प्रमुखा विकल्पसूचिः उद्घाट्यताम्

अधुना अयं परमार्थः स्तूयते।अयं साधकानां स्वार्थः।अथवा समर्थसाधनेषु अपि समर्थतरः अयं योगः।१.३.१
मूलतः सुगमः अपि जनानां दुर्गमः जाताः यतो हि तस्य सत्समागमरूपं रहस्यम् अज्ञातम्।।१.९.२
कालान्तरफलप्रदानि नाना साधनानि।सद्यःफलदः आत्मसाक्षात्कारः।वेदशास्त्राणां सारः अनेन अनुभूयते।।१.९.३
सर्वत्र वर्तते परम् अणुमात्रम् अपि न दृश्यते।उदासीनम् अस्ति परम् एकत्र कुत्रापि न दृश्यते।।१.९.४
आकाशे गुप्तमार्गाः सन्ति, तान् समर्थाः योगिनः जानन्ति।ते गुह्यार्थाः इतरैः न ज्ञायन्ते।।१.९.५
सारस्य अपि सारभूतः, अखण्डः, अक्षयः, अपारः, तस्करैः अपि अनपहार्यः अयं परमार्थः।।१.९.६
न तस्य राजभयं विद्यते, न तस्य अग्निभयं विद्यते,अथवा न तस्य श्वापदभयम् अपि विद्यते।।१.९.७
परब्रह्म देशतः न विचाल्यते, न वा विचलति।कालतोऽपि तत् न चलति इति स्थिरम्।।१.९.८
ईदृशः अयं निजः निधिः, यः कदापि न परिवर्तते।महता कालेन अपि न वर्धते, न वा ह्रसते।१.९.९
सः न क्षीयते, न लुप्यति।तथापि गुरुदत्तेन अञ्जनेन विना दृग्गोचरः अपि न भवति।।१.९.१०
पूर्वं ये समर्थाः योगिनः आसन्, तेषाम् अपि अयं निजस्वार्थः। अयं परमगुह्यः परमार्थः इति उच्यते॥१.९.११
यैः अन्विष्टः, तैः अर्थः लब्धः।अन्येषां विद्यमानः अपि अर्थः बहुभिः अपि जन्मभिः अलभ्यः जातः।१.९.१२
परमार्थस्य अपूर्वता एवं यद् जन्ममरणयोः वार्ता अपि नावशिष्यते।सायुज्यमोक्षः तु निकटे लभ्यते॥१.९.१३
विवेकेन माया अस्तं गच्छति।विचारेण सारासारबोधः भवति।परब्रह्म चित्ते भासमानं भवति॥१.९.१४
ब्रह्म अपरिच्छिन्नं भासते।तत्र ब्रह्माण्डं लुप्तं भवति।पञ्चभूतात्मकः प्रपञ्चः तुच्छत्वं गच्छति॥१.९.१५
प्रपञ्चस्य मिथ्यात्वं ज्ञायते।माया कल्पिता इति भासते।शुद्धः आत्मा विवेकेन गृह्यते॥१.९.१६
यदा चित्ते ब्रह्मस्थितिः स्थिरा भवति, तदा सन्देहः ब्रह्माण्डात् दूरं विद्रवति।दृश्यस्य जीर्णं वस्त्रं शीर्णं भवति॥१.९.१७
ईदृशः अयं परमार्थः।यः अनुतिष्ठति तस्य निजः स्वार्थः।एनं समर्थं समर्थत्वेन कतिधा सम्बोधयामि? ॥१.९.१८
परमार्थबलात् ब्रह्मादयः अपि विश्रमं लभन्ते।योगिनः च परब्रह्मणि तन्मयतां लभन्ते॥१.९.१९
ये सिद्धाः, साधवः, महानुभावाः, तेषां विश्रान्तिस्थानं परमार्थः।ये अज्ञाः परं सात्त्विकाः जीवाः, तेषां सत्सङ्गवशात् अन्तिमं विश्रान्तिस्थानं परमार्थः॥१.९.२०
परमार्थः नाम जननसाफल्यम्।परमार्थः संसारतारकः।परमार्थः धार्मिकस्य परलोकप्रदर्शकः॥१.९.२१
परमार्थः तापसानां साधकानां च आधारः।परमार्थः भवसागरस्य पारं दर्शयते॥१.९.२२
यः परमार्थी सः राज्यधारी।यस्य परमार्थः नास्ति, सः याचक:।अरे अस्य परमार्थस्य योग्यता अन्यत्र कुत्र वा स्यात्?॥१.९.२३
अनन्तजन्मभिः पुण्यं सम्पादितं चेत् परमार्थः भवति।ततः मुख्यस्य परमात्मनः अनुभूतिः जायते॥१.९.२४
येन अयं परमात्मा अभिज्ञातः, तेन एव जन्म सफलं कृतम्।अन्यः पापी जनः कुलक्षयार्थं जातः॥१.९.२५
अस्तु।भगवत्प्राप्तिं विना यः संसारमात्रे श्राम्यति, तस्य मूर्खस्य मुखम् अपि नावलोकनीयम्॥१.९.२६
चतुरेण परमार्थः अनुष्ठेयः।शरीरं सफलं कार्यम्।हरिभक्त्या पूर्वजाः उद्धरणीयाः॥१.९.२७
॥ नवमः समासः: पूर्णः॥

दशक ०१ - स्तवनम्   दासबोधः