सप्टेम्बरमासस्य प्रवचनानि

सप्टेम्बर सप्टेम्बर1 – अस्माकं ज्ञानं देहबुद्धिसंलग्नम्। प्रापञ्चिकाः वदन्ति यत् विषयाणाम् अनुभवान् अनुक्षणं प्राप्नुमः, परं भगवतः अनुभवः अनुमानस्य, श्रद्धायाःचविषयः वर्तते। तेषाम् इदं कथनं मया स्वीक्रियते। प्रापञ्चिकाः प्रपञ्चं न त्यजन्ति इति एतस्य आश्चर्य़ं न अनुभवामि, परं तत् सुखं चिरकालं वर्तते इति मत्वा तस्मिन् रमन्ते इति एतस्य दुःखं भवति। मया उच्यते यत् भवताम् अनुभवानुसारं यत् सत्यं तदेव स्वीकुर्वन्तु, परं तथा भवन्तः न कुर्वन्ति। भगवतः आनन्दः न प्राप्तः तर्हि न समस्या, परं शाश्वतं सुखं विषये न वर्तते इति दृढः विश्वासः जातः चेत् महत् कार्यं जातम्। ततः एव भगवतः आनन्दः उत्पद्येत। भगवतः आनन्दः बहिस्थात् आननीयः न, अपि तु आत्मनि एव अन्वेषणीयः। साम्प्रतं विविधगवेषणैः देहसुखं भृशं वर्धितम्, परम् अन्ततः तत् दुःखस्य एव कारणम्। देहसुखार्थं बहुविधसाधनानि पुरतः सन्ति, परं तेषाम् उपभोगार्थं शरीरसामर्थ्यं, धनप्राचुर्यं वा न वर्तते तर्हि दुःखमेव भवति। सर्वैः सर्वं सुखं कदापि न लभ्यते, अतः परिश्रमानन्तरमपि जनः दुःखी एव भवति। वस्तुतः सुखं वा दुःखं वा न द्वे अपि उत्पद्येते, ते वयं भ्रमेण उत्पादयामः। मनोनुकूलं भवति चेत् सुखं, विपरीतं भवति चेत् दुःखम्। मूलतः सुखं दुःखं द्वे अपि न विद्येते। ‘अहं देही’ इति भावना यावत्पर्यन्तं वर्तते,तावत्पर्यन्तम् अनुभवेन सह भ्रमः अपि वर्तते एव। सृष्टिः आनन्दमयी वर्ततेतथापि तथा न दृश्यते इति अस्माकं भ्रमः। अस्य भ्रमस्य मूलम् आत्मनि एव वर्तते। यत्र भगवान् तत्र माया, कायानुगा छाया,च इति यथा सत्यं तथैव यत्र अनुभवः तत्र भ्रमेण भवितव्यम् एव इति नियमः। पञ्चजनानां मेलनेन प्रपञ्चः भवति, तत्र प्रत्येकं जनः स्वार्थी विद्यते, तर्हि सर्वम् सुखम् एकेन एव प्राप्तव्यम्इति कथं शक्यम्? एकस्मात् ग्रामात् स्थानान्तरितः जनः अधुना त्रिचतुर्वर्षाणि परिवर्तनं न भवति इति विचिन्त्य निश्चिन्तः भवति। अस्मिन् प्रपञ्चे आयुषः एतावती अपि निश्चितिः न वर्तते। एतदर्थं स्वजीवनस्य एकमपि क्षणं वृथा न नाशयित्वा सत्कर्मणि इत्युक्ते भगवदनुसन्धाने व्यतीतं करोमि। शत्रुणा सह कलहकरणे यानं निर्गतं वा मित्रेण सह हितकूजने यानं निर्गतं वा चेत् परिणामः समानः। तथैव प्रपञ्चे दुःखेन वा सुखेन वा भगवन्तं विस्मरामः चेत् परिणामः समानः, हानिः तु भवति एव।

      • भगवन्तं विना जगति सत्यं न वर्तते इति मनसा मन्यते चेत् प्रपञ्चः कथमपि भवेत्, सः एव परमार्थः इति चिन्तयतु।****

सप्टेम्बर2, - नामस्मरणेन स्थातव्यम् इत्युक्ते मरणातीतेन भवितव्यम्। आसन्नमरणं पुत्रं जीवापयितुं पिता देवं प्रार्थयते यत् पुत्रः जीवति चेत्‘अहं किमपि समर्पयामि।’ अर्पणं करोमि इत्युक्ते ममत्वं त्यजामि, तर्हि सः अद्यैव म्रियते चेत् का हानिः? पुत्रः जीवेत् इति मन्यते तत् तु स्वसुखाय एव। कदाचित् सः म्रियते इति यः सम्यग् जानाति सः ईदृशीं प्रार्थनां न करोति। जन्ममरणचक्रात् मोचनस्य अपेक्षया केवलं मरणात् मुक्तेः याच्ञा कियती अयोग्या। सः एव यथार्थःभक्तः यः देवःसत्पुरुषः वा किं याचनीयः इति जानाति। मरणस्य कारणमेव त्यक्तव्यम्। मृत्युः तु आयाति तर्हि उत्तमम्, मृत्युः भवेत् इति किमर्थं न मन्यामहे? यस्मात् अनन्तरं पुनः जन्म न भवेत् तादृशं मरणम् उत्तमम्। मृतस्य वयं शोकं कुर्मः। अद्य देवः लुप्तः इति वदामः, तत् तु स्वार्थाय। आत्मनः विस्मरणं,‘कः अहम्’ इति एतस्य अज्ञानं च इति मरणसदृशम् एव वर्तते। एतदर्थम् आगतः अवसरः न त्यक्तव्यः। यावत्पर्यन्तं बुद्धिः स्थिरा तावत्पर्यन्तं कार्यं साधनीयम्। अस्माकम् अद्यतनी बुद्धिः श्वः न भविष्यति। संकल्पविकल्पैः वयं त्रस्ताः। अतः यस्यां वासनायां वयं जनिं प्राप्नुमः तां वासनाम् एव नामजपेन हन्मः। नामजपे वर्तनम् इत्युक्ते वासनामारणम्। तदेव मरणातीतेन भवितव्यम्। भागवतत्वेन भवितव्यम् इति एव मरणमोचनस्य वास्तवः उपायः। कालस्य कालं जानीमः चेत् मरणभयं कथम्? ज्ञानी मरणस्य चिन्ताम् एव न करोति। केवलं जीवामः चेत् न योग्यम्। जीवनं कस्मैचित् हेतवे ध्येयार्थं वा भवेत्। भगवदनुसन्धाने एव जीवितव्यम्। सः एव भाग्यदिवसः यस्मिन् दिवसे नामस्मरणे देहान्तः भवेत्। वस्तुतः वयं प्रतिदिनं जीवामः, म्रियामहे च। स्वपित्वा यदि न जागर्ति तर्हि तत् मरणमेव। निद्रा तु प्रकारान्तरेण मृत्युः। अतः नामस्मरणं कुर्वन्तः निद्रामः। तेन जागरणसमये अपि नामस्मरणं भवेत्। परं निद्रासमये मुखेन नामजपं कर्तुं पूर्वाभ्यासः आवश्यकः। जागृत्याम् अभ्यासः न क्रियते चेत् निद्रासमये भिन्नविचाराः एव उत्पद्यन्ते। नामस्मरणं विहाय अन्यविचारे एव सहसा जनः निद्राति। निरन्तरं नामस्मरणं न कुर्मः चेत् अन्तसमये तत् कथं भवेत्? अभ्यासः पूर्वं न कृतः चेत् परीक्षासमये कथं स्मरेत्? तदर्थं नामस्मरणस्य अभ्यासः अद्यैव आरभामहे।

      • मम मरणं मया नेत्राभ्यां दृष्टम् इत्युक्ते मम वासना सम्पूर्णा क्षीणा जाता इति अनुभवनीयम्।*****

सप्टेम्बर3, - साधनायां पूर्णः भावः अपेक्षितः, सिषाधयिषा अपि आवश्यकी। स्वस्वभावानुकूलं प्रत्येकं जनः येन केनापि प्रकारेण भगवतः परिचयं प्राप्तुं शक्नोति। मारुतिः दास्यभक्तिं कृतवान्। दशरथः पुत्रं देवः इति अमन्यत। भगवान् आत्मीयः कथं भवेत् इति भवन्तः चिन्तयन्तु। भगवत्प्राप्त्यर्थं भक्तिः उत्तमं साधनं वर्तते। मनुष्यः व्यसने यथा प्रीणाति तथैव भगवति यदि प्रीणाति तर्हि सर्वं कार्यं सिद्ध्येत्। हठिनः, व्यसनिनः च जनाः एकेन प्रकारेण साधवः। तेषां मनः कथयति यत् व्यसनेन तेषां दारपुत्राणां हानिः भवति, तथापि ते हठेन व्यसनं न त्यजन्ति। एषः हठः यदि भगवति योजितः तर्हि परमार्थः। मम गुणदोषान् यदि अहं भगवते अर्पयामि तर्हि सा अर्पणभक्तिः। वयं देवभक्तिं कुर्मः, परं यथार्थं प्रेम देवे न उद्भवति। यतो हि अस्माकं दृष्टिः चतुर्दिशि प्रविभक्ता वर्तते। प्रथमं सा एकाग्रा करणीया। अल्पं करणीयं, परम् एकाग्रेण भूत्वा करणीयम्। परमार्थः ग्लायन् न करणीयः। स्वभावनां प्रकटीकर्तुं योग्या दिक् कथं लभ्येत इति द्रष्टव्यम्। परमात्मा पण्ढरपुरे वर्तते इति सत्पुरुषाः वदन्ति, परं वयं तत्र पाषाणमेव पश्यामः। एषः कस्य दोषः? अस्माकं भावनायाः। यथा भावना तथा कृतिः। भगवन्तं प्रति पूर्णः भावः आवश्यकः। दीपः किञ्चित् दूरं गच्छति चेत् मार्गभ्रष्टाः भवामः, अतः सततं भगवन्तम् अवधाय व्यवहर्तव्यम्। साधनायां बलं भवेत्। तालस्वरं विना प्रेम न विद्यते इति न। यस्य़ कृते भजनं गायामि सः शृणोति इति मत्वा गेयम् इति पर्याप्तम्। भगवतः एव अस्मि इति मन्तव्यम्। तस्य कृपा कदा भवति इति सिषाधयिषा भवेत्। यत् मया क्रियते तत् मनसा करोमि इति द्रष्टव्यम्। अतीतस्य दुःखं न करणीयम्। श्वस्तनी चिन्ता मास्तु। वर्तमानक्षणस्य अनुसन्धानं कर्तव्यम्। भगवान् साक्षात् पुरतः स्थितः वर्तते इति मत्वा नामस्मरणं करणीयम्। प्रत्येकं नामजपे भगवान् कर्ता इति वक्तव्यम्। तेन अभिमानः मध्ये न आगच्छेत्। लाभहानिविषये उदासीनत्वम्इति भक्त्याः वास्तवा उन्नतिः। देहकर्तव्यमर्यादायांनिबद्धा विषयवृत्तिः भगवन्तं प्रति योजनीया इति एव वास्तवं सीमोल्लघनम्। सङ्कुचितः, स्वार्थी, मत्सुखार्थमेव सर्वं जगदिति यस्य बुद्धिः च सः अभिमाऩी। मनुष्यः यावान् स्वार्थी तावान् पराधीनः। पञ्चजनेभ्यः सुखप्राप्तिः इत्युक्ते प्रपञ्चः,एकस्मात् सुखप्राप्तिः इत्युक्ते परमार्थः।

        • भगवान् वर्तते एतया भावनया आरभणीयम्, भगवान् एव वर्तते एतया भावनया समापनीयम्।****

सप्टेम्बर4 - अभिमानरहितत्वं विना भक्तिः न शक्या। बाह्यजगतः आघातैः अस्माकं या प्रतिक्रिया – सुखस्य, दुःखस्य, अभिमानस्य, कामस्य, लोभस्य वा अन्या कापि - तस्याः नाम वृत्तिः। एषा वृत्तिः स्थिरा स्थातव्या इति एव वस्तुतः परमार्थः। एषा वृत्तिः परमात्मानं प्रति नेतव्या इति एतस्याः नाम भक्तिः। परमात्मभक्त्या विषयः सहजं नश्यति। भक्तिः अति स्वाभाविकी। प्रत्येकं जनेन साइष्यते। यतो हि भक्तिः इत्युक्ते रुचिः। कामपि रुचिं विना तु जनः असंभवः। परम् अभिमानरहितत्वं विना हि भक्तिं कर्तुं न शक्यते। भक्तिं विना भगवतः प्राप्तिः अशक्या। भगवतः प्रेम सः एव दातुं शक्नोति, न अन्यः। भगवान् भक्तः न द्वौ। यथा भगवान् सर्वत्र तथा भक्तः अपि सर्वत्र। भक्तः भगवन्मयः भवति अतः सः सर्वत्र आनन्दं पश्यति। ‘अहं न,त्वम्( भगवान्) एव ’ अथ वा ‘ अहं सः(भगवान्) अस्मि’ इति एतयोः ज्ञानं तथा तदनुसारं कृतिः इति एव परमार्थतत्त्वज्ञानस्य सारः। इमं प्राप्तुं भगवतः अनुसन्धानमेव मुख्यं साधनम्। साम्प्रतं भगवन्तं द्रष्टुम् एकः एव उपाय़ः, भगवतः नामजपः। नान्यः पन्था:। नैके प्रवाहाः गङ्गामातरि सम्मिलन्ति तथापि तस्याः पावित्र्यम् अबाधितं वर्तते तथैव अस्माकं प्रपञ्चः कियानपि प्रदूषितः स्यात् तस्मिन् भगवत्स्मरणं भवति चेत् तस्य प्रदूषणं क्व अवशिष्येत? भगवतः स्मरणमेव सर्वतीर्थानां राजा। नामस्मरणं विना न पन्था:। भगवद्विस्मरणकारणपरित्यागः एव वैराग्यम्। भगवत्स्मरणकृतयः एव विवेकः। रामराजस्य अन्तःकरणं यथा कर्तव्यकठोरं तथा भक्तस्य कृते अतिकोमलम्। कर्तव्यार्थं तेन सीता वने त्यक्ता तथा च भक्तप्रेमार्थं भरतः पालितः। मम कथनं भवन्तः यावत् आचरन्ति तावत् लाभाय। सर्वे नामस्मरणं कुर्वन्तु। नामस्मरणसदृशः अन्यः मार्गः न विद्यते। यत् सहजम् आत्मनः समीपे वर्तते, यत् अत्यन्तम् उपाधिरहितं, न कस्योपरि अवलम्बितं, तत् यदि वर्तते चेत् तत् भगवन्नाम। शुद्धमनसा शुद्धचेतसा च यः स्वीकरोति तस्य कल्याणं रामः निश्चयेन कुर्यात्।

            • सर्वसृष्ट्याः रामस्वरूपदर्शनमेव भक्त्याः फलम्।**************

सप्टेम्बर5, - नाम मायादीपः एव। कदाचित् काचित् महिला शुचिवस्त्रं धृत्वा पाचनकार्यं कुर्वती आसीत्। तस्याः निद्रातः उत्थितेन बालकेन शय्यायाम् एव ‘अम्ब मां गृह्णातु’ इति वदता रोदनम् आरब्धम्। अम्बा उक्तवती, ‘वत्स, त्वां स्वीकर्तुम् आतुरा अहं, परं वस्त्राणि निष्कास्य आगच्छतु।’ परन्तु बालकः वस्त्राणि निष्कासयितुं न सिद्धः। ‘अम्ब, अम्ब’इति आहूय सः रुदन् आसीत्। तदा प्रतिवेशिनी महिला तत्रागत्य तस्य वस्त्राणि निष्कासितवती। अनन्तरं माता बालकं हृदये धृतवती। अस्माकमपि तद्बालकसदृशं जातमस्ति। वासनाः, विकाराः, अहंभावः चेत्यादीनां वस्त्राणि न निष्कास्य वयं परमेश्वरेण मेलितुमिच्छामः। तेन सह मेलनं कथं शक्यम्? परमेश्वरः मात्रा सदृश:प्रेमी ममतालुः च वर्तते। सः अस्माभिः मेलितुम् अत्यन्तमिच्छति। परं यावत् वयम् अपवित्राणि वस्त्राणि न निष्कासयामः, तावत् सः न स्वीकरोति। सत्पुरुषाः अस्मान् परमेश्वरं गन्तुं मार्गं कथयन्ति। तेन मार्गेण गच्छामः चेत् निश्चयेन वयं परमेश्वरं प्राप्तुं शक्नुमः। भवद्भिः पुराणेषु श्रुतं स्यात् यत् श्रीकृष्णेन मेलितुं यदा दुर्योधनार्जुनौ गतवन्तौ तदा कृष्णः आह,“यः मामिच्छति सः मम सैन्यम् इतरविषयान् च प्राप्तुं न शक्नोति।” तत् श्रुत्वा दुर्योधनः सर्वं सैन्यं याचितवान्। अर्जुनः प्रमुदितः यत् इष्टं वस्तु एव तेन प्राप्तम्, यतो हि सः ज्ञातवान् यदेकं परमेश्वरं विना सर्वं व्यर्थम्। प्राणान् विना सहस्रशरीराणां कः उपयोगः? कश्चन अस्मान् वदेत् यत् परमेश्वरः सप्तसमुद्रात् परं वर्तते। सः शेषशायी। अस्मत्सदृशाणां सामान्यानां कृते सः दुर्लभः। परं सत्पुरुषाः अस्मासुमहान्तम् उपकारं कृतवन्तः। तैः नामस्वरूपः मायादीपः अस्मभ्यं दत्तः। तस्मिन् सत्सङ्गतितैलं योजयामः चेत् पर्याप्तम्। एषः दीपः न निर्वपेद्एतदर्थं प्रयत्नाः करणीयाः। त्रिवारम् अहं सत्यं कथयामि यत् नीत्या व्यवहृत्य यः नामस्मरणे भवति सः निश्चयेन नामप्रेम प्राप्स्यति। नीतिः सर्वेषाम् अधिष्ठानम्। अधिष्ठानं विना भवनं दृढं न भवितुम् अर्हति। विषयत्रयम् आचरन्तु। परस्त्रीं मातृसमं मन्यन्ताम्। परधनं परनिन्दां च विष्ठासमं मन्यन्ताम्। तथैव कदापि नामजपः न त्यज्यन्ताम्। भगवत्प्रेम भवन्तः निश्चयेन् प्राप्नुयुः।

      • मुखे नाम भवतु। सदाचरणेन व्यवहृत्य प्रपञ्चः करणीयः।****

सप्टेम्बर6, - ‘श्रीरामः कर्ता’ इति एतया भावनया समाधानं प्राप्यते। उषःकालः बहु उत्तमः। अस्मिन् समये कश्चन मानसपूजां करोति चेत् सुयोग्यम्। अन्ये केचन तदा निद्रायां स्युः। केचन मनोराज्ये स्युः। उषःकालतः रात्रिपर्यन्तं प्रत्येकं जनः राजा वा रङ्कः वा, एकमेव इत्युक्ते समाधानं प्राप्तुं प्रयतते। प्रत्येकं जीवः समाधानम् आकर्षति। वस्तुतः सत्यं समाधानम् अन्यं कमपि न अवलम्बते। तत्‘श्रीरामः कर्ता’ इति भावनया एव प्राप्तुं शक्यते। समाधानलाभाय एकं सरलं साधनं सर्वैः सत्पुरुषैः स्वयम् अनुभूय अस्माकं कृते कथितं वर्तते। तदस्ति नामस्मरणम्। पिपासा भवति चेत् कस्याः अपि नद्याः जलं पीत्वा शमनं भवति। तद्वत् सिषाधयिषा वर्तते चेत् सहजं नामस्मरणेन समाधानं प्राप्यते। उषःकाले कृतः अभ्यासः सम्यक् भवति इति वदन्ति, अतः नामस्मरणाभ्यासं वयम् उषःकाले आरभामहे। ‘काकडा’र्तिक्यानन्तरं देवस्मरणं स्थगनीयं इति न। निरन्तरं ‘काकडार्तिक्यम्एव करणीयम् इति अपि न। भगवतः अखण्डस्मरणं भावः च आवश्यकौ। इदं कुर्मः चेत् पर्याप्तम्। मम विश्वासः वर्तते यत् भवन्तः प्रेम्णा आर्ततया च अभ्यासं करिष्यन्ति। तेन रामः भवतां कल्याणं करिष्यति। नामस्मरणसमये इतरविचाराः मनसि उत्पद्यन्ते इति सर्वेषाम् आक्षेपः। परं पश्यन्तु, कश्चन मनुष्यः मार्गेण गमनसमये तेन कः मिलेत् इति तस्याधीनं न। तं कश्चन पृच्छति,‘ भवता मार्गे के मिलिताः?’ तदा सः वदति, ‘मम ध्यानं न आसीत्।’ तथैव नामस्मरणसमये अन्ये विचाराः दुर्लक्षणीयाः। तेषामनुधावनं न करणीयम्। तद्विषये चिन्तयन् वृथा समययापनं न करणीयम्। ‘अहं विचारान् विस्मरामि...विस्मरामि।’ इति वदन् विस्मरणं भवति किम्? नामजपः अधिकः अवधातव्यः। विचाराणां विस्मरणं भवति। अनन्तरं ते न उत्पद्यन्ते। अयोग्यमार्गेण गच्छामः चेत् पुनः तेन अयोग्येन मार्गेण विपरीतं चलितव्यं भवति। यदा योग्यमार्गः आगच्छति तदा तेन मार्गेण गन्तव्यं भवति। एषः एव अभ्यासः। ध्येयप्राप्तिपर्यन्तम् इदं निरन्तरं करणीयम्। एषा एव तपश्चर्या। ब्रह्मानन्दबुवा सत्यं तप: आचरितवान्। एतावान् सः विद्वान्, परं सः सर्वां स्वबुद्धिं रामचरणयो: योजितवान्। जगति विद्यमानानाम् अन्यविषयाणाम् अपेक्षया अनेन एव स्वकल्याणं निश्चितं भवेत्इति सः अमन्यत। अतः एनं मार्गं स्वीकृत्य सर्वस्वं तदर्थं समर्पितवान्। तदा ज्येष्ठाः साधकाः येन मार्गेण गतवन्तः तेन मार्गेण निःसंशयः भूत्वा गन्तव्यम्। तदेव अस्माकं कल्याणम्।

        • नामस्मरणे भूत्वा ‘रामः कर्ता’ इति भावं दृढं कुर्वन्तु।****

सप्टेम्बर7, - धनं नीतिधर्मेण अर्जयन्तु। कारणं विना चिन्ताकरणस्य केषाञ्चन जनानां व्यसनमेव भवति। व्यवहारे चिन्ता एकः महान् विकल्पः वर्तते। धनकारणेन यदि चिन्ता भवति तर्हि तस्य धनस्य एवदूरीकरणेन का हानिः? धनं मा त्यजन्तु, परं धने मा स्निह्यन्तु अपि। अत्यन्तं परिश्रमं कृत्वा यत् अर्जनीयं तदेव यदि दुःखस्य कारणं तर्हि तेन किम्?धनं न जीवनस्य सर्वस्वम्, न वा सर्वश्रेष्ठं ध्येयम्। व्यवहारे जीवनार्थं धनम् आवश्यकम्। नीत्या व्यवहृत्य तत् अर्जनीयम्। धनप्राप्तिः व्यवहारदृष्ट्या योग्या एव। परं यदि तत् न प्राप्यते तर्हि जीवनं व्यर्थम् इति न चिन्तनीयम्। वित्तं प्राप्यते चेत् परमेश्वरेच्छया, कदाचिद् गच्छति चेदपि तस्यैव इच्छया इति विचिन्त्य स्वसमाधानं न दूषणीयम्। धनं गतं चेत् प्रतिष्ठा न गता। अस्माकं प्रतिष्ठा अस्माकम् आचरणम्अवलम्बते। लोकोक्तिः वर्तते यद् व्ययीकृत्य किञ्चिद् अवशिष्येत् तावदेव धनं प्राप्येत। परं जगति वयं किं पश्यामः? सम्पूर्णं जीवनं व्ययीभवति धनम् अस्मदुपरि नृत्यति च। एतस्मात् विपरीतम् अस्माभिः तस्योपरि नर्तनीयम्। मनुष्यः सदा वदति, ‘ पुत्राणां व्यवस्था तु करणीया। अहं तु नश्वरः, अद्य अस्मि, श्वः नास्मि।’ परं यथा वयं नश्वराः तथैव पुत्राः अपि नश्वराः। परं जनाः इदं न चिन्तयन्ति। धनविषये रामचन्द्रः निराशः जातः इति योगवासिष्ठे वर्णनं वर्तते। तत् अस्माकं कृते अपि योग्यम्। भेदः केवलं एतावद् यद् रामस्य नैराश्यं धनास्तित्वेन, अस्माकं धनाभावेन च। धनाभावेन वयं निराशाः, यतो हि धनं प्रपञ्चे सुखसाधनं वर्तते। वयं भगवन्तमपि इच्छामः। अधुना वयम् अस्माकं धनस्य समानं भागद्वयं कुर्मः। प्रपञ्चार्थमावश्यकं धनं प्रामाणिकतया प्राप्तव्यम्। अधिकस्य तृषा न भवेत्। एतावत् स्वधनम्। अवशिष्टं सर्वम् अन्येषाम्। तस्य लोभः मास्तु। श्रीमान् धनार्थं सर्वं जीवनं व्ययीकरोति। परं तत् तम् आमूलं नाशयति। अतः नारायणस्मरणेन धनमर्जयामः चेत् तत् अस्मान् न नाशयति, अपि तु अस्माकं कृते आनन्दकारणं भवति।

*** धनं नीतिधर्मेण एव प्राप्तव्यम् येनकेनापि मार्गेण न।****

सप्टेम्बर8, - अल्पमेव पठनीयं, परं मनटनीयम्, आचरणीयं च। माया इत्युक्ते किम्? यत् परमात्मानं विना विद्यते सा माया। यत् दृश्यते, नश्यति च सा सर्वा माया। यावत् वयं नामस्मरणे स्मः, तावत् मायायाः बहिः स्मः। यदा तस्य विस्मरणं भवति तदा मायाधीना: स्मः इति मन्तव्यम्। सर्वम् आचरणे वर्तते, न तु कथने वा श्रवणे। कियदपि निर्गुणस्य वर्णनं कुर्मः तत् न अवगम्यते। अतः सगुणरूपमेव द्रष्टव्यं, पूजनीयं च। अहं निर्गुणं पूजयामि इति वदता जनेन वस्तुतः न किमपि अवगम्यतेयतः तत्र वक्ता न अवशिष्यते। कश्चन मामुक्तवान्, “मया सर्वे वेदान्तग्रन्थाः पठिताः।” अहम् अभणं, “तर्हि भवता समाधानं प्राप्तं स्यात्।” तदा सः आह, “तदेव न प्राप्तम्।” एतावता पठनेन कः लाभः? तेन वेदान्तेन किं करणीयम्? वयं केवलं निष्कपटां भक्तिमेव कुर्मः। देवम् अनन्यशरणं गत्वा तस्य नामस्मरणं कुर्मः चेत् तेन सर्वं लभ्यते। यः भोजनम्आरभते, सः मम उदरं पूरयेत् इति शब्दैः वदति किम्? परं भुक्त्वा उदरं पूरयति एव। ग्रन्थे पठितम् अस्माभिः यदि न आचरितं, तर्हि पठनेन किम्? अतः बहु पठनं न कुर्मः, तेन वास्तवा साधना दूरीभवति, पठनस्य एव अभिमानः वर्धते च। अतः स्वल्पं पठनीयं तदेव मननीयं च। शरीरस्य लघुभागः घट्टितः चेदपि वेदना सर्वाङ्गे भवति। तथैव एकां घटिकामपि देवस्मरणे यापयामः चेदपि सम्पूर्णं दिनं प्रभावितं भवति। दिवसानामेव मासः, मासानां वर्षं, वर्षाणामेव आयुः भवति.। एतेन प्रकारेण अस्माकं सर्वम् आयुः भगवत्स्मरणे गच्छेत्। प्रपञ्चस्य रुचिः न भवेत्,परं प्रपञ्चे विद्यमानस्य कर्तव्यस्य रुचिः भवेत्। प्रपञ्चकर्तव्यकरणं पवित्रं, परं तस्मिन् आसक्तैः न भवितव्यम्। मनसा अस्माभिः भगवतः भवितव्यम्। मनसा भगवन्तं स्मरामः चेत् सः अस्मान् सुखसमाधाने निश्चयेन संस्थापयेत्। प्रपञ्चे सुखी इत्युक्ते भगवतः एव भवितव्यम्। देव:स्वीकरणीयः इत्युक्ते तस्य यत् प्रियं तदेव आचरणीयम्, इति एव परमार्थस्य सार:।

        • देहान्तः कदा भवेत् इति एतस्य न नियमः। अतः वृद्धकाले नामस्मरणं करिष्यामः इति न वक्तव्यम्।*****

सप्टेम्बर9, - भगवतः विस्मरणमेव पापम्। वस्तुतः भगवतः अस्तित्वं यत्र वयं पश्यामः तत्र वर्तते। भगवान् वर्तते उत न इति ज्ञातुमेव बुद्धेः उपायनमस्माभिः प्राप्तं वर्तते। भगवतः रहस्यमवगन्तुं मया कथं व्यवहरणीयमिति द्रष्टव्यम्। यैः भगवान् ज्ञातः तैः तस्मै किं रोचते इति उक्तम्। “सर्वाः विषयवासनाः त्यक्त्वा भगवान् शरण: गन्तव्य:”इति तेषां कथनस्य सारः। इदमाप्तवाक्यम् अस्माभिः प्रमाणं मन्तव्यम्। यतो हि आत्मना अनुभूय मुक्तिंप्राप्य च तैः अस्मभ्यं मुक्तिमार्गः दर्शितः। जन्ममरणात् यः अस्मान् मोचयति सः वास्तवः आप्तः। ये भगवतः भूत्वा स्थिताः ते जगतः न बिभ्यति। वयं विषयान् सदा शरणं गच्छामः किल। तर्हि भगवन्तं शरणगमनात् किमर्थं भयम्? वस्तुतः सर्वे चमत्काराः शक्याः, परं भगवच्छरणगमनं दुष्करम्। नामस्मरणमारभते चेत् विषयाः रभसा अनुधावन्ति, इत्युक्ते अहमन्तर्बाह्यं विषयैः कियान् पूरितः अस्मि! तथापि किमपि भवेत्, नामस्मरणं प्रवर्तनीयम्। प्रपञ्चे दुर्विचाराः मनसि नोद्भवन्ति किम्? तर्हि परमार्थे तथा भवति चेत् किमर्थं भेतव्यम्? प्रह्लादेन एकवारं नामजपः आरब्धः, परमन्तपर्यन्तं न त्यक्तः। नाम्ना एव सः रक्षितः। तया भावनया एव सः उद्धरितः। अतः एतां भावनां वर्धयितुं नामस्मरणम् अखण्डं करणीयम्। अस्माकं पापानि मनसि नानेतव्यानि। मम पूर्वसंस्कारम्अहं बुद्ध्या एव निश्चिनोमि, किम् न, वा?स्वमनः स्वं खादति। तदर्थं किं करणीयम्? अतीतं परिष्कर्तुं न शक्नुमः। परं वर्तमानक्षणं न वृथा यापयन्तु। न कदापि निराशा: भवन्तु। प्रत्येकं साधनं स्वतः उत्तममेव। साधनं तु पतिव्रतासमं मन्तव्यम्। भगवतः भवितव्यम् इति एव सर्वेषां साधनानां धर्माणां च मूलं वर्तते इति मनसि दृढं निधातव्यम्। प्रपञ्चं पूर्णं कर्तुमाजीवनं वयं प्रयतामहे, तर्हि भगवन्तं योजयितुंस्वल्पं कष्टं वा किमर्थंन करणीयम्? वस्तुतः भगवतः विस्मरणं विना न किमपि महत् पापम्। देवस्य इच्छा देवबुद्धिः तथा विषयस्य इच्छा देहबुद्धिः। वासना इत्युक्ते देवविरुद्धा अस्माकमिच्छा। एषा वासना, इत्युक्ते विषयाणाम् इच्छानिच्छा यथा यथा न्यूनीभवति तथा बुद्धिः नामस्मरणे स्थिरीभवति। अनया पद्धत्या ‘त्वमसि नाहम्’ इति एतां स्थितिं नामस्मरणेन वयं प्राप्नुमः तदा एव ‘परमेश्वरः मया योजितः’‘अहं भगवतः जातः’ वा इति सार्थं वयं वक्तुं शक्नुमः। निदिध्यासेन आनन्दसाक्षात्कारः इति एव मोक्षः।

      • भगवन्तं प्रति एकदा दृष्टिः लग्ना चेत् अन्येषां त्यागः सहजं भवति। ***

सप्टेम्बर१०–रामपदेभवतु.मनः।नामस्मरणंअहोरात्रम्।। रामःरामइतितारकमन्त्रःनिराकारः।कुर्वन्तुवारंवारंएषःजपः।।इदम्एकंकुर्वन्तु।दृढंरामंधरन्तु।संसारंपुनःनायान्तु।।नागमनंपुनः,कथितामयायुक्तिः।सदाह्वयनीयःजानकीपतिः।।पार्वतीरमणःजपतिरामनाम।विषयदहनंतेनजातम्।।दीनदासःवदतिवाल्मिकिःउद्धरितः।पापीअजामीळःअपिउद्धरितः।।यस्यरामनामछन्दः।तेनस्मर्यतेसदागोपालः।।सर्वदाबुद्ध्यासत्सङ्गः।श्रीपतिनासहयोजितःसः।।त्रिषुलोकेषुश्रेष्ठंरामनाम।विवेकेनसःजपतिअनिशम्।।हनुमतालङ्कांप्रतिकृतम्उड्डयनं।हृदयेआसीत्रामनाम।।दीनदासःवदतिवानराःतरिताः।कोटिशःजनाःउद्धरिताः।।येजनाःरामनामविनासाधनंवदन्ति।तेस्वप्नेजल्पन्ति।।यथास्वप्नविचारःतथासंसारः।तम्असारंत्यक्त्वारामंस्वीकुर्मः।।रामनामयदिवाग्उच्चरति।भस्मसात्सर्वंपापंभवति।।लभ्यतेरत्नराशिःसिन्धुमथनेन।तथैववर्ततेरामनामसाधनम्।।वेदखण्डनं, योगपाखण्डं।करोतितस्यतुण्डंभवतुकृष्णम्।।मनःएवरामः, देहेआत्मारामः।द्रष्टव्यःजनेषुमेघश्यामः।।एवंदृष्ट्वास्वरूपेनिमीलनं।मुखेनभवतुरामस्मरणम्।।नारायणनाम्नाप्रल्हादःतरितः।अजामीळःतद्रूपःजातः।।एकात्मःजातःमहामुनिवसिष्ठः।चापपाणिःतस्यवशीजातः।।दीनदासःवदति,यःरघुनाथंस्मरति।तस्यसंसारचिन्तानभवति।।जनेषुजनार्दनः, रामस्यचिन्तनं।रामनामएवसत्यस्यखातम्।।गोमातुःरक्षणम्एवभूतदया।अतिथयेअन्नंदातव्यंत्वया।।सत्सङ्गःसदा, विषयत्यागः।रामनामस्मरणेभवतुतल्लीनः।।रामः, कृष्णः, हरिःस्वरूपेएकता।अवतारलीलाभिन्नाभिन्ना।।दीनदासःवक्तिध्यानकरणेन।रक्षणीयंसदाआत्मज्ञानम्।।प्रयत्नाःसर्वेविविधसाधना।हस्तेआमलकःइवसर्वम्।।अतःरामंस्मरन्त्यागः।साधनीयःयोगः।।रामनाम्निविश्वासः।वृथानगच्छेत्श्वासः।।एवंकुर्वन्तुसंसारे।नगच्छन्तुवृथाअन्यमार्गे।।दीनदासवचनंनचिन्तयन्तु.फल्गु।भक्तवत्सलंरामंहृदयेधरन्तु।।मनसःपृष्ठतःनानुधावन्तु।आपृच्छेअधुना,कृपाभवतु।।रामपाठःअद्यकथितःमया।अन्यकार्यंकिमपिनास्तिअधुना।नित्यपाठःमाणगङ्गातटे।तेनअधिकारीमोक्षार्थंभव।।ब्रह्मचैतन्यनामसद्गुरुकृपया।दीनदासःजपतिरामःसदा।।

      • मनसिभवतुरामः।हस्तेनकर्म।मास्तुकदापि.हिवृथाश्रमः।।****

सप्टेम्बर 11, - चिकित्सा मर्यादिता एव करणीया। भगवान् आत्मीयः कर्तुं प्रयतनीयम्। अभिमानं त्यक्त्वा एतादृशे प्रयत्ने सति सद्गुरुकृपाअवश्यं लभ्येत। सद्गुरुणा कथितं विशिष्टं साधनं यदि अट्टहासेन कृतं, परमस्माकं विचाराः यथापूर्वंस्थिताः तर्हि भगवत्प्रेम कथं प्राप्नुमः?चतुष्पञ्चवर्षेभ्यः बहूनि कष्टानि कृतानि, विषयाः अपनीताः च, परमनुभवाः न प्राप्यन्ते इति वदामः चेत् साधनाबलं न्यूनं भवति, निष्ठायाः निस्सरणमारभते च। यत् भवति तत् सद्गुरोः एवेच्छया तस्यैव प्रेरणया चेति अस्माकं दृढा श्रद्धा आवश्यकी। साधनायाः प्रेम सः भगवान् एव ददाति इति वयं विस्मरामः। पुरा वयं साधनां न कुर्मः स्म। अधुना कुर्मः इति साधनायाः अभिमानं मनसि धरामः चेत् कः उपयोगः? सद्गुरोः चरणयोः मस्तकं संस्थाप्य केषाञ्चन कार्यं सिद्धयति तदा सद्गुरुः पक्षपातं करोति इति कथं वदामः? वयमेव प्रमदामः इति चिन्तनीयम्। अद्यपर्यन्तं देवनामजपः करणीयः इति चिन्तितं परं न कृतम्, अधुना नामजपः आरब्धः इति इदं सर्वं तस्यैव कृपया इति किमर्थं न मन्तव्यम्? प्रपञ्चे मनुष्यस्य धैर्यम् आवश्यकम्। भगवत्स्मरणे निर्भयेन भवितव्यम्। अतिचिकित्सया हानिः एव भवति। विद्यायाः फलं किम् तर्हि यत् रोचते तत् चिकित्सां विना करणीयम् तथा यत् न करणीयं तत् चिकित्सनीयम्!चिकित्सा मर्यादिता भवेत्। उल्लङ्घितायां मर्यादायाम् अस्माभिः किमुच्यते तदस्माभिः एव न ज्ञायते। कश्चन बालकः प्रतिदिनं व्यायामशालां गच्छति, घृतं दुग्धं च पिबति च, परं निरन्तरं कृशः एव जायमानः वर्तते चेत् तस्य शरीरे कश्चन रोगः भवितुमर्हति इति निश्चयेन। तद्वत् साम्प्रतं जायमानैः गवेषणैः मनुष्यः जले, आकाशे च वेगेन याति, परं गच्छता कालेन सः असमाधानी एव विद्यते । न इदं परिष्करणस्य लक्षणम्। परिस्थितिः दुष्करा इति न रुदन्तु, यतो हि सा न बाधते। कदापि कस्यामपि परिस्थितौ च वयम् आनन्दरूपाः भवितुं शक्नुमः। अद्यपर्यन्तम् अस्माकम् अनुभवं पश्यामः चेत् मया कृतमिति वर्तते वा? अतः परिस्थितिविषये चिन्ताम्अकृत्वा स्वकर्तव्यं तावत् करणीयम्। स्ववृत्त्यां परिणामः न भवेत्। अभ्यासेन एतत् सिद्ध्यति।

      • ‘कर्ता रामः’ इति येन चिन्तितं, तेन सर्वं साधितम्।****

सप्टेम्बर12 - नामजपः अभिमाननाशं करोति। कस्यचित् गृहं ज्वलितमिति ज्ञात्वा कश्चन तं पत्रं लिखितवान् यत् भगवति विश्वस्य समाधानेन भवितव्यमिति। परं तस्य वित्तकोशे स्थापितं स्वधनं गतं तदा रोदनमारब्धवान्। जनानां कृते ब्रह्मोपदेशः, परं स्वयं शुष्कः पाषाणः। एतादृशं मास्तु। अन्येभ्यः यत् वदामः तदेव स्वस्य कृते अपि वक्तव्यम्। मम कर्तृभावस्य अवसानं विना भगवान् प्रसन्नः न भविष्यति। प्रत्येकं कर्मारम्भे तस्य स्मरणं कुर्मः। लाभसमये अभिमानः जागर्ति, हानिसमये दैवं स्मर्यते, अतः प्रसङ्गद्वये अपि कर्तृभावः मास्तु। देवहस्ते ‘अहं’ पाञ्चालिका इव इति मन्येत। मिथ्याकर्तृभावेन वास्तवम्आक्रन्दनीयं भवति। शिशुना समं निरभिमानेन भवितव्यम्। मनुष्यस्य हस्ते किमपि नास्ति, सर्वं रामहस्ते वर्तते। ‘यशोदानं वा न इति सर्वं भवतः हस्ते’ इति संप्रार्थ्य रामःशरण: गन्तव्यः। जगति नूतनानि गवेषणानि भवन्ति। तेषु इन्द्रियसुखसाधनानामेव अधिकानि। परं वास्तवसुखस्य शाश्वतसमाधानस्य च अन्वेषणं कर्तुं केवलं सत्पुरुषाः एव समर्थाः। तैः उक्तैः समाधानसाधनैः वयं प्रयतामहे चेत् वयं निश्चयेन समाधानं प्राप्तुं शक्नुमः। अद्य वयं किमर्थं न प्राप्नुमः? अस्माकमभिमानः मार्गं रुणद्धि। कर्मकरणकाले,कर्मकरणेन वा तत्सम्बद्धः अभिमानःनजायतेचेत् भगवति प्रेम लभ्येत समाधानप्राप्तिरपि भवेत् इत्यत्र न शङ्का। सामान्यविषये अपि कियान् अभिमानः उत्पद्यते इति पश्यतु। कश्चन गृहस्थः आसीत्। तस्य एका कन्या आसीत्। सा विवाहवय: प्राप्ता। दर्शने सामान्या आसीत्। धनमपि आसीत्, परं पञ्च-षड्-वर्षेभ्यःविवाहः न जातः। यदा जातः तदा सः अवदत्, “मम कन्यायाः विवाहम् अहम् ऐश्वर्येण कारितवान्।” कश्चन तं पृष्टवान्, “तर्हि त्रिचतुर्वर्षेभ्यः प्रागेव किमर्थं न कारितवान्।”तदा तेन उक्तम्, “न जातः।” तर्हि ‘जातः’ इति वदतु ‘अहं कारितवान्’ इति किमर्थम्? अस्तु। अभिमानं नाशयितुं भगवान् मनसा शरणं गन्तव्यः इति उपायः सत्पुरुषैः स्वानुभवेन उक्तः। कदाचित् कश्चनजनःकिमपि गृहं दत्तकरूपेण आगतः तर्हि तस्य पुत्रस्य कृते कुलनामार्थं पुनः दत्तकविधानं करणीयं न भवति। तथैव एकदा रामपदे मस्तकं संस्थाप्य ‘रे राम, अहं तव, त्वं मम च’ इति वदामः चेत् तदनन्तरं प्रत्येकं कर्म तस्यैव भवति। तत् तस्मै अर्पणस्य आवश्यकता एव न विद्यते। अतः यद् भवति तत् तस्यैव कर्म इति मन्तव्यम्। कर्मार्पणानन्तरम् अर्पयिता अवशिष्यते। तथा न भवेत्।

      • सत्कर्मणा अभिमानः न म्रियते, सः भगवन्नामजपेन सत्सङ्गत्या च शान्तः भवति।*****

सप्टेम्बर13, - शुद्धभावनां विना सर्वं व्यर्थम्। भगवन्तं शरणं गन्तुं देहबुद्धिः अभिमानः च अन्तरायं कुरुतः। परिस्थितिः मध्ये नागच्छति। सा व्यसने अन्तरायः भवति किम्? अभिमाननाशस्य उपायः वर्तते यत् यत् कर्म तत् तत् भगवते अर्पणीयम्। ‘सः एव कर्ता, अहं किमपि न करोमि’ इति भावना निधातव्या, इत्युक्ते अभिमानः अपि भगवते समर्पणीयः। केनापि कारणेन भगवता सह सम्बन्धः रक्षणीयः। तेन वार्ता करणीया। तस्य नामस्मरणं करणीयम्। नामजपसदृशं नान्यत् साधनम्। वत्सं नयामः चेत् सहजं गौ: अपि अन्वागच्छति। तथैव नामजपः कृतः चेत् भगवान् पृष्ठतः आगच्छति। कदाचित् नामस्मरणे रुचिः भवति चेत् मनुष्यः प्रपञ्चात् बिभेति। विषयाः तिक्ता: भवन्ति। परमात्मनाम्ना संसारः अस्तव्यस्तः भवतीति वचनं न योग्यम्। नामजपं कुर्वता जनेन कर्ममार्गः न त्यक्तव्यः। नाम्नः रुचिः येन प्राप्ता तस्य कर्माणि गलन्ति। नामजपेन अनुभवः न लभ्यते इति अनृतम्। अस्माभिः यावान् जपः करणीयः तावान् न क्रियते। नाम्नि प्रेम उद्भवेत् इति करणीयम्। जन्म प्राप्तम् अतःनामस्मरणार्थमेव भवितव्यम्। भगवान् अस्माकं नामस्मरणे वर्तते। शुद्धभावनां विना सर्वं व्यर्थम्। भावं शुद्धं कर्तुं सत्समागमेन विना नान्यः उपायः। एकदा तस्यैव भूत्वा तिष्ठामः चेत् सः सर्वानुपायान् करोति। अहं विशिष्टंसाधनं करिष्यामीति न वक्तव्यम्। ‘परमेश्वर, भवान् एव मत्तः कारयति’ इति भावना भवेत्। चिन्तयन्तु, वयं वाणिज्यं कुर्मः। केनापि अस्मभ्यं बीजधनं दत्तम्। वयम् आजीवनं तं जनं न विस्मरामः। तथैव येन भगवता अस्मभ्यं विद्या, धनं, स्वास्थ्यं च दत्तं सः न कदापि विस्मर्तव्यः। भगवान् सहजसाध्यः वर्तते, न तु प्रयत्नेन साध्यः। निसर्गतः यत् अस्मान् प्रति आगच्छति तत् सहजम्। अतः सहजसाध्यमित्युक्ते फलापेक्षां विना कर्तव्याभिमानं विना च इति मन्तव्यम्। यस्यां स्थित्यां भगवता वयं स्थापिताः तस्यां समाधानेन भवितव्यम्। तस्य विस्मरणं न भवेत्। यः आत्मनः दूरः, तस्मात् भगवानपि दूरः। यस्य दृष्टिः बाह्या तस्मात् भगवान् दूरः। यः अन्तरङ्गं पश्यति तस्य सः समीपे वर्तते। वयं मनुष्यजनिं प्राप्तवन्तः इत्येव भगवतः भवितुं सूचना। भोगे, दुःखे च समयं न यापयित्वा भगवान् अवधातव्यः। अस्मिन्नेव जन्मनि सुविचारेण, सुबुद्ध्या च भगवान् आत्मीयः करणीयः इति एव अस्माकं कर्तव्यम्। तदर्थं सततं सः ध्यातव्यः, अन्तरङ्गे तेन आत्मीयत्वं करणीयम्। नान्यः उपायः।

        • तव नाम्नि मह्यं रुचिं ददातु, इति याच्ञा भगवत्समीपे करणीया।******

सप्टेम्बर14, - सत्पुरुषस्य लक्षणानि। बहुभ्यः रोचते सः साधुपुरुषः। सः अजरामरः भवति। सः नि:स्वार्थ:, मनः संयतते च। स्वार्थायपरपीडनम् अपकारदुष्टता तस्मादशक्यम्। एतादृशः सत्पुरुषः वृद्धेन वृद्धः, पुरुषेण पुरुषः, स्त्रिया स्त्री, बालकेन बालकः च दृश्यते, इत्युक्ते यथा जनः तथा तस्य व्यवहारः वर्तते। सः कमपि न निन्दति, न स्तौति च। मानार्हः परं नापेक्षते। विकारेषु पूर्णं नियन्त्रणं विद्यते तस्य। अन्येभ्यः दुःखेषु सुखं दातुं प्रयतते। सहजावस्थायां भवति, अतः उपाधिना स्वं न बध्नाति। एतादृशः योगिजनः वस्तुतः मुक्तः एव। एतादृशं जनमेव ‘सत्पुरुषः’ इति संज्ञकेन अभिजानन्ति। ते यानि कर्माणि कुर्वन्ति तानि भगवत्प्रेरणया भगवतः कृते एव च सन्ति। तेभ्यः जगत्कल्याणमेव भवति। तेषां प्रत्येकं कर्मणि प्रेम, दया, परोपकारः, नि:स्वार्थत्वं, भगवन्निष्ठा च भवद्भिः दृश्येत। अतरङ्गमवज्ञातुं स्वतः एव आरम्भः करणीयः। स्वप्रमादाः द्रष्टव्याः। दुःखभोगस्य समयः आगतः चेत् मार्गः च्युतः इति ज्ञातव्यम्। यं सुखदुःखं च न बाधते, सः वास्तवः समाधानी। मया प्रतिदिनं नामस्मरणं क्रियते, चतुर्भ्यः वर्षेभ्यः मम भजनं न खण्डितम् च इति वदामः चेत् अहमिदं सर्वं करोमीति सततं स्मरणेन कः उपयोगः? परिश्रमं करोमि, परम् अल्पेन घातः भवति, सः एतेन अभिमानेन। यावत् अभिमानं विहाय भगवत्स्मरणं न करोमि, तावत् तत् स्मरणं कथम्? भगवन्तं विना अन्यान् विषयान् मनसि संस्थाप्य अहं तेन सह अनन्यत्वेन व्यवहरामीति कथं भवितुमर्हति? अहं सत्यं वच्मि यत् भवन्तः रामाय कर्तृत्वं ददतु, तस्य इच्छया व्यवहरन्तु च, तेन भवतां देहबुद्धिः निश्चयेन नश्येत्। दर्शितया दिशा गन्तव्यम्। सत्पुरुषैः कथितेन मार्गेण गन्तव्यम्। तेन मार्गः लभ्यते। सत्या सिषाधयिषा भवति चेत् मार्गः लभ्यते।यथार्था आर्तता भवति चेत् तस्मिन् प्रेम उत्पद्यते। भगवान् मम सङ्कटं दूरीकुर्यात् इति वचनं मूर्खता एव। आपदः आगताः, अतः भगवन्तं विस्मरामि इति न कदापि योग्यम्। देहबुद्ध्याः नाशः नामस्मरणे एव वर्तते। नामजपे प्रेम नायाति इत्येव चिन्तनं कुर्मः चेत् जपमेव विस्मरामः इत्यत्र क्व अवधानं भवति? वृथा चिन्तयन् मा उपविशतु। समुद्रोल्लङ्घनसमये रामनाम्ना स्थापिता इष्टिका उत्तीर्णा इति स्मरणीयम्।

          • चमत्कारः न सत्पुरुषलक्षणम्।चमत्कारं दर्शयितुं सत्पुरुषाः चमत्कारं न कुर्वन्ति।****

सप्टेम्बर15, - अखण्डानुसन्धानमिति सत्पुरुषचरित्ररहस्यम्। कस्यापि देवस्य उत्सवस्य मुख्यहेतुः वर्तते यत् तस्य स्मरणम् अधिकाधिकं भवेत्। भगवत्स्मरणं तस्य प्राप्त्यर्थमेव कुर्वन्ति। भगवन्नाम्ना सर्वविधदुरितनाश: स्वाभाविक: भवति। नामजपं कृत्वा प्रापञ्चिकं सुखं याचेत इत्युक्ते लभमानायां कामधेनौ सत्यां तां परित्यज्य गर्दभयाच्ञाकरणसदृशं वर्तते। नामजपेन प्रत्यक्षं भगवति गृहमागच्छति सति धनं, प्रतिष्ठा, सन्ततिः चेति एतेषां याच्ञा करणीया चेत् तत्सर्वं दुःखकारकमेव। नामजपे आत्मानं विस्मर्तुं पठनीयम्। एतादृशं स्वविस्मरणमेव समाधिः इति ज्ञातव्यम्। नामजपने आत्मनः विस्मरणमेव सर्वोत्कृष्टः समाधिः। नामस्मरणे एतावता रतेन आत्मविस्मृतेन जनेन एव मम चरित्रं ज्ञातुं शक्यते। केवलं तर्केण न शक्यम्। सत्पुरुषस्य चरित्रम् अधिकं मानसं वर्तते। तस्य चरित्रे देहक्रियाणां महत्त्वं द्वितीयस्तरीयम्। चमत्काराणां कृते तु अत्यल्पं महत्त्वं दातव्यम्। देहस्य कस्याम् अपि अवस्थायाम् अखण्डम् भगवतःअनुसन्धानं भवेदिति सत्चरित्राणां रहस्यं वर्तते। वयं भगवता सह लग्नाः चेत् अन्ये अपि लग्नाः उत नेति ज्ञायते। अतः सत्चरित्रकारैः आत्मानाम्नि तल्लीनः कृत्वा भगवतः आज्ञया एव लेखनीयम्। वस्तुतः सत्चरित्रकारः जननीयः। अहं रामोपासकः, परं शङ्करभक्तः मह्यमतीव रोचते। शङ्करश्रीकृष्णौ एकपरमात्मनः एव द्वे व्यक्तरूपे। हरिहरयोर्मध्ये न भेदः इति श्रुतिस्मृती अपि वदतः। श्रीशङ्कराय अपि अत्यन्तं प्रियं रामनाम निरन्तरं जपनीयम्। श्रीशङ्करात् श्रीसमर्थपर्यन्तं सर्वैः महासिद्धैः रामनाम कण्ठे धृतम्। रामनाम्नः सार्धत्रिकोटिजपं कुर्वाणः स्वदेवत्वानुभवं विना न भवितुमर्हति। रामनाम्नः आधारेण रामः संयोजनीयः। रामः भवतां निश्चयेन कल्याणं कुर्यादिति विश्वसन्तु। अहं देवम् अपश्यम्। परं देवं द्रष्टुं नेमे नेत्रे। ते ज्ञानचक्षुषी। सततं भगवन्नामस्मरणेन ते प्राप्येते। मम समीपम् आगत्य यत्पठनीयं तदिदमेव यत् विना चिन्तां परमात्मा सर्वं करोति इति चिन्तनीयम्। यत्र नामस्मरणं तत्स्थानं परितः अहं भ्रमामि। अखण्डनामस्मरणं कुर्वन्तु, तेन मम सङ्गत्याः लाभः भवेत्।

          • यस्य मुखे नाम। तस्यहृदये मम धाम।।*****

सप्टेम्बर16, - भगवति मनः संयोज्य देहः प्रारब्धे स्थापनीयः। वस्तुतः प्रारब्धभोगान् कोपि निराकर्तुं न शक्नोति। प्रारब्धस्य सम्बन्धः देहेन सह एव, न तु मनसा सह। देहः सुखदुःखं प्रारब्धेन प्राप्नोति। कोऽपि दुःखं न इच्छति, परं तदागच्छति एव। सुखस्यापि तथैव। प्रारब्धं कृतकर्मणः एव फलम्। तत् साधु वा असाधु वा भवितुमर्हति। सुखभोगानां विषये न कापि चिन्ता भवति, परं दुःखप्रसङ्गे मनुष्य चिन्तयति, “मया एतादृशं देवकार्यं कृतम्, अहम् अमुकसत्पुरुषस्य आत्मीयः तथापि मम इदं दुःखं कथम्?” परमिदं सर्वं स्वस्यैव कृतकर्मपरिपाकः इति सः नावगच्छति। देवः वा सत्पुरुषः वा तदर्थं किं कर्तुं शक्नोति? चिन्तयतु, अस्माकं धनसाहाय्यमावश्यकम्। अस्माकं कश्चन परिचितः वा समीपस्थः आप्तः वा महद्वित्तकोशे व्यवस्थापकः अस्ति,परं स्वकोशे धनमेव नास्ति तर्हि सः किमपि कर्तुं न शक्नोति। अधिकाधिकं सः स्वकोशात् किञ्चित् धनं दद्यात्। तथैव स्वप्रारब्धे यदि सुखं नास्ति तर्हि कथं प्राप्स्यामः। सत्पुरुषः आवश्यकतानुरूपम् अस्माकं दुःखं स्वयं सोढ्वा अस्माकं भारं न्यूनीकुर्यात्, तावदेव। अतः प्रारब्धेन आयाताः साध्वसाधवः विषयाः देहेन भोक्तव्याः, मनसा भगवत्स्मरणं करणीयं च। सत्यः भक्तः देहं विस्मरति, अतः देहभोगभुञ्जने वा अभुञ्जने वा सः उदासीनः। अतः सः भोगान् न निराकरोति। यथा मनुष्यदेहस्य अवयवानां न्यूनाधिकतां वर्तते,तथा मनुष्यस्य विकाराः गुणाः च पूर्वजन्मसंस्कारानुगुणेन इत्युक्ते प्रारब्धकर्मणा न्यूनाधिकाः भवन्ति। अस्माकं देहस्य भोगाः अस्माकमेव कर्मणां फलानि। परम् अमुककर्मणः अमुकफलमिति न ज्ञायते, अतः वयं तत् प्रारब्धमिति वदामः। जगति विविधघटनाः यथा प्रवर्तन्ते तथैव अस्माकमपि सर्वे विषयाः प्रारब्धेनैव प्रवर्तन्ते। आगच्छन्त्यः विपदः अस्माकं प्रारब्धस्य एव सन्ति। ताः भगवतः न। ताः तु प्राहुणिकाः इव। यथागच्छन्ति तथा गच्छन्त्यपि। अस्माभिः स्वयमेव ताः न आननीयाः। परं प्रारब्धेनागताः चेत् न भेतव्यम्। प्रारब्धस्य वा ग्रहाणां वा गतिः देहपर्यन्तमेव। मनसा भगवन्तं भजितुं तेषां बाधा न। यः सत्पुरुषाणाम् आज्ञां पालयति तस्य प्रारब्धं प्रारब्धरूपेण न तिष्ठति। भगवदनुसन्धानस्य अभ्यासः करणीयः, तेन प्रारब्धे विजयं प्राप्तुं शक्नुमः।

          • यः भगवतः सः प्रारब्धे देहं स्थापयति।****

सप्टेम्बर17, - परमेश्वरप्राप्तेः सिषाधयिषापेक्षिता। वस्तुतः वयं परमेश्वरमिच्छामः किम्? तत् किमर्थम्? अस्तु। भवन्तः एतावन्ति कष्टानि कृत्वा आगच्छन्ति, अतः भवन्तः ईश्वरं नेच्छन्ति इति कथं भवितुमर्हति? निश्चयेन भवन्तः इच्छन्ति, परं किमर्थम्? प्रपञ्चः सम्यक् भवेत् तदर्थम्।अस्तु, तथापि तत्र न किमप्यसाधु। ततः एव वयम् अग्रिमं मार्गं प्राप्स्यामः। परन्तु केवलं परमेश्वरस्य कृते एव परमेश्वरः आवश्यकः इति यः मन्यते सः भाग्यवान्। श्रेष्ठाः सत्पुरुषाः तां वास्तवाम् आवश्यकताम् अनुभूतवन्तः। तैः अनन्तरं परमेश्वरः आत्मीयः कृतः। तुकारामाय, रामदासाय वा अन्यत्किमपि नावश्यकम् आसीत्। रामदासः अतितीव्रतया परमेश्वरोपदेशम् ऐच्छत्। अग्रजः तेन प्रार्थितः। अग्रजः आह, “ भवान् अद्यापि कनीयान्।” रामदासस्य सिषाधयिषा न शान्ता। विवाहात् प्रागेव सः पलायितः। ईश्वरध्याने यापितेषु द्वादशवर्षेषु परमेश्वरेण सः उपदिष्टः। तदा तस्य सिषाधयिषा शान्ता जाता। परमेश्वप्राप्तिः न वयसि, न वित्ते, न ज्ञातौ चावलम्बिता। सा तु अन्तरङ्गतीव्रतायाम् अवलम्बिता। एषा सिषाधयिषा अत्यन्ता आवश्यकी। एषा यदि लभ्यते तर्हि केवलं शरणागत्या एव। रामदासः रामचरणयोः मस्तकं संस्थाप्य उवाच, “हे राम, एषः देहः मया तुभ्यं समर्पितः। मम कृते तस्य आवश्यकता न। भवन्तः ऋते मम जीवनमसंभवम्।” एतावत्प्रेम, एतावत्यात्मीयता, एतादृशी सिषाधयिषा च यदि भवेयुः तर्हि परमेश्वरः कियत्समयं दूरे तिष्ठेत्! परमेश्वरः अत्यल्पसन्तुष्टः। वयमेकं पदमग्रे गच्छामः चेत् सः पदद्वयं समीपमागच्छति। परं तं प्रति गन्तुम् अस्माकम् आर्ततैव न विद्यते। अस्माकं विकाराः,देहबुद्धिः,चास्मान् पृष्ठतः कर्षयतः। एतानि सर्वाणि बन्धनानि विभज्य भगवन्तं प्रति गच्छति सः पुनः न प्रत्यागच्छति। परमेश्वरः मातृसमः प्रेमी वर्तते। का माता स्वबालकं गले लगयितुं न इच्छति? परमेते विकाराः मध्ये आगच्छन्ति। अवितथं यत् भगवन्नाम एतां मध्यस्थां जवनिकां दूरीकरोति, अस्माकं देहबुद्ध्याः आसक्तिमपि दूरीकरोति च। तत् परमेश्वरं गन्तुं मार्गं मुक्तं करोति। अस्माकमङ्गुलीं धृत्वा साक्षात् परमेश्वरं प्रति प्रापयति। एतन्नाम स्वहृदये सदा जागरितं भवतु।

      • नाम जागरितं भवति चेत् विकाराः बहिरागन्तुं न प्रभवन्ति।******

सप्टेम्बर१८ – गोन्दवलेरामस्यवैशिष्ट्यम्। प्रत्येकंजनःएकवारंवागोन्दवलेरामंपश्येत्इतिअहम्अतीवइच्छामि।अस्यवैशिष्ट्यंयत्तस्यपुरतःअस्माभिःस्थीयतेचेत्सःअस्माकम्अवगुणान्ज्ञापयति।इदंकार्यंविशेषत्वेनमहत्त्वपूर्णं,यतोहिदोषाःज्ञायन्तेचेत्मनुष्यःतान्अपाकर्तुंप्रयतेत।शरीरस्थःरोगःज्ञायतेचेदेवतंदूरीकर्तुंप्रयत्नान्मनुष्यःआरभेत।दोषज्ञानेसतितेभ्यःमोक्तुंमनुष्यःरामंसंप्रार्थ्यतंशरणंव्रजेत्।शरणागतेषुकृपाकरणंरामस्यनियमःएव।अतःसःतंमोचयेत्एव।सःमुक्तःभवेत्।उत्तमःवैद्यःकः? यःरुग्णायसम्यक्औषधंदत्वातस्यबुभुक्षांवर्धयेत्, तंपूर्णंभोजयेत्, तत्अन्नंपाचयितुम्औषधंदद्यात्, तथाचसःसशक्तःनिरोगःचभवेत्इतिपश्येत्।ममरामःतथैवअस्ति।अतःअहंभृशम्इच्छामियत्प्रत्येकंजनःएकवारंवाअत्रआगत्यरामंपश्येत्।मन्दिरंमुक्तद्वारंभवेत्, परंकस्यकृते?केवलंभगवतःउपासकस्यकृते।भगवतःउत्सवेअल्पाःजनाःसमागताः,परंतेनामस्मरणेतल्लीनाः,तर्हितेनयथार्थःआनन्दः! वृथाबहवःजनाःआगच्छेयुःइतिहेतुःनभवेत्।मन्दिरंभगवदुपासनायाःमुख्यंस्थानम्।अतःतत्सामान्यंभवेत्।तत्रसुचारुउपासनाप्रवर्तेत।मन्दिरंभिक्षायांप्रवर्तेत।मन्दिरेषुव्रतस्थाःजनाःसंवर्धैरन्।भगवतेउपासनाप्रियाभवति।सुवर्णमन्दिराणांनिर्माणस्यअपेक्षयापाषाणमृत्तिकाभ्यांनिर्मितेषुमन्दिरेषुउपासनाविवर्धेतइतिद्रष्टव्यम्। भगवदिच्छयाएवसर्वंप्रवर्ततेइतिभावनयायत्पुरतःआगच्छतितत्ननिराकरणीयम्।यत्नायातितस्यदुःखंनकरणीयम्।वयंभगवन्तंविस्मरामः।तंस्मर्तुंतत्अनुवर्तयितुंचभगवतःउत्सवःकरणीयः।नैकेआप्तसम्बन्धाःसन्तोऽपिकश्चनजनःयथाअलिप्तःभवितुमर्हति, तथाभगवान्सर्वत्रसन्नपिअस्माकंहृदयेअवस्थातुमर्हति।सूर्यप्रकाशःइवएकत्रस्थित्वापिसःसर्वत्रसत्तारूपेणभवति।यस्यभावनायथार्थाशुद्धा,निःसंशयाचविद्यते, तेनपाषाणविग्रहेअपिदेवःदृश्यते।भावनातुशतप्रतिशतंशुद्धाभवेत्।तस्यांप्रदूषणंमास्तु।अन्तःकरणेभगवदनुसन्धानंनिधायबाह्यवृत्तिंनियन्तुंयःप्रयतते, सःपरमार्थानुभवंशीघ्रंप्राप्नुयात्।नामानुभवंनाम्निए्प्राप्तव्यः, तद्वत्भगवतःअनुभवःअनुसन्धानेलभ्येत।

        • यदाउपासकःदेहंविस्मरतितदाउपास्यमूर्तौजीवनम्अनुभवेत्।****

सप्टेम्बर19 - भगवतः भूत्वैव कालातीतः भवितुम्अर्हति। अस्माकं जीवनविकासः निरन्तरं प्रवर्तमानःअस्ति। यत्र वयमद्य स्मः, ततःपूर्वं ह्यः आस्म, श्वः अग्रे भविष्यामः। इदं सत्यं तथापि अद्यास्माभिः यदावश्यकं तन्न कृतं चेत् श्वः प्रतिगमनप्रसङ्गः आगच्छेत्। अग्रिमाजनिः अद्यतनजीवनादेव प्रभवति। अतोऽद्य वयं यदि साधवः स्मः, तर्हि अन्ते मतिः सा गतिरिति नियमेनाग्रिमां जनिं साध्वीमेवप्राप्नुमः। मुख्यकालभेदाः त्रयः। ह्यस्तन:, अद्यतनः,श्वस्तनः च।अतीतः कालः न कदापि प्रत्यागच्छति। अतः तस्य चिन्ता न करणीया। कस्यचित् गृहे कश्चन दिवङ्गतश्चेत् वयं कथयामः, “अरे, घटितं तद्घटितम्, इदानीं किं तस्य? न शोचनीयमिति वरम्।” यत् इतरान् जनान् वयं वदामः तत्स्वयं व्यवहर्तुं प्रयत्नं कुर्याम। अतीतस्य विवेकेन विस्मरणं शक्यम्। अज्ञातस्य भविष्यस्य चिन्ता न करणीया। अद्यतनं कर्तव्यं कृत्वा यत् भविष्यति तत् भविष्यति इति विचिन्त्य स्वस्थमुपवेष्टव्यम्। पूर्वतनं न स्मर्तव्यं गतं न शोच्यं च। आगामिनः विषयाःन चिन्तनीयाः। साम्प्रतं कालातीताः भवितुं न शक्नुमः। परं कालातीतत्वं विना भगवतः प्राप्तिः न शक्या इति स्थितिः। विश्वे घटनाः निरन्तरं प्रवर्तन्ते, मनसि सिषाधयिषापि वर्तते च। सिषाधयिषायाः हेतुः वर्तते अस्माकम् अपूर्णता। मनुष्यजन्मना भगवान् प्रमुदितः, यतो हि सत्यस्वरूपं प्रत्येकं जनेन ज्ञातव्यमिति भगवदिच्छा। इदं कार्यं केवलं मनुष्यजन्मनि एव शक्यम्। अतः भगवन्तं वयं ज्ञातुं शक्नुमः इति प्रत्येकं जनेन अवगन्तव्यम्। एतदर्थम् अस्माकं मनसि भावः, इच्छा, आर्तता, अन्तस्तीव्रता च उत्पद्येरन्। उत्तमं भोजनं निर्मितं, परं लवणमेव विस्मृतं तर्हि कः उपयोगः? द्वित्त्वभावे भजनं कथं सम्यग् भवेत्? नवविधा भक्तिः कथिता। तेषु कस्याश्चित् एकस्याः अपि पूर्णं भावपरिशीलनं कुर्मः चेदवशिष्टाः अष्टविधाःभावाः अपि प्राप्यन्ते। यदस्माभिः ज्ञातं तदाचरणीयम् इति एव अवितथम् आज्ञापालनम्। योऽस्माकं रक्तमांसेन मिलति, प्रतिदिनं वर्तने प्रकटतिच सः वास्तवः वेदान्तः। अस्माकं कर्तव्ये निरन्तरं भगवत्स्मरणमेव सर्ववेदान्तस्य सारम्।

      • वेदान्तः प्रतिदिनम् आचरणे आननीयः।****

सप्टेम्बर२० – प्रपञ्चस्मरणं।दुःखस्यकारणम्। अस्माभिःरामःयाचनीयः।‘सर्वंजगत्प्रवर्ततेतवेच्छया।अहंतस्मिन्यःकश्चित्पामरः।अपितवकृतेममभारः?।हेराम, कोटिशःममअपराधाः।त्वंमाता, अहंक्षन्तव्यः।मातृचरणेशरणोयः।तस्मैमरणंनदीयतेत्वया।इतिबहुवारंश्रुतंमया।हेरघुवीर, भवतुतवमयिकृपा।।दातारामःइतिनिधायमनसि।तवद्वारम्आगतोस्मि।।अधुनानपश्यममअन्तं।त्वांविनाजगत्शून्यम्।।यस्ययस्यमयासाधितःस्वार्थः।तेसर्वेदुःखदातारः।हेराम, अधुनाक्वगच्छामि?।त्वांविनाक्वस्थास्यामि?।।क्वपश्यामिस्थानं।यत्रलभ्येतसमाधानम्?।।भवतुनवाभवतुभावः।मनसिधर, अहंत्वदीयः।।हेराम, कुरुअधुनाकथमपि।अहंतवद्वारेपतितोस्मि।।ऐहिकेआसक्तिः।नास्तिममतस्यरुचिःः।इतिदृढंमनसि।कृपांकुरुरेरघुपति।।यथेच्छसितथाकुरु।ममअहंत्वम्अपाकुरु।।‘ यावत्देहसङ्गः।तावत्ममअहम्इतिभावः।यस्यमनःधरतिअभिमानं।तत्रनवर्ततेअनुसन्धानम्।।घनतमःव्यापृतः।दूरीकर्तुंनोपायः।।उदितेसूर्येसति।तमःस्वयमेवनिर्गच्छति।।प्रपञ्चेसंकटानांबाहुल्यं।चिन्तयन्तुममकथनं।नकुर्वन्तुदुःखम्।।प्रपञ्चस्यस्मरणं।दुःखस्यमूलंकारणम्।।तस्यैवपुनःपुनःजल्पनं।तर्हिकथंभवेत्आनन्दरूपस्यस्मरणम्?।।सुखदुःखस्यउत्पत्तिः।ममत्वेएवभवति।।स्वार्थःइत्युक्तेममत्वम्।अतःअहमेवममदुःखस्यकारणम्।।ममत्वेवयंजीवामः।तेनसुखदुःखचिन्ताशोकानांस्वामीभवामः।।अमुकंभवेत्, अमुकंनभवेत्।एतस्यकथंभवेत्, तस्यकथंभवेत्?।इतिअस्वस्थंचित्तं।साएवचिन्ता।।सुखदुःखेचित्तंस्थिरंनभवति।तस्यसदाएषाअवस्थाभवति।।सुखदुःखंपरिस्थित्यांनावलम्बते।तत्स्वस्यसंज्ञानेअवलम्बते।।कश्चनयत्रसुखम्अनुभवति।अन्यःतत्रदुःखंप्राप्नोति।।दुःखस्यमूलंकारणं।जगत्सत्यमितिअस्माभिःमतम्।।देहेनअतिकष्टंकृतं।मनसिहेतुःलभ्येतफलम्।परंतत्यदिनप्राप्तं।तर्हिभवतिअतीवदुःखम्।।स्वचेतःविषयाधीनं।नान्यत्किमपिदुःखस्यकारणम्।।अतीतस्यस्मरणम्।अनागतस्यकल्पनम्।एतदेवदुःखस्यकारणम्।।एतस्यएकःएवउपायः।अखण्डम्ईश्वरःअनुसंधातव्यः।।प्रपञ्चःनसुखकरः।सःभवतुकर्तव्यपरः।।प्राप्तव्यंवृत्तिस्थैर्यं।चित्तेभजन्तुरघुवीरम्।।

        • हेराम, सुखंचदुःखंच।तवचरणयोःसमर्पितम्।अधुनास्थापयतुयथेच्छसितथा।नास्तिममकापियाच्ञा।।***

सप्टेम्बर21 - अन्तरङ्गं परिचिनोतुं स्वतः आरम्भः करणीयः। परस्य मनसि यद्वर्तते तस्यावगमनं न महती विद्या। यस्य मनः ज्ञातव्यं तस्य मनसा स्वमनः तद्रूपं कृतं चेत्तत्ज्ञातुं शक्यते। परं शुद्धान्तःकरणेन एवेदं शक्यम्। इदं कर्तुं काश्चन क्रियाः सन्ति। यावत् क्रियाः प्रवर्तमानाःसन्ति तावत् शक्तिः वर्तते, अन्यथा विगताः भवति। यः एतया शक्त्या वाणिज्यं करोति सः भगवत्कृपापात्रःन भवति। यदि भगवत्कृपान वर्तते, तर्हि किमपि नास्ति एव। मनोगतं ज्ञातुं परस्परभाषाज्ञानं नानिवार्यम्। तेलङ्गणस्थः भिक्षुकःअस्माकं गृहं तेलङ्गीयं गीतं गायन् भिक्षार्थमागतः चेत् गीतस्य अर्थस्य अज्ञानेन अपि सः भिक्षां याचते इति ज्ञातुं शक्नुमः। तथा मनोगतभावः ज्ञायते। साक्षात् यदि वाक्यार्थः न ज्ञातः, तर्हि नकापि समस्या। श्रोता सत्यजिज्ञासया आगच्छति चेत् वक्तुः भावं सः सहजं जानीयात्। परं श्रोता तादृशः नास्ति चेत् सुस्पष्टवचनेन अपि सः किमपि न जानाति। तत्त्वज्ञानं शाश्वतम् अपरिवर्तनीयं च वर्तते। स्थलकालानुरूपं भिन्नया भाषया तत् वक्तव्यं भवति। चिन्तयन्तु, यानेन वयं दिल्लीं गच्छन्तः स्मः। क्षणं क्षणं यानं पुरस्सरति। वयं तु स्वस्थाने एव स्मः। तथैव परिवर्तनशीलायां परिस्थित्यां भगवन्तं वयं दृढं धरामः चेन्निश्चयेन गन्तव्यस्थानं प्राप्नुमः; परिस्थितिः कियत्यपि परिवर्तेत। देहं धृत्वा येन केनापि उपायेन अस्माकं कर्तव्यं वयं सम्यक् कुर्याम इति रामचरित्रसारं प्रत्येकं जनेन सम्यगवगन्तव्यम्। श्रीरामस्य पुरतः गत्वा ‘अहममुकं करोमि’ इति उक्त्वा कार्यारम्भः करणीयः। भगवन्तं स्मृत्वा कार्यं कुर्वन् यत् योग्यं तत् तस्य एव इच्छया कुर्वन् अस्मीति मन्येत। इत्थं करोति सः समाधानं प्राप्नोत्येव। भगवत्कृपया सर्वं करोमीति भावः भवति चेदभिमानः कथं वर्धेत? अन्तरङ्गं परिचिनोतुं स्वतः आरम्भः करणीयः। स्वप्रमादाः द्रष्टव्याः। तर्कशास्त्रं पठित्वा हठिना न भवितव्यम्। साधुजनवचनानि अतिचिकित्सया न दृष्टव्यानि। सत्पुरुषाणां कथनं बहु सरलभाषया वर्तते। विचित्रं यत् भगवान् वर्तते उत न इति इतः जनाः चर्चारम्भं कुर्वन्ति, विभ्रमे पतन्ति च। अन्ते यतः आरम्भ जातः तत्रैवागच्छन्ति। तेषाम् उन्नतिः समाप्नोति। एतदर्थं भगवतः अधिष्ठानं संस्थाप्य चिकित्सा करणीया।

      • देहग्रामतः रामग्रामं गन्तुं रामनाम एव पाथेयम्।****

सप्टेम्बर22 - भक्तिः इत्युक्ते ईश्वरे अत्यन्तं प्रेम। बृहद्यन्त्रे एकं चक्रमारभते चेत् अन्यानि अवशिष्टानि चक्राणि मन्दं वा वेगेन वा भ्रमणम् आरभन्ते। अस्माकं मनसः अपि तथैव वर्तते। मनसः एका शक्तिः सक्रिया भवति चेत् अन्याः शक्तयः अपि सक्रियाः भवन्ति।मनसः स्वशक्त्या नियन्त्रणं बहु कठिनम्। श्रेष्ठाः जनाः एव तत्कर्तुं पारयन्ति। पारदः पुरतो दृश्यते, परं यष्ट्या तं ताडयितुं न शक्नुमः। तथैव मनः ज्ञायते, परं नियन्तुं न शक्नुमः। अतः भगवन्तं शरणं गच्छामः। दर्पणे मलः भवति चेत् स्वच्छं कुर्मः। चेतसः मलं स्वच्छीकर्तुं साधनं वर्तते। मरीचिकां, कृष्णमरीचं, लवणं चेत्यादीनि वस्तूनि संम्मिल्य यथा रुचिकरं मिश्रणं कुर्वन्ति तथा भगवन्तं प्राप्तुं विषयत्रयाणां मिश्रणमावश्यकम् – शुद्धाचरणं, शुद्धचेतः, भगवन्नामस्मरणं च। शुद्धाचरणमित्युक्ते प्रामाणिकता, धार्मिकाचाराः, नीतियुक्तं वर्तनं च।शुद्धचेतः इत्युक्ते निरभिमानम्, निर्द्वेषमत्सरः, सर्वेषांकृते सुखप्रार्थना च। भगवन्नामस्मरणम् इत्युक्ते भगवतः निरन्तरम् अविस्मरणम्। पतये देवः न रोचतेअतः नामस्मरणं न त्यक्तव्यम्। कृते नामस्मरणे पत्नीधर्मः तया त्यक्तः इति न। मनसि उद्भवन्त: दुर्विचाराः नामप्रेम रुन्धन्ति। तेषां परिहरणार्थंतेभ्य:स्थानमेव न दातव्यम्। कश्चन रक्षकाधिकारी चोरं निग्रहीतुंचतुरः आसीत्। चोरः यस्यां चिरण्ट्यामासक्तः, तामेव सः वशं करोति स्म। तेन चोरः सहजं निगृहीतः भवति स्म। तथा अस्माकं मनः यत्र आसक्तं भवति तत्रैव भगवन्तं स्थापयामः चेन्मनः नियन्त्रणम् आयाति किल। मन:संयमनार्थम् उपायौ द्वौ। एकः पातञ्जलयोगः, द्वितीयः भगवद्भक्तिः। पातञ्जलयोगः इत्युक्ते युक्ताहारविहारः,नियमितजीवनं, इन्द्रियाणां निरोधनं च। भगवतः भक्तिः इत्युक्ते ईश्वरे अत्यन्तं प्रेम। अस्य प्रेमसाधनानि वर्तन्ते नामस्मरणं, तस्य कथासंकीर्तनं, साधुसमागमः,तथा च विशेषत्वेन सद्गुरोः कृपा इति। भगवत्स्मरणं विना कृतानि कर्माणि दुष्कर्माणि। खाद्यस्य वा पेयस्य वा, नामस्मरणं विना एकमपि कवलं न स्वीकरोमीति व्रतं कुर्मः चेन्नाम निश्चयेन मुखम् आगच्छेत्। कस्यामपि परिस्थित्यां नामस्मरणच्युताः न भवामः। यः नाम्नि गार्हस्थ्यं करोति सः निश्चयेन सुखं प्राप्नोति।

      • चञ्चलमनः नामलगुडेन बद्धं कुर्मश्चेत्भगवत्प्रेम उद्भवति।***

सप्टेम्बर18, - गोन्दवलेरामस्य वैशिष्ट्यम्। प्रत्येकं जनेन एकवारं वा गोन्दवलेरामस्य दर्शनं करणीयमिति मया बहु मन्यते। अस्य रामस्य वैशिष्ट्यं यत् सः अस्मान् अस्माकम् अवगुणान् बोधयति। इदमेव कार्यं बहु महत्त्वपूर्णम्। यतो हि दोषावगमनेन एव तान् दूरीकर्तुं वयं प्रयतामहे। यदि‘अहं रोगग्रस्तः’ इति जानाति चेत् मनुष्यः तन्नाशार्थं प्रयत्नम् आरभेत। दोषावगमनेन एव तेभ्यः मोक्तुं श्रीरामं प्रार्थ्य तं शरणं गच्छेत्। शरणागते कृपा इति रामस्य व्रतेन सः तं जनं मोचयेदेव। तस्य कार्यं सिद्ध्येत्। साधुः वैद्यः कः? यः रुग्णस्य क्षुधां वर्धयितुम् औषधिं दद्यात् तं प्रचुरं भोजयित्वा पाचनार्थमपि औषधिं दत्त्वा तं रोगमुक्तं सशक्तं च कुर्यात्। मम रामः तथैव वर्तते। अतः प्रत्येकं जनः एकवारं वा तं पश्येत्। मन्दिरं मुक्तद्वारं भवेत्। परं केषां कृते? केवलं भगवद्भक्तानां कृते। भगवदुत्सवे नामशीलाः अल्पजनाः यदि सम्मिलिताः तर्हि अवितथम् आनन्दः। वृथा सम्मर्दहेतुः मास्तु। मन्दिरं भगवदुपासनास्थानम्। अतः तत् सामान्यमेव भवेत्। तत्र सम्यग् उपासना प्रवर्तेत। सदा भिक्षार्जनेन एव तस्य सञ्चालनं भवेत्। मन्दिरे व्रतस्थानां ब्रीदवतां जनानां निर्माणं भवेत्। भगवते उपासना रोचते। अतः सुवर्णमन्दिरापेक्षया अश्ममृण्मन्दिरेषु उपासना वर्धनीया। भगवदिच्छया सर्वं प्रवर्तते इति मनसि निधाय यद्भवति तत् न निषेधयितव्यं यत् न भवति तन्न शोचनीयम्। वयं भगवन्तं विस्मृतवन्त:)। तस्य स्मरणार्थं तथा च तस्य सततम् अनुवर्तनार्थं च उत्सवाः आवश्यकाः। बहुषु सम्बन्धिषु सत्सु अपि कश्चन अलिप्त: अवस्थातुं शक्नोति तद्वत् भगवान् सर्वत्र भूत्वा अपि अस्माकं हृदये स्थातुं शक्नोति। सूर्यप्रकाशवत् सः एकस्मिन् स्थाने उषित्वा सर्वत्र सत्तारूपेण भवति। शुद्धनिःसंशयभावनायुताय जनाय पाषाणविग्रहः अपि देवः। परं भावना शतगुणी आवश्यकी। तस्यां प्रदूषणं मास्तु। अन्तरङ्गे भगवन्तम् अनुसन्धाय बाह्यवृत्तिसंयमनशीलः परमार्थानुभवं शीघ्रम् अवाप्नोति। नाम्नः अनुभवः यथा नाम्न्येव भवति तथा भगवतः अनुभवः अनुसन्धाने लभ्यते।

        • उपासकः देहं विस्मरन् उपास्यविग्रहे चैतन्यम् अनुभवति।****

सप्टेम्बर23- शास्त्रवचनम्, आप्तवचनम्, आत्मानुसन्धानं च। कदाचित् उद्धवः श्रीकृष्णम् अपृच्छत्, “ स्वमुखेनैव भवान् वदतु यद्भवतः प्राप्तिः अस्माकं कृते कथं भवेत्?” तदा परमात्मा उवाच, “भक्त्या एव मम प्राप्तिः शक्यते।” भक्त्याः त्रीणि साधनानि, शास्त्रवचनम्, आप्तवचनम्, आत्मानुसन्धानं च। साम्प्रतम् अस्माकं सर्वं विपरीतं जातमस्ति। शास्त्रवचनविषये वदामः चेत् वयं एतावन्तः प्रागतिकाः यत् आधुनिकज्ञानेन पुराणेषु विश्वसितुंह्रियम् अनुभवामः। आप्तवचनविषये वदामः चेत् ज्येष्ठस्य पितुः अपेक्षया अधिकम् अध्ययनं यदा भवति तदा पुत्रः चिन्तयति यत् अस्य ग्राम्यपितुः किमर्थं श्रुणोमि? तेन कः लाभः? आत्मानुसन्धानविषये अपि तथैव। साम्प्रतं गवेषणं कस्मिन् विषये भवति? पाण्डवाः कुत्र निवसन्ति स्म? रामस्य जन्म कुत्र जातम्? कौरवपाण्डवानां युद्धं कुत्र जातम्? वदतु एतेन अन्वेषणेन कः लाभः? कश्चन प्राध्यापकः मामुक्तवान्, “मया कृष्णविषये भृशं गवेषणं कृतम्। अधुना तस्य जन्मस्थलं, निर्वाणस्थलं च निश्चितं कृतम्।” यत् कृतं तदस्तु नाम। परं सत्पुरुषाः कृष्णप्राप्त्यर्थं कृष्णजन्मस्थानज्ञानस्य आवश्यकतां नानुभूतवन्तः। दृढोपासनया तैः कृष्णः आत्मीयः कृतः। वस्तुतः कृष्णः भक्तहृदये उपासनया जन्म प्राप्नोति। तदेव तस्य सत्यं जन्मस्थानम्। यदि वयम् अस्माकं वर्तनं पश्यामः, मनसि उद्भूतान् विचारान् पश्यामः तर्हि वयं ज्ञास्यामः यत् यदि जनाः तान् जानन्ति तर्हि अस्मान् मनागपि न द्रक्ष्यन्ति।तथापि वयम् अस्माकं गवेषणानां विचाराणां चाभिमानं धरामः। इदं किं वक्तव्यम्? अनेन किं वयं भगवत्प्रेम लभेमहि? अस्माकं परमार्थः कथं प्रवर्तते इति वक्तुं नान्यस्य आवश्यकता। वयमेव सम्यक् जानीमः खलु। अभिमानः अन्तः गतः, विचारेषु न नियन्त्रणं, साधने अलसः च एतादृश्यां परिस्थित्यां परमात्मप्रेम कथं प्राप्स्यामः? सत्पुरुषैः एतदर्थम् एकः एव उपायः कथितः। सम्पूर्णा शरणागतिः। अन्तःकरणतः सिषाधयिषया रामाय कथयतु यत् ‘हे राम, अधुनाहं तवैव। अद्य प्रभृति यत् भविष्यति तत् तव एव इच्छा इति अहं मन्ये। तव नामस्मरणार्थं निग्रहेण प्रयते। भवान् मां ‘मदीयः’ इति स्वीकरोतु। देवः अवितथं दयालुः। शरणागतजनानां शताधिकान् अपराधान् स्वोदरे जरयित्वा सहाय्यार्थं सः सदैव सिद्धः।

      • नामस्मरणे एकतानतां कृत्वा आत्मानं विस्मरामः।****

सप्टेम्बर24, - कुटुम्बे कथं वर्तनीयम्? देहम् आगत्य सम्बन्धिभि: सह सम्यक् कर्तव्यं करणीयम्। गृहे अत्यन्तं समाधानं भवेत्। बालकैः ज्येष्ठानां दोषाः न द्रष्टव्याः। पितृवत् पुत्रैः सच्छीलैः भवितव्यम्, तेन कुलकीर्तिः वर्धेत। ज्येष्ठैः निवृत्त्यनन्तरं भगवद्दासैः भवितव्यम्। महिलया पतिं विना दैवतं न मन्तव्यम्। सर्वैः भगवन्नामस्मरणं करणीयम्। यः यौवने स्वाभाविकतया व्यवहरति, सः वार्द्धक्ये अपि तथा व्यवहर्तुं शक्नोति, येन वार्द्धक्यं तस्य कृते दुःखदायकं न भवेत्। अस्माकम् अस्वाभाविकेन अत्यासक्त्या वर्तनेन वार्द्धक्ये कर्तृत्वं क्षीयते, आसक्तिः अवशिष्यते, तापदं भवति च। यस्य आसक्तिः आग्रहो वा व्यपगतः सः वृद्धः अशक्तः अपि सर्वैः इष्यते। दुर्बलत्वेन सः न्यूनं शृणुयात्, क्षीणं पश्येत्, गतगोष्ठीः विस्मरेत्, स्वल्पं स्वपेत्,परं तेन न कोऽपि उद्विग्नः भवति। सोऽपि स्वजीवनेन न जामितो भवति। वार्धक्ये अस्माकम् ‘अहं’पूर्णतः निगलेत्!‘परमहं कथयामि किल’ एषा कर्तृत्वभावना नष्टव्या। तेन दुःखं नितरां नश्येत्। प्रपञ्चे प्रत्येकं जनेन अन्तर्मुखेन भूत्वा दोषान् अन्विष्य ते निष्कासनीयाः। वयस: षोडशतः पञ्चविशतिःपर्यन्तं मनुष्यस्य बुद्धिः वर्धते। तां सुयोग्यमार्गेण वर्धयितुं नियमनम् आवश्यकम्। मातृपित्रनुशासनं सर्वोत्कृष्टं नियमनम्। अस्माकं कल्याणमेव तयोः उद्देशः। जगति सर्वं स्वानुभवेन कथं ज्ञातुं शक्नुमः? अतः पित्रो: अनुभवस्य लाभः अवश्यं करणीयः। अस्माकं पितरौ कदाचित् प्रमदतः यतो हि प्रमादः मनुष्यधर्मः। परम् अस्माकं विषये तेषां हितबुद्धिः वर्तते, अतः तयोः प्रमादेन अस्माकं शाश्वती हानिः न भवितुमर्हति। कदा कस्य भाग्यमुदेति इति कोऽपि वक्तुं न प्रभवति। अतोऽस्माभिः कदापि न खेदितव्यम्। श्रेष्ठे सत्कर्मणि विघ्नाः अधिकाः। भगवदनुसन्धानं महत्तमं सत्कर्म। निश्चयेनशङ्कारहिततया च तस्य नामजपं कुर्मः, आनन्दे स्थास्यामः च।

      • अवगुणान् अन्विष्य, त्यक्त्वा च गुणाः स्वीकरणीयाः। *****

सप्टेम्बर25, - अखण्डानुसन्धानार्थं किं करणीयम्? भगवान् अस्मभ्यं बुद्धिं दत्तवान्। ताम् उपयुज्य वयं कार्यं कुर्मःइत्युक्ते भगवान् एव अस्माकंमाध्यमेन कार्यं कारयति। तस्य प्रेरणयैव सर्वं भवतीति भावनया सर्वं कर्म कुर्मः। तेनैव भगवति प्रेम लगति। यत् यत् करणीयं तत् भगवतः कृते एव कुर्मः चेत् पापपुण्ये न बाधेते। कदाचित् कबीरस्य गृहम् अतिथयः आगताः। तेषां भोजनार्थं गृहे किमपि नासीत्। अतिथिः भगवत्स्वरूपः द्रष्टव्यः इति शास्त्रम्। अतः कबीरः तेषां कृते यावत् आवश्यकं तावदेव धान्यं चोरितवान्। चौर्यं पापं, परं भगवतः कृते क्रियते चेत् तन्न बाधते। न्यूनातिन्यूनं कर्म कृत्वा भगवत्स्मरणेन तस्मै समर्पणीयम्। तेन शनैः शनैः अभिमानः अपगच्छेत्, भगवत्प्रेम दृढीभवेत्।वयं भगवतः, न तु जगतः इति एकवारं दृढः निश्चयः करणीयः। वयं मनुष्याः इति भानं यथा दृढं भवति तथा एव एषः निश्चयः अपि दृढः भवेत्। तथापि इदं तु दुष्करम्। ततः सुकर:उपायः वर्तते यत् यत्, भवति तत् सर्वं भगवत्प्रेरणया, तस्य सत्तया, इच्छया चेति भावना दृढा करणीया। तदपि दुस्साध्यं तर्हि वैखर्या अखण्डं नामस्मरणं करणीयम्। एतेन अनुसन्धानेन मनः भगवति लग्नं भवति। सम्प्रतिः अस्माकं विपरीतं प्रवर्तते। शरीरेण वयं पूजां कुर्मः। यात्रा, अन्यकर्माणि चेत्यादीनि अपि कुर्मः। परं मनः प्रपञ्चे भवति। श्वशुरगृहे स्नुषा सर्वेषां कृते कष्टं वहति। कदाचित् पत्युः कृते अधिकं न करोत्यपि,क परम् अन्तःकरणे सा केवलं तस्य कृते एव कुर्वती वर्तते। तथैव प्रपञ्चे सर्वेषां कृते करणीयम्, परम् अन्तःकरणे अहं केवलं रामस्य कृते एवास्मि इति स्मर्तव्यम्। गन्तव्यस्थानं निश्चित्य यानेक उपविश्य गच्छामः चेत् नैकाः घटनाः घटिष्य़न्ति। कदाचित् स्थातव्यं भवेत्। विविधाः जनाः मेलिष्यन्ति, परं गन्तव्यस्थानंटप्राप्य वयं सर्वाणि कष्टानि विस्मरामः। तथैव भगवत्प्राप्तिरिति ध्येयं निश्चित्य निरन्तरम् अटनुसन्धाने यदि भवामः तर्हि प्रपञ्चकष्टानां महत्त्वं क्षणिकं भवति। परं ध्येयं पूर्वमेव निश्चेतव्यम्। भगवन्नाम भगवत्कृपायै स्मरणीयं न तु कामनापूर्त्यै। नामस्मरणमेव गन्तव्यस्थानं नयेत्। भगवद्वत् अस्माभिरपि प्रपञ्चे भूत्वापि बहिः स्थातव्यम्। स्वदेहं प्रति साक्षित्वेन द्रष्टव्यम्। तन्न शक्यते चेत् कर्मव्यापृतत्वे स्थित्वा अनुसन्धाने वर्तितव्यम्। पठितं विस्मर्येत, कृतं विस्मर्येतपरम् अन्तःकरणे दृढं निगृहीतं भगवदनुसन्धानं कदापि न विस्मर्येत।

      • कलियुगे अवतारः¬¬¬¬¬¬¬ नास्ति परं नामावतारः वर्तते। सः एव तारकः।****

सप्टेम्बर26 – भगवद्विस्मरणम् आत्महननमेव। कदाचित् कश्चन जनः उत्तमव्यञ्जननिर्माणपाठनार्थं शालाम् आरब्धवान्। तत्र सः व्याख्यानद्वारा पाचनविधिं पाठयति स्म। परं तस्य छात्राणां गृहे रोटिकानिर्माणार्थं सामान्यं पिष्टमपि नासीत्। तेषां कृते तद्ज्ञानस्य कः उपयोगः? वेदान्तविषयिकी चर्चा ज्ञानं वा एतादृशं व्यञ्जनज्ञानेन सदृशमेव वर्तते। यः मनुष्यः वेदान्तस्य केवलम् अध्ययनं करोति सः तथा लाभं न प्राप्नोति। व्यवहारे निरुपयोगि ज्ञानं यद्यपि सत्यं तथापि नास्माकं कृते लाभाय। वयं तथा च सत्पुरुषा: इति एतेषां मध्ये एषः एव भेदः यत् वयं जगत् देवं मन्यामहे, सत्पुरुषाः देवं जगन्मन्यन्ते। वस्तुतः आचरणार्थं सुलभः विषयः समञ्जनाय वक्तुं दुष्करः। अनुभवेनैव सः ज्ञातव्यः। यस्य अनुभवः परावलम्बी सोऽपूर्णः। इत्युक्ते मिश्रणेन यदि व्यञ्जनं रुचिकरं भवति तर्हि पदार्थद्वयम् अपि अपूर्णम्। अस्मिन् जगति सर्वदृष्ट्या पूर्णः केवलः भगवानेव। तस्य विस्मरणम् आत्महत्या एव। अतः सदा तेन सहवासः इत्युक्ते तस्य नामस्मरणे एव भवितुं प्रयत्नाःविधेयाः। सर्वकीर्तनानां सारः एषः एव। केवलम् उपस्थापनं भिन्नम्। रामराज: सर्वान् वानरान् सीताम् अन्वेष्टुम् उक्तवान्। प्रत्येकं वानरः ‘हुम्’ इति कृत्वा ततः गतवान्। केवलम् अतिबुद्धिमान् मारुतिः अपृच्छत्, “सीतामातरं कथं परिचिनोमि?” तदा श्रीरामः भृशं वर्णनम् अकरोत्। सा बहु सुन्दरी वर्तते इत्युक्तवान्। परं सुन्दरी स्त्री कथं दृश्यते इत्येव सः न जानाति स्म। श्रीरामेण ज्ञाते सति उक्तं, “ मया यदुक्तं तद्भवता नावगतम्। अतः रामनामध्वनिः निरन्तरम् यतः याति तत्र सा वर्तते इति जानातु।” तदा मारुतिना अवगतम्। यः भगवन्नामचिह्नं सम्यक् मनसा ज्ञातवान् तस्य जन्म सार्थं जातम्। तस्य परमार्थः सफलीभूतः। अधिकं किमपि प्राप्तुं नावशिष्टं तस्य कृते। मारुतेः भक्तिः महती। श्रीरामेण चिन्तितं यत् तस्मै किमपि ‘चिरञ्जीवं’ दातव्यम् तेन सः समाहितः भवेत्। अतः तस्मै सः स्वनाम ‘चिरञ्जीवः’ इति दत्तवान्। तेन नाम्ना सह सोऽपि चिरञ्जीवः जातः।

      • सर्वेषां सत्पुरुषाणां कथनं वर्तते यन्मनसा नामजपतु, स्वकर्तव्यमपि पारयतु च इति।** ,

सप्टेम्बर27, - स्मरणं कृतिः एव। गुरुणा सर्वं करणीयमिति सत्यम्। सः करोति इत्यपि सत्यमेव। परं वयं सच्छिष्याः स्मः वा इति द्रष्टव्यम्। देहातीतेन भवितुं गुर्वाज्ञया वर्तनीयम्, इतः परं किम्?‘नाहं देही’ इति सततम् उच्चारणेन कदाचित् अहं देहातीतः भवेयम्। अपरः मार्गः इत्युक्ते ‘भगवान् मम’ इति वक्तव्यम्; तेन देहं विस्मरामः। समर्थरामदासस्य नाम्ना कथयामि यत् स्वनीतिधर्मम् आचरन्तु, कस्मिन्नपि प्रसङ्गे नाम न विस्मरन्तु इति। यत् यत् करोमि तत् तत् भगवतः कृते इति यस्य भावः सोऽवितथम् उत्तमः भक्तः। कर्तृभावं परिहर्तुम् उत्तमभक्तेन भवितव्यम्। भक्तस्य लक्षणं वर्तते यत् भगवन्तं विना किमपि नेच्छामि इति भावः। भगवतः अस्मान् अपनयति तत् वास्तवं सङ्कटम्। सः एव कालः सुखमयः, यः भगवत्स्मरणे व्यतीतः भवति। वस्तुतः स्मरणं कृतिः, विस्मरणं वृत्तिश्च। भगवतः स्मरणं करणीयम् इत्युक्ते हवनं करणीयम्। अभिमाननाशः पूर्णाहुतिरेव। वृत्त्या भगवदाकारेण भवितव्यम्। अस्मभ्यं यत् रोचते तत् सहजं स्मर्यते। विषयाः अङ्गभूताः, अतः तेषां स्मरणं सहजं वर्तते। परं भगवतः स्मरणं प्रयत्नेन करणीयम्। इदं न बहु सरलं, परं न बहु कठिनमपि। मनुष्यः तत् कर्तुं शक्नोति। भगवतः भक्तिः सहजसाध्या। अनुसन्धानेन सा साध्या। ज्ञात्वा अनुसन्धानं करणीयम्। तत्र अनुभवः शीघ्रम् भवति। प्रहरी यदि सदा जागरित:, तर्हि चोराः किमपि कर्तुं न शक्नुवन्ति, तथा नित्यजागरणे अनुसन्धानेच विषयाः पङ्गवा भवन्ति। चोरः कदापि आगच्छेत् इति ज्ञात्वा अनुसन्धानात् न प्रमदितव्यम्। आगते ज्वरे मुखं तिक्तायते, जिह्वायां मर्दितायां शर्करायाम् अपि मुखं न मधुरायते च। तदर्थं ज्वरेण एव व्यपगन्तव्यम्। तथैव उपरितन्याः क्रियायाः करणेन दुःखं न नश्यति। तदर्थम् अनुसन्धानम् एव आवश्यकम्। कदाचित् कश्चन बालकः परीक्षार्थं मुम्बयीम् आगतः। परीक्षापर्यन्तं सः बद्धः। समाप्तायां परीक्षायां सोऽभणत्, “ अधुनाहं मुक्तः।” अथ चतुर्दिनानि मुम्बय्यां विनोदेन आहिण्डत। तथैव अनुसन्धानेन प्रपञ्चासक्त्याः मुक्तः भूत्वा विनोदेन प्रपञ्चः करणीयः।तेनवयं पूर्णानन्दं प्राप्स्यामः। देहल्यां दीपं स्थापयामः चेत् उभयत्र प्रकाशते तथैव भगवदनुसन्धानं देहलीदीपः। प्रपञ्चपरमार्थौ उभौ प्रकाशेते। प्रपञ्चे मनसा किञ्चित् अवधातव्यं भवति। इदमेव भगवतः अधिष्ठानम् इत्युक्ते अनुसन्धानम्।

        • भगवदिच्छया अकर्तृभावेन कर्मकरणम् एव अनुसन्धानं भक्तिः वा।****

सप्टेम्बर28, - अनुसन्धानेन अभिमानः नश्यति। अभिमानं त्यक्त्वा गृहस्थाश्रमम् आचरति सः वास्तवः परमार्थी। अभिमानत्यागेन गृहस्थाश्रमः सम्यक् भवति। ‘यथाहं वदामि तथैव भविष्यति’ इति कदापि न वक्तव्यम्। अभिमानाधारेण निर्मितं भवनम् अस्थिरमेव भवति। अभिमानः देहस्य देहसम्बद्धविषयाणां च भवति। अभिमानस्य मूलम् एव उत्पाटनीयम् इत्युक्ते ‘अहं देहस्य’ इति भावः निष्कासनीयः। एष देहः न ममैति वयं स्वीकुर्मः परंतेन सह अखण्डवासेन तस्मिन् वयं प्रीणीमः। कदाचित् देहे प्रेम भवति चेत् अभिमानः उद्भवत्येव। लोभः क्रोधः चानुसरतः। अभिमानः इत्युक्ते ‘अहं कर्ता’ इति भावना। इमां भावनां विहाय कार्यं कुर्मः तर्हि व्यवहारे कोऽवरोधः? अस्माकं देहमनसोः नितरां सम्बद्धः। परं देहः नश्वरः अतः तस्य अधिकं महत्त्वं न वर्तते। केवलं स्थूलस्य देहस्य न लाभः। अस्माकं मनः सिद्धं भवेत्। ‘अहं भगवतः’ इति जानीमः चेत् अभिमानरहिताः भवितुं शक्नुमः। सदा भगवद्भजने भवितुं यतन्ताम्। तेनाभिमानः न स्पृशति। अश्रुपूर्णनेत्राभ्यां भगवन्तम् आह्वयामः, तं शरणं गच्छामः च। कृपाम् अकृत्वा भगवान् न भवितुमर्हति। अस्माकं मर्यादाः ज्ञात्वा वर्तामहे। यावत्पर्यन्तम् अमुकविषयः अमुकप्रकारेण भवेदिति मनः चिन्तयति तावत्पर्यन्तं व्यवहारे सुयोग्यप्रयत्नाः करणीयाः, परम् अनन्तरं फलदानं भगवत्कार्यमिति विचिन्त्य यत् भवति तेन समाधातव्यम्। अन्तःकरणस्य शुद्धत्वं सदा रक्षणीयम्। रात्रौ शयनसमये अन्तरङ्गं शोधनीयम् यत् किमहं कस्यचित् द्वेषं मत्सरं वा करोमि? तथास्ति चेत् मनसः सः बलेन निष्कासनीयः। सः स्वल्पः वावशिष्टः चेत् परमार्थे अवरोधः भविष्यति। अस्माकं मनसे निश्चयेन कथयितव्यं यन्नाहं कमपि द्वेष्मि इति। स्वान्तःकरणम् एतादृशं शुद्धं सरलं च भवेत् यदस्माभिः तु न कस्यापि द्वेषः करणीयः परमन्यः कश्चन मां द्वेष्टि इति कल्पनापि न करणीया। ‘अहं भगवतः, न देहस्य’ इति अनुसन्धाय ‘वयं भगवतः’ किमर्थं न भवितुं शक्नुमः? अन्तर्बाह्यं यः भगवतः, ज्ञानव्यापृतः वा सः एव अवितथं ज्ञानी। यथा संवेदना सम्पूर्णे शरीरे व्यापृता भवति तथा भगवत्स्मरणं सम्पूर्णे मनसि व्यापृतं यदा भवति तदा सः वास्तवः साधकः। सः एव अनुसन्धानकर्ता। सः एव मुक्तः।

      • अग्नेः समीपे घृतं द्रवीभवति तथा नामचुल्ल्याः समीपे अभिमानः द्रवीभवति।****

सप्टेम्बर29, - प्रपञ्चः साधनं परमार्थः साध्यश्च। ‘अहं न प्रपञ्चस्य कृते, अहं रामस्य कृते’ इति भावना रक्षणीया। ‘अहं मम कृते जीवामि’ इति अनुक्त्वा ‘रामस्य कृते जीवामि’ इति वदामः। तेन रामस्य गुणाः अस्मासु आगच्छन्ति। यदि वयं प्रपञ्चार्थं जीवामः,तर्हिप्रपञ्चस्य गुणाः अङ्गे उद्भवन्ति, अतः भगवतः कृते जीवनीयम्। प्रपञ्चः साधनं परमार्थः साध्यः च। प्रपञ्चं विना कः भवितुमर्हति? परं सत्पुरुषाः तस्य सदुपयोगं कुर्वन्ति। वयं तथा न कुर्मः। अतः अस्माकंपरमार्थः न सिद्ध्यति। जगति त्रय़ः विषयाः दुर्लभाः। मनुष्यजन्म, सत्समागमः, मुमुक्षत्वं च। मनुष्यजन्म परमार्थाय एव, न तु भोगार्थम्। परमार्थस्य सिषाधयिषा उत्पद्येत। सिषाधयिषायाम् उत्पद्यमानायां सत्यां, मनसि शुद्धत्वे सति च श्रीरामदर्शनं भवेदेव। दीपः प्रज्वालितः, परं पुनः पुनः तैलं न योजितं तर्हि सः निर्वपेत्। स्मरणरूपं तैलं योजयामः चेत् दीपः निरन्तरं प्रज्वलेत्। परमार्थः मुख्यतः अनुभवविषयः। पण्ढरपुरं गन्तव्यं चेत् मार्गे चलनीयम्। दर्शकः कश्चन मिलेत्। न्यूनातिन्यूनं फलकानि तु दृश्येरन्। वयं परमार्थमार्गे न चलामः, तर्हि दर्शकः कथं लभ्येत? परमार्थमार्गे गुरुः तु निश्चयेन लभ्येत। अखण्डरामस्मरणं कुर्वन्तः परमार्थमार्गे चलनम् आरभामहे। आचारविचारयोर्मध्ये समञ्जनम् आवश्यकम्। प्रवचने श्रुतं स्वल्पं वा आचरामः। प्रवचने यदवगतं तस्य आचरणे का समस्या? यत् नावगच्छामः तदपि अग्रे शनैः शनैः ज्ञास्यामः। गृहात् प्रस्थितेन जनेन अनुक्षणं गन्तव्यस्थानं न दृश्यते। प्रथमम् एकः मार्गः, अनन्तरं द्वितीयः, अनन्तरं तृतीयः एतेन क्रमेण गन्तव्यस्थानं सः प्राप्नोति। तथैव श्रुतं सर्वं नावगच्छामः तर्हि यदवगतं तदाचरणे आनयामः। दृढनिश्चयेन एकैकं मार्गं क्रमाम:¬ चेत् गन्तव्यस्थानं निश्चयेन प्राप्नुमः। अतः भगवत्स्मरणं रक्षणीयम्। प्राणादपि तत् रक्षणीयम्। सत्पुरुषाणां, सद्गुरोः, शास्त्राणां च वचनेषु दृढः विश्वासः करणीयः। बुद्धिभेदः न भवेत् इति अवधातव्यम्। तथा वर्तामहे चेत् प्रपञ्चः परमार्थरूपः भवेत्। ‘अहं रामस्य’ इति परमार्थः, ‘अहंबुद्धिः’इतिप्रपञ्चः। परमार्थे अहंकारः सम्मिलति चेत् प्रपञ्चः। विपरीतं यत् प्रपञ्चात् अहंकारः अपगच्छति चेत् सः परमार्थः। संसारवृक्षे वयम् अहंकारजलं नैकवारं सिञ्चामः, तेन सः वर्धते। एषः अभिमानः एव नाशनीयः। वास्तवः कर्ता ईश्वरः, परं जीवः ‘अहं कर्ता’ इति वृथा मन्यते। वृक्षस्य पर्णं रामं विना न कम्पते। देहस्य योगक्षेमं सः एव चालयति। ‘अहं कर्ता न, रामः कर्ता’ इति भावना वर्धनीया एव। एषैव वास्तवोपासना।

      • यदिकर्तृत्वं न मनुते तर्हि जीवः सुखदुःखं न भुङ्क्ते।***

सप्टेम्बर३०–सावधानताभवतुप्रपञ्चे।मनःसदाश्रीरामे।। सर्वेषांसमाधानंरक्षणीयं।किन्तुमनःरामेयोजनीयम्।।रामंसंस्मृत्यजगतिव्यवहरणीयं।तेननभवतिपश्चात्तापकरणम्।।अतःप्रत्येकंकृतेःसाक्षीभवतुरामः।एषःएवयथार्थःपरमार्थः।।व्यवहारज्ञानेनव्यवहारःकरणीयः।गुर्वाज्ञयाकरणीयःपरमार्थः।।कलिःअत्यन्तंप्रमत्तः।कोलाहलःसर्वतःजातः।चेतःरामेदृढं।तदासम्यक्भवतिकार्यम्।।एकस्मिन्स्थानेस्वस्थम्उपविशतु।रामंमनसिआनयतु।प्रयत्नान्तेपरमात्मा।चित्तेएषःभवतुउपायः।व्यवहारेसावधानं।गतंतद्गतं।सुखेनभवतुयत्भवितव्यं।तन्नचिन्तनीयम्।अधुनास्मरन्तुरघुवीरम्।।हानिकरःनास्तिव्यापारः।येनगृहम्आनीतःरघुवीरः।।केवलंप्रयत्नेनयदिसुखंलभ्यते।तर्हिकिमर्थंसर्वत्रदुःखवातःप्रवर्तते।।अतःपरमार्थप्रयत्नयोःसंयोजनम्।अवश्यंकरणीयं।तेननक्लिश्नातिचित्तम्।।यत्रमन्यतेहितं।तत्ररमतेचित्तं।तत्भगवतियोजनीयं।देहेनकरोतुव्यवहारम्।चित्तेएकःसंकल्पः।भगवान्नकदापित्यक्तव्यः।।रामःममस्वामी।सःमांसमाजेरक्षति।इतिसदाचिन्तयेत्मनः।अथविषयसङ्गःयोग्यतयाकरणीयः।। देहःरामायअर्पणीयः।मुखेनरामःजपनीयः।।सत्सङ्गतिः।रामेप्रीतिः।सःधन्यःजगति।सम्यक्कृत्वाव्यवहारं।रक्षन्तुपरमार्थम्।।रामंसंस्थाप्यहृदये।सावधानंभवन्तुव्यवहारे।।रामचिन्तनं, नामानुसन्धानं।मनःभगवत्परायणं।साधूनांसन्मानम्।अतिथिभ्यःअन्नदानं।भगवतःभीत्वावर्तनं।परमार्थःनविनाएनम्।।प्रपञ्चेसावधानं।मनसासदारामध्यानं।तस्मैरामःसर्वंददाति।नकरोतुचिन्तांकामपि।।नारिकेलत्वचा।गर्भःभवतिसमीचीनतया।तथैवबाह्यतःदेहः।चेतसिभवतुरघुनन्दनः।।परमार्थःरक्षणीयः।रामायसमर्प्यमनः।।प्रपञ्चेसावधानः।कर्तव्येदक्षः।रामपक्षःनत्यक्तव्यः।।प्रयत्नान्तेपरमेश्वरःइतिसद्वचनं।मनसिसुदृढंस्थापनीयम्।।किन्तुयेनआरम्भेरामःस्मृतः।तेनप्रयत्नान्तेसःप्राप्तः।इतिभवतुविश्वासः।तेनसुखमयःसंसारः।।कर्तव्येभगवत्स्मरणं।इदमेवसमाधानसाधनम्।।प्रयत्नःकरणीयःमनसा।नधरणीयाफलापेक्षा।।कर्तव्येतत्परता।तदाभवतिबुद्धेःनिस्स्वार्थता।।यावत्देहस्यस्मरणं।तावत्व्यवहाररक्षणं।कर्तव्यभावनयाप्रयत्नः।भगवदधीनंयशः।।

        • दातारामःइतिनिधायमनसि।अस्माभिःव्यवहरणीयंजगति।। ****