समन्वया व्याख्या
टि.के.रामचन्द्र अय्यऱ्

अप्पय्यदिक्षितविरचितस्य कुवलयानन्दस्य व्याख्या समन्वया टि.के.रामचन्द्र अय्यऱ् महाभागेन विरचिता

मङ्गलाचरणम्सम्पाद्यताम्

          
अमरीकबरीभारभ्रमरीमुखरीकृतम् ।
दूरीकरोतु दुरितं गौरीचरणपङ्कजम् ॥ १॥
 
अमरीणां देवस्त्रीणां कबरीभारेषु केशपाशेषु सौगन्ध्यलोभात्संसृष्टा या भ्रमर्यः ताभिः मुखरीकृतं गौर्याः चरणमेव पङ्कजमिति मयूरव्यसकादित्वात्समासः, अथवा चरणं पङ्कजमिवेत्युपमितसमासः, पङ्कजसदृशं चरणं दुरितं पापं दूरीकरोतु विनाशयत्विति प्रार्थनायां लोट् ।
 
परस्परतपः सम्पत्फलायितपरस्परौ ।
प्रपञ्चमातापितरौ प्राञ्चौ जायापती स्तुमः ॥२॥
 
परस्परस्यान्योन्यस्य तपः सम्पदः फलायित फलवदाचरितं परस्परमन्योन्यस्वरूपं ययोस्तौ, पार्वतीतपःसम्पत्तिफलायितः परमेश्वरः, परमेश्वरतपःसम्पत्तिफलायिता च पार्वतीत्यर्थः, प्रपञ्चस्य सर्वस्यापि मातापितरौ जनिकर्तारौ हितकारिणौ च प्राञ्चौ पुरातनौ जायापती दंपती पार्वतीपरमेश्वरौ स्तुमः, स्तोत्रेण च नम्रता प्रतीयत इति नमस्क्रियात्मकं मङ्गलम् |

ग्रन्थस्य विषयप्रयोजनेसम्पाद्यताम्

          
अलंकारेषु बालानामवगाहनसिद्धये ।
ललितः क्रियते तेषां लक्ष्यलक्षणसंग्रहः ॥ ३ ॥
 
अलङ्कारेषु प्रकृते अर्थालङ्कारेषु उपमादिषु बालानां ग्रहणधारणशक्तानामप्यलङ्कारविषये अव्युत्पन्नानां अवगाहनसिद्धये व्युत्पत्तिसिद्धयर्थं तेषामलङ्काराणां लक्ष्यलक्षणयोः संग्रहः, संक्षेपेण लक्षणमुदाहरणं च, ललितः सुग्राह्यः क्रियते । अत्र पूर्वार्धे प्रयोजनमुक्तम्, उत्तरार्धे च प्रतिपाद्यो विषयः प्रतिज्ञातः । असाधारणो धर्मः लक्षणम्, लक्ष्यमुदाहरणम् । तथा च बालव्युत्पत्यर्थमुपमादयः अर्थालङ्काराः लक्षणोदाहरणाभ्यां सङ्ग्रहेण निरूप्यन्ते इति ग्रन्थकारः प्रतिजानीते।

उपमालङ्कारःसम्पाद्यताम्

          
उपमा यत्र सादृश्यलक्ष्मीरुल्लसति द्वयोः ।
हंसीव कृष्ण ते कीर्तिः स्वर्गङ्गामवगाहते ॥ ४॥
 
यत्र यस्मिन् काव्ये द्वयोर्वस्तुनोरुपमानोपमेयत्वेन प्रसिद्धयोः सादृश्यस्य लक्ष्मीः संपत्, सहृदयहृदयाह्लादि सादृश्यमित्यर्थः,उल्लसति उद्भूततया भाति (व्यङ्ग्यमर्यादां विना) स्पष्टं प्रकाशते सा तथाभासमाना सादृश्यलक्ष्मीरुपमा इति लक्षणम् । हे कृष्ण ते तव कीर्तिः हंसीव स्वर्गङ्गामाकाशगङ्गामवगाहते इत्युदाहरणम् । अत्र कीर्तिहंस्योः सादृश्यलक्ष्मीः स्पष्टं प्रकाशत इत्युपमालकारः ।
उपमायाः सन्ति चत्वारोऽवयवाः- उपमानम्, उपमेयम्, साधारणधर्मः, उपमावाचकश्चेति। तत्राधिकगुणवत्वेन प्रसिद्धमुपमानं चन्द्रादि । प्रकृते वर्ण्यमानं मुखाद्युपमेयं न्यूनगुणम् । आह्लादकत्वादिकं साधारणो धर्मः । इवादि शब्दाः सादृश्यवाचकाः । सादृश्यं च तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्त्वम् ।
संक्षेपतः उपमा द्विविधा - पूर्णा, लुप्ताचेति । यत्र चतुर्णामप्युपमावयवानामुपादानं तत्र पूर्णोपमा, यथा हंसीवेत्यादिपूर्वोदाहृते हंसी उपमानम्, कीर्तिरुपमेयम्, स्वर्गङ्गावगाहनं साधारणो धर्मः, इवशब्दः उपमावाचक इति चतुर्णामप्युपादानात्पूर्णोपमा ।
 
पूर्णोपमाया अपरमुदाहरणम्
          
 गुणदोषौ बुधो गृह्णन् इन्दुक्ष्वेडाविवेश्वरः।
           शिरसा श्लाघते पूर्वं परं कण्ठे नियच्छति ॥
 
अत्र बुधः उपमेयम्, ईश्वरः उपमानम्, इवशब्दो वाचकः, साधारणधर्मस्तूपमानोपमेययोर्नेकः, किन्तु उपमानगतयोश्चन्द्रगरलयोः उपमेयगतयोर्गुणदोषयोश्च बिम्बप्रतिबिम्वभावेनाभेदाध्यवसायात्, तथा उपादानज्ञानयोः गृह्णन्नित्येकपदोपादानेनाभेदाध्यवसायाच्च साधारणधर्मता परिकल्प्यते । तस्मादत्र पूर्णोपमैव ।
वस्तुतो भिन्नयोरप्युपमानोपमेयधर्मयोः परस्परसादृश्यादभिन्नतयाध्यवसितयोः पृथगुपादानं बिम्बप्रतिविम्बभावः ।
 
लुप्तोपमा, तद्भेदाश्च ।
          
  वर्ण्योपमानधर्माणामुपमावाचकस्य च ।
  एकद्वित्र्यनुपादानाद्भिन्ना लुप्तोपमाष्टधा ॥ ५॥
 
उपमानोपमेयसाधारणधर्मवाचकानां चतुर्णां मध्ये एकस्य, द्वयोस्त्रयाणां वा अनुपादानादप्रयोगात् लुप्तोपमा भवति । अवयवलोपाद् लुप्तेत्यन्वर्थसंज्ञा । वर्ण्यं उपमेयम्, अवर्ण्यमुपमानम् ।
लुप्तोपमाष्टधा भिन्ना - तद्यथा - (1) वाचकमात्रलोपाद्वाचकलुप्ता
(2) धर्ममात्रलोपाद्धर्मलुप्ता (3) धर्मवाचकयोर्लोपार्द्धर्मवाचकलुप्ता
(4) वाचकोपमेययोर्लोपाद्वाचकोपमेयलुप्ता (5) उपमानमात्रलोगदुपमानलुप्ता
(6) वाचकोपमानयोर्लोपाद्वाचकोपमानलुप्ता (7) धर्मोपमानयो लोपाद्धर्मोपमानलुप्ता (8) धर्मोपमानवाचकानां लोपाद्धर्मोपमानवाचकलुप्ता इति ।
 
लुप्तोपमोदाहरणानि
 
तडिद्गौरीन्दुतुल्यास्या कर्पूरन्ती दृशोर्मम ।
कान्त्या स्मरवधूयन्ती दृष्टा तन्वी रहो मया ॥६॥
यत्तया मेलनं तत्र लाभो मे यच्च तद्रतेः।
तदेतत्काकतालीयमवितर्कितसम्भवम् ॥७॥
 
(1) तडिगौरी तन्वी (मया रहसि दृष्टा) इति वाचकलुप्ताया उदाहरणम् । तडिदिव गौरीत्यर्थे विवक्षिते "उपमानानि सामान्यवचनैः" इति समासे इवशब्दस्य वाचकस्य लोपाद्वाचकलुप्ता। तन्वी उपमेयम् तडिदुपमानम्, गौरवं साधारणो धर्मः ।
(2) इन्दुतुल्यास्या (तन्वी मया दृष्टा) इति धर्मलुप्ताया उदाहरणम् । इन्दुना तुल्यं आस्यं यस्याः सा इन्दुतुल्यास्या । अत्र इन्दुरुपमानम् , आस्यमुपमेयम् , तुल्यशब्दो वाचकः, साधारणधर्मस्तु कान्त्यादिर्नोपात्त इति धर्मलुप्ता ।
(3) (मम दृशोः) कर्पूरन्ती तन्वीति धर्मवाचकलुप्ताया. उदाहरणम् । कर्पूरमिवाचरन्तीत्यर्थे विवक्षिते आनन्दाधायकत्वरूपाचारार्थकस्य "सर्वप्रातिपदिकेभ्यः किन् वा वक्तव्यः" इति विहितस्य कि: इवशब्देन सह लोपाद्धर्मवाचकलुप्ता। कर्पूरः उपमानम् , तन्वी उपमेयमिति द्वयमुपात्तम् , नेत्रानन्दाधायकत्वरूपो धर्मः वाचकशब्दश्च नोपातौ ।
(4) कान्त्या स्मरवधूयन्ती इति वाचकोपमेयलुप्ताया उदाहरणम् । अत्र कान्त्या आत्मानं स्मरवधूमिवाचरन्तीत्यर्थे विवक्षिते “उपमानादाचारे" इति क्यच् प्रत्ययो विहितः । अत्रात्मा उपमेयम् , तच्च नोपात्तम् । वाचकशब्दोऽपि नोपात्त इति वाचकोपमेयलुप्ता। स्मरवधूरुपमानम् कान्तिमत्त्वं साधारणो धर्मः ।
(5) तत्र (विजनस्थले) मे तद्रेतेर्लाभ इति यत् अवितर्कित सम्भवं (यादृच्छिकं)तदेतत् काकतालीयमित्युपमानलुप्ताया उदाहरणम् ।
  काकगमनमिव तालपतनमिव काकतालं, ततः काकतालमिव काककृततालोपभोग इवेत्यर्थे विवक्षिते " इवे प्रतिकृतौ" इत्यधिकारस्थेन “समासाच्च तद्विषयात्" इति सूत्रेण छप्रत्ययो विहितः, तस्य च "आयनेयीत्या "दिसूत्रेण ईयादेशः । तथा च मम तन्वीसुरतलामरूपं यद्वस्तु अवितर्कितसम्भव तत् काककृततालोपभोगसदृशमिति निष्कृटोऽर्थः।
अत्र तन्वीसुरतलाभः उपमेयम् , अवितर्कितसम्भवत्वं साधारणो धर्मः, छप्रत्ययश्च सादृश्यवाचक इति त्रयाणामुपादानमस्ति। काककृत तालोपभोगरूपमुपमानं नोपात्तमित्युपमानलुप्ता। अत्र समासविषये काकतालशब्दौ लक्षणया तत्समवेतक्रियाबोधकौ ।

(6) तत्र मम तया मेलनं - मम तत्र गमनं तस्यास्तत्रागमनं चावितर्कितसम्भवं काकागमनमिव तालपतनमिव काकतालमिति वाचको'मानलुप्ताया उदाहरणम् । मम तन्मेलनं काकागमनतालपतनसदृशमवितर्कितसम्भवमिति फलितोऽर्थः । अत्र काकतालमिति "समासाच्च तद्विषयात्" इति ज्ञापकात्समासे वाचकस्य लोपः। उपमानमपि काकागमनतालपतनात्मकं समासान्तर्गतमपि न शब्दोपात्तमिति वाचकोपमानलुप्ता । मम तत्समागमः, उपमेयम्, यादृच्छिकत्वं साधारणो धर्मः।

(7 & 8) उदाहरणश्लोके "अवितर्कितसम्भवम्" इत्यस्य स्थाने “इति जानीहि हे सखे” इति पाठे साधारणधर्मस्यापि लोपे पञ्चमषष्ठे एव सप्तमाष्टमयोरुदाहरणे भवतः । मे तद्रतेर्लाभ इति यत् तदेतत्काकतालीयम् इति धर्मोपमानलुप्तायाः, मम तया तत्र मेलनमिति यत् तदेतत्काकतालमिति धर्मोपमानवाचकलुप्तायाश्चोदाहरणम् ।

अनन्वयालङ्कारःसम्पाद्यताम्

उपमानोपमेयत्वं यदेकस्यैव वस्तुनः ।
इन्दुरिन्दुरिव श्रीमानित्यादौ तदनन्वयः ॥८॥

एकस्यैव वस्तुनः यदुपमानत्वमुपमेयत्वं च विवक्ष्यते तदनन्वयालङ्कारः। स्वस्य स्वेनैव सादृश्यं नान्वेतीत्यनन्वयसंज्ञा । तथा वर्णनस्य प्रयोजनं सदृशवस्त्वन्तरव्यवच्छेदेनानुपमत्वद्योतनम् । उपमायां द्वयोः सादृश्यवर्णनमत्र त्वेकस्य तेनैवेति भेदः । इन्दुरिन्दुरिव श्रीमानित्यत्र इन्दोरेकस्यैवोपमानत्वमुपमेयत्वं च वर्णितमित्यनन्वयालङ्कारः ।

अनन्वयस्यापरमुदाहरणम्

गगनं गगनाकारं सागरः सागरोपमः।
रामरावणयोर्युद्धं रामरावणयोरिव ।।

अत्र त्रिष्वप्यनन्वयेषु क्रमेण वैपुल्यगाम्भीर्यदारुणत्वानां साधारणधर्माणामुपादानं नास्ति, इन्दुरिन्दुरिव श्रीमानित्यत्र तु चतुर्णामप्यवयवानामुपादानमस्तीति विशेषः।

उपमेयोपमालङ्कारःसम्पाद्यताम्

पर्यायेण द्वयोस्तच्चेदुपमेयोपमा मता ।
धर्मोर्थ इव पूर्णश्रीरर्थो धर्म इव त्वयि ।। ९ ।।

द्वयोरुपमानोपमेययोः पर्यायेण वाक्यभेदेन तदुपमानोपमेयत्वं विवक्ष्यते चेदुपमेयोपमालङ्कारः। प्रथमवाक्ये उपमानत्वेन विवक्षितस्य द्वितीयवाक्ये उपमेयत्वं, तथा प्रथमवाक्ये उपमेयस्य द्वितीये उपमानत्वं च यत्र वर्ण्यते तत्रोपमेयोपमेति निष्कर्षः। तृतीयसदृशवस्तु व्यवच्छेदः प्रयोजनम्। त्वयि धर्मः अर्थः इव पूर्णश्रीरित्युदाहरणम्। अत्र प्रथमवाक्ये उपमेयोपमानयोर्धर्मार्थयोर्द्वितीयवाक्ये उपमानोपमेयत्वं यथाक्रमं वर्णितमित्युपमेयोपमालङ्कारः ।

उपमेयोपमाया अपरमुदाहरणम्

खमिव जलं जलमिव खं हंस इव चन्द्रश्चन्द्र इव हंसः।
कुमुदाकारास्तारास्ताराकाराणि कुमुदानि ।।

अत्र निर्मलत्वधवलत्वादयो धर्मा नोपात्ताः,धर्मोऽर्थ इवेति पूर्वोदाहरणे पूर्णश्रीरिति धर्म उपात्त इति विशेषः ।

प्रतीपालङ्कारःसम्पाद्यताम्

प्रथमं प्रतीपम्

प्रतीपमुपमानस्योपमेयत्वप्रकल्पनम्
त्वल्लोचनसमं पह्मं त्वद्वक्त्रसदृशो विधुः॥१०॥

उपमानस्य उपमानत्वेन प्रसिद्धस्य चन्द्रादेरुपमेयत्वप्रकल्पनमिति यत्तत्प्रतीपम्। प्रसिद्धोपमानोपमेययोर्वैपरीत्यकल्पनात्प्रतीपमित्यन्वर्थसंज्ञा ।(हे तन्वी) तव लोचनसदृशं पह्मम् इत्येकमुदाहरणम् तव वक्त्रसदृशः मुखतुल्यो विधुश्चन्द्र इत्यपरमुदाहरणम् । तत्राद्ये प्रसिद्धोपमानस्य पद्मस्य, द्वितीये विधोश्चोपमेयत्वं कल्पितमिति लक्षणसमन्वयः । उपमानस्योपमेयत्वकल्पने उपमेयस्योपमानत्वं सिद्धयति । तेन चोपमानापेक्षया उपमेयस्योत्कर्षः द्योत्यते । तदेव प्रतीपप्रयोजनम् । प्रतीपं पञ्चविधम् । तत्रेदमाद्यं प्रतीपम् ।

 प्रथमप्रतीपस्यापरमुदाहरणम्

यत्त्वन्नेत्रसमानकान्ति सलिले मग्नं तदिन्दीवरं
मेघैरन्तरितः प्रिये तवमुखच्छायानुकारी शशी।
येऽपि त्वद्गमनानुसारि गतयस्ते राजहंसा गताः
त्वत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षम्यते ॥

अत्र प्रसिद्धोपमानानां इन्दीवरशशिराजहंसानामुपमेयत्वकल्पनात्प्रतीपम् । कान्त्यादिसाधारणधर्माणामत्रोपादानमस्तीति पूर्वस्माद्वैलक्षण्यम्।
द्वितीयं प्रतीपम्

अन्योपमेयलाभेन वर्ण्यस्यानादरश्च तत् ।
अलं गर्वेण ते वक्त्र कान्त्या चन्द्रो भवादृशः ॥११॥

अन्यदवर्ण्यं उपमानं, तद्रूपं यदुपमेयं तस्य लाभेन प्राप्त्या वर्ण्यस्य मुखादेः प्रकृतस्यानादरस्तिरस्कार इति यत् तत् द्वितीयं प्रतीपम् । उपमानस्योपमेयत्वकल्पने समानेऽपि वर्ण्यस्यानादरोऽत्र विशेषः । हे वक्त्र ! ते तव गर्वेणालं, गर्वो मास्तु, यतः कान्त्या गुणेन चन्द्रोऽपि भवादृशस्त्वत्तुल्योऽस्ति, इत्युदाहरणम् । अत्रावर्ण्यचन्द्ररूपोपमेयलाभेन वर्ण्यस्य मुखस्य ‘गर्वो मास्त्वि'त्यनादरवर्णनात् लक्षणसमन्वयः।

द्वितीयप्रतीपस्यान्यदुदाहरणम् ।

गर्वमसंवाह्यमिमं लोचनयुगलेन किं वहसि भद्रे ।
सन्तीदृशानि दिशि दिशि सरस्सु ननु नीलनलिनानि॥

अत्र नीलनलिनानामुपमेयत्वं प्रकल्प्य लोचनयुगलस्य वर्ण्यस्य गर्वो मास्त्वित्यनादरो दर्शितः। साधारणधर्मस्तु नोपात्त इति पूर्वोदाहरणाद्भेदः ।

तृतीयं प्रतीपम्

वर्ण्योपमेयलाभेन तथान्यस्याप्यनादरः ।
कः क्रौर्यदर्पस्ते मृत्यो त्वत्तुल्याः सन्ति हि स्त्रियः ॥१२॥

वर्ण्यं यदुपमेयं तस्य लाभेन अन्यस्यावर्ण्यस्य प्रसिद्धोपमानस्य अनादरोऽपि तथा, तृतीयम् प्रतीपम् । उत्कृष्टगुणतयान्यदुपमेयमसहमानस्यावर्ण्यस्य वर्ण्यमुपमेयं प्रदर्श्यानादरोऽपि प्रतीपभेद इत्यर्थः। हे मृत्यो ! ते क्रूरतागर्वेणालं, तव गर्वो मास्तु, (क्रौर्ये) त्वत्तुल्याः स्त्रियः सन्ति इत्युदाहरणम् । अत्र वर्ण्यमुपमेयं क्रूरस्त्रियः, तल्लाभेन मृत्योरवर्ण्यस्य क्रौर्यविषये प्रसिद्धोपमानस्य अनादरवर्णनात् लक्षणसमन्वयः। द्वितीयप्रतीपवैपरीत्यादेवेदं प्रतीपम् । [इदमत्र चिन्त्यम् । प्रसिद्धोपमानोपमेयभावप्रातिलोम्यात्प्रतीपमित्यन्वर्थं नाम दत्तम् । तथा सति यत्र तादृशं प्रातिलोभ्यं नास्ति तत्र कथं प्रतीपालङ्कारभेदत्वकल्पनमिति । वस्तुतस्त्वस्य प्रतीपभेदत्वेन परिगणनं न युक्तम् । उपमानप्रभेदत्वं परिकल्प्य अनादरोपमेति नामकरणं समुचितं स्यादिति प्रतिभाति । पूर्वप्रतीपवैपरीत्यात्प्रतीपमिति तु न समीचीनम् ]

तृतीयप्रतीपस्यान्यदुदाहरणम्

अहमेव गुरुः सुदारुणानामिति हालाहल ! मास्म तात! दृप्यः ।
  ननु सन्ति भवादृशानि भूयो भुवनेऽस्मिन्वचनानि दुर्जनानाम् ॥
 
अत्र दारुणताविषये हालाहलतुल्य दुर्जनवचनरूपोपमेयलाभेन अवर्ण्यस्य हालाहलस्यानादर इति तृतीयं प्रतीपम् ।

चतुर्थं प्रतीपम्

वर्ण्येनान्यस्योपमाया अनिष्पत्तिवचश्च तत् ।
मुधापवादो मुग्धाक्षि त्वन्मुखाभं किलाम्बुजम् ॥१३॥
          
वर्ण्येन मुखादिना अन्यस्यावर्ण्यस्य चन्द्रादेः (उपमेयत्वेन कल्पितस्य) उपमाया सादृश्यस्यानिष्पतिवचनं यत्तत्पूर्वेभ्योऽप्युत्कर्षशालि चतुर्थं प्रतीपम् । 'हे मुग्धाक्षि अम्बुजं त्वन्मुखाभं त्वन्मुखतुल्यशोभं, (किलेति वार्तायाम् ) इति वार्ता मुधापवादः असत्यो जनप्रवादः' इत्युदाहरणम् । अत्र अम्बुजस्य प्रसिद्धोपमानस्य तन्वीमुखेनोपमेयेन सादृश्यस्यानिष्पत्तिः 'मुधापवाद' इत्यनेनोक्त इति लक्षणसमन्वयः।

चतुर्थप्रतीपस्यापरमुदाहरणम्

आकर्णय सरोजाक्षि वचनीयमिदं भुवि ।
शशाङ्कस्तव वक्त्रेण पामरैरुपमीयते ॥

अत्र वक्त्रेण शशाङ्कस्य सादृश्यं पामरैरेवोच्यते, तच्च वचनीयमित्यनेन सादृश्यस्यानिष्पत्तिरेव प्रकाश्यते।

पञ्चमं प्रतीपम्
 
प्रतीपमुपमानस्य कैमर्थ्यमपि मन्वते ।
दृष्टं चेद्वदनं तन्व्याः किं पद्मेन किमिन्दुना ॥ १४ ॥

उपमानस्य चन्द्रादे: कैमर्थ्यं निरर्थकत्वकथनं (तुल्यगुणोपमेयलाभाद्धेतो:) पञ्चमं प्रतीपम् । तन्व्याः वदनं दृष्टं चेत् पद्मेनेन्दुना वा किम् ? किमपि प्रयोजनं नास्तीत्यर्थः । अत्र तुल्यगुणोपमेयस्य मुखस्य लाभात् प्रसिद्धोपमानयोः पद्मचन्द्रयोनिष्प्रयोजनत्वं दर्शितमिति लक्षणसमन्वयः । क: अथः प्रयोजनं अस्येति किमर्थः, तस्य भाव: कैमर्थ्यम् ।

पञ्चमप्रतीपस्यापरमुदाहरणम्

तदोजसस्तद्यशसः स्थिताविमौ वृथेति चित्ते कुरुते यदा यदा ।
तनोति भानोः परिवेषकैतवात्तदा विधिः कुण्डलनां विधोरपि ।।

अत्र नलौजसः यशसश्च स्थितौ सत्यां सूर्यचन्द्रौ वृथेति प्रसिद्धोपमानयोः सूर्यचन्द्रयोः कैमर्थ्योक्तेः प्रतीपम् ।

रूपकालङ्कारःसम्पाद्यताम्

विषय्यभेदताद्रप्यरञ्जनं विषयस्य यत् ।
 रूपकं तत् त्रिधाधिक्यन्यूनत्वानुभयोक्तिभिः ॥१५॥
          
विषयी- उपमानभूतं पद्मादि । विषयः- उपमेयभूतं मुखादि । विषयिणो रूपेण विषयस्य अभेदताद्रूप्याभ्यां रञ्जनं स्वोपरक्तबुद्धिविषयीकरणं रूपकम् । स्वपदोपात्तस्य विषयस्य विषयिरूपेण रञ्जनं क्वचित्प्रसिद्धविषय्यभेदे पर्यवसितं, क्वचिद्भेदे प्रतीयमान एव तदीयधर्मारोपमात्रे पर्यवसितम् । ततश्च रूपकं द्विविधम्- अभेदरूपकं, ताद्रप्यरूपकं चेति । तद्विविधमपि विषय्यपेक्षया विषयस्याधिक्योक्त्या, न्यूनत्वोक्त्या, अनुभयोक्त्या च प्रत्येकं त्रिविधम् । तथा च रूपकं षड्विधम्-1. अनुभयाभेदरूपकम् 2. न्यूनाभेदरूपकम् 3. अधिकाभेदरूपकम् 4. अनुभयताद्रूप्यरूपकम् 5. न्यूनताद्रूप्यरूपकम् 6. अधिकताद्रूप्यरूपकम् चेति। एतेषां षण्णां उदाहरणक्रमेणात्र निर्देशः कृतः, न तु मूलश्लोकोद्दिष्टक्रमेण] अनेनैव क्रमेणोदाहरणानि दीयन्ते।

अनुभयाभेदरूपकस्योदाहरणम् ।

अयं हि धूजटिः साक्षाद्येन दग्धा पुरः क्षणात् ।

अयं पुरोवर्ती राजा साक्षात् धूर्जटिः शिवः येन पुरः शत्रुनगराणि क्षणात् दग्धाः इत्यनुभयाभेदरूपकस्योदाहरणम् । अत्र पुरदाहकत्वसाम्यादयं साक्षाच्छंभुरेवेत्यभेद: प्रतीयते । विषयस्य न्यूनताधिक्ययोश्चानुक्तेर्लक्षणसमन्वयः।

अस्यैवापरमुदाहरणम्

चन्द्रज्योत्स्नाविशदपुलिते सैकतेऽस्मिन् सरय्वाः
वादबूतं चिरतरमभूत्सिद्धयूनोः कयोश्चित् ।
एको वक्ति प्रथमनिहतं कैटभं, कंसमन्यः
तत्वं स त्वं कथय भगवन् ! को हतस्तत्र पूर्वम् ।

अत्र 'स त्वं' इत्यनेन कंसकैटभहन्तृगरुडध्वजाभेदो वर्णनीयस्य प्रतिपाद्यते । कंसकैटभवधयोश्च पौर्वापर्यप्रश्नव्याजेन तदभेद एव दृढी क्रियते, न पुनयूनता आधिक्य वा प्रतिपाद्यत इत्यनुभयाभेदरूपकम् ।

 (२) न्यूनाभेदरूपकस्योदाहरणम्

अयमास्ते विना शम्भुस्ताीयीकं विलोचनम् ॥१६॥

तृतीयमेव तार्तीयीकं विलोचनं नेत्रं विना शम्भुरयमास्ते शम्भुवायं पुरोवर्ती राजा, इति न्यूनाभेदरूपकोदाहरणम् । अत्र वर्ण्यस्य राज्ञः शिवाभेदप्रतिपादनेऽपि तृतीयलोचनराहित्यरूपं न्यूनत्वमुक्तमिति लक्षणसमन्वयः।
रूपकालङ्कारः

अस्यैवापरमुदाहरणम्
 
वेधा द्वेधा भ्रमं चक्रे कान्तासु कनकेषु च ।
तासु तेष्वप्यनासक्तः साक्षाद्भर्गो नराकृतिः ॥

अत्र विरक्तः साक्षाद्भर्ग इति विरक्तशिवयोरभेदे प्रतिपादिते, नराकृतिरिति विषयस्य दिव्यमूर्तिवैकल्यप्रतिपादनान्यूनाभेदरूपकम् ।

(३) अधिकाभेदरूपकस्योदाहरणम्

शम्भुर्विश्वमवत्यद्य स्वीकृत्य समदृष्टिताम् ।

अत्रायमिति पूर्वोदाहरणादनुषञ्जनीयम् । शम्भुरयमद्य समदृष्टितां समसंख्यलोचनतां (एकरूपदर्शनतां च) अवलम्ब्य विश्वमवति रक्षतीति अधिकाभेदरूपकस्योदाहरणम् । अत्रायं राजा शम्भुरेवेत्यभेदे प्रतिपादिते पूर्वावस्थायां विषमदृष्टिरिदानी पुनः समदृष्टिरित्याधिक्यं विषयस्य प्रतिपादितमिति लक्षणसमन्वयः। आधिक्यमुत्कर्षः।

अस्यैवापरमुदाहरणम्

त्वय्यागते किमिति वेपत एष सिन्धुः
त्वं सेतुमन्थकृदतः किमसौ बिभेति।
द्वीपान्तरेऽपि न हि तेऽस्त्यवशंवदोऽद्य
त्वां राजपुङ्गव ! निषेवत एव लक्ष्मीः ॥

अत्र त्वं सेतुमन्थकृदित्यनेन राजनारायणयोरमेदः प्रतिपादितः। द्वीपान्तराणां वशंवदत्वेन जेतव्याभावात् , प्राप्तलक्ष्मीकत्वेन मन्थनप्रसकराभावाच्च पूर्वावस्थापेक्षया उत्कर्षविभावनादधिकाभेदरूपकम् ।

(४) अनुभयताद्रूप्यरूपकस्योदाहरणम्

अस्या मुखेन्दुना लब्धे नेत्रानन्दे किमिन्दुना ॥१७॥

अस्यास्तन्व्याः मुखमेवेन्दुः मुखेन्दुस्तेन नेत्रयोरानन्दे लब्धे सति इन्दुना चन्द्रेण किम् ? न किमपि प्रयोजनं, मुखेनैव चन्द्रकार्यस्या नेत्रानन्दस्य करणादित्यर्थः । अत्र मुखेचन्द्रयोर्भेदे प्रतीयमानेऽफि 'मुखेन्दुना' इति मुखे चन्द्रत्वारोपः नेत्रानन्दकरत्वरूपतदीयधर्मारोपमाळे पर्यवस्यति । न्यूनताधिक्ययोरनुक्त्या चानुभयताप्यरूपकम् ।

अस्यैवापरमुदाहरणम्

किं पद्मस्य रुचि न हन्ति नयनानन्दं विधत्ते न किं
वृद्धि वा अषकेतनस्य कुरुते नालोकमात्रेण किम्
वक्त्रेन्दो तव सत्ययं यदपरः शीतांशुरुज्जृम्भते
दर्पः स्यादमृतेन चेदिह तदप्यस्त्येव बिम्बाधरे ॥

अत्र विषयविषयिणोर्मुखचन्द्रयोर्भेदे प्रतीयमानेऽपि वक्त्रेन्दा विति मुखे चन्द्रत्वारोपः चन्द्रकार्यकारित्वमात्रे पर्यवसितः, उत्कर्षा पकर्षयोरप्रतिपादनाच्चानुभयताद्रूप्यरूपकम् ।

(५) न्यूनताद्रूप्यरूपकस्योदाहरणम्


साध्वीयमपरा लक्ष्मीरसुधासागरोदिता ।

इयं साध्वी पतिव्रता असुधासागरोदिता क्षीरसमुद्रादनुत्पन्ना अपरा अन्या लक्ष्मी: । अत्रापरा लक्ष्मीरित्यनेन प्रसिद्धलक्ष्मीभेदः अस्या लक्ष्म्याः प्रतीयते । तथा च साध्व्यां लक्ष्मीत्वारोपो धर्ममात्रारोपपयेवसायी। न सुधासागरोदितेति न्यूनत्वोक्त्या च न्यूनताद्रप्यरूपकम् ।

अस्यैवापरमुदाहरणम्

अचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः ।
अफाललोचनः शम्भुर्भगवान् बादरायणः ॥

अत्र ब्रह्मादिभिर्बादरायणस्य भेदप्रतीतेस्ताद्प्यरञ्जनम् । अचतुर्वेदनेत्यादिना न्यूनताप्युक्तेति न्यूनताद्रूप्यरूपकम् ।

(६) अधिकताद्रूप्यरूपकस्योदाहरणम्

अयं कलङ्किनश्चन्द्रान्मुखचन्द्रोऽतिरिच्यते ॥ १८ ॥

अयं पुरोवर्ती मुखमेव चन्द्रः मुखचन्द्रः कलङ्किनः कलङ्कसहितात् चन्द्रात् प्रसिद्धेन्दोरतिरिच्यते अतिशयितो भवति (कलङ्काभावात् )। (अत्रापि मुखे चन्द्रत्वारोपो धर्ममात्रारोपपर्यवसायी भेदस्य प्रतीयमानत्वात् कलङ्करहितत्वान्मुखचन्द्रस्योत्कर्षप्रतिपादनादधिकताद्रूप्यरूपकम् ।

अस्यैवापरमुदाहरणम्

किमसुभिर्ग्लपितैर्जड ! मन्यसे मयि निमज्जतु भीमसुतामनः।
 मम किल श्रुतिमाह तदर्थिकां नलमुखेन्दुपरां विबुधः स्मरः ।।

अत्र दमयन्तीकृतचन्द्रोपालम्भे प्रसिद्धचन्द्रः न प्राणनिर्याणकालमन: प्रवेशार्थकश्रुतेस्तात्पर्यविषयः, किंतु नलमुखचन्द्र एवेति प्रसिद्धचन्द्रापेक्षया नलमुखचन्द्रस्याधिक्य(उत्कर्ष) प्रतिपादनादधिकताद्रूप्यरूपकम् ।

परिणामालङ्कारःसम्पाद्यताम्

परिणामः क्रियार्थश्चेद्विषयी विषयात्मना ।
प्रसन्नेन दृगब्जेन वीक्षते मदिरेक्षणा ॥ १९ ॥

विषयी उपमानं विषयात्मना उपमेयात्मना क्रियार्थश्चेत् प्रकृतकार्योपयोगी चेत्परिणामालङ्कारः। अत्रापि रूपकवदारोपोऽस्ति । परंतु आरोप्यमाणः विषयी विषयरूपेण कार्योपयोगी भवतीति विशेषः । रूपके तु न तथेत्यनयोर्भेदः। विषयविषयिणोः स्वपदनिर्दिष्टयोरभेदप्रतिपत्तिरारोपः। मदिरेक्षणा सुन्दरलोचना तन्वी प्रसन्नेन निर्मलेन दृगेवाब्जं दृगज तेन वीक्षते पश्यति इत्युदाहरणम् । अत्र दृशि लोचने अब्जत्वमारोपितं, तस्य च प्रकृतवीक्षणक्रियान्वयः स्वरूपतो न सम्भवतीत्युपमेयदृगात्मना परिणामादेव क्रियोपयोगित्वात्परिणाम इत्यन्वर्थ नाम ।

परिणामस्यापरमुदाहरणम्

तीर्त्वा भूतेशमौलिस्रजममरधुनीमात्मनासौ तृतीयः
तस्मै सौमित्रिमैत्रीमयमुपकृतवानातरं नाविकाय ।
 व्यामग्राह्यस्तनीभिः शबरयुवतिभिः कौतुकोदञ्चदक्षं
कृच्छादन्वीयमानः क्षणमचलमथो चित्रकूटं प्रतस्थे ॥

अत्र सौमित्रिमैत्र्यामातरत्वमारोप्यते । स च आरोप्यमाण: आतरः आरोपविषयसौमित्रिमैत्रीरूपतापत्या गुहोपकारलक्षणकार्योपयोगी भवति न स्वात्मना, गुहस्य वेतनार्थित्वाभावात् इति परिणामालङ्कारः।

उल्लेखालङ्कारःसम्पाद्यताम्

 
प्रथम उल्लेखः

बहुभिर्बहुधोल्लेखादेकस्योल्लेख इष्यते।
स्त्रीभिः कामोऽर्थिभिः स्वर्द्रुः कालः शत्रुभिरैक्षि सः ॥२०॥

उल्लेखो द्विविधः । नानाधर्मयोगिनः एकस्यानेकैरनेकधा लेखनरूपः, एकस्यैकेनैवानेकधोल्लखनरूपश्चेति । तत्राद्यस्य लक्षणोदाहरणे श्लोकेऽस्मिन् प्रतिपाद्यते । एकस्यानेकधर्मविशिष्टस्य बहुभिरनेकैर्ग्रहीतृभिर्बहुधा अनेकप्रकारेण उल्लेखात् विषयीकरणादुल्लेख इत्यन्वर्थनामा अलङ्कारः। सः सौन्दयौदार्यपराक्रमशाली राजा स्त्रीभिः कामः ऐक्षि, (स्त्रीभिः मदन इति गृहीतः), (अर्थिभिः स्वद्रुः कल्पवृक्षः ऐक्षि, (कल्पवृक्ष एवेति तर्कितः), शत्रुभिः कालः अन्तकः ऐक्षि, (अन्तकत्वेन दृष्टः), इत्युदाहरणम् । अत्र एक एव राजा सौन्दर्याद्यनेकधर्मविशिष्टः बहुभिः स्यर्थिशत्रुभिः बहुधा कामस्वर्द्वमान्तकत्वेनोल्लिखित इति लक्षणसमन्वयः । उल्लेखेऽपि बहुत्र रूपक इवारोपोऽस्ति । किन्त्वत्र एकस्मिन् विषये ग्रहीतृभेदाद्विषयभेदाद्वा बहूनां विषयिणामारोपः, रूपके तु न तथेति भेदः ।

अस्योल्लेखस्यापरमुदाहरणम्

गजत्रातेति वृद्धाभिः श्रीकान्त इति यौवतैः ।
यथास्थितश्च वालाभिदृष्टः शौरिः सकौतुकम् ॥

तत्र द्वारकां प्रविशन् कृष्णः वृद्धादिभिर्बहुभिः गजत्रातृत्वादिरूपेण बहुधोल्लिख्यते । पूर्वोदाहरणे आरोपसद्भावाद्रूपकसङ्कीर्णत्वमत्र तु तन्नास्तीति विशेषः ।

द्वितीय उल्लेखः

एकेन बहुधोल्लेखेप्यसौ विषयभेदतः ।
गुरुर्वचस्यर्जुनोऽयं कीर्तौ भीष्मः शरासने ॥ २१ ॥

एकस्येति पूर्वश्लोकादनुषज्यते । एकस्य विषयस्य (बहुधर्मविशिष्टस्य) एकेनैव ग्रहीत्रा विषयभेदतः बहुधा अनेकप्रकारेणोल्लेखे विषयीकरणेऽपि असौ उल्लेखालङ्कारः । अयं पुरोवर्ती राज, वचसि प्रभाषणे विषये गुरु: बृहस्पतिः महांश्च, कीर्ती यशसि विषये अर्जुनः पार्थः धवलश्च, शरासने धनुषि विषये भीष्मः गाङ्गेयः भयङ्करश्च । अत्र एक एव राजा एव राजा एकेनैव गृहीत्रा वागादिविषयभेदात् बहुधा द्विप्रकारैरुलिखित इति लक्षणसमन्वयः ।

द्वितीयोल्लेखस्यापरमुदाहरणम्

अकृशं कुचयोः कृशं विलग्ने विपुलं चक्षुषि विस्तृतं नितम्बे ।
अधरेऽरुणमाविरस्तु चित्ते करुणाशालिकपालिभागधेयम् ॥

अत्र कपालिभागधेयत्वेनाध्यवसित पार्वतीस्वरूपं कुचादिविषयभेदात् अकृशत्वादिबहुप्रकारेणैकेनैव गृहीत्रा विषयीकृतमिति द्वितीयः उल्लेखः ।

स्मृति - भ्रान्ति - सन्देहालङ्काराःसम्पाद्यताम्

स्यात्स्मृति भ्रान्तिसन्देहैस्तदङ्कालङ्कतित्रयम् ।

स्मृतिभ्रान्तिसन्देहैः सादृश्यान्निवध्यमानैः तदङ्कालङ्कृतित्रयः स्मृतिभ्रान्तिसन्देहपदाङ्कितालङ्कारत्रयं स्यात् , क्रमेण स्मृतिमान् , भ्रान्तिमान्, सन्देह इति त्रयः अलङ्कारा भवन्ति इत्यर्थः । स्मृतित्वं, भ्रान्तित्वं, सन्देहत्वं च तेषां क्रमेण लक्षणम् । सादृश्यमूलानामेक स्मृत्यादीनां चमत्कारित्वादलङ्कारत्वं सिध्येत् । स्मृतित्वं च 'स्मरामि' इत्यनुभवसाक्षिको जातिविशेषः । विशेष्यावृत्तिप्रकारकज्ञानत्वं भ्रमत्वम् एकस्मिन् धर्मिणि विरुद्धनानाधर्मवैशिष्टयज्ञानत्वं सन्देहत्वम् । तथा (१) कविसम्मतसादृश्यात् विषयविषयिणोरन्यतरदर्शनेनान्यतरस्मृतिवर्णने स्मृतिमदलङ्कारः, (२) विषये मुखादौ विषयिपद्मादिभ्रमवर्णने भ्रान्तिमदलङ्कारः, (३) सदृशयोविषयविषयिणोविशेषादर्शनात्सन्देहवर्णने सन्देहालङ्कार इति फलितोऽर्थः ।

स्मृतिमदलङ्कारस्योदाहरणम्

पङ्कजं पश्यतः कान्तामुखं मे गाहते मनः ॥ २२॥

पङ्कजं पश्यतो मम मनः कान्तायाः मुखं गाहते स्मरतीत्यत्र पङ्कजदर्शनेन तत्सदृशकान्तामुखस्मृतिवर्णनात् स्मृतिमदलङ्कारः ।

अस्यैवापरमुदाहरणम्

दिव्यानामपि कृतविस्मयां पुरस्तात्
अम्भस्तः स्फुरदरविन्दचारुहस्ताम् ।
उद्वीक्ष्य श्रियमिव कांचिदुत्तरन्तीं
अस्मार्षीज्जलनिधिमन्थनस्य शौरिः ॥

जलक्रीडायामम्भसः निगच्छन्तीं कांचित्सुन्दरीं पश्यत: कृष्णस्य सदृशलक्ष्मीस्मृतिपूर्वकं तत्सम्बन्धिनो जलनिधिमन्थनस्यापि स्मृतिरत्र वर्णितेति पूर्वोदाहरणाद्विशेषः ।

भ्रान्तिमदलङ्कारस्योदाहरणम्

अयं प्रमत्तमधुपस्त्वन्मुखं वेत्ति पङ्कजम् ।

अयं प्रमत्तो मदपरवशः मधुपः द्विरेफः तव मुखं पङ्कजं वेत्ति जानाति, तव मुखे पङ्कजत्वबुद्धिं करोति इति सादृश्येन हेतुना पङ्कजत्वाभाववति मुखे पङ्कजत्वप्रकारकज्ञानवर्णनात् भ्रान्तिमदलङ्कारः ।

अस्यैवापरमुदाहरणम्

पलाशकुसुमभ्रान्त्या शुकतुण्डे पतत्यलिः ।
सोऽपि जम्बूफलभ्रान्त्या तमलिं धर्तुमिच्छति ।।

अत्र भ्रमरस्य शुकतुण्डे पलाशपुष्पभ्रान्तिः, शुकस्य च नमरे जम्बूफलभ्रान्तिरिति परस्परभ्रान्तिवर्णनं विशेषः ।

सन्देहालङ्कारस्योदाहरणम्

पङ्कजं वा सुधांशुवैत्यस्माकं तु न निर्णयः ॥ २३ ॥

मुखं पङ्कजं वा दृष्ट्वा एवं सन्दिह्यते-इदं पङ्कजं वा, अथवा सुधांशुश्चन्द्र इत्यस्माकं न निर्णय इति, अत्र पङ्कजत्वसुधांशुत्वोभयकोटिकज्ञानं सादृश्यमूलकमिति सन्देहालङ्कारः ।

अस्यैवापरमुदाहरणम्
जीवनग्रहणे नम्राः गृहीत्वा पुनरुन्नताः ।
किं कनिष्ठाः किमु ज्येष्ठाः घटीयन्त्रस्य दुर्जनाः ॥

अत्र दुर्जनाः घटीयन्त्रस्य ज्येष्ठा वा कनिष्ठा वेति कल्पितकोटिकः सन्देहः, पूर्वोदाहरणे तु प्रसिद्धकोटिक इति भेदः ।

अपह्नुत्यलङ्कारःसम्पाद्यताम्

अपह्नुतिः निषेधः, स च सादृश्यमूलकाभेदप्रतिपत्तिपूर्वकः अलङ्कारः । अपह्नुतिः षड्विधा - (१) शुद्धापह्नुतिः (२) हेत्वपह्नुतिः ३) पर्यस्तापह्नुतिः (४) भ्रान्तापह्नुतिः (५) छेकापह्नुतिः (६) कैतवापहनुतिश्चति । एतेषां क्रमेण लक्षणोदाहरणानि प्रदर्श्यन्ते ।

(१) शुद्धापह्नुतिः

शुद्धापनुतिरन्यस्यारोपार्थो धर्मनिह्नवः ।
नायं सुधांशुः, किं तर्हि ? व्योमगङ्गासरोरुहम् ॥२४॥

अन्यस्य अप्रकृतधर्मस्य आरोपार्थः आरोपफलकः धर्मनिह्नवः वर्णनीयधमनिषेधः शुद्धापहनुतिः । उपमेये उपमानधर्मारोपफलकः उपमेयधर्मनिषेधः शुद्धापह्नुतिरिति निष्कर्षः । अयमाकाशे दृश्यमानः न सुधांशुश्चन्द्रः, किं तु व्योमगङ्गासरोरुहम् इत्युदाहरणम् । अत्र वर्णनीये चन्द्रे तत्सदृशाकाशगङ्गासरोरुहत्वारोपाय तदीयचन्द्रत्वनिषेधः कृत इति शुद्धापह्नुतिः। रूपकवदत्राप्यारोपोऽस्ति, किन्तु रूपके प्रकृतधर्मनिषेधो नास्तीति भेदः ।

शुद्धापह्नुतेरपरमुदाहरणम्

अङ्कं केऽपि शशङ्किरे जलनिधेः पङ्कं परे मेनिरे
सारङ्गं कतिचिच्च संजगदिरे, भूच्छायमैच्छन् परे।
इन्दौ यद्दलितेन्द्रनीलशकलश्यामं दरीदृश्यते
तत्सान्द्रं निशि पीतमन्धतमसं कुक्षिस्थमाचक्ष्महे ॥

अत्र इन्दौ दृश्यमाने श्यामवस्तुनि अन्धकारत्वारोपार्थं न केवलं स्वाभाविकस्य, किन्तु परैरुत्प्रेक्षितानामपि धर्माणामपह्ववः कृत इति विशेषः । एकत्रानेकापह्नवरूपमपि वैचित्र्यमत्रास्ति । अङ्कत्वपङ्कत्वादीनां परमतत्वेनोपन्यासात् निषेधः अर्थसिद्धः ।

(२) हेत्वपह्नुतिः

स एव युक्तिपूर्वश्चेदुच्यते हेत्वपहनुतिः।
नेन्दुस्तीव्रो, न निश्यकः, सिन्धोरौर्योऽयमुत्थितः॥२५॥

स एव अन्यस्यारोपार्थः प्रकृतधर्मापह्नव एव युक्तिपूर्वश्चेत् सहेतुको यदि क्रियते तर्हि हेत्वपह्नुतिः। यत्र अप्रकृतारोपफलके प्रकृतधर्मनिषेधे हेतुरपि निर्द्दिश्यते तत्र हेत्वपह्नुतिरिति निष्कर्षः।।

अयमाकाशे दृश्यमानो नेन्दुः, चन्द्रो न, (यस्मात् ) तीव्रः अत्युष्णः, सूर्योऽपि न, निशि रात्रौ (दृश्यमानत्वात्), सिन्धोः समुद्रात् और्वः बडवाभिरयमुत्थितः इत्युदाहरणम् । अत्र चन्द्रत्वस्य सूर्यत्वस्य च निषेधे तीक्ष्णत्वं निशि दृश्यमानत्वं च क्रमेण देत निहिष्टौ । निषेधश्च प्रकृते चन्द्रे और्वत्वारोपार्थं इति लक्षणसमाहतिः। विरहिणीवचनत्वाच्चन्द्रे तीव्रत्वोक्तिरुपपद्यते ।

अस्या एवापरमुदाहरणम् ।

मन्थानभूमिधरमूलशिलासहस्र-
सङ्घट्टनव्रणकिणः स्फुरतीन्दुमध्ये ।
छायामृगः शशक इत्यतिपामरोक्तिः
तेषां कथञ्चिदपि तत्र हि न प्रसक्तिः ॥

अत्र चन्द्रे समुद्रमथनकाले मन्दरपर्वतस्य शिलासंघट्टनेन कृतव्रणकिणस्यैव प्रसक्तिः, न पुनः छायादीनामिति तेषामपह्नवः पामरवचनोपन्यासेन आविष्कृतः । छायाशब्देनात्र भूच्छाया विवक्ष्यते।

(३) पर्यस्तापह्नुतिः।
  
अन्यत्र तस्यारोपार्थः पर्यस्तापह्नुतिस्तु सः।
नायं सुधांशुः, किं तर्हि ? सुधांशुः प्रेयसीमुखम् ॥

यत्र सः, क्वचिद्वस्तुनि तदीयधर्मनिह्नवः, अन्यत्र वर्णनीये वस्तुनि तस्य धर्मस्यारोपार्थः तत्र पर्यस्तापह्नुतिः। पर्यस्ता आरोपव्यधिकरणा अपह्नुतिर्निषेध इति पर्यस्तापह्नुतिरन्वर्थसंज्ञा । अयं पुरोदृश्यमानःन सुधांशुः, चन्द्रो न, किन्तु प्रेयसीमुखं सुधांशुरित्युदाहरणम्।अत्र चन्द्रे सुधांशुत्वनिषेधः अन्यत्र वर्णनीये प्रेयसीमुखे तस्य सुधांशुत्वस्य अरोपार्थ इति लक्षणसमन्वयः ।
(चन्द्रे चन्द्रत्वनिषेधस्य साक्षात् मुखे तदारोपार्थत्वं यद्यपि नास्ति तथापि आरोपदार्ढ्यसंपादकत्वस्य अनुभवसिद्धत्वात्तदर्थत्वोक्तिः)
अस्या अपरमुदाहरणम् ।
हालाहलो नैव विषं, विषं रमा जनाः परं व्यत्ययमत्र मन्यते । २६॥
निपीय जागर्ति सुखेन तं शिवः स्पृशन्निमां मुह्यति निद्रया हरिः ॥

अत्र हालाहले विषत्वनिषेधः रमायां तस्यारोपार्थः । उत्तरार्धे हेतुरप्युक्त इति पूर्वोदाहरणाद्विशेषः । तथा च पर्यस्तापह्नुतेरपि हेतोरनुक्त्या उक्त्या च द्वैविध्यं बोध्यम् ।

(४) भ्रान्तापह्नुतिः ।

 भ्रान्तापह्नुतिरन्यस्य शङ्कायां भ्रान्तिवारणे ।
तापं करोति सोत्कम्पं, ज्वरः किं ? न, सखि ! स्मरः।।

अन्यस्य प्रकृतेतरस्य अतत्वस्य शङ्कायां सत्यां, भ्रमे सति इत्यर्थः, भ्रान्तेः भ्रमस्य वारणे तत्त्वाख्यानेन निवर्तने भ्रमविषयनिषेधात् भ्रान्तापह्नुतिः। तत्त्वकथनहेतुकभ्रान्तिविषयनिषेध इति निष्कर्षः । मदनपीडिता नायिका वदति स्मरं मनसि कृत्वा ‘सोत्कम्पं तापं करोति' इति । कम्पस्य तापस्य च ज्वरसाधारण्यात् ऋजुबुद्धिः सखी शङ्कते " किं ज्वरः" इति । नायिका 'न ज्वरः किन्तु स्मरः' इति तत्त्वकथनपूर्वकं भ्रमविषयं ज्वरं निषिध्य सख्याः भ्रमं वारयति । तदेवं "तापं करोति-" इत्यादि श्लोकार्धं भ्रान्तापह्नुतेः उदाहरणम् । सादृश्याद्भ्रमे भ्रान्तिमदलङ्कारः । ततः तन्निषेधे भ्रान्तापह्नुतिः ।

अस्याः अपरमुदाहरणम्

नागरिक समधिकोन्नतिरिह महिषः कोऽयमुभयतः पुच्छः।।
नहि नहि करिकलभोऽयं शुण्डादण्डोऽयमस्य न तु पुच्छम् ॥

1: अत्र करिकलभे महिषभ्रान्तिःनिश्चयरूपा । 'ज्वरः किम्' इति पूर्वोदाहरणे सन्देहरूपेति विशेषः । अपि च ग्रामीणस्य गजकलभे महिषम्रान्तिः, शुण्डादण्डे पुच्छभ्रान्तिश्च नागरिकेण तत्वाख्यानपूर्वकं वार्यते इति भ्रान्तापह्नुतिः।।
 
(५) छेकापह्नुतिः।

छेकापह्नुतिरन्यस्य शङ्कातस्तथ्यनिहवे ।
प्रजल्पन्मत्पदे लग्नः, कान्तः किं ? न हि, नूपुरः ॥२८॥

अन्यस्य अनुद्दिष्टस्य श्रोतृजनस्य शङ्कातः (हेतौ तसि:) शङ्काहेतोः (तात्विकवस्तुशङ्कया) तन्निवारणार्थं तथ्यस्य यथार्थस्याभिप्रेतार्थस्य निह्नवे निषेधे छेकापह्नुतिः। छेको विदग्धः, तत्कृता अपह्नुतिः छेकापह्नुतिःइति लक्ष्यनिर्देशः। वाक्यस्यान्यथायोजनेन शङ्किततात्विकवस्तुनिषेध इति लक्षणम् । "प्रजल्पन् मत्पदे लग्न" इत्याद्युदाहरणम् । काचिन्नायिका स्वकान्तं मनसि निधाय आप्तसखीं वदति-प्रजल्पन् यत्किमपि (मामनुनेतुम् ) प्रलपन् मत्पदे मम चरणे लग्नः प्रणतः इति । अनाप्ता काचिद्यदृच्छया तद्वाक्यं श्रुत्वा शङ्किततत्वार्था पृच्छति ‘कान्तः किम् ।। इति । तदा विदग्धा नायिका तथ्यगोपनाय प्रतिवदति-न हि कान्तः, किंतु नूपुर इति । अत्र नूपुर एव शब्दायमानः पादे लग्न इति वाक्यस्यान्यथायोजनेन शङ्किततात्विकवस्तुनः कान्तस्य निषेधः वैदग्ध्येन कृत इति लक्षणसमन्वयः।

अस्या एवापरमुदाहरणम्

सीत्कारं शिक्षयति व्रणयत्यधरं तनोति रोमाञ्चम्।
नागरिकः किं मिलितो? नहि नहि सखि! हैमनः पवनः।

अत्र सीत्कारं शिक्षयति इत्यादिवाक्यार्थं नागरिकाभिप्रायेण प्रियसखीं प्रति कयाचिदुक्तमाकर्ण्यान्यया तत्वार्थः शङ्कितः। तां प्रति तच्छङ्कानिवृत्तये वाक्यस्य हैमन्तिकपवनपरत्ववर्णनेन तात्विकस्य नागरिकस्यापह्नवः कृतः।

(६) कैतवापह्नुतिः।

कैतवापह्नुतिर्व्यक्तौ व्याजाद्यैर्निह्नुतेः पदैः ।
निर्यान्ति स्मरनाराचाः कान्तादृक्पातकैतवात् ।।२९।।


व्याजाद्यैः व्याजछलकैतवप्रभृतिभिः पदैः निह्नुतेः निषेधस्य व्यक्तौ स्फुटीकरणे कैतवापह्नुतिः । अत्र कण्ठतो धर्मनिषेधो नञा न क्रियते, किन्तु असत्यत्वाभिधायिभिः कैतवादिपदैः निषेधः प्रतीयते । कान्तायाः दृक्पातकैतवात् दृष्टिप्रसरव्याजेन स्मरनाराचाः मन्मथबाणविशेषाः निर्यान्ति निर्गच्छन्ति इत्युदाहरणम् । अत्र कैतवपदेन 'नेमे कान्ताकटाक्षाः किन्तु स्मरनाराचा' इत्यपह्नवः प्रतीयते।

अस्याः अपरमुदाहरणम्।

रिक्तेषु वारिकथया विपिनोदरेषु मध्याह्नजृम्भितमहातपतापतप्ताः ।
स्कन्धान्तरोत्थितदवाग्निशिखाच्छलेन जिह्वां प्रसार्य तरवो जलमर्थयन्ते ।।

अत्र दवाग्निशिखाव्याजेन ग्रीष्मतप्तास्तरव: जलं प्रार्थयन्ते इत्यनेन 'नेमाः दवाग्निशिरवाः, किन्तु तरूणां जिह्वा इति छलपदात् प्रतीयते ।

उत्प्रेक्षालङ्कारःसम्पाद्यताम्

संभावना स्यादुत्प्रेक्षा वस्तुहेतुफलात्मना।
उक्तानुक्तास्पदायात्र सिद्धाऽसिद्धास्पदे परे ॥३०॥

संभावना उत्प्रेक्षा स्यात् । उत्प्रेक्षा इति लक्ष्यनिर्देशः । संभावना इति लक्ष्णम् । निश्चयभिन्नं सन्देहभिन्नं च ज्ञानं संभावना, उत्कटैकतरकोटिकः संशयः सम्भावनेति केचित् । अन्यधर्मसंबन्धेन निमित्तेन अन्यस्य अन्यतादात्म्यसंभावनं उत्प्रेक्षा इति निष्कर्षः । उत्प्रेक्षा त्रिविधा—(1) वस्तु अथवा स्वरूपोत्प्रेक्षा (2) हेतूत्प्रेक्षा (3) फलोत्प्रेक्षा इति । वस्तुनः कस्यचिद्वस्त्वन्तरतादात्म्यसंभावना वस्तूत्प्रेक्षा । वस्तुत्वं च हेतुत्वेन फलत्वेन वा विवक्षिताद्भिन्नत्वम् । अहेतोः हेतुभावेन संभावना हेतूत्प्रेक्षा। अफलस्य फलत्वेन संभावना फलोत्प्रेक्षा) अत्र त्रिविधायामुत्प्रेक्षायां आद्या वस्तूत्प्रेक्षा उक्तास्पदा उक्तविषया, अनुक्तास्पदा अनुक्तविषया, इति द्विविधा । परे हेतुफलोत्प्रेक्षे सिद्धविषया, असिद्धविषया चेति प्रत्येकं द्विविधे । तथा च षड्विधा उत्प्रेक्षा। (1) उक्तविषया वस्तूत्प्रेक्षा (2) अनुक्तविषया वस्तूत्प्रेक्षा (3) सिद्धविषया हेतूप्रेक्षा (4) असिद्धविषया हेतूत्प्रेक्षा। (5) सिद्धविषया फलोत्प्रेक्षा (6) असिद्धविषया फलोत्प्रेक्षा । एतेषां क्रमेणोदाहरणानि दीयन्ते।


(१) उक्तविषया वस्तूत्प्रेक्षा ।

धूमस्तोमं तमः शङ्के कोकीविरहशुष्मणाम् ।

'अहं तमः अन्धकारं कोकीनां चक्रवाकाङ्गनानां विरहशुष्मणां विरहाग्नीनां धूमस्तोमं धूमपटलं शङ्के तर्कयामि, इत्यत्र रात्रौ प्रवर्तमानमन्धकारात्मकं वस्तु कोकीविरहाग्नीनां धूमपटलत्वेन कोकीविरहानीनां धूमपटलत्वेन वस्त्वात्मना उत्प्रेक्ष्यते । अत्र च निमित्तं नीलत्वदृष्टिप्रतिरोधकत्वादि संबन्धः। तमः धूमस्तोमं शङ्के इति तमसो विषयस्योक्तत्वादुक्तविषया वस्तूत्प्रेक्षा । शङ्के इत्युत्प्रेक्षाद्योतक: शब्दः । एवं मन्ये, ध्रुवम् , प्रायः, नूनम् , इव इत्यादयोऽपि उत्प्रेक्षाद्योतकाः ज्ञातव्याः।

अस्या एवापरमुदाहरणम् ।

बालेन्दुवक्राण्यविकासभावाद्बभुः पलाशान्यतिलोहितानि ।
सद्यो वसन्तेन समागतानां नखक्षतानीव वनस्थलीनाम् ॥

अत्र पलाशकुसुमानां वक्रत्वलोहितत्वादिधर्मसंबन्धेन सद्यः कृतनखक्षततादात्म्यसम्भावनात्, विषयस्य पलाशकुसुमानामुपादानाच्च उक्तविषया वस्तूत्प्रेक्षा ।

(२) अनुक्तविषया वस्तूत्प्रेक्षा ।

लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः ॥ ३१॥

तमः अन्धकारः अङ्गानि लिम्पति इव-अङ्गानां लेपनं करोतीव इत्येकमुदाहरणम् । नभः आकाशः अञ्जनं वर्षतीव इत्यपरमुदाहरणम् । उभयत्रापि तमसः व्यापनं विषयः, स च नोक्तः । तस्य च तमोव्यापनस्य सकलवस्तुसान्द्रमलिनीकरणेन निमित्तेन तम:कर्तृकलेपनतादात्म्यं, नभः कर्तृकाञ्जनवर्षणतादात्म्यं च उत्प्रेक्ष्येते इति अनुक्तविषया (वस्तु) स्वरूपोत्प्रेक्षा । अत्र इवशब्दः संभावनाद्योतकः ।

अस्या एवापरमुदाहरणम् ।

पिनष्टीव तरङ्गाग्रैः समुद्रः फेनचन्दनम् ।
तदादाय करैरिन्दुः लिम्पतीव दिगङ्गनाः ॥

1 . अत्र तरङ्गाग्रैः फेनचन्दनस्य प्रेरणं पेषणत्वेनोत्प्रेक्ष्यते । समुद्रादुत्थितस्य चन्द्रस्य किरणानां दिक्षु व्यापनं फेनचन्दनकृतलेपनत्वेनोत्प्रेक्ष्यते । पूर्वत्र समुद्रोपान्ते फेनपुञ्जीभवनं निमित्तम् । उत्तरत्र दिशां घवलीकरणं निमित्तम्, प्रेरणव्यापनयोः विषययोरनुपादानादनुक्तविषया वस्तूत्प्रेक्षा ।।

(३) सिद्धविषया हेतूत्प्रेक्षा

रक्तौ तवाङ्घ्री मृदुलौ भुवि विक्षेपणाद् ध्रुवम् ।

तव मृदुलौ अङ्घ्री चरणौ भुवि विक्षेपणात् सञ्चारात् हेतोः रक्तौ लोहितौ ध्रुवम् , इत्यत्र भुवि विक्षेपणं पादयोः रक्तत्वस्य हेतुत्वेनोत्प्रेक्ष्यते। पादयोः रक्तत्वस्य स्वतः सिद्धत्वाद् विक्षेपणं न हेतुः, तथापि तस्य हेतुत्वसम्भावनात् हेतूत्प्रेक्षा। अत्र विक्षेपणं विषयः, स च सिद्धः, तस्मिन् हेतुत्वं हेतुतादात्म्यं उत्प्रेक्ष्यत इति सिद्धविषया हेतृत्प्रेक्षा।

अस्या एवापरमुदाहरणम्

रात्रौ रवेर्दिवा चेन्दोरभावादिव स प्रभुः ।
भूमौ प्रतापयशसी सृष्टवान् सततोदिते ॥

अत्र प्रतापयशसोः सृष्टौ रात्रौ सूर्याभावः, दिवा चन्द्राभावश्च स्वत: सिद्धौ हेतुत्वेनोत्प्रेक्षिताविति सिद्धविषया हेतूत्प्रेक्षा ।

(४) असिद्धविषया हेतूत्प्रेक्षा

त्वन्मुखाभेच्छया नूनं पत्मैर्वैरायते शशी ॥ ३२॥

शशी चन्दः तव मुखस्य या आभा सौन्दर्यं तल्लिप्सया पत्मैः सह वैरं करोति इत्यत्र चन्द्रपत्मयोः विरोधे स्वाभाविकेऽपि तन्वीमुखकान्तिलाभेच्छा हेतुत्वेन उत्प्रेक्ष्यते । चन्द्रस्य कान्तामुखकान्तिलिप्सायाः अप्रसिद्धत्वात् (असत्त्वात् ) असिद्धविषया हेतूत्क्षाप्रेक्षा।

अस्या अपरमुदाहरणम्

विवस्वतानायिषतेव मिश्राः
स्वगोसहस्रेण समं जनानाम् ।
गावोऽपि नेत्रापरनामधेया -
स्तेनेदमान्ध्यं खलु नान्धकारैः ॥

विवस्वता सूर्येण स्वकिरणैः सह मिश्रिताः जनानां नेत्रापरनामधेया गावोऽपि अनायिषत नीता इव तेन नयनेन इदमान्ध्यं, न तु अन्धकारैः इत्यत्र सूर्येण जनानां नेत्रनयनमसिद्धं रात्रौ अन्धतायाः हेतुत्वेनोत्प्रेक्ष्यते, तस्मादसिद्धविषया हेतूपेक्षा।

(५) सिद्धविषया फलोत्प्रेक्षा

मध्यः किं कुचयोर्धृत्यै बद्धः कनकदामभिः ।

हे कान्ते ! मध्यः अवलग्नभागः कुचयोः धृत्यै धारणाय कनकदामभिः बद्धः किम् ? इत्यत्र कनकदामबन्धत्वेनाध्यवसितस्य वलित्रयवेष्टनस्य कुचधारणार्थत्वमुत्प्रेक्ष्यते । मध्यः स्वयमेव कुचौ धरति, न तु कनकदामबन्धत्वेनाध्यवसितवलित्रयवेष्टनबलात् । तथा च कुचधारणं कनकदामबन्धस्य फलत्वेनोत्प्रेक्षितमिति फलोत्प्रेक्षा । कुचधारणस्य सिद्धत्वाच्च सिद्धविषया ।

अस्या एवान्यदुदाहरणम्

पूरं विधुर्वर्धयितुं पयोधेः शङ्केऽयमेणाङ्कमणिं कियन्ति ।
पयांसि दोग्धि प्रियविप्रयोगे सशोककोकीनयने कियन्ति ॥

चन्द्रोदये समुद्रबृंहणं स्वतः सिद्धम् । तथापि समुद्रं वर्धयितुं चन्द्रः चन्द्रकान्तमणिं द्रावयति, कोकीनयनेभ्यः अश्रूणि पातयतीति समुद्रवर्धनं चन्द्रकान्तद्रावणस्य कोकाङ्गनाबाष्पस्रावणस्य च फलत्वेन उत्प्रेक्ष्यत इति सिद्धविषया फलोत्प्रेक्षा।

(६) असिद्धविषया फलोत्प्रेक्षा

प्रायोऽब्जं त्वत्पदेनैक्यं प्राप्तुं तोये तपस्यति ॥ ३३ ॥

अत्र पद्मस्य जले अवस्थानं जलवासतपस्त्वेनाध्यवस्य तत्तपसः फलमुत्प्रेक्षते। हे कान्ते ! प्रायः अब्जं तव पदेन पादेन ऐक्यं प्राप्तुं तोये तपस्यति उदवासतप:करोति इत्यत्र पद्मस्य जले स्वाभाविकमवस्तथानं तपस्त्त्वेनाध्यवसितं कामिनीपादसायुज्यप्राप्त्यर्थमिति पदसायुज्यप्राप्तेः उदवासतप:फलत्वमुत्प्रेक्ष्यते । कामिनीचरणसायुज्यप्राप्तेश्च सिद्धत्वेन असिद्धविषया फलोत्प्रेक्षा।

अस्या एवापरमुदाहरणम्

रथस्थितानां परिवर्तनाय पुरातनानामिव वाहनानाम् ।
उत्पत्तिभूमौ तुरगोत्तमानां दिशि प्रतस्थे रविरुत्तरस्याम् ॥

अत्र सूर्यस्योत्तरदिग्गमनस्य रथस्थितपुरातनाश्वपरिवर्तनं फलत्वेनोत्प्रेक्ष्यते। अश्वपरिवर्तनस्य चासिद्धत्वात् असिद्धविषया फलोत्प्रेक्षा ।

अतिशयोक्त्यलङ्कारःसम्पाद्यताम्

अतिशयस्य लोकमर्यादातिवर्तिनः (कविसम्मतस्य) विशेषस्य उक्तिः अतिशयोक्तिः इति नाम्नैव अस्यालङ्कारस्य सामान्यलक्षणमुक्तं भवति । तथा च दण्डी - "विवक्षा या विशेषस्य लोकसीमातिवर्तिनी । असावतिशयोक्तिः स्यात्" इति । अतिशयोक्तिरष्टविधा (१) रूपकातिशयोक्तिः, (२) सापह्नवरूपकातिशयोक्तिः, (३) भेदकातिशयोक्तिः, (४) संबन्धातिशयोक्तिः (५) असंबन्धातिशयोक्तिः, (६) अक्रमातिशयोक्तिः, (७) चपलातिशयोक्तिः, (८) अत्यन्तातिशयोक्तिः, इति । ऐतेषां क्रमेण लक्षणोदाहरणानि दीयन्ते।

(१) रूपकातिशसोक्तिः

रूपकातिशयोक्तिः स्यान्निगीर्याध्यवसानतः ।
पश्य नीलोत्पलद्वन्द्वान्निस्सरन्ति शिताः शराः ॥ ३४॥

निगीर्य, विषयस्य स्वशब्देनोपादानं विना विषयिवाचकपदेनैव ग्रहणं कृत्वा, अध्यवसानतः विषयस्य विषयिरूपेण आहार्यनिश्चयात् अतिशयोक्तिः स्यात् । आहार्यत्वं नाम बाधकालीनेच्छाजन्यत्वम् । यत्रोपमेयं मुखादिकं तद्वाचिमुखादिपदेन अनुपादाय उपमानवाचिचन्द्रादिपदैरेवोपादाय चन्द्रादिरूपेण (चन्द्राद्यभेदताद्रप्यान्यतररूपेण) अवधार्यते तत्र रूपकातिशयोक्तिरिति निष्कर्षः। हे सखि । नीलोत्पलद्वन्द्वात् शिताः तीक्ष्णाः शराः निस्सरन्ति निर्गच्छन्तीत्युदाहरणम् । अत्र विषयभूतकान्तालोचनद्वन्द्वकटाक्षाणां तद्वाचिपदैः उपादानं विना विषयिवाचिनीलोत्पलशरशब्दाभ्यामेव उपादानं कृत्वा नीलोत्पलद्वन्द्वबाणाभेदाध्यवसानात् रूपकातिशयोक्तिः।। (रूपके विषयविषयिणोः स्वपदोपात्तयोरभेदप्रतिपत्तिः आरोपः रूपकातिशयोक्तौ तु विषयस्य स्वपदोपादानं विना विषयिवाचिपदेनैव उपादानपूर्वकं विषयविषयिणोराहार्याभेदनिश्चयः अध्यवसायः इत्यनयोर्भेदः । उत्प्रेक्षायामभेदसंभावनैव, नतु निश्चयः । भ्रान्तौ अभेदप्रतिपत्ति: न आहार्या, किन्त्वन्यथाग्रहणजन्या इत्येवं भेद: अवगन्तव्यः।

रूपकातिशयोक्तेः अपरमुदाहरणम्

वापी काचित्स्फुरति गगने तत्परं सूक्ष्मपद्या
सोपानालीमधिगतवती काञ्चनीमैन्द्रनीली ।
अग्रे शैलौ सुकृतिसुगमौ चन्दनच्छन्नदेशौ
तत्रत्यानां सुलभममृतं सन्निधानात्सुधांशोः ॥

अत्र वापीगगनसूक्ष्मपद्यादिभिः उपमानवाचकशब्दैः नाभि, मध्य, रोमावलिप्रभृतीनि उपमेयानि निगीर्णानि, वाप्यादिरूपेण अध्यवसितानि चेति रूपकातिशयोक्तिः ।
 (२) सापह्नवा रूपकातिशयोक्तिः

यद्यपह्नुतिगर्भत्वं सैव सापह्नवा मता।
त्वत्सूक्तिषु सुधा राजन् भ्रान्ताः पश्यन्ति तां विधौ ॥

सैव रूपकातिशयेक्तिरेव यदि अपह्नवगर्भा निषेधघटिता तर्हि सापह्वानवा रूपकातिशयोक्तिरिति मता उच्यते। हे राजन् तव सूक्तिषु मधुरवचनेषु सुधा अमृतं, वर्तत इति शेषः। भ्रान्ताः अज्ञानिनः उन्मत्ता वा तां सुधां विधौ चन्द्रे पश्यन्ति जानन्ति। परमार्थतः चन्द्रे सुधा नास्तीति भावः । अत्र सूक्तिमाधुर्ये सुधात्वाध्यवसानस्य चन्द्रे सुधा नास्तीति निषेधगर्भत्वात् सापह्नवा रूपकातिशयोक्तिः ।

अस्या एवापरमुदाहरणम्

मुक्ताविद्रुममन्तरा मधुरसः पुष्पं परं धूर्वहं
प्रालेयद्युतिमण्डले खलु तयोरेकासिका नार्णवे ।
तच्चोदञ्चति शङ्खमूर्ध्नि न पुनः पूर्वाचलाभ्यन्तरे
तानीमानि विकल्पयन्ति त इमे येषां न सा दृक्पथे।।

अत्र मुक्ताविद्रुमयोर्मध्ये मधुरस:, पुष्परसस्तु न मधुरस:; मुक्ताविद्रुमौ चन्द्रमण्डले वर्तेते, न त्वर्णवे; चन्द्रश्च शङ्खशिरसि उदेति न पूर्वाद्रिपरिसरे इत्यादौ मुक्ता, विद्रुम, मधुरस, चन्द्रमण्डल, शङ्दखशब्दः, अधर, अधरमाधुर्य, मुख, कण्ठाः निगीर्णाः मुक्तादिरूपेणाध्यवसिताश्च । पुष्पं परं धूर्वहमित्यादौ पुष्परसो न मधुरस इत्येवमादिनिषेधस्य गम्यमानत्वात् सापह्नवा रूपकातिशयोक्तिः ।।

(३) भेदकातिशयोक्तिः


भेदकातिशयोक्तिः स्यात्तस्यैवान्यत्ववर्णनम् ।
अन्यदेवास्य गाम्भीर्यमन्यद्धैर्यं महीपतेः ॥ ३६॥

तस्यैव लोकप्रसिद्धस्यैव विषयस्य गाम्भीर्यादे: अन्यत्ववर्णने अभेदेऽपि भेदवर्णनं भेदकातिशयोक्तिः । अस्य महीपतेः गाम्भीर्यम् अन्यदेव, धैर्यमप्यन्यदेव लोकविलक्षणमेव इत्यत्र गाम्भीर्यधैर्ययोः लोकसाधारणत्वेऽपि (अभेदेऽपि) विलक्षणत्वं (भेदः) वर्णितमिति भेदकातिशयोक्तिः ।

अस्या एवापरमुदाहरणम्

अन्येयं रूपसम्पत्तिरन्या वैदग्ध्यधोरणी।
नैषा नलिनपत्राक्षी सृष्टिः साधारणी विधेः ॥

अत्र लोकसिद्धरूपसम्पत्याद्यभेदेऽपि भेदो वर्णित इति भेदकातिशयोक्तिः ।

(४) संबन्धातिशयोक्तिः

संबन्धातिशयोक्तिः स्यादयोगे योगकल्पनम् ।
सौधाग्राणि पुरस्यास्य स्पृशन्ति विधुमण्डलम् ॥३७॥

अयोगे असंबन्धे सति योगकल्पनं संबन्धवर्णनं यत् सम्बन्धातिशयोक्तिः । अस्य पुरस्य सौधाग्राणि प्रासादशिखराणि विधुमण्डलं चन्द्रमण्डलं स्पृशन्ति इत्यत्र समुन्नतानां सौधशिखराणां वस्तुतः विधुमण्डलस्पर्शासम्बन्धेऽपि तत्सम्बन्धवर्णनात् संबन्धातिशयोक्तिः ।

अस्या एवापरमुदाहरणम्

कतिपयदिवसैः क्षयं प्रयायात् कनकगिरिः कृतवासरावसानः।
इति मुदमुपयाति चक्रवाकी वितरणशालिनि वीररुद्रदेवे । ।

अत्र सुर्यास्तमनकारकस्य कनकगिरेः महामेरोः क्षयसंभावनाप्रयुक्तेन सन्तोषेण चाक्रवाक्याः संबन्धाभावेऽपि तत्संबन्धवर्णनात् संबन्धातिसयोक्तिः।

असंबन्धातिशयोक्तिः

योगोऽप्ययोगोऽसंम्बन्धतिदयोक्तिरितीर्यते ।
त्वयि दातरि राजेन्द्र स्वर्द्रुमान्नाद्रियामहे ।।

योगो संबन्धे सत्यपि अयोगः असंबन्धवर्णनं असंबन्धातिशयोक्तिः इति ईर्यते उच्यते । हे राजेन्द्र ! त्वयि दातरि वितरणशालिनि सति स्वर्द्रुमान् कल्पवृक्षान् न आद्रियामहे न याचामहे इत्युदाहरणम् । अत्र राज्ञि दानशीले सत्यपि स्वर्द्रुमेषु सर्वेषामादरो भवत्येव । तथा च आदरयोगेऽपि `नाद्रियामहे ´ इत्ययोगकल्पनात् असंबन्धातिशयोक्तिः ।

अस्या अपारमुदाहरणम्

अनयोरनवद्याङ्गि स्तनयोः जृम्भमाणयोः ।
अवकाशो न पर्याप्तस्तव बाहुलतान्तरे ।।

अत्र वर्धमानयोः स्तनयोः पर्याप्तस्य अवकाशस्य बाहुमध्ये सत्वात् तत्संबन्धे सत्यपि `न पर्याप्त ´इति असम्बन्धवर्णनात् अस्मबन्धातिशयोक्तिः ।

 अक्रमातिशयोक्तिः

अक्रमातिशयोक्तिः स्यात्सहत्वे हेतुकार्ययोः ।
आलिङ्गन्ति समं देव ज्यां पराश्च शराश्च ते ।।


हेतुकार्ययो कार्यकारणयोः सहत्वे यौगपद्ये (वर्ण्यमाने सति) अक्रमातिशयोक्तिरीति लक्षम् । कारणं पूर्वं, कार्यं तदनन्तरमित नियममुल्लङ्घ्य हेतुकार्ययोः एककालत्ववर्णनम् अक्रमातिशयोक्तिरित्यर्थः । हे राजन् ! तव शराः बाणाः, पराः शत्रवश्च ज्यां मौर्वीं भूमिं च समं युगपद् आलिङ्गन्ति इत्युदाहरणं । अत्र मौर्व्यां शरसन्धानरुपकारणस्य शत्रूणाम् भूपतनरूपकार्यस्य च पौर्वापर्ये विद्यमानेऽपि यौगपद्यवर्णनादक्रमातिशयोक्तिः ।

अस्या अपरमुदाहरणं

मुञ्चति मुञ्चति कोशं भजति प्रकंपमरिवर्गः ।
हम्मीरवीरखड्गे त्यजति त्यजति क्षमामाशु ।।

अत्र हम्मीरवीरस्य खड्गः, यदा कोशं मुञ्चति, तदैव अरिवर्गः कोशं भण्डागारं मुञ्चति, यदा खड्गः कम्पते तदैव शत्रवोऽपि कम्पन्ते इत्यादौ कार्यकारणयोर्यौगपद्यवर्णनाद् अक्रमातिशयोक्तिः ।

7 चपलातिशयोक्तिः

चपलातिशयोक्तिस्तु कार्ये हेतुप्रसक्तिजे ।
यस्यामीत्युदिते तन्व्याः वलयोऽभवदुर्मिका ।।

कार्ये हेतुप्रसक्तिजे, हेतोः कारणस्य प्रसक्तया ज्ञानमात्रेण कार्यस्य जननवर्णने चापलतिशयोक्तिरलङ्कारः । यास्यामी दूरदेशं गमिष्यामि इति (नायकेन) उक्ते सति, विरहज्ञानमात्रेण तन्व्याः नायिकायाः ऊर्मिका अङ्गुलीयकं वलयः हस्ताभरणं अभूत् इत्युदाहरणंम् । अत्र भविष्यद्विरहकारणस्य ज्ञानमात्रेण तन्व्याः कृशता सञ्जाता यस्मादङ्गुलीयकं हस्ताभरणमभूदिति कार्योत्पत्तिवर्णनात् चपलातिशयोक्तिः ।
       
अस्या अपरमुदाहरणम्

आदातुं सकृदीक्षितेऽपि कुसुमे हस्ताग्रमालोहितं
लाक्षारञ्जनवार्तयापि सहसा रक्तं तलं पादयोः ।
अङ्कानामनुलेपनस्मरणमप्यन्तखेदावहं
हन्ताधीरदृशः किमन्यदलकामोदोऽपि भारायते ।।
  
अत्र सहजसौकुमार्यायाः नायिकायाः विरहावस्थायां आदानेच्छया कुसुमे क्षणमात्रेण हस्तग्रं लोहितमभूत्, लाक्षारसवार्तयापि पादतलं रक्तमभूदित्यादौ कारणप्रसक्तिमात्रेण कार्योत्पत्तिवर्णनात् चपलातिशयोक्तिः ।

अस्या एवोदाहरणान्तरम्

यामि न यामीति धवे वदति पुरस्तात्क्षणेन तन्वङ्ग्याः ।
गलितानि पुरो वलयानि, अपराणि तथैव दलितानि ।।
  
अत्र यामि न यमीति विरहतदाभावयोः प्रसक्तिमात्रेण युगपत्संजात -कृशत्वपीनत्वरुपकार्यद्वारा पुरोवलयगलनं अपरेषां दलनं च युगपत्सञ्जातमिति हेतुप्रसक्तिजन्यकार्ययोरपि समकालत्वं वर्णितमिति विशेषः ।

8 अत्यन्तातिशयोक्तिः
 
अत्यन्तातिशयोक्तिःस्यात्पौर्वापर्यव्यतिक्रमे ।
अग्रे मानो गतः पश्चादनुनीता प्रियेण सा ।।

कार्यकारणयोः पौर्वापर्यस्य पूर्वोत्तरक्रमस्य व्यतिक्रमे उल्लङ्घेन सति अत्यन्तातिशयोक्तिः । पूर्वं कारणं पश्चात् कार्यं इति सिद्धं क्रममुल्लङ्घ्य कार्योत्पत्तेरनन्तरं कारणसंभववर्णनं अत्यन्तातिशयोक्तिरित्यर्थः । मानः प्रणयकोपः अग्रे प्रथमं गतः, पश्चात् सा नायिका प्रियेण अनुनीता इत्यत्र प्रसिद्धकारणात् अनुनयात् पूर्वमेव कार्यस्य मानत्यागस्योत्पत्तिवर्णनात् (कार्यकारणयोः पौर्वापर्यविपर्ययरूपायाः) अत्यन्तातिशयोक्तेः उदाहरणमिदम् ।

अस्या एवामपरमुदाहरम्

कवीन्द्राणामासन् प्रथमतरमेवाङ्गणभुवः
चलद् भ्रुङ्गासङ्गाकुलकरिमिदामोदमधुराः ।
अमी पश्चात्तेषामुपरि पतिता रुद्रनृपतेः
कटाक्षाः क्षीरोदप्रसरदुरुवीचीसहचराः ।।|

अत्र प्रथमं कवीनामङ्गणभुवः रुद्रनृपतिकरिभिः पूर्णा, तदनन्तरं च नृपतेः कटाक्षाः कवीनामुपरि पतिताः इति कार्यभूतकरिदानानन्तरं कारणभूतकटाक्षपातवर्ननात् अत्यन्तातिशयोक्तिः । [अत्रेदमवधेयम् -अन्त्यास्तिस्रः अक्रमचपलात्यन्तातिशयोक्तयः कार्यकारणक्रमनिबन्धनाः कार्यशैध्र्यं द्योतयन्ति] ।

तुल्ययोगितालङ्कारःसम्पाद्यताम्

तुल्यानां सादृश्यवतां यॊगिता एकधर्मान्वयित्वं तुल्ययोगिता । सा चतुर्विधा (1) प्रस्तुतैकधर्मान्वयरूपा (2) अप्रस्तुतैकधर्मान्वयरूपा (3) हिताहितवृत्तितौल्यरुपा
( 4) उत्कृष्टसमीकरणोक्तिरुपा चेति आसां क्रमेण लक्षणोदाहरणानि दीयन्ते ।

प्रथमद्वितीये तुल्ययोगिते

वर्ण्यानामितरेषां वा धर्मैक्यं तुल्ययोगिता ।
संकुचन्ति सरोजानि स्वैरिणीवदनानि च ।।

वर्ण्यानां प्रस्तुतानामेव, अथवा इतरेषां अप्रस्तुतानामेव धर्मैक्यं गुणक्रियारुपैकधर्मान्वयः तुल्ययोगितालङ्कारः । यत्र द्वयोः प्रस्तुतयोरेव, बहूनां प्रस्तुतानामेव वा एकधर्मान्वयः वर्ण्यते तत्र प्रथमा तुल्ययोगिता । यत्र द्वयोः बहूनां वा अप्रस्तुतानमेव एकधर्मान्वयः तत्र द्वितीया तुल्ययोगिता इति निष्कर्षः । मूले 'वर्ण्यानां इतरेषां' इत्युभयत्र बहुवचनमनेकत्वाभिप्रायेण प्रयुक्तम् । तथा च अनेकप्रस्तुतमात्रसम्बन्धैक धर्मतां प्रथमायाः, अनेकाप्रस्तुतमात्रसम्बन्धैकधर्मत्वं द्वितीयायाश्च तुल्ययोगिताया लक्षणं ।
सरोजानि पद्मानि स्वैरिणीनाम् अभिसारिकाणां वदनानि मुखानि च संकुचन्ति सङ्कोचम् प्राप्नुवन्ति इति (प्रथमायाः) प्रस्तुततुल्ययोगितायाः उदाहरणम् । चन्द्रोदये सरोजानि संकुचन्ति निमीलन्ति, स्वैरिणीवदनानि च प्रकाशभयात् संकुचन्ति । तथा च वर्ण्यानामेव सरोजानां स्वैरिणिवदनानां च संकोचारुपैकक्रियान्वयवर्ण्यानात् प्रस्तुततुल्ययोगिता ।

त्वदङ्कमार्दवे दृष्टे कस्य चित्ते न भासते ।
मालतीशशभृल्लेखाकदलीनां कढोरता ।।

हे प्रिये ! तव अङ्गमार्दवे दृष्टे सति कस्य सचेतसः चित्ते मालतीकुसुमचन्द्रलेखाकदलीनां कठोरता न भासते? इति (द्वितीयायाः) अप्रस्तुततुल्ययोगितायाः उदाहरणम् । अत्र नायिकासौकुमार्यवर्णने प्रस्तुते, अप्रस्तुतानां मालतीशशभृल्लेखाकदलीनां कढोरतारूपैकगुणान्वय वर्णानात् अप्रस्तुततुल्ययोगिता ।
 
प्रथमद्वितीययोः तुल्ययोगितयोः अपरे उदाहरणे

संजातपत्रप्रकरान्वितानि समुद्वहन्ति स्फुटपाटलत्वम् ।
विकस्वराण्यर्ककराभिमर्शाद् दिनानि पद्मानि च वृद्धिमीयुः।।

अत्र ग्रीष्मवर्णने दिनानि पद्मानि च प्रस्तुतानि सूर्यकिरणसंस्पर्शाद् वृद्धिं आपुः इति प्रस्तुतानामेव वृद्धिप्राप्तिरूपैकक्रियान्वयवर्णनात् प्रस्तुततुल्ययोगिता।

नागेन्द्रहस्तास्त्वचि कर्कशत्वादेकान्तशैत्यात्कदलीविशेषाः।
लब्ध्वापि लोके परिणाहि रूपं जातास्तदूर्वोरुपमानबाह्याः ॥

अत्र ऊरुवर्णने अप्रस्तुतानि नागेन्द्रहस्ताः कदलीविशेषाश्च । ते च ऊर्वोरुपमानबाह्याः जाताः इति अप्रस्तुतानां नागेन्द्रहस्तकदलीविशेषाणां उपमानबाह्यत्वरूपैकधर्मान्वयवर्णनाद् अप्रस्तुततुल्ययोगिता ।

तृतीया तुल्ययोगिता

हिताहिते वृत्तितौल्यमपरा तुल्ययोगिता।
प्रदीयते पराभूतिर्मित्रशात्रवयोस्त्वया ॥४४॥

हिताहिते मित्रामित्रविषये वृत्तेः व्यापारस्य तौल्यं साम्यं एकविधव्यवहरणं अपरा अन्या तृतीया तुल्ययोगिता। हे राजन् ! त्वया मित्रशात्रवयोः विषये (मित्रेभ्यः शत्रुभ्यश्च) पराभूतिः परा उत्कृष्टा भूतिरैश्वर्य, पराभवश्व प्रदीयते इत्युदाहरणम् । अत्र हिते मित्रे, अहिते शत्रौ च पराभूतिदानरूपसमानव्यापारवर्णनात् तुल्ययोगिता। उत्कृष्टभूतिदानस्य पराभवदानस्य च श्लेषेणाभेदाध्यवसानात् तुल्यत्वम् ।

अस्या एवापरमुदाहरणम्

यश्च निम्बं परशुना, यश्चैनं मधुसर्पिषा ।
यश्चैनं गन्धमाल्याद्यैः, सर्वस्य कटुरेव सः ॥

अत्र वृश्चति, सिञ्चति, अर्चति इति क्रियापदान्यध्याहार्याणि । परशुना छेदादहिते मधुसर्पिषा गन्धमाल्यादिभिश्च पूजनात् हितेच उभयत्र निम्बः कटुरेवेति समानव्यापारवर्णनात् तुल्ययोगितालक्षणसङ्गतिः। पूर्वोदाहरणं राज्ञः स्तुतिपर्यवसायि, इदं तु निम्बस्य निन्दा-. पर्यवसायीति भेदः।

चतुर्थी तुल्ययोगिता

गुणोत्कृष्टः समीकृत्य वचोऽन्या तुल्ययोगिता।
   लोकपालो यमः पाशी श्रीदः शक्रो भवानपि ॥ ४५ ॥

गणोत्कृष्टः शौर्यादिगुणैः श्रेष्ठैः समीकृत्य समानं कृत्वा (साम्यं वामित्वा) वचः वचनं वर्णनं अन्या चतुर्थी तुल्ययोगिता । उत्कृष्टगुणैः धर्मतः समानिकृत्य वर्णनं अन्या तुल्ययोगितेत्यर्थः । यमः, पाशी-वरूणः. श्रीद:-कुचेरः, शक्र:-इन्द्रः, भवानपि लोकपालः इत्यत्र वर्णनीयो राजा उत्कृष्टगुणैः यमादिभिः लोकपालत्वरूपधर्मतः समानीकृत्य वर्णित इति लक्षणसमन्वयः ।
 
अस्याः अन्यदुदाहरणम्

सङ्गतानि मृगाक्षीणां तडिद्विलसितानि च ।
क्षणद्वयं न तिष्ठन्ति धनारब्धान्यपि स्वयम् ॥
 
 
अत्र स्त्रीणां समागमाः विद्युतां विलसितानि च क्षणद्वयं न तिष्टन्तीति क्षणद्वयानवस्थानरूपधर्मतः मृगाक्षीसंगतानां तडित्दिलसित: समीकृत्य प्रतिपादनात् तुल्ययोगितालक्षणसङ्गतिः । पूर्वोदाहरण स्तुतिपर्यवसायि, इदं तु निन्दापर्यवसायीति भेदः ।

दीपकालङ्कारःसम्पाद्यताम्

  वदन्ति वर्ण्यावर्ण्यांनां धर्मैक्यं दीपकं बुधाः ।
  मदेन भाति कलभः प्रतापेन महीपतिः ।। १६ ।।

वर्ण्यावर्ण्यानां प्रस्तुताप्रस्तुतानां धर्मैक्यं एकधर्मान्वयः दीपकं इति बुधाः वदन्ति । अत्रापि वर्ण्यावर्ण्यानां इति बहुवचनं अनेकाभिप्रायेणेति बोध्यम् । वर्ण्यावर्ण्यान्वितैकधर्मे दीपकम् इति लक्षणम् । तुल्ययोगितायां वर्ण्यानामेव, अथवा अवर्ण्यानामेव एकथर्मान्वयः, दीपके तु वर्ण्यावर्ण्यानां इति भेदः। कलभः करिकलभः मदेन भाति शोभते, महीपतिः प्रतापेन शौर्यण (भाति शोभते) इति उदाहरणम् । अत्र वर्ण्यस्य राज्ञः अवर्ण्यस्य कलभस्य च भानरूपैकक्रियान्वयों वर्णित इति लक्षणसमन्वयः। सादृश्यमत्र गम्यम् । प्रस्तुतोपयोगितया प्रयुक्तो धर्मः (अत्र भानरूपः) अप्रस्तुतोपयोग्यापि भवति, यथा गृहप्र काशनार्थं प्रदीपितो दीपः रथ्यामपि प्रकाशयति इति दीपसादृश्यात् दीपक इत्यन्वर्थसंज्ञा । दीप इव दीपकं इति इवार्थे कन् प्रत्ययः ।

दीपकस्यापरमुदाहरणम्

मणिः शाणोल्लीढः समरविजयी हेतिदलितः
मदक्षीणो नागः शरदि सरिदाश्यानपुलिना।
कलाशेषश्चन्द्रः सुरतमृदिता बालवनिता
तनिम्ना शोभन्ते गलितविभवाश्चार्थिषु नृपाः ॥

अत्र अर्थिषु गलितविभवाः नृपाः, शाणोल्लीढमण्यादयश्च तनिम्ना कार्येन शोभन्ते इति प्रकृतानां नृपाणां अप्रकृतानां मण्यादीनां च शोभारूपैकधर्मान्वयवर्णनात् दीपकलक्षणसङ्गतिः ।

१६. आवृत्तिदीपकालङ्कारः

त्रिविधं दीपकावृत्तौ भवेदावृत्तिदीपकम् ।

दीपकस्य अनेकोपकारार्थतया दीपस्थानीयस्य पदस्य, अर्थस्य, उभयो; आवृत्तौ सत्यां आवृत्तिदीपकं त्रिविधं भवति (१) पदावृत्तिदीपकम् , (२) अर्थावृत्तिदीपकम् , (३) पदार्थोभयावृत्तिदीपकम् इति । एतेषां क्रमेणोदाहरणानि दीयन्ते।

 (१) पदावृत्तिदीपकस्य उदाहरणम्
    वर्षत्यम्बुदमालेयं वर्षत्येषा च शर्वरी ॥४७॥

इयं अम्बुदमाला मेधपङ्क्तिः वर्षति जलं मुञ्जति; एषा शर्वरी च रात्रिश्च वर्षति वर्षः संवत्सर इवाचरति इत्यत्र श्लेषवशात् प्रकृताप्रकृतोपकारयोग्यस्य 'वर्षति' इति पदस्य वाक्यद्वये आवृत्तेः सत्वात्, अर्थस्य च भिन्नत्वात् पदावृत्तिदीपकम् । विरहिणीवचनत्वात् रात्रेः संवत्सरायमानत्वं युक्तम् ।वस्तुतस्त्वत्र दीपकलक्षणं नास्ति मेषमालायाः रात्रेश्च प्रकृतत्वात् । तस्मादावृत्तिरेवालङ्कारः दीपकछायायाः सत्वात् आवृत्तिदीपकमिति व्यपदेशः।

अस्येवापरमुदाहरणम्

उत्कण्ठयति मेघानां माला वर्ग कलापिनाम् ।
यूनां चोत्कण्ठयत्यद्य मानसं मकरध्वजः ॥

अत्र मेघमाला मयूरसमूहं उत्कण्ठयति ऊर्ध्वकण्टं करोति. मकरध्वजः यूनां मनः उत्कण्ठयति उत्सुकं करोति इति अर्थभेदे सति पदस्यावृत्तेः पदावृत्तिदीपकम् ।

(२) अर्थावृत्तिदीपकस्य उदाहरणम्

 उन्मीलन्ति कदम्बानि स्फुटन्ति कुटजद्रुमाः ।
 
कदम्बानि कदम्बकुसुमानि उन्मीलन्ति, कुटजद्रुमाः गिरिमल्लिकाः स्फुटन्ति विकसन्ति इत्यत्र शब्दयोः भेदेऽपि विकासस्यार्थमस्य आवृतेः अर्थावृत्तिदीपकम् ।

अस्यैवापरमुदाहरणम्

शमयति जलधरधारा चातकयूनां तृपं चिरोपनतान् ।
क्षपयति च वधूलोचनजलधारा कामिनां प्रवासजत्रिम् ॥
 
अत्र शपयति, क्षपयति इति शब्दयोः भेदेऽपि एकस्यैवार्थस्य आवृतिरिति अर्थावृत्तिदीपकम् ।

(३) शब्दार्थोभयावृत्तिदीपकस्य उदाहरणम्

माद्यन्ति चातकास्तृप्ताः माद्यन्ति च शिखावलाः ॥ ४८ ॥

चातकाः (मेघोदकपानेन) तृप्त': सन्तुष्टाः माद्यन्ति मत्ता भवन्ति, शिखावला: मयूराश्च (मेघदर्शनेन तद्गर्जनश्रवणेन च) माद्यन्ति मत्ता भवन्ति इत्यत्र माद्यन्ति इति पदस्य नदप्रातिरूपार्थम्य च आवृतत्वात् शब्दार्थोभयावृत्तिदीपकम् ।

अस्यैवापरमुदाहरणम्

वदनेन निर्जितं तव निलीयते चन्द्रबिम्बमम्बुधरे।
अरविन्दमपि च सुन्दरि ! निलीयते पाथसां पूरे।।

अत्र सुन्दरीवदनेन निर्जितं चन्द्रबिम्बं मेधे निलीयते तिरो भवति, अरविन्दं जलानां पूरे निलीयते तिरोभवतीति 'निलीयने, इति शब्दस्य तिरोधानरूपस्यार्थस्य च आवृत्तेः शब्दार्थोभयावृत्तिदीपकम् ।

प्रतिवस्तूपमालङ्कारःसम्पाद्यताम्


वाक्ययोरेकसामान्ये प्रतिवस्तूपमा मता।
तापेन भ्राजते सूरः शूरश्चापेन राजते ॥

वाक्ययोः उपमानोपमेयवाक्ययोः एकसामान्ये एकस्मिन् समानधर्मे सति, पृथङ् निर्दिष्टैकसमानधर्मान्वये सति इत्यर्थः, प्रतिवस्तूपमा मता दृष्टा । यत्रोपमानोपमेयघटितवाक्ययोः एकः समानधर्मः शब्दभेदेन पृथङ् निदिश्यते तत्र प्रतिवस्तूपमेति निष्कर्षः । प्रतिवस्तुप्रतिवाक्यार्थं उपमा समानधर्मः अस्यामिति व्युत्पत्तेः अन्वर्थनामा अलंकारः । सूरः सूर्यः तापेन आतपेन भ्राजते प्रकाशते, शूरः वीरपुरुषः चापेन धनुषा राजते प्रकाशते इत्युदाहरणम् । अत्र भ्राजते, राजते इति भिन्नपदाभ्यां एक एव धर्मः प्रकाशनरूपः उपमानोपमेयघटितवाक्ययोः निर्दिष्टः । सूरः उपमानं, शूरः उपमेयम् ।
प्रतिवस्तूपमाया अपरमुदाहरणम्

स्थिरा शैली गुणवतां खलबुद्धया न बाध्यते ।
रत्नदीपस्य हि शिखा वात्ययापि न नाश्यते ॥

शैली - सद्भुतम् । रानमेव दीपः रत्नदीपः । पूर्वार्ध उपमेयवाक्यम् , उत्तरार्धं उपमानवाक्यम् । नाशाभावरूपः समानधर्मः उभयत्र शब्दभेदेनोपात्त इति प्रतिवस्तूपमालक्षणसङ्गतिः ।

दृष्टान्तालङ्कारःसम्पाद्यताम्

चेद्विम्बप्रतिबिम्बत्वं दृष्टान्तस्तदलङ्कतिः।
त्वमेव कीर्तिमान राजन् विधुरेव हि कान्तिमान् ॥५०॥

वाक्ययोरित्यनुवर्तते । वाक्ययोः उपमानोपमेयवाक्ययोः बिम्बप्रतिबिम्बत्वं चेत् , भिन्नावेव धर्मों सादृश्यादभिन्नत्वेन अध्यवसितौ पृथक् निर्दिष्टौ चेत् तर्हि दृष्टान्तः अलङ्कतिः अलङ्कारः। हे राजन् त्वमेव कीर्तिमान् , विधुः चन्द्र एव कान्तिमान् इत्युदाहरणम् । अत्र प्रथममुपमेयवाक्यं, द्वितीयमुपमानवाक्यम् । तयोः कीर्तिमन्त्रकान्तिमत्वरूपौ धर्मों बिम्बप्रतिबिम्बभावेन निर्दिष्टौ इति लक्षणसमन्वयः ।
वस्तुतो भिन्नयोः सादृश्यादभिन्नतया अध्यवसितयोः धर्मयोः पृथक निर्देशः बिम्बप्रतिबिम्बभावः । वस्तुतः अभिन्नस्य (एकस्यैव धर्मस्य शब्दभेदेन पृथगुपादानं वस्तुप्रतिवस्तुभावः । प्रतिवस्तूपमायां वस्तुप्रतिवस्तुभावः, दृष्टान्ते बिम्बप्रतिबिम्वभाव इत्यनयोर्भेदः ।

दृष्टान्तस्यापरमुदाहरणम्

कामं नृपाः सन्ति सहस्रशोऽन्ये राजन्वतीमाहुरनेन भूमिम् ।
नक्षत्रताराग्रहसंकुलापि ज्योतिष्मती चन्द्रममैव रात्रिः॥

अत्र भूमिः अनेन राज्ञा शोभनराजवती, रात्रिः चन्द्रेण ज्योतिष्मती प्रशस्तज्योतिर्युक्ता इति वाक्यद्वये राजन्वती-ज्योतिष्मतीति भिन्नयोः सदृशयोधर्मयोः पृथङ् निर्देशात् बिम्बप्रतिबिम्बभावेन दृष्टान्तालङ्कारः।

निदर्शनालङ्कारःसम्पाद्यताम्

निदर्शना त्रिविधा-(1) वाक्याथवृत्तिः, (2) पदार्थवृत्तिः (3) सदसदर्थबोधनरूपा चेति । आसां क्रमेण लक्षणोदाहरणानि दीयन्ते ।

(2) वाक्याथवृत्तिः निदर्शना

वाक्याथयोः सदृशयोरेक्यागेपो निदर्शना ।
यद्दातुः सौम्यता सेयं पूर्णन्दोरकलङ्कता ॥ ५१ ॥

सदृशयोः तुल्ययोः वाक्यार्थयोः ऐक्यारोपः अभेदारोपः (वाक्यार्थवृत्तिः) निदर्शना । दातुः वितरणशीलस्य सौम्यता अपारूष्यमिति यत् सा इयं पूर्णेन्दों: अकलङ्कता कलकरहितत्वम् इत्युदाहरणम् । यथा पूर्णेन्दोरकलङ्कता असंभाव्या तथा दातुः सौम्यता दुर्लभेति भावः । यदिति सामान्ये नपुंसकम् । सेयमिति विधेयाभिप्रायेण स्त्रीलिङ्गम् । अत्र दातु: अपरुषत्वरूपोपमेयवाक्यार्थस्य, पूर्णचन्द्रस्य कलङ्करहितत्वरूपोपमानवाक्यार्थस्य च यत्तच्छब्दाभ्यामभेदारोंपात् वाक्यार्थवृत्तिनिदर्शना ।

रूपके केवलोपमानोपमेययोः अभेदारोपः, निदर्शनायां । उपमानोपमेयघटितवाक्यार्थयोः अभेदारोप इति भेदः । दृष्टान्ते सहशयोर्वाक्यार्थयोः बिम्बप्रतिबिम्बभावेन निर्देशः, निदर्शनायां तु ऐक्यारोप इति भेदः।

वाक्यावृत्तिनिदर्शनायाः अपरमुदाहरणम्

अरण्यरुदितं कृतं शवशरीरमुद्वर्तितं
स्थलेऽजमवरोपितं सुचिरमूषरे वर्षितम् ।
श्वपुच्छमवनामितं बधिरकर्णजापः कृतो
धृतोऽन्धमुखदर्पणो यदबुधो जनः सेवितः ॥

अत्र यदबुधों जन: सेवितः तदरण्यरुदित कृतमित्यादौ अबुधजनसेवारूपोपमेयवाक्यार्थस्य अरण्यरुदितादिरूपोपमानवाक्याथैः अभेदारोपः । अरण्यरुदितादिवद् अबुधजनसेवा निष्फलेति भावः ।

(२) पदार्थवृत्तिः निदर्शना

पदार्थवृत्तिमप्येके वदन्त्यन्यां निदर्शनाम् ।
त्वन्नेत्रयुगलं धत्ते लीलां नीलाम्बुजन्मनोः ॥ ५२ ॥
 
एके केचित् पदार्थवृत्ति एकस्मिन् पदार्थे अन्यपदार्थधर्मश्य आरोपरूपां अन्यामपि निदर्शनां वदन्ति । (हे कान्ते) त्वन्नत्रयुगलं तव लोचनद्वन्द्व नीलाम्बुजन्मनोः नीलारविन्दयोः लीलां विलासं धत्ते घरति इत्युदाहरणम् । अत्र कान्तानेत्रयुगले अन्यपदार्थस्य नीलारविन्दयुगलस्य यो धर्म: विलासरूपः तस्य आरोपोऽस्तीति पदार्थवृत्तिनिदर्शना । अत्रारोप्यमाणो धर्मः पदप्रतिपाद्य इति पदार्थवृत्तित्वम्, नीलारविन्दलीलायाः नेत्रे असंभवात् लीलेव लीला इति सदृशधर्माक्षेपात् आरोपः औपम्ये पर्यवस्यति ।
विशिष्टयोधर्मयोः ऐक्यारोपो वाक्यार्थवृत्तिनिदर्शना, उपमानोपमेश्योरन्यतरस्मिन् अन्यतरधर्मारोपः पदार्थवृत्तिनिदर्शना इत्यनयोर्भेदः ।

पदार्थवृत्तिनिदर्शनाया अपरमुदाहरणम्

वियोगे गौडनारीणां यो गण्डतलपाण्डिमा ।
अदृश्यत स खरीमञ्जरीगभरेणुषु ॥

अत्र अन्यधर्मस्य गौडनारीगण्डपाण्डिन्नः अन्यस्मिन् पदार्थ रवर्जूरीमज्जरीगर्भरेणुषु आरोपात्पदाथवृत्तिनिदर्शना । पूर्वोदाहरणे उपमेये उपमानधर्मारोपः, अत्रतपमाने उपमेयधर्मारोप इति भेदः । अत्राप्यन्यधर्मस्य अन्यत्रासंभवात् तत्सदृशधर्माक्षेपेण औपम्ये पर्यवसानम् ।

(३) सदसदथबोधनरूपा निदर्शना

अपरां बोधनं प्राहुः क्रियया असत्सदर्थयोः ।

क्रियया, (किञ्चिक्रियाविशिष्टस्य कस्यचित् ) स्वक्रियया (परान् प्रति) असत्सदर्थयोः असतः दोषफलस्य, सतः गुणफलस्य वा बोधने ज्ञापने (वर्ण्यमाने) अपरां पूर्वविलक्षणां अन्यां निदर्शनां आहुः । तथा चेयमपि द्विविधा—(क) क्रियया असदर्थबोधनरूपा, (ख) क्रियया सदार्थबोधनरूपा चेति । निदर्शयति (क्रियया) प्रदर्शयतीति निदर्शना ।

(क) क्रियया असदथबोधनरूपायाः निदर्शनाया उदाहरणम्

नश्येद्राजविरोधीति क्षीणं चन्द्रोदये तमः ॥ ५३ ॥

राज्ञः विरोधी नश्येत् नाशमामुयाद् इति (परान् बोधयन् ) चन्द्रोदये तमः अन्धकारः क्षीणं नष्टम् इत्यत्र चन्द्रोदये तमसः क्षयरूपक्रियया राजविरोधी नश्येदिति दोषफलस्य असदर्थस्य बोधनात् लक्षणसमन्वयः । राजशब्दे श्लेषेण नृपतिचन्द्रयोः प्रतिपतिः।
अस्या एवापरमुदाहरणम

उन्नतं पदमवाप्य यो लघुः हेलयैव स पतेदिति ब्रुवन् ।
शैलशेखरगतः पृषद्गणः चारुमारुतधुतः पतत्यधः ॥

अत्र पर्वतशिखरगतः वृष्टिबिन्दुः मन्दमारुतमात्रेण अधः लाघवयुक्तो यदि उन्नतं पदमारोहति तर्हि अनायासेन अध. क्रियया असदर्थबोधनम् ।
(ख) क्रियया सदर्थबोधनरूपाया निदर्शनाया उदाहरणम्

उदयन्नेव सविता पद्मष्वर्पयति श्रियम् ।
  विभावयन् समृद्धीनां फलं सुहृदनुग्रहः ॥ ५४॥

सविता सूर्यः उदयन्नेव अभ्युदयं प्राप्नुवन्नेव समृद्धीनां सम्पदां फलं सुहृदनुग्रहः इति विभावयन् परान् प्रति बोधयन् पझेषु स्वसुहृत्यु श्रियं शोभामर्पयति इत्यत्र पझेषु शोभार्पणरूप क्रियया सूर्यः परान् प्रति अहमिवान्योऽपि स्वोदयकाले सुहृद्भयः समृद्धिं दद्यात् इति श्रेयस्करमर्थं बोधयतीति वर्णनात् सदर्थबोधनरूपा निदर्शना।

अस्या एवापरमुदाहरणम्

चूडामणिपदे धत्ते यो देवं रविमागतम्
सतां कार्यातिथेयीति बोधयन् गृहमेधिनः ॥

अत्र उदयगिरिः प्रात काले समागतं सूर्यं शिरसि वहन् गृहस्थैः अतिथीनां सपर्या कर्तव्येति स्वक्रियया बोधयतीति वर्णनात् सदर्थबोधनरूपा निदर्शना।

व्यतिरेकालङ्कारःसम्पाद्यताम्

व्यतिरेको विशेषश्चेदुपमानोपमेययोः ।
शैला इवोन्नताः सन्तः किन्तु प्रकृतिकोमलाः ॥ ५५ ॥

उपमानोपमेययोः विशेष: वैलक्षण्यं (वर्णितं) चेत् व्यतिरेकः अलंकारः । सन्तः सज्जनाः शैलाः पर्वता इव उन्नताः (शैला: आकारे, सन्तस्तु चिते औन्नत्ययुक्ताः), किन्तु (सन्तः) प्रकृत्या स्वभावेन कोमला: मृदुलाः, (शैलास्तु कठिना इति भावः)। अत्र प्रकृतिकोमला इति उपमानभूतशैलेभ्यः उपमेयभूतसज्जनानां वैलक्षण्यं वर्णितमिति व्यतिरेकलक्षणसमन्वयः ।
(व्यतिरको नाम वैलक्षण्यम् । तच्च कदाचिदुपमानापेक्षया उपमेयस्य आधिक्ये न्यूनतायां अनुभये वा पर्यवस्यति । अत्र उपमेयोत्कर्षपर्यवसायी ।)

सहोक्तरपरमुदाहरणम्

छाया संश्रयते तलं विटपिनां श्रान्तेव पान्थैः समं
मूलं याति सरोजलस्य जडता ग्लानेव मीनैः सह ।
आचामत्यहिमांशुदीधितिरपस्तप्तेव लोकैः समं
निद्रा गर्भगृहं सह प्रविशति क्लान्तेव कान्ताजनैः ॥

अत्र मध्याह्नवर्णने छाया पान्थैः सह तरुतलं संश्रयते, जडता शीतलता मीनैः सह जलाधोभागं गच्छति, सूर्यदीधिति: लोकैः सह जलं पिबति, निद्रा कान्ताजनैः सहाभ्यन्तरगृहं गच्छतीति जनरञ्जनसहभाववर्णनात् सहोक्तिः। “अनेन सार्धं विहराम्बुराशेस्तीरेषु तालीदलमर्मरेषु इत्यादौ सहभावस्य अचमत्कारित्वात् न सहोत्यलङ्कारः।

विनोक्त्यलङ्कारःसम्पाद्यताम्

आद्या विनोक्तिः

विनोक्तिश्चेद्विना किञ्चित्प्रस्तुत हीनमुच्यते ।
विद्या हृद्यापि सावद्या विना विनयसंपदम् ॥५७॥

किञ्चिद्विना प्रस्तुतं वर्ण्यं वस्तु हीनं निकृष्टं उच्यते चेत् विनोक्तिरलङ्कारः। विद्या हृद्यापि मनोहरापि विनयसम्पदं विना अवद्या दुष्टा इत्युदाहरणम् । अत्र किञ्चिद्विना विनयसमृद्धिं विना प्रस्तुतस्य विद्यायाः हीनत्वोक्तेः लक्षणसमन्वयः । विनोक्तिः द्विविधा। तत्रेयमाद्या विनोक्तिः।

अस्या अपरमुदाहरणम्

यश्च रामं न पश्येत्तु यं च रामो न पश्यति ।
निन्दितः स भवेल्लोके स्वात्माप्येनं विगर्हते ॥

अत्र रामदर्शनमप्राप्तवतः हीनत्वं विनाशब्दप्रयोगं विनैव दर्शितमिति पूर्वोदाहरणाद्भेदः। रामदर्शनेन विना पुरुषः निन्दितो भवतीत्यर्थः ।

द्वितीया विनोक्तिः

तच्वेत्किञ्चिद्विना रम्यं विनोक्तिः सापि कथ्यते।
विना खलैर्विभात्येषा राजेन्द्र ! भवतः सभा ॥५८॥

तच्छब्देनात्र प्रस्तुतं परामृश्यते। तत् प्रस्तुतं किञ्चिद्विना रम्य सुन्दरं चेन् सापि विनोक्तिरिति कथ्यते। हे राजेन्द्र ! भवतः सभा खलैविना दुर्जनैर्विना विभाति इत्यत्र
सभायाः खलसंपर्कं विना रम्यत्ववर्णनाद् द्वितीया विनोक्तिः।

अस्या अपरमुदाहरणम्

आविर्भूभते शशिनि तमसा मुच्यमानेव रात्रिः
नैशस्यार्चिहुतभुज इव छिन्नभूयिष्ठधूमा।
मोहेनान्तर्वरतनुरियं लक्ष्यते मुक्तकल्पा
गङ्गा रोधःपतनकलुषा गृह्णतीव प्रसादम् ॥

अत्र तमसा विना रात्रे, धूमेन विना हुतभुजः, मोहेन विना तन्व्याः, कालुष्येण
विना गङ्गायाश्च रम्यता विनाशब्दप्रयोगं विनैव नि बोधितेति पूर्वोदाहरणाद्भेदः।

समासोक्त्यलङ्कारःसम्पाद्यताम्

समासोक्तिः परिस्फूर्तिः प्रस्तुतेऽप्रस्तुतस्य चेत् ।
अयमैन्द्रीमुख पश्य रक्तश्चुम्बति चन्द्रमाः ॥ ५९॥

प्रस्तुते प्रस्तुतवृत्तान्त वर्ण्यमाने विशेषणसाम्यात् अप्रस्तुतस्य अप्रस्तुतवृत्तान्तस्यापि परिस्फूर्तिः प्रतीतिः चेत् समासोक्तिरलङ्कारः। समासेन संक्षेपेण प्रस्तुताप्रस्तुतयोः उक्तिरित्यन्वर्थसंज्ञा। अयं रक्तःचन्द्रमाः ऐन्द्रयाः प्राचीदिशः
मुखं प्रारम्भभागं चुम्बति स्पृशति पश्य, इत्युदाहरणम् । अत्र चन्द्रोदयवणेने प्रस्तुते रक्तादिविशेषण साम्यात नायिकानायकवृत्तान्तस्याप्रस्तुतस्य प्रतीते: लक्षणसमन्वयः । तथाहि रक्तशब्दस्य श्लेषेण लोहितानुरक्तसाधारण्यात्, मुखशब्दस्य प्रारम्भवदनसाधारण्यात्, चुम्बतीत्यस्य संस्पर्शवदनसंयोगसाधारण्यात् 'चन्द्रमः ' शब्दगतपुंलिङ्गेन, 'ऐन्द्री' शब्दगतस्त्रीलिडेन तत्प्रतिपाद्येन्द्रसम्बन्धित्वेन च परवनितासक्तकामुकवृत्तान्तः प्रतीयते, स च प्रतीतोऽर्थः प्रस्तुतमेव चन्द्रोदयवृत्तान्तं उपस्करोति इत्यलङ्कारत्वम् । समासोक्तौ अप्रस्तुतव्यवहारसमारोपः, रूपके तु अप्रस्तुतरूपसमारोप इति भेदः।

समासोक्तेः अपरमुदाहरणम्

व्यावल्गत्कुचभारमाकुलकचं व्यालोलहारावलि
प्रेङ्खत्कुण्डलशोभिगण्डयुगलं प्रस्वेदिवक्रााम्बुजम्। शश्वद्दत्तकरप्रहारमधिकश्वासं रसादेतया
यस्मात्कन्दुक! सादरं सुभगया संसेव्यसे तत्कृती॥

अत्र कन्दुकक्रीडावृत्तान्ते वर्ण्यमाने 'व्यावल्गत्कुचभारं इत्यादिक्रियाविशेषण साम्यात् विपरीतरतासक्तनायिकावृत्तान्तः प्रतीयते। पूर्वोदाहरणे विशेषणानि श्लिष्टानि, अत्र तु श्लेषं विनैव प्रकृताप्रकृतयोरनुगतानि इति भेदः।

परिकरालङ्कारःसम्पाद्यताम्

अलङ्कारः परिकरः साभिप्राये विशेपणे ।
सुधांशुकलितोत्तंसः तापं हरतु वः शिवः ॥ ६०॥

विशेषणे साभिप्राये सति, प्रकृतार्थोपपादकस्य अर्थविशेषस्य व्यञ्जकत्वाभिप्रायेण विशेषणप्रयोगे सति, परिकरो नाम अलङ्कारः। अत्र विशेषणे इत्येकवचनमविवक्षितम् । व्यङ्गयस्यार्थस्य वाच्य थे प्रति परिकरत्वात् अङ्गत्वात् परिकरालङ्कार इति व्यपदेशः । सुधांशुना कलितः कृतः उत्तंसः शिरोभूषणं येन सः शिवः वः युष्म,कं तापं दु:ख हरतु इत्युदाहरणम् । अत्र सुधांशुकलितोत्तंस इति विशेषण प्रकृततापहरणरूपार्थोपपादकत्वेन साभिप्रायं प्रयुक्तम् । सुधांशोहि तापहरणसामय उपपन्न, तद्विशिष्टश्च शिवः मनस्तापं हरतु इति प्रकृतार्थोपस्कारकत्वं व्यज्यमानस्यार्थस्येति लक्षणसङ्गतिः ।

परिकरस्यापरमुदाहरणम्

तव प्रसादानुसुमायुधोऽपि सहायमेकं मधुमेव लब्ध्वा ।
कुर्यां हरस्यापि पिनाकपाणे: धैर्यच्युतिं के मम धन्विनोऽन्ये।

अत्र पिनाकपाणेरिति विशेषणं शिवस्य प्रबलायुषत्वं, कुसुमायुध इति विशेषणं मन्मथस्य निस्सारायुधत्वं च द्योतयतः । तेन च कैमुति कन्यायेन पिनाकपाणेरपि धैर्यच्युतिं कुर्यां, किमुत वक्तव्यमन्यधन्विनामिति सर्वधन्विधैर्यभञ्जकत्वरूपो वाच्यार्थ एवोपस्क्रियत इति परिकरालङ्कारः।

परिकराङ्कुरालङ्कारःसम्पाद्यताम्

साभिप्राय विशेष्ये तु भवेत्परिकराङ्कुरः।
चतुर्णा पुरुषार्थानां दाता देवश्चतुर्भुजः ॥ ६१॥

विशेष्ये साभिप्राये सति प्रकृतार्थसंपादनसमर्थार्थव्यञ्जके सति परिकराङ्कुरो नामालंकारः। चतुर्णा पुरुषार्थानां धर्मार्थकाममोक्षाणां दाता देवः चतुर्भुज: विष्णुः इत्यत्र चतुर्भुज इति विशेष्यपदं पुरुषार्थ चतुष्टयदानसामर्थ्याभिप्रायेण प्रयुक्तमिति परिकराङ्कुरस्य उदाहरणमिदम् ।

परिकरारस्यापरमुदाहरणम्

फणीन्द्रस्ते गुणान्वक्तुं लिखितुं हैहयाधिपः।
द्रष्टुमावण्डलः शक्तः क्वाहमेप का ते गुणाः ॥

अत्र फणीन्द्रहैयाधिपाखण्डलपदैः विशेष्यवाचकै; व्यज्यमानाः सहस्रवदनत्वसहस्रबाहुत्वसहस्रनयनत्वरूपाः अर्थाः प्रकृतगुणवर्णनलेखन दर्शनसामर्थ्यापादकतया साभिप्राया इति परिकर कुरालङ्कारः।।

श्लेषालङ्कारःसम्पाद्यताम्


नानार्थसंश्रयः श्लेषः वावर्योभयाश्रयः ।
 
नानार्थसंश्रयः अनेकार्थगोचरः शब्दविन्यासः श्लेष इति लक्षणम् । स च त्रिविधः-(१) वर्णाश्रयः प्रकृतानेकार्थविषयशब्द विन्यासरूपः प्रकृतश्लेष: (२) अवाश्रयः अप्रकृतानेकार्थविषयशब्द विन्यासरूपः अप्रकृतश्लेषः (३) उभयाश्रयः प्रकृताप्रकृतानेकार्थगोचरः शब्दविन्यासः प्रकृताप्रकृतश्लेष इति । एतेषां कमेणोदाहरणानि
दीयन्ते ।

(१) प्रकृतश्लेषस्य उदाहरणम्

सर्वदो माधवः पायात् स योऽगं गामदीधरत् ॥ ६२ ॥

सर्वं ददातीति सर्वदः सकलाभीष्टप्रदाता, मायाः लक्ष्म्याः धवः पतिः विष्णु: य: अगं पर्वतं गोवर्धन, गां पृथिवीं च अधीघरत् धृतवान् सः पायात् रक्षेत् इत्येकः प्रकृतार्थः । सर्वदा उमायाः धवः शिवः, यः डामधीधरत् सः पायादिति द्वितीयोऽप्यर्थः प्रकृत एवेति प्रकृतश्लेषः ।

अस्यैवापरमुदाहरणम्

त्रातः काकोदरो येन दोग्धापि करुणात्मना ।
पूतनामारणख्यातः स मेऽस्तु शरणं प्रभुः ॥

येन करुणात्मना रामेण अदरः भयरहितः द्रोग्धापि काकों रक्षितः, पूतनामा पवित्रनामधेयः रणे युद्धे ख्यातः सः मे शरणम्, येन काकोदरः सर्पः (कालियः) रक्षितः, पूतनायाः मारणेन ख्यातः सः कृष्ण: मे शरणम् इत्यत्र उभयोरपि रामकृष्णयोः स्तोतव्यत्वेन प्रकृतत्वात् प्रकृतश्लेषः ।

(२) अप्रकृतश्लेपस्योदाहरणम्

 अब्जेन त्वन्मुग्वं तुल्यं हरिणाहितसक्तिना ।

तव मुख हरिणा सूर्येण आहितसक्तिना कृतासक्तिना अजेन पमेन तुल्यम् इत्येकोऽर्थः । त्वन्मुख हरिणेन मृगेण आहितसक्तिना कृतसङ्गेन अब्जेन चन्द्रेण तुल्यमिति द्वितीयोऽर्थः । उभयोरपि पद्मचन्द्रयो. उपमानत्वेन अप्रकृतत्वाद् अप्रकृतश्लेषः ।

अस्यैवापरमुदाहरणम्

नीतानामाकुलीभावं लुब्धैर्भूरिशिलीमुखैः।
सदृशे वनवृद्धानां कमलानां त्वदीक्षिणे ॥
 
तव ईक्षणे लुब्धै मधुलोलुपैः भूरिशिलीमुरवैः बहुभिः भ्रमरैः आकुलीभावं नीतानां वने जले वृद्धानां वृद्धि प्राप्तानां कमलानां पद्मानां सदृशे, लुब्धैः व्याधैः शिलीमुरवैः बाणैः आकुलीभावं नीतानां बने अरण्ये वृद्धानां हरिणानां सदृशे इति पदाहरिणयोः उपमानत्वेनाप्रकृत वाद् अप्रकृतश्लेषः । “मृगपभेदे कमलः" इति विश्वः ।

(३) प्रकृताप्रकृतश्लेषस्य उदाहरणम्

उच्चरद्भरिकीलालः शुशुभे वाहिनीपतिः ॥ ६३ ॥

  उच्चरद् उद्गच्छद् भूरि कीलाल शोणितं यस्य सः वाहिनीपतिः लेनापतिः शुशुभे इति प्राकरणिकार्थः । उच्चरद भूरि कीलालं उदकं यस्य सः वाहिनीनां नदीनां पतिः समुद्रः शुशुभे इत्यप्राकरणिकार्थः । जा च श्लिष्पदानां प्रकृताप्रकृतार्थगोचरत्वात् प्रकृताप्रकृतश्लेषः । (अत्र प्रकृताप्रकृतयोः सादृश्यं प्रतीयते)

अस्यैवापरमुदाहरणम्

असावुदयमारूढः कान्तिमान् रक्तमण्डलः ।
राजा हरति लोकस्य हृदयं मृदुलैः करैः॥

अत्र उदयमभिवृद्धि प्राप्तो रक्तमण्डल: अनुरक्तप्रजः राजा नृपतिः मृदुलैः करैः ग्राह्यधनैः लोकहृदयं हरति आवर्जयतीति प्राकरणिकार्थः । उदयगिरिमारूढः अरुणमण्डलो राजा चन्द्रः मृदु किरणै: जनहृदयमाकपतीति अप्राकरणिकार्थः । श्लिष्टपदानां प्रकृता प्रकृतार्थगोचरत्वात्प्रकृताप्रकृतश्लेषः । [इदमत्रावधेयम् - 'सर्वदो माधवः', 'योऽगंगाम्', 'इशि हितसक्तिना' इत्यादौ परस्पर विलक्षण पदभगमपेक्ष्य नानार्थबोधनात सभश्लेषः। 'अब्ज - कीलाल - वाहिनीपति ' प्रभृतिषु पदेषु तामा पदभडमनपेक्ष्यैव नानार्थबोधनाद् अभङ्गश्लेषः इति प्रकारान्तरेणाति श्लेषस्य द्वैविध्यम् । _प्रकृताप्रकृतश्लेषे अप्रकृतार्थस्य व्यङ्गयत्वमिति केषांचिन्मतम् । अन्ये तु तस्यापि वाच्यत्वमङ्गीकृत्य प्रकृताप्रकृतयोरभेदः सादृश्यं वा व्यङ्गयमिति वदन्ति । अत्र प्रथममते प्रकृताप्रकृतश्लेष: नोदाहर्तव्यः । द्वितीयमते शब्दशक्तिमूलवस्तुध्वनि: नोदाहर्तव्यः ।]

अप्रस्तुतप्रशंसालङ्कारःसम्पाद्यताम्

अप्रस्तुतप्रशंसा स्यात् सा यत्र प्रस्तुताश्रया।
एक: कृती शकुन्तेपु योऽन्यं शक्रान्न याचते ॥ ६४ ॥

अप्रस्तुतम्य प्रशंसा वर्णनं यत्र प्रस्तुताश्रया प्रस्तुतवृत्तान्तावगति पर्यवसायिनी सा अप्रस्तुतप्रशंसा। यत्र प्रस्तुतवृत्तान्तावगमनोद्देशेन अप्रस्तुवृत्तान्तो वर्ण्यते तत्र अप्रस्तुतप्रशंसा इति निष्कर्षः। शकुन्तेषु पक्षिषु मध्ये यः शक्राद् अन्य इन्द्रादन्यं प्रभुं न याचते सः एकः चातक एव कृती कुशल: इत्युदाहरणम् । अत्र सार्वभौम विना अन्य शंद्र प्रभु न प्रार्थये इत्यभिमानशालिनो वृत्तान्तस्य प्रस्तुतस्य प्रत्यायनार्थ तत्सदृशचातकवृत्तान्तो वर्णित इति लक्षणसङ्गतिः।
अप्रस्तुतेन प्रस्तुतावगतिः प्रस्तुताप्रस्तुतयोः संबन्धे सति भवति । संवन्धश्च सारूप्यं, सामान्यविशेषभावः, कार्यकारणभावा वा संभवति । 'एकः कृती' इत्यादि सारूप्यनिबन्धनायाः अप्रस्तुतप्रशंसाया उदाहरणम्। सामान्यविशेषभावे सामान्याद्विशेषस्य, विशेषात्सामान्यस्य वा अवगतिरिति द्वैविध्यम् । एवं कार्यकारणभावेऽपि कार्यात्कारणस्य, कारणात् कार्यस्य वा अवगतिरिति द्वैविध्यम् । एतेषां चतुर्णा उदाहरणानि अनुबन्धे द्रष्टव्यानि ।
समासोक्तौ श्लिष्टविशेषणबलात् प्रस्तुतादप्रस्तुतवृत्तान्तावगतिः, अप्रस्तुतप्रशंसायां सारूप्यादिसंबन्धेन अप्रस्तुतात् प्रस्तुतप्रतीति: इत्यनयोर्भेदः।

अप्रस्तुतप्रशंसाया अपरमुदाहरणम्

आबद्धकृत्रिमसटाजटिलांसभित्तिः
आरोपितो मृगपतेः पदवीं यदि श्वा।
मंत्तेभकुम्भतटपाटनलम्पटस्य
नादं करिष्यति कथं हरिणाधिपस्य । ‘’

अत्र मृगपतेः पदमारोपितोऽपि श्वा सिंहस्य नादं न करिष्यतीति अप्रस्तुतशुनकवृत्तान्तवर्णनं तत्सारूप्यात् कृत्रिमवेषव्यवहारमात्रेण विद्वज्जनवदभिनयतो मूर्खस्य वृत्तान्ते पर्यवस्यतीत्यप्रस्तुतप्रशंसा ।

प्रस्तुताइकुरालङ्कारःसम्पाद्यताम्

प्रस्तुतेन प्रस्तुतस्य द्योतने प्रस्तुताङ्कुरः ।
किं भृङ्ग सत्यां मालत्यां केतक्या कण्टकेद्धया ॥६५॥

प्रस्तुतेन वर्ण्यमानेन अन्यस्याभिमतस्य प्रस्तुतस्यैव द्योतने प्रस्तुताङ्कुरो नामालङ्कारः । हे भृङ्ग मालत्यां सत्यां विद्यमानायां कण्टकेद्धया कण्टकैर्व्याप्तया केतक्या किं इत्युदाहरणम् । अत्र प्रियतमेन साकं उद्याने विहरन्त्याः बहुदोषयुक्तपरवनितासङ्गात् प्रस्तुताङ्कुरालकारः। कान्तं निर्वर्तयितुमिच्छन्त्याः कुलवनितायाः वचने वाच्यार्थस्य भृङ्गोपात्तस्य परवनितासक्तमियोपालम्भरूपार्थस्य च प्रस्तुतत्वमेवेति लक्षणसमन्वयः ।

प्रस्तुताङ्कुरस्यापरमुदाहरणम् ।

अन्यासु तावदुपमर्दसहासु भृङ्ग
लोलं विनोदय मनः सुमनोलतासु।
बालामजातरजसं कलिकामकाले
व्यर्थ कदर्थयसि किं नवमल्लिकायाः।
अत्रापि भृङ्गोपालम्भस्य वाच्यार्थस्य तथा प्रौढाङ्गनासु सतीषु बालिकां रतये क्लेशयतः कामिनः उपालम्भरूपद्योत्यार्थस्य च प्रस्तुतत्वात् प्रस्तुताङ्कुरालङ्कारः । [अनयोरुदाहरणयोः वाच्यार्थस्य प्रस्तुतत्वेन तत्राभिधायाः विश्रान्तेः अर्थसौन्दर्यबलाद्विवक्षितार्थप्रतीतिर्ध्वनिरेव, न अलङ्कारः; यत्र प्रतीयमानस्य वाच्यार्थोपस्कारकत्वं तत्रैवालङ्कारत्वम् इति केचित्। तन्मते इदं वक्ष्यमाणं प्रस्तुताङ्कुरालङ्कारस्य उदाहरणम्-
            
कोशद्वन्द्वमियं दधाति नलिनी कादम्बचञ्चुक्षतं ।
धत्ते चूतलता नवं किसलयं पुंस्कोकिलास्वादितम् ।
इत्याकर्ण्य मिथः सखीजनवचः सा दीर्घिकायास्तटे
चेलान्तेन तिरोदधे स्तनतटं बिम्बाधरं पाणिना ||
 
इयं नलिनी हंसचञ्चुक्षतं मुकुलद्वन्द्वं धत्ते, तथा इयं चूतलता कोकिलास्वादितं नवं किसलयं धत्ते इति वापीतटे सखीजनस्य परस्परालापं श्रुत्वा प्रस्तुता नायिका कमलमुकुलचूतपल्लवव्याजेन आत्मनः स्तनाधरक्षतवृत्तान्तं कथयतीति ज्ञात्वा स्तनतटं वस्त्रान्तेन, अधरं च पाणिना तिरोदधे इत्यत्र व्यङ्गयार्थस्य प्रस्तुतान्तरस्य स्वयमेव कविना उत्तरार्धे आविष्कृतत्वात् अलङ्कारत्वम्। तथाचोक्तं ध्वन्यालोके -
 
शब्दार्थशक्त्या वाक्षिप्तो व्यङ्गयोऽर्थः कविना पुनः।
यत्राविष्क्रियते स्वोक्त्या सान्यैवालकृतिर्ध्वनेः ॥

पर्यायोक्तालङ्कारःसम्पाद्यताम्

प्रथमं पर्यायोत्तम्
  
पर्यायोक्तं तु गम्यस्य वचो भङ्गयन्तराश्रयम् ।
  नमस्तस्मै कृतौ येन मुधा राहुवधूकुचौ ॥६६॥

गम्यस्य विवक्षितस्य अर्थस्य भङ्गयन्तराश्रयं वचः विवक्षितादपि चारुतरेण प्रकारेण अभिधानं पर्यायोक्तम् , पर्यायेण भङ्गयन्तरेण उक्तम्,अभिहित विवक्षितं यत्र इति व्युत्पत्तेः । येन राहुवधूकुचौ मुधा व्यर्थौ कृतौ, राहोः शिरोमात्रावशेषत्वकरणात् , तस्मै वासुदेवाय नमः इत्युदाहरणम् । अत्र स्वासाधारणरूपेण वासुदेवत्वेन गम्यस्य भगवतः भङ्गयन्तरेण राहुवधूकुचवैयर्थ्यकारित्वेन अभिधानात् पर्यायोक्तलक्षणसमन्वयः।

 अस्यैवापरमुदाहरणम्-
लोकं पश्यति यस्याड्घ्रिः स यस्याङ्घ्रिं न पश्यति ।
ताभ्यामप्यपरिच्छेद्या विद्या विश्वगुरोस्तव ॥

यस्याक्षपादस्य अङ्घ्रिः लोकं पश्यति स च लोकः यस्य पतञ्जलेः (आदिशेषावतारस्य) अङ्घ्रिं न पश्यति ताभ्यां गौतमपतञ्जलिभ्यां विश्वगुरोस्तव विद्या अपरिच्छेद्या इत्यत्र स्वासाधारणरूपाभ्यां अक्षपादत्वपतञ्जलित्वाभ्यां गम्यौ रूपान्तराभ्यामभिहिताविति पर्यायोक्तम् ।

द्वितीयं पर्यायोक्तम्

पर्यायोक्तं तदप्याहुः यद् व्याजेनेष्टसाधनम् ।।
यामि चूतलतां द्रष्टुं युवाभ्यामास्यतामिह ॥ ६७॥

व्याजेन कार्यान्तरच्छलेन इष्टस्यार्थस्य स्वस्य परस्य वा इष्टस्य कार्यस्य साधनमिति यत् तदपि पर्यायोक्तं आहुः। कार्यान्तरव्याजेन इष्टकार्यसाधनं द्वितीयं पर्यायोक्तमिति निष्कर्षः। अहं चूतलतां द्रष्टुं यामि गच्छामि, युवाभ्यां इह अत्रैव आस्यतां स्थीयतां इत्युदाहरणम् । अत्र स्वसन्निधौ लज्जमानयोः नायिकानायकयोः विहाराय विविक्ततासंपादनमिच्छन्ती सखी चूतलतादर्शनव्याजेन स्वाभीष्टं नायिकानायकयोरिष्टं वा साधयतीति द्वितीयपर्यायोक्तलक्षणसमन्वयः ।
अस्यामपरमुदाहरणम्
देहि मत्कन्दुकं राधे परिधाननिगूहितम् ।
इति विस्रंसयन्नीवीं तस्याः कृष्णो मुदेऽस्तु नः॥
 
अत्र कन्दुकसद्भावशोधनार्थं नीवीविस्रंसनव्याजेन कृष्णः स्वाभीष्टं साधयतीति द्वितीयं पर्यायोक्तम् ।

व्याजस्तुत्यलङ्कारःसम्पाद्यताम्

उक्तिर्व्याजस्तुतिनिन्दास्तुतिभ्यां स्तुतिनिन्दयोः ।

निन्दास्तुतिभ्यां स्तुतिनिन्दयोः उक्तिः अभिव्यक्तिः व्याजस्तुत्यलङ्कारः। निन्दाव्याजेन स्तुतेः, स्तुतिव्याजेन निन्दायाश्चावगमने व्याजस्तुतिरिति निष्कर्षः। तथा च व्याजस्तुतिः द्विविधा(1) निन्दया स्तुतिः, (2) स्तुत्या निन्दा चेति । क्रमेण, व्याजेन निन्दाव्याजेन स्तुतिः, व्याजरूपेण स्तुतिश्च इति च निन्दाव्याजस्तुतिशब्दस्य व्युत्पत्तिः इति बोध्या ।

(१) निन्दया स्तुतेरवगमनरूपायाः व्याजस्तुतेः उदाहरणम्

का स्वर्धुनि विवेकस्ते नयसे पापिनो दिवम् ॥ ६८॥

हे स्वर्धनि गङ्गे ते विवेकः कः ? नास्ति ते विवेकः (यस्मात् ) पापिनः दिवं स्वर्ग नयसे इत्यत्र तव विवेको नास्तीति निन्दाव्याजेन महापातकिनामपि पापप्रशमनेन स्वर्गप्रदानशक्तेति गङ्गायाः प्रभावातिशयस्तुतिरेव क्रियत इति व्याजस्तुतिः ।
 
अस्याः अपरमदाहरणम्-
  
कस्ते शौर्यमदो योद्धुं त्वय्येकं सप्तिमास्थिते।
  सप्तसप्तिसमारूढा भवन्ति परिपन्थिनः ॥

अत्र योद्धुं राज्ञि एकाश्वसमारूढे सति तच्छत्रवः सप्ताश्वसमारूढाः भवन्ति, तस्मात् मास्तु राज्ञः शौर्यमद इति निन्दाव्याजेन राज्ञा युद्धे हताः सूर्यमण्डलं भित्वा दिवं गच्छन्तीति शौर्यस्तुतिरेव क्रियत इति निन्दया स्तुतिरूपा व्याजस्तुतिः । सप्त सप्तयः अश्वाः यस्य सः सूर्यः, सप्त च ते सप्तयश्च इत्युभयथा योजना ।

 (२) स्तुत्या निन्दावगमनरूपायाः व्याजस्तुतेः उदाहरणम्

साधु दूति पुनः साधु कर्तव्यं किमतः परम् ।
  यन्मदर्थं विलूनासि दन्तैरपि नखैरपि ॥ ६९ ॥

हे दूति साधु, पुनः साधु (त्वया प्रशंसार्हं किमपि कृतं, तस्मात् ) श्लाघनीयासि । अतः परं कर्तव्यं किमस्ति ? यद्यस्मात् त्वं मदर्थ नखैः दन्तैश्च विलूना विदारिता असि इत्यत्र नायकं समानेतुं प्रेषिता दूती स्वयं तत्सम्भोगमनुभूय समागता शरीरे परिदृश्यमानदन्तनखक्षतैः ज्ञाततत्त्वया नायिकया एवं स्तुतिव्याजेन निन्द्यते । तस्मात् स्तुत्या निन्दापर्यवसायिनी व्याजस्तुतिरियम् ।

 
अस्या अपरमुदाहरणम्

अर्ध दानववैरिणा गिरिजयाप्यधं शिवस्याहृतं
देवेत्थं जगतीतले स्मरहराभावे समुन्मीलति ।
गङ्गासागरमम्बरं शशिकला नागाधिपः मातलं
सर्वज्ञत्वमधीश्वरत्वमगमत्त्वां, मां च भिक्षाटनम् ॥

अत्र हरिपार्वतीभ्यामपहृतविग्रहस्य ईश्वरस्य सर्वज्ञत्वमधीश्वरत्वं च त्वामगमत् , भिक्षाटनं तु माम् इति राजानं स्तुवन्निव अर्थी, सर्वज्ञः सर्वेश्वरोऽपि च सन् मदीयं वैदुष्यं दारियं च ज्ञात्वा न किमपि मह्यं ददासीति राज्ञः निन्दामेव करोति इति व्याजस्तुतिः।

व्याजनिन्दालङ्कारःसम्पाद्यताम्

   निन्दाया निन्दया व्यक्तिः व्याजनिन्देति गीयते ।
    विधे! स निन्द्यो यस्ते प्रागेकमेवाहरच्छिरः ॥ ७० ॥

निन्दया अन्यनिन्दया निन्दायाः अन्यनिन्दाया: व्यक्तिः अभिव्यक्तिः व्याजनिन्दाख्यालङ्कारः। हे विधे ब्रह्मन् यः हरः प्राक् । एकमेव शिरः अहरत् सः निन्द्यः इत्युदाहरणम् । अत्र हरनिन्दया दारुणविपाकं संसारं प्रवर्तयतः ब्रह्मण एव निन्दा विवक्षिता गम्यत इति व्याजनिन्दालङ्कारः ।।
 
 
व्याजनिन्दाया अपरमुदाहरणम्

विधिरेव विशेषगर्हणीयः करट त्वं रट कस्तवापराधः ।
सहकारतरौ चकार यस्ते सहवासं सरलेन कोकिलेन ॥

अत्र विधिनिन्दया कर्णकठोरं रटन् काको निन्द्यते इति व्याजनिन्दा ।

आक्षेपालङ्कारःसम्पाद्यताम्

प्रथम आक्षेपः

आक्षेपः स्वयमुक्तस्य प्रतिषेधो विचारणात् ।
चन्द्र संदर्शयात्मानम् अथवास्ति प्रियामुखम् ॥७१ ॥
    
स्वयमुक्तस्य अर्थस्य विचारणात् किञ्चिन्निमित्तमभिसन्धाय प्रतिषेधः आक्षेपोनाम अलङ्कारः । हे चन्द्र आत्मानं दर्शय, अथवा प्रियायाः मुखम् अस्ति इत्युदाहरणम् । अत्र चन्द्रदर्शनमादौ प्रार्थितम् । तदनन्तरं प्रियामुखस्य आह्लादकारिणः सत्वात् चन्द्रदर्शनस्यानर्थक्यं विचार्य अथवेति पक्षान्तरेण निषेधसूचनादाक्षेपालङ्कारलक्षणसमन्वयः ।

प्रथमाक्षेपस्य अन्यदुदाहरणम्

साहित्यपाथोनिधिमन्थनोत्थं कर्णामृतं रक्षत हे कवीन्द्राः ।
यत्तस्य दैत्या इव लुण्ठनाय काव्यार्थचोरा प्रगुणी भवन्ति ॥
गृह्णन्तु सर्वे यदि वा यथेच्छं नास्ति क्षतिःकापि कवीश्वराणाम् ।
रत्नेषु लुप्तेषु बहुष्वमर्त्यै अद्यापि रत्नाकर एव सिन्धुः ॥
      
अत्र प्रथमश्लोकेन काव्यार्थचोरेभ्यः काव्यस्यसंरक्षणं प्रर्थितम् । अनन्तरं कविसूक्ति वैचित्र्याणां अक्षयत्वं विचिन्त्य गृह्णन्तु सर्वे इत्यादिना संरक्षणप्रतिषेधः कृत इत्याक्षेपः ।

द्वितीय आक्षेपः

निषेधाभासमाक्षेपं बुधाः केचन मन्वते ।
नाहं दूती तनोस्तापस्तस्याः कालानलोपमः ॥७२॥
      
केचन बुधाः निषेधाभासं आभासरूपं निषेधं आक्षेपं मन्वते । तथा च निषेधाभासः आक्षेप इति द्वितीयाक्षेपलक्षणम् । नाहं दूती, तस्याः (नायिकायाः) तनोः तापः शरीरतापः कालानलोपमः प्रलयकालाग्नितुल्यः (नितरमसह्य इत्यर्थः) इत्युदाहरणम् । असह्य विरहवेदनातप्तया नायिकया प्रेषितायाः दूत्याः नायकं प्रति वचनम्दम् । नाहं दूती इति निषेधोऽत्र बाधितः सन् तदाभासरूपो भूत्या नाहमनुनयकालोचितकैतववादिनी, किन्तु सत्यमेव वदामीत्यर्थे पर्यवस्यन् इदानीमेव आगत्य नायिका उज्जीवनीयेति विशेषमाक्षिपन् आक्षेपालङ्कारः ।

द्वितीयाक्षेपस्य अपरमुदाहरणम्

नरेन्द्रमौले न वयं राजसन्देशहारिणः ।
जगत्कुटुम्बिनस्तेऽद्य न शत्रुः कश्चिदीक्ष्यते ॥
   
अत्र सन्देशवाहकानाम् उक्तौ न वयं सन्देशहारिणः इति निषेधो बाधितः सन् तदाभासरूपो भूत्वा सन्धिसम्भाषणकालोचितकैतववचनपरिहारेण यथार्थवादित्वे पर्यवस्यन् सर्वेपि राजानः (शत्रवोपि) स्वकुटुम्बवत् संरक्षणीया इति विशेषमाक्षिपति ।

तृतीय आक्षेपः

आक्षेपोऽन्यो विधौ व्यक्ते निषेधे च तिरोहिते ।
गच्छ गच्छसि चेत्कान्त ! तत्रैव स्याज्जनिर्मम ॥७३॥

विधौ व्यक्ते स्फुटे सति निषेधे तिरोहिते अस्फुटे च सति अन्यः तृतीय आक्षेपः भवति । यत्र अनभिमतं विधिं स्फुटं प्रकटीकृत्य अभिमतो निषेधः भङ्ग्यन्तरेणास्फुटतया प्रकाश्यते तत्राक्षेप इति निष्कर्षः । हे कान्त गच्छसि चेत् गच्छ, अवश्यं गन्तव्यं चेत् गम्यताम् । त्वं यत्र गच्छसि तत्रैव मम जनिः जन्म स्यात् इत्युदाहरणम् । अत्र कान्तस्य दूरदेशगमनस्य अनभिमतस्यापि गच्छेति गमानुमतिः स्फुटं प्रकटितः । ततश्च मे तत्रैव पुनर्जन्म भवतु इति भङ्ग्यन्तरेण विरहे स्वस्य मरणमेव भविष्यतीति सूचनात् अभिमतो गमननिषेधः गूढतया प्रकाश्यत इति लक्षणसमन्वयः ।

तृतीयाक्षेपस्य अपरमुदाहरणम्

न चिरंमम तापाय तव यात्रा भविष्यति ।
यदि यास्यसि यातव्यमलमाशङ्कयापि ते ॥

अत्र गमने स्वमरणसूचनेन गमननिषेधः गर्भीकृतः ।

विरोधाभासालङ्कारःसम्पाद्यताम्

अभासत्वे विरोधस्य विरोधाभास इष्यते ।
विनापि तन्वि हारेण वक्षोजौ तव हारिणौ ॥७४॥
    
विरोधस्य आभासत्वे आपाततः स्फुरणे, पर्यवसाने तत्परिहारे च सति विरोधाभासो नाम अलङ्कार इष्यते । हे तन्वि तव वक्षोजौ स्तनौ हारेण विनापि हारिणाविति विरोधः स्फुरति, ततश्च हारिणावित्यस्य मनोहारिणावित्यर्थयोजनया विरोधपरिहाराद् विरोधाभासः ।

विरोधाभासस्य अपरमुदाहरणम्

प्रतीपभूपैरिव किं ततो भिया विरुद्धधर्मैरपि भेत्तृतोज्झिता ।
अमित्रजिन्मित्रजिदोजसा स यद्विचारदृक् चारदृगप्यवर्तत ॥

अत्र नलः अमित्रजिदपि ओजसा मित्रजित्, विचारदृगपि चारदृक् इति आपाततः विरोधे प्रतीयमानेऽपि अमित्राणां शत्रूणां जेतापि, ओजसा मित्रस्य सूर्यस्य जेता, तथा विचारे दत्तदृष्टिः चारदृष्टिश्चेति विरोधपरिहारात् विरोधाभासः ।

विभावनालङ्कारःसम्पाद्यताम्

प्रथमा विभावना

विभावना विनापि स्यात् कारणं कार्यजन्म चेत् ।
अप्यलाक्षारसासिक्तं रक्तं त्वच्चरणद्वयम् ॥७५
    
कारणं विनापि प्रसिद्धकारणाभावेऽपि कार्योत्पत्तिवर्णने विभावालङ्कारः । विभाव्यते कारणान्तरं यस्यामिति विभावना । हे कान्ते तव चरणद्वयं अलाक्षारसासिक्तमपि लाक्षारसलेपनं विनापि रक्तं लोहितं जातं इत्यत्र चरणयोः लौहित्यस्य प्रसिद्धलाक्षारसलेपनरूप कारणाभावेऽपि उत्पत्तिवर्णनात् विभावनालङ्कारः । लौहित्यस्य स्वाभाविकत्वाद् विरोधपरिहारः ।
       विभावना षड्विधा- (1) कारणं विना कार्योत्पत्तिः । (2) हेतुवैकल्येऽपि कार्योत्पत्तिः । (3) प्रतिबन्धकतसत्वेपि कार्योत्पत्तिः । (4) अकारणात् कार्योत्पत्तिः । (5) विरुद्धकार्योत्पत्तिः । (6) कार्यात् कारणोत्पत्तिः ।

प्रथमविभावनाया अपरमुदाहरणम् ।

अपीतक्षीबकादम्बं असंमृष्टामलाम्बरम् ।
अप्रसादितसूक्ष्माम्बु जगदासीन्मनोहरम् ॥
    
अत्र पानमार्जनप्रसादनरूपप्रसिद्धकारणाभावेऽपि क्षीवत्वामलत्वसूक्ष्मत्व- रूपकार्योत्पत्ति वर्णनाद् विभावना । शरत्समयहेतुकत्वेन विरोधपरिहारः ।

द्वितीया विभावना

हेतूनामसमग्रत्वे कार्योत्पत्तिश्च सा मता ।
अस्त्रैरतीक्ष्णकठिनैर्जगज्जयति मन्मथः ॥७६॥
    
हेतूनां असमग्रत्वे अपूर्णत्वऽपि कार्योत्पत्तिवर्णने द्वितीया विभावना । अतीक्ष्णैः अकठिनैः चास्त्रैः मन्मथः जगज्जयति इत्यत्र हेतूनामस्त्राणां तीक्ष्णत्वादिगुणवैकल्येऽपि जगज्जयरूप कार्योत्पत्तिवर्णनाद् विभावना ।

अस्या एवापरमुदाहरणम्

उद्यानमारुतोद्धताः चूतचम्पकरेणवः ।
उदस्रयन्ति पान्थानामस्पृशन्तो विलोचने ॥
      
अत्र स्पर्शनक्रियावैकल्येऽपि रेणुभिः बाष्पोद्गमनरूपकार्यजननाद् विभावना ।

तृतीया विभावना

कार्योत्पत्तिस्तृतीया स्यात् सत्यपि प्रतिबन्धके ।
नरेन्द्रानेव ते राजन् ! दशत्यसिभुजङ्गमः ॥७७॥
प्रतिबन्धे सत्यपि यदि कार्योत्पत्तिर्वर्ण्यते सा तृतीया विभावना । हे राजन् तव असिरेव खड्ग एव भुजङ्गमः सर्पः नरेन्द्रानेव विषवैद्यानेव (नृपतीनेव) दशति इत्यत्र, सर्पदंशप्रतिबन्धकमन्त्रौषधादिसत्वेऽपि दशतीति कार्योत्पत्तिवर्णनात् तृतीया विभावना । नरेन्द्र शब्दस्य श्लेशेण नृपत्यर्थकत्वे विरोधपरिहारः

अस्याः अपरमुदाहरणम्

तिलपुष्पात्समायाति वायुश्चन्दनशीतलः।
इन्दीवरयुगाचित्रं निःसरन्ति शिलीमुखाः ॥

अत्र चन्दनशीतलस्य वायोः तिलपुष्पात् कारणभिन्नादुत्पत्तिविभावना।तिलकुसुमनायिकानासिकयोः, वातनिश्वासयोश्चाभेदाध्यव सानाद् विरोधपरिहारः।

पञ्चमीविभावना

विरुद्धात्कार्यसम्पत्तिदृष्टा काचिद्विभावना ।
शीतांशुकिरणास्तन्वी हन्त संतापयन्ति ताम् ।।

विरुद्धात् विरुद्धकारणात् कार्यसम्पतिः कार्योत्पत्तिः पञ्चमी विभावना। शीतांशोः किरणाः तन्वी सन्तापयन्तीत्यत्र शीतलत्वात् तापनिवर्तकाः चन्द्रकिरणाः तन्व्याः तापं जनयन्तीति विरुद्धकारणाकार्योत्पत्तिरूपा पञ्चमी विभावना )। तन्व्याः विरहिणीत्वाद् विरोधपरिहारः।

अस्याः अपरमुदाहरणम्

उदिते कुमारसूर्ये कुवलयमुल्लसति भाति न क्षत्रम् ।
मुकुलीभवन्ति चित्र परराजकुमारपाणिपद्मानि ॥

अत्र सूर्य उदिते सति कुवलयमुल्लसति, नक्षत्रं प्रकाशते, पद्मानि मुकुलीभवन्ति इति विरुद्धात् कारणात् कार्योत्पत्तिवैणिता। कुमार एवं सूर्यः, तस्मिन् उदिते भूमण्डलं उल्लसति, क्षत्रं न भाति, शत्रराजकुमारण्या पाणय एव पद्मानि मुकुलीभवन्तीति योजनया विरोधपरिहारः।

षष्ठी विभावना

कार्यात्कारणजन्मापि दृष्टा काचिद्विभावना।
यशः पयोराशिरभृत् करकल्पतरोस्तव ॥

कारणात्कार्योत्पत्तिरिति नियममुल्लङ्ध्य कार्यात्कारणोत्पत्तिवर्णने षष्ठी विभावना । तव कर एव कल्पतरुः तस्माद् यश एव पयोराशि: अदित्यत्र क्षीरसमुद्रात् कल्पतरोरुत्पत्तिरिति प्रसिद्ध कार्यकारणभावमुल्लङ्ध्य कल्पतरोः . पयोराशेरुत्पत्तिवर्णनाद् विभावना)। राज्ञो वितरणशीलस्य कराद् यशसः उत्पत्तिरिति विरोधपरिहारः ।

अस्याः अपरमुदाहरणम्

जाता लता हि शैले जातु लतायां न जायते शैलः ।
संप्रति तद्विपरीतं कनकलतायां गिरिद्वयं जातम् ॥

अत्र कनकलतायां गिरिद्वयं जातमिति कार्यात् कारणोत्पत्तिः वर्णिता। कनकलताशब्देन कामिनीदेहस्य, गिरिद्वयशब्देन स्तनद्धयस्य च विवक्षया विरोधपरिहारः ।

विशेषोक्त्यलङ्कारःसम्पाद्यताम्

कार्याजनिर्विशेषोक्तिः सति पुष्कलकारणे ।
पति हृदि स्नेहक्षयो नाभूत् स्मरदीपे ज्वलत्यपि ॥

पुष्कलकारणे संपूर्णकारणे सति कार्याजनिः कार्यानुत्पत्तिः विशेषोक्तिनाम अलङ्कारः। स्मरदीपे ज्वलति सत्यपि हृदि स्नेहक्षयः तैलक्षयः प्रेमक्षयश्च नाभूत् इत्यत्र दीपज्वलने तलक्षयकारणे सत्य तदक्षयवर्णनाद विशेपोक्तिः। स्मरे दीप्यमाने प्रेमक्षयो नाभडित विवक्षया विरोधपरिहारः। कारणाभावे कार्यात्पत्तिविभावनाः का सत्वे कार्यानुत्पत्तिः विशेषोक्तिरिति अनयोर्भदः ।

विशेषोक्तेरपरमुदाहरणम्

अनुरागवती सन्ध्या दिवसस्तत्पुरःसरः ।
अहो देवगतिश्चित्रा तथापि न समागमः ॥

अत्र समागमकारणसत्वेऽपि तदनुत्पत्तिवर्णनाद् विशेषोक्तिः । तत्र च निमित्तमुक्तं 'अहो दैवगतिश्चित्रा' इति ।

असंभवालङ्कारःसम्पाद्यताम्

असंभवोऽर्थनिप्पत्तेः असंभाव्यत्ववर्णनम् ।
को वेद गोपशिशुकः शैलमुत्पाटयेदिति ॥

अर्थनिप्पत्तेः कार्यसिद्धेः असंभाव्यत्ववर्णनं असंमदालधारः । अपशिशुकः बालकः कृष्णः शैल गोवर्धन पर्वतं उत्पाटयेदिति उन्मूलयेमन को वेद, को वा जानाति स्म ? इत्यत्र बालकेन शैलोत्पाटनस्य असंभाव्यत्ववणनात् असंभवालङ्कारः।

 असंभवस्य अपरमुदाहरणम्

अयं वारामेको निलय इति रत्नाकर इति ।
श्रितोऽस्माभिस्तृष्णातरलितमनोभिजलनिधिः ।
क एवं जानीते निजकरपुटीकोटरगतं
रक्षणादेनं ताम्यत्तिमिमकरमापास्यति मुनिः॥

अत्र वारांनिधिं समुद्र मुनिः अगस्त्यः एवं पास्यतीति को जानीते ! इति मुनिना समुद्रपानस्य असंभाव्यत्ववर्णनाद् असंभवा असंभवालङ्कारः।

असंगत्यलङ्कारःसम्पाद्यताम्

प्रथमा असङ्गतिः

विरुद्धं भिन्नदेशत्वं कार्यहेत्वोरसङ्गतिः।
विषं जलधरैः पीतं मूछिताः पथिकाङ्गनाः ॥

ययोः कार्यहेत्वोः कार्यकारणयोः भिन्नदेशत्वं मिन्नदेशावस्था विरुद्ध अनुपपन्नं तयोः भिन्नदेशत्ववर्णने असंगतिरलङ्कारः। ययो: कार्यहेत्वोः भिन्नदेशत्वं न विरुद्धं तत्र नासंगतिरिति भावः। जलघरैः मेधैः विषं गरलं (जलं) पीतं, पथिकाङ्गनाः वियोंगिवध्वः मूच्छिताः इत्यत्र विषपान मेघे, तत्काय च मूर्छा पथिकाङ्गनासु इति कार्यकारणयोः विरुद्धभिन्नदेशत्ववर्णनादसङ्गतिलक्षणसमन्वयः । पीतजलानां भेधानां कामोद्दीपकत्वात् पथिकाङ्गना मूर्छिता इति विरोधपरिहारः। असंगतिः त्रिविधा। (1) कार्यहेत्वोः विरुद्धभिन्नदेशत्वरूपा, (2) एकत्र कर्तव्यस्य अन्यत्र कृतिरूपा, (3) अन्यत् चिकीर्षोः तद्विरुद्धकृतिरूपा चेति । तत्रेदं प्रथमायाः असंगतेरुदाहरणम् ।

अस्याः अपरमुदाहरणम्

अहो खलभुजङ्गस्य विचित्रोऽयं वधनमः ।
अन्यस्य दशति श्रोत्रमन्यः प्राणैर्वियुज्यते ॥

अत्र खलभुजंगः एकस्य श्रोत्रं दशति, अन्यः प्राणः वियुज्यते सर्पदंशमरणयोः. कार्यकारणयोः भिन्नदेशत्ववर्णनादसङ्गतिः । बल: कस्यचित् कर्ण किमपि कथयति, तेन चान्यस्य कस्यचित् मरणं भवतीति विरोधपरिहारः।

द्वितीया असङ्गतिः

अन्यत्र करणीयस्य ततोऽन्यत्र कृतिश्च सा ।
अपारिजातां वसुधां चिकीपन द्यां तथाकरोः ॥

का अन्यत्र करणीयस्य वस्तुनः ततोऽन्यत्र अन्यस्मिन्नधिकरणे कृतिः द्वितीया असङ्गतिः। (हे कृष्ण) वं वसुध भूमि अपारिजातां अप्रगतशत्रुसमूहां कर्तुं इच्छन् द्यां स्वर्ग तथा अपारिजातां पारिजातरहितां अकरोः इत्यत्र अन्यत्र भूमौ करणीयस्य अपारिजातत्वस्य स्वर्गे करणवर्णनात् असङ्गतिलक्षणसमन्वयः । अपारिजातामित्यत्र श्लेपमूलकाभेदाध्यवसानेन यदसाङ्गत्यं भासते तस्य भूमिपक्षे स्वर्गपक्षे च पृथगर्थयोजनया परिहारः ।


अस्याः अपरमुदाहरणम्

त्वत्सङ्गखण्डितसपत्नविलासिनीनां
भूषा भवन्त्यभिनवा भुवनेकवीर ।
नेत्रेषु कङ्कणमथोरुषु पत्रवल्ली ।
चोलेन्द्रसिंह तिलकं करपल्लवेषु ॥

अत्र चोलेन्द्रेण हताः ये शत्रवः तेषां बध्वः नेत्रेषु कङ्कणं, ऊरुषु पत्रवल्ली, करपल्लवेषु तिलकं च कुर्वन्तीति अन्यत्र भुजस्तनललाटेषु कर्तव्यानां भूषणानां अन्यत्र नेत्रादिषु करणवर्णनाद् असंगतिः। शिरसि हतं निघाय रुदतीनां ईदृशी समवस्था दृश्यते इति विरोध परिहारः।

तृतीया असङ्गतिः

अन्यन् कर्तुं प्रवृत्तस्य तद्विरुद्धकृतिश्च सा।
गोत्रोद्धारप्रवृत्तोपि गोत्रोद्भेदं पुराकरोः ॥ ८५ ॥

अन्यत्कर्तुं प्रवृत्तन्य तद्विरुद्धकृतिः प्रकृतकार्यविरुद्धकार्यकरणं तृतीया असङ्गतिः। (हे कृष्ण) त्वं पुरा वराहावतारे गोत्रोद्धारे भूम्याः उद्धरणे प्रवृत्तोऽपि गोत्रोद्भेदं गोत्राणां पर्वतानां उद्भेदं दलनं (खुर विघट्टनादिभिः) अकरोः इत्यत्र गोत्रोद्धारप्रवृत्तस्य तद्विरुद्धगोत्रोद्भेदकरणवर्णनाद् असङ्गतिः । श्लषेण विरोधपरिहारः ।

अस्या अपरमुदाहरणम्

मोहं जगत्रयभुवामपनेतुमेतद्
आदाय रूपमखिलेश्वर देहभाजाम् ।
निःसीमकान्तिरसनीरधिनामुनैव
मोहं प्रवर्धयसि मुग्धविलासिनीनाम् ॥

अत्र मोहमपनेतुं स्वीकृतेन रूपेण ईश्वरः मुग्धविलोचनानां मोहं प्रवर्धयति इति अन्यत्कर्तुं प्रवृत्तेन तद्विरुद्धकृतिरूपा असंगतिः । जनानां अज्ञानं निवर्तयितुमादत्तेन रूपेण मुग्धविलोचनानां अनुरागं वर्धयतीति विरोधपरिहारः ||

विषमालङ्कारःसम्पाद्यताम्

प्रथमं विषमम्

विपमं वर्ण्यते यत्र घटनाननुरूपयोः ।
क्वेयं शिरीपमृद्वङ्गी, क्व तावन्मकरध्वजः ॥८६॥

अननुरूपयोः विसदृशयोः अर्थयोर्यत्र घटना संबन्धो वर्ण्यते तत्र विषमालङ्कारः । इयं शिरीषमृद्वगी क्व, तादृक् तथाविधः मकरध्वजः क इत्यत्र अतिमृदुलत्वेन अतिदुस्सहत्वेन च असदृशयोः अङ्गनामकरध्वजयो: घटनाद विषमालङ्कारः । अयं च विषमालङ्कारः त्रिविधः (1) विरूपघटनारूपः (2) विरूपकार्योत्पतिरूपः (3) इष्टार्थोद्यमादनिष्टावाप्तिरूपश्चेति । तत्रेदमाद्यस्योदाहरणम् ।

प्रथमविषमस्य अपरभुदाहरणम्

अभिलपसि यदीन्दो वक्त्रलक्ष्मी मृगाक्ष्याः
पुनरपि सकृदब्धौ मज्ज संक्षालयाङ्कम् । हा
सुविमलमथ बिम्बं पारिजातप्रसूनैः
सुरभय वद नोचेत् त्वं क्व तस्या मुखं क्व ॥
अत्रासदृशयोः चन्द्रमुखलक्ष्योर्घटनाद्विपमम् ।

द्वितीयं विषमम्

विरूपकार्यस्योत्पत्तिरपरं विपमं मतम् ।
कीर्तिं प्रसूते धवलां श्यामा तव कृपाणिका ॥ ८७ ॥

कारणगुणात् विरुद्धकार्यगुणोत्पत्तिवर्णने द्वितीयं विषमम् । श्यामवर्णायाः कृपाणिकायाः तद्विरुद्धधवलकीर्तेः उत्पत्तिवर्णनात् लक्षणसमन्वयः । कार्यस्य विलक्षणगुणशालित्वे विषमालङ्कारः। कारणस्य विरुद्धकार्यनिवर्तकत्वे पञ्चमी विभावना इत्यनयोर्भदः । ।

तृतीयं विषमम्

अनिष्टस्याप्यवाप्तिश्च तदिष्टार्थसमुद्यमात् ।
न भक्ष्याशयाऽहिमञ्जूषां दष्ट्वाखुस्तेन भक्षितः ॥ ८८ ॥

इष्टार्थसमुद्यमात् अभिलषितार्थोद्योगात् न केवलमिष्टस्य अप्राप्तिः अपि तु अनिष्टस्य अवाप्तिरपि, तत् तृतीयं विषमम् । आखुर्मूषिकः भक्ष्याशया भक्ष्यद्रव्यलाभतृष्णया अहिमञ्जूषां सर्पपेटिकां दष्ट्वा दर्शनैः छित्वा तेन सर्पेण भक्षित इत्यत्र आहारार्थं प्रवृत्तस्य मूषिकस्य न केवलं भक्ष्यानवाप्तिः अपि तु मरणरूपानिष्टावाप्तिरपीति तृतीयं विषमम् ।

तृतीयविषमस्य अपरमुदाहरणम्

गोपाल इति कृष्ण त्वं प्रचुरक्षीरवाञ्छया ।
श्रितो मातृस्तनक्षीरमप्यलभ्यं त्वया कृतम् ॥
अत्र इष्टस्य प्रचुरक्षीरस्य अलाभः मातृस्तनक्षीरानवाप्तिरूपा अनिष्टावाप्तिश्चेति तृतीय विषमम् ।

समालङ्कारःसम्पाद्यताम्

प्रथमं समम्

समं स्याद्वर्णनं यत्र द्वयोरप्यनुरूपयोः ।
स्वानुरूपं कृतं सम हारेण कुचमण्डलम् ॥ ८९ ॥

विषमालङ्कारप्रतिद्वन्द्वितया समालङ्कारोऽपि त्रिविध :-(1) अरूपवर्णनरूपः, (2) सरूपकार्योत्पत्तिरूपः, (3) विनानिष्टं इष्टावाप्तिरीपश्चेति । यत्र अनुरूपयोः द्वयोः (संबन्धः) वर्ण्यते तत्र प्रथम समम् । हारेण कुचमण्डलं स्वस्यानुरूरपं सद्म कृतमित्यत्र अनुरूपयोः हारकुचमण्डलयोः संबन्धवर्णनात्समालङ्कारः ।

प्रथमसमस्य अपरमुदाहरणम्

कौमुदीव तुहिनांशुमण्डलं जाह्नवीव शशिखण्डमण्डनम् ।
पश्य कीर्तिरनुरूपमाश्रिता त्वां विभाति नरसिंहभूपते ॥

अत्र कौमुदीचन्द्रमण्डल, जाह्ववीवचन्द्रशेखर, कीर्तिनरपतीनां अनुरूपाणां घटनात् समालङ्कारः ।

द्वितीयं समम्

गत सारूप्यमपि कार्यस्य कारणेन समं विदुः ।
नीचप्रवणता लक्ष्मि जलजायास्तवोचिता ॥ ९0 ॥

कार्यस्य कारणेन सारूप्यं समानगुणवत्वं द्वितीय समम् विदुः । हे लक्ष्मि जलात् जातायाः तव नीचप्रवणता निकृष्टानुसरणशील उचिता इत्यत्र कारणभूतजलगुणस्य नीचप्रवणतायाः कार्य लक्ष्म्यां वर्णनात्समालङ्कारः । नीच: निकृष्टदेशः, निकृष्टजनश्च ।

द्वितीयसमस्य अपरमुदाहरणम्

दवदहनादुत्पन्नो धूमो घनतामवाप्य वर्षैस्तम् ।
यच्छमयति तद्युक्तं सोऽपि हि दवमेव निर्दहति ॥

अत्र दवदहनादुत्पन्नो धूमः स्वजनकं दवदहनं शमयतीति यत् तद्युक्तं यतः दवदहनोऽपि स्वजनकं दवं शमयतीति कार्यकारणयोः दवामितद्धमयोः गुणसारूप्यवर्णनात् समालङ्कारः ।

तृतीयं समम्

विनानिष्टं च तत् सिद्धिर्यदर्थं कर्तुरुद्यमः।
युक्तो वारणलाभोऽयं स्याल ते वारणार्थिनः ॥ ९१ ॥

यदर्थं यत्कार्यसिद्धयर्थं कर्तुः उद्यमः तस्य कार्यस्य यदि अनिष्ट विना सिद्धिः, तत् तृतीयं समम् । हे स्याल वारणार्थिनः गजार्थिनः ते अयं वारणलाभः (राजपुरुषैः निवारणस्य लाभ:) युक्तः इत्यत्र वारणस्य, श्लेषमूलकाभेदाध्यवसानेन इष्टस्य, अनायासेन लाभवर्णनात् तृतीयं समम् । गजं याचितुं राजद्वारं गतः द्वारपालकैः दूरादेव निवारितः एवमन्येन सोपहासमुच्यते ।

तृतीयसमस्य अपरमुदाहरणम्

उच्चैर्गजैरटनमर्थयमान एव
त्वामाश्रयन्निह चिरादुपितोऽस्मि राजन् ।
उच्चाटनं त्वमपि लम्भयसे तदेव
मामद्य नैव विफला महतां हि सेवा ॥

अत्र हे राजन् उच्चं गजमारुह्य गमनमिच्छन्तं मां त्वं उच्चाटनं उच्चैर्गजैरटनं (दूरनिरसनं) लम्भयसे प्रापयसि इति अनायासेन इष्टसिद्धेः वर्णनात् समालङ्कारः । उच्चाटनशब्दे श्लेपेण दूरनिरसनरूपार्थान्तरस्फुरणेन निन्दा गम्यते ।

विचित्रालङ्कारःसम्पाद्यताम्

विचित्रं तत्प्रयत्नश्चेद्विपरीतः फलेच्छया ।
नमन्ति सन्तस्त्रैलोक्यादपि लब्धं समुन्नतिम् ॥ ९२ ॥

फलेच्छया कस्यचित्फलस्य प्राप्त्यभिलाषेण विपरीतः प्रयत्नः यदि क्रियते तद् विचित्रम् । समुन्नतिं लब्धं नमन्ति इत्यत्र समुन्नतिरूपफलेच्छया तद्विपरीतं नमनं क्रियत इति विचित्रम् ।

विचित्रस्य अपरमुदाहरणम्

मलिनयितुं खलवदनं विमलयन्ति जगन्ति देव कीर्तिस्ते ।
मित्राह्लादं कतुं मित्राय दुह्यति प्रतापोऽपि ॥

अत्र मलिनयितुं विमलयति, मित्रह्लादं कर्तुं मित्राय (सूर्याय) दुह्यति इति विपरीतप्रयत्नवर्णनाद्विचित्रम् ।

अघिकालङ्कारःसम्पाद्यताम्

प्रथमं अधिकम्

अधिकं पृथुलाधारादाधेयाधिक्यवर्णनम् ।
ब्रह्माण्डानि जले यत्र तत्र मान्ति न ते गुणाः ॥९३॥

अतिपृथुत्वेन प्रसिद्धादाधाराद् आधेयस्य आधिक्यवर्णनं अधिकम् । ब्रह्माण्डानामप्याधारत्वादतिविस्तीर्णे जले राज्ञोः गुणा: न मान्ति इति आधेयभूतगुणानामाधिक्यवर्णनाद् अधिकम् ।

अस्यापरमुदाहरणम्

युगान्तकालप्रतिसंहृतात्मनो
जगन्ति यस्यां सविकासमासत ।
तनौ ममुस्तस्य न कैटभद्विपः
तपोधनाम्यागमसंभवा मुदः॥

अत्र यस्य भगवतः शरीरे चतुर्दशभुवनानि प्रलयकाले सरिकासं आसत तस्य शरीरे नारदागमनजनितमुदः न ममुरित्यघिकाधेयवर्णनाद् अधिकम् ।

द्वितीयं अधिकम्

पृथ्वाधेयाद्यदाधाराधिक्यं तदपि तन्मतम् ।
कियद्वारब्रह्म यत्रैते विश्राम्यन्ति गुणास्तव ॥ ९४ ॥

पृथुत्वेन प्रसिद्धादाधेयाद् आधारस्य आधिक्यवर्णनं द्वितीयं अधिकम्। (हे राम) तवानन्तकल्याणगुणाः यत्र विश्राम्यन्ति असंबाधं तिष्ठन्ति तद्वाग्ब्रह्म कियत्? किं परिमाणं स्यात्, तत्परिमाणमेतावदिति निर्णेतुं न शक्यत इत्यर्थः। अत्र आधेयगुणापेक्षया आधारस्य शब्दब्रह्मणः आधिक्यमुक्तम्।

अस्यापरमुदाहरणम्

अहो विशालं भूपाल भुवनत्रितयोदरम्।
माति मातुमशक्योऽपि यशोराशिर्यदत्र ते।।

प्रत्यनीकालङ्कारःसम्पाद्यताम्

प्रत्यनीकं बलवतः शत्रोः पक्षे पराक्रमः।
जैत्रनेत्रानुगौ कर्णौ उत्पलाभ्यामधःकृतौ।।95।।

बलवतः प्रबलस्य (अतः एव साक्षात्प्रतिकर्तुमशक्तस्) शत्रोः पक्षे पक्षान्तःपातिनि मित्रादिसहाये पराक्रमः प्रत्यनीकालङ्कारः। उत्पलाभ्यां इन्दीवराभ्यां जैत्रनेत्रानुगौ स्वजेतृनेत्रानुसािणौ कर्णौ अधः कृतौ तिरस्कृतौ (अधः प्रदेशे कृतौ) इत्यत्र उत्पलाभ्यां साक्षात् नेत्रजये सामर्थ्याभावात् नेत्रानुसरणशीले श्रोत्रे अधः कृते इति शत्रोः पक्षतिरस्करणवर्णनात् प्रत्यनीकम्। अधः कृतशब्दे श्ळेषेण तिरस्कारधःप्रदेशयोरभेदाध्यवसायः।।

प्रत्यनीकस्यापरमुदाहरणम्

मम रूपकीर्तिमरद्भुवि यस्तधनुप्रविष्टहृदयेमिति ।
त्वयि मत्सरादिव निरस्तदयः सुतरां क्षिणोति खलु तां मदनः ॥

अत्र मदनः आत्मनो रूपख्यातिं हृतवतः सुन्दरपुरुषस्य प्रतीकारशब्दः तदनुरक्तां तरुणीं निर्दयं क्षिणोतीति शत्रुपक्षतिरस्कारवर्णनात् प्रत्यनीकम् ।

काव्यार्थापत्यालङ्कारःसम्पाद्यताम्

कौमुत्येनार्थसंसिद्धिः काव्यार्थापत्तिरिष्यते ।
स जितस्त्वन्मुखेन्दुः का वार्ता सरसीरुहाम् ॥

कैमुत्येन कैमुतिकन्यायेन अर्थसंसिद्धिः विवक्षितार्थसिद्धिः काव्यार्थापत्तिः। यत्र दण्डापूदिकन्यायेनार्थसिद्धिर्वण्यते तत्र काव्यार्थापत्तिरिति निष्कर्षः। [शास्त्रेऽप्यपत्तेः सत्वात् तद्वारणाय काव्यपदमिति केचित् । वस्तुतस्तु अर्थापत्तिप्रमाणात् विलक्षणैव काव्यार्थापत्तिः।। सः सुन्दरत्वेन आह्वादकारित्वेन च प्रसिद्धः, अथवा पद्मजेता इन्दुः तव मुखेन जितः, (एवं सति) सरसीरुहां पद्मानां का वार्ता का कथा इत्युदाहरणम् । अत्र येन पद्मजेता इन्दुः जितः तेन पद्मानि जितानीति किं वक्तव्यं इति दण्डापूपिकन्यायेन पद्मजयरूपार्थस्य संसिद्धेः अर्थापत्तिः।


काव्यार्थापत्तेरपरमुदाहरणम्

अधरोऽयमधीराक्ष्या बन्धुजीवप्रभाहरः ।
अन्यजीवप्रभा हन्त हरतीति किमद्भुतम् ॥

बन्धुजीवो बन्धूकपुष्पं तत्प्रभाहरः, बन्धूनां जीवानां प्रभाहरश्च इति श्लेषमूलाभेदाध्यवसानेन बन्धुजीवप्रभाहरस्य अन्यजीवप्रभाहरत्वं अनुक्त सिद्धमित्यर्थापत्तिः।

काव्यलिङ्गालङ्कारःसम्पाद्यताम्

समर्थनीयस्यार्थस्य काव्यलिङ्गं समर्थनम् ।
जितोऽसि मन्द कन्दर्प मचित्तेऽस्ति त्रिलोचनः॥९७॥

समर्थनीयस्य समर्थनापेक्षस्य अर्थस्य समर्थन काव्यलिङ्ग नाम अलङ्कारः। हे मन्द मूढ कन्दर्प त्वं जितोऽसि, मम चित्ते त्रिलोचनः अस्ति इत्युदाहरणम् । अत्र मदनजयस्य दुष्करत्वात् तज्जयोपन्यासः समर्थनमपेक्षते । स्वान्त:करणे मदनदाहकत्रिलोचनसन्निधानप्रदर्शनेन तत्समर्थन कृतमिति काव्यलिङ्गम् । समर्थको हेतुः वाक्यार्थः प्रदाथों वा भवति । 'मचित्तेऽस्ति त्रिलोचनः' इत्यत्र वाक्यार्थी हेतुः ।

काव्यलिङ्गस्य अपरमुदाहरणम्

भस्मोद्धलन भद्रमस्तु भवते रुद्राक्षमाले शुभे
हा सोपानपरम्परे गिरिसुताकान्तालयालङ्कृते।
अद्याराधनतोषितेन विभुना युष्मत्सपासुखा -
लोकोच्छेदिनि मोक्षनामनि महामोहे निलीयामहे ॥

अत्र मोक्षस्य महामोहत्वमप्रसिद्धं समर्थनमपेक्षते। तच्च युष्मत्सपर्यासुखालोकोंच्छेदिनि इति पदार्थेन समर्थितमिति पदार्थहेतुकं काव्यलिङ्गम् ॥

अर्थान्तरन्यासालङ्कारःसम्पाद्यताम्

उक्तिरर्थान्तरन्यासः स्यात्सामान्यविशेषयोः ।

सामान्यविशेषयोः उक्तिः अर्थान्तरन्यासः। तयोश्च एक प्रस्तुतं, अपरमप्रस्तुतम् । ततश्च विशेष प्रस्तुते तेन सह अप्रस्तुतसामान्यस्य न्यासः एकः अर्थान्तरन्यासः । सामान्ये प्रस्तुते तेन सह विशेषस्य न्यास: द्वितीयः । एवमर्थान्तरन्यासो द्विविधः । अत्रेदमवधेयम् । सामान्यविशेषयोः न्यासे समर्थ्यसमर्थकभावः अवश्यं भवति । काव्यलिङ्गेऽपि समर्थ्यसमर्थकभावः अस्ति । एवं सति काव्यलिङ्गार्थान्तरन्यासयोरयं भेदः। समर्थ्यसमर्थकयोः सामान्यविशेषसंबन्धे अर्थान्तरन्यासः, तदन्यनिष्पाद्यनिष्पा- दकभावादिसंबन्धे काव्यलिङ्गम् इति ।

(1) सामान्येन विशेषसमर्थनरूपस्य अर्थान्तरन्यासस्य उदाहरणम्

हनूमानब्धिमतरद् दुष्करं किं महात्मनाम् ॥९८॥

अत्र हनूमान् अब्धि समुद्रं अतरत् इति विशेष: महात्मनां दुष्करं किं ? इति सामान्येन समर्थ्यते।

अस्यापरमुदाहरणम्

दिवाकराद्रक्षति यो गुहासु लीनं दिवा भीतमिवान्धकारम् ।
क्षुद्रेऽपि नूनं शरणं प्रपने ममत्वमुच्चैःशिरसां सतीव ॥

(2) विशेषेण सामान्यसमर्थनरूपस्य अर्थान्तरन्यासस्य उदाहरणम्

गुणवद्वस्तुसंसर्गाद्याति स्वल्पोऽपि गौरवम् ।
पुष्पमालानुपङ्गेण सूत्रं शिरसि धार्यते ॥ ९९ ॥

स्वल्पोऽपि निकृष्टोऽपि गुणवद्वस्तुसंबन्धात् गौरवं याति प्रामोति । पुष्पमालायाः अनुषङ्गेण संपर्केण सूत्रं तन्तुः शिरसि धार्यते इत्यत्र निर्गुणस्य गुणवत्संपर्काद् गौरवप्राप्तिरूपं सामान्य प्रस्तुतं, तन्तोः पुष्पमालासंबन्धेन शिरसा वहनरूपगौरवप्राप्तिरूपेण अप्रस्तुतविशेषेण समर्थितमिति अर्थान्तरन्यास लक्षणसमन्वयः ।

अस्यापरमुदाहरणम्

निजदोषावृतमनसामतिसुन्दरमिवाभाति विपरीतम् ।
पश्यति पित्तोपहतः शशिशुभ्रं शंखमपि पीतम् ॥

विकस्वरालङ्कारःसम्पाद्यताम्

यस्मिन्विशेषसामान्यविशेषाः स विकस्बरः ।
स न जिग्ये महान्तो हि दुर्धर्षाः सागरा इव ॥१०॥

यस्मिन् काव्ये विशेषसामान्यविशेषाः विन्यस्यन्ते तत्र विकस्वरालङ्कारः। यत्र कस्यचिद्विशेषस्य समर्थनार्थं सामान्य विन्यस्य तत्प्रसिद्धावपि अपरितुष्यता कविना पुनर्विशेषान्तरं उपमानरीत्या अर्थान्तरन्यासविधया वा विन्यस्यते तत्र विकस्वरालकार इति निष्कर्षः । सः प्रसिद्धो राजा न जिग्ये केनापि न जितः इति विशेषविन्यासः । याति तत्समर्थनं 'महान्त: दुर्धर्षा हि इति सामान्येन क्रियते। ततश्च
उपमानरीत्या सागरा इव इति विशेषन्यासः सामान्यमर्थ महतां दुर्जयत्वं द्रढयतीति विकस्वरालङ्कारः।
 
विकस्वरस्यापरमुदाहरणम्

अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम् ।
एको हि दोषो गुणसत्रिपाते निमजतीन्दोः किरणेष्विवाङ्कः॥
 
अत्रापि उपमानरीत्या विशेषान्तरस्य न्यासः । अर्थान्तरन्यासविधया विशेषान्तरन्यासोदाहरणं तु अनुबन्धे द्रष्टव्यम् ।।

वक्रोक्त्यलङ्कारःसम्पाद्यताम्

वक्रोक्तिः श्लेषकाकुभ्यां अपरार्थप्रकल्पनम् ।
मुञ्च मानं दिनं प्राप्तं नेह नन्दी हरान्तिके ॥१०१॥

श्लेषेण काक्वा वा अपरार्थकल्पनं विवक्षितादन्यार्थे वाक्यतात्पर्यकल्पनं वक्रोक्तिः। हे प्रिये मानं कोपं मुञ्च, दिनं अह: प्राप्तमिति नायकेनोक्ता नायिका श्लेषेण नायकवाक्यस्यार्थान्तरं कल्पयित्वा समाधत्ते-इह मन्निकटे नन्दी नास्ति, किन्तु हरान्तिके शिवसन्निधौ वर्तते इति । अत्र नायकवाक्यस्य श्लेषेण नन्दिनं प्राप्तं मा मुञ्च इति अर्थान्तरं कल्पितमिति वक्रोक्तिः ।

वक्रोक्तेरपरमुदाहरणम्

असमालोच्य कोपस्ते नोचितेयमितीरिता ।
नैवोचितेयमिति तं ताडयामास मालया ॥

अत्र नैवोचितेयमिति काकुस्वरभेदेन उचितमेवेत्यर्थान्तरं प्रकल्प्य नायिका नायकं मालया ताडयामासेति वक्रोक्तिः ।

स्वभावोक्त्यलङ्कारःसम्पाद्यताम्

स्वभावोक्तिः स्वभावस्य जात्यादिस्थस्य वर्णनम् ।
कुरङ्गैरुत्तरङ्गाक्षः स्तब्धकर्णरुदीक्ष्यते ॥१०२॥

जात्यादिस्थस्य जातिक्रियागुणादिसंबन्धिनः स्वभावस्य वर्णनं स्वभावोक्तिरलङ्कारः। उत्तरङ्गाक्षैः चञ्चललोचनैः स्तब्धकर्णैः निश्चलकर्णैः कुरङ्गैः हरिणैः उदीक्ष्यते इत्यत्र कुरङ्गस्वभाववर्णनात्स्वभावोक्तिः।

भाविकालङ्कारःसम्पाद्यताम्

भाविकं भूतभाव्यर्थसाक्षात्कारस्य वर्णनम् ।
अहं विलोकयेऽद्यापि युध्यन्तेत्र सुरासुराः ॥ १०३॥

भूतस्य भाविनो वा अर्थस्य यः साक्षात्कारः तस्य वर्णन भाविकम् । यत्र अतीतानागते प्रत्यक्षत्वेन वर्म्यते तत्र भाविकमिति निष्कर्षः । देवासुराः अत्र प्रदेशे युध्यन्ति इति अहं अद्यापि विलोकये इत्यत्र अतीतस्य देवदानवयुद्धस्य प्रत्यक्षत्वेन वर्णनात् भाविकालङ्कारः ।

उदात्तालङ्कारःसम्पाद्यताम्

<poem> उदात्तमृद्धिश्चरितं श्लाध्यं चान्योपलक्षणम् । सानौ यस्याभवयुद्धं तद्धर्जटिकिरीटिनोः ॥१०४॥

ऋद्धिः संपत्समृद्धिः, अन्योपलक्षणं श्लाध्यं चरितं च उदात्तम् । यत्र सम्पत्समृद्धिः वर्ण्यते तत्र उदात्तालङ्कारः। यत्र अन्याङ्गं श्लाध्यं चरितं वर्ण्यते तत्रापि उदात्तालङ्कार इत्यर्थः । उपलक्षणशब्देनात्र अङ्गत्वमेव विवक्ष्यते । यस्य हिमालयस्य सानौ धूर्जटिकिरीटिनोः शिवार्जुनयोः तत् प्रसिद्धं युद्धमभवत् सोऽयं हिमवानिति शेषः। अत्र श्लाध्यं चरितं शिवार्जुनयोयुद्धं अन्याङ्गत्वेन हिमवन्माहास्याङ्गत्वेन वर्णितमित्युदात्तम् ।। ऋद्धिवर्णनरूपोदात्तोदाहरणं तु-

रत्नभित्तिषु संक्रान्तः प्रतिबिम्बशतैर्वृतः । ज्ञातो लङ्केश्वरः कृच्छादाञ्जनेयेन तत्त्वतः ॥

अत्र रावणस्य संपत्समृद्धिः वर्ण्यत इत्युदात्तालङ्कारः ।

"https://sa.wikisource.org/w/index.php?title=समन्वया_व्याख्या&oldid=271510" इत्यस्माद् प्रतिप्राप्तम्