङ्गाया परिवारः समन्ततः ।
अतो बहुतराश्चान्ये येषां दश च पञ्च च ॥ १४.१२ ॥
एकैकस्य परीवारो बुद्धपुत्रस्य तायिनः ।
कुतोऽयमीदृशी पर्षदागताद्य विनायक ॥ १४.१३ ॥
चत्वारि त्रीणि द्वे चापि गङ्गावालिकया समाः ।
एकैकस्य परीवारा येऽनुशिक्षा सहायकाः ॥ १४.१४ ॥
अतो बहुतराश्चान्ये गणना येष्वनन्तिका ।
कल्पकोटीसहस्रेषु उपमेतुं न शक्नुयात् ॥ १४.१५ ॥
अर्धगङ्गा त्रिभागश्च दशविंशतिभागिकः ।
परिवारोऽथ वीराणां बोधिसत्त्वान तायिनाम् ॥ १४.१६ ॥
अतो बहुतराश्चान्ये प्रमाणैषां न विद्यते ।
एकैकं गणयन्तेन कल्पकोटीशतैरपि ॥ १४.१७ ॥
(वैद्य १८३)
अतो बहुतराश्चान्ये परिवारैरनन्तकैः ।
कोटी कोटी च कोटी च अर्धकोटी तथैव च ॥ १४.१८ ॥
गणनाव्यतिवृत्ताश्च अन्ये भूयो महर्षिणाम् ।
बोधिसत्त्वा महाप्रज्ञाः स्थिताः सर्वे सगौरवाः ॥ १४.१९ ॥
परिवारसहस्रं च शतपञ्चाशदेव च ।
गणना नास्ति एतेषां कल्पकोटीशतैरपि ॥ १४.२० ॥
विंशतिद्दश पञ्चाथ चत्वारि त्रीणि द्वे तथा ।
परिवारोऽथ वीराणां गणनैषां न विद्यते ॥ १४.२१ ॥
चरन्त्येकात्मका ये च शान्तिं विन्दन्ति चैककाः ।
गणना तेष नैवास्ति ये इहाद्य समागताः ॥ १४.२२ ॥
गङ्गावालिकासमान् कल्पान् गणयेत यदी नरः ।
शलाकां गृह्य हस्तेन पर्यन्तं नैव सो लभेत् ॥ १४.२३ ॥
महात्मनां च सर्वेषां वीर्यन्तान तायिनाम् ।
बोधिसत्त्वान वीराणां कुत एतेष संभवः ॥ १४.२४ ॥
केनैषां देशितो धर्मः केन बोधीय स्थापिताः ।
रोचन्ति शासनं कस्य कस्य शासनधारकाः ॥ १४.२५ ॥
भित्त्वा हि पृथिवीं सर्वां समन्तेन चतुर्दिशम् ।
उन्मज्जन्ति महाप्रज्ञा ऋद्धिमन्ता विचक्षणाः ॥ १४.२६ ॥
जर्जरा लोकधात्वेयं समन्तेन कृता मुने ।
उन्मज्जमानैरेतैर्हि बोधिसत्त्वैर्विशारदैः ॥ १४.२७ ॥
न ह्येते जातु अस्माभिर्दृष्टपूर्वाः कदाचन ।
आख्याहि नो तस्य नाम लोकधातोर्विनायक ॥ १४.२८ ॥
दशादिशा हि अस्माभिरञ्चितायो पुनः पुनः ।
न च दृष्टा इमेऽस्माभिर्बोधिसत्त्वाः कदाचन ॥ १४.२९ ॥
दृष्टो न जातुरस्माभिरेकोऽपि तनयस्तव ।
इमेऽद्य सहसा दृष्टा आख्याहि चरितं मुने ॥ १४.३० ॥
बोधिसत्त्वसहस्राणि शतानि नयुतानि च ।
सर्वे कौतूहलप्राप्ताः पश्यन्ति द्विपदोत्तमम् ॥ १४.३१ ॥
व्याकुरुष्व महावीर अप्रमेय निरोपधे ।
कुत एन्ति इमे शूरा बोधिसत्त्वा विशारदः ॥ १४.३२ ॥
(वैद्य १८४)

तेन खलु पुनः समयेन ये ते तथागता अर्हन्तः सम्यक्संबुद्धा अन्येभ्यो लोकधातुकोटीनयुतशतसहस्रेभ्योऽभ्यागता भगवतः शाक्यमुनेस्तथागतस्य निर्मिताः, येऽन्येषु लोकधातुषु सत्त्वानां धर्मं देशयन्ति स्म, ये भगवतः शाक्यमुनेस्तथागतस्यार्हतः सम्यक्संबुद्धस्य समन्तादष्टभ्यो दिग्भ्यो रत्नवृक्षमूलेषु महारत्नसिंहासनेषूपविष्टाः पर्यङ्कबद्धाः, तेषां तथागतानामर्हतां सम्यक्संबुद्धानां ये स्वकस्वका उपस्थायकाः, तेऽपि तं महान्तं बोधिसत्त्वगणं बोधिसत्त्वराशिं दृष्ट्वा समन्तात्पृथिवीविवरेभ्य उन्मज्जन्तमाकाशधातुप्रतिष्ठितम्, तेऽप्याश्चर्यप्राप्तास्तान् स्वान् स्वांस्तथागतानेतदूचुः - कुतो भगवनियन्तो बोधिसत्त्वा महासत्त्वा आगच्छन्त्यप्रमेया असंख्येयाः? एवमुक्तास्ते तथागता अर्हन्तः सम्यक्संबुद्धास्तान् स्वान् स्वानुपस्थायकानेतदूचुः - आगमयध्वं यूयं कुलपुत्रा मुहूर्तम् । एष मैत्रेयो नाम बोधिसत्त्वो महासत्त्वो भगवतः शाक्यमुनेरनन्तरं व्याकृतोऽनुत्तरायां सम्यक्संबोधौ, स एतं भगवन्तं शाक्यमुनिं तथागतमर्हन्तं सम्यक्संबुद्धमेतमर्थं परिपृच्छति । एष च भगवान् शाक्यमुनिस्तथागतोऽर्हन् सम्यक्संबुद्धो व्याकरिष्यति । ततो यूयं श्रोष्यथेति ॥

अथ खलु भगवान्मैत्रेयं बोधिसत्त्वं महासत्त्वमामन्त्रयते स्म - साधु साधु अजित । उदारमेतदजित स्थानं यत्त्वं मां परिपृच्छसि । अथ खलु भगवान् सर्वावन्तं बोधिसत्त्वगणमामन्त्रयते स्म - तेन हि कुलपुत्राः सर्व एव प्रयता भवध्वम् । सुसंनद्धा दृढस्थामाश्च भवध्वम्, सर्वश्चायं बोधिसत्त्वगणः । तथागतज्ञानदर्शनं कुलपुत्रास्तथागतोऽर्हन् सम्यक्संबुद्धः सांप्रतं संप्रकाशयति, तथागतवृषभितं तथागतकर्म तथागतविक्रीडितं तथागतविजृम्भितं तथागतपराक्रममिति ॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -

प्रयता भवध्वं कुलपुत्र सर्व इमां प्रमुञ्चामि गिरामनन्यथाम् ।
मा खू विषादं कुरुथेह पण्डिता अचिन्तियं ज्ञानु तथागतानाम् ॥ १४.३३ ॥
धृतिमन्त भूत्वा स्मृतिमन्त सर्वे समाहिताः सर्विः स्थिता भवध्वम् ।
अपूर्वधर्मो श्रुणितव्यु अद्य आश्चर्यभूतो हि तथागतानाम् ॥ १४.३४ ॥
विचिकित्स मा जातु कुरुध्व सर्वे अहं हि युष्मान् परिसंस्थपेमि ।
अनन्यथावादिरहं विनायको ज्ञानं च मे यस्य न काचि संख्या ॥ १४.३५ ॥
गम्भीर धर्माः सुगतेन बुद्धा अतर्किया येष प्रेमाणु नास्ति ।
(वैद्य १८५)
तानद्य हं धर्म प्रकाशयिष्ये शृणोथ मे यादृशका यथा च ते ॥ १४.३६ ॥

अथ खलु भगवानिमा गाथा भाषित्वा तस्यां वेलायां मैत्रयं बोधिसत्त्वं महासत्त्वमामन्त्रयते स्म - आरोचयामि ते अजित, प्रतिवेदयामि । य इमे अजित बोधिसत्त्वा अप्रमेया असंख्येया अचिन्त्या अतुल्या अगणनीयाः, ये युष्माभिरदृष्टपूर्वाः, य एतर्हि पृथिवीविरेभ्यो निष्क्रान्ताः, मयैते अजित सर्वे बोधिसत्त्वा महासत्त्वा अस्यां सहायां लोकधातावनुत्तरां सम्यक्संबोधिमभिसंबुध्य समादापिताः समुत्तेजिताः संप्रहर्षिताः, अनुत्तरायां सम्यक्संबोधौ परिणामिताः । मया चैते कुलपुत्रा अस्मिन् बोधिसत्त्वधर्मे परिपाचिताः प्रतिष्ठापिता निवेशिताः परिसंस्थापिता अवतारिताः परिबोधिताः परिशोधिताः । एते च अजित बोधिसत्त्वा महासत्त्वा अस्यां सहायां लोकधातौ अधस्तादाकाशधातुपरिग्रहे प्रतिवसन्ति । स्वाध्यायोद्देशचिन्तायोनिशोमनसिकारप्रवृत्ता एते कुलपुत्रा असंगणिकारामा असंसर्गाभिरता अनिक्षिप्तधुरा आरब्धवीर्याः । एते अजित कुलपुत्रा विवेकारामा विवेकाभिरताः । नैते कुलपुत्रा देवमनुष्यानुपनिश्राय विहरन्ति असंसर्गचर्याभिरताः । एते कुलपुत्रा धर्मारामाभिरता बुद्धज्ञानेऽभियुक्ताः ॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -

ये बोधिसत्त्वा इमे अप्रमेया अचिन्तिया येष प्रमाणु नास्ति ।
ऋद्धीय प्रज्ञाय श्रुतेनुपेता बहुकल्पकोटीचरिताश्च ज्ञाने ॥ १४.३७ ॥
परिपाचिताः सर्वि मयैति बोधये ममैव क्षेत्रस्मि वसन्ति चैते ।
परिपाचिताः सर्वि मयैव एते ममैव पुत्राश्चिमि बोधिसत्त्वाः ॥ १४.३८ ॥
सर्वे ति आरण्यधुताभियुक्ताः संसर्गभूमिं सद वर्जयन्ति ।
असङ्गचारी च ममैति पुत्रा ममोत्तमां चर्यनुशिक्षमाणाः ॥ १४.३९ ॥
वसन्ति आकाशपरिग्रहेऽस्मिन् क्षेत्रस्य हेष्ठा परिचारि वीराः ।
समुदानयन्ता इममग्रबोधिमुद्युक्त रात्रिंदिवमप्रमत्ताः ॥ १४.४० ॥
(वैद्य १८६)
आरब्धवीर्याः स्मृतिमन्त सर्वे प्रज्ञाबलस्मिन् स्थित अप्रमेये ।
विशारदा धर्मु कथेन्ति चैते प्रभास्वरा पुत्र ममैति सर्वे ॥ १४.४१ ॥
मया च प्राप्य इममग्रबोधिं नगरे गयायां द्रुममूलि तत्र ।
अनुत्तरं वर्तिय धर्मचक्रं परिपाचिताः सर्वि इहाग्रबोधौ ॥ १४.४२ ॥
अनास्रवा भूत इयं मि वाचा श्रुणित्व सर्वे मम श्रद्दधध्वम् ।
एवं चिरं प्राप्त मयाग्रबोधि परिपाचिताश्चैति मयैव सर्वे ॥ १४.४३ ॥

अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वस्तानि च संबहुलानि बोधिसत्त्वकोटीनयुतशतसहस्राण्याश्चर्यप्राप्तान्यभूवन्, अद्भुतप्राप्तानि विस्मयप्राप्तानि - कथं नाम भगवता अनेन क्षणविहारेण अल्पेन कालान्तरेण अमी एतावन्तो बोधिसत्त्वा महासत्त्वा असंख्येयाः समादापिताः, परिपाचिताश्च अनुत्तरायां सम्यक्संबोधौ । अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्- कथमिदानीं भगवंस्तथागतेन कुमारभूतेन कपिलवस्तुनः शाक्यनगरान्निष्कस्य गयानगरान्नातिदूरे बोधिमण्डवराग्रगतेन अनुत्तरा सम्यक्संबोधिरभिसंबुद्धा? तस्याद्य भगवन् कालस्य सातिरिंकाणि चत्वारिंशद्वर्षाणि । तत्कथं भगवंस्तथागतेन इयता कालान्तरेणेदमपरिमितं तथागतकृत्यं कृतम्, तथागतेन तथागतवृषभिता तथागतपराक्रमः कृतः, योऽयं बोधिसत्त्वगणो बोधिसत्त्वराशिरियता भगवन् कालान्तरेण अनुत्तरायां सम्यक्संबोधौ समादापितः परिपाचितश्च? अस्य भगवन् बोधिसत्त्वगणस्य बोधिसत्त्वराशेर्गण्यमानस्य कल्पकोटीनयुतशतसहस्रैरप्यन्तो नोपलभ्यते । एवमप्रमेया भगवनिमे बोधिसत्त्वा महासत्त्वाः, एवमसंख्येयाश्चिरचरितब्रह्मचर्या बहुबुद्धशतसहस्रावरोपितकुशलमूला बहुकल्पशतसहस्रपरिनिष्पन्नाः ॥

तद्यथापि नाम भगवन् कश्चिदेव पुरुषो नवो दहरः शिशुः कृष्णकेशः प्रथमेन वयसा समन्वागतः पञ्चविंशतिवर्षो जात्या भवेत् । स वर्षशतिकान् पुत्रानादर्शयेत्, एवं च वदेत्- एते कुलपुत्रा मम पुत्रा इति । ते च वर्षशतिकाः पुरुषा एवं च वदेयुः - एषोऽस्माकं पिता जनक इति । तस्य च पुरुषस्य भगवंस्तद्वचनमश्रद्धेयं भवेल्लोकस्य दुःश्रद्धेयम् । एवमेव भगवानचिराभिसंबुद्धोऽनुत्तरां सम्यक्संबोधिम्, इमे च बोधिसत्त्वा महासत्त्वा बह्वप्रमेया
बहुकल्पकोटीनयुतशतसहस्रचीर्णचरितब्रह्मचर्याः, दीर्घरात्रं हि कृतनिश्चयाः, बुद्धज्ञाने समाधिमुखशतसहस्रसमापद्यनव्युत्थानकुशलाः महाभिज्ञापरिकर्मनिर्याताः महाभिज्ञाकृतपरिकर्माणः (वैद्य १८७) पण्डिता बुद्धभूमौ, संगीतकुशलास्तथागतधर्माणाम्, आश्चर्याद्भुता लोकस्य महावीर्यबलस्थामप्राप्ताः । तांश्च भगवानेवं वदति - मयैते आदित एव समादापिताः समुत्तेजिताः परिपाचिताः, परिणामिताश्च अस्यां बोधिसत्त्वभूमाविति । अनुत्तरां सम्यक्संबोधिमभिसंबुद्धेन मयैष सर्ववीर्यपराक्रमः कृत इति । किंचापि वयं भगवंस्तथागतस्य वचनं श्रद्धयागमिष्यामः - अनन्यथावादी तथागत इति । तथागत एवैतमर्थं जानीयात् । नवयानसंप्रस्थिताः खलु पुनर्भगवन् बोधिसत्त्वा महासत्त्वा विचिकित्सामापद्यन्ते । अत्र स्थाने परिनिर्वृते तथागते इमं धर्मपर्यायं श्रुत्वा न पत्तीयिष्यन्ति न श्रद्धास्यन्ति नाधिमोक्ष्यन्ति । ततस्ते भगवन् धर्मव्यसनसंवर्तनीयेन कर्माभिसंस्कारेण समन्वागता भविष्यन्ति । तत्साधु भगवनेतमेवार्थ देशय, यद्वयं निःसंशया अस्मिन् धर्मे भवेम, अनागतेऽध्वनि बोधिसत्त्वयानीयाः कुलपुत्रा वा कुलदुहितरो वा श्रुत्वा न विचिकित्सामापद्येरन्निति ॥

अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वस्तस्यां वेलायां भगवन्तमाभिर्गाथाभिरध्यभाषत -

यदासि जातो कपिलाह्वयस्मिन् शाक्याधिवासे अभिनिष्क्रमित्वा ।
प्राप्तोऽसि बोधिं नगरे गयाह्वये कालोऽयमल्पोऽत्र तु लोकनाथ ॥ १४.४४ ॥
इमे च ते आर्य विशारदा बहू ये कल्पकोटीचरिता महागणी ।
ऋद्धीबले च स्थित अप्रकम्पिताः सुशिक्षिताः प्रज्ञबले गतिंगताः ॥ १४.४५ ॥
अनूपलिप्ताः पदुमं व वारिणा भित्त्वा महीं ये इह अद्य आगताः ।
कृताञ्जली सर्वि स्थिताः सगौरवाः स्मृतिमन्त लोकाधिपतिस्य पुत्राः ॥ १४.४६ ॥
कथमिममद्भुतमीदृशं ते तं श्रद्दधिष्यन्तिमि बोधिसत्त्वाः ।
विचिकित्सनिर्घातनहेतु भाष तं त्वं चैव देशेहि यथैव अर्थः ॥ १४.४७ ॥
यथा हि पुरुषो इह कश्चिदेव दहरो भवेया शिशु कृष्णकेशः ।
जात्या च सो विंशतिरुत्तरे वा दर्शेति पुत्रान् शतवर्षजातान् ॥ १४.४८ ॥
(वैद्य १८८)
वलीहि पलितेहि च ते उपेता एषो च नो देहकरो ति ब्रूयुः ।
दुःश्रद्दधं तद्भवि लोकनाथ दहरस्य पुत्रा इमि एवरूपाः ॥ १४.४९ ॥
एमेव भगवांश्च नवो वयस्थः इमे च विज्ञा बहुबोधिसत्त्वाः ।
स्मृतिमन्त प्रज्ञाय विशारदाश्च सुशिक्षिताः कल्पसहस्रकोटिषु ॥ १४.५० ॥
धृतिमन्त प्रज्ञाय विचक्षणाश्च प्रासादिका दर्शनियाश्च सर्वे ।
विशारदा धर्मविनिश्चयेषु परिसंस्तुता लोकविनायकेहि ॥ १४.५१ ॥
असङ्गचारी पवनेव सन्ति आकाशधातौ सततमनिश्रिताः ।
जानेन्ति वीर्यं सुगतस्य पुत्राः पर्येषमाणा इम बुद्धभूमिम् ॥ १४.५२ ॥
कथं नु श्रद्धेयमिदं भवेया परिनिर्वृते लोकविनायकस्मिन् ।
विचिकित्स अस्माक न काचिदस्ति शृणोमथा संमुख लोकनाथा ॥ १४.५३ ॥
विचिकित्स कृत्वान इमस्मि स्थाने गच्छेयु मा दुर्गति बोधिसत्त्वाः ।
त्वं व्याकुरुष्वा भगवन् यथावत्कथ बोधिसत्त्वाः परिपाचिता इमे ॥ १४.५४ ॥

इत्यार्यसद्धर्मपुण्डरीके धर्मपर्याये बोधिसत्त्वपृथिवीविवरसमुद्गमपरिवर्तो नाम चतुर्दशमः ॥



_______________________________________________________________________________




(वैद्य १८९)

१५: तथागतायुष्प्रमाणपरिवर्तः ।

अथ खलु भगवान् सर्वावन्तं बोधिसत्त्वगणमामन्त्रयते स्म - अवकल्पयध्वं मे कुलपुत्राः, अभिश्रद्दधध्वं तथागतस्य भूतां वाचं व्याहरतः । द्वितीयकमपि भगवांस्तान् बोधिसत्त्वानामन्त्रयते स्म - अवकल्पयध्वं मे कुलपुत्राः, अभिश्रद्दधध्वं तथागतस्य भुतां वाचं व्याहरतः । तृतीयकमपि भगवांस्तन् बोधिसत्त्वानामन्त्रयते स्म - अवकल्पयध्वं मे कुलपुत्राः, अभिश्रद्दधध्वं तथागतस्य भूतां वाचं व्याहरतः । अथ खलु स सर्वावान् बोधिसत्त्वगणो मैत्रेयं बोधिसत्त्वं महासत्त्वमग्रतः स्थापयित्वा अञ्जलिं प्रगृह्य भगवन्तमेतदवोचत्- भाषतु भगवानेतमेवार्थम्, भाषतु सुगतः । वयं तथागतस्य भाषितमभिश्रद्धास्यामः । द्वितीयकमपि स सर्वावान् बोधिसत्त्वगणो भगवन्तमेतदवोचत्- भाषतु भगवानेतमेवार्थम्, भाषतु सुगतः । वयं तथागतस्य भाषितमभिश्रद्धास्यामः । तृतीयकमपि स सर्वांवान् बोधिसत्त्वगणो भगवन्तमेतदवोचत्- भाषतु भगवानेतमेवार्थम्, भाषतु सुगतः । वयं तथागतस्य भाषितमभिश्रद्धास्याम इति ॥

अथ खलु भगवांस्तेषां बोधिसत्त्वानां यावत्तृतीयकमप्यध्येषणां विदित्वा तान् बोधिसत्त्वानामन्त्रयते स्म - तेन हि कुलपुत्राः शृणुध्वमिदमेवंरूपं ममाधिष्ठानबलाधानम्, यदयं कुलपुत्राः सदेवमानुषासुरो लोक एवं संजानीते - सांप्रतं भगवता शाक्यमुनिना तथागतेन शाक्यकुलादभिनिष्क्रम्य गयाह्वये महानगरे बोधिमण्डवराग्रगतेन अनुत्तरा सम्यक्संबोधिरभिसंबुद्धेति । नैवं द्रष्टव्यम् । अपि तु खलु पुनः कुलपुत्राः बहूनि मम कल्पकोटीनयुतशतसहस्राण्यनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य । तद्यथापि नाम कुलपुत्राः पञ्चाशत्सु लोकधातुकोटीनयुतशतसहस्रेषु ये पृथिवीधातुपरमाणवः, अथ खलु कश्चिदेव पुरुष उत्पद्यते । स एकं परमाणुरजं गृहीत्वा पूर्वस्यां दिशि पञ्चाशल्लोकधात्वसंख्येयशतसहस्राण्यतिक्रम्य तदेकं परमाणुरजः समुपनिक्षिपेत् । अनेन पर्यायेण कल्पकोटीनयुतशतसहस्राणि स पुरुषः सर्वांस्तांल्लोकधातून व्यपगतपृथिवीधातून् कुर्यात्, सर्वाणि च तानि पृथिवीधातुपरमाणुरजांसि अनेन पर्यायेण अनेन च लक्षनिक्षेपेण पूर्वस्यां दिश्युपनिक्षिपेत् । तत्किं मन्यध्वे कुलपुत्राः शक्यं ते लोकधातवः केनचिच्चिन्तयितुं वा गणयितुं वा तुलयितुं वा उपलक्षयितुं वा? एवमुक्ते मैत्रेयो बोधिसत्त्वो महासत्त्वः स च सर्वावान् बोधिसत्त्वगणो बोधिसत्त्वराशिर्भगवन्तमेतदवोचत्- असंख्येयास्ते भगवंल्लोकधातवः, अगणनीयाश्चित्तभूमिसमतिक्रान्ताः । सर्वश्रावकप्रत्येकबुद्धैरपि भगवनार्येण ज्ञानेन न शक्यं चिन्तयितुं वा गणयितुं वा तुलयितुं वा उपलक्षयितुं वा । अस्माकमपि तावद्भगवनवैवर्त्यभूमिस्थितानां बोधिसत्त्वानां महासत्त्वानामस्मिन् स्थाने चित्तगोचरो न प्रवर्तते । तावदप्रमेया भगवंस्ते लोकधातवो भवेयुरिति ॥
(वैद्य १९०)

एवमुक्ते भगवांस्तान् बोधिसत्त्वान्महासत्त्वानेतदवोचत्- आरोचयामि वः कुलपुत्राः, प्रतिवेदयामि वः । यावन्तः कुलपुत्रास्ते लोकधातवो येषु तेन पुरुषेण तानि परमाणुरजांस्युपनिक्षिप्तानि, येषु च नोपनिक्षिप्तानि, सर्वेषु तेषु कुलपुत्र लोकधातुकोटीनयुतशतसहस्रेषु न तावन्ति परमाणुरजांसि संविद्यन्ते, यावन्ति मम कल्पकोटीनयुतशतसहस्राण्यनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य । यतःप्रभृत्यहं कुलपुत्रा अस्यां सहायां लोकधातौ सत्त्वानां धर्मं देशयामि, अन्येषु च लोकधातुकोटीनयुतशतसहस्रेषु, ये च मया कुलपुत्रा अत्रान्तरा तथागता अर्हन्तः सम्यक्संबुद्धाः परिकीर्तिता दीपंकरतथागतप्रभृतयः, तेषां च तथागतानामर्हतां सम्यक्संबुद्धानां परिनिर्वाणानि, मयैव तानि कुलपुत्रा उपायकौशल्यधर्मदेशनाभिनिर्हारनिर्मितानि । अपि तु खलु पुनः कुलपुत्राः, तथागत आगतागतानां सत्त्वानामिन्द्रियवीर्यवैमात्रतां व्यवलोक्य तस्मिंस्तस्मिन्नात्मनो नाम व्याहरति । तस्मिंस्तस्मिंश्चात्मनः परिनिर्वाणं व्याहरति, तथा तथा च सत्त्वान् परितोषयति नानाविधैर्धर्मपर्यायैः । तत्र कुलपुत्रास्तथागतो नानाधिमुक्तानां सत्त्वानामल्पकुशलमूलानां बहूपक्लेशानामेवं वदति - दहरोऽहमस्मि भिक्षवो जात्याभिनिष्क्रान्तः । अचिराभिसंबुद्धोऽस्मि भिक्षवोऽनुत्तरां सम्यक्संबोधिम् । यत्खलु पुनः कुलपुत्राः, तथागत एवं चिराभिसंबुद्ध एवं व्याहरति - अचिराभिसंबुद्धोऽहमस्मीति, नान्यत्र सत्त्वानां परिपाचनार्थम् । अवतारणार्थमेते धर्मपर्याया भाषिताः । सर्वे च ते कुलपुत्रा धर्मपर्यायास्तथागतेन सत्त्वानां विनयार्थाय भाषिताः ।
यां च कुलपुत्रास्तथागतः सत्त्वानां विनयार्थवाचं भाषते आत्मोपदर्शनेन वा परोपदर्शनेन वा, आत्मारम्बणेन वा परारम्बनेन वा यत्किंचित्तथागतो व्याहरति, सर्वे ते धर्मपर्यायाः सत्यास्तथागतेन भाषिताः । नास्त्यत्र तथागतस्य मृषावादः । तत्कस्य हेतोः? दृष्टं हि तथागतेन त्रैधातुकं यथाभूतम् । न जायते न म्रियते न च्यवते नोपपद्यते न संसरति न परिनिर्वाति, न भूतं नाभूतं न सन्तं नासन्तं न तथा नान्यथा न वितथा नावितथा । न तथा त्रैधातुकं तथागतेन दृष्टं यथा बालपृथग्जनाः पश्यन्ति । प्रत्यक्षधर्मा तथागतः खल्वस्मिन् स्थानेऽसंप्रमोषधर्मा । तत्र तथागतो यां कांचिद्वाचं व्याहरति, सर्वं तत्सत्यं न मृषा नान्यथा । अपि तु खलु पुनः सत्त्वानां नानाचरितानां नानाभिप्रायाणां संज्ञाविकल्पचरितानां कुशलमूलसंजननार्थं विविधान् धर्मपर्यायान् विविधैरारम्बणैर्व्याहरति । यद्धि कुलपुत्रास्तथागतेन कर्तव्यं तत्तथागतः करोति । तावच्चिराभिसंबुद्धोऽपरिमितायुष्प्रमाणस्तथागतः सदा स्थितः । अपरिनिर्वृतस्तथागतः परिनिर्वाणमादर्शयति वैनेयवशेन । न च तावन्मे कुलपुत्रा अद्यापि पौर्विकी बोधिसत्त्वचर्यां परिनिष्पादिता । आयुष्प्रमाणमप्यपरिपूर्णम् । अपि तु खलु पुनः कुलपुत्रा अद्यापि तद्द्विगुणेन मे कल्पकोटीनयुतशतसहस्राणि भविष्यन्ति आयुष्प्रमाणस्यापरिपूर्णत्वात् । इदानीं (वैद्य १९१) खलु पुनरहं कुलपुत्रा अपरिनिर्वायमाण एव परिनिर्वाणमारोचयामि । तत्कस्य हेतोः? सत्त्वानहं कुलपुत्रा अनेन पर्यायेण परिपाचयामि - मा हैव मेऽतिचिरं तिष्ठतोऽभीक्ष्णदर्शनेन अकृतकुशलमूलाः सत्त्वाः पुण्यविरहिता दरिद्रभूताः कामलोलुपा अन्धा दृष्टिजालसंछन्नाः तिष्ठति तथागत इति विदित्वा किलीकृतसंज्ञा भवेयुः, न च तथागते दुर्लभसंज्ञामुत्पादयेयुः - आसन्ना वयं तथागतस्येति । वीर्यं नारभेयुस्त्रैधातुकान्निःसरणार्थम्, न च तथागते दुर्लभसंज्ञामुत्पादयेयुः । ततः कुलपुत्राः तथागतः उपायकौशल्येन तेषां सत्त्वानां दुर्लभप्रादुर्भावो भिक्षवस्तथागत इति वाचं व्याहरति स्म । तत्कस्य हेतोः? तथा हि तेषां सत्त्वानां बहुभिः कल्पकोटीनयुतशतसहस्रैरपि तथागतदर्शनं भवति वा न वा । ततः खल्वहं कुलपुत्रास्तदारम्बणं कृत्वैवं वदामि - दुर्लभप्रादुर्भावा हि भिक्षवस्तथागता इति । ते भूयस्या मात्रया दुर्लभप्रादुर्भावांस्तथागतान् विदित्वा आश्चर्यसंज्ञामुत्पादयिष्यन्ति, शोकसंज्ञामुत्पादयिष्यन्ति । अपश्यन्तश्च तथागतानर्हतः सम्यक्संबुद्धान् तृषिता भविष्यन्ति तथागतदर्शनाय । तेषां तानि तथागतारम्बणमनस्कारकुशलमूलानि दीर्घरात्रमर्थाय हिताय सुखाय च भविष्यन्ति । एतमर्थं विदित्वा तथागतोऽपरिनिर्वायन्नेव परिनिर्वाणमारोचयति सत्त्वानां वैनेयवशमुपादाय । तथागतस्यैष कुलपुत्रा धर्मपर्यायो यदेवं व्याहरति । नास्त्यत्र तथागतस्य मृषावादः ॥
तद्यथापि नाम कुलपुत्राः कश्चिदेव वैद्यपुरुषो भवेत्पण्डितो व्यक्तो मेधावी सुकुशलः सर्वव्याधिप्रशमनाय । तस्य च पुरुषस्य बहवः पुत्रा भवेयुर्दश वा विंशतिर्वा त्रिंशद्वा चत्वारिंशद्वा पञ्चाशद्वा शतं वा । स च वैद्यः प्रवासगतो भवेत्, ते चास्य सर्वे पुत्रा गरपीडा वा विषपीडा वा भवेयुः । तेन गरेण वा विषेण वा दुःखाभिर्वेदनाभिरभितूर्णा भवेयुः । ते तेन गरेण वा विषेण वा दह्यमानाः पृथिव्यां प्रपतेयुः । अथ स तेषां वैद्यः पिता प्रवासादागच्छेत् । ते चास्य पुत्रास्तेन गरेण वा विषेण वा दुःखाभिर्वेदनाभिरार्ताः । केचिद्विपरीतसंज्ञिनो भवेयुः, केचिदविपरीतसंज्ञिनो भवेयुः । सर्वे च ते तेनैव दुःखेनार्तास्तं पितरं दृष्ट्वाभिनन्देयुः, एवं चैनं वदेयुः - दिष्ट्यासि तात क्षेमस्वस्तिभ्यामागतः । तदस्माकमस्मादात्मोपरोधाद्गराद्वा विषाद्वा परिमोचयस्व । ददस्व नस्तात जीवितमिति । अथ खलु स वैद्यस्तान् पुत्रान् दुःखार्तान् दृष्ट्वा वेदनाभिभूतान् दह्यतः पृथिव्यां परिवेष्टमानान्, ततो महाभैषज्यं समुदानयित्वा वर्णसंपन्नं गन्धसंपन्नं रससंपन्नं च, शिलायां पिष्ट्वा तेषां पुत्राणां पानाय दद्यात्, एवं चैनान् वदेत्- पिबथ पुत्रा इदं महाभैषज्यं वर्णसंपन्नं गन्धसंपन्नं रससंपन्नम् । इदं यूयं पुत्रा महाभैषज्यं पीत्वा क्षिप्रमेवास्माद्गराद्वा विषाद्वा परिमोक्ष्यध्वे, स्वस्था भविष्यथ अरोगाश्च । तत्र ये तस्य वैद्यस्य पुत्रा अविपरीतसंज्ञिनः ते भैषज्यस्य वर्णं च दृष्ट्वा गन्धं चाघ्राय रसं चास्वाद्य क्षिप्रमेवाभ्यवहरेयुः । ते चाभ्यवहरन्तस्तस्मादाबाधात्सर्वेण सर्वं विमुक्ता भवेयुः । ये पुनस्तस्य पुत्रा विपरीतसंज्ञिनः ते तं पितरमभिनन्देयुः, एनं चैवं वदेयुः - दिष्टयासि तात क्षेमस्वस्तिभ्यामागतो यस्त्वमस्माकं चिकित्सक इति । (वैद्य १९२) ते चैवं वाचं भाषेरन्, तच्च भैषज्यमुपनामितं न पिबेयुः । तत्कस्य हेतोः? तथा हि तेषां तया विपरीतसंज्ञ्या तद्भैषज्यमुपनामितं वर्णेनापि न रोचते, गन्धेनापि रसेनापि न रोचते । अथ खलु स वैद्यपुरुष एवं चिन्तयेत्- इमे मम पुत्रा अनेन गरेण वा विषेण वा विपरीतसंज्ञिनः । ते खल्विदं महाभैषज्यं न पिबन्ति, मां चाभिनन्दन्ति । यन्नवहमिमान् पुत्रानुपायकौशल्येन इदं भैषज्यं पाययेयमिति । अथ खलु स वैद्यस्तान् पुत्रानुपायकौशल्येन तद्भैषज्यं पाययितुकाम एवं वदेत्- जीर्णोऽहमस्मि कुलपुत्राः, वृद्धो महल्लकः । कालक्रिया च मे प्रत्युपस्थिता । मा च यूयं पुत्राः शोचिष्ठ, मा च क्लममापध्वम् । इदं
वो मया महाभैषज्यमुपनीतम् । सचेदाकाङ्क्षध्वे, तदेव भैषज्यं पिबध्वम् । स एवं तान् पुत्रानुपायकौशल्येन अनुशिष्य अन्यतरं जनपदप्रदेशं प्रक्रान्तः । तत्र गत्वा कालगतमात्मानं येषां ग्लानानां पुत्राणामारोचयेत्, ते तस्मिन् समयेऽतीव शोचयेयुः, अतीव परिदेवेयुः - यो ह्यस्माकं पिता नाथो जनकोऽनुकम्पकः सोऽपि नामैकः कालगतः, तेऽद्य वयमनाथाः संवृत्ताः । ते खल्वनाथभूतमात्मानं समनुपश्यन्तोऽशरणमात्मानं समनुपश्यन्तोऽभीक्ष्णं शोकार्ता भवेयुः । तेषां च तयाभीक्ष्णं शोकार्ततया सा विपरीतसंज्ञा अविपरीतसंज्ञा भवेत् । यच्च तद्भैषज्यं वर्णगन्धरसोपेतं तद्वर्णगन्धरसोपेतमेव संजानीयुः । ततस्तस्मिन् समये तद्भैषज्यमभ्यवहरेयुः । ते चाभ्यवहरन्तस्तस्मादाबाधात्परिमुक्ता भवेयुः । अथ खलु स वैद्यस्तान् पुत्रानाबाधविमुक्तान् विदित्वा पुनरेवात्मानमुपदर्शयेत् । तत्किं मन्यध्वे कुलपुत्रा मा हैव तस्य वैद्यस्य तदुपायकौशल्यं कुर्वतः कश्चिन्मृषावादेन संचोदयेत्? आहुः - नो हीदं भगवन्, नो हीदं सुगत । आह - एवमेव कुलपुत्राः अहमप्यप्रमेयासंख्येयकल्पकोटीनयुतशतसहस्राभिसंबुद्ध इमामनुत्तरां सम्यक्संबोधिम् । अपि तु खलु पुनः कुलपुत्राः अहमन्तरान्तरमेवंरूपाण्युपायकौशल्यानि सत्त्वानामुपदर्शयामि विनयार्थम् । न च मे कश्चिदत्र स्थाने मृषावादो भवति ॥

अथ खलु भगवानिमामेव अर्थगतिं भूयस्या मात्रया संदर्शयमानस्तस्यां वेलायामिमां गाथा अभाषत -

अचिन्तिया कल्पसहस्रकोट्यो यासां प्रमाणं न कदाचि विद्यते ।
प्राप्ता मया एष तदाग्रबोधिर्धर्मं च देशेम्यहु नित्यकालम् ॥ १५.१ ॥
समादपेमी बहुबोधिसत्त्वान् बौद्धस्मि ज्ञानस्मि स्थपेमि चैव ।
सत्त्वान कोटीनयुताननेकान् परिपाचयामी बहुकल्पकोट्यः ॥ १५.२ ॥
(वैद्य १९३)
निर्वाणभूमिं चुपदर्शयामि विनयार्थ सत्त्वान वदाम्युपायम् ।
न चापि निर्वाम्यहु तस्मि काले इहैव चो धर्मु प्रकाशयामि ॥ १५.३ ॥
तत्रापि चात्मानमधिष्ठहामि सर्वांश्च सत्त्वान तथैव चाहम् ।
विपरीतबुद्धी च नरा विमूढाः तत्रैव तिष्ठन्तु न पश्यिषू माम् ॥ १५.४ ॥
परिनिर्वृतं दृष्ट्व ममात्मभावं धातूषु पूजां विविधां करोन्ति ।
मां चा अपश्यन्ति जनेन्ति तृष्णां ततोर्जुकं चित्त प्रभोति तेषाम् ॥ १५.५ ॥
ऋजू यदा ते मृदुमार्दवाश्च उत्सृष्टकामाश्च भवन्ति सत्त्वाः ।
ततो अहं श्रावकसंघ कृत्वाः आत्मान दर्शेम्यहु गृध्रकूटे ॥ १५.६ ॥
एवं च हं तेष वदामि पश्चातिहैव नाहं तद आसि निर्वृतः ।
उपायकौशल्य ममेति भिक्षवः पुनः पुनो भोम्यहु जीवलोके ॥ १५.७ ॥
अन्येहि सत्त्वेहि पुरस्कृतोऽहं तेषां प्रकाशेमि ममाग्रबोधिम् ।
यूयं च शब्दं न शृणोथ मह्यमन्यत्र सो निर्वृतु लोकनाथः ॥ १५.८ ॥
पश्याम्यहं सत्त्व विहन्यमानान्न चाहु दर्शेमि तदात्मभावम् ।
स्पृहेन्तु तावन्मम दर्शनस्य तृषितान सद्धर्मु प्रकाशयिष्ये ॥ १५.९ ॥
सदाधिष्ठानं मम एतदीदृशमचिन्तिया कल्पसहस्रकोट्यः ।
(वैद्य १९४)
न च च्यवामी इतु गृध्रकूटातन्यासु शय्यासनकोटिभिश्च ॥ १५.१० ॥
यदापि सत्त्वा इम लोकधातुं पश्यन्ति कल्पेन्ति च दह्यमानम् ।
तदापि चेदं मम बुद्धक्षेत्रं परिपूर्ण भोती मरुमानुषाणाम् ॥ १५.११ ॥
क्रीडा रती तेष विचित्र भोति उद्यानप्रासादविमानकोट्यः ।
प्रतिमण्डितं रत्नमयैश्च पर्वतैर्द्रुमैस्तथा पुष्पफलैरुपेतैः ॥ १५.१२ ॥
उपरिं च देवाभिहनन्ति तूर्यान्मन्दारवर्षं च विसर्जयन्ति ।
ममं च अभ्योकिरि श्रावकांश्च ये चान्य बोधाविह प्रस्थिता विदू ॥ १५.१३ ॥
एवं च मे क्षेत्रमिदं सदा स्थितमन्ये च कल्पेन्तिमु दह्यमानम् ।
सुभैरवं पश्यिषु लोकधातुमुपद्रुतं शोकशताभिकीर्णम् ॥ १५.१४ ॥
न चापि मे नाम शृणोन्ति जातु तथागतानां बहुकल्पकोटिभिः ।
धर्मस्य वा मह्य गणस्य चापि पापस्य कर्मस्य फलेवरूपम् ॥ १५.१५ ॥
ल्यदा तु सत्त्वा मृदु मार्दवाश्च उत्पन्न भोन्तीह मनुष्यलोके ।
उत्पन्नमात्राश्च शुभेन कर्मणा पश्यन्ति मां धर्मु प्रकाशयन्तम् ॥ १५.१६ ॥
न चाहु भाषामि कदाचि तेषामिमां क्रियामीदृशिकीमनुत्तराम् ।
तेनो अहं दृष्ट चिरस्य भोमि ततोऽस्य भाषामि सुदुर्लभा जिनाः ॥ १५.१७ ॥
(वैद्य १९५)
एतादृशं ज्ञानबलं मयेदं प्रभास्वरं यस्य न कश्चिदन्तः ।
आयुश्च मे दीर्घमनन्तकल्पं समुपार्जितं पूर्व चरित्व चर्याम् ॥ १५.१८ ॥
मा संशयमत्र कुरुध्व पण्डिता विचिकित्सितं चो जहथा अशेषम् ।
भूतां प्रभाषाम्यहमेत वाचं मृषा ममा नैव कदाचि वाग्भवेत् ॥ १५.१९ ॥
यथा हि सो वैद्य उपायशिक्षितो विपरीतसंज्ञीन सुतान हेतोः ।
जीवन्तमात्मान मृतेति ब्रूयात्तं वैद्यु विज्ञो न मृषेण चोदयेत् ॥ १५.२० ॥
यमेव हं लोकपिता स्वयंभूः चिकित्सकः सर्वप्रजान नाथः ।
विपरीत मूढांश्च विदित्व बालाननिर्वृतो निर्वृत दर्शयामि ॥ १५.२१ ॥
किं कारणं मह्यमभीक्ष्णदर्शनाद्विश्रद्ध भोन्ती अबुधा अजानकाः ।
विश्वस्त कामेषु प्रमत्त भोन्ती प्रमादहेतोः प्रपतन्ति दुर्गतिम् ॥ १५.२२ ॥
चरिं चरिं जानिय नित्यकालं वदामि सत्त्वान तथा तथाहम् ।
कथं नु बोधावुपनामयेयं कथ बुद्धधर्माण भवेयु लाभिनः ॥ १५.२३ ॥

इत्यार्यसद्धर्मपुण्डरीके धर्मपर्याये तथागतायुष्प्रमाणपरिवर्तो नाम पञ्चदशमः ॥



_______________________________________________________________________________




(वैद्य १९६)

१६: पुण्यपर्यायपरिवर्तः ।

अस्मिन् खलु पुनस्तथागतायुष्प्रमाणनिर्देशे निर्दिश्यमाने अप्रमेयाणामसंख्येयानां सत्त्वानामर्थः कृतोऽभूत् । अथ खलु भगवान्मैत्रेयं बोधिसत्त्वं महासत्त्वमामन्त्रयते स्म - अस्मिन् खलु पुनरजित तथागतायुष्प्रमाणनिर्देशधर्मपर्याये निर्दिश्यमाने अष्टषष्टिगङ्गानदीवालुकासमानां बोधिसत्त्वकोटीनयुतशतसहस्राणामनुत्पत्तिकधर्मक्षान्तिरुत्पन्ना । एभ्यः सहस्रगुणेन येषां बोधिसत्त्वानां महासत्त्वानां धारणीप्रतिलम्भोऽभूत् । अन्येषां च साहस्रिकलोकधातुपरमाणुरजःसमानां बोधिसत्त्वानां महासत्त्वानामिमं धर्मपर्यायं श्रुत्वा असङ्गप्रतिभानताप्रतिलम्भोऽभूत् । अन्येषां च द्विसाहस्रिकलोकधातुपरमाणुरजःसमानां बोधिसत्त्वानां महासत्त्वानां कोटीनयुतशतसहस्रपरिवर्ताया धारण्याः प्रतिलम्भोऽभूत् । अन्ये च त्रिसाहस्रिकलोकधातुपरमाणुरजःसमा बोधिसत्त्वा महासत्त्वा इमं धर्मपर्यायं श्रुत्वा अवैवर्त्यधर्मचक्रं प्रवर्तयामासुः । अन्ये च मध्यमकलोकधातुपरमाणुरजःसमा बोधिसत्त्वा महासत्त्वा इमं धर्मपर्यायं श्रुत्वा विमलनिर्भासचक्रं प्रवर्तयामासुः । अन्ये च क्षुद्रकलोकधातुपरमाणुरजःसमा बोधिसत्त्वा महासत्त्वा इमं धर्मपर्यायं श्रुत्वा अष्टजाति[प्रति]बद्धा अभूवननुत्तरायां सम्यक्संबोधौ । अन्ये च चतुश्चातुर्द्वीपिका लोकधातुपरमाणुरजःसमा बोधिसत्त्वा महासत्त्वा इमं धर्मपर्यायं श्रुत्वा चतुर्जातिप्रतिबद्धा अभूवननुत्तरायां सम्यक्संबोधौ । अन्ये च त्रिचातुर्द्वीपिका लोकधातुपरमाणुरजःसमा बोधिसत्त्वा महासत्त्वा इमं धर्मपर्यायं श्रुत्वा त्रिजातिप्रतिबद्धा अभूवननुत्तरायां सम्यक्संबोधौ । अन्ये च द्विचातुर्द्वीपिका लोकधातुपरमाणुरजःसमा बोधिसत्त्व्ः मह्ःसत्त्व्ः इमं धर्मपर्य्ःयं श्रुत्व्ः द्विज्ःतिप्रतिबद्ध्ः अभूवन्ननुत्तर्ःय्ःं सम्यक्संबोधौ । अन्ये चैकच्ःतुर्द्वीपिक्ः लोकध्ःतुपरम्ःणुरजःसम्ः बोधिसत्त्व्ः मह्ःसत्त्व्ः इमं धर्मपर्य्ःयं श्रुत्व्ः एकज्ःतिप्रतिबद्ध्ः अभूवन्ननुत्तर्ःय्ःं सम्यक्संबोधौ । अष्टत्रिस्ःहस्रमह्ःस्ःहस्रलोकध्ःतुपरम्ःणुरजःसमैश्च बोधिसत्त्वैर्मह्ःसत्त्वैरिमं धर्मपर्य्ःयं श्रुत्व्ः अनुत्तर्ःय्ःं सम्यक्संबोधौ चित्त्ःन्युत्प्ःदित्ःनि ॥

अथ समनन्तरनिर्दिष्टे भगवतैषां बोधिसत्त्वानां महासत्त्वानां धर्माभिसमये प्रतिष्ठाने, अथ तावदेवोपरिवैहायसादन्तरीक्षान्मान्दारवमहामान्दारवाणां पुष्पाणां पुष्पवर्षमभिप्रवृष्टम् । तेषु च लोकधातुकोटीनयुतशतसहस्रेषु यानि तानि बुद्धकोटीनयुतशतसहस्राण्यागत्य रत्नवृक्षमूलेषु सिंहासनोपविष्टानि, तानि सर्वाणि चावकिरन्ति स्म, अभ्यवकिरन्ति स्म, अभिप्रकिरन्ति स्म । भगवन्तं च शाक्यमुनिं तथागतमर्हन्तं सम्यक्संबुद्धं तं च भगवन्तं प्रभूतरत्नं तथागतमर्हन्तं सम्यक्संबुद्धं परिनिर्वृतं सिंहासनोपविष्टमवकिरन्ति स्म, अभ्यवकिरन्ति स्म, अभिप्रकिरन्ति स्म । तं च सर्वावन्तं बोधिसत्त्वगणं ताश्चतस्रः पर्षदोऽवकिरन्ति स्म, अभ्यवकिरन्ति स्म, अभिप्रकिरन्ति स्म । दिव्यानि च चन्दनागरुचूर्णान्यन्तरीक्षात्प्रवर्षन्ति स्म । उपरिष्टाच्चान्तरीक्षे वैहायसं महादुन्दुभयोऽघट्टिताः प्रणेदुर्मनोज्ञमधुरगम्भीरनिर्घोषाः (वैद्य १९७)। दिव्यानि च दूष्ययुग्मशतसहस्राण्युपरिष्टादन्तरीक्षात्प्रपतन्ति स्म । हारार्धहारमुक्ताहारमणिरत्नमहारत्नानि चोपरिष्टाद्वैहायसमन्तरीक्षे समन्तात्सवासु दिक्षु प्रलम्बन्ति स्म । समन्ताच्च अनर्घप्राप्तस्य धूपस्य घटिकासहस्राणि रत्नमयानि स्वयमेव प्रविचरन्ति स्म । एकैकस्य च तथागतस्य रत्नमयीं छत्रावलीं यावद्ब्रह्मलोकादुपरि वैहायसमन्तरीक्षे बोधिसत्त्वा महासत्त्वा धारयामासुः । अनेन पर्यायेण सर्वेषां तेषामप्रमेयाणामसंख्येयानां बुद्धकोटीनयुतशतसहस्राणां ते बोधिसत्त्वा महासत्त्वा रत्नमयीं छत्रावलीं यावद्ब्रह्मलोकादुपरि वैहायसमन्तरीक्षे धारयामासुः । पृथक्पृथग्गाथाभिनिर्हारैर्भूतैर्बुद्धस्तवैस्तांस्तथागतानाभिष्टुवन्ति स्म ॥

अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वस्तस्यां वेलायामिमा गाथा अभाषत -

आश्चर्य धर्मः सुगतेन श्रावितो न जातु अस्माभिः श्रुतैष पूर्वम् ।
महात्मता यादृशि नायकानामायुष्प्रमाणं च यथा अनन्तम् ॥ १६.१ ॥
एवं च धर्मं श्रुणियान अद्य विभज्यमानं सुगतेन संमुखम् ।
प्रीतिस्फुटाः प्राणसहस्रकोट्यो य औरसा लोकविनायकस्य ॥ १६.२ ॥
अविवर्तिया केचि स्थिताग्रबोधौ केचि स्थिता धारणिये वरायाम् ।
असङ्गप्रतिभाणि स्थिताश्च केचित्कोटीसहस्राय च धारणीये ॥ १६.३ ॥
परमाणुक्षेत्रस्य तथैव चान्ये ये प्रस्थिता उत्तमबुद्धज्ञाने ।
केचिच्च जातीभि तथैव चाष्टभि जिना भविष्यन्ति अनन्तदर्शिनः ॥ १६.४ ॥
केचित्तु चत्वारि अतिक्रमित्वा केचित्रिभिश्चैव द्विभिश्च अन्ये ।
लप्स्यन्ति बोधिं परमार्थदर्शिनः श्रुणित्व धर्ममिमु नायकस्य ॥ १६.५ ॥
(वैद्य १९८)
के चापि एकाय स्थिहित्व जात्या सर्वज्ञ भोष्यन्ति भवान्तरेण ।
श्रुणित्व आयु इमु नायकस्य एतादृशं लब्धु फलमनास्रवम् ॥ १६.६ ॥
अष्टान क्षेत्राण यथा रजो भवेतेवाप्रमाणा गणनाय तत्तकाः ।
याः सत्त्वकोट्यो हि श्रुणित्व धर्ममुत्पादयिंसू वरबोधिचित्तम् ॥ १६.७ ॥
एतादृशं कर्म कृतं महर्षिणा प्रकाशयन्तेनिम बुद्धबोधिम् ।
अनन्तकं यस्य प्रमाणु नास्ति आकाशधातू च यथाप्रमेयः ॥ १६.८ ॥
मान्दारवाणां च प्रवर्षि वर्षं बहुदेवपुत्राण सहस्रकोट्यः ।
शक्राश्च ब्रह्मा यथा गङ्गवालिका ये आगता क्षेत्रसहस्रकोटिभिः ॥ १६.९ ॥
सुगन्धचूर्णानि च चन्दनस्य अगरुस्य चूर्णानि च मुञ्चमानाः ।
चरन्ति आकाशि यथैव पक्षी अभ्योकिरन्ता विधिवज्जिनेन्द्रान् ॥ १६.१० ॥
उपरिं च वैहायसु दुन्दुभीयो निनादयन्तो मधुरा अघट्टिताः ।
दिव्यान दूष्याण सहस्रकोट्यः क्षिपन्ति भ्रामेन्ति च नायकानाम् ॥ १६.११ ॥
अनर्घमूल्यस्य च धूपनस्य रत्नामयी घटिकसहस्रकोट्यः ।
स्वयं समन्तेन विचेरु तत्र पूजार्थ लोकाधिपतिस्य तायिनः ॥ १६.१२ ॥
उच्चान्महन्तान् रतनामयांश्च छत्राण कोटीनयुताननन्तान् ।
धारन्तिमे पण्डित बोधिसत्त्वाः अवतंसकान् यावत्ब्रह्मलोकात् ॥ १६.१३ ॥
(वैद्य १९९)
सवैजयन्तांश्च सुदर्शनीयान् ध्वजांश्च ओरोपयि नायकानाम् ।
गाथासहस्रैश्च अभिष्टुवन्ति प्रहृष्टचित्ताः सुगतस्य पुत्राः ॥ १६.१४ ॥
एतादृशाश्चर्यविशिष्ट अद्भुता विचित्र दृश्यन्तिमि अद्य नायकाः ।
आयुष्प्रमाणस्य निदर्शनेन प्रामोद्यलब्धा इमि सर्वसत्त्वाः ॥ १६.१५ ॥
विपुलोऽद्य अर्थो दशसू दिशासु घोषश्च अभ्युद्गतु नायकानाम् ।
संतर्पिताः प्राणसहस्रकोट्यः कुशलेन बोधाय समन्विताश्च ॥ १६.१६ ॥

अथ खलु भगवान्मैत्रेयं बोधिसत्त्वं महासत्त्वमामन्त्रयते स्म - यैरजित अस्मिंस्तथागतायुष्प्रमाणनिर्देशधर्मपर्याये निर्दिश्यमाने सत्त्वैरेकचित्तोत्पादिकाप्यधिमुक्तिरुत्पादिता, अभिश्रद्दधानता वा कृता, कियत्ते कुलपुत्रा वा कुलदुहितरो वा पुण्यं प्रसवन्तीति तच्छृणु, साधु च सुष्ठु च मनसि कुरु । भाषिष्येऽहं यावत्पुण्यं प्रसवन्तीति । तद्यथापि नाम अजितकश्चिदेव कुलपुत्रो वा कुलदुहिता वा अनुत्तरां सम्यक्संबोधिमभिकाङ्क्षमाणः पञ्चसु पारमितास्वष्टौ कल्पकोटीनयुतशतसहस्राणि चरेत् । तद्यथा दानपारमितायां शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां विरहितः प्रज्ञापारमितया, येन च अजित कुलपुत्रेण वा कुलदुहित्रा वा इमं तथागतायुष्प्रमाणनिर्देशं धर्मपर्यायं श्रुत्वा एकचित्तोत्पादिकाप्यधिमुक्तिरुत्पादिता अभिश्रद्दधानता वा कृता, अस्य पुण्याभिसंस्कारस्य कुशलाभिसंस्कारस्य असौ पौर्वकः पुण्याभिसंस्कारः कुशलाभिसंस्कारः पञ्चपारमिताप्रतिसंयुक्तोऽष्टकल्पकोटीनयुतशतसहस्रपरिनिष्पन्नः शततमीमपि कलां नोपयाति, सहस्रतमीमपि शतसहस्रतमीमपि कोटीशतसहस्रतमीमपि कोटीनयुतसहस्रतमीमपि कोटीनयुतशतसहस्रतमीमपि कलां नोपयाति, संख्यामपि कलामपि गणनामपि उपमामपि उपनिसामपि न क्षमते । एवंरूपेण अजित पुण्याभिसंस्कारेण समन्वागतः कुलपुत्रो वा कुलदुहिता वा विवर्ततेऽनुत्तरायाः सम्यक्संबोधेरिति नैतत्स्थानं विद्यते ॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -

यश्च पारमिताः पञ्च समादायेहि वर्तते ।
इदं ज्ञानं गवेषन्तो बुद्धज्ञानमनुत्तरम् ॥ १६.१७ ॥
कल्पकोटीसहस्राणि अष्टौ पूर्णानि युज्यते ।
दानं ददन्तो बुद्धेभ्यः श्रावकेभ्यः पुनः पुनः ॥ १६.१८ ॥
(वैद्य २००)
प्रत्येकबुद्धांस्तर्पेन्तो बोधिसत्त्वान कोटियः ।
खाद्यभोज्यान्नपानेहि वस्त्रशय्यासनेहि च ॥ १६.१९ ॥
प्रतिश्रयान् विहारांश्च चन्दनस्येह कारयेत् ।
आरामान् रमणीयांश्च चंक्रमस्थानशोभितान् ॥ १६.२० ॥
एतादृशं ददित्वान दानं चित्र बहूविधम् ।
कल्पकोटीसहस्राणि दत्वा बोधाय नामयेत् ॥ १६.२१ ॥
पुनश्च शीलं रक्षेत शुद्धं संबुद्धवर्णितम् ।
अखण्डं संस्तुतं विज्ञैर्बुद्धज्ञानस्य कारणात् ॥ १६.२२ ॥
पुनश्च क्षान्ति भावेत दान्तभूमौ प्रतिष्ठितः ।
धृतिमान् स्मृतिमांश्चैव परिभाषाः क्षमे बहूः ॥ १६.२३ ॥
ये चोपलम्भिकाः सत्त्वा अधिमाने प्रतिष्ठिताः ।
कुत्सनं च सहेत्तेषां बुद्धज्ञानस्य कारणात् ॥ १६.२४ ॥
नित्योद्युक्तश्च वीर्यस्मिनभियुक्तो दृढस्मृतिः ।
अनन्यमनसंकल्पो भवेया कल्पकोटियः ॥ १६.२५ ॥
अरण्यवासि तिष्ठन्तो चंक्रममभिरुह्य च ।
स्त्यानमिद्धं च वर्जित्वा कल्पकोट्यो हि यश्चरेत् ॥ १६.२६ ॥
यश्च ध्यायी महाध्यायी ध्यानारामः समाहितः ।
कल्पकोट्यः स्थितो ध्यायेत्सहस्राण्यष्टनूनकाः ॥ १६.२७ ॥
तेन ध्यानेन सो वीरः प्रार्थयेद्बोधिमुत्तमाम् ।
अहं स्यामिति सर्वज्ञो ध्यानपारमितां गतः ॥ १६.२८ ॥
यच्च पुण्यं भवेत्तेषां निषेवित्वा इमां क्रियाम् ।
कल्पकोटीसहस्राणि ये पूर्वं परिकीर्तिताः ॥ १६.२९ ॥
आयुं च मम यो श्रुत्वा स्त्री वापि पुरुषोऽपि वा ।
एकक्षणं पि श्रद्धाति इदं पुण्यमनन्तकम् ॥ १६.३० ॥
विचिकित्सां च वर्जित्वा इञ्जिता मन्यितानि च ।
अधिमुच्येन्मुहूर्तं पि फलं तस्येदमीदृशम् ॥ १६.३१ ॥
बोधिसत्त्वाश्च ये भोन्ति चरिताः कल्पकोटियः ।
न ते त्रसन्ति श्रुत्वेदं मम आयुरचिन्तियम् ॥ १६.३२ ॥
मूर्धेन च नमस्यन्ति अहमप्येदृशो भवेत् ।
अनागतस्मिन्नध्वानि तारेयं प्राणिकोटियः ॥ १६.३३ ॥
(वैद्य २०१)
यथा शाक्यमुनिर्नाथः शाक्यसिंहो महामुनिः ।
बोधिमण्डे निषीदित्वा सिंहनादमिदं नदेत् ॥ १६.३४ ॥
अहमप्यनागतेऽध्वानि सत्कृतः सर्वदेहिनाम् ।
बोधिमण्डे निषीदित्वा आयुं देशेष्यमीदृशम् ॥ १६.३५ ॥
अध्याशयेन संपन्नाः श्रुताधाराश्च ये नराः ।
संधाभाष्यं विजानन्ति काङ्क्षा तेषां न विद्यते ॥ १६.३६ ॥

पुनरपरमजित य इमं तथागतायुष्प्रमाणनिर्देशं धर्मपर्यायं श्रुत्वा अवतरेदधिमुच्येत अवगाहेत अवबुध्येत, सोऽस्मादप्रमेयतरं पुण्याभिसंस्कारं प्रसवेद्बुद्धज्ञानसंवर्तनीयम् । कः पुनर्वादो य इममेवंरूपं धर्मपर्यायं शृणुयाच्छ्रावयेत वाचयेद धारयेद्वा लिखेद्वा लिखापयेद्वा पुस्तकगतं वा सत्कुर्यात्, गुरुकुर्यान्मानयेत्पूजयेत्सत्कारयेद्वा पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपातकाभिस्तैलप्रदीपैर्वा घृतप्रदीपैर्वा गन्धतैलप्रदीपैर्वा, बहुतरं पुण्याभिसंस्कारं प्रसवेद्बुद्धज्ञानसंवर्तनीयम् ॥

यदा च अजित स कुलपुत्रो वा कुलदुहिता वा इमं तथागतायुष्प्रमाणनिर्देशं धर्मपर्याय श्रुत्वा अध्याशयेनाधिमुच्यते, तदा तस्येदमध्याशयलक्षणं वेदितव्यम् - यदुत गृध्रकूटपर्वतगतं मां धर्मं निर्देशयन्तं द्रक्ष्यति बोधिसत्त्वगणपरिवृतं बोधिसत्त्वगणपुरस्कृतं श्रावकसंघमध्यगतम् । इदं च मे बुद्धक्षेत्रं सहां लोकधातुं वैडूर्यमयीं समप्रस्तरां द्रक्ष्यति सुवर्णसूत्राष्टापदविनद्धां रत्नवृक्षैर्विचित्रिताम् । कूटागारपरिभोगेषु च अत्र बोधिसत्त्वान्निवसतो द्रक्ष्यति । इदमजित अध्याशयेनाधिमुक्तस्य कुलपुत्रस्य वा कुलदुहितुर्वा अध्याशयलक्षणं वेदितव्यम् ॥

अपि तु खलु पुनरजित तानप्यहमध्याशयाधिमुक्तान् कुलपुत्रान् वदामि, ये तथागतस्य परिनिर्वृतस्य इमं धर्मपर्यायं श्रुत्वा न प्रतिक्षेप्स्यन्ति उत्तरि चाभ्यनुमोदयिष्यन्ति । कंः पुनर्वादो ये धारयिष्यन्ति वाचयिष्यन्ति । ततस्तथागतं सोंऽसेन परिहरति य इमं धर्मपर्यायं पुस्तकगतं कृत्वा अंसेन परिहरति । न मे तेनाजित कुलपुत्रेण वा कुलदुहित्रा वा स्तूपाः कर्तव्याः, न विहारा कर्तव्याः, न भिक्षुसंघाय ग्लानप्रत्ययभैषज्यपरिष्कारास्तेनानुप्रदेया भवन्ति । तत्कस्य हेतोः? कृता मे तेन अजित कुलपुत्रेण वा कुलदुहित्रा वा शरीरेषु शरीरपूजा, सप्तरत्नमयाश्च स्तूपाः कारिताः, यावद्ब्रह्मलोकमुच्चैस्त्वेन अनुपूर्वपरिणाहेन सच्छत्रपरिग्रहाः सवैजयन्तीका घण्टासमुद्गानुरताः, तेषां च शरीरस्तूपानां विविधाः सत्काराः कृता नानाविधैर्दिव्यैर्मानुष्यकैः पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकावैजयन्तीभिर्विविधमधुरमनोज्ञपटुपटहदुन्दुभिमहादुन्दुभिभिर्वाद्यतालनिनादर्निर्घोषशब्दैर्नानाविधैश्च गीतनृत्यलास्यप्रकारैर्बहुभिरपरिमितैर्बह्वप्रमेयाणि कल्पकोटीनयुतशतसहस्राणि सत्कारः कृतो भवति । इमं धर्मपर्यायं मम परिनिर्वृतस्य धारयित्वा वाचयित्वा लिखित्वा (वैद्य २०२) प्रकाशयित्वा विहारा अपि तेन अजित कृता भवन्ति विपुला विस्तीर्णाः । प्रगृहीताश्च लोहितचन्दनमया द्वात्रिंशत्प्रासादा अष्टतला भिक्षुसहस्रावासाः । आरामपुष्पोपशोभिताश्चंक्रमवनोपेताः शयनासनोपस्तब्धाः खाद्यभोज्यान्नपानग्लानप्रत्ययभैषज्यपरिष्कारपरिपूर्णाः सर्वसुखोपधानप्रतिमण्डिताः । ते च बह्वप्रमेया यदुत शतं वा सहस्रं वा शतसहस्रं वा कोटी वा कोटीशतं वा कोटीसहस्रं वा कोटिशतसहस्रं वा कोटीनयुतशतसहस्रं वा । ते च मम संमुखं श्रावकसंघस्य निर्यातिताः, ते च मया परिभुक्ता वेदितव्याः । य इमं धर्मपर्यायं तथागतस्य परिनिर्वृतस्य धारयेद्वा वाचयेद्वा देशयेद्वा लिखेद्वा लेखयेद्वा, तदनेनाहमजितपर्यायेण एवं वदामि - न मे तेन परिनिर्वृतस्य धातुस्तूपाः कारयितव्याः, न संघपूजा । कः पुनर्वादोऽजित य इमं धर्मपर्यायं धारयन् दानेन वा संपादयेच्छीलेन वा क्षान्त्या वा वीर्येण वा ध्यानेन वा प्रज्ञया वा संपादयेत्, बहुतरं पुण्याभिसंस्कारं स कुलपुत्रो वा कुलदुहिता वा प्रसवेद्बुद्धज्ञानसंवर्तनीयमप्रमेयमसंख्येयमपर्यन्तम् । तद्यथापि नाम अजित आकाश धातुरपर्यन्तः पूर्वदक्षिणपश्चिमोत्तराधरोर्ध्वासु दिक्षु विदिक्षु, एवमप्रमेयासंख्येयान् स कुलपुत्रो वा कुलदुहिता वा पुण्याभिसंस्कारान् प्रसवेद्बुद्धज्ञानसंवर्तनीयान् य इमं धर्मपर्यायं धारयेद्वा वाचयेद्वा देशयेद्वा लिखेद्वा लिखापयेद्वा । तथागतचैत्यसत्कारार्थं च अभियुक्तो भवेत्, तथागतश्रावकाणां च वर्णं भाषेत, बोधिसत्त्वानां च महासत्त्वानां गुणकोटीनयुतशतसहस्राणि परिकीर्तयेत्, परेषां च संप्रकाशयेत्, क्षान्त्या च संपादयेत्, शीलवांश्च भवेत्, कल्याणधर्मः सुखसंवासः क्षान्तश्च भवेत्, दान्तश्च भवेदनभ्यसूयकश्च, अपगतक्रोधमनस्कारोऽव्यापन्नमनस्कारः स्मृतिमांश्च स्थामवांश्च भवेत्, वीर्यवांश्च नित्याभियुक्तश्च भवेत्, बुद्धधर्मपर्येष्ट्या ध्यायी च भवेत्, प्रतिसंलयनगुरुकः प्रतिसंलयनबहुलश्च प्रश्नप्रभेदकुशलश्च भवेत्, प्रश्नकोटीनयुतशतसहस्राणां विसर्जयिता । यस्य कस्यचिदजित बोधिसत्त्वस्य महासत्त्वस्य इमं धर्मपर्यायं तथागतस्य परिनिर्वृतस्य धारयतः
इमे एवंरूपा गुणा भवेयुर्ये मया परिकीर्तिताः, सोऽजित कुलपुत्रो वा कुलदुहिता वा एवं वेदितव्यः - बोधिमण्डसंप्रस्थितोऽयं कुलपुत्रो वा कुलदुहिता वा बोधिमभिसंबोद्धुं बोधिवृक्षमूलं गच्छति । यत्र च अजित स कुलपुत्रो वा कुलदुहिता वा तिष्ठेद्वा निषीदेद्वा चंक्रमेद्वा, तत्र अजित तथागतमुद्दिश्य चैत्यं कर्तव्यम्, तथागतस्तूपोऽयमिति च स वक्तव्यः सदेवकेन लोकेनेति ॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -

पुण्यस्कन्धो अपर्यन्तो वर्णितो मे पुनः पुनः ।
य इदं धारयेत्सूत्रं निर्वृते नरनायके ॥ १६.३७ ॥
पूजाश्च मे कृतास्तेन धातुस्तूपाश्च कारिताः ।
रत्नामया विचित्राश्च दर्शनीयः सुशोभनाः ॥ १६.३८ ॥
(वैद्य २०३)
ब्रह्मलोकसमा उच्चा छत्रावलिभिरन्विताः ।
परिणाहवन्तः श्रीमन्तो वैजयन्तीसमन्विताः ॥ १६.३९ ॥
पटुघण्टा रणन्तश्च पट्टदामोपशोभिताः ।
वातेरितास्तथा घण्टा शोभन्ति जिनधातुषु ॥ १६.४० ॥
पूजा च विपुला तेषां पुष्पगन्धविलेपनैः ।
कृता वाद्यैश्च वस्त्रैश्च दुन्दुभीभिः पुनः पुन ॥ १६.४१ ॥
मधुरा वाद्यभाण्डा च वादिता तेषु धातुषु ।
गन्धतैलप्रदीपाश्च दत्तास्तेऽपि समन्ततः ॥ १६.४२ ॥
य इदं धारयेत्सूत्रं क्षयकालि च देशयेत् ।
ईदृशी मे कृता तेन विविधा पूजनन्तिका ॥ १६.४३ ॥
अग्रा विहारकोट्योऽपि बहुश्चन्दनकारिताः ।
द्वात्रिंशती च प्रासादा उच्चैस्त्वेनाष्टवत्तलाः ॥ १६.४४ ॥
शय्यासनैरुपस्तब्धाः खाद्यभोज्यैः समन्विताः ।
प्रवेणी प्रणीत प्रज्ञप्ता आवासाश्च सहस्रशः ॥ १६.४५ ॥
आरामाश्चंक्रमा दत्ताः पुष्पारामोपशोभिताः ।
बहु उच्छदकाश्चैव बहुरूपविचित्रिताः ॥ १६.४६ ॥
संघस्य विविधा पूजा कृता मे तेन संमुखम् ।
य इदं धारयेत्सूत्रं निर्वृतस्मिन् विनायके ॥ १६.४७ ॥
अधिमुक्तिसारो यो स्यादतो बहुतरं हि सः ।
पुण्यं लभेत यो एतत्सूत्रं वाचेल्लिखेत वा ॥ १६.४८ ॥
लिखापयेन्नरः कश्चित्सुनिरुक्तं च पुस्तके ।
पुस्तकं पूजयेत्तच्च गन्धमाल्यविलेपनैः ॥ १६.४९ ॥
दीपं च दद्याद्यो नित्यं गन्धतैलस्य पूरितम् ।
जात्युत्पलातिमुक्तैश्च प्रकरैश्चम्पकस्य च ॥ १६.५० ॥
कुर्यादेतादृशीं पूजां पुस्तकेषु च यो नरः ।
बहु प्रसवते पुण्यं प्रमाणं यस्य नो भवेत् ॥ १६.५१ ॥
यथैवाकाशधातौ हि प्रमाणं नोपलभ्यते ।
दिशासु दशसू नित्यं पुण्यस्कन्धोऽयमीदृशः ॥ १६.५२ ॥
कः पुनर्वादो यश्च स्यात्क्षान्तो दान्तः समाहितः ।
शीलवांश्चैव ध्यायी च प्रतिसंलानगोचरः ॥ १६.५३ ॥
(वैद्य २०४)
अक्रोधनो अपिशुनश्चैत्यस्मिन् गौरवे स्थितः ।
भिक्षूणां प्रणतो नित्यं नाधिमानी न चालसः ॥ १६.५४ ॥
प्रज्ञवांश्चैव धीरश्च प्रश्नं पृष्टो न कुप्यति ।
अनुलोमं च देशेति कृपाबुद्धी च प्राणिषु ॥ १६.५५ ॥
य ईदृशो भवेत्कश्चिद्यः सूत्रं धारयेदिदम् ।
न तस्य पुण्यस्कन्धस्य प्रमाणमुपलभ्यते ॥ १६.५६ ॥
यदि कश्चिन्नरः पश्येदीदृशं धर्मभाणकम् ।
धारयन्तमिदं सूत्रं कुर्याद्वै तस्य सत्क्रियाम् ॥ १६.५७ ॥
दिव्यैश्च पुष्पैस्तथ ओकिरेत दिव्यैश्च वस्त्रैरभिच्छादयेत ।
मूर्धेन वन्दित्व च तस्य पादौ तथागतोऽयं जनयेत संज्ञाम् ॥ १६.५८ ॥
दृष्ट्वा च तं चिन्तयि तस्मि काले गमिष्यते एष द्रुमस्य मूलम् ।
बुध्यिष्यते बोधिमनुत्तरां शिवां हिताय लोकस्य सदेवकस्य ॥ १६.५९ ॥
यस्मिंश्च सो चंक्रमि तादृशो विदुः तिष्ठेत वा यत्र निषीदयेद्वा ।
शय्यां च कल्पेय कहिंचि धीरो भाषन्तु गाथां पि तु एकसूत्रात् ॥ १६.६० ॥
यस्मिंश्च स्तूपं पुरुषोत्तमस्य कारापयेच्चित्रसुदर्शनीयम् ।
उद्दिश्य बुद्धं भगवन्त नायकं पूजां च चित्रां तहि कारयेत्तथा ॥ १६.६१ ॥
मया स भुक्तः पृथिवीप्रदेशो मया स्वयं चंक्रमितं च तत्रं ।
तत्रोपविष्टो अहमेव च स्यां यत्र स्थितः सो भवि बुद्धपुत्रः ॥ १६.६२ ॥

इति श्रीसद्धर्मपुण्डरीके धर्मपर्याये पुण्यपर्यायपरिवर्तो नाम षोडशमः ॥



_______________________________________________________________________________




(वैद्य २०५)
१७: अनुमोदनापुण्यनिर्देशपरिवर्तः ।

अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्- यो भगवनिमं धर्मपर्यायं देश्यमानं श्रुत्वा अनुमोदेत्कुलपुत्रो वा कुलदुहिता वा, कियन्तं स भगवन् कुलपुत्रो वा कुलदुहिता वा पुण्यं प्रसवेदिति?

अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वस्तस्यां वेलायामिमां गाथामभाषत -

यो निर्वृते महावीरे शृणुयात्सूत्रमीदृशम् ।
श्रुत्वा चाभ्यनुमोदेया कियन्तं कुशलं भवेत् ॥ १७.१ ॥

अथ खलु भगवान्मैत्रेयं बोधिसत्त्वं महासत्त्वमेतदवोचत्- यः कश्चिदजित कुलपुत्रो वा कुलदुहिता वा तथागतस्य परिनिर्वृतस्य इमं धर्मपर्याय देश्यमानं संप्रकाश्यमानं शृणुयाद्भिक्षुर्वा भिक्षुणी वा उपासको वा उपासिका वा विज्ञपुरुषो वा कुमारको वा, कुमारिका वा, श्रुत्वा च अभ्यनुमोदेत, सचेत्ततो धर्मश्रवणादुत्थाय प्रक्रामेत्, स च विहारगतो वा गृहगतो वा अरण्यगतो वा वीथीगतो वा ग्रामगतो वा जनपदगतो वा तान् हेतूंस्तानि कारणानि तं धर्मं यथाश्रुतं यथोद्गृहीतं यथाबलमपरस्य सत्त्वस्याचक्षीत मातुर्वा पितुर्वा ज्ञातेर्वा, संमोदितस्य वा अन्यस्य वा संस्तुतस्य कस्यचित्, सोऽपि यदि श्रुत्वा अनुमोदेत, अनुमोद्य च पुनरन्यस्मै आचक्षीत । सोऽपि यदि श्रुत्वानुमोदेत, अनुमोद्य च सोऽप्यपरस्मै आचक्षीत, सोऽपि तं श्रुत्वानुमोदेत । इत्यनेन पर्यायेण यावत्पञ्चाशत्परंपरया । अथ खल्वजित योऽसौ पञ्चाशत्तमः पुरुषो भवेत्परंपराश्रवानुमोदकः, तस्यापि तावदहमजित कुलपुत्रस्य वा कुलदुहितुर्वा अनुमोदनासहगतं पुण्याभिसंस्कारमभिनिर्देक्ष्यामि । तं शृणु, साधु च सुष्ठु च मनसिकुरु । भाषिष्येऽहं ते ॥

तद्यथापि नाम अजित चतुर्षु लोकधातुष्वसंख्येयशतसहस्रेषु ये सत्त्वाः सन्तः संविद्यमानाः षट्सु गतिषूपपन्नाः, अण्डजा वा जरायुजा वा संस्वेदजा वा औपपादुका वा रूपिणो वा अरूपिणो वा संज्ञिनो वा असंज्ञिनो वा नैवसंज्ञिनो वा नासंज्ञिनो वा अपदा वा द्विपदा वा चतुष्पदा वा बहुपदा वा यावदेव सत्त्वाः सत्त्वधातौ संग्रहसमवसरणं गच्छन्ति । अथ कश्चिदेव पुरुषः समुत्पद्येत पुण्यकामो हितकामस्तस्य सत्त्वकायस्य सर्वकामक्रीडारतिपरिभोगानिष्टान् कान्तान् प्रियान्मनापान् दद्यात् । एकैकस्य सत्त्वस्य जम्बुद्वीपं परिपूर्णं दद्यात्कामक्रीडारतिपरिभोगाय, हिरण्यसुवर्णरूप्यमणिमुक्तावैडूर्यशङ्खशिलाप्रवालानश्वरथगोरथहस्तिरथान् दद्यात्प्रासादान् कूटागारान् । अनेन पर्यायेण अजित स पुरुषो दानपतिर्महादानपतिः परिपूर्णान्यशीतिं वर्षाणि दानं दद्यात् । अथ खल्वजित स पुरुषो दानपतिर्महादानपतिरेवं चिन्तयेत्- इमे खलु सत्त्वाः सर्वे मया क्रीडापिता रमापिताः सुखं जिवापिताः । इमे च ते भवन्तः सत्त्वा बलिनः पलितशिरसो जीर्णवृद्धा महल्लका (वैद्य २०६) अशीतिवर्षिका जात्या । अभ्याशीभूताश्चैते कालक्रियायाः । यन्न्वहमेतांस्तथागतप्रवेदिते धर्मविनयेऽवतारयेयमनुशासयेयम् । अथ खल्वजित स पुरुषस्तान् सर्वसत्त्वान् समादापयेत् । समादापयित्वा च तथागतप्रवेदिते धर्मविनयेऽवतारयेद्ग्राहयेत् । तस्य ते सत्त्वास्तं च धर्मं शृणुयुः । श्रुत्वा च एकक्षणेन एकमुहूर्तेन एकलवेन सर्वे स्रोतआपन्नाः स्युः, सकृदागामिनोऽनागामिनोऽनागामिफलं प्राप्नुयुर्यावदर्हन्तो भवेयुः, क्षीणास्रवा ध्यायिनो महाध्यायिनोऽष्टविमोक्षध्यायिनः । तत्किं मन्यसे अजित अपि नु स पुरुषो दानपतिर्महादानपतिस्ततोनिदानं बहु पुण्यं प्रसवेदप्रमेयमसंख्येयम्? एवमुक्ते मैत्रेयो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्- एवमेतत्भगवन्, एवमेतत्सुगत । अनेनैव तावद्भगवन् कारणेन स पुरुषो दानपतिर्महादानपतिर्बहु पुण्यं प्रसवेत्, यस्तावतां सत्त्वानां सर्वसुखोपधानं दद्यात् । कः पुनर्वादो
यदुत्तरिअर्हत्त्वे प्रतिष्ठापयेत् ॥

एवमुक्ते भगवानजितं बोधिसत्त्वं महासत्त्वमेतदवोचत्- आरोचयामि ते अजित, प्रतिवेदयामि । यश्च स दानपतिर्महादानपतिः पुरुषश्चतुर्षु लोकधातुष्वसंख्येयशतसहस्रेषु सर्वसत्त्वानां सर्वसुखोपधानैः परिपूर्य अर्हत्त्वे प्रतिष्ठाप्य पुण्यं प्रसवेत्, यश्च पञ्चाशत्तमः पुरुषः परंपराश्रवानुगतः श्रवणेन इतो धर्मपर्यायादेकामपि गाथामेकपदमपि श्रुत्वा अनुमोदेत । यच्चैतस्य पुरुषस्यानुमोदनासहगतं पुण्यक्रियावस्तु, यच्च तस्य पुरुषस्य दानपतेर्महादानपतेर्दानसहगतमर्हत्त्वं प्रतिष्ठापनासहगतपुण्यक्रियावस्तु, इदमेव ततो बहुतरम् । योऽयं पुरुषः पञ्चाशत्तमः, ततः पुरुषपरंपरात इतो धर्मपर्यायादेकामपि गाथामेकपदमपि श्रुत्वा अनुमोदेत् । अस्य अनुमोदनासहगतस्य अजित पुण्याभिसंस्कारस्य कुशलमूलाभिसंस्कारस्य अनुमोदनासहगतस्य अग्रतःसौ पौर्विको दानसहगतश्च अर्हत्त्वप्रतिष्ठापनासहगतश्च पुण्याभिसंस्कारः शततमीमपि कलां नोपयाति, सहस्रतमीमपि शतसहस्रतमीमपि कोटीतमीमपि कोटीशततमीमपि कोटीसहस्रतमीमपि कोटीशतसहस्रतमीमपि कोटीनियुतशतसहस्रतमीमपि कलां नोपयाति । संख्यामपि कलामपि गणनामपि उपमामपि उपनिःदमपि न क्ःमते । एवमप्रमेयमसंख्येयमजित सोऽपि तावत्पञ्चाशत्तमः परंपराश्रवणे पुरुः इतो धर्मपर्यायादन्तश एकगाथामपि एकपदमपि अनुमोद्य च पुण्यं प्रसवति । कः पुनर्वादोऽजित योऽयं मम संमुखमिमं धर्मपर्यायं शृणुयात्, श्रुत्वा चाभ्यनुमोदेत्, अप्रमेयतरमसंख्ययेतरं तस्याहमजित तं पुण्याभिसंस्कारं वदामि ॥

यः खलु पुनरजित अस्य धर्मपर्यायस्य श्रवाणार्थं कुलपुत्रो वा कुलदुहिता वा स्वगृहान्निष्क्रम्य विहारं गच्छेत् । स च गत्त्वा तस्मिन्निमं धर्मपर्यायं मुहूर्तकमपि शृणुयात्स्थितो वा निषण्णो वा । स सत्त्वस्तन्मात्रेण पुण्याभिसंस्कारेण कृतेनोपचितेन जातिविनिवृत्तो द्वितीये समुच्छ्रये द्वितीये आत्मभावप्रतिलम्भे गोरथानां लाभी भविष्यति, अश्वरथानां हस्तिरथानां शिबिकानां गोयनानामृषभयानानां दिव्यानां च विमानानां लाभी भविष्यति । सचेत्पुनस्तत्र धर्मश्रवणे मुहूर्तमात्रमपि निषद्य इदं धर्मपर्यायं शृणुयात्, (वैद्य २०७) परं वा निषादयेत्, आसनसंविभागं वा कुर्यादपरस्य सत्त्वस्य, तेन स पुण्याभिसंस्कारेण लाभी भविष्यति शक्रासनानां ब्रह्मासनानां चक्रवर्तिसंहासनानाम् । सचेत्पुनरजित कश्चिदेव कुलपुत्रो वा कुलदुहिता वा अपरं पुरुषमेवं वदेत्- आगच्छ त्वं भोः पुरुष । सद्धर्मपुण्डरीकं नाम धर्मपर्यायं शृणुष्व । स च पुरुषस्तस्य तां प्रोत्साहनामागम्य यदि मुहूर्तमात्रमपि शृणुयात्, स सत्त्वस्तेन प्रोत्साहेन कुशलमूलेनाभिसंस्कृतेन धारणीप्रतिलब्धैर्बोधिसत्त्वैः सार्धं समवधानं प्रतिलभते । अजडश्च भवति, तीक्ष्णेन्द्रियः प्रज्ञावान् । न तस्य जातिशतसहस्रैरपि पूति मुखं भवति न दुर्गन्धि । नाप्यस्य जिह्वारोगो भवति, न मुखरोगो भवति । न च श्यामदन्तो भवति, न विषमदन्तो भवति, न पीतदन्तो भवति, न दुःसंस्थितदन्तो न खण्डदन्तो न पतितदन्तो न वक्रदन्तो न लम्बोष्ठो भवति, नाभ्यन्तरोष्ठो न प्रसारितोष्ठो न खण्डोष्ठो न वङ्कोष्ठो न कृष्णोष्ठो न बीभत्सोष्ठो भवति । न चिपीटनासो भवति, न वक्रनासो भवति । न दीर्घमुखो भवति, न वङ्कमुखो भवति, न कृष्णमुखो भवति, नाप्रियदर्शनमुखः । अपि तु खल्वजित सूक्ष्मसुजातजिह्वादन्तोष्ठो भवति आयतनासः । प्रणीतमुखमण्डलः सुभ्रूः सुपरिनिक्षिप्तललाटो भवति । सुपरिपूर्णपुरुषव्यञ्जनप्रतिलाभी च भवति । तथागतं च अववादानुशासकं प्रतिलभते । क्षिप्रं च बुद्धैर्भगवद्भिः सह समवधानं प्रतिलभते । पश्य अजित एकसत्त्वमपि नाम उत्साहयित्वा इयत्पुण्यं प्रसवति । कः पुनर्वादो यः सत्कृत्य शृणुयात्, सत्कृत्य वाचयेत्, सत्कृत्य देशयेत्, सत्कृत्य प्रकाशयेदिति ॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -

पञ्चाशिमो यश्च परंपरायां सूत्रस्यिमस्यो शृणुतेकगाथाम् ।
अनुमोदयित्वा च प्रसन्नचित्तः शृणुष्व पुण्यं भवि यत्तकं तत् ॥ १७.२ ॥
स चैव पुरुषो भवि दानदाता सत्त्वान् कोटीनयुतेषु नित्यम् ।
ये पूर्वमौपम्यकृता मया वै तान् सर्वि तर्पेय अशीति वर्षान् ॥ १७.३ ॥
सो दृष्ट्व तेषां च जरामुपस्थितां वली च खण्डं च शिरश्च पाण्डरम् ।
हाहाधिमुच्यन्ति हि सर्वसत्त्वा यन्नून धर्मेण हु ओवदेयम् ॥ १७.४ ॥
(वैद्य २०८)
सो तेष धर्मं वदतीह पश्चान्निर्वाणभूमिं च प्रकाशयेत ।
सर्वे भवाः फेनमरीचिकल्पा निर्विद्यथा सर्वभवेषु क्षिप्रम् ॥ १७.५ ॥
ते सर्वसत्त्वाश्च श्रुणित्व धर्मं तस्यैव दातुः पुरुषस्य अन्तिकात् ।
अर्हन्तभूता भवि एककाले क्षीणास्रवा अन्तिमदेहधारिणः ॥ १७.६ ॥
पुण्यं ततो बहुतरु तस्य हि स्यत्परंपरातः श्रुणि एकगाथाम् ।
अनुमोदि वा यत्तकु तस्य पुण्यं कल पुण्यस्कन्धः पुरिमो न भोति ॥ १७.७ ॥
एवं बहु तस्य भवेत पुण्यमनन्तकं यस्य प्रमाणु नास्ति ।
गाथां पि श्रुत्वैक परंपराय किं वा पुनः संमुख यो श्रुणेया ॥ १७.८ ॥
यश्चैकसत्त्वं पि वदेय तत्र प्रोत्साहये गच्छ शृणुष्व धर्मम् ।
सुदुर्लभं सुत्रमिदं हि भोति कल्पान कोटीनयुतैरनेकैः ॥ १७.९ ॥
स चापि प्रोत्साहितु तेन सत्त्वः श्रुणेय सूत्रेम मुहूर्तकं पि ।
तस्यापि धर्मस्य फलं शृणोहि मुखरोग तस्य न कदाचि भोति ॥ १७.१० ॥
जिह्वापि तस्य न कदाचि दुःखति न तस्य दन्ता पतिता भवन्ति ।
श्यामाथ पीता विषमा च जातु बीभत्सितोष्ठो न च जातु भोति ॥ १७.११ ॥
कुटिलं च शुष्कं च न जातु दीर्घं मुखं न चिपिटं स्य कदाचि भोति ।
(वैद्य २०९)
सुसंस्थिता नास तथा ललाटं दन्ता च ओष्ठो मुखमण्डलं च ॥ १७.१२ ॥
प्रियदर्शनो भोति सदा नराणां पूर्तिं च वक्रं न कदाचि भोति ।
यथोत्पलस्येह सदा सुगन्धिः प्रवायते तस्य मुखस्य गन्धः ॥ १७.१३ ॥
गृहाद्विहारं हि व्रजित्व धीरो गच्छेत सूत्रं श्रवणाय एतत् ।
गत्वा च सो तत्र शृणे मुहूर्तं प्रसन्नचित्तस्य फलं शृणोथ ॥ १७.१४ ॥
सुगौरु तस्यो भवतेत्मभावः परियाति चो अश्वरथेहि धीरः ।
हस्तीरथांश्चो अभिरुह्य उच्चान् रतनेहि चित्राननुचंक्रमेया ॥ १७.१५ ॥
विभूषितां सो शिबिकां लभेत नरैरनेकैरिह वाह्यमानाम् ।
गत्वापि धर्मं श्रवणाय तस्य फलं शुभं भोति च एवरूपम् ॥ १७.१६ ॥
निषद्य चासौ परिषाय तत्र शुक्लेन कर्मेण कृतेन तेन ।
शक्रासनानां भवते स लाभी ब्रह्मासनानां च नृपासनानाम् ॥ १७.१७ ॥

इति श्रीसद्धर्मपुण्डरीके धर्मपर्याये अनुमोदनापुण्यनिर्देशपरिवर्तो नाम सप्तदशमः ॥



_______________________________________________________________________________




(वैद्य २१०)

१८: धर्मभाणकानुशंसापरिवर्तः ।

अथ खलु भगवान् सततसमिताभियुक्तं बोधिसत्त्वं महासत्त्वमामन्त्रयामास - यः कश्चित्कुलपुत्र इमं धर्मपर्यायं धारयिष्यति वाचयिष्यति वा देशयिष्यति वा लिखिष्यति व, स कुलपुत्रो वा कुलदुहिता व अष्टौ चक्षुर्गुणशतानि प्रतिलप्स्यते, द्वादश श्रोत्रगुणशतानि प्रतिलप्स्यते, अष्टौ घ्राणगुणशतानि प्रतिलप्स्यते, द्वादश जिह्वागुणशतानि प्रतिलप्स्यते, अष्टौ कायगुणशतानि प्रतिलप्स्यते, द्वादश मनोगुणशतानि प्रतिलप्स्यते । तस्यैभिर्बहुभिर्गुणशतैः षडिन्द्रियग्रामः परिशुद्धः सुपरिशुद्धो भविष्यति । स एवं परिशुद्धेन चक्षुरिन्द्रियेण प्राकृतेन मांसचक्षुषा मातापितृसंभवेन त्रिसाहस्रमहासाहस्रां लोकधातुं सान्तर्बहिः सशैलवनषण्डामधो यावदवीचिमहानिरयमुपादाय उपरि च यावत्भवाग्रं तत्सर्वं द्रक्ष्यति प्राकृतेन मांसचक्षुषा । ये च तस्मिन् सत्त्वा उपपन्नाः, तान् सर्वान् द्रक्ष्यति, कर्मविपाकं च तेषां ज्ञास्यतीति ॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -

य इमं सूत्र भाषेत पर्षासु च विशारदः ।
अनोलीनः प्रकाशेया गुणांस्तस्य शृणुष्व मे ॥ १८.१ ॥
अष्टौ गुणशताअस्तस्य चक्षुषो भोन्ति सर्वशः ।
येनास्य विमलं भोति शुद्धं चक्षुरनाविलम् ॥ १८.२ ॥
स मांसचक्षुषा तेन मातापितृकसंभुना ।
पश्यते लोकधात्वेमां सशैलवनकाननाम् ॥ १८.३ ॥
मेरुं सुमेरु सर्वा च चक्रवाला स पश्यति ।
ये चान्ये पर्वताः खण्डाः समुद्रांश्चापि पश्यति ॥ १८.४ ॥
यावानवीचि हेष्ठेन भवाग्रं चोपरिष्टतः ।
सर्वं स पश्यते धीरो मांसचक्षुस्य ईदृशम् ॥ १८.५ ॥
न ताव दिव्यचक्षु स्य भोति नो चापि जायते ।
विषयो मांसचक्षुस्य भवेत्तस्यायमीदृशः ॥ १८.६ ॥

पुनरपरं सततसमिताभियुक्त स कुलपुत्रो वा कुलदुहिता वा इमं धर्मपर्यायं संप्रकाशयमानः परेषां च संश्रावयमानस्तैर्द्वादशभिः श्रोत्रगुणशतैः समन्वागतः ये त्रिसाहस्रमहासाहस्रायां लोकधातौ विविधाः शब्दा निश्चरन्ति यावदवीचिर्महानिरयो यावच्च भवाग्रं सान्तर्बहिः, तद्यथा - हस्तिशब्दा वा अश्वशब्दा वा उष्ट्रशब्दा वा गोशब्दा वा अजशब्दा वा जनपदशब्दा वा रथशब्दा वा रुदितशब्दा वा शोकशब्दा वा भैरवशब्दा वा शङ्खशब्दा वा घण्टाशब्दा वा पटहशब्दा वा भेरीशब्दा वा क्रीडाशब्दा वा गीतशब्दा वा नृत्यशब्दा वा तूर्यशब्दा वा वाद्यशब्दा वा स्त्रीशब्दा वा पुरुषशब्दा वा दारकशब्दा वा (वैद्य २११) दारिकाशब्दा वा धर्मशब्दा वा अधर्मशब्दा वा सुखशब्दा वा दुःखशब्दा वा बालशब्दा वा आर्यशब्दा वा मनोज्ञशब्दा वा अमनोज्ञशब्दा वा देवशब्दा वा नागशब्दा वा यक्षशब्दा वा राक्षसशब्दा वा गन्धर्वशब्दा वा असुरशब्दा वा गरुडशब्दा वा किन्नरशब्दा वा महोरगशब्दा वा मनुष्यशब्दा वा अमनुष्यशब्दा वा अग्निशब्दा वा वायुशब्दा वा उदकशब्दा वा ग्रामशब्दा वा नगरशब्दा वा भिक्षुशब्दा वा श्रावकशब्दा वा प्रत्येकबुद्धशब्दा वा बोधिसत्त्वशब्दा वा तथागतशब्दा वा, यावन्तः केचित्रिसाहस्रमहासाहस्रायां लोकधातौ सान्तर्बहिः शब्दा निश्चरन्ति, तान् शब्दांस्तेन प्राकृतेन परिशुद्धेन श्रोत्रेन्द्रियेण शृणोति । न च तावद्दिव्यं श्रोत्रमभिनिर्हरति । तेषां तेषां च सत्त्वानां रुतान्यवबुध्यते, विभावयति विभजति तेन च प्राकृतेन श्रोत्रेन्द्रियेण । तेषां तेषां च सत्त्वानां रुतानि शृण्वतस्तस्य तैः सर्वशब्दैः श्रोत्रेन्द्रियं नाभिभूयते । एवंरूपः सततसमिताभियुक्त तस्य बोधिसत्त्वस्य महासत्त्वस्य श्रोत्रेन्द्रियप्रतिलम्भो भवति, न च तावद्दिव्यं श्रोत्रमभिनिर्हरति ॥

इदमवोचद्भगवान् । इदं वदित्वा सुगतो ह्यथापरमेतदुवाच शास्ता -

श्रोत्रेन्द्रियं तस्य विशुद्धु भोति अनाविलं प्राकृतकं च तावत् ।
विविधान् हि येनेह शृणोति शब्दानिह लोकधातौ हि अशेषतोऽयम् ॥ १८.७ ॥
हस्तीन अश्वान शृणोति शब्दान् रथान गोणान अजैडकानाम् ।
भेरीमृदङ्गान सुघोषकानां वीणान वेणूनथ वल्लकीनाम् ॥ १८.८ ॥
गीतं मनोज्ञं मधुरं शृणोति न चापि सो सज्जति तत्र धीरः ।
मनुष्यकोटीन शृणोति शब्दान् भाषन्ति यं यं च यहिं यहिं ते ॥ १८.९ ॥
देवान चो नित्य शृणोति शब्दान् गीतस्वरं च मधुरं मनोज्ञम् ।
पुरुषाण इस्त्रीण रुतानि चापि तथ दारकाणामथ दारिकाणाम् ॥ १८.१० ॥
ये पर्वतेष्वेव गुहानिवासी कलविङ्कका कोकिल बर्हिणश्च ।
(वैद्य २१२)
पक्षीण ये जीवकजीवका हि तेषां च वल्गू शृणुते हि शब्दान् ॥ १८.११ ॥
नरकेषु ये वेदन वेदयन्ति सुदारुणांश्चापि करोन्ति शब्दान् ।
आहारदुःखैरवपीडितानां यान् प्रेत कुर्वन्ति तथैव शब्दान् ॥ १८.१२ ॥
असुराश्च ये सागरमध्यवासिनो मुञ्चन्ति घोषांस्तथ चान्यमन्यान् ।
सर्वानिहस्थो स हि धर्मभाणकः शृणोति शब्दान्न च ओस्तरीयति ॥ १८.१३ ॥
तिर्याण योनीषु रुतानि यानि अन्योन्यसंभाषणतां करोन्ति ।
इह स्थितस्तानपि सो शृणोति विविधानि शब्दानि बहूविधानि ॥ १८.१४ ॥
ये ब्रह्मलोके निवसन्ति देवा अकनिष्ठ आभास्वर ये च देवाः ।
ये चान्यमन्यस्य करोन्ति घोषान् शृणोति तत्सर्वमशेषतोऽसौ ॥ १८.१५ ॥
स्वाध्याय कुर्वन्तिह ये च भिक्षवः सुगतानिह शासनि प्रव्रजित्वा ।
पर्षासु ये देशयते च धर्मं तेषां पि शब्दं शृणुते स नित्यम् ॥ १८.१६ ॥
ये बोधिसत्त्वाश्चिह लोकधातौ स्वाध्याय कुर्वन्ति परस्परेण ।
संगीति धर्मेषु च ये करोन्ति शृणोति शब्दान् विविधांश्च तेषाम् ॥ १८.१७ ॥
भगवान् पि बुद्धो नरदम्यसारथिः पर्षासु धर्मं ब्रुवते यमग्रम् ।
तं चापि सो शृण्वन्ति एककाले यो बोधिसत्त्वो इमु सूत्र धारयेत् ॥ १८.१८ ॥
(वैद्य २१३)
सर्वे त्रिसाहस्रि इमस्मि क्षेत्रे ये सत्त्व कुर्वन्ति बहूं पि शब्दान् ।
अभ्यन्तरेणापि च बाहिरेण अवीचिपर्यन्त भवाग्रमूर्ध्वम् ॥ १८.१९ ॥
सर्वेष सत्त्वान शृणोति शब्दान्नं चापि क्षेत्रमुपरुध्यतेऽस्य ।
पट्विन्द्रियो जानति स्थानस्थानं श्रोत्रेन्द्रियं प्राकृतकं हि तावत् ॥ १८.२० ॥
न च ताव दिव्यस्मि करोति यत्नं प्रकृत्य संतिष्ठति श्रोत्रमेतत् ।
सूत्रं हि यो धारयते विशारदो गुणा स्य एतादृशका भवन्ति ॥ १८.२१ ॥

पुनरपरं सततसमिताभियुक्त अस्य बोधिसत्त्वस्य महासत्त्वस्य इमं धर्मपर्यायं धारयतः प्रकाशयतः स्वाध्यायतो लिखतोऽष्टाभिर्गुणशतैः समन्वागतं घ्राणेन्द्रियं परिशुद्धं भवति । स तेन परिशुद्धेन घ्राणेन्द्रियेण ये त्रिसाहस्रमहासाहस्रायां लोकधातौ सान्तर्बहिर्विविधगन्धाः संविद्यन्ते, तद्यथा - पूतिगन्धा वा मनोज्ञगन्धा वा नानाप्रकाराणां सुमनसां गन्धाः, तद्यथा - जातिमल्लिकाचम्पकपाटलगन्धाः, तान् गन्धान् घ्रायति । जलजानामपि पुष्पाणां विविधान् गन्धान् घ्रायति, तद्यथा - उत्पलपद्मकुमुदपुण्डरीकाणां गन्धान् घ्रायति । विविधानां पुष्पफलवृक्षाणां पुष्पफलगन्धान् घ्रायति, तद्यथा - चन्दनतमालपत्रतगरागरुसुरभिगन्धान् घ्रायति । नानाविकाराणि गन्धविकृतिशतसहस्राणि यान्येकस्थानस्थितः सर्वाणि घ्रायति । सत्त्वानामपि विविधान् गन्धान् घ्रायति, तद्यथा - हस्त्यश्वगवेडकपशुगन्धान् घ्रायति । विविधानां च तिर्यग्योनिगतानां प्राणिनामात्मभावगन्धान् घ्रायति । स्त्रीपुरुषात्मभावगन्धान् घ्रायति । दारकदारिकात्मभावगन्धान् घ्रायति । दूरस्थानामपि तृणगुल्मौषधिवनस्पतीनां गन्धान् घ्रायति । भूतान् गन्धान् वन्दति, न च तैर्गन्धैः संह्रियते, न संमुह्यति । स इहस्थित एव देवानामपि गन्धान् घ्रायति, तद्यथा - पारिजातकस्य कोविदारस्य मान्दारवमहामान्दारवमञ्जूषकमहामञ्जूषकानां दिव्यानां पुष्पाणां गन्धान् घ्रायति । दिव्यानामगरुचूर्णचन्दनचूर्णानां गन्धान् घ्रायति । दिव्यानां च नानाविधानां पुष्पविकृतिशतसहस्राणां गन्धान् घ्रायति, नामानि चैषां संजानीते । देवपुत्रात्मभावगन्धान् घ्रायति, तद्यथा - शक्रस्य देवानामिन्द्रस्य आत्मभावगन्धं घ्रायति । तं च जानीते यदि वा वैजयन्ते प्रासादे क्रीडन्तं रमन्तं परिचारयन्तं यदि वा सुधर्मायां देवसभायां देवानां त्रायस्त्रिंशानां धर्मं देशयन्तं यदि वा उद्यानभूमौ निर्यान्तं क्रीडनाय । अन्येषां च देवपुत्राणां (वैद्य २१४) पृथक्पृथगात्मभावगन्धान् घ्रायति । देवकन्यानामपि देववधूनामपि आत्मभावगन्धान् घ्रायति । देवकुमाराणामपि आत्मभावगन्धान् घ्रायति । देवकुमारिकाणामपि आत्मभावगन्धान् घ्रायति । न च तैर्गन्धैः संह्रियते । अनेन पर्यायेण यावद्भवाग्रोपपन्नानामपि सत्त्वानामात्मभावगन्धान् घ्रायति । ब्रह्मकायिकानामपि देवपुत्राणां महाब्रह्मणामपि चात्मभावगन्धान् घ्रायति । अनेन पर्यायेण सर्वदेवनिकायानामपि आत्मभावगन्धान् घ्रायति । श्रावकप्रत्येकबुद्धबोधिसत्त्वतथागतात्मभावगन्धान् घ्रायति । तथागतासनानामपि गन्धान् घ्रायति । यस्मिंश्च स्थाने ते तथागता अर्हन्तः सम्यक्संबुद्धा विहरन्ति, तच्च प्रजानाति । न चास्य तद्घ्राणेन्दियं तैस्तैर्विविधैर्गन्धैः प्रतिहन्यते, नोपहन्यते, न संपीड्यते । आकाङ्क्षमाणश्च तांस्तान् गन्धान् परेषामपि व्याकरोति । न चास्य स्मृतिरुपहन्यते ॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -

घ्राणेन्द्रियं तस्य विशुद्ध भोति विविधांश्च गन्धान् बहु घ्रायतेऽसौ ।
ये लोकधातौ हि इमस्मि सर्वे सुगन्ध दुर्गन्ध भवन्ति केचित् ॥ १८.२२ ॥
जातीय गन्धो अथ मल्लिकाया तमालपत्रस्य च चन्दनस्य ।
तगरस्य गन्धो अगरुस्य चापि विविधान पुष्पाण फलान चापि ॥ १८.२३ ॥
सत्त्वान गन्धान् पि तथैव जानति नराण नारीण च दूरतः स्थितः ।
कुमारकाणां च कुमारिकाणां गन्धेन सो जानति तेष स्थानम् ॥ १८.२४ ॥
राज्ञां पि सो जानति चक्रवर्तिनां बलचक्रवर्तीनथ मण्डलीनाम् ।
कुमारकामात्य तथैव तेषां गन्धेन चान्तःपुर सर्व जानति ॥ १८.२५ ॥
परिभोगरत्नानि बहूविधानि कुप्यानि भूमौ निहितानि यानि ।
स्त्रीरत्नभूतानि भवन्ति यापि गन्धेन सो जानति बोधिसत्त्वः ॥ १८.२६ ॥
(वैद्य २१५)
तेषां च या आभरणा भवन्ति कायस्मि आमुक्त विचित्ररूपा ।
वस्त्रं च माल्यं च विलेपनं च गन्धेन सो जानति बोधिसत्त्वः ॥ १८.२७ ॥
स्थितां निषण्णां शयितां तथैव क्रीडारतिमृद्धिबलं च सर्वम् ।
सो जानती घ्राणबलेन धीरो यो धारयेत्सूत्रमिदं वरिष्ठम् ॥ १८.२८ ॥
सुगन्धतैलान तथैव गन्धान्नानाविधान् पुष्पफलान गन्धान् ।
सकृतस्थितो जानति घ्रायते च अमुकस्मि देशस्मि इमस्मि गन्धान् ॥ १८.२९ ॥
ये पर्वतानां विवरान्तरेषु बहु चन्दना पुष्पित तत्र सन्ति ।
ये चापि तस्मिन्निवसन्ति सत्त्वाः सर्वेष गन्धेन विदुर्विजानति ॥ १८.३० ॥
ये चक्रवालस्य भवन्ति पार्श्वे ये सागरस्यो निवसन्ति मध्ये ।
पृथिवीय ये मध्यि वसन्ति सत्त्वाः सर्वान् स गन्धेन विदुर्विजानति ॥ १८.३१ ॥
सुरांश्च जानाति तथासुरांश्च असुराण कन्याश्च विजानतेऽसौ ।
असुराण क्रीडाश्च रतिं च जानति घ्राणस्य तस्येदृशकं बलं हि ॥ १८.३२ ॥
अटवीषु ये केचि चतुष्पदास्ति सिंहाश्च व्याघ्रास्तथ हस्तिनागाः ।
महिषा गवा ये गवयश्च तत्र घ्राणेन सो जानति तेष वासम् ॥ १८.३३ ॥
स्त्रियश्च या गुर्विणिका भवन्ति कुमारकां वापि कुमारिकां वा ।
धारेन्ति कुक्षौ हि किलान्तकाया गन्धेन सो जानति यं तहिं स्यात् ॥ १८.३४ ॥
(वैद्य २१६)
आपन्नसत्त्वां पि विजानतेऽसौ विनाशधर्मां पि विजानतेऽसौ ।
इयं पि नारी व्यपनीतदुःखा प्रसविष्यते पुण्यमयं कुमारम् ॥ १८.३५ ॥
पुरुषाण अभिप्रायु बहुं विजानते अभिप्रायगन्धं च तथैव घ्रायते ।
रक्तान दुष्टान तथैव म्रक्षिणामुपशान्तचित्तान च गन्ध घ्रायते ॥ १८.३६ ॥
पृथिवीय ये चापि निधान सन्ति घनं हिरण्यं च सुवर्णरूप्यम् ।
मञ्जूष लोही च तथा सुपूर्णा गन्धेन सो घ्रायति बोधिसत्त्वः ॥ १८.३७ ॥
हारार्धहारान्मणिमुक्तिकाश्च अनर्घप्राप्ता विविधा च रत्ना ।
गन्धेन सो जानति तानि सर्वा अनर्घनामं द्युतिसंस्थितं च ॥ १८.३८ ॥
उपरिं च देवेषु तथैव पुष्पा मन्दारवांश्चैव मञ्जूषकांश्च ।
या पारिजातस्य च सन्ति पुष्पा इह स्थितो घ्रायति ता स धीरः ॥ १८.३९ ॥
विमान ये यादृशकाश्च यस्य उदार हीनास्तथ मध्यमाश्च ।
विचित्ररूपाश्च भवन्ति यत्र इह स्थितो घ्राणबलेन घ्रायति ॥ १८.४० ॥
उद्यानभूमिं च तथा प्रजानते सुधर्म देवासनि वैजयन्ते ।
प्रासादश्रेष्ठे च तथा विजानते ये चो रमन्ते तहि देवपुत्राः ॥ १८.४१ ॥
इह स्थितो घ्रायति गन्धु तेषां गन्धेन सो जानति देवपुत्रान् ।
(वैद्य २१७)
यो यत्र कर्मा कुरुते स्थितो वा शेते वा गच्छति यत्र वापि ॥ १८.४२ ॥
या देवकन्या बहुपुष्पमण्डिता आमुक्तमाल्याभरणा अलंकृताः ।
रमन्ति गच्छन्ति च यत्र यत्र गन्धेन सो जानति बोधिसत्त्वः ॥ १८.४३ ॥
यावद्भवाग्रादुपरिं च देवा ब्रह्मा महाब्रह्म विमानचारिणः ।
तांश्चापि गन्धेन तहिं प्रजानते स्थितांश्च ध्याने अथ व्युत्थितान् वा ॥ १८.४४ ॥
आभास्वरान् जानति देवपुत्रान् च्युतोपपन्नांश्च अपूर्वकांश्च ।
घ्राणेन्द्रियमीदृश तस्य भोति यो बोधिसत्त्वो इमु सूत्र धारयेत् ॥ १८.४५ ॥
य केचि भिक्षू सुगतस्य शासने अभियुक्तरूपा स्थित चक्रमेषु ।
उद्देशस्वाध्यायरताश्च भिक्षवो सर्वान् हि सो जानति बोधिसत्त्वः ॥ १८.४६ ॥
ये श्रावका भोन्ति जिनस्य पुत्रा विहरन्ति केचित्सद वृक्षमूले ।
गन्धेन सर्वान् विदु जानते तानमुत्र भिक्षू अमुको स्थितो ति ॥ १८.४७ ॥
ये बोधिसत्त्वाः स्मृतिमन्त ध्यायिनो उद्देशस्वाध्यायरताश्च ये सदा ।
पर्षासु धर्मं च प्रकाशयन्ति गन्धेन तान् जानति बोधिसत्त्वः ॥ १८.४८ ॥
यस्यां दिशायां सुगतो महामुनिर्धर्मं प्रकाशेति हितानुकम्पकः ।
पुरस्कृतः श्रावकसंघमध्ये गन्धेन सो जानति लोकनाथम् ॥ १८.४९ ॥
(वैद्य २१८)
ये चापि सत्त्वा स्य शृणोति धर्मं श्रुत्वा च ये प्रीतमना भवन्ति ।
इह स्थितो जानति बोधिसत्त्वो जिनस्य पर्षामपुइ तत्र सर्वाम् ॥ १८.५० ॥
एतादृशं घ्राणबलं स्य भोति न च ताव दिव्यं भवते स्य घ्राणम् ।
पूर्वंगमं तस्य तु एत भोति दिव्यस्य घ्राणस्य अनास्रवस्य ॥ १८.५१ ॥
पुनरपरं सततसमिताभियुक्त स कुलपुत्रो वा कुलदुहिता वा इमं धर्मपर्यायं धारयमाणो देशयमानः प्रकाशयमानो लिखमानस्तैर्द्वादशभिर्जिह्वागुणशतैः समन्वागतं जिह्वेन्द्रियं प्रतिलप्स्यते । स तथारूपेण जिह्वेन्द्रियेण यान् यान् रसानास्वादयति, यान् यान् रसान् जिह्वेन्द्रिये उपनिक्षेप्सति, सर्वे ते दिव्यं महारसं मोक्ष्यन्ते । तथा च आस्वादयिष्यति यथा न कंचिद्रसममनआपमास्वादयिष्यति । येऽपि अमनआपा रसास्तेऽपि तस्य जिह्वेन्द्रिये समुपनिक्षिप्ताः दिव्यं रसं मोक्ष्यन्ते । यं च धर्मं व्याहरिष्यति पर्षन्मध्यगतः, तेन तस्य ते सत्त्वाः प्रीणितेन्द्रिया भविष्यन्ति तुष्टाः परमतुष्टाः प्रामोद्यजाताः । मधुरश्चास्य वल्गुमनोज्ञस्वरो गम्भीरो निश्चरिष्यति हृदयंगमः प्रेमणीयः । तेनास्य ते सत्त्वास्तुष्टा उदग्रचित्ता भविष्यन्ति । येषां च धर्मं देशयिष्यति, ते चास्य मधुरनिर्घोषं श्रुत्वा वल्गुमनोज्ञं देवा अप्युपसंक्रमितव्यं मंस्यन्ते दर्शनाय वन्दनाय पर्युपासनाय धर्मश्रवनाय च । देवपुत्रा अपि देवकन्या अपि उपसंक्रमितव्यं मंस्यन्ते दर्शनाय वन्दनाय पर्युपासनाय धर्मश्रवणाय च । शक्रा अपि ब्रह्माणोऽपि ब्रह्मकायिका अपि देवपुत्रा उपसंक्रमितव्यं मंस्यन्ते दर्शनाय वन्दनाय पर्युपासनाय धर्मश्रवणाय च । नागा नागकन्या अपि उपसंक्रमितव्यं मंस्यन्ते दर्शनाय वन्दनाय पर्युपासनाय धर्मश्रवणाय च । असुरा असुरकन्या अपि उपसंक्रमितव्यं मंस्यन्ते दर्शनाय वन्दनाय पर्युपासनाय धर्मश्रवणाय च । गरूडा गरूडकन्या अपि उपसंक्रमितव्यं मंस्यन्ते दर्शनाय वन्दनाय पर्युपासनाय धर्मश्रवणाय च । किन्नराः किन्नरकन्या अपि, महोरगा महोरगकन्या अपि, यक्षा यक्षकन्या अपि, पिशाचाः पिशाचकन्या अपि उपसंक्रमितव्यं मंस्यन्ते दर्शनाय वन्दनाय पर्युपासनाय धर्मश्रवणाय च । ते चास्य सत्कारं करिष्यन्ति, गुरुकारं माननां पूजनामर्चनामपचायनां करिष्यन्ति । भिक्षुभिक्षुण्युपासकोपासिका अपि दर्शनकामा भविष्यन्ति । राजानोऽपि राजपुत्रा अपि राजामात्या अपि राजमहामात्रा अपि दर्शनकामा भविष्यन्ति । बलचक्रवर्तिनोऽपि राजानः, चक्रवर्तिनोऽपि सप्तरत्नसमन्वागताः सकुमाराः सामात्याः सान्तःपुरपरिवारा दर्शनकामा भविष्यन्ति सत्कारार्थिनः । तावन्मधुरं स धर्मभाणको धर्मं भाषिष्यते यथाभूतं यथोक्तं तथागतेन । अन्येऽपि ब्राह्मणगृहपतयो नैगमजानपदास्तस्य धर्मभाणकस्य (वैद्य २१९) सततसमितं समनुबद्धा भविष्यन्ति यावदायुष्पर्यवसानम् । तथागतश्रावका अपि अस्य दर्शनकामा भविष्यन्ति । प्रत्येकबुद्धा अप्यस्य दर्शनकामा भविष्यन्ति । बुद्धा अप्यस्य भगवन्तो दर्शनकामा भविष्यन्ति । यस्यां च दिशि स कुलपुत्रो वा कुलदुहिता वा विहरिष्यति, तस्यां दिशि तथागताभिमुखं धर्मं देशयिष्यति, बुद्धधर्माणां च भाजनभूतो भविष्यति । एवं मनोज्ञस्तस्य गम्भीरो धर्मशब्दो निश्चरिष्यति ॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -

जिह्वेन्द्रियं तस्य विशिष्टु भोति न जातु हीनं रस स्वादयेत ।
निक्षिप्तमात्राश्च भवन्ति दिव्या रसेन दिव्येन समन्विताश्च ॥ १८.५२ ॥
वल्गुस्वरां मधुर प्रभाषते गिरां श्रवणीयमिष्टां च मनोरमां च ।
पर्षाय मध्यस्मि ह प्रेमणीयं गम्भीरघोषं च सदा प्रभाषते ॥ १८.५३ ॥
यश्चापि धर्मं शृणुतेऽस्य भाषतो दृष्टान्तकोटीनयुतैरनेकैः ।
प्रामोद्य तत्रापि जनेति सोऽग्रं पूजां च तस्य कुरुतेऽप्रमेयाम् ॥ १८.५४ ॥
देवा पि नागासुरगुह्यकाश्च द्रष्टुं तमिच्छन्ति च नित्यकालम् ।
शृण्वन्ति धर्मं च सगौरवाश्च इमे गुणास्तस्य भवन्ति सर्वे ॥ १८.५५ ॥
आकाङ्क्षमाणश्च इम लोकधातुं स्वरेण सर्वामभिविज्ञपेया ।
स्निग्धः स्वरोऽस्य मधुरश्च भोति गम्भीर वल्गुश्च सुप्रेमणीयः ॥ १८.५६ ॥
राजान ये क्षितिपति चक्रवर्तिनः पूजार्थिकास्तस्युपसंक्रमन्ति ।
सपुत्रदारा करियाण अञ्जलिं शृण्वन्ति धर्मस्य च नित्यकालम् ॥ १८.५७ ॥
(वैद्य २२०)
यक्षाण चो भोति सदा पुरस्कृतो नागान गन्धर्वगणान चैव ।
पिशाचकानां च पिशाचिकानां सुसत्कृतो मानितु पूजितश्च ॥ १८.५८ ॥
ब्रह्मापि तस्य वशवर्ति भोति महेश्वरो ईश्वर देवपुत्रः ।
शक्रस्तथान्येऽपि च देवपुत्रा बहुदेवकन्याश्चुपसंक्रमन्ति ॥ १८.५९ ॥
बुद्धाश्च ये लोकहितानुकम्पकाः सश्रावकास्तस्य निशाम्य घोषम् ।
करोन्ति रक्षां मुखदर्शनाय तुष्टाश्च भोन्ति ब्रुवतोऽस्य धर्मम् ॥ १८.६० ॥

पुनरपरं सततसमिताभियुक्त स बोधिसत्त्वो महासत्त्व इमं धर्मपर्यायं धारयमाणो वा वाचयमानो वा प्रकाशयमानो वा देशयमानो वा लिखमानो वा अष्टौ कायगुणशतानि प्रतिलप्स्यति । तस्य कायः शुद्धः परिशुद्धो वैडूर्यपरिशुद्धच्छविवर्णो भविष्यति, प्रियदर्शनः सत्त्वानाम् । स तस्मिन्नात्मभावे परिशुद्धे सर्वं त्रिसाहस्रमहासाहस्रलोकधातुं द्रक्ष्यति । ये च त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वाश्च्यवन्ति उपपद्यन्ते च, हीनाः प्रणीताश्च, सुवर्णा दुर्वर्णाः, सुगतौ दुर्गतौ, ये च चक्रवालमहाचक्रवालेषु मेरुसुमेरुषु च पर्वतराजेषु सत्त्वाः प्रतिवसन्ति, ये च अधस्तादवीच्यामूर्ध्वं च यावद्भवाग्रं सत्त्वाः प्रतिवसन्ति, तान् सर्वान् स्व आत्मभावे द्रक्ष्यति । ये चापि केचिदस्मिंस्त्रिसाहस्रमहासाहस्रे लोकधात्रौ श्रावका वा प्रत्येकबुद्धा वा बोधिसत्त्वा वा तथागता वा प्रतिवसन्ति, यं च ते तथागता धर्मं देशयन्ति, ये च सत्त्वास्तांस्तथागतान् पर्युपासन्ते, सर्वेषां तेषां सत्त्वानामात्मभावप्रतिलम्भान् स्व आत्मभावे द्रक्ष्यति । तत्कस्य हेतोः? यथापीदं परिशुद्धत्वादात्मभावस्येति ॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -

परिशुद्ध तस्यो भवतेत्मभावो यथापि वैडूर्यमयो विशुद्धः ।
सत्त्वान नित्यं प्रियदर्शनश्च यः सूत्र धारेति इदमुदारम् ॥ १८.६१ ॥
आदर्शपृष्ठे यथ विम्बु पश्येत्लोकोऽस्य काये अयु दृश्यते तथा ।
(वैद्य २२१)
स्वयंभु सो पश्यति नान्यि सत्त्वाः परिशुद्धि कायस्मि इम एवरूपा ॥ १८.६२ ॥
ये लोकधातौ हि इहास्ति सत्त्वा मनुष्य देवासुर गुह्यका वा ।
नरकेषु प्रेतेषु तिरश्चयोनिषु प्रतिबिम्बु संदृश्यति तत्र काये ॥ १८.६३ ॥
विमान देवान भवाग्र यावच्छैलं पि चो पर्वतचक्रवालम् ।
हिमवान् सुमेरुश्च महांश्च मेरुः कायस्मि दृश्यन्तिमि सर्वथैव ॥ १८.६४ ॥
बुद्धान् पि सो पश्यति आत्मभावे सश्रावकान् बुद्धसुतांस्तथान्यान् ।
ये बोधिसत्त्वा विहरन्ति चैकका गणे च ये धर्म प्रकाशयन्ति ॥ १८.६५ ॥
एतादृशी कायविशुद्धि तस्य यहि दृश्यते सर्विय लोकधातुः ।
न च ताव सो दिव्य न प्रापुणोति प्रकृतीय कायस्यियमीदृशी भवेत् ॥ १८.६६ ॥

पुनरपरं सततसमिताभियुक्त अस्य बोधिसत्त्वस्य महासत्त्वस्य तथागते परिनिर्वृते इमं धर्मपर्यायं धारयतो देशयतः संप्रकाशयतो लिखतो वाचयतस्तैर्द्वादशभिर्मनस्कारगुणशतैः समन्वागतं मनैन्द्रियं परिशुद्धं भविष्यति । स तेन परिशुद्धेन मनैन्द्रियेण यद्येकगाथामप्यन्तशः श्रोष्यति, तस्य बह्वर्थमाज्ञास्यति । स तावमबुध्य तन्निदानं मासमपि धर्मं देशयिष्यति, चतुर्मासमपि संवत्सरमपि धर्मं देशयिष्यति । यं च धर्मं भाषिष्यति, सोऽस्य स्मृतो न स संप्रमोषं यास्यति । ये केचिल्लौकिका लोकव्यवहारा भाष्याणि वा मन्त्रा वा, सर्वांस्तान् धर्मनयेन संस्यन्दयिष्यति । यावन्तश्च केचित्रिसाहस्रमहासाहस्रायां लोकधातौ षट्सु गतिषूपपन्नाः सत्त्वाः संसरन्ति, सर्वेषां तेषां सत्त्वानां चित्तचरितविस्पन्दितानि ज्ञास्यति । इञ्जितमन्यितप्रपञ्चितानि ज्ञास्यति प्रविचिनिष्यति । अप्रतिलब्धे च तावदार्यज्ञाने एवंरूपं चास्य मनैन्द्रियं परिशुद्धं भविष्यति ॥ यां यां च धर्मनिरुक्तिमनुविचिन्त्य धर्मं देशयिष्यति, सर्वं तद्भूतं देशयिष्यति । सर्वं तत्तथागतभाषितं सर्वं पूर्वजिनसूत्रपर्यायनिर्दिष्टं भाषति ॥
(वैद्य २२२)

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -

मनैन्द्रियं तस्य विशुद्ध भोति प्रभास्वरं शुद्धमनाविलं च ।
सो तेन धर्मान् विविधान् प्रजानति हीनानथोत्कृष्ट तथैव मध्यमान् ॥ १८.६७ ॥
एकामपि गाथ श्रुणित्व धीरो अर्थ बहुं जानति तस्य तत्र ।
समितं च भूतं च सदा प्रभाषते मासान् पि चत्वारि तथापि वर्षम् ॥ १८.६८ ॥
ये चापि सत्त्वा इह लोकधातौ अभ्यन्तरे बाहिरि ये वसन्ति ।
देवा मनुष्यासुरगुह्यकाश्च नागाश्च ये चापि तिरश्चयोनिषु ॥ १८.६९ ॥
षट्सु गतीषु निवसन्ति सत्त्वा विचिन्तितं तेष भवेत यं च ।
एकक्षणे सर्वि विदुर्विजानते धारेत्व सूत्रमिम आनुशंसाः ॥ १८.७० ॥
यं चापि बुद्धः शतपुण्यलक्षणो धर्मं प्रकाशेदिद सर्वलोके ।
तस्यापि शब्दं शृणुते विशुद्धं यं चापि सो भाषति गृह्यते तत् ॥ १८.७१ ॥
बहून् विचिन्तेति च अग्रधर्मान् बहूंश्च सो भाषति नित्यकालम् ।
न चास्य संमोह कदाचि भोति धारेत्व सूत्रमिमि आनुशंसाः ॥ १८.७२ ॥
संधिं विसंधिं च विजानतेऽसौ सर्वेषु धर्मेषु विलक्षणानि ।
प्रजानते अर्थ निरुक्तयश्च यथा च तं जानति भाषते तथा ॥ १८.७३ ॥
(वैद्य २२३)
यं भाषितं भोतिह दीर्घरात्रं पूर्वेहि लोकाचरियेहि सूत्रम् ।
तं धर्म सो भाषति नित्यकालमसंत्रसन्तो परिषाय मध्ये ॥ १८.७४ ॥
मनैन्द्रियमीदृशमस्य भोति धारेत्व सूत्रमिमु वाचयित्वा ।
न च ताव असङ्गं लभते ह ज्ञानं पूर्वंगमं तस्य इमं तु भोति ॥ १८.७५ ॥
आचार्यभूमौ हि स्थितश्च भोति सर्वेष सत्त्वान कथेय धर्मम् ।
निरुक्तिकोटीकुशलश्च भोति इमु धारयन्तो सुगतस्य सुत्रम् ॥ १८.७६ ॥

इति श्रीसद्धर्मपुण्डरीके धर्मपर्याये धर्मभाणकानुशंसापरिवर्तो नामाष्टादशमः ॥



_______________________________________________________________________________



(वैद्य २२४)

१९: सदापरिभूतपरिवर्तः ।

अथ खलु भगवान्महास्थामप्राप्तं बोधिसत्त्वं महासत्त्वमामन्त्रयते स्म - अनेनापि तावन्महास्थामप्राप्त पर्यायेण एवं वेदितव्यम् - यथा य इममेवंरूपं धर्मपर्यायं प्रतिक्षेप्स्यन्ति, एवंरूपांश्च सूत्रान्तधारकांश्च भिक्षुभिक्षुण्युपासकोपासिका आक्रोशिष्यन्ति, परिभाषिष्यन्ति, असत्यया परुषया वाचा समुदाचरिष्यन्ति, तेषामेवमनिष्टो विपाको भविष्यति, यो न शक्यं वाचा परिकीर्तयितुम् । ये च इममएवंरूपं सूत्रान्तं धारयिष्यन्ति वाचयिष्यन्ति देशयिष्यन्ति पर्यवाप्स्यन्ति, परेभ्यश्च विस्तरेण संप्रकाशयिष्यन्ति, तेषामेवमिष्टो विपाको भविष्यति यादृशो मया पूर्वं परिकीर्तितः । एवंरूपां च चक्षुःश्रोत्रघ्राणजिह्वाकायमनः - परिशुद्धिमधिगमिष्यन्ति ॥

भूतपूर्वं महास्थामप्राप्त अतीतेऽध्वन्यसंख्येयैः कल्पैरसंख्येयतरैर्विपुलैरप्रमेयैरचिन्त्यैस्तेभ्यः परेण परतरेण यदासीत्- तेन कालेन समयेन भीष्मगर्जितस्वरराजो नाम तथागतोऽर्हन् सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् विनिर्भोगे कल्पे महासंभवायां लोकधातौ । स खलु पुनर्महास्थामप्राप्त भगवान् भीष्मगर्जितस्वरराजस्तथागतोऽर्हन् सम्यक्संबुद्धस्तस्यां महासंभवायां लोकधातौ सदेवमानुषासुरस्य लोकस्य पुरतो धर्मं देशयति स्म । यदिदं श्रावकाणां चतुरार्यसत्यसंप्रयुक्तं धर्मं देशयति स्म जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायाससमतिक्रमाय निर्वाणपर्यवसानं प्रतीत्यसमुत्पादप्रवृत्तिम् । बोधिसत्त्वानां महासत्त्वानां षट्पारमिताप्रतिसंयुक्तानामनुत्तरां सम्यक्संबोधिमारभ्य तथागतज्ञानदर्शनपर्यवसानं धर्मं देशयति स्म । तस्य खलु पुनर्महास्थामप्राप्त भगवतो भीष्मगर्जितस्वरराजस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य चत्वारिंशद्गङ्गानदीवालिकासमानि कल्पकोटीनयुतशतसहस्राण्यायुष्प्रमाणमभूत् । परिनिर्वृतस्य जम्बुद्वीपपरमाणुरजःसमानि कल्पकोटीनयुतशतसहस्राणि सद्धर्मः स्थितोऽभूत् । चतुर्द्वीपपरमाणुरजःसमानि कल्पकोटीनयुतसहस्राणि सद्धर्मप्रतिरूपकः स्थितोऽभूत् । तस्यां खलु पुनर्महास्थामप्राप्त महासंभवायां लोकधातौ भगवतो भीष्मगर्जितस्वरराजस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य परिनिर्वृतस्य सद्धर्मप्रतिरूपके च अन्तर्हिते अपरोऽपि भीष्मगर्जितस्वरराज एव तथागतोऽर्हन् सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् । अनया महास्थामप्राप्त परंपरया तस्यां महासंभवायां लोकधातौ भीष्मगर्जितस्वरराजनाम्नां तथागतानामर्हतां सम्यक्संबुद्धानां विंशतिकोटीनयुतशतसहस्राण्यभूवन् । तत्र महास्थामप्राप्त योऽसौ तथागतः सर्वपूर्वकोऽभूद्भीष्मगर्जितस्वरराजो नाम तथागतोऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान्, तस्य भगवतः परिनिर्वृतस्य सद्धर्मेऽन्तर्हिते सद्धर्मप्रतिरूपके च अन्तर्धीयमाने तस्मिन् शासनेऽधिमानिकभिक्ष्वध्याक्रान्ते (वैद्य २२५) सदापरिभूतो नाम बोधिसत्त्वो भिक्षुरभूत् । केन कारणेन महास्थामप्राप्त स बोधिसत्त्वो महासत्त्वः सदापरिभूत इत्युच्यते? स खलु पुनर्महास्थामप्राप्त बोधिसत्त्वो महासत्त्वो यं यमेव पश्यति भिक्षुं वा भिक्षूणीं वा उपासकं वा उपासिकां वा, तं तमुपसंक्रम्य एव वदति - नाहमायुष्मन्तो युष्माकं परिभवामि । अपरिभूता यूयम् । तत्कस्य हेतोः? सर्वे हि भवन्तो बोधिसत्त्वचर्यां चरन्तु । भविष्यथ यूयं तथागता अर्हन्तः सम्यक्संबुद्धा इति । अनेन महास्थामप्राप्त पर्यायेण स बोधिसत्त्वो महासत्त्वो भिक्षुभूतो नोद्देशं करोति, न स्वाध्याय करोति, अन्यत्र यं यमेव पश्यति दूरगतमपि, सर्वं तमुपंसक्रम्य एवं संश्रावयति भिक्षुं वा भिक्षुणीं वा उपासकं वा उपासिकां
वा, तं तमुपसंक्रम्यैवं वदति - नाहं भगिन्यो युष्माकं परिभवामि । अपरिभूता यूयम् । तत्कस्य हेतोः? सर्वा यूयं बोधिसत्त्वचर्यां चरध्वम् । भविष्यथ यूयं तथागता अर्हन्तः सम्यक्संबुद्धाः । यं यमेव महास्थामप्राप्त स बोधिसत्त्वो महासत्त्वस्तस्मिन् समये भिक्षुं वा भिक्षुणीं वा उपासकं वा उपासिकां वा एवं संश्रावयति, सर्वेऽस्य यद्भूयस्त्वेन क्रुध्यन्ति, व्यापादन्ति अप्रसादमुत्पादयन्ति आक्रोशन्ति परिभाषन्ते - कुतोऽयमपृष्टो भिक्षुरपरिभवचित्तमित्यस्माकमुपदर्शयति? परिभूतमात्मानं करोति यदस्माकं व्याकरोत्यनुत्तरायां सम्यक्संबोधौ असन्तमनाकाङ्क्षितं च । अथ खलु महास्थामप्राप्त तस्य बोधिसत्त्वस्य महासत्त्वस्य बहूनि वर्षाणि तथा आक्रुश्यतः परिभाष्यमाणस्य गच्छन्ति । न च कस्यचित्क्रुध्यति, न व्यापादचित्तमुत्पादयति । ये चास्य एवं संश्रावयतो लोष्टं वा दण्डं वा क्षिपन्ति, स तेषां दूरत एव उच्चैःस्वरं कृत्वा संश्रावयति स्म - नाहं युष्माकं परिभवामीति । तस्य ताभिरभिमानिकभिक्षुभिक्षुण्युपासकोपासिकाभिः सततसमितं संश्राव्यमाणाभिः सदापरिभूत इति नाम कृतमभूत् ॥

तेन खलु पुनर्महास्थामप्राप्त सदापरिभूतेन बोधिसत्त्वेन महासत्त्वेन कालक्रियायां प्रत्युपस्थितायां मरणकालसमये प्रत्युपस्थिते अयं सद्धर्मपुण्डरीको धर्मपर्यायः श्रुतोऽभूत् । तेन च भगवता भीष्मगर्जितस्वरराजेन तथागतेनार्हता सम्यक्संबुद्धेन अयं धर्मपर्यायो विंशतिभिर्गाथाविंशतिकोटीनयुतशतसहस्रैर्भाषितोऽभूत् । स च सदापरिभूतो बोधिसत्त्वो महासत्त्वो मरणकालसमये प्रत्युपस्थिते अन्तरीक्षनिर्घोषादिमं धर्मपर्यायमश्रौषीत् । येन केनचिद्भाषितमन्तरीक्षान्निर्घोषं श्रुत्वा इमं धर्मपर्यायमुद्गृहीतवान्, इमां चैवंरूपां चक्षुर्विशुद्धिं श्रोत्रविशुद्धिं घ्राणविशुद्धिं जिह्वाविशुद्धिं कायविशुद्धिं मनोविशुद्धिं च प्रतिलब्धवान् । सहप्रतिलब्धाभिर्विशुद्धिभिः पुनरन्यानि विंशतिवर्षकोटीनयुतशतसहस्राणि आत्मनो जीवितसंस्कारमधिष्ठाय इमं सद्धर्मपुण्डरीकं धर्मपर्यायं संप्रकाशितवान् । ये च तेऽभिमानिकाः सत्त्वा भिक्षुभिक्षुण्युपासकोपासिकाः, ये पूर्वं नाहं युष्माकं परिभवामीति संश्राविताः, यैरस्येदं सदापरिभूत इति नाम कृतमभूत्, तस्योदारर्द्धिबलस्थामं प्रतिज्ञाप्रतिभानबलस्थामं प्रज्ञाबलस्थामं (वैद्य २२६) च दृष्ट्वा सर्वेऽनुसहायीभूता अभूवन् धर्मश्रवणाय । सर्वे तेन अन्यानि च बहूनि प्राणिकोटीनयुतशतसहस्राणि अनुत्तरायां सम्यक्संबोधौ समादापितान्यभूवन् ॥

स खलु पुनर्महास्थामप्राप्त बोधिसत्त्वो महासत्त्वस्ततश्च्यवित्वा चन्द्रस्वरराजसहनाम्नां तथागतानामर्हतां सम्यक्संबुद्धानां विंशतिकोटीशतान्यारागितवान्, सर्वेषु च इमं धर्मपर्यायं संप्रकाशयामास । सोऽनुपूर्वेण तेनैव पूर्वकेण कुशलमूलेन पुनरप्यनुपूर्वेण दुन्दुभिस्वरराजसहनाम्नां तथागतानामर्हतां सम्यक्संबुद्धानां विंशतिमेव तथागतकोटीनयुतशतसहस्राण्यारागितवान् । सर्वेषु च इममेव सद्धर्मपुण्डरीकं धर्मपर्यायमारागितवान्, संप्रकाशितवांश्चतसृणां पर्षदाम् । सोऽनेनैव पूर्वकेण कुशलमूलेन पुनरप्यपूर्वेण मेघस्वरराजसहनाम्नां तथागतानामर्हतां सम्यक्संबुद्धानां विंशतिमेव तथागतकोटीशतसहस्राण्यारागितवान्, सर्वेषु च इममेव सद्धर्मपुण्डरीकं धर्मपर्यायमारगितवान्, संप्रकाशितवांश्चतसृणां पर्षदाम् । सर्वेषु च एवंरूपया चक्षुःपरिशुद्धया समन्वागतोऽभूत्, श्रोत्रपरिशुद्ध्या घ्राणपरिशुद्धया जिह्वापरिशुद्धया कायपरिशुद्धया मनःपरिशुद्धया समन्वागतोऽभूत् ॥

स खलु पुनर्महास्थामप्राप्त सदापरिभूतो बोधिसत्त्वो महासत्त्व इयतां तथागत कोटीनयुतशतसहस्राणां सत्कारं गुरुकारं माननां पूजनामर्चनामपचायनां कृत्वा अन्येषां च बहूनां बुद्धकोटीनयुतशतसहस्राणां सत्कारं गुरुकारं माननां पूजनामर्चनामपचायनां कृत्वा, सर्वेषु च तेषु इममेव सद्धर्मपुण्डरीकं धर्मपर्यायमारागितवान्, आरागयित्वा स तेनैव पूर्वकेण कुशलमूलेन परिपक्वेन अनुत्तरां सम्यक्संबोधिमभिसंबुद्धः । स्यात्खलु पुनस्ते महास्थामप्राप्त एवं काङ्क्षा वा विमतिर्वा विचिकित्सा वा - अन्यः स तेन कालेन तेन समयेन सदापरिभूतो नाम बोधिसत्त्वो महासत्त्वोऽभूत्, यस्तस्य भगवतो भीष्मगर्जितस्वरराजस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य शासने चतसृणां पर्षदां सदापरिभूतः संमतोऽभूत्, येन ते तावन्तस्तथागता अर्हन्तः सम्यक्संबुद्धा आरागिता अभूवन्? न खलु पुनस्ते महास्थामप्राप्त एवं द्रष्टव्यम् । तत्कस्य हेतोः? अहमेव स महास्थामप्राप्त तेन कालेन तेन समयेन सदापरिभूतो नाम बोधिसत्त्वो महासत्त्वोऽभूवम् । यदा मया महास्थामप्राप्त पूर्वमयं धर्मपर्यायो नोद्गृहीतोऽभविष्यत्, न धारितः, नाहमेवं क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंबुद्धोऽभविष्यम् । यतश्चाहं महास्थामप्राप्त पौर्विकाणां तथागतानामर्हतां सम्यक्संबुद्धानामन्तिकादिमं धर्मपर्यायं धारितवान् वाचितवान् देशितवान्, ततोऽहमेवं क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंबुद्धः । यान्यपि तानि महास्थामप्राप्त तेन सदापरिभूतेन बोधिसत्त्वेन महासत्त्वेन भिक्षुशतानि भिक्षुणीशतानि च उपासकशतानि उपासिकाशतानि च तस्य भगवतः शासने इमं धर्मपर्यायं संश्रावितान्यभूवन् - नाहं युष्माकं परिभवामीति । सर्वे भवन्तो बोधिसत्त्वचर्यां चरन्तु । भविष्यथ यूयं तथागता अर्हन्तः सम्यक्संबुद्धाः । यैस्तस्य बोधिसत्त्वस्यान्तिके व्यापादचित्तमुत्पादितमभूत्, (वैद्य २२७) तैर्विशतिकल्पकोटीनयुतशतसहस्राणि न जातु तथागतो दृष्टोऽभूत्, नापि धर्मशब्दो न संघशब्दः श्रुतोऽभूत् । दश च कल्पसहस्राण्यवीचौ महानरके दारुणां वेदनां वेदयामासुः । ते च सर्वे तस्मात्कर्मावरणात्परिमुक्ताः । तेनैव बोधिसत्त्वेन महासत्त्वेन परिपाचिता अनुत्तरायां सम्यक्संबोधौ । स्यात्खलु पुनस्ते महास्थामप्राप्त काङ्क्षा वा विमतिर्वा विचिकित्सा वा - कतमे तेन कालेन तेन समयेन ते सत्त्वा अभूवन् ये ते तं बोधिसत्त्वं प्तहासत्त्वमुल्लापितवन्त उच्चग्घितवन्तः? अस्यामेव महास्थामप्राप्त पर्षदि भद्रपालप्रमुखाणि पञ्च बोधिसत्त्वशतानि सिंहचन्द्राप्रमुखानि पञ्चभिक्षुणीशतानि सुगतचेतनाप्रमुखानि पञ्चोपासिकाशतानि सर्वाण्यवैवर्तिकानि कृतानि अनुत्तरायां सम्यक्संबोधौ । एवमियं महास्थामप्राप्त महार्थस्य धर्मपर्यायस्य धारणा वाचना देशना बोधिसत्त्वानां महासत्त्वानामनुत्तरायाः सम्यक्संबोधेराहारिका संवर्तते । तस्मात्तर्हि महास्थामप्राप्त अयं धर्मपर्यायो बोधिसत्त्वैर्महासत्त्वैस्तथागते परिनिर्वृते अभीक्ष्णं धारयितव्यो वाचयितव्यो देशयितव्यः संप्रकाशयितव्य इति ॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -

अतीतमध्वानमनुस्मरामि भीष्मस्वरो राज जिनो यदासि ।
महानुभावो नरदेवपूजितः प्रणायको नरमरुयक्षरक्षसाम् ॥ १९.१ ॥
तस्य जिनस्य परिनिर्वृतस्य सद्धर्म संक्षोभ व्रजन्ति पश्चिमे ।
भिक्षू अभूषी तद बोधिसत्त्वो नामेन सो सदपरिभूत उच्यते ॥ १९.२ ॥
उपसंक्रमित्वा तद भिक्षु अन्यानुपलम्भदृष्टीन तथैव भिक्षुणी ।
परिभाव मह्यं न कदाचिदस्ति यूयं हि चर्यां चरथाग्रबोधये ॥ १९.३ ॥
एवं च संश्रावयि नित्यकालमाक्रोश परिभाष सहन्तु तेषाम् ।
कालक्रियायां समुपस्थितायां श्रुतमिदं सूत्रमभूषि तेन ॥ १९.४ ॥
अकृत्व कालं तद पण्डितेन अधिष्ठिहित्वा च सुदीर्घमायुः ।
प्रकाशितं सूत्रमिदं तदासीत्तहि शासने तस्य विनायकस्य ॥ १९.५ ॥
(वैद्य २२८)
ते चापि सर्वे बहु ओपलम्भिका बोधीय तेन परिपाचितासीत् ।
ततश्च्यवित्वान स बोधिसत्त्वो आरागयी बुद्धसहस्रकोट्यः ॥ १९.६ ॥
अनुपूर्व पुण्येन कृतेन तेन प्रकाशयित्वा इमु सूत्र नित्यम् ।
बोधिं स संप्राप्त जिनस्य पुत्रो अहमेव सो शाक्यमुनिस्तदासीत् ॥ १९.७ ॥
ये चापि भिक्षू तद ओपलम्भिका या भिक्षुणी ये च उपासका वा ।
उपासिकास्तत्र च या तदासीद्ये बोधि संश्रावित पण्डितेन ॥ १९.८ ॥
ते चापि दृष्ट्वा बहुबुद्धकोट्य इमे च ते पञ्चशता अनूनकाः ।
तथैव भिक्षूण च भिक्षुणी च उपासिकाश्चापि मि मह्य संमुखम् ॥ १९.९ ॥
सर्वे मया श्रावित अग्रधर्मा ते चैव सर्वे परिपाचिता मे ।
मयि निर्वृते चापिमि सर्वि धीरा इमु धारयिष्यन्ति ह सूत्रमग्रम् ॥ १९.१० ॥
कल्पान कोट्यो बहुभीरचिन्त्यैर्न कदाचिदेतादृश धर्म श्रूयते ।
बुद्धान कोटीशत चैव भोन्ति न च ते पिमं सूत्र प्रकाशयन्ति ॥ १९.११ ॥
तस्माच्छ्रूणित्वा इदमेवरूपं परिकीर्तितं धर्मु स्वयं स्वयंभूवा ।
आरागयित्वा च पुनः पुनश्चिमं प्रकाशयेत्सूत्र मयीह निर्वृते ॥ १९.१२ ॥

इति श्रीसद्धर्मपुण्डरीके धर्मपर्याये सदापरिभूतपरिवर्तो नामैकोनविंशतिमः ॥




_______________________________________________________________________________



(वैद्य २२९)

२०: तथागतद्धर्यभिसंस्कारपरिवर्तः ।

अथ खलु यानि तानि साहस्रलोकधातुपरमाणुरजःसमानि बोधिसत्त्वकोटीनयुतशतसहस्राणि पृथिवीविवरेभ्यो निष्क्रान्तानि, तानि सर्वाणि भगवतोऽभिमुखमञ्जलिं प्रगृह्य भगवन्तमेतदूचुः - वयं भगवनिमं धर्मपर्यायं तथागतस्य परिनिर्वृतस्य सर्वबुद्धक्षेत्रेषु यानि यानि भगवतो बुद्धक्षेत्राणि, यत्र यत्र भगवान् परिनिर्वृतो भविष्यति, तत्र तत्र संप्रकाशयिष्यामः । अर्थिनो वयं भगवननेनैकवमुदारेण धर्मपर्यायेण धारणाय वाचनाय देशनाय संप्रकाशनाय वा लिखनाय ॥

अथ खलु मञ्जुश्रीप्रमुखानि बहूनि बोधिसत्त्वकोटीनयुतशतसहस्राणि यानि अस्यां सहायां लोकधातौ वास्तव्यानि, भिक्षुभिक्षुण्युपासकोपासिका देवनागयक्षागन्धर्वासुरगरूडकिन्नरमहोरगमनुष्यामनुष्याः, बहवश्च गङ्गानदीवालिकोपमा बोधिसत्त्वा महासत्त्वा भगवन्तमेतदूचुः - वयमपि भगवनिमं धर्मपर्यायं संप्रकाशयिष्यामस्तथागतस्य परिनिर्वृतस्य अद्दष्टेनात्मभावेन, भगवनन्तरीक्षे स्थिता घोषं संश्रावयिष्यामः, अनवरोपितकुशलमूलानां च सत्त्वानां कुशलमूलान्यवरोपयिष्यामः ॥

अथ खलु भगवांस्तस्यां वेलायां तेषां पौर्विकाणां बोधिसत्त्वानां महासत्त्वानां गणिनां महागणिनां गणाचार्याणामेकं प्रमुखं विशिष्टचारित्रं नाम बोधिसत्त्वं महासत्त्वं महागणिनं गणाचार्यमामन्त्रयामास - साधु साधु विशिष्टचारित्र । एवं युष्माभिः करणीयमस्य धर्मपर्यायस्यार्थे । यूयं तथागतेन परिपाचिताः ॥

अथ खलु भगवान् शाक्यमुनिस्तथागतः स च भगवान् प्रभूतरत्नस्तथागतोऽर्हन् सम्यक्संबुद्धः परिनिर्वृतः स्तूपमध्ये । सिंहासनोपविष्टौ द्वावपि स्मितं प्रादुष्कृरुतः, मुखविवरान्तराभ्यां च जिह्वेन्द्रियं निर्णामयतः । ताभ्यां च जिह्वेन्द्रियाभ्यां यावद्ब्रह्मलोकमनुप्राप्नुतः । ताभ्यां च जिह्वेन्द्रियाभ्यां बहूनि रश्मिकोटीनयुतशतसहस्राणि निश्चरन्ति स्म । तासु च रश्मिष्वेकैकस्या रश्मेर्बहूनि बोधिसत्त्वकोटीनयुतशतसहस्राणि निश्चेरुः । सुवर्णवर्णाः कायैर्द्वात्रिंशद्भिर्महापुरुषलक्षणैः समन्वागताः पद्मगर्भे सिंहासने निषण्णाः । ते च बोधिसत्त्वा दिग्विदिक्षु लोकधातुशतसहस्रेषु विसृताः, सर्वासु दिग्विदिक्ष्वन्तरीक्षे स्थिता धर्मं देशयामासुः । यथैव भगवान् शाक्यमुनिस्तथागतोऽर्हन् सम्यक्संबुद्धो जिह्वेन्द्रियेण ऋद्धिप्रातिहार्यं करोति प्रभूतरत्नश्च तथागतोऽर्हन् सम्यक्संबुद्धः तथैव ते सर्वे तथागता अर्हन्तः सम्यक्संबुद्धाः, ये तेऽन्यलोकधातुकोटीनयुतशतसहस्रेभ्योऽभ्यागता रत्नवृक्षमूलेषु पृथक्पृथक्सिंहासनोपविष्टा जिह्वेन्द्रियेण ऋद्धिप्रातिहार्यं कुर्वन्ति ॥

अथ खलु भगवान् शाक्यमुनिस्तथागतोऽर्हन् सम्यक्संबुद्धः ते च सर्वे तथागता अर्हन्तः सम्यक्संबुद्धाः तमृद्धयभिसंस्कारं परिपूर्णं वर्शशतसहस्रं कृतवन्तः । अथ खलु वर्षशतसहस्रस्यात्ययेन ते तथागता अर्हन्तः सम्यक्संबुद्धास्तानि जिह्वेन्द्रियाणि पुनरेवोपसंहृत्य एकस्मिन्नेव क्षणलवमुहूर्ते समकालं सर्वैर्महासिंहोत्कासनशब्दः कृतः, एकश्चाच्छटासंघातशब्दः (वैद्य २३०) कृतः । तेन च महोत्कासनशब्देन महाच्छटासंघातशब्देन यावन्ति दशसु दिक्षु बुद्धक्षेत्रकोटीनयुतशतसहस्राणि, तानि सर्वाण्याकम्पितान्यभूवन्, प्रकम्पितानि संप्रकम्पितानि चलितानि प्रचलितानि संप्रचलितानि वेधितानि प्रवेधितानि संप्रवेधितानि । तेषु च सर्वेषु बुद्धक्षेत्रेषु यावन्तः सर्वसत्त्वा देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्याः, तेऽपि सर्वे बुद्धानुभावेन तत्रस्था एवमिमां सहां लोकधातुं पश्यन्ति स्म । तानि च सर्वतथागतकोटीनयुतशतसहस्राणि रत्नवृक्षमूलेषु पृथक्पृथक्सिंहासनोपविष्टानि भगवन्तं च शाक्यमुनिं तथागतमर्हन्तं सम्यक्संबुद्धं तं च भगवन्तं प्रभूतरत्नं तथागतमर्हन्तं सम्यक्संबुद्धं परिनिर्वृतं तस्य महारत्नस्तूपस्य मध्ये सिंहासनोपविष्टं भगवता शाक्यमुनिना तथागतेन सार्धं निषण्णां ताश्च तिस्रः पर्षदः पश्यन्ति स्म । दृष्ट्वा च आश्चर्यप्राप्ता अद्भुतप्राप्ता औद्बिल्यप्राप्ता अभूवन् । एवं च अन्तरीक्षाद्घोषमश्रौषुः - एष मार्षा अप्रमेयाण्यसंख्येयानि लोकधातुकोटीनयुतशतसहस्राण्यतिक्रम्य सहा नाम लोकधातुः । तस्यां शाक्यमुनिर्नाम तथागतोऽर्हन् सम्यक्संबुद्धाः । स एतर्हि सद्धर्मपुण्डरीकं नाम धर्मपर्यायं सूत्रान्तं महावैपुल्यं बोधिसत्त्वाववादं सर्वबुद्धपरिग्रहं बोधिसत्त्वानां महासत्त्वानां संप्रकाशयति । तं यूयमध्याशयेन अनुमोदध्वम्, तं च भगवन्तं शाक्यमुनिं तथागतमर्हन्तं सम्यक्संबुद्धं तं च भगवन्तं प्रभूतरत्नं तथागतमर्हन्तं सम्यक्संबुद्धं नमस्कुरुध्वम् ॥

अथ खलु ते सर्वसत्त्वा इममेवंरूपमन्तरीक्षान्निर्घोषं श्रुत्वा तत्रस्था एव नमो भगवते शाक्यमुनये तथागतायार्हते सम्यक्संबुद्धायेति वाचं भाषन्ते स्म अञ्जलिं प्रगृह्य । विविधाश्च पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकावैजयन्त्यो येनेयं सहा लोकधातुस्तेन क्षिपन्ति स्म, नानविधानि चाभरणानि पिन्धाणि हारार्धहारमणिरत्नान्यपि क्षिपन्ति स्म, भगवतः शाक्यमुनेः प्रभूतरत्नस्य च तथागतस्य पूजाकर्मणे, अस्य च सद्धर्मपुण्डरीकस्य धर्मपर्यायस्य । ताश्च पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकावैजयन्त्यस्तानि च हारार्धहारमणिरत्नानि क्षिप्तानि इमां सहां लोकधातुमागच्छन्ति स्म । तैश्च पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकावैजयन्तीराशिभिर्हारार्धहारैर्मणिरत्नैश्च अस्यां सहायां लोकधातौ सार्धं तैरन्यर्लोकधातुकोटीनयुतशतसहस्रैरेकीभूतैर्ये तेषु तथागताः संनिषण्णाः, तेषु सर्वेषु वैहायसेऽन्तरीक्षे समन्तान्महापुष्पवितानं परिसंस्थितमभूत् ॥

अथ खलु भगवांस्तान् विशिष्टचारित्रप्रमुखान् बोधिसत्त्वान्महासत्त्वानामन्त्रयामास - अचिन्त्यप्रभावाः कुलपुत्रास्तथागता अर्हन्तः सम्यक्संबुद्धाः । बहून्यप्यहं कुलपुत्राः कल्पकोटीनयुतशतसहस्राणि अस्य धर्मपर्यायस्य परीन्दनार्थं नानाधर्मप्रमुखैर्बहूनानुशंसान् भाषेयम् । न चाहं गुणानां पारं गच्छेयमस्य धर्मपर्यायस्य भाषमाणः । संक्षेपेण कुलपुत्राः सर्वबुद्धवृषभिता सर्वबुद्धरहस्यं सर्वबुद्धगम्भीरस्थानं मया अस्मिन् धर्मपर्याये देशितम् । तस्मात्तर्हि कुलपुत्रा युष्माभिस्तथागतस्य परिनिर्वृतस्य सत्कृत्य अयं धर्मपर्यायो धारयितव्यो देशयितव्यो लिखितव्यो वाचयितव्यः प्रकाशयितव्यो भावयितव्यः पूजयितव्यः । (वैद्य २३१) यस्मिंश्च कुलपुत्राः पृथिवीप्रदेशे अयं धर्मपर्यायो वाच्येत वा प्रकाश्येत वा देश्येत वा लिख्येत वा चिन्त्येत वा भाष्येत वा स्वाध्यायेत वा पुस्तकगतो वा तिष्ठतारामे वा विहारे वा गृहे वा वने वा नगरे वा वृक्षमूले वा प्रासादे वा लयने वा गुहायां वा, तस्मिन् पृथिवीप्रदेशे तथागतमुदिश्य चैत्यं कर्तव्यम् । तत्कस्य हेतोः? सर्वतथागतानां हि स पृथिवीप्रदेशो बोधिमण्डो वेदितव्यः । तस्मिंश्च पृथिवीप्रदेशे सर्वतथागता अर्हन्तः सम्यक्संबुद्धा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धा इति वेदितव्यम् । तस्मिंश्च पृथिवीप्रदेशे सर्वतथागतैर्धर्मचक्रं प्रवर्तितम्, तस्मिंश्चपृथिवीप्रदेशे सर्वतथागताः परिनिर्वृता इति वेदितव्यम् ॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -

अचिन्तिया लोकहितान धर्मता अभिज्ञज्ञानस्मि प्रतिष्ठितानाम् ।
ये ऋद्धि दर्शेन्ति अनन्तचक्षुषः प्रामोद्यहेतोरिह सर्वदेहिनाम् ॥ २०.१ ॥
जिह्वेन्द्रियं प्रापिय ब्रह्मलोकं रश्मीसहस्राणि प्रमुञ्चमानाः ।
आश्चर्यभूता इह ऋद्धिदर्शिताः ते सर्वि ये प्रस्थित अग्रबोधौ ॥ २०.२ ॥
उत्कासितं चापि करोन्ति बुद्धा एकाच्छटा ये च करोन्ति शब्दम् ।
ते विज्ञपेन्ती इमु सर्वलोकं दशो दिशायामिम लोकधातुम् ॥ २०.३ ॥
एतानि चान्यानि च प्रातिहार्या गुणान्निदर्शेन्ति हितानुकम्पकाः ।
कथं नु ते हर्षित तस्मि काले धारेयु सूत्रं सुगतस्य निर्वृते ॥ २०.४ ॥
बहू पि कल्पान सहस्रकोट्यो वदेय वर्णं सुगतात्मजानाम् ।
ये धारयिष्यन्तिम सूत्रमग्रं परिनिर्वृते लोकविनायकस्मिन् ॥ २०.५ ॥
न तेष पर्यन्त भवेद्गुणानामाकाशधातौ हि यथा दिशासु ।
अचिन्तिया तेषा गुणा भवन्ति ये सूत्र धारेन्ति इदं शुभं सदा ॥ २०.६ ॥
दृष्टो अहं सर्व इमे च नायका अयं च यो निर्वृतु लोकनायकः ।
(वैद्य २३२)
इमे च सर्वे बहुबोधिसत्त्वाः पर्षाश्च चत्वारि अनेन दृष्टाः ॥ २०.७ ॥
अहं च आरागितु तेनिहाद्य इमे च आरागित सर्वि नायकाः ।
अयं च यो निर्वृतको जिनेन्द्रो ये चापि अन्ये दशसू दिशासु ॥ २०.८ ॥
अनागतातीत तथा च बुद्धाः तिष्ठन्ति ये चापि दशसु द्दिशासु ।
ते सर्वि दृष्टाश्च सुपूजिताश्च भवेयु यो धारयि सूत्रमेतत् ॥ २०.९ ॥
रहस्यज्ञानं पुरुषोत्तमानां यं बोधिमण्डस्मि विचिन्तितासीत् ।
अनुचिन्तयेत्सो पि तु क्षिप्रमेव यो धारयेत्सूत्रिमु भूतधर्मम् ॥ २०.१० ॥
प्रतिभानु तस्यापि भवेदनन्तं यथापि वायुर्न कहिंचि सज्जति ।
धर्मेऽपि चार्थे च निरुक्ति जानति यो धारयेत्सुत्रमिदं विशिष्टम् ॥ २०.११ ॥
अनुसंधिसूत्राण सदा प्रजानति संधाय यं भाषितु नायकेहि ।
परिनिर्वृतस्यापि विनायकस्य सूत्राण सो जानति भुतमर्थम् ॥ २०.१२ ॥
चन्द्रोपमः सूर्यसमः स भाति आलोकप्रद्योतकरः स भोति ।
विचरन्तु सो मेदिनि तेन तेन समादपेती बहुबोधिसत्त्वान् ॥ २०.१३ ॥
तस्माद्धि ये पण्डित बोधिसत्त्वाः श्रुत्वानिमानीद्दश आनुशंसान् ।
धारेयु सूत्रं मम निर्वृतस्य न तेष बोधाय भवेत संशयः ॥ २०.१४ ॥

इति श्रीसद्धर्मपुण्डरीके धर्मपर्याये तथागतद्धर्यभिसंस्कारपरिवर्तो नाम विंशतितमः ॥



_______________________________________________________________________________




(वैद्य २३३)

२१: धारणीपरिवर्तः ।
अथ खलु भैषज्यराजो बोधिसत्त्वो महासत्त्व उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत्कियद्भगवन् स कुलपुत्रो वा कुलदुहिता वा पुण्यं प्रसवेत्, य इमं सद्धर्मपुण्डरीकं धर्मपर्यायं धारयेत्, कायगतं वा पुस्तकगतं वा कृत्वा? एवमुक्ते भगवान् भैषज्यराजं बोधिसत्त्वं महासत्त्वमेतदवोचत्- यः कश्चिद्भैषज्यराज कुलपुत्रो वा कुलदुहिता वा अशीतिगङ्गानदीवालिकासमानि तथागतकोटीनयुतशतसहस्राणि सत्कुर्याद्गुरुकुर्यान्मानयेत्पूजयेत्, तकिं मन्यसे भैषज्यराज कियत्कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्? भैषज्यराजो बोधिसत्त्वो महासत्त्व आह - बहु भगवन्, बहु सुगत । भगवानाह - आरोचयामि ते भैषज्यराज, प्रतिवेदयामि । यः कश्चिद्भैषज्यराज कुलपुत्रो वा कुलदुहिता वा अस्मात्सद्धर्मपुण्डरीकाद्धर्मपर्यायादन्तश एकामपि चतुष्पदीगाथां धारयेत्, वाचयेत्, पर्यवाप्नुयात्, प्रतिपत्त्या च संपादयेत्, अतः स भैषज्यराज कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत् ॥

अथ खलु भैषज्यराजो बोधिसत्त्वो महासत्त्वस्तस्यां वेलायां भगवन्तमेतदवोचत्- दास्यामो वयं भगवंस्तेषां कुलपुत्राणां कुलदुहितृणां वा येषामयं सद्धर्मपुण्डरीको धर्मपर्यायः कायगतो वा स्यात्, पुस्तकगतो वा, रक्षावरणगुप्तये धारणीमन्त्रपदानि । तद्यथा -

अन्ये मन्ये मने ममने चित्ते चरिते समे समिता विशान्ते मुक्ते मुक्ततमे समे अविषमे समसमे जये क्षये अक्षये अक्षिणे शान्ते समिते धारणि आलोकभाषे प्रत्यवेक्षणि निधिरु अभ्यन्तरनिविष्टे अभ्यन्तरपारिशुद्धिमुत्कुले अरडे परडे सुकाङ्क्षि असमसमे बुद्धविलोकिते धर्मपरीक्षिते संघनिर्घोषणि निर्घोणि भयाभयविशोधनि मन्त्रे मन्त्राक्षयते रुते रुतकौशल्ये अक्षये अक्षयवनताये वक्कुले वलोड्र अमन्यनताये स्वाहा ॥

इमानि भगवन्मन्त्रधारणीपदानि द्वाषष्टिभिर्गङ्गानदीवालिकासमैर्बुद्धैर्भगवद्भिर्भाषितानि । ते सर्वे बुद्धा भगवन्तस्तेन द्रुग्धाः स्युः, य एवंरुपान् धर्मभाणकानेवंरूपान् सूत्रान्तधारकानतिक्रामेत् ॥

अथ खलु भगवान् भैषज्यराजाय बोधिसत्त्वाय महासत्त्वाय साधुकारमदात्साधु साधु भैषज्यराज, सत्त्वानामर्थः कृतः । धारणीपदानि भाषितानि सत्त्वानामनुकम्पामुपादय । रक्षावरणगुप्तिः कृता ॥

अथ खलु प्रदानशूरो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्- अहमपि भगवनेवंरूपाणां धर्मभाणकानामर्थाय धारणीपदानि दास्यामि, यत्तेषामेवंरूपाणां धर्मभाणकानां न कश्चिदवतारप्रेक्षी अवतारगवेषी अवतारं लप्स्यते । तद्यथा यक्षो वा राक्षसो वा पूतनो वा कृत्यो वा कुम्भाण्डो वा प्रेतो वा अवतारप्रेक्षी अवतारगवेषी अवतारं न लप्स्यत इति ॥
(वैद्य २३४)

अथ खलु प्रदानशूरो बोधिसत्त्वो महासत्त्वस्तस्यां वेलायामिमानि धारणीमन्त्रपदानि भाषते स्म । तद्यथा -

ज्वले महाज्वले उक्के तुक्के मुक्के अडे अडावति नृत्ये नृत्यावति इट्टिनि विट्टिनि चिट्टिनि नृत्यनि नृत्यावति स्वाहा ॥

इमानि भगवन् धारणीपदानि गङ्गानदीवालिकासमैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैर्भाषितानि, अनुमोदितानि च । ते सर्वे तथागतास्तेन द्रुग्धाः स्युः, यस्तानेवंरूपान् धर्मभाणकानतिक्रमेत ॥

अथ खलु वैश्रवणो महाराजो भगवन्तमेतदवोचत्- अहमपि भगवन् धारणीपदानि भाषिष्ये तेषां धर्मभाणकानां हिताय सुखाय अनुकम्पायै रक्षावरणगुप्तये ॥ तद्यथा -

अट्टे तट्टे नट्टे वनट्टे अनडे नाडि कुनडि स्वाहा ॥

एभिर्भगवन् धारणीपदैस्तेषां धर्मभाणकानां पुद्गलानां रक्षां करोमि, योजनशताच्चाहं तेषां कुलपुत्राणां कुलदुहितृणां च एवंरूपाणां सूत्रान्तधारकाणां रक्षा कृता भविष्यति, स्वस्त्ययनं कृतं भविष्यति ॥

अथ खलु विरूढको महाराजो तस्यामेव पर्षदि संनिपतितोऽभूत्संनिषण्णश्च कुम्भाण्डकोटीनयुतशतसहस्रैः परिवृतः पुरस्कृतः । स उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा येन भगवांस्तेनाञ्जलिं प्रणाम्य भगवन्तमेतदवोचत्- अहमपि भगवन् धारणीपदानि भाषिष्ये बहुजनहिताय । तेषां च तथारूपाणां धर्मभाणकानामेवंरूपाणां सूत्रान्तधारकाणां रक्षावरणगुप्तये धारणीमन्त्रपदानि । तद्यथा -

अगणे गणे गौरि गन्धारि चण्डालि मातङ्गि पुक्कसि संकुले व्रूसलि सिसि स्वाहा ॥

इमानि तानि भगवन् धारणीमन्त्रपदानि, यानि द्वाचत्वारिंशद्भिर्बुद्धकोटीभिर्भाषितानि । ते सर्वे तेन द्रुग्धाः स्युः, यस्तानेवंरूपान् धर्मभाणकानतिक्रमेत ॥

अथ खलु लम्बा च नाम राक्षसी विलम्बा च नाम राक्षसी कूटदन्ती च नाम राक्षसी पुष्पदन्ती च नाम राक्षसी मकुटदन्ती च नाम राक्षसी केशिनी च नाम राक्षसी अचला च नाम राक्षसी मालाधारी च नाम राक्षसी कुन्ती च नाम राक्षसी सर्वसत्त्वोजोहारी च नाम राक्षसी ह्ःरीती च न्ःम र्ःक्षसी सपुत्रपरिव्ःर्ः एत्ःः सर्व्ः र्ःक्षस्यो येन भगव्ःंस्तेनोपसंक्र्ःन्त्ःः । उपसंक्रम्य सर्व्ःस्त्ः र्ःक्षस्य एकस्वरेण भगवन्तमेतदवोचन् - वयमपि भगवंस्तेष्ःमेवंरूप्ःण्ःं सूत्र्ःन्तध्ःरक्ःण्ःं धर्मभ्ःणक्ःन्ःं रक्ष्ःवरणगुप्तिं करिष्य्ःमः, स्वस्त्ययनं च करिष्य्ःमः । यथ्ः तेष्ःं धर्मभ्ःणक्ःन्ःं न कश्चिदवत्ःरप्रेक्षी अवत्ःरगवेषी अवत्ःरं लप्स्यतीति ॥

अथ खलु ताः सर्वा राक्षस्य एकस्वरेण समं संगीत्या भगवत इमानि धारणीमन्त्रपदानि प्रयच्छन्ति स्म । तद्यथा -(वैद्य २३५)

इति मे इति मे इति मे इति मे इति मे । निमे निमे निमे निमे निमे । रुहे रुहे रुहे रुहे रुहे । स्तुहे स्तुहे स्तुहे स्तुहे स्तुहे स्वाहा ॥

इमं शीर्षं समारुह्य मा कश्चिद्द्रोही भवतु धर्मभाणकानां यक्षो वा राक्षसो वा प्रेतो वा पिशाचो वा पूतनो वा कृत्यो व वेतालो वा कुम्भाण्डो वा स्तब्धो वा ओमारको वा ओस्तारको वा अपस्मारको वा यक्षकृत्यो वा अमनुष्यकृत्यो वा मनुष्यकृत्यो वा एकाहिको वा द्वैतीयको वा त्रैतीयको वा चतुर्थको वा नित्यज्वरो वा विषमज्वरो वा । अन्तशः स्वप्नान्तरगतस्यापि स्त्रीरूपाणि वा पुरुषरूपाणि वा दारकरूपाणि वा दारिकारूपाणि वा विहेठां कुर्युः, नेदं स्थानं विद्यते ॥
अथ खलु ता राक्षस्य एवस्वरेण समं संगीत्या भगवन्तमाभिर्गाथाभिरध्यभाषन्त -

सप्तधास्य स्फुटेन्मूर्धा अर्जकस्येव मञ्जरी ।
य इमं मन्त्र श्रुत्वा वै अतिक्रमेद्धर्मभाणकम् ॥ २१.१ ॥
या गतिर्मातृघातीनां पितृघातीन या गतिः ।
तां गतिं प्रतिगच्छेद्यो धर्मभाणकमतिक्रमेत् ॥ २१.२ ॥
या गतिस्तिलपीडानां तिलकूटानां च या गतिः ।
तां गतिं प्रतिगच्छेद्यो धर्मभाणकमतिक्रमेत् ॥ २१.३ ॥
या गतिस्तुलकूटानां कांस्यकूटान या गतिः ।
तां गतिं प्रतिगच्छेद्यो धर्मभाणकमतिक्रमेत् ॥ २१.४ ॥

एवमुक्त्वा ताः कुन्तिप्रमुखा राक्षस्यो भगवन्तमेतदूचुः - वयमपि भगवंस्तेषामेवंरूपाणां धर्मभाणकानां रक्षां करिष्यामः, स्वस्त्ययनं दण्डपरिहारं विषदूषणं करिष्याम इति । एवमुक्ते भगवांस्ता राक्षस्य एतदवोचत्- साधु साधु भगिन्यः । यद्यूयं तेषां धर्मभाणकानां रक्षावरणगुप्तिं करिष्यध्वे येऽस्य धर्मपर्यायस्य अन्तशो नामधेयमात्रमपि धारयिष्यन्ति । कः पुनर्वादो य इमं धर्मपर्यायं सकलसमाप्तं धारयिष्यन्ति, पुस्तकगतं वा सत्कुर्युः पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकावैजयन्तीभिस्तैलप्रदीपैर्वा घृतप्रदीपैर्वा गन्धतैलप्रदीपैर्वा चम्पकतैलप्रदीपैर्वा वार्षिकतैलप्रदीपैर्वा उत्पलतैलप्रदीपैर्वा सुमनातैलप्रदीपैर्वा ईद्दशैर्बहुविधैः पूजाविधानशतसहस्रैः सत्करिष्यन्ति गुरुकरिष्यन्ति, ते त्वया कुन्ति सपरिवारया रक्षितव्याः ॥

अस्मिन् खलु पुनर्धारणीपरिवर्ते निर्दिश्यमाने अष्टाषष्टीनां प्राणिसहस्राणामनुत्पत्तिकधर्मक्षान्तिप्रतिलाभोऽभूत् ॥

इति श्रीसद्धर्मपुण्डरीके धर्मपर्याये धारणीपरिवर्तो नामैकविंशतिमः ॥



_______________________________________________________________________________




(वैद्य २३६)

२२: भैषज्यराजपूर्वयोगपरिवर्तः ।

अथ खलु नक्षत्रराजसंकुसुमिताभिज्ञो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्- केन कारेणेन भगवन् भैषज्यराजो बोधिसत्त्वो महासत्त्वोऽस्यां सहायां लोकधातौ प्रविचरति, बहूनि चास्य भगवन् दुष्करकोटीनयुतशतसहस्राणि संदृश्यन्ते? तत्साधु भगवान् देशयतु तथागतोऽर्हन् सम्यक्संबुद्धो भैषज्यराजस्य बोधिसत्त्वस्य महासत्त्वस्य यत्किंचिच्चर्याप्रदेशमात्रम्, यच्छ्रुत्वा देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्यास्तदन्यलोकधात्वागताश्च बोधिसत्त्वा महासत्त्वा इमे च महाश्रावकाः श्रुत्वा सर्वे प्रीतास्तुष्टा उदग्रा आत्तमनसो भवेयुरिति ॥

अथ खलु भगवान्नक्षत्रराजसंकुसुमिताभिज्ञस्य बोधिसत्त्वस्य महासत्त्वस्य अध्येषणां विदित्वा तस्यां वेलायां नक्षत्रराजसंकुसुमिताभिज्ञं बोधिसत्त्वं महासत्त्वमेतदवोचत्- भूतपुर्वं कुलपुत्र अतीतेऽध्वनि गङ्गानदीवालिकासमैः कल्पैर्यदासीत् । तेन कालेन तेन समयेन चन्द्रसूर्यविमलप्रभासश्रीर्नाम तथागतोऽर्हन् सम्यक्संबुद्धो लोक उदपादिविद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् । तस्य खलु पुनर्नक्षत्रराजसंकुसुमिताभिज्ञ भगवतश्चन्द्रसूर्यविमलप्रभासश्रियस्तथागतस्यार्हतः सम्यक्संबुद्धस्य अशीतिकोट्यो बोधिसत्त्वानां महासत्त्वानां महासंनिपातोऽभूत्द्वासप्ततिगङ्गानदीवालिकासमाश्चास्य श्रावकसंनिपातोऽभूत् । अपगमातृग्रामं च तत्प्रवचनमभूत्, अपगतनिरयतिर्यग्योनिप्रेतासुरकायं समं रमणीयं पाणितलजातं च तद्बुद्धक्षेत्रमभूत्, दिव्यवैडूर्यमयभूमिभागं रत्नचन्दनवृक्षसमलकृतं च रत्नजालसमीरितं च अवसक्तपट्टदामाभिप्रलम्बितं च रत्नगन्धघटिकानिर्धूपितं च । सर्वेषु च रत्नवृक्षमूलेषु इषुक्षेपमानमात्रे रत्नव्योमकानि संस्थितान्यभूवन् । सर्वेषु च रत्नव्योमकमूर्ध्नेषु कोटीशतं देवपुत्राणां तूर्यतालावचरसंगीतिसंप्रभाणितेन अवस्थितमभूत्तस्य भगवतश्चन्द्रसूर्यविमलप्रभासश्रियस्तथागतस्यार्हतः सम्यक्संबुद्धस्य पूजाकर्मणे । स च भगवानिमं सद्धर्मपुण्डरीकं धर्मपर्यायं तेषां महाश्रावकाणां तेषां च बोधिसत्त्वानां महासत्त्वानां विस्तरेण संप्रकाशयति स्म, सर्वसत्त्वप्रियदर्शनं बोधिसत्त्वं महासत्त्वमधिष्ठानं कृत्वा । तस्य खलु पुनर्नक्षत्रराजसंकुसुमिताभिज्ञ भगवतश्चन्द्रसूर्यविमलप्रभासश्रियस्तथागतस्यार्हतः सम्यक्संबुद्धस्य द्वाचत्वारिंशत्कल्पसहस्राण्यायुष्प्रमाणमभूत्, तेषां च बोधिसत्त्वनां महासत्त्वानां तेषां च महाश्रावकाणां तावदेवायुष्प्रमाणमभूत् । स च सर्वसत्त्वप्रियदर्शनो बोधिसत्त्वो महासत्त्वस्तस्य भगवतः प्रवचने दुष्करचर्याभियुक्तोऽभूत् । स द्वादशवर्षसहस्राणि चंक्रमाभिरुढोऽभूत्, महावीर्यारम्भेण योगाभियुक्तोऽभूत् । स द्वादशानां वर्षसहस्राणामत्ययेन सर्वरूपसंदर्शनं नाम समाधिं प्रतिलभते स्म । सहप्रतिलम्भाच्च तस्य समाधेः स सर्वसत्त्वप्रियदर्शनो बोधिसत्त्वो महासत्त्वस्तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातस्तस्यां वेलायामेवं चिन्तयामास - इमं सद्धर्मपुण्डरीकं धर्मपर्यायमागम्य अयं मया सर्वरूपसंदर्शनः (वैद्य २३७) समाधिः प्रतिलब्धः । तस्यां वेलायां स सर्वसत्त्वप्रियदर्शनो बोधिसत्त्वो महासत्त्व एवं चिन्तयति स्म - यन्न्वहं भगवतश्चन्द्रसूर्यविमलप्रभासश्रियस्तथागतस्य पूजां कुर्यामू, अस्य च सद्धर्मपुण्डरीकस्य धर्मपर्यायस्य । स तस्यां वेलायां तथारूपं समाधिं समापन्नः यस्य समाधेः समनन्तरसमापन्नस्य सर्वसत्त्वप्रियदर्शनस्य बोधिसत्त्वस्य महासत्त्वस्य, अद्य तावदेवोपर्यन्दरीक्षान्मान्दारवमहामान्दारवाणां पुष्पाणां महन्तं
पुष्पवर्षमभिप्रवृष्ःम् । कालानुसारिचन्दनमेघः कृतः । उरगसारचन्दनवर्षनभिप्रवृष्ःम् । तादृशी च नक्षत्रराजसंकुसुमिताभिज्ञ सा गन्धजातिः, यस्या एकः कर्ष इमां सहालोकधातुं मूल्येन क्षमति ॥

अथ खलु पुनर्नक्षत्रराजसंकुसुमिताभिज्ञ स सर्वसत्त्वप्रियदर्शनो बोधिसत्त्वो महासत्त्वः स्मृतिमान् संप्रजानंस्तस्मात्समाधेर्व्युदतिष्ठत् । व्युत्थाय चैवं चिअन्तयामास - न तदर्द्धिप्रातिहार्यसंदर्शनेन भगवतः पूजा कृता भवति, यथा आत्मभावपरित्यागेनेति । अथ खलु पुनर्नक्षत्रराजसंकुसुमिताभिज्ञ स सर्वसत्त्वप्रियदर्शनो बोधिसत्त्वो महासत्त्वस्तस्यां वेलायामगरुतुरुष्ककुन्दुरुकरसं भक्षयति स्म, चम्पकतैलं च पिबति स्म । तेन खलु पुनर्नक्षत्रराजसंकुसुमिताभिज्ञ पर्यायेण तस्य सर्वसत्त्वप्रियदर्शनस्य बोधिसत्त्वस्य महासत्त्वस्य सततसमितं गन्धं भक्षयतश्चम्पकतैलं च पिबतो द्वादश वर्षाण्यतिक्रान्तान्यभूवन् । अथ खलु नक्षत्रराजसंकुसुमिताभिज्ञ स सर्वसत्त्वप्रियदर्शनो बोधिसत्त्वो महासत्त्वस्तेषां द्वादशानां वर्षाणामत्ययेन तं स्वमात्मभावं दिव्यैर्वस्त्रैः परिवेष्टय गन्धतैलप्लुतं कृत्वा स्वकमधिष्ठानमकरोत् । स्वकमधिष्ठानं कृत्वा स्वं कायं प्रज्वालयामास तथागतस्य पूजाकर्मणे, अस्य च सद्धर्मपुण्डरीकस्य धर्मपर्यायस्य पूजार्थम् । अथ खलु नक्षत्रराजसंकुसुमिताभिज्ञ तस्य सर्वसत्त्वप्रियदर्शनस्य बोधिसत्त्वस्य महासत्त्वस्य ताभिः कायप्रदीपप्रभाज्वालाभिरशीतिगङ्गानदीवालिकासमा लोकधातवः स्फुटा अभुवन् । तासु च लोकधातुषु अशीतिगङ्गानदीवालिकासमा एव बुद्धा भगवन्तस्ते सर्वे साधुकारं ददन्ति स्म - साधु साधु कुलपुत्र, साधु खलु पुनस्त्वं कुलपुत्र, अयं स भूतो बोधिसत्त्वानां महासत्त्वानां वीर्यारम्भः । इयं सा भूता तथागतपूजा धर्मपूजा । न तथा पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकापूजा, नाप्यामिषपूजा नाप्युरगसारचन्दनपूजा । इयं तत्कुलपुत्र अग्रप्रदानम् । न तथा राज्यपरित्यागदानं न प्रियपुत्रभार्यापरित्यागदानम् । इयं पुनः कुलपुत्र विशिष्टा अग्रा वरा प्रवरा प्रणीता धर्मपूजा, योऽयमात्मभावपरित्यागः । अथ खलु पुनर्नक्षत्रराजसंकुसुमिताभिज्ञ ते बुद्धा भगवन्त इमां वाचं भाषित्वा तूष्णीमभूवन् ॥

तस्य खलु पुनर्नक्षत्रराजसंकुसुमिताभिज्ञ सर्वसत्त्वप्रियदर्शनात्मभावस्य दीप्यतो द्वादश वर्षशतान्यतिक्रान्तान्यभूवन्, न च प्रशमं गच्छति स्म । स पश्चाद्द्वादशानां वर्षशतानामत्ययात्प्रशान्तोऽभूत् । स खलु पुनर्नक्षत्रराजसंकुसुमिताभिज्ञ सर्वसत्त्वप्रियदर्शनो बोधिसत्त्वो महासत्त्व एवंरूपां तथागतपूजां च धर्मपूजां च कृत्वा ततश्च्युतस्तस्यैव भगवतश्चन्द्रसूर्यविमलप्रभासश्रियस्तथागतस्यार्हतः सम्यक्संबुद्धस्य प्रवचने राज्ञो विमलदत्तस्य गृहे (वैद्य २३८) उपपन्न औपपादिकः । उत्सङ्गे पर्यङ्केण प्रादुर्भूतोऽभूत् । समनन्तरोपपन्नश्च खलु पुनः स सर्वसत्त्वप्रियदर्शनो बोधिसत्त्वो महासत्त्वस्तस्यां वेलायां स्वमातापितरौ गाथयाध्यभाषत -

अयं ममा चंक्रमु राजश्रेष्ठ यस्मिन्मया स्थित्व समाधि लब्धः ।
वीर्यं दृढमारभितं महाव्रतं परित्यजित्वा प्रियमात्मभावम् ॥ २२.१ ॥
अथ खलु नक्षत्रराजसंकुसुमिताभिज्ञ स सर्वसत्त्वप्रियदर्शनो बोधिसत्त्वो महासत्त्व इमां गाथां भाषित्वा स्वमातापितरावेतदवोचत्- अद्याप्यम्ब तात स भगवांश्चन्द्रसूर्यविमलप्रभासश्रीस्तथागतोऽर्हन् सम्यक्संबुद्ध एतर्हि तिष्ठति ध्रियते यापयति धर्मं देशयति, यस्य मया भगवतश्चन्द्रसूर्यविमलप्रभासश्रियस्तथागतस्य पूजां कृत्वा सर्वरुतकौशल्यधारणी प्रतिलब्धा, अयं च सद्धर्मपुण्डरीको धर्मपर्यायोऽशीतिभिर्गाथाकोटीनयुतशतसहस्रैः कङ्करैश्च विवरैश्च अक्षोभ्यैश्च तस्य भगवतोऽन्तिकाच्छ्रुतोऽभूत् । साधु अम्ब तात गमिष्याम्यहं तस्य भगवतोऽन्तिकम्, तस्मिंश्च गत्वा भूयस्तस्य भगवतः पूजां करिष्यामीति । अथ खलु नक्षत्रराजसंकुसुमिताभिज्ञ स सर्वसत्त्वप्रियदर्शनो बोधिसत्त्वो महासत्त्वस्तस्यां वेलायां सप्ततालमात्रं वैहायसमभ्युद्गम्य सप्तरत्नमये कूटागारे पर्यङ्कमाभुज्य तस्य भगवतः सकाशमुपसंक्रान्तः । उपसंक्रम्य तस्य भगवतः पादौ शिरसाभिवन्द्य तं भगवन्तं सप्तकृत्वः प्रदक्षिणीकृत्य येन स भगवांस्तेनाञ्जलिं प्रणाम्य तं भगवन्तं नमस्कृत्वा अनया गाथायाभिष्टौति स्म -

सुविमलवदना नरेन्द्र धीरा तव प्रभ राजतियं दशद्दिशासु ।
तुभ्य सुगत कृत्व अग्रपूजामहमिह आगतु नाथ दर्शनाय ॥ २२.२ ॥

अथ खलु नक्षत्रराजसंकुसुमिताभिज्ञ स सर्वसत्त्वप्रियदर्शनो बोधिसत्त्वो महासत्त्वस्तस्यां वेलायामिमां गाथां भाषित्वा तं भगवन्तं चन्द्रसूर्यविमलप्रभासश्रियं संकुसुमिताभिज्ञ स भगवांश्चन्द्रसूर्यविमलप्रभासश्रीस्तथागतोऽर्हन् सम्यक्संबुद्धस्तं सर्वसत्त्वप्रियदर्शनं बोधिसत्त्वं महासत्त्वमेतदवोचत्- परिनिर्वाणकालसमयो मे कुलपुत्र अनुप्राप्तः, क्षयान्तकालो मे कुलपुत्र अनुप्राप्तः । तद्गच्छ त्वं कुलपुत्र, मम मञ्चं प्रज्ञपयस्व, परिनिर्वायिष्यामीति ॥

अथ खलु नक्षत्रराजसंकुसुमिताभिज्ञ स भगवांश्चन्द्रसूर्यविमलप्रभासश्रीस्तथागतस्तं सर्वसत्त्वप्रियदर्शनं बोधिसत्त्वं महासत्त्वमेतदवोचत्- इदं च ते कुलपुत्र शासनमनुपरिन्दामि, (वैद्य २३९) इमांश्च बोधिसत्त्वान्महासत्त्वान्, इमांश्च महाश्रावकान्, इमां च बुद्धबोधिम्, इमां च लोकधातुम्, इमानि च रत्नव्योमकानि, इमानि च रत्नवृक्षाणि, इमांश्च देवपुत्रान्, ममोपस्थायकाननुपरिन्दामि । परिनिर्वृतस्य च मे कुलपुत्र ये धातवस्ताननुपरिन्दामि । आत्मना च त्वया कुलपुत्र मम धातूनां विपुला पूजा कर्तव्या । वैस्तारिकाश्च ते धातवः कर्तव्याः । स्तूपानां च बहूनि सहस्राणि कर्तव्यानि । अथ खलु नक्षत्रराजसंकुसुमिताभिज्ञ स भगवांश्चन्द्रसूर्यविमलप्रभासश्रीस्तथागतोऽर्हन् सम्यक्संबुद्धस्तं सर्वसत्त्वप्रियदर्शनं बोधिसत्त्वं महासत्त्वमेवमनुशिष्य तस्यामेव रात्र्यां पश्चिमे यामे अनुपधिशेषे निर्वाणधातौ परिनिर्वृतोऽभूत् ॥

अथ खलु नक्षत्रराजसंकुसुमिताभिज्ञ स सर्वसत्त्वप्रियदर्शनो बोधिसत्त्वो महासत्त्वस्तं भगवन्त चन्द्रसूर्यविमलप्रभासश्रियं तथागतं परिनिर्वृतं विदित्वा उरगसारचन्दनचित्तां कृत्वा तं तथागतात्मभावं संप्रज्वालयामास । दग्धं निशान्तं च तथागतात्मभावं विदित्वा ततो धातून् गृहीत्वा रोदति क्रन्दति परिदेवते स्म । अथ खलु नक्षत्रराजसंकुसुमिताभिज्ञ स सर्वसत्त्वप्रियदर्शनो बोधिसत्त्वो महासत्त्वो रुदित्वा क्रन्दित्वा परिदेवित्वा सप्तरत्नमयानि चतुरशीतिकुम्भसहस्राणि कारयित्वा तेषु तांस्तथागतधातून् प्रक्षिप्य सप्तरत्नमयानि चतुरशीतिस्तूपसहस्राणि प्रतिष्ठापयामास, यावद्ब्रह्मलोकमुच्चैस्त्वेन, छत्रावलीसमलंकृतानि पट्टघण्टासमीरितानि च । स तान् स्तूपान् प्रतिष्ठाप्य एवं चिन्तयामास - कृता मया तस्य भगवतश्चन्द्रसूर्यविमलप्रभासश्रियस्तथागतस्य धातूनां पूजा । अतश्च भूय उत्तरि विशिष्टतरां तथागतधातूनां पूजां करिष्यामीति । अथ खलु पुनर्नक्षत्रराजसंकुसुमिताभिज्ञ स सर्वसत्त्वप्रियदर्शनो बोधिसत्त्वो महासत्त्वस्तं सर्वावन्तं बोधिसत्त्वगणं तांश्च महाश्रावकांस्तांश्च देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्यगणानामन्त्रयामास - सर्वे यूयं कुलपुत्राः समन्वाहरध्वम् । तस्य भगवतो धातूनां पूजां करिष्याम इति । अथ खलु नक्षत्रराजसंकुसुमिताभिज्ञ स सर्वसत्त्वप्रियदर्शनो बोधिसत्त्वो महासत्त्वस्तस्यां वेलायां तेषां चतुरशीतीनां तथागतधातुस्तूपसहस्राणां पुरस्ताच्छतपुण्यविचित्रितं स्वं बाहुमादीपयामास । आदीप्य च द्वासप्ततिवर्षसहस्राणि तेषां तथागतधातुस्तूपानां पूजामकरोत् । पूजां च कुर्वता तस्याः पर्षदोऽसंख्येयानि श्रावककोटीनयुतशतसहस्राणि विनीतानि । सर्वैश्च तैर्बोधिसत्त्वैः सर्वरूपसंदर्शनसमाधिः प्रतिलब्धोऽभूत् ॥

अथ खलु नक्षत्रराजसंकुसुमिताभिज्ञ स सर्वावान् बोधिसत्त्वगणः, ते च सर्वे महाश्रावकाः, तं सर्वसत्त्वप्रियदर्शनं बोधिसत्त्वं महासत्त्वमङ्गहीनं दृष्ट्वा अश्रुमुखा रुदन्तः क्रन्दन्तः परिदेवमानाः परस्परमेतदूचुः - अयं सर्वसत्त्वप्रियदर्शनो बोधिसत्त्वो महासत्त्वोऽस्माकमाचार्योऽनुशासकः । सोऽयं सांप्रतमङ्गहीनो बाहुहीनः संवृत्त इति । अथ खलु नक्षत्रराजसंकुसुमिताभिज्ञ स सर्वसत्त्वप्रियदर्शनो बोधिसत्त्वो महासत्त्वस्तान् बोधिसत्त्वांस्तांश्च महाश्रावकांस्तांश्च देवपुत्रानामन्त्रयामास - मा यूयं कुलपुत्रा मामङ्गहीनं दृष्ट्वा रुदत, मा (वैद्य २४०) क्रदन्त, मा परिदेवध्वम् । एषोऽहं कुलपुत्रा ये केचिद्दशसु दिक्षु अनन्तापर्यन्तासु लोकधातुषु बुद्धा भगवन्तस्तिष्ठन्ति ध्रियन्ते यापयन्ति, तान् सर्वान् बुद्धान् भगवतः साक्षिणः कृत्वा तेषां पुरतः सत्त्वाधिष्ठानं करोमि, येन सत्येन सत्यवचनेन स्वं मम बाहुं तथागतपूजाकर्मणे परित्यज्य सुवर्णवर्णो मे कायो भविष्यति । तेन सत्येन सत्यवचनेन अयं मम बाहुर्यथापौराणो भवतु, इयं च महापृथिवी षड्विकारं प्रकम्पतु, अन्तरीक्षगताश्च देवपुत्रा महापुष्पवर्षं प्रवर्षन्तु । अथ खलु नक्षत्रराजसंकुसुमिताभिज्ञ समनन्तरकृतेऽस्मिन् सत्याधिष्ठाने तेन सर्वसत्त्वप्रियदर्शनेन बोधिसत्त्वेन महासत्त्वेन, अथ खल्वियं त्रिसाहस्रमहासाहस्री लोकधातुः षड्विकारं प्रकम्पिता, उपर्यन्तरीक्षाच्च महापुष्पवर्षमभिप्रवर्षितम् । तस्य च सर्वसत्त्वप्रियदर्शनस्य बोधिसत्त्वस्य महासत्त्वस्य स बाहुर्यथापौराणः संस्थितोऽभूत्, यदुत तस्यैव बोधिसत्त्वस्य महासत्त्वस्य ज्ञानबलाधानेन पुण्यबलाधानेन च । स्यात्खलु पुनस्ते नक्षत्रराजसंकुसुमिताभिज्ञ काङ्क्षा वा विमतिर्वा विचिकित्सा वा - अन्यः स तेन कालेन तेन समयेन सर्वसत्त्वप्रियदर्शनो बोधिसत्त्वो महासत्त्वोऽभूत्? न खलु पुनस्ते नक्षत्रराजसंकुसुमिताभिज्ञ एवं द्रष्टव्यम् । तत्कस्य हेतोः? अयं स नक्षत्रराजसंकुसुमिताभिज्ञ भैषज्यराजो बोधिसत्त्वो महासत्त्वस्तेन कालेन तेन समयेन सर्वसत्त्वप्रियदर्शनो बोधिसत्त्वो महासत्त्वोऽभूत् । इयन्ति नक्षत्रराजसंकुसुमिताभिज्ञ भैषज्यराजो बोधिसत्त्वो महासत्त्वो दुष्करकोटीनयुतशतसहस्राणि करोति, आत्मभावपरित्यागांश्च करोति । बहुतरं खल्वपि स नक्षत्रराजसंकुसुमिताभिज्ञ बोधिसत्त्वयानसंप्रस्थितः कुलपुत्रो वा कुलदुहिता वा इमामनुत्तरां सम्यक्संबोधिमाकाङ्क्षमाणो यः पादाङ्गुष्ठं तथागतचैत्येष्वादीपयेत् । एकां हस्ताङ्गुलिं पादाङ्गुलिं वा एकाङ्गं वा बाहुमादीपयेत्, बोधिसत्त्वयानसंप्रस्थितः स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्याभिसंस्कारं प्रसवति । न त्वेव राज्यपरित्यागान्न प्रियपुत्रदुहितृभार्यापरित्यागान्न त्रिसाहस्रमहासाहस्रीलोकधातोः सवनसमुद्रपर्वतोत्ससरस्तडागकूपारामायाः परित्यागात् । यश्च खलु पुनर्नक्षत्रराजसंकुसुमिताभिज्ञ बोधिसत्त्वयानसंप्रस्थितः कुलपुत्रो वा कुलदुहिता वा इमां त्रिसाहस्रमहासाहस्रीं लोकधातुं सप्तरत्नपरिपूर्णां कृत्वा सर्वबुद्धबोधिसत्त्वश्रावकप्रत्येकबुद्धेभ्यो दानं दद्यात्, स नक्षत्रराजसंकुसुमिताभिज्ञ कुलपुत्रो वा कुलदुहिता वा तावत्पुण्यं प्रसवति, यावत्स कुलपुत्रो वा कुलदुहिता वा यः इतः
सद्धर्मपुण्डरीकाद्धर्मपर्यायादन्तशश्चतुष्पादिकामपि गाथां धारयेत्, इमं तस्य बहुतरं पुण्याभिसंस्कारं वदामि । न त्वेवमिमां त्रिसाहस्रमहासाहस्रीं लोकधातुं सप्तरत्नपरिपूर्णां कृत्वा दानं ददतस्तस्य सर्वबुद्धबोधिसत्त्वश्रावकप्रत्येकबुद्धेभ्यः ॥

तद्यथापि नाम नक्षत्रराजसंकुसुमिताभिज्ञ सर्वेषामुत्ससरस्तडागानां महासमुद्रो मूर्धप्राप्तः, एवमेव नक्षत्रराजसंकुसुमिताभिज्ञ सर्वेषां तथागतभाषितानां सूत्रान्तानामयं सद्धर्मपुण्डरीको धर्मपर्यायो मूर्धप्राप्तः । तद्यथापि नाम नक्षत्रराजसंकुसुमिताभिज्ञ सर्वेषां कालपर्वतानां चक्रवालानां महाचक्रवालानां च सुमेरुः पर्वतराजो मूर्धप्राप्तः, एवमेव नक्षत्रराजसंकुसुमिताभिज्ञ (वैद्य २४१) अयं सद्धर्मपुण्डरीको धर्मपर्यायः सर्वेषां तथागतभाषितानां सूत्रान्तानां राजा मूर्धप्राप्तः । तद्यथापि नाम नक्षत्रराजसंकुसुमिताभिज्ञ सर्वेषां नक्षत्राणां चन्द्रमाः प्रभाकरोऽग्रप्राप्तः, एवमेव नक्षत्रराजसंकुसुमिताभिज्ञ सर्वेषां तथागतभाषितानां सूत्रान्तानामयं सद्धर्मपुण्डरीको धर्मपर्यायश्चन्द्रकोटीनयुतशतसहस्रातिरेकप्रभाकरोऽग्रप्राप्तः । तद्यथापि नाम नक्षत्रराजसंकुसुमिताभिज्ञ सूर्यमण्डलं सर्वं तमोन्धकारं विधमति, एवमेव नक्षत्रराजसंकुसुमिताभिज्ञ अयं सद्धर्मपुण्डरीको धर्मपर्यायः सर्वाकुशलतमोन्धकारं विधमति । तद्यथापि नाम नक्षत्रराजसंकुसुमिताभिज्ञ त्रायस्त्रिंशानां देवानां शक्रो देवानामिन्द्रः, एवमेव नक्षत्रराजसंकुसुमिताभिज्ञ अयं सद्धर्मपुण्डरीको धर्मपर्यायः सर्वेषां तथागतभाषितानां सूत्रान्तानामिन्द्रः । तद्यथापि नाम नक्षत्रराजसंकुसुमिताभिज्ञ ब्रह्मा सहांपतिः सर्वेषां ब्रह्मकायिकानां देवानां राजा ब्रह्मलोके पितृकार्यं करोति, एवमेव नक्षत्रराजसंकुसुमिताभिज्ञ अयं सद्धर्मपुण्डरीको धर्मपर्यायः सर्वेषां सत्त्वानां शैक्षाशैक्षाणां च सर्वश्रावकाणां प्रत्येकबुद्धानां बोधिसत्त्वयानसंप्रस्थितानां च पितृकार्यं करोति । तद्यथापि नाम नक्षत्रराजसंकुसुमिताभिज्ञ सर्वबालपृथग्जनानतिक्रान्तः स्रोतआपन्नः सकृदागामी अनागामी अर्हन् प्रत्येकबुद्धश्च, एवमेव नक्षत्रराजसंकुसुमिताभिज्ञ अयं सद्धर्मपुण्डरीको धर्मपर्यायः सर्वांस्तथागतभाषितान् सूत्रान्तानतिक्रम्य अभ्युद्गतो मूर्धप्राप्तो वेदितव्यः । तेऽपि नक्षत्रराजसंकुसुमिताभिज्ञ सत्त्वा मूर्धप्राप्ता वेदितव्याः, ये खल्विमं सूत्रराजं धारयिष्यन्ति । तद्यथापि नाम नक्षत्रराजसंकुसुमिताभिज्ञ सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वोऽग्र आख्यायते, एवमेव नक्षत्रराजसंकुसुमिताभिज्ञ अयं सद्धर्मपुण्डरीको धर्मपर्यायः सर्वेषां तथागतभाषितानां सुत्रान्तानामग्र आख्यायते । तद्यथापि नाम नक्षत्रराजसंकुसुमिताभिज्ञ सर्वेषां श्रावकप्रत्येकबुद्धबोधिसत्त्वानां
तथागतो धर्मराजः पट्टबद्धः, एवमेव नक्षत्रराजसंकुसुमिताभिज्ञ अयं सद्धर्मपुण्डरीको धर्मपर्यायस्तथागतभूतो बोधिसत्त्वयानसंप्रस्थितानाम् । त्राता खल्वपि नक्षत्रराजसंकुसुमिताभिज्ञ अयं सद्धर्मपुण्डरीको धर्मपर्यायः सर्वसत्त्वानां सर्वभयेभ्यः, विमोचकः सर्वदुःखेभ्यः । तडाग इव तृषितानामग्निरिव शीतार्तानां चैलमिव नग्नानां सार्थवाह इव वणिजानां मातेव पुत्राणां नौरिव पारगामिनां वैद्य इव आतुराणां दीप इव तमोन्धकारावृतानां रत्नमिव धनार्थिनां चक्रवर्तीव सर्वकोट्टराजानां समुद्र इव सरितामुल्केव सर्वतमोन्धकारविधमनाय । एवमेव नक्षत्रराजसंकुसुमिताभिज्ञ अयं सद्धर्मपुण्डरीको धर्मपर्यायः सर्वदुःखप्रमोचकः सर्वव्याधिच्छेदकः सर्वसंसारभयबन्धनसंकटप्रमोचकः । येन चायं नक्षत्रराजसंकुसुमिताभिज्ञ सद्धर्मपुण्डरीको धर्मपर्यायः श्रुतो भविष्यति, यश्च लिखति, यश्च लेखयति, एषां नक्षत्रराजसंकुसुमिताभिज्ञ पुण्याभिसंस्काराणां बौद्धेन ज्ञानेन न शक्यं पर्यन्तोऽधिगन्तुम्, यावन्तं पुण्याभिसंस्कारं स कुलपुत्रो वा कुलदुहिता वा प्रसविष्यति । य इमं धर्मपर्यायं धारयित्वा वाचयित्वा वा देशयित्वा वा श्रुत्वा वा लिखित्वा (वैद्य २४२) वा पुस्तकगतं वा कृत्वा सत्कुर्यात्गुरुकुर्यान्मानयेत्पूजयेत्पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकवैजयन्तीभिर्वाद्यवस्त्राञ्जलिकर्मभिर्वा घृतप्रदीपैर्वा गन्धतैलप्रदीपैर्वाचम्पकतैलप्रदीपैर्वा सुमनातैलप्रदीपैर्वा पाटलतैलप्रदिपैर्वा वार्षिकतैलप्रदीपैर्वा नवमालिकातैलप्रदीपैर्वा बहुविधाभिश्च पूजाभिः सत्कारं कुर्याद्गुरुकारं कुर्यात्माननां कुर्यात्पूजनां कुर्यात्, बहु स नक्षत्रराजसंकुसुमिताभिज्ञ बोधिसत्त्वयानसंप्रस्थितः कुलपुत्रो वा कुलदुहिता वा पुण्यं प्रसविष्यति य इमं भैषज्यराजपूवयोगपरिवर्तं धारयिष्यति वाचयिष्यति श्रोष्यति । सचेत्पुनर्नक्षत्रराजसंकुसुमिताभिज्ञ मातृग्राम इमं धर्मपर्यायं श्रुत्वा उद्गहीष्यति धारयिष्यति तस्य स एव पश्चिमः स्त्रीभावो भविष्यति । यः कश्चिन्नक्षत्रराजसंकुसुमिताभिज्ञ इमं भैषज्यराजपूर्वयोगपरिवर्तं पश्चिमायां पञ्चाशत्यां श्रुत्वा मातृग्रामः प्रतिपत्स्यते स खल्वतश्च्युतः सुखावत्यां लोकधातावुपपत्स्यते यस्यां स भगवानमितायुस्तथागतोऽर्हन् सम्यक्संबुद्धो बोधिसत्त्वगणपरिवृतस्तिष्ठति ध्रियते यापयति । स तस्यां पद्मगर्भे सिंहासने निषण्ण उपपत्स्यते । न च तस्य रागो व्याबाधिष्यते, न द्वेषो न मोहो न मानो न मात्सर्यं न क्रोधो न व्यापादः । सहोपपन्नाश्च पञ्चाभिज्ञाः प्रतिलप्स्यते । अनुत्पत्तिकधर्मक्षान्तिं च प्रतिलप्स्यते । अनुत्पत्तिकधर्मक्षान्तिप्रतिलब्धः स खलु पुनर्नक्षत्रराजसंकुसुमिताभिज्ञ बोधिसत्त्वो महासत्त्वो द्वासप्ततिगङ्गानदीवालिकासमांस्तथागतान् द्रक्ष्यति । तादृशं चास्य चक्षुरिन्द्रियं परिशुद्धं भविष्यति, येन चक्षुरिन्द्रियेण परिशुद्धेन तान् बुद्धान् भगवतो द्रक्ष्यति । ते चास्य बुद्धा भगवन्तः साधुकारमनुप्रदास्यन्ति - साधु साधु कुलपुत्र, यत्त्वया सद्धर्मपुण्डरीकं धर्मपर्यायं श्रुत्वा तस्य भगवतः
शाक्यमुनेस्तथागतस्यार्हतः सम्यक्संबुद्धस्य प्रवचने उद्दिष्टं स्वाध्यायितं भावितं चिन्तितं मनसि कृतं परसत्त्वानां च संप्रकाशितम्, अयं ते कुलपुत्र पुण्याभिसंस्कारो न शक्यमग्निना दग्धुं नोदकेन हर्तुम् । अयं ते कुलपुत्र पुण्याभिसंस्कारो न शक्यं बुद्धसहेस्रेणापि निर्देष्टुम् । विहतमारप्रत्यर्थिकस्त्वं कुलपुत्र उत्तीर्णभयसंग्रामो मर्दितशत्रुकण्टकः । बुद्धशतसहस्राधिष्ठितोऽसि । न तव कुलपुत्र सदेवके लोके समारके सब्रह्मके सश्रमणब्राह्मणिकायां प्रजायां सदृशो विद्यते तथागतमेकं विनिर्मुच्य । नान्यः कश्चिच्छ्रावको वा प्रत्येकबुद्धो वा बोधिसत्त्वो वा यस्त्वां शक्तः पुण्येन वा प्रज्ञया वा समाधिना वा अभिभवितुम् । एवं ज्ञानबलाधानप्राप्तः स नक्षत्रराजसंकुसुमिताभिज्ञ बोधिसत्त्वो भविष्यति ॥

यः कश्चिन्नक्षत्रराजसंकुसुमिताभिज्ञ इमं भैषज्यराजपूर्वयोगपरिवर्तं भाष्यमाणं श्रुत्वा साधुकारमनुप्रदास्यति, तस्योत्पलगन्धो मुखाद्वास्यति, गात्रेभ्यश्चास्य चन्दनगन्धो भविष्यति । य इह धर्मपर्याये साधुकारं दास्यति, तस्येम एवंरूपा दृष्टधार्मिका गुणानुशंसा भविष्यन्ति, (वैद्य २४३) ये मयैतर्हि निर्दिष्टाः । तस्मात्तर्हि नक्षत्रराजसंकुसुमिताभिज्ञ अनुपरिन्दाम्यहमिमं सर्वसत्त्वप्रियदर्शनस्य बोधिसत्त्वस्य महासत्त्वस्य पूर्वयोगपरिवर्तम्, यथा पश्चिमे काले पश्चिमे समये पश्चिमायां पञ्चाशत्यां वर्तमानायामस्मिन् जम्बुद्वीपे प्रचरेत्, नान्तर्धानं गच्छेत्, न च मारः पापीयानवतारं लभेत्, न मारकायिका देवताः, न नागा न यक्षा न गन्धर्वा न कुम्भाण्डा अवतारं लभेयुः । तस्मात्तर्हि नक्षत्रराजसंकुसुमिताभिज्ञ अधितिष्ठामीमं धर्मपर्यायमस्मिन् जम्बुद्वीपे । भैषज्यभूतो भविष्यति ग्लानानां सत्त्वानां व्याधिस्पृष्टानाम् । इमं धर्मपर्यायं श्रुत्वा व्याधिः काये न क्रमिष्यति, न जरा नाकालमृत्युः । सचेत्पुनर्नक्षत्रराजसंकुसुमिताभिज्ञ यः कश्चिद्बोधिसत्त्वयानसंप्रस्थितः पश्येदेवंरूपं सूत्रान्तधारकं भिक्षुम्, तं चन्दनचूर्णैर्नीलोत्पलैरभ्यकिरेत्, अभ्यवकीर्य चैवं चित्तमुत्पादयितव्यम् - गमिष्यत्ययं कुलपुत्रो बोधिमण्डम् । ग्रहीष्यत्ययं तृणानि । प्रज्ञपयिष्यत्ययं बोधिमण्डे तृणसंस्तरम् । करिष्यत्ययं मारयक्षपराजयम् । प्रपूरयिष्यत्ययं धर्मशङ्खम् । पराहनिष्यत्ययं धर्मभेरीम् । उत्तरिष्यत्ययं भवसागरम् । एवं नक्षत्रराजसंकुसुमिताभिज्ञ तेन बोधिसत्त्वयानसंप्रस्थितेन कुलपुत्रेण वा कुलदुहित्रा वा एवंरूपं सूत्रान्तधारकं भिक्षुं दृष्ट्वा एवं चित्तमुत्पादयितव्यम् - इत्येतादृशाश्चास्य गुणानुशंसा भविष्यन्ति यादृशास्तथागतेन निर्दिष्टाः ॥

अस्मिन् खलु पुनर्भैषज्यपूर्वयोगपरिवर्ते निर्दिश्यमाने चतुरशीतीनां बोधिसत्त्वसहस्राणां सर्वरुतकौशल्यानुगताया धारण्याः प्रतिलम्भोऽभूत् । स च भगवान् प्रभूतरत्नस्तथागतोऽर्हन् सम्यक्संबुद्धः साधुकारमदात्- साधु साधु नक्षत्रराजसंकुसुमिताभिज्ञ, यत्र हि नाम त्वमेवमचिन्त्यगुणधर्मस्तथागतेन निर्दिष्टः, त्वं चाचिन्त्यगुणधर्मसमन्वागतं तथागतं परिपृच्छसीति ॥

इति श्रीसद्धर्मपुण्डरीके धर्मपर्याये भैषज्यराजपूर्वयोगपरिवर्तो नाम द्वाविंशतिमः ॥



_______________________________________________________________________________




(वैद्य २४४)

२३: गद्गदस्वरपरिवर्तः ।

अथ खलु भगवान् शाक्यमुनिस्तथागतोऽर्हन् सम्यक्संबुद्धस्तस्यां वेलायां महापुरुषलक्षणाद्भ्रूविवरान्तरादूर्णाकोशात्प्रभां प्रमुमोच, यया प्रभया पूर्वस्यां दिशि अष्टादशगङ्गानदीवालिकासमानि बुद्धक्षेत्रकोटीनयुतशतसहस्राणि आभया स्फुटान्यभूवन् । तानि च अष्टादशगङ्गानदीवालिकासमानि बुद्धक्षेत्रकोटीनयुतशतसहस्राण्यतिक्रम्य वैरोचनरश्मिप्रतिमण्डिता नाम लोकधातुः, तत्र कमलदलविमलनक्षत्रराजसंकुसुमिताभिज्ञो नाम तथागतोऽर्हन् सम्यक्संबुद्धस्तिष्ठति ध्रियते यापयति विपुलेनायुष्प्रमाणेन । विपुलेन बोधिसत्त्वसंघेन सार्धं परिवृतः पुरस्कृतो धर्मं देशयति स्म । अथ खलु या भगवता शाक्यमुनिना तथागतेनार्हता सम्यक्संबुद्धेनोर्णाकोशात्प्रभा प्रमुक्ताः, सा तस्यां वेलायां वैरोचनरश्मिप्रतिमण्डितां लोकधातुं महत्या आभया स्फरति स्म । तस्यां खलु पुनर्वैरोचनरश्मिप्रतिमण्डितायां लोकधातौ गद्गदस्वरो नाम बोधिसत्त्वो महासत्त्वः प्रतिवसति स्म अवरोपितकुशलमूलः । दृष्टपूर्वाश्च तेन बहूनां तथागतानामर्हतां सम्यक्संबुद्धानामेवंरूपा रश्म्यवभासाः । बहुसमाधिप्रतिलब्धश्च स गद्गदस्वरो बोधिसत्त्वो महासत्त्वः । तद्यथा ध्वजाग्रकेयूरसमाधिप्रतिलब्धः सद्धर्मपुण्डरीकसमाधिप्रतिलब्धो विमलदत्तसमाधिप्रतिलब्धो नक्षत्रराजविक्रीडितसमाधिप्रतिलब्धः अनिलम्भसमाधिप्रतिलब्धो ज्ञानमुद्रासमाधिप्रतिलब्धः चन्द्रप्रदीपसमाधिप्रतिलब्धः सर्वरुतकौशल्यसमाधिप्रतिलब्धः सर्वपुण्यसमुच्चयसमाधिप्रतिलब्धः प्रसादवतीसमाधिप्रतिलब्धः ऋद्धिविक्रीडितसमाधिप्रतिलब्धो ज्ञानोल्कासमाधिप्रतिलब्धो व्यूहराजसमाधिप्रतिलब्धो विमलप्रभाससमाधिप्रतिलब्धो विमलगर्भसमाधिप्रतिलब्धोऽप्कृत्स्नसमाधिप्रतिलब्धः सूर्यावर्तसमाधिप्रतिलब्धः । पेयालं यावद्गङ्गानदीवालिकोपमसमाधिकोटीनयुतशतसहस्रप्रतिलब्धो गद्गदस्वरो बोधिसत्त्वो महासत्त्वः । तस्य खलु पुनर्गद्गदस्वरस्य बोधिसत्त्वस्य महासत्त्वस्य सा प्रभा काये निपतिताभूत् । अथ खलु गद्गदस्वरो बोधिसत्त्वो महासत्त्व उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणाम्य तं भगवन्तं कमलदलविमलनक्षत्रराजसंकुसुमिताभिज्ञं तथागतमर्हन्तं सम्यक्संबुद्धमेतदवोचत्- गमिष्याम्यहं भगवंस्तां सहां लोकधातुं तं भगवन्तं शाक्यमुनिं तथागतमर्हन्तं सम्यक्संबुद्धं दर्शनाय वन्दनाय पर्युपासनाय, तं च मञ्जुश्रियं कुमारभूतं दर्शनाय, तं च भैषज्यराजं बोधिसत्त्वं दर्शनाय, तं च प्रदानशूरं बोधिसत्त्वं दर्शनाय, तं च नक्षत्रराजसंकुसुमिताभिज्ञं बोधिसत्त्वं दर्शनाय, तं च विशिष्टचारित्रं बोधिसत्त्वं दर्शनाय, तं च व्यूहराजं बोधिसत्त्वं दर्शनाय, तं च भैषज्यराजसमुद्गतं बोधिसत्त्वं दर्शनाय ॥

अथ खलु भगवान् कमलदलविमलनक्षत्रराजसंकुसुमिताभिज्ञस्तथागतोऽर्हन् सम्यक्संबुद्धस्तं गद्गदस्वरं बोधिसत्त्वं महासत्त्वमेतदवोचत्- न त्वया कुलपुत्र तस्यां सहायां लोकधातौ गत्वा हीनसंज्ञोत्पादयितव्या । सा खलु पुनः कुलपुत्र लोकधातुरुत्कूलनिकूला (वैद्य २४५) मृन्मयी कालपर्वताकीर्णा गूथोडिल्लपरिपूर्णा । स च भगवान् शाक्यमुनिस्तथागतोऽर्हन् सम्यक्संबुद्धो ह्रस्वकायः, ते च बोधिसत्त्वा ह्रस्वकायाः । तव च कुलपुत्र द्वाचत्वारिंशद्योजनशतसहस्राण्यात्मभावप्रतिलाभः । मम च कुलपुत्र अष्टषष्टियोजनशतसहस्राण्यात्मभावप्रतिलाभः । त्वं च कुलपुत्र प्रासादिको दर्शनीयोऽभिरूपः, परमशुभवर्णपुष्करतया समन्वागतः, पुण्यशतसहस्रातिरेकलक्ष्मीकः । तस्मात्तर्हि कुलपुत्र तां सहां लोकधातुं गत्वा मा हीनसंज्ञामुत्पादयिष्यसि तथागते च बोधिसत्त्वेषु च तस्मिंश्च बुद्धक्षेत्रे ॥

एवमुक्ते गद्गदस्वरो बोधिसत्त्वो महासत्त्वस्तं भगवन्तं कमलदलविमलनक्षत्रराजसंकुसुमिताभिज्ञं तथागतमर्हन्तं सम्यक्संबुद्धमेतदवोचत्- तथाहं भगवन् करिष्ये, यथा तथागत आज्ञापयति । गमिष्याम्यहं भगवंस्तां सहां लोकधातुं तथागताधिष्ठानेन तथागतबलाधानेन तथागतविक्रीडितेन तथागतव्यूहेन तथागताभ्युद्गतज्ञानेन । अथ खलु गद्गदस्वरो बोधिसत्त्वो महासत्त्वस्तस्यां वेलायामनुच्चलित एव तस्माद्बुद्धक्षेत्रादनुत्थितश्चैव तस्मादासनात्तथारूपं समाधिं समापद्यते स्म, यस्य समाधेः समनन्तरसमापन्नस्य गद्गदस्वरस्य बोधिसत्त्वस्य अथ तावदेवेह सहायां लोकधातौ गृध्रकूटे पर्वते तस्य तथागतधर्मासनस्य पुरस्ताच्चतुरशीतिपद्मकोटीनयुतशतसहस्राणि प्रादुर्भूतान्यभूवन् सुवर्णदण्डानि रुप्यपत्राणि पद्मकिंशुकर्वणानि संदृश्यन्ते स्म ॥

अथ खलु मञ्जुश्रीः कुमारभूतस्तं पद्मव्यूहप्रादुर्भावं दृष्ट्वा भगवन्तं शाक्यमुनिं तथागतमर्हन्तं सम्यक्संबुद्धमेतदवोचत्- कस्येदं भगवन् पूर्वनिमित्तं येनेमानि चतुरशीतिपद्मकोटीनयुतशतसहस्राणि संदृश्यन्ते स्म सुवर्णदण्डानि रूप्यपत्राणि पद्मकिंशुकवर्णानि? एवमुक्ते भगवान्मञ्जुश्रियं कुमारभूतमेतदवोचत्- एष मञ्जुश्रीः पूर्वस्माद्दिग्भागाद्वैरोचनरश्मिप्रतिमण्डिताया लोकधातोस्तस्य भगवतः कमलदलविमलनक्षत्रराजसंकुसुमिताभिज्ञस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य बुद्धक्षेत्राद्गद्गदस्वरो बोधिसत्वो महासत्त्वश्चतुरशीतिबोधिसत्त्वकोटीनयुतशतसहस्रैः परिवृतः पुरस्कृत इमां सहां लोकधातुमागच्छति मम दर्शनाय वन्दनाय पर्युपासनाय, अस्य च सद्धर्मपुण्डरीकस्य धर्मपर्यायस्य श्रवणाय । अथ खलु मञ्जुश्रीः कुमारभूतो भगवन्तमेतदवोचत्- कस्तेन भगवन् कुलपुत्रेण कुशलसंभारः कृतः, येन स कुशलसंभारेण कृतेनोपचितेन अयं विशेषः प्रतिलब्धः? कतमस्मिंश्च भगवन् समाधौ स बोधिसत्त्वश्चरति? तं वयं भगवन् समाधिं शृणुयाम, तत्र य वयं भगवन् समाधौ चरेम । तं च वयं भगवन् बोधिसत्त्वं महासत्त्वं पश्येम, कीदृशस्तस्य बोधिसत्त्वस्य वर्णः, कीदृग्रूपम्, कीदृग्लिङ्गम्, कीदृकू संस्थानम्, कोऽस्याचार इति । तत्साधु भगवन् करोतु तथागतस्तथारूपं निमित्तं येन निमित्तेन संचोदितः समानः स बोधिसत्त्वो महासत्त्व इमां सहां लोकधातुमागच्छेत् ॥

अथ खलु भगवान् शाक्यमुनिस्तथागतोऽर्हन् सम्यक्संबुद्धस्तं भगवन्तं प्रभूतरत्नं तथागतमर्हन्तं सम्यक्संबुद्धं परिनिर्वृतमेतदवोचत्- करोतु भगवांस्तथारूपं निमित्तं येन (वैद्य २४६) गद्गदस्वरो बोधिसत्त्वो महासत्त्व इमां सहां लोकधातुमागच्छेत् । अथ खलु भगवान् प्रभूतरत्नस्तथागतोऽर्हन् सम्यक्संबुद्धः परिनिर्वृतस्तस्यां वेलायां तथारूपं निमित्तं प्रादुश्चकारगद्गदस्वरस्य बोधिसत्त्वस्य महासत्त्वस्य संचोदनार्थम् - आगच्छ कुलपुत्र इमां सहां लोकधातुम् । अयं तु मञ्जुश्रीः कुमारभूतो दर्शनमभिनन्दति । अथ खलु गद्गदस्वरो बोधिसत्त्वो महासत्त्वस्तस्य भगवतः कमलदलविमलनक्षत्रराजसंकुसुमिताभिज्ञस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य पादौ शिरसाभिवन्द्य त्रिः प्रदक्षिणीकृत्य सार्धं तैश्चतुरशीतिबोधिसत्त्वकोटीनयुतशतसहस्रैः परिवृतः पुरस्कृतस्तस्या वैरोचनरश्मिप्रतिमण्डिताया लोकधातोरन्तर्हितः इमां सहां लोकधातुमागच्छति स्म, प्रकम्पद्भिः क्षेत्रैः, प्रवर्षद्भिः पद्मैः, प्रवाद्यमानैस्तूर्यकोटीनयुतशतसहस्रैः, नीलोत्पलपद्मनेत्रेण वदनेन, सुवर्णवर्णेन कायेन, पुण्यशतसहस्रालंकृतेनात्मभावेन, श्रिया जाज्वल्यमानः, तेजसा देदीप्यमानः, लक्षणैर्विचित्रितगात्रो नारायणसंहननकायः । सप्तरत्नमयं कूटागारमभिरुह्य वैहायसे सप्ततालमात्रेण बोधिसत्त्वगणपरिवृतः पुरस्कृत आगच्छति स्म । स येनेयं सहा लोकधातुः, येन च गृध्रकूटः पर्वतराजस्तेनोपसंक्रामत् । उपसंक्रम्य तस्मात्कूटागारादवतीर्य शतसहस्रमूल्यं मुक्ताहारं गृहीत्वा येन भगवांस्तेनोपसंक्रामत् । उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य सप्तकृत्वः प्रदक्षिणीकृत्य तं मुक्ताहारं भगवतः पूजाकर्मणे निर्यातयामास । निर्यात्य च भगवन्तमेतदवोचत्- कमलदलविमलनक्षत्रराजसंकुसुमिताभिज्ञो भगवांस्तथागतोऽर्हन् सम्यक्संबुद्धो भगवतः परिपृच्छति अल्पाबाधतामाल्पतङ्कतां लघूत्थानतां यात्रां बलं सुखसंस्पर्शविहारताम् । एवं च स भगवानवोचत्- कच्चित्ते भगवन् क्षमणीयम्, कच्चिद्यापनीयम्, कच्चिद्धातवः प्रतिकुर्वन्ति, कच्चित्ते सत्त्वाः स्वाकाराः सुवैनेयाः सुचिकित्साः, कच्चिच्छुचिकाया मा अतीव रागचरिताः, मा अतीव द्वेषचरिता मा अतीव मोहचरिता मा अतीव भगवन् सत्त्वा ईर्ष्यालुका मा मत्सरिणो मा अमातृज्ञा मा अपितृज्ञा मा अश्रामण्य मा अब्राह्मण्या मा मिथ्यादृष्ट्यो मा अदान्तचित्ता मा अगुप्तेन्द्रियाः । कच्चित्ते भगवन्निहतमारप्रत्यर्थिका एते सत्त्वाः । कच्चिद्भगवन् प्रभूतरत्नस्तथागतोऽर्हन् सम्यक्संबुद्धः परिनिर्वृतः इमां सहां लोकधातुमागतो धर्मश्रवणाय सप्तरत्नमये स्तूपे मध्यगतः । तं च भगवन्तं तथागतर्महन्तं सम्यक्संबुद्धं स भगवान् परिपृच्छति - कच्चिद्भगवंस्तस्य भगवतः प्रभूतरत्नस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य क्षमणीयम्, कच्चिद्यापनीयम्, कच्चिद्भगवन् प्रभूतरत्नस्तथागतोऽर्हन् सम्यक्संबुद्धश्चिरं स्थास्यति । वयमपि भगवंस्तस्य प्रभूतरत्नस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य धातुविग्रहं पश्येम । तत्साधु भगवान् दर्शयतु तथागतस्तस्य भगवतः प्रभूतरत्नस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य धातुविग्रहमिति ॥

अथ खलु भगवान् शाक्यमुनिस्तथागतोऽर्हन् सम्यक्संबुद्धस्तं भगवन्तं प्रभूतरत्नं (वैद्य २४७) तथागतमर्हन्तं सम्यक्संबुद्धं परिनिर्वृतमेतदवोचत्- अयं भगवन् गद्गदस्वरो बोधिसत्त्वो महासत्त्वो भगवन्तं प्रभूतरत्नं तथागतमर्हन्तं सम्यक्संबुद्धं परिनिर्वृतं द्रष्टुकामः । अथ खलु भगवान् प्रभूतरत्नस्तथागतोऽर्हन् सम्यक्संबुद्धस्तं गद्गदस्वरं बोधिसत्त्वं महासत्त्वमेतदवोचत्- साधु साधु कुलपुत्र, यत्र हि नाम त्वं भगवन्तं शाक्यमुनिं तथागतमर्हन्तं सम्यक्संबुद्धं द्रष्टुकामोऽभ्यागतः, इमं च सद्धर्मपुण्डरीकं धर्मपर्याय श्रावणाय मञ्जुश्रियं च कुमारभूतं दर्शनायेति ॥

अथ खलु पद्मश्रीर्बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्- कीदृशं भगवन् गद्गदस्वरेण बोधिसत्त्वेन महासत्त्वेन पूर्वं कुशलमूलमवरोपितम्, कस्य वा तथागतस्यान्तिके? अथ खलु भगवान् शाक्यमुनिस्तथागतोऽर्हन् सम्यक्संबुद्धः पद्मश्रियं बोधिसत्त्वं महासत्त्वमेतदवोचत्- भूतपूर्वं कुलपुत्र अतीतेऽध्वनि असंख्येये कल्पे असंख्येयतरे विपुले अप्रमेये अप्रमाणे यदासीत् । तेन कालेन तेन समयेन मेघदुन्दुभिस्वरराजो नाम तथागतोऽर्हन् सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् सर्वरूपसंदर्शनायां लोकधातौ प्रियदर्शने कल्पे । तस्य खलु पुनः कुलपुत्र भगवतो मेघदुन्दुभिस्वरराजस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य गद्गदस्वरेण बोधिसत्त्वेन महासत्त्वेन तूर्यशतसहस्रप्रवादितेन द्वादशवर्षशतसहस्राणि पूजा कृताभूत् । सप्तरत्नमयानां च भाजनानां चतुरशीतिसहस्राणि दत्तान्यभूवन् । तत्र कुलपुत्र मेघदुन्दुभिस्वरराजस्य तथागतस्य प्रवचने गद्गदस्वरेण बोधिसत्त्वेन महासत्त्वेन इयमीदृशी श्रीः प्राप्ता । स्यात्खलु पुनस्ते कुलपुत्र काङ्क्षा वा विमतिर्वा विचिकित्सा वा - अन्यः स तेन कालेन तेन समयेन गद्गदस्वरो नाम बोधिसत्त्वो महासत्त्वोऽभूत्, येन सा तस्य भगवतो मेघदुन्दुभिस्वरराजस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य पूजा कृता, तानि चतुरशीतिभाजनसहस्राणि दत्तानि? न खलु पुनस्ते कुलपुत्र एवं द्रष्टव्यम् । तत्कस्य हेतोः? अयमेव स कुलपुत्र गद्गदस्वरो बोधिसत्त्वो महासत्त्वोऽभूत्, येन सा तस्य भगवतो मेघदुन्दुभिस्वरराजस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य पूजा कृता, तानि चतुरशितिभाजनसहस्राणि दत्तानि । एवं बहुबुद्धपर्युपासितः कुलपुत्र गद्गदस्वरो बोधिसत्त्वो महासत्त्वः बहुबुद्धशतसहस्रावरोपितकुशलमूलः कृतबुद्धपरिकर्मा । दृष्टपूर्वाश्चानेन गद्गदस्वरेण बोधिसत्त्वेन महासत्त्वेन गङ्गानदीवालिकासमा बुद्धा भगवन्तः । पश्यसि त्वं पद्मश्रीरेतं गद्गदस्वरं बोधिसत्त्वं महासत्त्वम्? पद्मश्रीराह - पश्यामि भगवन्, पश्यामि सुगत । भगवानाह - एष खलु पुनः पद्मश्रीर्गद्गदस्वरो बोधिसत्त्वो महासत्त्वो बहुभी रूपैरिमं सद्धर्मपुण्डरीकं धर्मपर्यायं देशयति स्म । तद्यथा - क्वचिद्ब्रह्मरूपेण, क्वचिद्रूद्ररूपेण, क्वचिच्छक्ररूपेण, क्वचिदीश्वररूपेण, क्वचित्सेनापतिरूपेण, क्वचिद्वैश्रवणरूपेण, क्वचिच्चक्रवर्तिरूपेण, क्वचित्कोट्टराजरूपेण, क्वचिच्छ्रेष्ठिरूपेण, क्वचिद्गृहपतिरूपेण, क्वचिन्नैगमरूपेण, क्वचिद्ब्राह्मणरूपेण इमं सद्धर्मपुण्डरीकं (वैद्य २४८) धर्मपर्यायं देशयति स्म । क्वचिद्भिक्षुरूपेण, क्वचिद्भिक्षुणीरूपेण, क्वचिदुपासकरूपेण, क्वचिदुपासिकारूपेण क्वचिच्छ्रेष्ठिभार्यारूपेण, क्वचिद्गृहपतिभार्यारूपेण, क्वचिन्नैगमभार्यारूपेण, क्वचिद्दारकरूपेण, क्वचिद्दारिकारूपेण, गद्गदस्वरो बोधिसत्त्वो महासत्त्वः इमं सद्धर्मपुण्डरीकं धर्मपर्यायं सत्त्वानां देशयति स्म । इयद्भिः कुलपुत्र रूपसंदर्शनैर्गद्गदस्वरो बोधिसत्वो महासत्त्व इमं सद्धर्मपुण्डरीकं धर्मपर्यायं सत्त्वानां देशयति स्म । यावत्केषांचिद्यक्षरूपेण गद्गदस्वरो बोधिसत्त्वो महासत्त्व इमं सद्धर्मपुण्डरीकं धर्मपर्यायं सत्त्वानां देशयति स्म । केषांचित्सुररूपेण, केषांचिद्गरूडरूपेण, केषांचित्किन्नररूपेण, केषांचिन्महोरगरूपेण गद्गदस्वरो बोधिसत्त्वो महासत्त्व इमं सद्धर्मपुण्डरीकं धर्मपर्यायं सत्त्वानां देशयति स्म । यावन्निरयतिर्यग्योनियमलोकाक्षणोपपन्नानामपि सत्त्वानां गद्गदस्वरो बोधिसत्त्वो महासत्त्व इमं सद्धर्मपुण्डरीकं धर्मपर्यायं देशयंस्त्राता भवति । यावदन्तःपुरमध्यगतानामपि सत्त्वानां गद्गदस्वरो बोधिसत्त्वो महासत्त्वः स्त्रीरूपमभिनिर्माय इम सद्धर्मपुण्डरीकं धर्मपर्यायं सत्त्वानां देशयति स्म । अस्यां सहायां लोकधातौ सत्त्वानां धर्मं देशयति स्म । त्राता खल्वपि पद्मश्रीर्गद्गदस्वरो बोधिसत्त्वो महासत्त्वः सहायां लोकधातावुपपन्नानां सत्त्वानाम् । तस्यां च
सहायां लोकधातावेव स गद्गदस्वरो बोधिसत्त्वो महासत्त्व इयद्भी रूपनिमित्तैरिमं सद्धर्मपुण्डरीकं धर्मपर्यायं सत्त्वानां देशयति । न चास्य सत्पुरुषस्य ऋद्धिहानिर्नापि प्रज्ञाहानिः । इयद्भिः कुलपुत्र ज्ञानावभासैर्गद्गदस्वरो बोधिसत्त्वो महासत्त्वोऽस्यां सहायां लोकधातौ प्रज्ञायते । अन्येषु च गङ्गानदीवालिकासमेषु लोकधातुषु बोधिसत्त्ववैनेयानां सत्त्वानां बोधिसत्त्वरूपेण धर्मं देशयति । श्रावकवैनेयानां सत्त्वानां श्रावकरूपेण धर्मं देशयति । प्रत्येकबुद्धवैनेयानां सत्त्वानां प्रत्येकबुद्धरूपेण धर्मं देशयति । तथागतवैनेयानां सत्त्वानां तथागतरूपेण धर्मं देशयति । यावत्तथागतधातुवैनेयानां सत्त्वानां तथागतधातुं दर्शयति । यावत्परिनिर्वाणवैनेयानां सत्त्वानां परिनिर्वृतमात्मानं दर्शयति । एवं ज्ञानबलाधानप्राप्तः खलु पुनः पद्मश्रीर्गद्गदस्वरो बोधिसत्त्वो महासत्त्वः ॥

अथ खलु पद्मश्रीर्बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्- अवरोपितकुशलमूलोऽयं भगवन् गद्गदस्वरो बोधिसत्त्वो महासत्त्वः । कतम एष भगवन् समाधिर्यस्मिन् समाधाववस्थितेन गद्गदस्वरेण बोधिसत्त्वेन महासत्त्वेन इयन्तः सत्त्वा विनीता इति? एवमुक्ते भगवान् शाक्यमुनिस्तथागतोऽर्हन् सम्यक्संबुद्धः पद्मश्रियं बोधिसत्त्वं महासत्त्वमेतदवोचत्- एष हि कुलपुत्र सर्वरूपसंदर्शनो नाम समाधिः । अस्मिन् समाधाववस्थितेन गद्गदस्वरेण बोधिसत्त्वेन महासत्त्वेन एवमप्रमेयः सत्त्वार्थः कृतः ॥

अस्मिन् खलु पुनर्गद्गदस्वरपरिवर्ते निर्दिश्यमाने यानि गद्गदस्वरेण बोधिसत्त्वेन महासत्त्वेन सार्धं चतुरशीतिबोधिसत्त्वकोटीनयुतशतसहस्राणि इमां सहां लोकधातुमागतानि, सर्वेषां तेषां सर्वरूपसंदर्शनस्य समाधेः प्रतिलम्भोऽभूत् । अस्यां च सहायां लोकधातौ (वैद्य २४९) गणनासमतिक्रान्तानां बोधिसत्त्वानां महासत्त्वानां येषां सर्वरूपसंदर्शनस्य समाधेः प्रतिलम्भोऽभूत् ॥

अथ खलु गद्गदस्वरो बोधिसत्त्वो महासत्त्वो भगवतः शाक्यमुनेस्तथागतस्यार्हतः सम्यक्संबुद्धस्य तस्य च भगवतः प्रभूतरत्नस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य धातुस्तूपे विपुलां विस्तीर्णां पूजां कृत्वा पुनरपि सप्तरत्नमये कूटागारेऽभिरुह्य प्रकम्पद्भिः क्षेत्रैः प्रवर्षद्भिः पद्मैः प्रवाद्यमानैस्तूर्यकोटीनयुतशतसहस्रैः सार्धं तैश्चतुरशीतिबोधिसत्त्वकोटीनयुतशतसहस्रैः परिवृतः पुरस्कृतः पुनरपि स्वं बुद्धक्षेत्रमभिगतः । समभिगम्य च तं भगवन्तं कमलदलविमलनक्षत्रराजसंकुसुमिताभिज्ञं तथागतमर्हन्तं सम्यक्संबुद्धमेतदवोचत्- कृतो मे भगवन् सहायां लोकधातौ सत्त्वार्थः । तस्य च भगवतः प्रभूतरत्नस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य धातुस्तूपो दृष्टः वन्दितश्च । स च भगवान् शाक्यमुनिस्तथागतो दृष्टो वन्दितश्च । स च मञ्जुश्रीः कुमारभूतो दृष्टः । स च भैषज्यराजो बोधिसत्त्वो महासत्त्वो वीर्यबलबेगप्राप्तः, स च प्रदानशूरो बोधिसत्त्वो महासत्त्वो दृष्टः । सर्वेषां च तेषां चतुरशीतिबोधिसत्त्वकोटीनयुतशतसहस्राणां सर्वरूपसंदर्शनस्य समाधेः प्रतिलम्भोऽभूत् ॥

अस्मिन् खलु पुनर्गद्गदस्वरस्य बोधिसत्त्वस्य महासत्त्वस्य गमनागमनपरिवर्ते भाष्यमाणे द्वाचत्वारिंशतां बोधिसत्त्वसहस्राणामनुत्पत्तिकधर्मक्षान्तिप्रतिलम्भोऽभूत् । पद्मश्रियश्च बोधिसत्त्वस्य महासत्त्वस्य सद्धर्मपुण्डरीकस्य समाधेः प्रतिलम्भोऽभूत् ॥

इति श्रीसद्धर्मपुण्डरीके धर्मपर्याये गद्गदस्वरपरिवर्तो नाम त्रयोविंशतिमः ॥



_______________________________________________________________________________




(वैद्य २५०)

२४: समन्तमुखपरिवर्तः ॥

अथ खलु अक्षयमतिर्बोधिसत्त्वो महासत्त्व उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणाम्य भगवन्तमेतदवोचत्- केन कारणेन भगवनवलोकितेश्वरो बोधिसत्त्वो महासत्त्वोऽवलोकितेश्वर इत्युच्यते? एवमुक्ते भगवानक्षयमतिं बोधिसत्त्वं महासत्त्वमेतदवोचत्- इह कुलपुत्र यावन्ति सत्त्वकोटीनयुतशतसहस्राणि यानि दुःखानि प्रत्युअनुभवन्ति, तानि सचेदवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य नामधेयं शृणुयुः, ते सर्वे तस्माद्दुःखस्कन्धाद्परिमुच्येरन् । ये च कुलपुत्र सत्त्वा अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य नामधेयं धारयिष्यन्ति, सचेत्ते महत्यग्निस्कन्धे प्रपतेयुः, सर्वे ते अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य तेजसा तस्मान्महतोऽग्निस्कन्धात्परिमुच्येरन् । सचेत्पुनः कुलपुत्र सत्त्वा नदीभिरुह्यमाना अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्याक्रन्दं कुर्युः, सर्वास्ता नद्यस्तेषां सत्त्वानां गाधं दद्युः । सचेत्पुनः कुलपुत्र सागरमध्ये वहनाभिरूढानां सत्त्वकोटीनयुतशतसहस्राणां हिरण्यसुवर्णमणिमुक्तावज्रवैडूर्यशङ्खशिलाप्रवालाश्मगर्भमुसारगल्वलोहितमुक्तादीनां कृतनिधीनां स पोतस्तेषां कालिकावातेन राक्षसीद्वीपे क्षिप्तः स्यात्, तस्मिंश्च कश्चिदेवैकः सत्त्वः स्यात्योऽवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्याक्रन्दं कुर्यात्, सर्वे ते परिमुच्येरंस्तस्माद्राक्षसीद्वीपात् । अनेन खलु पुनः कुलपुत्र कारणेन अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वोऽवलोकितेश्वर इति संज्ञायते ॥

सचेत्कुलपुत्र कश्चिदेव वध्योत्सृष्टोऽवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्याक्रन्दं कुर्यात्, तानि तेषां वध्यघातकानां शस्त्राणि विकीर्येरन् । सचेत्खलु पुनः कुलपुत्र अयं त्रिसाहस्रमहासाहस्रो लोकधातुर्यक्षराक्षसैः परिपूर्णो भवेत्, तेऽवलोकितेश्वरस्य महासत्त्वस्य नामधेयग्रहणेन दुष्टचित्ता द्रष्टुमप्यशक्ताः स्युः । सचेत्खलु पुनः कुलपुत्र कश्चिदेव सत्त्वो दार्वायस्मयैर्हडिनिगडबन्धनैर्बद्धो भवेत्, अपराध्यनपराधी वा, तस्यावलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य नामधेयग्रहणेन क्षिप्रं तानि हडिनिगडबन्धनानि विवरमनुप्रयच्छन्ति । ईदृशः कुलपुत्र अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य प्रभावः ॥

सचेत्कुलपुत्र अयं त्रिसाहस्रमहासाहस्रो लोकधातुर्धूर्तैरमित्रैश्चौरैश्च शस्त्रपाणिभिः परिपूर्णो भवेत्, तस्मिंश्चैकः सार्थवाहो महान्तं सार्थं रत्नाढ्यमनर्ध्यं गृहीत्वा गच्छेत् । ते गच्छन्तस्तांश्चौरान् धूर्तान् शत्रूंश्च शस्त्रहस्तान् पश्येयुः । दृष्ट्वा च पुनर्भीतास्त्रस्ता अशरणमात्मानं संजानीयुः । स च सार्थवाहस्तं सार्थमेवं ब्रूयात्- मा भैष्ट कुलपुत्राः, मा भैष्ट, अभयंददमवलोकितेश्वरं बोधिसत्त्वं महासत्त्वमेकस्वरेण सर्वे समाक्रन्दध्वम् । ततो यूयमस्माच्चौरभयादमित्रभयात्क्षिप्रमेव परिमोक्ष्यध्वे । अथ खलु सर्व एव स सार्थः एकस्वरेण अवलोकितेश्वरमाक्रन्देत्- नमो नमस्तस्मै अभयंददायावलोकितेश्वराय बोधिसत्त्वाय महासत्त्वायेति (वैद्य २५१)। सहनामग्रहणेनैव स सार्थः सर्वभयेभ्यः परिमुक्तो भवेत् । ईदृशः कुलपुत्र अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य प्रभावः ॥

ये कुलपुत्र रागचरिताः सत्त्वाः, तेऽवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य नमस्कारं कृत्वा विगतरागा भवन्ति । ये द्वेषचरिताः सत्त्वाः, तेऽवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य नमस्कारं कृत्वा विगतद्वेषा भवन्ति । ये मोहचरिताः सत्त्वाः, तेऽवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य नमस्कारं कृत्वा विगतमोहा भवन्ति । एवं महर्द्धिकः कुलपुत्र अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वः ॥

यश्च कुलपुत्र अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य पुत्रकामो मातृग्रामो नमस्कारं करोति, तस्य पुत्रः प्रजायते अभिरूपः प्रासादिको दर्शनीयः । पुत्रलक्षणसमन्वागतो बहुजनप्रियो मनापोऽवरोपितकुशलमूलश्च भवति । यो दारिकामभिनन्दति, तस्य दारिका प्रजायते अभिरूपा प्रासादिका दर्शनीया परमया शुभवर्णपुष्करतया समन्वागता दारिका - लक्षणसमन्वागता बहुजनप्रिया मनापा अवरोपितकुशलभूला च भवति । ईदृशः कुलपुत्र अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य प्रभावः ॥
ये च कुलपुत्र अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य नमस्कारं करिष्यन्ति, नामधेयं च धारयिष्यन्ति, तेषाममोघफलं भवति । यश्च कुलपुत्र अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य नमस्कारं करिष्यति, नामधेयं च धारयिष्यति, यश्च द्वाषष्टीनां गङ्गानदीवालिकासमानां बुद्धानां भगवतां नमस्कारं कुर्यात्, नामधेयानि च धारयेत्, यश्च तावतामेव बुद्धानां भगवतां तिष्ठतां ध्रियतां यापयतां चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः पूजां कुर्यात्, तत्किं मन्यसे कुलपुत्र कियन्तं स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं पुण्याभिसंस्कारं प्रसवेत्? एवमुक्ते अक्षयमतिर्बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्- बहु भगवन्, बहु सुगत स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुं पुण्याभिसंस्कारं प्रसवेत् । भगवानाह - यश्च कुलपुत्र तावतां बुद्धानां भगवतां सत्कारं कृत्वा पुण्याभिसंस्कारः, यश्च अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य अन्तश एकमपि नमस्कारं कुर्यात्नामधेयं च धारयेत्, समोऽनधिकोऽनतिरेकः पुण्याभिसंस्कारः उभयतो भवेत् । यश्च तेषां द्वाषष्टीनां गङ्गानदीवालिकासमानां बुद्धानां भगवतां सत्कारं कुर्यात्नामधेयानि च धारयेत्, यश्च अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य नमस्कारं कुर्यात्नामधेयं च धारयेत्, एतावुभौ पुण्यस्कन्धौ न सुकरौ क्षपयितुं कल्पकोटीनयुतशतसहस्रैरपि । एवमप्रमेयं कुलपुत्र अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य नामधारणात्पुण्यम् ॥

अथ खल्वक्षयमतिर्बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्- कथं भगवनवलोकितेश्वरो बोधिसत्त्वो महासत्त्वोऽस्यां सहायां लोकधातौ प्रविचरति? कथं सत्त्वानां धर्मं देशयति? कीदृशश्चावलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्योपायकौशल्यविषयः? एवमुक्ते भगवानक्षयमतिं बोधिसत्त्वं महासत्त्वमेतदवोचत्- सन्ति कुलपुत्र लोकधातवः (वैद्य २५२) येष्ववलोकितेश्वरो बोधिसत्त्वो महासत्त्वो बुद्धरूपेण सत्त्वानां धर्मं देशयति । सन्ति लोकधातवः, येष्ववलोकितेश्वरो बोधिसत्त्वो महासत्त्वो बोधिसत्त्वरूपेण सत्त्वानां धर्मं देशयति । केषांचित्प्रत्येकबुद्धरूपेण अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वः सत्त्वानां धर्मं देशयति । केषांचिच्छ्रावकरूपेण अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वः सत्त्वानां धर्मं देशयति । केषांचिद्ब्रह्मरूपेणावलोकितेश्वरो बोधिसत्त्वो महासत्त्वः सत्त्वानां धर्मं देशयति । केषांचिच्छक्ररूपेणावलोकितेश्वरो बोधिसत्त्वो महासत्त्वः धर्मं देशयति । केषांचिद्गन्धर्वरूपेणावलोकितेश्वरो बोधिसत्त्वो महासत्त्वः सत्त्वानां धर्मं देशयति । केषांचिद्गन्धर्वरूपेणावलोकितेश्वरो बोधिसत्त्वो महासत्त्वः सत्त्वानां धर्मं देशयति । यक्षवैनेयानां सत्त्वानां यक्षरूपेण धर्मं देशयति । ईश्वरवैनेयानां सत्त्वानामीश्वररूपेण, महेश्वरवैनेयानां सत्त्वानां महेश्वररूपेण धर्मं देशयति । चक्रवर्तिराजवैनेयानां सत्त्वानां चक्रवर्तिराजरूपेण धर्मं देशयति । पिशाचवैनेयानां सत्त्वानां पिशाचरूपेण धर्मं देशयति । वैश्रवणवैनेयानां सत्त्वानां वैश्रवणरूपेण धर्मं देशयति । सेनापतिवैनेयानां सत्त्वानां सेनापतिरूपेण धर्मं देशयति । ब्राह्मणवैनेयानां सत्त्वानां ब्राह्मणरूपेण धर्मं देशयति । वज्रपाणिवैनेयानां सत्त्वानां वज्रपाणिरूपेण धर्मं देशयति । एवमचिन्त्यगुणसमन्वागतः कुलपुत्र अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वः । तस्मात्तर्हि कुलपुत्र अवलोकितेश्वरं बोधिसत्त्वं महासत्त्वं पूजयध्वम् । एष कुलपुत्र अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वो भीतानां सत्त्वानामभयं ददाति । अनेन कारणेन अभयंदद इति संज्ञायते इह सहायां लोकधातौ ॥

अथ खल्वक्षयमतिर्बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्- दास्यामो वयं भगवनवलोकितेश्वराय बोधिसत्त्वाय महासत्त्वाय धर्मप्राभृतं धर्माच्छादम् । भगवानाहयस्येदानीं कुलपुत्र कालं मन्यसे । अथ खल्वक्षयमतिर्बोधसत्त्वो महासत्त्वः स्वकण्ठादवर्ताय शतसहस्रमूल्यं मुक्ताहारमवलोकितेश्वराय बोधिसत्त्वाय महासत्त्वाय धर्माच्छादमनुप्रयच्छति स्म - प्रतीच्छ सत्पुरुष इमं धर्माच्छादं ममान्तिकात् । स न प्रतीच्छति स्म । अथ खल्वक्षयमतिर्बोधिसत्त्वो महासत्त्वोऽवलोकितेश्वरं बोधिसत्त्वं महासत्त्वमेतदवोचत्- प्रतिगृहाण त्वं कुलपुत्र इमं मुक्ताहारमस्माकमनुकम्पामुपादाय । अथ खल्ववलोकितेश्वरो बोधिसत्त्वो महासत्त्वोऽक्षयमतेर्बोधिसत्त्वस्य महासत्त्वस्यान्तिकात्तं मुक्ताहारं प्रतिगृह्णाति स्म अक्षयमतेर्बोधिसत्त्वस्य महसत्त्वस्यानुकम्पामुपादाय, तासां च चतसृणां पर्षदां तेषां च देवनागयक्षगन्धर्वासुरगरूडकिन्नरमहोरगमनुष्यामनुष्याणामनुकम्पामुपादाय । प्रतिगृह्य च द्वौ प्रत्यंशौ कृतवान् । कृत्वा चैकं प्रत्यंशं भगवते शाक्यमुनये ददाति स्म, द्वितीयं प्रत्यंशं भगवतः प्रभूतरत्नस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य रत्नस्तूपे समुपनामयायास । ईदृश्या कुलपुत्र विकुर्वया अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वोऽस्यां सहायां लोकधातावनुविचरति ॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -

चित्रध्वज अक्षयोमती एतमर्थं परिपृच्छि कारणात् ।
(वैद्य २५३)
केना जिनपुत्र हेतुना उच्यते हि अवलोकितेश्वरः ॥ २४.१ ॥
अथ स दिशता विलोकिया प्रणिधीसागरु अक्षयोमति ।
चित्रध्वजोऽध्यभाषत शृणु चर्यामवलोकितेश्वरे ॥ २४.२ ॥
कल्पशत नेककोट्यचिन्तिया बहुबुद्धान सहस्रकोटिभिः ।
प्रणिधान यथा विशोधितं स्तथ शृण्वाहि मम प्रदेशतः ॥ २४.३ ॥
श्रवणो अथ दर्शनोऽपि च अनुपूर्वं च तथा अनुस्मृतिः ।
भवतीह अमोघ प्राणिनां सर्वदुःखभवशोकनाशकः ॥ २४.४ ॥
सचि अग्निखदाय पातयेद्घतनार्थाय प्रदुष्टमानसः ।
स्मरतो अवलोकितेश्वरमभिसिक्तो इव अग्नि शाम्यति ॥ २४.५ ॥
सचि सागरदुर्गि पातयेन्नागमकरसुरभूतालये ।
स्मरतो अवलोकितेश्वरं जलराजे न कदाचिसीदति ॥ २४.६ ॥
सचि मेरुतलातु पातयेद्घतनार्थाय प्रदुष्टमानसः ।
स्मरतो अवलोकितेश्वरं सूर्यभूतो व नभे प्रतिष्ठति ॥ २४.७ ॥
वज्रामय पर्वतो यदि घतनार्थाय हि मूर्ध्नि ओषरेत् ।
स्मरतो अवलोकितेश्वरं रोमकूप न प्रभोन्ति हिंसितुम् ॥ २४.८ ॥
(वैद्य २५४)
सचि शत्रुगणैः परीवृतः शस्त्रहस्तैर्विहिंसचेतसैः ।
स्मरतो अवलोकितेश्वरं मैत्रचित्त तद भोन्ति तत्क्षणम् ॥ २४.९ ॥
सचि आघतने उपस्थितो वध्यघातनवशंगतो भवेत् ।
स्मरतो अवलोकितेश्वरं खण्डखण्ड तद शस्त्र गच्छियुः ॥ २४.१० ॥
सचि दारुमयैरयोमयैर्हडिनिगडैरिह बद्धबन्धनैः ।
स्मरतो अवलोकितेश्वरं क्षिप्रमेव विपटन्ति बन्धना ॥ २४.११ ॥
मन्त्रा बल विद्य ओषधी भूत वेताल शरीरनाशका ।
स्मरतो अवलोकितेश्वरं तान् गच्छन्ति यतः प्रवर्तिताः ॥ २४.१२ ॥
सचि ओजहरैः परीवृतो नागयक्षसुरभूतराक्षसैः ।
स्मरतो अवलोकितेश्वरं रोमकूप न प्रभोन्ति हिंसितुम् ॥ २४.१३ ॥
सचि व्यालमृगैः परीवृतस्तीक्ष्णदंष्ट्रनखरैर्महाभयैः ।
स्मरतो अवलोकितेश्वरं क्षिप्र गच्छन्ति दिशा अनन्ततः ॥ २४.१४ ॥
सचि दृष्टिविषैः परीवृतो ज्वलनार्चिशिखिदुष्टदारुणैः ।
स्मरतो अवलोकितेश्वरं क्षिप्रमेव ते भोन्ति निर्विषाः ॥ २४.१५ ॥
(वैद्य २५५)
गम्भीर सविद्यु निश्चरी मेघवज्राशनि वारिप्रस्रवाः ।
स्मरतो अवलोकितेश्वरं क्षिप्रमेव प्रशमन्ति तत्क्षणम् ॥ २४.१६ ॥
बहुदुःखशतैरुपद्रुतान् सत्त्व दृष्ट्व बहुदुःखपीडितान् ।
शुभज्ञानबलो विलोकिया तेन त्रातरु गजे सदेवके ॥ २४.१७ ॥
ऋद्धीबलपारमिंगतो विपुलज्ञान उपायशिक्षितः ।
सर्वत्र दशद्दिशी जगे सर्वक्षेत्रेषु अशेष दृश्यते ॥ २४.१८ ॥
ये च अक्षणदुर्गती भया नरकतिर्यग्यमस्य शासने ।
जातीजरव्याधिपीडिता अनुपूर्वं प्रशमन्ति प्राणिनाम् ॥ २४.१९ ॥

अथ खलु अक्षमतिर्हृष्टतुष्टमना इमा गाथा अभाषत -

शुभलोचन मैत्रलोचना प्रज्ञाज्ञानविशिष्टलोचना ।
कृपलोचन शुद्धलोचना प्रेमणीय सुमुखा सुलोचना ॥ २४.२० ॥
अमलामलनिर्मलप्रभा वितिमिर ज्ञानदिवाकरप्रभा ।
अपहृतानिलज्वलप्रभा प्रतपन्तो जगती विरोचसे ॥ २४.२१ ॥
कृपसद्गुणमैत्रगर्जिता शुभगुण मैत्रमना महाघना ।
क्लेशाग्नि शमेसि प्राणिनां धर्मवर्षममृतं प्रवर्षसि ॥ २४.२२ ॥
(वैद्य २५६)
कलहे च विवादविग्रहे नरसंग्रामगते महाभये ।
स्मरतो अवलोकितेश्वरं प्रशमेया अरिसंघ पापका ॥ २४.२३ ॥
मेघस्वर दुन्दुभिस्वरो जलधरगर्जित ब्रह्मसुस्वरः ।
स्वरमण्डलपारमिंगतः स्मरणीयो अवलोकितेश्वरः ॥ २४.२४ ॥
स्मरथा स्मरथा स काङ्क्षथा शुद्धसत्त्वमवलोकितेश्वरम् ।
मरणे व्यसने उपद्रवे त्राणु भोति शरणं परायणम् ॥ २४.२५ ॥
सर्वगुणस्य पारमिंगतः सर्वसत्त्वकृपमैत्रलोचनो ।
गुणभूत महागुणोदधी वन्दनीयो अवलोकितेश्वरः ॥ २४.२६ ॥
योऽसौ अनुकम्पको जगे बुद्ध भेष्यति अनागतेऽध्वनि ।
सर्वदुःखभयशोकनाशकं प्रणमामी अवलोकितेश्वरम् ॥ २४.२७ ॥
लोकेश्वर राजनायको भिक्षुधर्माकरु लोकपूजितो ।
बहुकल्पशतांश्चरित्व च प्राप्तु बोधि विरजामनुत्तराम् ॥ २४.२८ ॥
स्थित दक्षिणवामतस्तथा वीजयन्त अमिताभनायकम् ।
मायोपमता समाधिना सर्वक्षेत्रे जिन गत्व पूजिषु ॥ २४.२९ ॥
दिशि पश्चिमतः सुखाकरा लोकधातु विरजा सुखावती ।
(वैद्य २५७)
यत्र एष अमिताभनायकः संप्रति तिष्ठति सत्त्वसारथिः ॥ २४.३० ॥
न च इस्त्रिण तत्र संभवो नापि च मैथुनधर्म सर्वशः ।
उपपादुक ते जिनोरसाः पद्मगर्भेषु निषण्ण निर्मलाः ॥ २४.३१ ॥
सो चैव अमिताभनायकः पद्मगर्भे विरजे मनोरमे ।
सिंहासनि संनिषण्णको शालरजो व यथा विराजते ॥ २४.३२ ॥
सोऽपि तथा लोकनायको यस्य नास्ति त्रिभवेस्मि सादृशः ।
यन्मे पुण्य स्तवित्व संचितं क्षिप्र भोमि यथ त्वं नरोत्तम ॥ २४.३३ ॥
इति ॥

अथ खलु धरणिंधरो बोधिसत्त्वो महासत्त्व उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणाम्य भगवन्तमेतदवोचत्- न ते भगवन् सत्त्वाः अवरकेण कुशलमूलेन समन्वागता भविष्यन्ति, येऽवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्येमं धर्मपर्यायपरिवर्तं श्रोष्यन्ति अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य विकुर्वानिर्देशं समन्तमुखपरिवर्तं नाम अवलोकितेश्वरस्य बोधिसत्त्वस्य विकुर्वणप्रातिहार्यम् ॥

अस्मिन् खलु पुनः समन्तमुखपरिवर्ते भगवता निर्देश्यमाने तस्याः पर्षदश्चतुरशीतिनां प्राणिसहस्राणामसमसमायामनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पन्नान्यभूवन् ॥

इति श्रीसद्धर्मपुण्डरीके धर्मपर्याये समन्तमुखपरिवर्तो नामावलोकितेश्वरविकुर्वणनिर्देशश्चतुर्विशतिमः ॥



_______________________________________________________________________________




(वैद्य २५८)

२५: शुभव्यूहराजपूर्वयोगपरिवर्तः ।

अथ खलु भगवान् सर्वावन्तं बोधिसत्त्वगणमामन्त्रयामास - भूतपूर्वं कुलपुत्र अतीतेऽध्वन्यसंख्येयैः कल्पैरसंख्येयतरैर्यदासीत् । तेन कालेन तेन समयेन जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञो नाम तथागतोऽर्हन् सम्यक्संबुद्धो लोक उदपादि, विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् प्रियदर्शने कल्पे वैरोचनरश्मिप्रतिमण्डितायां लोकधातौ । तस्य खलु पुनः कुलपुत्रा जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञस्य तथागतस्य प्रवचने शुभव्यूहो नाम राजाभूत् । तस्य खलु पुनः कुलपुत्रा राज्ञः शुभव्यूहस्य विमलदत्ता नाम भार्याभूत् । तस्य खलु पुनः कुलपुत्रा राज्ञः शुभव्यूहस्य द्वौ पुत्रावभूताम् - एको विमलगर्भो नाम, द्वितीयो विमलनेत्रो नाम । तौ च द्वौ दारकावृद्धिमन्तौ चाभूताम्, प्रज्ञावन्तौ च पुण्यवन्तौ च ज्ञानवन्तौ च बोधिसत्त्वचर्यायां च अभियुक्तावभूताम् । तद्यथा - दानपारमितायामभियुक्तावभूताम्, शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायामुपायकौशल्यपारमितायां मैत्र्यां करुणायां मुदितायामुपेक्षायां यावत्सप्तत्रिंशत्सु बोधिपक्षिकेषु धर्मेषु । सर्वत्र पारंगतावभूताम्, विमलस्य समाधेः पारंगतौ, नक्षत्रराजादित्यस्य समाधेः पारंगतौ, विमलनिर्भासस्य समाधेः पारंगतौ, विमलभासस्य समाधेः पारंगतौ, अलंकारशुभस्य समाधेः पारंगतौ, महातेजोगर्भस्य समाधेः पारंगतावभूताम् । स च भगवांस्तेन कालेन तेन समयेन इमं सद्धर्मपुण्डरीकं धर्मपर्यायं देशयामास तेषां सत्त्वानामनुकम्पायै, तस्य च राज्ञः शुभव्यूहस्यानुकम्पायै । अथ खलु कुलपुत्रा विमलगर्भो दारको विमलनेत्रश्च दारको येन स्वमाता जनयित्री, तेनोपसंक्रामताम् । उपसंक्रम्य दशनखमञ्जलिं प्रगृह्य जनयित्रीमेतदवोचतामेह्यम्ब गमिष्यावस्तस्य भगवतो जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य सकाशं तं भगवन्तं जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञं तथागतमर्हन्तं सम्यक्संबुद्धं दर्शनाय वन्दनाय पर्युपासनाय । तत्कस्य हेतोः? एष ह्यम्ब स भगवान् जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञस्तथागतोऽर्हन् सम्यक्संबुद्धः सदेवकस्य लोकस्य पुरतः सद्धर्मपुण्डरीकं नाम धर्मपर्यायं विस्तेरण संप्रकाशयति, तं श्रवणाय गमिष्यावः । एवमुक्ते कुलपुत्रा विमलदत्ता राजभार्या विमलगर्भं दारकं विमलनेत्रं च दारकमेतदवोचत्- एष खलु कुलपुत्रौ युवयोः पिता राजा शुभव्यूहो ब्राह्मणेष्वभिप्रसन्नः । तस्मान्न लप्स्यथ तं तथागतं दर्शनायाभिगन्तुम् । अथ खलु कुलपुत्रा विमलगर्भो दारको विमलनेत्रश्च दारको दशनखमञ्जलिं प्रगृह्य तां स्वमातरं जनयित्रीमेतदवोचताम् - मिथ्यादृष्टिकुलेऽस्मिन्नावां जातौ? आवां पुनर्धर्मराजपुत्राविति । अथ खलु कुलपुत्रा विमलदत्ता राजभार्या तौ द्वौ दारकावेतदवोचत्- साधु साधु कुलपुत्रौ (वैद्य २५९)। युवां तस्य स्वपितू राज्ञः शुभव्यूहस्यानुकम्पायै किंचिदेव प्रातिहार्यं संदर्शयतम् । अप्येव नाम युवयोरन्तिके प्रसादं कुर्यात् । प्रसन्नचित्तश्च अस्माकमनुजानीयात्तस्य भगवतो जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञस्य
तथागतस्यार्हतः सम्यक्संबुद्धमभिगन्तुम् ॥

अथ खलु कुलपुत्रा विमलगर्भो दारको विमलनेत्रश्च दारकस्तस्यां वेलायां सप्ततालमात्रं वैहायसमभ्युद्गम्य तस्य पितू राज्ञः शुभव्यूहस्यानुकम्पायै बुद्धानुज्ञातानि यमकानि प्रातिहार्याण्यकुरुताम् । तौ तत्रैवान्तरीक्षे गतौ शय्यामकल्पयताम् । तत्रैवान्तरीक्षे चंक्रमतः, तत्रैवान्तरीक्षे रजो व्यधुनीताम्, तत्रैवान्तरीक्षेऽधःकायाद्वारिधारां प्रमुमोचतुः, ऊर्ध्वकायादग्निस्कन्धं प्रज्वालयतः स्म । ऊर्ध्वकायाद्वारिधारां प्रमुमोचतुः, अधःकायादग्निस्कन्धं प्रज्वालयतः स्म । तौ तस्मिन्नेवाकाशे महान्तौ भूत्वा खुड्डकौ भवतः, खुड्डकौ भूत्वा महान्तौ भवतः । तस्मिन्नेवान्तरीक्षेऽन्तर्धायतः । पृथिव्यामुन्मज्जतः । पृथिव्यामुन्मज्जित्वा आकाशौन्मज्जतः । इयद्भिः खलु पुनः कुलपुत्रा ऋद्धिप्रातिहार्यैस्ताभ्यां द्वाभ्यां दारकाभ्यां स शुभव्यूहो राजा स्वपिता विनीतः । अथ खलु कुलपुत्राः स राजा शुभव्यूहस्तयोर्दारकयोस्तमृद्धिप्रातिहार्यं दृष्ट्वा तस्यां वेलायां तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातो दशनखमञ्जलिं प्रगृह्य तौ दारकावेतदवोचत्- को युवयोः कुलपुत्रौ शास्ता, कस्य वा युवां शिष्याविति? अथ खलु कुलपुत्रास्तौ द्वौ दारकौ तं राजानं शुभव्यूहमेतदवोचत्- एष स महाराज भगवान् जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञस्तथागतोऽर्हन् सम्यक्संबुद्धस्तिष्ठति ध्रियते यापयति रत्नमये बोधिवृक्षमूले धर्मासनोपविष्टः । सदेवकस्य लोकस्य पुरतः सद्धर्मपुण्डरीकं नाम धर्मपर्यायं विस्तरेण संप्रकाशयति । स आवयोर्भगवान् शास्ता । तस्यावां महाराज शिष्यौ । अथ खलु कुलपुत्राः स राजा शुभव्यूहस्तौ दारकावेतदवोचत्- पश्यामो वयं कुलपुत्रौ तं युवयोः शास्तारम् । गमिष्यामो वयं तस्य भगवतः सकाशम् ॥

अथ खलु कुलपुत्रास्तौ द्वौ दारकौ ततोऽन्तरीक्षादवतीर्य येन स्वमाता जनयित्री तेनोपसंक्रामताम् । उपसंक्रम्य दशनखमञ्जलिं प्रगृह्य स्वमातरं जनयित्रीमेतदवोचताम् - एष आवाभ्यामम्ब विनीतः स्वपिता अनुत्तरायां सम्यक्संबोधौ । कृतमावाभ्यां पितुः शास्तृकृत्यम् । तदिदानीमुत्स्रष्टुमर्हसि । आवां तस्य भगवतः सकाशे प्रव्रजिष्याव इति ॥

अथ खलु कुलपुत्रा विमलगर्भो दारको विमलनेत्रश्च दारकस्तस्यां वेलायां स्वमातरं जनयित्रीं गाथाभ्यामध्यभाषताम् -

अनुजानीह्यावयोरम्ब प्रव्रज्यामनगारिकाम् ।
आवां वै प्रव्रजिष्यावो दुर्लभो हि तथागतः ॥ २५.१ ॥
(वैद्य २६०)
औदुम्बरं यथा पुष्पं सुदुर्लभतरो जिनः ।
उत्सृज्य प्रव्रजिष्यावो दुर्लभा क्षणसंपदा ॥ २५.२ ॥
विमलदत्ता राजभार्या आह -

उत्सृजामि युवामद्य गच्छथा साधु दारकौ ।
वयं पि प्रव्रजिष्यामो दुर्लभो हि तथागतः ॥ २५.३ ॥
इति ॥

अथ खलु कुलपुत्रास्तौ द्वौ दारकाविमे गाथे भाषित्वा तौ मातापितरावेतदवोचताम् - साधु अम्ब तात एत । वयं सर्वे सहिता भूत्वा गमिष्यामस्तस्य भगवतो जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य सकाशम् । उपसंक्रमिष्यामस्तं भगवन्तं दर्शनाय वन्दनाय पर्युपासनाय धर्मश्रवणाय । तत्कस्य हेतोः? दुर्लभो ह्यम्ब तात बुद्धोत्पादः, उदुम्बरपुष्पसदृशो महार्णव्युगच्छिद्रकूर्मग्रीवाप्रवेशवत् । दुर्लभप्रादुर्भावा अम्ब बुद्धा भगवन्तः । तस्मात्तर्हि अम्ब तात परमपुण्योपस्तब्धा वयमीदृशे प्रवचने उपपन्नाः । तत्साधु अम्ब तात उत्सृजध्वम् । आवां गमिष्यावः । तस्य भगवतो जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य सकाशे प्रव्रजिष्यावः । दुर्लभं हि अम्ब तात तथागतानां दर्शनम् । दुर्लभो ह्यद्य कालः । ईदृशो धर्मराजा । परमदुर्लभेदृशी क्षणसंपत् ॥

तेन खलु पुनः कुलपुत्राः समयेन तस्य राज्ञः शूभव्यूहस्य अन्तःपुराच्चतुरशीतिरन्तःपुरिकासहस्राणि अस्य सद्धर्मपुण्डरीकस्य धर्मपर्यायस्य भाजनभुतान्यभूवन् । विमलनेत्रश्च दारकोऽस्मिन् धर्मपर्याये चरितावी । विमलगर्भश्च दारको बहुकल्पकोटीनयुतशतसहस्राणि सर्वसत्त्वपापजहने समाधौ चरितोऽभूत्किमिति सर्वसत्त्वाः सर्वपापं जहेयुरिति । सा च तयोर्दारकयोर्माता विमलदत्ता राजभार्या सर्वबुद्धसंगीतिं सर्वबुद्धधर्मगुह्यस्थानानि च संजानीते स्म । अथ खलु कुलपुत्रा राजा शुभव्यूहस्ताभ्यां द्वाभ्यां दारकाभ्यां तथागतशासने विनीतः, अवतारितश्च, परिपाचितश्च सर्वस्वजनपरिवारः । सा च विमलदत्ता राजभार्या सर्वस्वजनपरिवारा तौ च द्वौ दारकौ राज्ञः शुभव्यूहस्य पुत्रौ द्वाचत्वारिंशद्भिः प्राणिसहस्रैः सार्धं सान्तपुरौ सामात्यौ सर्वे सहिताः समग्राः येन भगवान् जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञस्तथागतोऽर्हन् सम्यक्संबुद्धः, तेनोपसंक्रामन् । उपसंक्रम्य तस्य भगवतः पादौ शिरसाभिवन्द्य तं भगवन्तं त्रिष्कृत्वः प्रदक्षिणीकृत्य एकान्ते तस्थुः ॥

अथ खलु कुलपुत्राः स भगवान् जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञस्तथागतोऽर्हन् सम्यक्संबुद्धो राजानं शुभव्यूहं सपरिवारमुपसंक्रान्तं विदित्वा धार्म्या कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति । अथ खलु कुलपुत्रा राजा शुभव्यूहस्तेन भगवता धार्म्या कथया साधु च सुष्ठु च संदर्शितः समादापितः समुत्तेजितः (वैद्य २६१) संप्रहर्षितस्तस्यां वेलायां तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातः कनीयसो भ्रातुः पट्टं बद्ध्वा राज्ये प्रतिष्ठाप्य सपुत्रस्वजनपरिवारः, सा च विमलदत्ता राजभार्या सर्वस्त्रीगणपरिवारा, तौ च द्वौ दारकौ सार्धं तैर्द्वाचत्वारिंशद्भिः प्राणिसहस्रैः, सर्वे सहिताः समग्रास्तस्य भगवतो जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य प्रवचने श्रद्धया अगारादनगारिकां प्रव्रजिताः । प्रव्रजित्वा च राजा शुभव्यूहः सपरिवारश्चतुरशीतिवर्षसहस्राण्यभियुक्तो विजहार इमं सद्धर्मपुण्डरीकं धर्मपर्यायं चिन्तयन् भावयन् पर्यवदापयन् । अथ खलु कुलपुत्राः स राजा शुभव्यूहस्तेषां चतुरशीतीनां वर्षसहस्राणामत्ययेन सर्वगुणालंकारव्यूहं नाम समाधिं प्रतिलभते स्म । सहप्रतिलब्धाच्चास्य समाधेः, अथ तावदेव सप्ततालमात्रं वैहायसमभ्युद्गच्छति स्म ॥

अथ खलु कुलपुत्राः स राजाः शुभव्यूहो गगनतले स्थितस्तं भगवन्तं जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञं तथागतमर्हन्तं सम्यक्संबुद्धमेतदवोचत्- इमौ भगवन्मम पुत्रौ शास्तारौ भवतः । यदहमाभ्यामृद्धिप्रातिहार्येण तस्मान्महतो दृष्टिगताद्विनिवर्तितः, तथागतशासने च प्रतिष्ठपितः, परिपाचितश्च अवतारितश्च, तथागतदर्शनाय च संचोदितः । कल्याणमित्रौ भगवन्मम तौ द्वौ दारकौ पुत्ररूपेण मम गृह उपपन्नौ, यदुत पूर्वकुशलमूलस्मरणार्थम् ॥

एवमुक्ते भगवान् जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञस्तथागतोऽर्हन् सम्यक्संबुद्धस्तं राजानं शुभव्यूहमेतदवोचत्- एवमेतन्महाराज, एवमेतद्यथा वदसि । अवरोपितकुशलमूलानां हि महाराज कुलपुत्राणां कुलदुहितृणां च सर्वेषु भवगतिच्युत्युपपत्त्यायतनेषूपपन्नानां सुलभानि भवन्ति कल्याणमित्राणि, यानि शास्तृकृत्येन प्रत्युपस्थितानि भवन्ति, यान्यनुत्तरायां सम्यक्संबोधौ शासकान्यवतारकाणि परिपाचकानि भवन्ति । उदारमेतन्महाराज स्थानं यदुत कल्याणमित्रपरिग्रहस्तथागतदर्शनसमादापकः । पश्यसि त्वं महाराज एतौ द्वौ दारकौ? आह - पश्यामि भगवन्, पश्यामि सुगत । भगवानाह - एतौ खलु पुनर्महाराज कुलपुत्रौ पञ्चष्टीनां गङ्गानदीवालिकासमान्ःं तथ्ःगत्ःन्ःमर्हत्ःं सम्यक्संबुद्ध्ःन्ःमन्तिके पूज्ःं करिष्यतः, इमं च सद्धर्मपुण्डरीकं धर्मपर्य्ःयं ध्ःरयिष्यतः सत्त्व्ःन्ःमनुकम्प्ःयै, मिथ्य्ःदृष्टीन्ःं च सत्त्व्ःन्ःं सम्यग्दृष्टये वीर्यसंजनन्ःर्थम् ॥

अथ खलु कुलपुत्राः स राजा शुभव्यूहस्ततो गगनतलादवतीर्य दशनखमञ्जलिं प्रगृह्य तं भगवन्तं जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञं तथागतमर्हन्तं सम्यक्संबुद्धमेतदवोचत्- तत्साधु भगवन् । निर्दिशतु तथागतः - कीदृशेन ज्ञानेन समन्वागतस्तथागतोऽर्हन् सम्यक्संबुद्धो येन मूर्ध्नि उष्णीषो विभाति, विमलनेत्रश्च भगवान्, भ्रुवोर्मध्ये चोर्णा विभाति शशिशङ्खपाण्डराभा, सा च समसहिता दन्तावली वदनान्तरे विराजति, बिम्बोष्ठश्च भगवांश्चारुनेत्रश्च सुगतः ॥
(वैद्य २६२)

अथ खलु कुलपुत्राः स राज शुभव्यूह इयद्भिर्गुणैस्तं भगवन्तं जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञं तथागतमर्हन्तं सम्यक्संबुद्धमभिष्टुत्य अन्यैश्च गुणकोटीनयुतशतसहस्रैस्तं भगवन्तमभिष्टुत्य तस्यां वेलायां तं भगवन्तं जलधरगर्जितभोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञं तथागतमर्हन्तं सम्यक्संबुद्धमेतदवोचत्- आश्चर्यं भगवन् यावन्महार्थमिदं तथागतशासनम्, अचिन्त्यगुणसमन्वागतश्च तथागतप्रवेदितो धर्मविनयः, यावत्सुप्रज्ञप्ता च तथागतशिक्षा । अद्याग्रेण वयं भगवन्न भूयश्चित्तस्य वशगा भविष्यामः, न भूयो मिथ्यादृष्टेर्वशगा भविष्यामः, न भूयः क्रोधस्य वशगा भविष्यामः, न भूयः पापकानां चित्तोत्पादानां वशगा भविष्यामः । एभिरहं भगवनियद्भिरकुशलैधर्मैः समन्वागतो नेच्छामि भगवतोऽन्तिकमुपसंक्रमितुम् । स तस्य भगवतो जलधरगर्जितघोषसुस्वरनक्षत्रजसंकुसुमिताभिज्ञस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य पादौ शिरसाभिवन्द्य अन्तरीक्षगत एवास्थात् ॥

अथ खलु स राजा शुभव्यूहः सा च विमलदत्ता राजभार्या शतसहस्रमूल्यं मुक्ताहारं भगवत उपर्यन्तरीक्षेऽक्षैप्सीत् । समनन्तरक्षिप्तश्च स मुक्ताहारस्तस्य भगवतो मूर्ध्नि मुक्ताहारः कूटागारः संस्थितोऽभूच्चतुरस्रश्चतुःस्थूणः समभागः सुविभक्तो दर्शनीयः । तस्मिंश्च कूटागारे पर्यङ्कः प्रादुर्भूतोऽनेकदूष्यशतसहस्रसंस्तृतः । तस्मिंश्च पर्यङ्के तथागतविग्रहः पर्यङ्कबद्धं संदृश्यते स्म । अथ खलु राज्ञः शुभव्यूहस्यैतदभवत्- महानुभावमिदं बुद्धज्ञानम्, अचिन्त्यगुणसमन्वागतश्च तथागतः । यत्र हि नाम अयं तथागतविग्रहः कूटागारमध्यगतः संदृश्यते प्रासादिको दर्शनीयः परमशुभवर्णपुष्करतया समन्वागतः ॥

अथ खलु भगवान् जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञस्तथागतश्चतस्रः पर्षदः आमन्त्रयते स्म - पश्यथ भिक्षवो यूयं शुभव्यूहं राजानं गगनतलस्थं सिंहनादं नदन्तम्? आहुः - पश्यामो भगवन् । भगवानाह - एष खलु भिक्षवः शुभव्यूहो राजा मम शासने भिक्षुभावं कृत्वा शालेन्द्रराजो नाम तथागतोऽर्हन् सम्यक्संबुद्धो लोके भविष्यति, विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् विस्तीर्णवत्यां लोकधातौ । अभ्युद्गतराजो नाम स कल्पो भविष्यति । तस्य खलु पुनर्भिक्षवः शालेन्द्रराजस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य अप्रमेयो बोधिसत्त्वसंघो भविष्यति, अप्रमेयः श्रावकसंघः । समा पाणितलजाता च वैदूर्यमयी सा विस्तीर्णवती लोकधातुर्भविष्यति । एवमचिन्त्यः स तथागतोऽर्हन् सम्यक्संबुद्धो भविष्यति । स्यात्खलु पुनः कुलपुत्राः युष्माकं काङ्क्षा वा विमतिर्वा विचिकित्सा वा - अन्यः स तेन कालेन तेन समयेन शुभव्यूहो नाम राजाभूत्? न खलु पुनः कुलपुत्रा युष्माभिरेवं द्रष्टव्यम् । तत्कस्य हेतोः? अयमेव स पद्मश्रीर्बोधिसत्त्वो महासत्त्वस्तेन कालेन तेन समयेन शुभव्यूहो नाम राजाभुत् । स्यात्खलु पुनः कुलपुत्रा युष्माकं काङ्क्षा वा विमतिर्वा विचिकित्सा वा - अन्या सा तेन कालेन तेन समयेन विमलदत्ता नाम (वैद्य २६३) राजभार्याभूत्? न खलु पुनः कुलपुत्रा युष्माभिरेवं द्रष्टव्यम् । तत्कस्य हेतोः? अयं स वैरोचनरश्मिप्रतिमण्डितध्वजराजो नाम बोधिसत्त्वो महासत्त्वस्तेन कालेन तेन समयेन विमलदत्ता नाम राजभार्याभुत् । तस्य राज्ञः शुभव्यूहस्यानुकम्पायै तेषां च सत्त्वानां राज्ञः शुभव्यूहस्य भार्यात्वमभ्युपगतोऽभूत् । स्यात्खलु पुनः कुलपुत्रा युष्माकं काङ्क्षा वा विमतिर्वा विचिकित्सा वा - अन्यौ तौ तेन कालेन तेन समयेन द्वौ दारकावभूताम्? न खलु पुनः कुलपुत्रा युष्माभिरेवं द्रष्टव्यम् । तत्कस्य हेतोः? इमौ तौ भैषज्यराजश्च भैषज्यसमुन्दतश्च तेन कालेन तेन समयेन तस्य राज्ञः शुभव्यूहस्य पुत्रावभूताम् । एवमचिन्त्यगुणसमन्वागतौ कुलपुत्रा भैषज्यराजो भैषज्यसमुद्गतश्च बोधिसत्त्वौ महासत्त्वौ, बहुबुद्धकोटीनयुतशतसहस्रावरोपितकुशलमूलौ एतावुभावपि सत्पुरुषावचिन्त्यधर्मसमन्वागतौ । ये च एतयोः सत्पुरुषयोर्नामधेयं धारयिष्यन्ति, ते सर्वे नमस्करणीया भविष्यन्ति सदेवकेन लोकेन ॥

अस्मिन् खलु पुनः पूर्वयोगपरिवर्ते भाष्यमाणे चतुरशीतीनां प्राणिसहस्राणां विरजो विगतमलं धर्मेषु धर्मचक्षुर्विशुद्धम् ॥

इति श्रीसद्धर्मपुण्डरीके धर्मपर्याये शुभव्यूहराजपूर्वयोगपरिवर्तो नाम पञ्चविंशतिमः ॥



_______________________________________________________________________________




(वैद्य २६४)

२६: समन्तभद्रोत्साहनपरिवर्तः ।

अथ खलु समन्तभद्रो बोधिसत्त्वो महासत्त्वः पूर्वस्यां दिशि गणनासमतिक्रान्तैर्बोधिसत्त्वैर्महासत्त्वैः सार्धं परिवृतः पुरस्कृतः प्रकम्पद्भिः क्षेत्रै प्रवर्षद्भिः पद्मैः प्रवाद्यमानैस्तूर्यकोटीनयुतशतसहस्रैः, महता बोधिसत्त्वानुभावेन महत्या बोधिसत्त्वविकुर्वया महत्या बोधिसत्त्वद्धर्या महत बोधिसत्त्वमाहात्म्येन महता बोधिसत्त्वसमाहितेन महता बोधिसत्त्वतेजसा जाज्वल्यमानेन, महता बोधिसत्त्वयानेन, महता बोधिसत्त्वप्रातिहार्येण, महद्भिर्देवनागयक्षगन्धर्वासुरगरूडकिन्नरमहोरगमनुष्यामनुष्यैः परिवृतः पुरस्कृतः एवमचिन्त्यैरृद्धिप्रातिहार्यैः समन्तभद्रो बोधिसत्त्वो महासत्त्व इमां लोकधातुं संप्राप्तः । स येनगृध्रकूटः पर्वतराजः येन च भगवांस्तेनोपसंक्रामत् । उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य सप्तकृत्वः प्रदक्षिणीकृत्य भगवन्तमेतदवोचत्- अहं भगवंस्तस्य भगवतो रत्नतेजोभ्युद्गतराजस्य तथागतस्य बुद्धक्षेत्रादिहागतः इह भगवन् सहायां लोकधातावयं सद्धर्मपुण्डरीको धर्मपर्यायो देश्यत इति । तमहं श्रवणायागतो भगवतः शाक्यमुनेस्तथागतस्य सकाशम् । अमूनि च भगवन्नेतावन्ति बोधिसत्त्वशतसहस्राणि इमं सद्धर्मपुण्डरीकं धर्मपर्यायं श्रवणायागतानि । तत्साधु भगवान् देशयतु तथागतोऽर्हन् सम्यक्संबुद्ध इमं सद्धर्मपुण्डारीकं धर्मपर्यायमेषां बोधिसत्त्वानां महासत्त्वानां विस्तरेण । एवमुक्ते भगवान् समन्तभद्रं बोधिसत्त्वं महासत्त्वमेतदवोचत्- उद्धटितज्ञा हि कुलपुत्र एते बोधिसत्त्वा महासत्त्वाः । अपि त्वयं सद्धर्मपुण्डरीको धर्मपर्यायो यदुत असंभिन्नतथता । ते बोधिसत्त्वा आहुः - एवमेतद्भगवन्, एवमेतत्सुगत । अथ खलु यास्तस्यां पर्षदि भिक्षुभिक्षुण्युपासकोपासिकाश्च संनिपतिताः, तासां सद्धर्मपुण्डरीके धर्मपर्याये प्रतिष्ठापनार्थं पुनरपि भगवान् समन्तभद्रं बोधिसत्त्वं महासत्त्वमेतदवोचत्- चतुर्भिः कुलपुत्र धर्मैः समन्वागतस्य मातृग्रामस्य अयं सद्धर्मपुण्डरीको धर्मपर्यायो हस्तगतो भविष्यति । कतमैश्चतुर्भिः? यदुत बुद्धैर्भगवद्भिरधिष्ठितो भविष्यति, अवरोपितकुशलमूलश्च भविष्यति, निरयराशिव्यवस्थितश्च भविष्यति, सर्वसत्त्वपरित्राणार्थमनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयिष्यति । एभिः कुलपुत्र चतुर्भिर्धर्मैः समन्वागतस्य मातृग्रामस्य अयं सद्धर्मपुण्डरीको धर्मपर्यायो हस्तगतो भविष्यति ॥

अथ खलु समन्तभद्रो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्- अहं भगवन् पश्चिमे काले पश्चिमे समये पश्चिमायां पञ्चशत्यां वर्तमानायामेवंरूपाणां सूत्रान्तधारकाणां भिक्षूणां रक्षां करिष्यामि, स्वस्त्ययनं करिष्यामि, दण्डपरिहारं करिष्यामि, विषदूषणं करिष्यामि, यथा न कश्चित्तेषां धर्मभाणकानामवतारप्रेक्षी अवतारगवेषी अवतारं लप्स्यते । न मारः पापीयानवतारप्रेक्षी अवतारगवेषी अवतारं लप्स्यते, न मारपुत्रा न मारकायिका देवपुत्रा न मारकन्या न मारपार्षद्या यावन्न भूयो मारपर्युत्थितो भविष्यति । न देवपुत्रा न यक्षा न प्रेता न पूतना न कृत्या न वेतालास्तस्य धर्मभाणकस्यावतारप्रेक्षिणोऽवतारगवेषिणोऽवतारं लप्स्यन्ते । अहं भगवंस्तस्य धर्मभाणकस्य सततसमितं नित्यकालं रक्षां (वैद्य २६५) करिष्यामि । यदा च स धर्मभाणकोऽस्मिन् धर्मपर्याये चिन्तायोगमनुयुक्तश्चंक्रमाभिरूढो भविष्यति, तदाहं भगवंस्तस्य धर्मभाणकस्यान्तिके श्वेतषड्दन्तं गजराजमभिरुह्य तस्य धर्मभाणकस्य चंक्रमकुटीमुपसंक्रमिष्यामि बोधिसत्त्वगणपरिवृतोऽस्य धर्मपर्यायस्यारक्षायै । यदा पुनस्तस्य धर्मभाणकस्य अस्मिन् धर्मपर्याये चिन्तायोगमनुयुक्तस्य सतः इतो धर्मपर्यायदन्तशः पदव्यञ्जनं परिभ्रष्टं भविष्यति, तदाहं तस्मिन् श्वेतषड्दन्ते गजराजेऽभिरुह्य तस्य धर्मभाणकस्य संमुखमुपदर्शयित्वा इमं धर्मपर्यायमविकलं प्रत्युच्चारयिष्यामि । स च धर्मभाणको ममात्मभावं दृष्ट्वा इमं च धर्मपर्यायमविकलं ममान्तिकाच्छ्रुत्वा तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातो भूयस्या मात्रया अस्मिन् धर्मपर्याये वीर्यमारप्स्यते, आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातो भूयस्या मात्रया अस्मिन् धर्मपर्याये वीर्यमारप्स्यते, मम च सहदर्शनेन समाधिं प्रतिलप्स्यते, धारण्यावर्तां च नाम धारणीं प्रतिलप्स्यते, कोटीशतसहस्रावर्तां च नाम धारणीं प्रतिलप्स्यते, सर्वरुतकौशल्यावर्तां च नाम धारणीं प्रतिलप्स्यते ॥

ये च भगवन् पश्चिमे काले पश्चिमे समये पश्चिमायां पञ्चाशत्यां भिक्षवो वा भिक्षूण्यो वा उपासका वा उपासिका वा एवं सूत्रान्तधारका एवं सूत्रान्तलेखका एवं सूत्रान्तमार्गका एवं सूत्रान्तवाचका ये पश्चिमे काले पश्चिमे समये पश्चिमायां पञ्चशत्यामस्मिन् धर्मपर्याये त्रिसप्ताहमेकविंशतिदिवसानि चंक्रमाभिरूढा अभियुक्ता भविष्यन्ति, तेषामहं सर्वसत्त्वप्रियदर्शनमात्मभावं संदर्शयिष्यामि । तमेव श्वेतं षड्दन्तं गजराजमभिरुह्य बोधिसत्त्वगणपरिवृतः एकविंशतिमे दिवसे तेषां धर्मभाणकानां चंक्रममागमिष्यामि । आगत्य च तान् धर्मभाणकान् परिसंहर्षयिष्यामि समादापयिष्यामि समुत्तेजयिष्यामि संप्रहर्षयिष्यामि । धारणीं चैषां दास्यामि, यथा ते धर्मभाणका न केनचिद्धर्षणीया भविष्यन्ति । न चैषां मनुष्या वा अमनुष्या वा अवतारं लप्स्यन्ते, न च नार्योऽपसंहरिअष्यन्ति । रक्षां चैषां करिष्यामि, स्वस्त्ययनं करिष्यामि, दण्डपरिहारं करिष्यामि, विषदूषणं करिष्यामि । तेषां वयं भगवन् धर्मभाणकानामिमानि धारणीपदानि दास्यामि । तानि भगवन् धारणीपदानि । तद्यथा -

अदण्डे दण्डपति दण्डावर्तनि दण्डकुशले दण्डसुधारि सुधारपति बुद्धपश्यने सर्वधारणि आवर्तनि संवर्तनि संघपरीक्षिते संघनिर्घातनि धर्मपरीक्षिते सर्वसत्त्वरुतकौशल्यानुगते सिंहविक्रीडिते अनुवर्ते वर्तनि वर्तालि स्वाहा ॥

इमानि तानि भगवन् धारणीपदानि यस्य बोधिसत्त्वस्य महासत्त्वस्य श्रोत्रेन्द्रियस्यावभासमागमिष्यन्ति, वेदितव्यमेतत्समन्तभद्रस्य बोधिसत्त्वस्य महासत्त्वस्याधिष्ठानमिति ॥

अयं च भगवन् सद्धर्मपुण्डरीको धर्मपर्यायोऽस्मिन् जम्बुद्वीपे प्रचरमाणो येषां बोधिसत्त्वानां महासत्त्वानां हस्तगतो भविष्यति, तैर्भगवन् धर्मभाणकैरेवं वेदितव्यम् - समन्तभद्रस्य बोधिसत्त्वस्य महासत्त्वस्यानुभावेन यदस्माकमयं धर्मपर्यायो हस्तगतः समन्तभद्रस्य बोधिसत्त्वस्य महासत्त्वस्य तेजसा । समन्तभद्रस्य बोधिसत्त्वस्य (वैद्य २६६) महासत्त्वस्य चर्यायास्ते भगवन् सत्त्वा लाभिनो भविष्यन्ति । बहुबुद्धावरोपितकुशलमूलाश्च ते सत्त्वा भविष्यन्ति । तथागतपाणिपरिमार्जितमूर्धानश्च ते भगवन् सत्त्वा भविष्यति । ये इदं सूत्रं लिखिष्यन्ति धारयिष्यन्ति, मम तैर्भगवन् प्रियं कृतं भविष्यति । य इदं सूत्रं लिखिस्यन्ति, ये च अस्यार्थमनुभोत्स्यन्ते, लिखित्वा च ते भगवन्निदं सूत्रमितश्च्युत्वा त्रायस्त्रिंशतां देवानां सभागताय उपपत्स्यन्ते, सहोपपन्नानां चैषां चतुरशीतिरप्सरसां सहस्राण्युपसंक्रमिष्यन्ति । भेरीमात्रेण मुकुटेन ते देवपुत्रास्तासामप्सरसां मध्ये स्थास्यन्ति । ईदृशः कुलपुत्रा इमं धर्मपर्यायं लिखित्वा पुण्यस्कन्धः । कः पुनर्वादो ये एतमुद्देक्ष्यन्ति स्वाध्यायिष्यन्ति चिन्तयिष्यन्ति मनसि करिष्यन्ति । तस्मात्तर्हि कुलपुत्राः सत्कृत्य अयं सद्धर्मपुण्डरीको धर्मपर्यायो लिखितव्यः, सर्वदेतः समन्वाहृत्य । यश्च अविक्षिप्तेन मनसिकारेण लिखिष्यति, तस्य बुद्धसहस्रं हस्तमुपनामयिष्यति, मरणकाले चास्य बुद्धसहस्रं संमुखमुपदर्शनं करिष्यति । न च दुर्गतिविनिपातगामी भविष्यति । इतश्च्युतश्च तुषितानां देवानां सभागतायोपपत्स्यते, यत्र स मैत्रेयो बोधिसत्त्वो महासत्त्वस्तिष्ठति, द्वात्रिंशद्वरलक्षणो बोधिसत्त्वसत्त्वगणपरिवृतोऽप्सरःकोटीनयुतशतसहस्रपुरस्कृतो धर्मं देशयति । तस्मात्तर्हि कुलपुत्राः पण्डितेन कुलपुत्रेण वा कुलदुहिता वा अयं सद्धर्मपुण्डरीको धर्मपर्यायः सत्कृत्य लिखितव्यः सत्कृत्योद्देष्टव्यः, सत्कृत्य स्वाध्यायितव्यः, सत्कृत्य मनसिकर्तव्यः । इमं कुलपुत्रा धर्मपर्यायं लिखित्वा उद्दिश्य स्वाध्यायित्वा भावयित्वा मनसिकृत्वा एवमप्रमेया गुणा भविष्यन्ति । तस्मात्तर्हि तेन पण्डितेन भगवन् कुलपुत्रेण वा कुलदुहित्रा वा अयं सद्धर्मपुण्डरीको धर्मपर्यायो धारयितव्यः । एतावन्तस्तेषां गुणानुशंसा भविष्यन्ति । तस्मात्तर्हि भगवनहमपि तावदिमं धर्मपर्यायमधिष्ठास्यामि, यथा भगवन्ममाधिष्ठानेन अयं धर्मपर्यायोऽस्मिन् जम्बुद्वीपे प्रचरिष्यति ॥

अथ खलु तस्यां वेलायां भगवान् शाक्यमुनिस्तथागतोऽर्हन् सम्यक्संबुद्धः समन्तभद्राय बोधिसत्त्वाय महासत्त्वाय साधुकारमदात्- साधु साधु समन्तभद्र, यत्र हि नाम त्वमेवं बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय प्रतिपन्नः । एवमचिन्त्यधर्मसमन्वागतोऽसि महाकरुणासंगृहीतेनाध्याशयेन, अचिन्त्यसंगृहीतेन चित्तोत्पादेन, यस्त्वं स्वयमेव तेषां धर्मभाणकानामधिष्ठानं करोषि । ये केचित्कुलपुत्राः समन्तभद्रस्य बोधिसत्त्वस्य महासत्त्वस्य नामधेयं धारयिष्यन्ति, वेदितव्यं तैः शाक्यमुनिस्तथागतो दृष्ट इति । अयं च सद्धर्मपुण्डरीको धर्मपर्यायस्तस्य भगवतः शाक्यमुनेरन्तिकाच्छ्रुतः । शाक्यमुनिश्च तथागतस्तैः पूजितः । शाक्यमुनेश्च तथागतस्य धर्मं देशयतः साधुकारोऽनुप्रदत्तः । अनुमोदितश्चायं धर्मपर्यायो भविष्यति शाक्यमुनिना च तथागतेन तेषां मूर्ध्नि पाणिः प्रतिष्ठापितो भविष्यति । भगवांश्च शाक्यमुनिस्तैश्चीवरैरवच्छादितो भविष्यति । तथागतशासनपरिग्राहकाश्च ते समन्तभद्र कुलपुत्रा वा कुलदुहितरो (वैद्य २६७) वा वेदितव्याः । न च तेषां लोकायते रुचिर्भविष्यति, न काव्यप्रसृताः सत्त्वास्तेषामभिरुचिता भविष्यन्ति, न नृत्तका न मल्ला न नर्तका न शौण्डिकौरभ्रिककौक्कुटिकसौकरिकस्त्रीपोषकाः सत्त्वास्तेषामभिरुचिता भविष्यन्ति । ईदृशांश्च सूत्रान्तान् श्रुत्वा लिखित्वा धारयित्वा वाचयित्वा वा न तेषामन्यदभिरुचितं भविष्यति । स्वभावधर्मसमन्वागताश्च ते सत्त्वा वेदितव्याः । प्रत्यात्मिकश्च तेषां योनिशोमनसिकारो भविष्यति । स्वपुण्यबलाधाराश्च ते सत्त्वा भविष्यन्ति, प्रियदर्शनाश्च ते भविष्यन्ति सत्त्वानाम् । एवं सूत्रान्तधारकाश्च ये भिक्षवो भविष्यन्ति, न तेषां रागो व्याबाधिष्यति, न द्वेषो न मोहो नेर्ष्या न मात्सर्यं न म्रक्षो न मानो नाधिमानो न मिथ्यामानः । स्वलाभसंतुष्टाश्च ते समन्तभद्र धर्मभाणका भविष्यन्ति । यः समन्तभद्र पश्चिमे काले पश्चिमे समये पश्चिमायां पञ्चशत्यां वर्तमानायामस्य सद्धर्मपुण्डरीकस्य धर्मपर्यायस्य धारकं भिक्षुं पश्येत्, एवं चित्तमुत्पादयितव्यम् - गमिष्यत्ययं कुलपुत्रो बोधिमण्डम्, निर्जेष्यत्ययं कुलपुत्रो मारकलिचक्रम्, प्रवर्तयिष्यत्ययं धर्मचक्रम्, पराहनिष्यत्ययं धर्मदुन्दुभिम्, प्रपूरयिष्यत्ययं धर्मशङ्खम्, प्रवर्षयिष्यत्ययं धर्मवर्षम्, अभिरोक्ष्यत्ययं धर्मसिंहासनम् । य इमं धर्मपर्यायं पश्चिमे काले पश्चिमे समये पश्चिमायां पञ्चशत्यां वर्तमानायां धारयिष्यन्ति, न ते भिक्षवो लुब्धा भविष्यन्ति, न चीवरगृद्धा न पात्रगृद्धा भविष्यन्ति । ऋजुकाश्च ते धर्मभाणका भविष्यन्ति । त्रिविमोक्षलाभिनश्च ते धर्मभाणका भविष्यन्ति । दृष्टधार्मिकं च तेषां निवर्तिष्यति । य एवं सूत्रान्तधारकाणां धर्मभाणकानां भिक्षूणां मोहं दास्यन्ति, जात्यन्धास्ते सत्त्वा भविष्यन्ति । ये चैवंरूपाणां सूत्रान्तधारकाणां भिक्षूणामवर्णं
संश्रावयिष्यन्ति, तेषां दृष्ट एव धर्मे कायश्चित्रो भविष्यति । य एवं सूत्रान्तलेखकानामुच्चग्घनं करिष्यन्ति उल्लपिष्यन्ति, ते खण्डदन्ताश्च भविष्यन्ति, वरलदन्ताश्च भविष्यन्ति, बीभत्सोष्ठाश्च भविष्यन्ति, चिपिटनासाश्च भविष्यन्ति, विपरीतहस्तपादाश्च भविष्यन्ति, विपरीतनेत्राश्च भविष्यन्ति, दुर्गन्धिकायाश्च भविष्यन्ति, गण्डपिटकविचर्चिदद्रुकण्ड्वाकीर्णशरीराश्च भविष्यन्ति । ये ईदृशानां सूत्रान्तलेखकानां सूत्रान्तवाचकानां च सूत्रान्तधारकाणां च सूत्रान्तदेशकानां च अप्रियां वाचं भूतामभूतां वा संश्रावयिष्यन्ति, तेषामिदमागाढतरं पापकं कर्म वेदितव्यम् । तस्मात्तर्हि समन्तभद्र अस्य धर्मपर्यायस्य धारकाणां भिक्षूणां दूरत एव प्रत्युत्थातव्यम् । यथा तथागतस्यान्तिके गौरवं कर्तव्यम्, तथा तेषामेव सूत्रान्तधारकाणां भिक्षूणामेवं गौरवं कर्तव्यम् ॥

अस्मिन् खलु पुनः समन्तभद्रोत्साहनपरिवर्ते निर्दिश्यमाने गङ्गानदीवालिकासमानां बोधिसत्त्वानां महासत्त्वानां कोटीशतसहस्रावर्ताया धारण्याः प्रतिलम्भोऽभूत् ॥

इति श्रीसद्धर्मपुण्डरीके धर्मपर्याये समन्तभद्रोत्साहनपरिवर्तो नाम षड्विंशतिमः ॥



_______________________________________________________________________________




(वैद्य २६८)

२७: अनुपरीन्दनापरिवर्तः ।

अथ खलु भगवान् शाक्यमुनिस्तथागतोऽर्हन् सम्यक्संबुद्ध उत्थाय तस्माद्धर्मासनात्सर्वांस्तान् बोधिसत्त्वाअन् पिण्डीकृत्य दक्षिणेन पाणिना ऋद्धयभिसंस्कारपरिनिष्पन्नेन दक्षिणहस्तेष्वध्यालम्ब्य तस्यां वेलायामेतदवोचत्- इमामहं कुलपुत्रा असंख्येयकल्पकोटीनयुतशतसहस्रसमुदानीतामनुत्तरां सम्यक्संबोधिं युष्माकं हस्ते परिन्दामि अनुपरिन्दामि निक्षिपामि उपनिक्षिपामि । यथा विपुला वैस्तारिकी भवेत्, तथा युष्माभिः कुलपुत्राः करणीयम् । द्वैतीयकमपि त्रैतीयकमपि भगवान् सर्वावन्तं बोधिसत्त्वगणं दक्षिणेन पाणिनाअध्यालम्ब्यैतदवोचत्- इमामहं कुलपुत्रा असंख्येयकल्पकोटीनयुतशतसहस्रसमुदानीतामनुत्तरां सम्यक्संबोधिं युष्माकं हस्ते परिन्दामि अनुपरिन्दामि निक्षिपामि उपनिक्षिपमि । युष्माभिः कुलपुत्र उद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या देशयितव्या प्रकाशयितव्या । सर्वसत्त्वानां च संश्रावयितव्या । अमात्सर्योऽहं कुलपुत्रा अपरिगृहीतचित्तो विशारदो बुद्धज्ञानस्य दाता, तथागतज्ञानस्य स्वयंभूज्ञानस्य दाता । महादानपतिरहं कुलपुत्राः । युष्माभिरपि कुलपुत्रा ममैवानुशिक्षितव्यम् । अमत्सरिभिर्भूत्वेमं तथागतज्ञानदर्शनं महोपायकौशल्यमागतानां कुलपुत्राणां कुलदुहितृणां च अयं धर्मपर्यायः संश्रावयितव्यः । ये च अश्राद्धाः सत्त्वास्तेऽस्मिन् धर्मपर्याये समादापयितव्याः । एवं युष्माभिः कुलपुत्रास्तथागतानां प्रतिकारः कृतो भविष्यति ॥

एवमुक्तास्ते बोधिसत्त्व महासत्त्व भगवता शाक्यमुनिना तथागतेनार्हता सम्यक्संबुद्धेन महता प्रीतिप्रामोद्येन स्फुता अभूवन् । महच्च गौरवमुत्पाद्य येन भगवान् शाक्यमुनिस्तथागतोऽर्हन सम्यक्संबुद्धस्तेनावनतकायाः प्रणतकायाः संनतकायाः शिरांस्यवनाम्य अञ्जलिं प्रगृह्य सर्व एकस्वरनिर्घोषेण भगवन्तं शाक्यमुनिं तथागतमर्हन्तं सम्यक्संबुद्धमेतदूचुः - तथा भगवन् करिष्यामो यथा तथागत आज्ञापयति । सर्वेषां च तथागतानामाज्ञां करिष्यामः, परिपूरयिष्यामः । अल्पोत्सुको भगवान् भवतु यथासुखविहारी । द्वैतीयकमपि, त्रैतीयकमपि स सर्वावान् बोधिसत्त्वगण एकस्वरनिर्घोषेण एवं भाषते स्म - अल्पोत्सुको भगवान् भवतु यथासुखविहारी । तथा भगवन् करिष्यामो यथा तथागत आज्ञापयति । सर्वेषां च तथागतानामाज्ञां परिपूरयिष्यामः ॥

अथ खलु भगवान् शाक्यमुनिस्तथागतोऽर्हन् सम्यक्संबुद्धः सर्वांस्तांस्तथागतानर्हतः सम्यक्संबुद्धानन्येभ्यो लोकधातुभ्यः समागतान् विसर्जयति स्म । यथासुखविहारं च तेषां तथागतानामारोचयति स्म - यथासुखं तथागता विहरन्त्वर्हन्तः सम्यक्संबुद्धा इति । तं च तस्य भगवतः प्रभूतरत्नस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य रत्नस्तूपं यथाभूमौ स्थापयामास । तस्यापि तथागतस्यार्हतः सम्यक्संबुद्धस्य यथासुखविहारमारोचयामास ॥
(वैद्य २६९)

इदमवोचद्भगवानात्तमनाः । ते चाप्रमेया असंख्येयास्तथागता अर्हन्तः सम्यक्संबुद्धा अन्यलोकधात्वागता रत्नवृक्षमूलेषु सिंहासनोपविष्टाः, प्रभुतरत्नश्च तथागतोऽर्हन् सम्यक्संबुद्धः स च सर्वावान् बोधिसत्त्वगणः, ते च विशिष्टचारित्रप्रमुखा अप्रमेया असंख्येया बोधिसत्त्व महासत्त्वा ये पृथिवीविवरेभ्योऽभ्युद्गताः, ते च महाश्रावकाः ताश्च चतस्रः पर्षदः, सदेवमानुषासुरगन्धर्वश्च लोको भगवतो भाषितमभ्यनन्दन्निति ॥

इति श्रीसद्धर्मपुण्डरीके धर्मपर्यायेऽनुपरीन्दनापरिवर्तो नाम सप्तविंशतिमः समाप्तः ॥

  • * * * * *

ये धर्मा हेतुप्रभवा हेतुं तेषां तथागतो ह्यवदत् ।
तेषां च यो निरोध एवं वादी महाश्रमणः ॥