प्रमुखा विकल्पसूचिः उद्घाट्यताम्

अथ भुवनकोशः पञ्चमोऽध्यायः।

अथो यथाक्रमं भूमेः कृत्स्नायाः कथयामि ते।

विष्कम्भपरिधी वत्स बाहुल्यमपि च स्फुटम् ॥१


विष्कम्भोऽस्याः समुद्दिष्टो दशयोजनकोटयः।

लक्षाण्यपि च मेदिन्यास्तद्वदेकोनविंशतिः।

विष्कम्भत्रिगुणो यावद्विष्कम्भांशश्च पञ्चमः ॥२


मेदिन्याः परिधिस्तावद्योजनैः परिकीर्त्तितः।

द्वात्रिंशत्कोटयः षष्टिर्लक्षाणि परिधिः क्षितेः ॥३


अशीतिश्च सहस्राणि योजनानां प्रकीर्त्तितः।

योजनानां सहस्राणि विंशतिर्लक्षयोर्द्वयम् ॥४


इति बाहुल्यमेतस्याः क्षितेर्वत्स तवोदितम्।

चतुर्णां सलिलादीनां भूतादेर्महतोऽपि च ॥५


उत्तरोत्तरमुर्वीतो मानं शतगुणं विदुः।

तोयादिषु स्थितेयं भूश्चक्रवद्वृत्तशालिनी ॥६


पात्रस्थापरपात्रश्रीहारीण्यन्यान्यपि क्रमात्।

प्रमाणमिदमेतेषां क्षित्यादीनां तवोदितम् ॥७


द्वीपादीनां तु पाथोधिनिवेशः पुनरुच्यते।

द्वीपानामम्बुधीनां च सप्तानामपि मध्यगः ॥८


जम्बूद्वीपो भवेद्वृत्तः सहस्रशतविस्तृतः।

हिमाद्रि र्हेमकूटाख्यो निषधो नीलसंज्ञितः ॥९


श्वेतः शृङ्गी च षडमी भवन्त्यस्मिन् कुलाचलाः।

एतस्मादुत्तरेणाद्रे स्तुषाराङ्कितमेखलात् ॥१०


पूर्वापरायताः सर्वेऽप्यद्र यो यावदम्बुधि।

अन्तरा नीलनिषधौ जम्बूद्वीपस्य नाभिगः ॥११


वृत्तः पुण्यजनाकीर्णः श्रीमान् मेरुर्महाचलः।

उदग्याम्यायते मेरोः प्राग्भागे माल्यवान् गिरिः ॥१२


सेवितः सिद्धनारीभिरानीलनिषधायतः।

सुमेरोः पश्चिमेनाद्रि र्गन्धर्वकुलसङ्कुलः ॥१३


माल्यवत्सदृशायामो महीभृद्गन्धमादनः।

पर्वताबुभयान्तस्थौ हिमवान् शृङ्गवांस्तथा ॥१४


योजनानां सहस्रे द्वे सार्धे स्यादुच्छ्रयस्तयोः।

श्वेतश्च हेमकूटश्चेत्यन्तयोः पृथिवीधरौ ॥१५


योजनानां सहस्रार्धमेकैकस्योच्छ्रयस्तयोः।

निषधाचलनीलाद्रि माल्यवद्गन्धमादनाः ॥१६


सहस्रयोजनोच्छ्रायाश्चत्वारोऽमी पृथक्पृथक्।

एतेऽष्टावपि शैलेन्द्राः सहस्रद्वयविस्तृताः ॥१७


उच्छ्रयार्धमधश्चापि विलग्नाः सह मेरुणा।

मेरोः समुच्छ्रयोऽशीतिः सहस्राणि चतुर्युता ॥१८


षोडशाधः सहस्राणि द्वात्रिंशन्मूर्ध्नि विस्तृतिः।

जम्बूतरुर्महान् मध्ये सुमेरोर्निषधस्य च ॥१९


द्वीपस्यामुष्य यद्योगाज्जम्बूद्वीप इति श्रुतिः।

शृङ्गैर्हिमशिलानद्धैः सर्वतो हिमवानयम् ॥२०


महान्तो निवसन्त्यत्र पिशाचा यक्षराक्षसाः।

कूटैर्हेममयैर्हेमकूट इत्यवनीधरः ॥२१


यं सर्वतो निषेवन्ते सदा चारणगुह्यकाः।

तरुणार्कप्रभाजालप्रतिमो निषधाचलः ॥२२


निवसन्ति सुखं तत्र शेषवासुकितक्षकाः।

हेमाब्जकर्णिकाकारः सुमेरुर्मणिकन्दरः ॥२३


अत्रामराः साप्सरसस्त्रयस्त्रिंशद्वसन्ति ते।

वैडूर्यनद्धैः शिखरैर्नीलो नीलमहीधरः ॥२४


कलयन्ति तपोनित्या यत्र ब्रह्मर्षयः स्थितिम्।

श्वेतः स काञ्चनैः शृङ्गैर्गगनोल्लेखिभिर्वृतः ॥२५


दोर्दर्पशालिनां यत्र निवासस्त्रिदशद्विषाम्।

महानीलमयो बर्हिपिच्छच्छायो बहिर्महान् ॥२६


पितॄणामालयः शृङ्गैरुच्छ्रितैः शृङ्गवान् गिरिः।

हिमाचलस्य याम्येन क्षाराब्धिवृतमन्यतः ॥२७


वर्षं स्याद्भारतं नाम प्रथमं कार्मुकाकृति।

तुषारनिलयस्याद्रे र्हेमकूटाचलस्य च ॥२८


मध्ये किंपुरुषं नाम द्वितीयं वर्षमीरितम्।

अन्तरे हेमकूटस्य निषधस्य च भूभृतः ॥२९


हरिवर्षमिति प्रोक्तं तृतीयं वर्षमुत्तमम्।

निषधाचलनीलाद्रि माल्यवद्गन्धभूभृताम् ॥३०


चतुर्णां मध्यगं वर्षं तुर्यमस्मिन्निलावृतम्।

उत्तरे नीलशैलस्य याम्ये च श्वेतभूभृतः ॥३१


पञ्चमं वर्षमत्यर्थरम्यं रम्यकसंज्ञितम्।

श्वेतशृङ्गवतोः शैलराजयोरनयोरिह ॥३२


मध्ये षष्ठं हिरण्यांशुरम्यं हैरण्यकाद्वयम्।

अस्योत्तरे शृङ्गवतो याम्ये च क्षारवारिधेः ॥३३


कुरुवर्षाभिधं वर्षमुत्तरेण प्रचक्षते।

अन्तरा नीलनिषधौ प्राग्भागे माल्यवद्गिरेः ॥३४


भद्रा श्वमष्टमं वर्षं प्राक्समुद्रा न्तमीरितम्।

गन्धमादनशैलस्य प्रत्यक् प्राक्चापराम्बुधेः ॥३५


नवमं वर्षमाचार्याः केतुमालं प्रचक्षते।

इति प्रोक्तानि वर्षाणि नवामूनि मया तव ॥३६


साम्प्रतं पुनरेतेषां प्रमाणमवधारय।

प्रमाणेन सहस्राणि चतुस्त्रिंशच्चतुर्दिशम् ॥३७


योजनानामिहेच्छन्ति चतुरश्रमिलावृतम्।

प्राक्प्रत्यग्भागगे वर्षे तस्योदग्याम्यतः समे ॥३८


एकत्रिंशत्सहस्राणि किञ्चित् प्राक्प्रत्यगायते।

यान्युक्तानि षडन्यानि वर्षाण्येभ्योऽवराणि ते ॥३९


तेषां नवसहस्राणि प्रत्येकं विस्तृतिर्मता।

वर्षे किम्पुरुषे नार्यो नराश्च प्लक्षभोजनाः ॥४०


जीवन्त्ययुतमब्दानां जात्यजाम्बूनदत्विषः।

हरिवर्षे नरा नार्यो वसन्तीक्षुरसाशिनः ॥४१


सायुतं च सहस्रं ते जीवन्ति रजतत्विषः।

इलावृते नराः पद्मरागभासोद्गतास्तथा ॥४२


जम्बूफलरसाहाराः सपादायुतजीविनः।

नास्मिन् मेरुतटच्छन्ने तारकार्केन्दुरश्मयः ॥४३


स्वाङ्गप्रभाभिः किन्त्वत्र कृतोद्योता वसन्त्यमी।

कैरवोदरसच्छाया भद्रा श्वे साङ्गना नराः ॥४४


नीलाम्रकफलाहारा भवन्त्यत्रायुतायुषः।

दलत्कुवलयश्यामाः केतुमाले शरीरिणः ॥४५


शरदामयुतं तेषामायुः पनसभोजिनाम्।

श्वेताभो रम्यके रम्ये न्यग्रोधफलभुग्जनः ॥४६


हरिवर्ष इव प्रोक्तमेतस्मिन् मानमायुषः।

श्यामत्विषः स्त्रियो वर्षे पुमांसश्च हिरण्यके ॥४७


जीवन्त्ययुतमब्दानां सर्वेऽपि लकुचाशिनः।

कुरुष्वभीष्टदैर्वृक्षैर्जीवन्ति स्त्रीयुता नराः ॥४८


सपादमयुतं देवगर्भभा गौरकान्तयः।

पुण्यकर्मा वसत्येषु वर्षेषु निखिलो जनः ॥४९


शोकव्याधिजरातङ्कशङ्कोन्मुक्तः सदा सुखी।

वनैः कीर्णानि सर्वाणि कुसुमस्तबकानतैः ॥५०


उद्भिज्जाद्भिर्नदीभिश्च तैस्तैस्तुङ्गैश्च पादपैः।

उदञ्चद्वीचिमालेन लावणेनाब्धिना बहिः ॥५१


प्रक्षितोऽयमुक्तस्ते जम्बूद्वीपो मयालिः।

द्वादशाम्बुनिधावत्र पृथग्भूमिभृतः स्थिताः ॥५२


त्रयस्त्रयो दिशि दिशि स्फारोर्मिस्थगितोपलाः।

मैनाकश्च बलाहश्च चक्रनामा च दक्षिणे ॥५३


नारदाख्यो वराहाख्यः सौमकाख्यश्च पश्चिमे।

उदग्भागेऽपि च द्रो णकङ्कचन्द्रा इति त्रयः ॥५४


धूम्रको दुन्दुभिश्चैव सार्द्र कश्चेति पूर्वतः।

सहस्रं योजनानां ते दीर्घास्तस्यार्धमुच्छ्रिताः ॥५५


मग्नास्तदर्धमम्भोधौ विस्तृताश्च धराधराः।

जुष्टाः सर्वे सुरैः शृङ्गप्रौढिलीढविहायसः ॥५६


ज्वलितौषधयः कान्तविचित्रद्रुमवीरुधः।

द्वीपाः शाककुशक्रौञ्चशाल्मल्य इति च क्रमात् ॥५७


गोमेदः पुष्कराख्यश्च षडमी बाह्यतः स्थिताः।

क्षीराज्यदधिमद्येक्षुरसस्वाद्वम्भसोऽर्णवाः ॥५८


द्वीपान् शाकादिकानेते परिवार्य स्थिताः क्रमात्।

स्वद्वीपतुल्याः सर्वे ते प्रमाणेन यथाक्रमम् ॥५९


अमी शाकादयो द्वीपा जम्बूद्वीपप्रमाणतः।

यथाक्रमं स्युर्द्विगुणास्तथाम्भोनिधयोऽपिच ॥६०


शाके सप्ताद्र यस्तेषूदयो जलधरस्तथा।

नारको रैवतः श्यामो राजतोऽथाम्बिकेयकः ॥६१


चतुःसाहस्त्रिकस्तेषां विष्कम्भोऽर्धं समुच्छ्रयः।

तदर्धं भूप्रदेशश्च सेवितानां सुरर्षिभिः ॥६२


वृत्तानां द्वीपवत्तेषां बाह्यतोऽमून्यनुक्रमात्।

वर्षाणि सन्निविष्टानि सप्त तानि ब्रवीमि ते ॥६३


जलदाख्यं कुमारं च सुकुमारं मणीचकम्।

कुसुमोत्तरमोदाकीमहाद्रुमवनानि च ॥६४


कुशे विद्रुमहेमाख्यौ द्युतिमानथ पुष्पवान्।

कुशेशयो हरिक्ष्माभृन्मन्दरश्च कुलाचलाः ॥६५


विष्कम्भोऽष्टसहस्राणि तेषां प्रत्येकमीरितः।

तदर्धमुच्छ्रयस्तद्वदुच्छ्रयार्धमधोगमः ॥६६


उद्भिदं वेणुवत्संज्ञं सरालमथ लम्बनम्।

वर्षं श्रीमत्प्रभाकृच्च कपिलं पन्नगाभिधम् ॥६७


क्रौञ्चे क्रौञ्चोऽन्धकारश्च देवो गोविन्दवामनौ।

द्विविदः पुण्डरीकश्चेत्यस्मिन् सप्त कुलाद्र यः ॥६८


विष्कम्भोऽयुतमेतेषां विष्कम्भार्धं समुच्छ्रयः।

अधोगतिस्तदर्धं च वर्षाण्येषां तु बाह्यतः ॥६९


कुसलाख्याष्टवर्षाख्ये परापतमनोनुगे।

मुनिवर्षान्धकाराख्ये सप्तमं दुन्दुभीति च ॥७०


गिरयः शाल्मलिद्वीपे रक्तः पीतः सितस्तथा।

वैपुल्यमेषां द्वात्रिंशत्सहस्राणि प्रचक्षते ॥७१


वैपुल्यार्धं समुच्छ्रायस्तदर्धमवनौ गतिः।

वर्षे शान्तभयं वीतभयं चेत्यत्र संस्थिते ॥७२


गोमेदे तु सुरश्चेति कुमुदश्चेति भूधरौ।

योजनानां चतुःषष्टिस्तौ सहस्राणि विस्तृतौ ॥७३


उच्छ्रायो विस्तरस्यार्धं तदर्धं चाप्यधोगतिः।

धातकीखण्डनामास्य मध्ये वर्षमुदीरितम् ॥७४


अस्त्यद्रिः पुष्करद्वीपे मानसोत्तरसंज्ञितः।

बाह्यतो वर्षमेतस्य महावीतमिति स्मृतम् ॥७५


विस्तृतोऽष्टौ सहस्राणि शैलोऽयं द्वे तथायुते।

सहस्रशतमन्यच्च सुरसिद्धर्षिसेवितः ॥७६


व्यासार्धेनोच्छ्रयस्तस्य तदर्धेनाप्यधोगमः।

सुरेशानां नगर्योऽस्मिन् मया वत्स निवेशिताः ॥७७


ऐन्द्री वस्वोकसारा प्राग् याम्या संयमनी ततः।

प्राचेनसी सुखा पश्चात्तथा सौम्युत्तरे विभा ॥७८


धर्मरक्षार्थमेतासु चत्वारश्चतसृष्वपि।

तथा लोकव्यवस्थार्थं पृथग्लोकभृतः स्थिताः ॥७९


लोकालोकाचलः स्वादुसलिलाद्द्विगुणो बहिः।

स्वादूदाब्धिप्रमाणात्सविस्ताराद्द्विगुणोऽपि च ॥८०


समुच्छ्रितोऽसौ नियुतं नियुतार्धमधो गतः।

पञ्च क्रोशाः प्रतिदिशं नियुतानि तथा नव ॥८१


तद्वच्च नियुतस्यार्धं मेरुमध्यात्तदन्तरम्।

समुद्भासितदेहार्धस्तिग्मांशोः किरणैरयम् ॥८२


तत्समेन च भूम्यर्धेनावृतः परतः पुनः।

भौतान्यावरणान्युर्व्या यस्यैतानि स्थितान्यधः ॥८३


बाह्यतोऽपि च भूम्यूर्ध्वं निविष्टानि तथानघ।

इति वत्स तव प्रोक्तः सन्निवेशोऽखिलः क्षितेः ॥८४


स्थितिं गतिं च कथयाम्यर्कादीनामतःपरम्।

सूर्येन्दुधिष्ण्यज्ञसितभौमार्कित्रिदशार्चिताः ॥८५


सप्तर्षयो ध्रुवश्चेति भूमेरूर्ध्वं क्रमात् स्थिताः।

चत्वारि द्वे तथा भूमेरूर्ध्वमा सूर्यनन्दनात् ॥८६


षडेवमन्तराणि स्युः सहस्राणां शतं शतम्।

ग्रहान्तराणि यान्यन्यान्यवशिष्टान्यनुक्रमात् ॥८७


तानि चत्वार्यपि द्वे द्वे लक्षे प्रोक्तानि मानतः।

धरित्रीध्रुवयोर्मध्ये योजनानां चतुर्दश ॥८८


नियुतानि समुत्सेधस्त्रैलोक्यस्य प्रकीर्त्तितः।

एकाथ द्वे चतस्रोऽष्टावन्तरं कोटयः क्रमात् ॥८९


महोजनस्तपःसत्यलोकानामुपरि ध्रुवात्।

ये स्थिताः सत्यलोकोर्ध्वमधस्तादण्डकर्परात् ॥९०


एका कोटिर्भवेत्तेषां पञ्चाशन्नियुतान्विता।

अथावरणयोगोऽस्य विहितः पद्मजन्मना ॥९१


यथैवाधस्तथा निर्यक्तथैवोर्ध्वमपि क्रमात्।

वहेऽब्दाः प्रवहे सूर्यः स्थितः शीतांशुरुद्वहे ॥९२


संवहस्थानि नक्षत्राण्यावहस्थाः पुनर्ग्रहाः।

सप्तर्षयः परिवहे ध्रुवश्चापि परावहे ॥९३


प्रदक्षिणममी सप्त मरुतो भ्रमयन्त्यमून्।

मेघीभूतः स्थितो मध्ये सुमेरुक्ष्माभृति ध्रुवः ॥९४


समस्तमपि तद्बद्धं ज्योतिश्चक्रं भ्रमत्यदः।

सप्ताश्वेनैकचक्रेण रथेन रथिनां वरः ॥९५


तेजोमयेन सततं भ्राम्यति ज्योतिषां पतिः।

केतुमालेरजन्यर्धं करोत्यस्तं कुरुष्वपि ॥९६


मध्यन्दिनं च भद्रा श्वेस्तं गच्छन् भारते रविः।

रसाब्धिपक्षसङ्ख्यानि योजनानि निमेषतः ॥९७


सप्तविंशतिकां चाष्टौ भागान्सर्पत्यहर्पतिः।

योजनान्यध्विनन्दर्नु गुणसङ्ख्यानि काष्ठया ॥९८


नवांशकचतुष्कं च क्रामत्यहिमदीधितिः।

वह्न्यग्निवसुखेन्द्र क्ष्मासङ्ख्यातान्यब्जिनीपतिः ॥९९


योजनस्य त्रिभागं च प्रयाति कलयैकया।

वियत्खव्योमभूताश्विगुणपावकसङ्ख्यया ॥१००


योजनान्युष्णकिरणो मुहूर्तेन प्रसर्पति।

रात्र्यहेण सहस्राणि पञ्चाशन्नवकोटयः ॥१०१


लक्षाणि सप्तनवतिर्गतिः स्यात् तिग्मरोचिषः।

मध्येन पुष्करद्वीपस्यार्को गत्यानया व्रजन् ॥१०२


नभस्तलेन पुनरप्युदयादुदयं श्रयेत्।

इत्थं गतिरियं सम्यक्तिग्मभानोर्निरूपिता ॥१०३


गतिं चन्द्र ग्रहर्क्षाणां भोगं चार्काद्विभावयेत्।

प्रोक्तं तवेत्यहोरात्रप्रमाणमधुनानघ।

पक्षमासर्तुवर्षादीन्व्यवहाराय कल्पयेत् ॥१०४


इति निगदित एष द्वीपशैलाम्बुधीना।

मवनिवलयवर्त्ती कार्त्स्न्यतः सन्निवेशः।

गतिरपि दिनभर्त्तुः कीर्त्तिता विश्वमानं।

पुनरिह युगधर्मं कीर्त्त्यमानं निबोध ॥१०५


इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे भुवनकोशाध्यायः पञ्चमः।