समयमातृका/अष्टमः समयः
← सप्तमः समयः | समयमातृका अष्टमः समयः क्षेमेन्द्रः |
उपसंहारः → |
अष्टमः समयः
कामुकप्राप्तिः
अथ सितकिरणरतिश्रमखिन्नेव विनिद्रतारकारजनी ।
प्राभातिकसलिललवस्वेदवती क्षामतां प्रययौ ॥१॥
गणिका ततः प्रभाते सकलनिशाजागरेण ताम्राक्षी ।
रात्रिसुखप्रश्नपरां प्रोवाच समेत्य कङ्कालीम् ॥२॥
शृणु मातः शिशुवयस्तस्य स्फुटतामकालपुष्टस्य ।
यस्याल्पकस्य बहुलं मरिचकणस्येव तीक्ष्णत्वम् ॥३॥
आरोपितः स चेट्या खट्वामत्युन्नतां शनैः शिशुकः ।
निश्चलतनुर्मुहूर्तं धूर्तः स च कृतकसुप्तोऽभूत॥४॥
ललनासुलभकुतूहलचपलतयालिङ्गितः स्वयं स मया ।
तत्क्षणनवसुरतान्ते सहसा निश्चेष्टतां प्रययौ ॥५॥
पूगफलमस्य लग्नं ज्ञात्वेति मया स शीतसलिलार्द्रम् ।
दत्त्वा वक्षसि हस्तं प्रलयभयाल्लम्भितः संज्ञाम् ॥६॥
लब्धास्वादः स ततश्चटकरतिर्मां प्रजागरो मूर्तः ।
खेदक्लान्तामकरोद्गणनातीतैः समारोहैः ॥७॥
बालमुखं तरुणतरं रभसरसेन प्रबोधयन्त्या तम् ।
कष्टं मयैव कृष्टो ज्वलिताङ्गारः स्वहस्तेन ॥८॥
रोदिति शिशुरिति दयया यस्य न दशनक्षतं मया दत्तम् ।
तेन ममाधरबिम्बं शुकेनेव खण्डितं बहुशः ॥९॥
मुहुरारोहणहेलापरिरम्भैर्वामनीकृतं तेन ।
शिशुसङ्गमनात्क्षणं मे लज्जितमिव नोन्ननाम कुचयुगलम् ॥१०॥
अहमस्थाननखक्षतविक्षततनुवल्लरी परं तेन ।
गुप्तिं कथं करिष्ये विदग्धजनसङ्गमेऽङ्गानाम् ॥११॥
उक्त्वेति वाररमणी निखिलनिशीथप्रजागरोद्विग्ना ।
क्षोणीं निरीक्षमाणा वैलक्षण्येन क्षणं तस्थौ ॥१२॥
तामवदत्कङ्काली सस्मितवदना विटङ्कदंष्ट्राभिः ।
भोगोद्भवे विटानां मनोरथं पाटयन्तीव ॥१३॥
एवंविधैव मुग्धे परिशीलितहट्टचेटकटुकानाम् ।
प्रौढिः कण्टकतीक्ष्णा भवति परं पण्यजीवनशिशूनाम् ॥१४॥
पितृभवनहृतं नियतं हस्तगतं विद्यते धनं तस्य ।
भवति न तद्विधमधिकं प्रागल्भ्यं रिक्तहस्तस्य ॥१५॥
बिलनिहितद्रविणकणश्चपलगतिर्मूषकोऽप्यलं प्लवते ।
दानक्षीणस्तन्द्रीं सुषिरकरः कुञ्जरो भजते ॥१६॥
विटविनिवारणयुक्त्या निर्मक्षिकमाक्षिकोपमं सहसा ।
गत्वा करोमि तावत्तवोपजीव्यं वणिक्तनयम् ॥१७॥
अस्माकमङ्गमङ्गं पण्योपनतं महाधननिधानम् ।
दासीसुताः किमेते स्वादन्ति विटाः प्रसङ्गेन ॥१८॥
इत्युक्त्वा तूर्णतरं शय्याभवनस्थितं समभ्येत्य ।
शिशुमवदत्कङ्काली विजनकथाकेलितन्त्रेण ॥१९॥
अपि पुत्र रात्रिरखिला सुखेन ते कुमुदहासिनी याता ।
बन्धनयोग्योऽस्माकं कलावतीहृदयचोरस्त्वम् ॥२०॥
ध्यानं वलनं जृम्भणमुच्छ्वसनं वेपनं परिस्खलनम् ।
त्वत्सङ्गमेऽपि यस्याः किं कुरुते निर्गते त्वयि सा ॥२१॥
लङ्घिततरुणसमुद्रा कलावती यत्पटाञ्चले लग्ना ।
यामर्थयते दूतैर्दक्षिणदिग्वल्लभो भोजः ॥२२॥
जन्मान्तरेऽनुबद्धा यदि नेयं सङ्गतिः कृता विधिना ।
तत्किं त्वयि मम जाता परलोके पुत्रकार्याशा ॥२३॥
विघ्नस्तु सङ्गमेऽस्मिन्नेकः परिचिन्तितोऽस्ति मे भयदः ।
यदयं विटसङ्घातः कण्टकजालायते परितः ॥२४॥
भुक्त्वा पीत्वा भवतः परधनवर्णाः स्ववित्तपरिहीणाः ।
धूर्तास्त्वामेव पितुर्बन्धनयोग्यं प्रयच्छन्ति ॥२५॥
तस्माद्यादि दिनमेकं तिष्ठसि सुतरामदृश्यरूपस्त्वम् ।
तदयं कुटिलविटानां नैराश्याद्भिद्यते यूथः ॥२६॥
इत्युक्ते कुट्टन्या शैशवसरलाशयो वणिक्सुतः ।
तामवदत्सत्यमिदं स्नेहान्मातस्त्वया कथितम् ॥२७॥
अस्ति ग्रन्थिनिबद्धं मम किंचिज्जनकभाण्डशालात्तम् ।
तदिदं गृहाण दुहितुर्मण्डनभोगव्यये योग्यम् ॥२८॥
इत्युक्त्वा सारतरं दत्त्वा तस्यै शिशुर्गुरुद्रविणम् ।
तत्सन्दर्शितमविशच्छन्नपथं पृथुलहर्म्यतलकोष्ठम् ॥२९॥
तं प्रच्छाद्य सहर्षा कृत्वा मिथ्या मुखं नवविषादम् ।
अभ्येत्य विटानवदत्कङ्काली कलकलारम्भे ॥३०॥
आजन्मसहजसुहृदामस्मत्प्रणयोपचारतुष्टानाम् ।
उचितः किमयमकस्माद्भवतां निन्द्यः समाचारः ॥३१॥
दस्युसुतस्तीक्ष्णतरः स भवद्भिः किं वणिक्सुतव्याजात।
रत्नाभरणाकीर्णं प्रवेशितोऽस्मद्गृहं रात्रौ ॥३२॥
अन्यगणिकाप्रयुक्ता यदि यूयं प्रहसनोद्यताः प्रसभम् ।
तत्किं स्त्रीवधसदृशं क्रियते पृथुसाहसं पापम् ॥३३॥
स परं प्रभातनिद्रालवविवशायां क्षणं कलावत्याम् ।
आदाय हारसहितं केयूरयुगं गतः कामी ॥३४॥
श्रूयन्ते प्रतिनगरं भूषणलुब्धैः पणाङ्गना निहताः ।
निजदेवताप्रसादात्कलावती किं तु मुक्ताद्य ॥३५॥
तेन यदेतन्नीतं राजकुले कस्य मूर्ध्नि परिपतति ।
प्रतिभूर्भवद्विधानां क्व गृहीतः पण्यललनाभिः ॥३६॥
पश्यत पश्यत लोकाः कलिकालः कीदृशः प्रवृत्तोऽयम् ।
स्निग्धाः सुहृदः सधनाः स्त्रीवधपापं भजन्ते यत॥३७॥
को वेत्ति गुणविभागं हस्तेन परीक्ष्यते कथं जातिः ।
दुर्ज्ञेयं कुटिलानां चेष्टितमन्यद्वचश्चान्यत॥३८॥
इत्युक्त्वा गृहपरिजनकलहोदग्रदुःसहविकारा ।
कङ्काली राजपथे चुक्रोश गतागतैस्तारम् ॥३९॥
तद्भीत्यैव विटास्ते सपदि विवर्णा निरुत्तरप्रतिभाः ।
निर्गत्योत्पथविवरैर्दूरतरे सङ्गमं चक्रुः ॥४०॥
अथ ते विचार्य सुचिरं भोगभ्रष्टाः समापतितकष्टाः ।
मिथ्यापवादनष्टा विफलक्लिष्टाः मिथो जग्मुः ॥४१॥
जाताक्षपटलदोषैरिव नास्माभिर्व्रजन्वणिग्दृष्टः ।
कङ्काल्यैव हृतोऽसावित्यवदन्निर्गुटस्तत्र ॥४२॥
राशिं निगूह्य वणिजं पश्यत भूर्जेन निग्रहोऽस्माकम् ।
कुट्टन्यैव कृतोऽयं परिशोचन्नब्रवीद्दिविरः ॥४३॥
विहिताङ्गहारयुक्तिः कुट्टन्या पूर्वरङ्गयोग्योऽयम् ।
अस्मन्नृत्तं वृत्तं किमन्यदिति नाट्यवित्प्राह ॥४४॥
कपटतुलां कङ्कालीमङ्कशताङ्कामहं वेद्मि ।
विहिस्तया भ्रमोऽसावित्याह तुलाधरः कोपात॥४५॥
आकृष्य मेषभोगाद्दूरतरं मित्रमण्डलं वणिजः ।
कालकलयेव नीतं कङ्काल्या गणक इत्यूचे ॥४६॥
पेया मद्यसमृद्धिस्तयैव सा कृतचिकित्सायाम् ।
लङ्घनमिदमुपदिष्टं तापादित्यब्रवीद्वैद्यः ॥४७॥
नवसुखचरितं नष्टं कष्टं विभ्रष्टनियमवृत्तानाम् ।
अस्माकमेतदनुपममित्याह कविः श्वसन्विरसः ॥४८॥
इति दुःखकोपविस्मयलज्जाकुलिताः कथां मिथः कृत्वा ।
कुसुमारामभ्रष्टा इव मधुपास्ते विटाः प्रययुः ॥४९॥
अथ कङ्काली गूढं निःशल्यां कामभोगसामग्रीम् ।
आस्वाद्य निशामनयन्निःशब्दमहोत्सवोत्साहा ॥५०॥
प्रातर्विचिन्त्य युक्तिं सा गत्वा हट्टभाण्डशालाग्रम् ।
कामिजनकस्य वणिजः स्फीतार्थसमृद्धिमद्राक्षीत॥५१॥
सोऽपि महाधनसञ्चयलाभविशेषेऽपि सद्ग्राहः ।
पुत्रहृतहेमचिन्तासन्तापात्कातरतरोऽभूत॥५२॥
उन्नतबृसी निविष्टः कोटित्रयलेख्यसम्पुटीहस्तः ।
अर्थिजनवदनदर्शनमीलितनयनप्रसक्तसततान्ध्यः ॥५३॥
बन्धादिमोक्षणागतलाभपरित्यागयाचने बधिरः ।
अत्यल्पपण्यदानप्रश्नप्रतिवचनजल्पेन मूकः ॥५४॥
तैलमलकलललाञ्छितमूषकजग्धार्धटुप्पिका विकटः ।
शीर्णोर्णाप्रावरणप्रलम्बघनकञ्चुकाञ्चलालोलः ॥५५॥
नग्नोरुजानुजर्जरधूमारुणपृथुलशिथिलमोचोटः ।
रूक्षश्मश्रुकलापस्थूलप्रचलल्लटुम्पक ग्रन्थिः ॥५६॥
निजगृहदिवसपरिव्यययाच्ञागतकन्यकाप्रहारोग्रः ।
रज्जुग्रथितबुभुक्षितमार्जारीरावनिर्दयप्रकृतिः ॥५७॥
दूराद्वितर्क्यमाणः स तया नासार्पिताङ्गुलीलतया ।
ख्यातः स एव वणिगयमिति विदधे स निश्चितं तस्य ॥५८॥
साथ शनैरुपसृत्य प्रविरलजननिर्मलावसरे ।
तमभाषत भाण्डपते वक्तव्यं किञ्चिदस्ति मम विजने ॥५९॥
पुत्रस्ते मुग्धमतिर्मृगशिशुरिव लुब्धकैर्विटैः कृष्टः ।
हारितभूषणवसनः सन्ध्यायां ह्यो मया दृष्टः ॥६०॥
दयया प्रवेशितोऽसौ मया स्वगेहं मनोहराकारः ।
अविशत्क्षणं न जाने केन पथा मत्सुताहृदयम् ॥६१॥
स तया स्नानानन्तररुचिराम्बरभूषणार्पणप्रणयैः ।
राजार्हविविधभोगैः काम इवाभ्यर्चितो भक्त्या ॥६२॥
वंशजगौरवयोगात्सुवृत्तताश्लाघ्यरूपसम्भारः ।
कण्ठे हार इवासौ कृतस्तया गुणगणोदारः ॥६३॥
कायपणार्जितबहुविधराजसुतामात्यबहुधनेन सह ।
अधुना त्वत्तनयोऽस्याः स्वामी प्राग्जन्मसम्बन्धात॥६४॥
उचिततरसङ्गसुभगां दृष्ट्वैव कलावतीं रागयौवनोन्मत्ताम् ।
तव हस्ते निक्षिप्तं स्त्रीधनसहितं मया गेहम् ॥६५॥
यातायां मयि तीर्थं कञ्चित्कालं त्वया कलावत्याः ।
मुद्रा मुद्रितमखिलं सर्वस्वं पालनीयं तत॥६६॥
अद्य तु भवता कार्यः पुत्रस्नेहात्स्नुषानुरोधाच्च ।
अस्मद्गेहे स्वल्पो भोज्योत्सवमङ्गलाचारः ॥६७॥
उक्त्वेति साश्रुनयना कङ्काली तस्य वज्रहृदयस्य ।
निपपात चरणयुगले सुतलाभविशेषतुष्टस्य ॥६८॥
स च तामुवाच भद्रे सर्वमिदं हर्षकारि कुशलतरम् ।
किं तु त्वद्गमनं मे नाभिमतं सह गमिष्यावः ॥६९॥
परभोजननियमवता भोक्तव्यं त्वद्गृहे कथं नु मया ।
सम्भोजनमूल्यं मे गृह्णासि तदा गमिष्यामि ॥७०॥
इत्युक्त्वास्या हस्ते दत्त्वा हृष्टः स रूपकं सार्धम् ।
तामन्तः स्मितवदनां विसृज्य पश्चाद्ययौ भोक्तुम् ॥७१॥
तत्र सुतं सविलासं दृष्ट्वा कान्तासनाथसम्भोगम् ।
निर्व्ययभोज्यसमृद्ध्या निश्चिन्तः प्रीतिमानभवत॥७२॥
कर्पूरैलापरिमलरसवासितविविधभोजनं भुक्त्वा ।
पीत्वा च भूरि मद्यं जगाद लुब्धः स कङ्कालीम् ॥७३॥
सततं दिनव्ययं वः सर्वमहं समुचितं प्रदास्यामि ।
एवंविधस्तु न पुनः कार्यः स्थूलव्ययारम्भः ॥७४॥
इत्युक्त्वा स गृहं निजमगमद्गगनस्थलीकृषिकृताशः ।
लाभप्रदर्शनं किल लुब्धधियां वञ्चनोपायः ॥७५॥
अन्येद्युर्दिवसव्ययमानेतुं कुटिलचेतसस्तस्मात।
चित्तग्रहणाय निजां विससर्ज कलावती दासीम् ॥७६॥
सुचिरात्समेत्य दासी शरावचञ्चत्सहिङ्गुकणभूर्जा ।
हस्तेन विस्फुटन्ती कलावतीं सस्मितामवदत॥७७॥
श्वशुरेण ते महार्घः प्रहितोऽयं भूरिभोज्यसम्भारः ।
उत्तिष्ठ कुरु विभागं निमन्त्र्यतां बन्धुवर्गश्च ॥७८॥
तैलस्य तोलकमिदं तोलकयुगलं च चूर्णलवणस्य ।
दत्त्वा मामिदमूचे भ्रुकुटीकुटिलाननः स परम् ॥७९॥
तैलमिदं लवणमिदं शाकाय श्वेतिका द्वयं दत्तम् ।
वेश्यायाः किं कामी ददाति दिवसव्यये लक्षम् ॥८०॥
इत्युक्त्वा तत्प्रहितं दासी सन्दर्श्य थूत्कृतं बहुशः ।
क्षिप्त्वा दूरे तन्मुखदर्शनमलिनां निनिन्द दृशम् ॥८१॥
अन्येद्युः कङ्काली विचिन्त्य तद्वञ्चने सुखोपायम् ।
प्रययौ कृत्वा विजने कलावतीं विदितवृत्तान्ताम् ॥८२॥
सा वर्णमानमुद्रासदृशसमुद्ग द्वयं विधाय नवम् ।
एकस्मिन्नाभरणान्यन्यस्मिन्नुपलखण्डिकां विदधे ॥८३॥
स्थूलतरतूलपटिकाप्रावरणं प्राप्य भाण्डशालाग्रम् ।
सा कक्षाञ्चलसंवृतसमुद्गयुगलावदद्वणिजम् ॥८४॥
वाराणसीप्रयाणे नक्षत्रं क्षिप्रकृन्ममोपनतम् ।
नास्ति पुनर्वसुना तव दर्शनमात्रं मयि गतायाम् ॥८५॥
इदमाभरणं सर्वं समुद्गकन्यस्तमस्ति रत्नाङ्कम् ।
स्त्रीबालधनं भवता प्राणसमं सर्वथा रक्ष्यम् ॥८६॥
इत्युक्त्वा तत्सर्वं सन्दर्श्य पुनः सुमुद्रितं कृत्वा ।
निक्षिप्य पुरः प्रचुरं सा तमवादीत्सहेलैव ॥८७॥
पाथेयमतः पृष्ठाल्लाभे न ममोपयुज्यते लक्षम् ।
त्वं दातुमर्हसि सखे देवालयधान्यभुक्तिसंशोध्यम् ॥८८॥
इति लीलया ब्रुवाणा समुद्गयुगलस्य विनिमयं कृत्वा ।
लक्षं क्षणाद्गृहीत्वा जगाम निजवेश्म कङ्काली ॥८९॥
अथ निर्वर्तितकृत्यां ज्ञात्वा तामागतां वणिग्भवनात।
शङ्खसुतं हर्म्यगता प्रोवाच कलावती विजने ॥९०॥
त्वयि मे हृदयमकस्मादन्तः सक्तं बलान्न निर्याति ।
त्वं तु धनवान्विवाहं करिष्यसीत्येव मे शङ्का ॥९१॥
दिनरमणीयः पुंसां जन्मजघन्यस्तु गेहिनीसङ्गः ।
तदपि विवाहे मोहादविचारतरादराः पशवः ॥९२॥
नित्यप्रसूतिहतसुस्थिरयौवनेषु
वेशोपचाररहितेषु मदोज्झितेषु ।
गोष्ठीविलासरसकेलिनिरादरेषु
दारेषु का स्मररुचिः कलहाङ्कुरेषु ॥९३॥
जात्यैव कामिजनरञ्जनजीवितासु
वेशोपचारनिरतासु ससौरभासु ।
कामप्रमोदममकासु सविभ्रमासु
वेश्यासु कस्य न रतिः सततस्मितासु ॥९४॥
कुरु मे प्रत्ययहेतोर्धनधारणपत्रिकां विवहे त्वम् ।
विहिता सैव तवास्ते मत्तगजस्याङ्कुशशिखेव ॥९५॥
इत्युक्तः स रमण्या स्थूलतरोज्जासपत्रिकामलिखत।
नाम्ना विक्रमशक्तेर्नृपमहिषीभ्रातृपुत्रस्य ॥९६॥
अथ शय्याभवनगतं प्रातः स्वयमेत्य कङ्काली ।
जामातरमिदमवदन्मिथ्यैव सखेदवदनेव ॥९७॥
आसन्नयौवनस्त्वं दुहितुर्मे यौवनं त्वया प्रायः ।
क्षपितमलक्ष्यं स्त्रीणां गलति हि सहसैव तारुण्यम् ॥९८॥
स्थिरयौवनाः प्रकृत्या पुरुषाः किल तालसालसङ्काशाः ।
ह्यः कन्यकाद्य तरुणी प्रातर्वृद्धा भवत्येव ॥९९॥
मासादधिकायातं दिनद्वयं पुष्पदर्शनस्नाने ।
अद्यैव कलावत्या गर्भाशङ्काकुलं चेतः ॥१००॥
यौवनविभ्रमशापस्तनुनलिनीतुहिननिकरघनपातः ।
प्रसवदिनं नारीणां पातकमुग्रं स्तनयुगस्य ॥१०१॥
प्रसवहृतयौवनानामधोमुखे लज्जयेव कुचयुगले ।
भवति न पण्यवधूनां विक्रयचर्चा तृणेनापि ॥१०२॥
स्थविरत्वे पुरुषाणां भवन्ति सुखजीविकाः परिज्ञानैः ।
यौवननाशे वेश्या यदि परमटति स्फुटं भिक्षाम् ॥१०३॥
तस्माज्जनकाभावादविकलमापत्स्यमाननिजविभवम् ।
अधिकरणपत्रलिखितं प्रयच्छ सुमते कलावत्यै ॥१०४॥
इत्युक्ते कुट्टन्या सोत्साहः प्रीतये वणिक्तनयः ।
आपत्स्यमानमखिलं प्रददौ हृष्टः कलावत्यै ॥१०५॥
अथ शिथिलादरया स द्वित्रैर्दिवसैः समेत्य कङ्काल्या ।
कृतसङ्केतः कङ्कः ## श्रुत्यै कलावतीमूचे ॥१०६॥
अयि रागदग्धहृदये कलावति व्रतवतीव कस्य त्वम् ।
एष त्वामर्थयते ठक्कुरपुत्रो रणविलासः ॥१०७॥
देवगृहगज्जदिविरस् तव सततप्रार्थनानुबन्धेन ।
पदमुक्तिधन्यकाले गणयति चण्डं मकरगुप्तः ॥१०८॥
अद्यापि महामात्यः सत्यरथस्त्वत्कृते समर्घदिने ।
प्रहिणोति वस्त्रयुगलं न च प्रसादस्त्वयास्य कृतः ॥१०९॥
प्रेक्षणके त्वां दृष्ट्वा साहसराजेन राजपुत्रेण ।
त्वद्गतसरभसमनसा वासवसेनावरुद्धिका त्यक्ता ॥११०॥
विरजसि वयसि नवेऽस्मिन्नेकश्चेदीप्सितस्तव स्वामी ।
तत्किं यौवनभङ्गे ददाति कश्चिद्धनं मुग्धे ॥१११॥
याभिर्यौवनसमये रागेण धनार्जनं परित्यक्तम् ।
ता एताः पर्यन्ते भस्माङ्ग्यश्चीवरिण्यश् च ॥११२॥
कुचकाञ्चनकलशवती नितम्बसिंहासना स्मितच्छत्रा ।
एकपुरुषोपसेव्या नूनं त्वं रतिरमणराज्यश्रीः ॥११३॥
भुक्तं मयास्य वित्तं दाक्षिण्यमिति प्रनष्टविभवेऽपि ।
मा त्वं कृथाः सुमध्ये ह्यो भुक्तं नाद्य तृप्तिकरम् ॥११४॥
दासी दासी तावद्यावत्पुरुषस्य किञ्चिदस्ति करे ।
क्षीणधनपुण्यराशेर्दुष्प्रापा स्वर्गनगरीव ॥११५॥
ह्यो दत्त्वार्थं कथमिव गच्छाम्यद्येति निवसते प्रायम् ।
कः कुरुते वेश्यानां तत्क्षणधनदानभोग्यानाम् ॥११६॥
इति कङ्कवदननिर्गतवचनशरैर्दारितो वणिक्तनयः ।
निश्चेष्टः क्षणमभवद्वैलक्ष्याद्वीक्ष्यमाणः क्ष्माम् ॥११७॥
अथ शूलबन्धुनिधनव्यसनाद्यङ्गप्रसङ्गकथनाद्यैः ।
शय्यावहारमकरोत्कलावती शङ्खतनयस्य ॥११८॥
अद्य व्रतनियमो मे दुःस्वप्ननिरीक्षणात्परं मातुः ।
षष्ठीप्रजागरेऽद्य च राजकुले तत्र मे शय्या ॥११९॥
अद्य वयस्यासूनोश्चूडाकरणं मृगाङ्कदत्तस्य ।
इत्यादिभिरपदेशैः सा प्रययौ कामिनां भवनम् ॥१२०॥
त्वरिता ततः प्रभाते कदाचिदभ्येत्य कम्पविकलाङ्गी ।
कङ्काली शङ्खसुतं जगाद भयसम्भ्रमार्तेव ॥१२१॥
उत्तिष्ठ पुत्र तूर्णं व्रज दत्त्वा शिरसि किञ्चिदविभाव्यम् ।
अस्मत्कृतेऽद्य यूनोः सपत्नकलहे वधो वृत्तः ॥१२२॥
नगरपतिर्विषमतरः कलावती मित्रमन्दिरं याता ।
त्वं तु वणिक्सुत साधुर्धनगन्धे धावति क्ष्मापः ॥१२३॥
तूलपटीं त्यज पृष्ठाद्गृहाण तूस्तीं घरट्टमालातः ।
को जानीते वर्त्मनि किं कुरुते कः परिज्ञाय ॥१२४॥
इत्युक्ते कङ्काल्या मिथ्यैव विशल्यवेश्मकरणाय ।
कृत्वा तदुक्तमखिलं पङ्कः प्रययौ कुमार्गेण ॥१२५॥
वेश्यालताः सरागं पूर्वं तदनु प्रलीनतनुरागम् ।
पश्चादपगतरागं पल्लवमिव दर्शयन्ति निजचरितम् ॥१२६॥
इति समयमातृकायाः कङ्काल्याः बुद्धिसंविभागेन ।
भुक्त्वा वणिजः सकलं कलावती पूर्णविभवाभूत॥१२७॥
इति बहुभिरुपायैः कुट्टनी कामुकानां
कृतसुकृतविहीना वञ्चनां सा कृतघ्ना ।
वनभुवि मृगबन्धं हन्त पश्यन्ति नित्यं
तदपि हरिणशावाः कूटपाशं विशन्ति ॥१२८॥
समयेन मातृका सा कृत्रिमरूपा कृता कलावत्याः ।
तन्नाम्नैव निबन्धः क्षेमेन्द्रेण प्रबद्धोऽयम् ॥१२९॥
कामुकप्राप्तिर्नामाष्टमः समयः ॥८॥