सभारञ्जनशतकम्
सभारञ्जनशतकम् नीलकण्ठदीक्षितः १९३७ |
बालपोत का गाड्दानीपारेशानमाम्डरित्र माध्डतः । स्वभावित करना ।। १ ।। १. श्रीमदापात पा ५i,wkuti गात्री नारायणक्षित नीलकण्ठयोila . : ........४२५४२६ मन शानलंबकार जन्म नाचतो ....... अदानाधिकचतुःजहलेष "१४३) । कालेज ग.:५५ र १६ विजयोऽगभू ।। इति स्व- न्यूनिर्माणसमय लिखित साता माल ५.५४ दीक्षितता अन्धास्दैते. अन्यापदेशनातकम् , रातकम् , ( सावतरणम् , नीरावधयः (नी....विलासः, (क) शिवलीला- गंजः, (५) भावना .. गमुत्पनेन शंकरवी क्षितेत प्र- गीता भावसायमाद्वितीया श्रीमद्प्प- क्षितीक्षा मांना सुपरsne कदाक्षितेने त्यपि केचिन्ति. अस्सटेंपुरंतजदये तु अपदीक्षिततमुपदेशशतकम्' इत्यैचारित ( औषतभती नाईकमाज को नीलकण्ठः, (२) काशिकाविलवर्ग एसमसजानकारन नपानी गोलकप्छ . जरजास- सूतस्यता कदिनी मा गोलभचारी, () nisisi am mai füom, tu Tilk-in? 7 at 22:0376- सूचनाकार को भारत।२६।१६ मायाता गोविन्द- सूतुलिकरार, (तता देवरानीलकण्टदेवज्ञ., बल्लादा अन्वेऽपि रहवा बाल काटावत्तईश वाले व सजन, श्रीमाधवनविना शंकर विजमय वश सर तदनन्तरमा भगत यः प्रतिपादयन्तनम् । हरदत्तसमायोशांचेगम्य खबरले समालनम् ॥' सितभूतितरशि- ताखिलातः शुभाशमला: ८. परिवानपीवशास्त्रमुनिरागान्तन दर्भ कियः ॥', 'विजित यादि: AAT: सह भर्वेण वय च स्वशा- पर शरण विधानसहाय व सामाशिप्यैः ॥' इत्यादिना वर्णितः वर मान्को महब श्री राजार्थसमयेऽ यासीत. ब्रह्ममीमासारता नाकाबाचीयः कदा मलीत. १९० काव्यमाला । सन्ति सर्वविधा मर्त्या न सन्त्येके विपश्चितः । असूर्येणेव लोकेन किं तेन विषयेण नः ॥ २ ॥ उधन्तु शतमादित्या उद्यन्तु शतमिन्दवः । न विना विदुषां वाक्यैर्नश्यत्याभ्यन्तरं तमः ॥ ३ ॥ बहुभ्यो बहु बोद्धव्यं बहुधा बहुवासरान् । बहुकल्पशतस्थायि लब्धुं बहुविधं यशः ॥ ४ ॥ पाषाणाः सर्व एवैते पद्मरागेषु को गुणः । प्रकाशः कश्चिदत्रास्तेऽपरत्र स न विद्यते ॥ ५॥ जात्यन्धा जातिबधिरा जातिमूकाश्च ते जनाः । सम्यगाराधिता यैन सन्तो विज्ञानसिन्धवः ॥ ६ ॥ अपि मानुष्यकं लब्ध्वा भवन्ति ज्ञानिनो न ये। पशुतैव वरा तेषां प्रत्यवायाप्रवर्तनात् ॥ ७ ॥ किं परोक्षं किमध्यक्षं किं लभ्यं किं नु दुर्लभम् । सर्वमैन्द्रियकं वस्तु सर्वं करगतं सताम् ॥ ८ ॥ स्थावरा जङ्गमा मर्त्या ब्राह्मणा मुनयः सुराः । शिव इत्यप्यमी भेदाश्चिदुत्कर्षनिबन्धनाः ॥ ९ ॥ विद्युज्जलधरो वृष्टिश्चन्द्रार्कौ सागरा इति । सर्वमद्भुतमज्ञानाज्जानतां तु न किंचन ॥ १० ॥ तत्र तत्र स्थितैनिकरणैरिव विग्रहः । विद्वद्भिः शोभते देशस्तैविहीनस्त्वमङ्गलः ॥ ११ ॥ अमलीमसमच्छिद्रमक्रौर्यमतिसुन्दरम् । अदेयमप्रतिग्राह्यमहो ज्ञानं महाधनम् ॥ १२ ॥ संदर्भशक्तिहीनानां शब्दाभ्यासो वृथा श्रमः । मुग्धानि लब्ध्वा पुष्पाणि मुण्डितः किं करिष्यति ॥ १३ ॥ सभारञ्जनशतकम्। १९१ शास्त्रेषु दुर्ग्रहोऽप्यर्थः स्वदते कविसूक्तिषु । दृश्यं करगतं रत्नं दारुणं फणिमूर्धनि ॥ १४ ॥ आञ्जस्यं व्यवहाराणामार्जवं परमं धियाम् । स्वातन्त्र्यपि तन्त्रेषु सूते काव्यपरिश्रमः ॥ १५ ॥ साहित्यविद्याहीनानां सर्वशास्त्रविदामपि । समाजं परिपश्यन्ति समजं बुद्धिशालिनः ॥ १६ ॥ अशिक्षितानां काव्येषु शास्त्राभ्यासो निरर्थकः । किमस्त्यनुपनीतस्य वाजपेयादिभिर्मखैः ॥ १७ ॥ अन्धा विद्वज्जनैर्हीना मूका कविभिरुज्झिता । बधिरा गायनैर्हीना सभा भवति भूभृताम् ॥ १८ ॥ साहित्यादपि शास्त्राणि विशिष्टानीति चेन्मतिः । ततोऽपि वेदाध्ययनं ततोऽपि शिवकीर्तनम् ॥ १९ ॥ सन्त्वश्वाः सन्तु मातङ्गाः सन्तु योधाः सहस्रशः । नरेन्द्राणां विशेषेण न विना कविना यशः ॥ २०॥ काणाः कमलपत्राक्षाः कदर्याः कल्पशाखिनः । कातरा विक्रमादित्याः कविदृग्गोचरं गताः ॥ २१ ॥ पारवश्यं वृथा दास्यं पञ्चानामेकदारता । पाण्डवानामभूत्कीर्त्यै पाराशर्यकवेगिरा ॥ २२ ॥ जानाते यन्न चन्द्रार्कौ जानते यत्र योगिनः । जानीते यत्र भोर्गोऽपि तज्जानाति कविः स्वयम् ॥ २३ ॥ सर्वासामपि विद्यानां साहित्यं हि कवेः पदम् । साधारण्येऽपि यत्रैव सारखतपदं ध्रुवम् ॥ २४ ॥ १. समजः, पशुसमूहः, १९२ काव्यमाला। नादातव्यं न दातव्यं न कर्तव्यं च किंचन । सान्त्वमेकं प्रयोक्तव्यं सर्वं तस्य वशे जगत् ।। २५॥ नामरूपात्मकं विश्वं दृश्यते यदिदं द्विधा । तत्राद्यस्य कविर्वेधा द्वितीयस्य चतुर्मुखः ॥ २६ ॥ ज्योतिष्टोमे किमुक्थ्ये किं किमाज्ये किं रथन्तरे। स्तुतिरित्येव हृष्यन्ति सर्वज्ञा अपि देवताः ॥ २७ ॥ न जातिरूपकर्माणि दृश्यन्ते मृदुभाषिणि । पक्षिणो मलिनास्तत्र परपुष्टा निदर्शनम् ॥ २८॥ अर्थहीनोऽपि मधुरः शब्दो लोकप्रियंकरः । वीणावेणुमृदङ्गादीन्यत्रोदाहरणानि नः ॥ २९ ॥ जिघांसन्तोऽपि पशवो रुदन्तोऽपि स्तनंधयाः । घ्नन्तोऽपि रिपवो युद्धे वशमायान्ति सान्त्वतः ॥ ३०॥ दातुः प्रतिग्रहीतुश्च यौ हस्तावुत्तराधरौ । तयोरप्यौत्तराधर्यं ताभ्यामेवोपपाद्यते ॥ ३१ ॥ अमर्त्याः सन्तु मा वा चेतनाः सन्त्वचेतनाः । दानमेव पुरस्कृत्य स्तूयन्ते भुवनैस्त्रिभिः ॥ ३२ ॥ देयं द्रव्यमियत्तावद्दानोत्कर्षे न कारणम् । किं त्ववच्छेदराहित्यं धनदाम्बुदयोरिव ॥ ३३ ॥ ददातिराददातिश्च द्वावेतौ परमाद्भुतौ । ययोः स्वाम्यं च दास्यं च लीलामात्रविजृम्भितम् ॥ ३४ ॥ दोषा अपि गुणायन्ते दातारं समुपाश्रिताः । कालिमानं किलालम्ब्य कालमेघ इति स्तुतिः ॥ ३५ ॥ किं दातुरखिलैर्दोषैः किं लुब्धस्याखिलैर्गुणैः । न लोभादधिको दोषो न दानादधिको गुणः ॥ ३६॥ सभारञ्जनशतकम् । १९३ अर्थाः साधारणा एव वियुज्यन्ते स्वभावतः । ममतां त्यजतां तेषु महदुत्पद्यते यशः ॥ ३७ ॥ मृतोऽप्यर्थं न मोक्ष्यामि बद्ध्वा नेष्यामि मूर्धनि । इति चेत्सुदृढो लोभः पात्रे देयमशङ्कितम् ॥ ३८ ॥ षष्टिर्देशान्तरे लभ्या शतं दत्त्वात्र नैगमे । पात्रे त्वेकमिहोत्सृज्य परत्रानन्तमाप्यते ॥ ३९ ॥ को दत्ते क इवादत्ते स्वादृष्टं स्वेन भुज्यते । धीभेदमात्रे दातृत्वे क्लिश्यन्ते कृपणाः कियत् ॥ ४० ॥ स्वातन्यं यदि चोरेऽपि भोक्तृत्वं यदि बन्धुषु । निष्कर्षे तु भ्रमः स्वाम्यं तत्त्यक्त्वा लभ्यतां यशः ।। ४१ ।। न धैर्येण विना लक्ष्मीर्न शौर्येण विना जयः । न ज्ञानेन विना मोक्षो न दानेन विना यशः ॥ ४२ ॥ स्वकीयान्भुञ्जते मत्स्याः स्वपत्यानि फणाधराः । बलाबलव्यवस्थेयं बलिनस्त्वकुतोभयाः ४३ ॥ गुरुं हत्वा दिवं यान्ति तृणं छित्त्वा पतन्त्यधः । बलिनां दुर्बलानां च श्रुतयोऽपि द्विधा स्थिताः ॥ ४ ॥ बलिनो बलिनः सिह्यन्त्यबलं तु न गृह्यते । दावं दीपयते चण्डो दीपं व्याहन्ति मारुतः॥ ४५ ॥ बाधका अपि लोकानां बलिनो बिभ्यति स्वयम् । सर्व बलवतः पथ्यं भिषग्भिरपि गीयते ४६॥ शुभप्रारब्धलब्धायि लक्ष्मीः शौर्यविवर्जिते । शोकेन दुःखमाप्नोति षण्ढे कुलवधूरिव ॥ १७ ॥ १. वणिजि. काव्यमाला। सर्वत्र लाल्यते शूरो भीरुः सर्वत्र हन्यते । पच्यन्ते केवला मेषाः पूज्यन्ते युद्धदुर्मदाः ।। ४८ ॥ भार्यायाः सुन्दरः स्निग्धो वेश्यायाः सुन्दरो धनी । श्रीदेव्याः सुन्दरः शूरो भारत्याः सुन्दरः सुधीः ।। ४९ ॥ न शौर्य शौर्यमित्येव स्तूयते बुद्धिशालिभिः । किं तु नीत्या समाश्लिष्टं वाग्मित्वमिव मेधया ॥ ५० ॥ शौर्येण लोकसेव्यत्वं शौर्येण क्षितिपालता। शौर्येण लभ्यः स्वर्गोऽपि शौर्य कस्य न साधनम् ।। ५१ ॥ समरेषु नरेन्द्राणां सवनेषु द्विजन्मनाम् । पतिकर्मसु नारीणां शौर्यं भवति भूषणम् ॥ ५२ ।। शौर्ये तुल्ये कथं वृत्तं स्वामी दास इति द्विधा । अन्वयव्यतिरेकाभ्यां नीरैरित्यवधार्यताम् ।। ५३ ॥ न जयाय स्वतः शौर्यं किं तु नीत्योपबृंहितम् । प्रयुक्तं हि जयत्यस्त्रं प्रयोक्ता न स्वतः क्वचित् ॥ ५४॥ इदमेव परं शौर्यमुपायैस्त्रिभिरन्वितम् । इदमेव परं मौर्ख्य॑मुपायैस्त्रिभिरुज्झितम् ॥ ५५ ॥ पराक्रमन्ते युद्धेषु सममेवोभये भटाः । विजयन्तेऽभ्युपायज्ञा विजीयन्ते तदुज्झिताः ॥ ५६ ॥ किं शास्त्रैर्बहुधाभ्यस्तैः किं चातुर्येण किं धिया । किं शौयेणानिवार्येण ललाटे चेन्न लिख्यते ।। ५७ ।। घटमानाः कुटुम्बेषु दरिद्रति विपश्चितः । मूढेषु रमते लक्ष्मीरहो दिष्टस्य चेष्टितम् ॥ ५८ ॥ तुल्यं कर्षन्ति पृथिवीं तुल्यं शास्त्राण्यधीयते । उन्मज्जन्ति निमज्जन्ति दिष्टस्यैकस्य चेष्टया ॥ ५९ ।। सभारजनशतकम् । लुभ्यन्ति वितरन्तोऽपि कुप्यन्ति सरला अपि । मुह्यन्ति मतिमन्तोऽपि भोक्तुर्भाग्यविपर्ययात् ॥ ६॥ अधीयते विजानन्ति विरज्यन्ति मुहुर्मुहुः । नात्यन्ताय निवर्तन्ते नरा वैषम्यतो विधेः ॥ ६१ ॥ दोहदैरालवालैश्च कियद्वृक्षानुपास्महे । ते तु कालं प्रतीक्षन्ते फलपुष्पसमुद्गमे ॥ ६२ ॥ कः प्रसूते पुरोवातं कः प्रेरयति वारिदम् । प्राप्ते तु श्रावणे मासि भवत्येकार्णवं जगत् ॥ ६३ ॥ कालः करोति कार्याणि काल एव निहन्ति च । करोमीति विहन्मीति मूर्यो मुद्धति केवलम् ॥ ६४ ॥ अपि कालस्य यः कालः सोऽपि कालमपेक्षते । कर्तुं जगन्ति हन्तुं वा कालस्तेन जगत्प्रभुः ॥ ६५ ॥ कालः सदागतिरपि स्थायीव परिचेष्टते । चण्डमारुतवद्विश्वमधरोत्तरयन्क्षणात् ॥ ६६ ॥ कालचालयति प्रायः पण्डितान्पामरानपि । तं चेच्चिकीर्षसि वशे तितिक्षैव महौषधम् ॥ ६७ ॥ रन्धेषु प्रहरिष्यन्तः कति कामादयोऽरयः । क्षणान्नश्यति लोकोऽयं क्षमा चेन्न नियच्छति ॥ ६८॥ अपकारदशायामप्युपकुर्वन्ति साधवः । छिन्दन्तमपि वृक्षः स्वच्छायया किं न रक्षति ॥ ६९ ॥ स्रवत्येव तदा ज्ञानं स्रवत्येव तदा तपः । छिद्रं छिद्रमनुप्राप्य न चेच्छादयति क्षमा ॥ ७० ॥ क्षमा रक्षन्ति ये यत्नात्क्षमां रक्षन्ति ते चिरम् । क्षमास्ते निभृता येषु क्षमास्ते सर्वकर्मसु ॥ ७१ ॥ काव्यमाला। मूर्खाः शमयितुं दुःखं संरभन्ते ततस्ततः । क्षमयैव निगृहन्ति धीराः संरम्भवर्जिताः ॥ ७२ ॥ आ कल्यादा निशीथाच्च कुक्ष्यर्थं व्याप्रियामहे । न च निर्वणुमो जातु शान्तास्तु सुखमासते ॥ ७३ ॥ नायास्यन्ते शरीराणि न दैन्यमवबुध्यते । संभवत्यपि चानन्दः शान्तिमभ्यस्यतां सताम् ।। ७४॥ प्रसीदत्यपरिस्पन्दि पयः कलुषितं यथा । तथाऽशान्तमपि स्वान्तं प्रसीदति शनैः शनैः ॥ ७५ ॥ यत्नेन महता लभ्या दासा द्वित्राः सुखाय नः । शान्तस्य कालादृष्टाद्याः शतं भृत्या अवेतनाः ॥७३॥ अपि मृद्वया गिरा लभ्यः सदा जागर्त्यतन्द्रितः । नास्ति धर्मसमो भृत्यः किंचिदुक्तस्तु धावति ॥ ७७ ॥ अर्थेनोपाय॑ते धर्मों धर्मेणार्थ उपार्ज्य॑ते । अन्योन्याश्रयणं ह्येतदुभयोत्पत्तिसाधनम् ॥ ७८ ॥ विपणिः पुण्यतीर्थानि विक्रेतारस्त्वकिंचनाः । तृणेनाप्यन्ततो धर्मः पर्वसु क्रियते महान् ॥ ७९ ॥ चुलकोदकमात्रेण धान्यमुष्टिव्ययेन वा । मरुभूमिपु दुर्मिक्षे धर्मसस्यं महाफलम् ॥ ८० ॥ धर्मो नर्मसखः कामे गुरुस्तत्त्वोपदेशने । भटः संगररङ्गेषु सचिवोऽर्थसमर्जने ॥ ८१ ॥ भुवि वृक्षो दिवि च्छाया भुवि कूपो जलं दिवि । भुवि यद्गृह्यते विप्रैर्दिवि तद्दीयते सुरैः ।। ८२ ।। कदलीकन्दवद्धमों न रोहति बहिर्गतः । छादितस्तु फलं चारु सूते पनसमूलवत् ॥ ८३ ॥ सभारजनशतकम् । दुःखेनोपाज्यंते धर्मः सुखेन तु विनाश्यते । कृच्छूलब्धमिमं त्रातुं नेच्छन्ति मुनयः सुखम् ॥ ८४ ॥ संपाद्यतां वा यत्नेन यद्वा विक्रीयतामयम् । सर्वथा भजतावाप्यो धर्मो भवति नान्यथा ॥ ८५ ।। अर्थवन्तः प्रशस्यन्ते निन्द्यन्ते तद्विनाकृताः । आगमेष्वपि चेदेवमद्भुतं किं शरीरिषु ॥ ८६ ॥ अर्थोऽप्यर्थेन चेत्साध्यः का वार्ता धर्मकामयोः । अर्थः सर्वजगन्मूलमनर्थोऽर्थविपर्ययः ॥ ८७ ॥ कर्मज्ञानं च मोक्षाय कर्मण्यर्थोऽधिकारिता । अतोऽर्थेनैव कैवल्यं न कैवल्येन लभ्यते ॥ ८८ ॥ कथमर्थं निषेधन्तु श्रुतयः स्मृतयोऽपि वा । यासामेकं पदमपि न चलत्यर्थतो विना ।। ८९ ॥ लक्ष्मीश इति गोविन्दो मेरुधन्वेति शंकरः । हिरण्यगर्भ इत्येव ब्रह्मापि बहु मान्यते ॥ ९० ॥ ऊर्ध्वं गच्छन्ति यं त्यक्त्वा यं गृहीत्वा पतन्त्यधः । तस्य गौरवमर्थस्य तावतैवानुमीयताम् ।। ९१ ।। गृहिणा यदि लभ्येत गृहिणी हृदयंगमा । संसार इति को भारस्तं सारमनुपश्यतः ॥ ९२ ।। आहत्य चिनुमः स्वर्गमपवर्गमनुक्रमात् । अनुकूले हि दांपत्ये प्रतिकूलं न किंचन ॥ ९३ ॥ गृहिणीवृत्तिदोषेण गौतमोऽत्यन्ततापितः आतस्थे दुःखविध्वंसं कैवल्यं परमं मुनिः ॥ ९४ ॥ अपि यत्परमं तत्त्वमर्धेन्दुकृतशेखरम् । तस्यापि तावानानन्दः किमस्सजननीं विना ॥ ९५॥ काव्यमाला। निन्दन्ति च प्रशंसन्ति निगमा यद्गृहाश्रमम् । दांपत्यसाम्यवैषम्यभेदादेतद्वयवस्थितिः ।। ९६ ॥ इन्द्रियाण्यनुपक्लेश्य लभ्यं श्रेयो गृहाश्रमे । अतस्तुर्याश्रमं प्राहुरबाधन्यायबाधितम् ॥ ९७ ॥ भुज्यते यत्सुखं धीरैरपमत्तैर्गृहाश्रमे । स्वर्गस्तस्यागसः पूर्तिरपवर्गोऽस्य नित्यता ॥ ९८ ॥ दृष्टदोषोऽपि गार्हस्थ्ये दीर्घदर्शितया स्वयम् । गार्हस्थ्यमेव परमं मेने नैयायिको मुनिः॥ ९९ ।। उच्चावचं जगद्दौःस्थ्यमेक एव निषेधति । प्रविष्टमात्रो नृपतिः प्रपञ्चमिव नः श्रुतिः ॥ १०॥ न राजानं विना राज्यं बलवत्स्वपि मन्त्रिषु । प्राणेष्वसत्सु किं देहश्चण्डवातेन धार्यते ॥ १०१ ॥ मातुः किंचित्पितुः किंचिदाचार्यात्किंचिदाप्यते । सम्यग्विनीतैः शास्त्रेषु सर्वं राज्ञस्तु लभ्यते ॥ १०२ ।। चलन्ति सर्वमर्यादाश्चलिते सति पार्थिवे । पर्वता अपि कम्पन्ते प्रसक्ते कम्पने भुवः ॥ १०३ ।। पल्या मङ्गल्ययोगेन पत्युरायुः प्रवर्धते । प्रकृतीनां तु भाग्येन पार्थिवः सुखमेधते ॥ १०४ ॥ निमितं शतकं साग्रं नीलकण्ठेन यज्वना । सभारञ्जनमेतेन साधयन्तु मनीषिणः ॥ १०५॥ इति श्रीभरद्वाजकुलजलधिकौस्तुभश्रीकण्टमतप्रतिष्ठापनाचार्यचतुरधिकशत- प्रबन्धनिर्वाहकमहाव्रतयाजिश्रीमदप्पयदीक्षितसोदर्यश्रीमदाचादीक्षि- तपौत्रेण श्रीनारायणदीक्षितात्मजेन श्रीभूमिदेवीगर्भसंभवेन श्रीनीलकण्ठदीक्षितेन विरचितं सभारञ्जनशतकम् ।