प्रमुखा विकल्पसूचिः उद्घाट्यताम्

धन्यः धन्यः अयं नरदेहः।अस्य देहस्य इयम् अपूर्वता द्रष्टव्या, यत् परमार्थविषये या या इच्छा क्रियते , सा सा सिद्धिं याति॥१.१०.१
अस्य नरदेहस्य योगेन केचन भक्तिमार्गं प्राप्ताः।केचन परमवीतरागाः गिरिगुहां गताः। १.१०.२
एके तीर्थानि अटन्ति, एके पुरश्चरणानि अनुतिष्ठन्ति, एके निष्ठया अखण्डं नामस्मरणं कुर्वन्ति। १.१०.३
कैश्चित् तपः तप्तम्।कैश्चिद् उत्तमैः योगः अभ्यस्तः।कैश्चित् अभ्यासयोगेन वेदशास्त्रेषु व्युत्पत्तिः लब्धा। १.१०.४
कैश्चिद् हठेन निग्रहः कृतः, देहः अत्यन्तं पीडितः, कैश्चिद् भावबलेन देवः साक्षात्कृतः।१.१०.५
केचन विख्याताः महात्मानः जाताः,केचन ख्याताः भक्ताः: जाताः:, केचन सिद्धाः खेचराः जाताः।१.१०.६
एके तेजसि तेजोभूताः, एके जले एकीभूताः,एके जनानां पश्यतां वायुस्वरूपाः भूत्वा अदृश्यतां गताः।१.१०.७
केचन बहुविधाः भवन्ति, केचन जनानां पश्यतां ततः अपयान्ति, केचन उपविष्टाः अन्तः समुद्रादिषु नाना स्थानेषु हिण्डन्ते।१.१०.८
केचन हिंस्रपशून् आरोहन्ति, केचन जडवस्तूनि चालयन्ति, केचन तपोबलेन प्रेतान् संजीवयन्ति।१.१०.९
केचन तेजः मन्दीकुर्वन्ति, केचन जलानि विशोषयन्ति, केचन सर्वस्मिन् जगति वायुं निरधयन्ति।१.१०.१०
एवं यैः नाना सिद्धयः अधिगताः, ते हठनिग्रहाः दृढनिश्चयाः सिद्धाः लक्षशः जाताः॥१.१०.११
कस्यचित् मनःसिद्धिः, कस्यचिद् वाक्सिद्धिः, कस्यचिद् अल्पा सिद्धिः, कस्यचित् सकला सिद्धिः, इति नानाविधाः सिद्धाः विख्याताः जाताः।१. १०.१२
एके नवविधाभक्तरूपेण राजमार्गेण परलोकसुखं प्राप्य उत्तीर्णाः।एके योगिनः गुप्तमार्गेण ब्रह्मभुवनं प्राप्तवन्तः।१. १०.१३
एके वैकुण्ठं प्राप्ताः, एके सत्यलोके उषिताः, एके शिवस्वरूपाः भूत्वा कैलासम् अधिष्ठिताः।१।१०।१४
केचन इन्द्रलोके इन्द्राः जाताः।केचन पितृलोकं प्राप्ताः।केचन नक्षत्रेषु संस्थिताः।केचन क्षीरसागरे संस्थिताः।१. १०.१५
सलोकता समीपता सरूपता सायुज्यता इति एतासु चतःसृषु इष्टां मुक्तिं सेवितवन्तः।१. १०.१६
एवं सिद्धाः, साधवः, सज्जनाः अनन्ताः स्वहिते प्रवृत्ताः।(यस्य योगेन एतद् जातं) तस्य नरदेहस्य माहात्म्यं कियद् वर्णनीयम्?१. १०.१७
अस्य नरदेहस्य आधारेण, नाना साधनानां साहाय्येन, मुख्यतः सारासारविचारेण बहवः मुक्ताः॥१.१०.१८
अस्य नरदेहस्य योगेन बहवः उत्तमानि पदानि लेभिरे।अहम्भावत्यागेन स्वानन्देन सुखिनः बभूवुः॥१.१०.१९
नरदेहम् एत्य केवलम् ऊर्ध्वगतिं प्राप्ताः।संशयस्य मूलं तैः खण्डितम्॥१.१०.२०
पशुदेहे सद्गतेः उपायः नास्तीति सर्वत्र प्रवादः अस्ति।अतः नरदेहे एव परलोकप्राप्तेः सम्भवः॥१.१०.२१
सज्जनाः, महान्तः, ऋषयः, मुनयः, सिद्धाः, साधवः, समाधानिनः, भक्ताः, मुक्ताः, ब्रह्मज्ञाः, विरक्ताः, योगिनः, तपस्विनः,…१.१०.२२
...तत्त्वज्ञाः, योगाभ्यासिनः, ब्रह्मचारिणः, दिगम्बराः, संन्यासिनः, षड्दार्शनिकाः, तापसाः, नरदेहे एव सम्पन्नाः॥.१.१०.२३
अतः नरदेहः श्रेष्ठः, नाना देहेषु वरिष्ठः, यस्य साहाय्येन यमयातनारूपम् अरिष्टं निवार्यते॥१.१०.२४
एष नरदेहः स्वाधीन:।प्रायः पराधीनः नास्ति।तथापि अयं परोपकाराय क्षपणीयः, कीर्तिरूपेण रक्षणीयः१.१०.२५
अश्वाः, वृषभाः, धेनवः, महिष्यः, नाना पशवः स्त्रियः दास्यः कृपालुतया मोचिताः अपि केनचित् पुनः बध्यन्ते।१. १०.२६
तथा नरदेहः नास्ति।देहविषये इच्छा अस्तु वा मास्तु वा एतस्य बन्धनं कर्तुं न कोऽपि प्रभवति।१. १०.२७
नरदेहः पङगुः चेत्कार्याय न भवति।हस्तविहीनः अस्ति चेत्, परोपकाराय न भवति।१. १०.२८
नरदेहः अन्धः चेत् प्रायः व्यर्थः गतः।अथवा बधिरः चेत् निरूपणश्रवणं न भवति।१. १०.२९
नरदेहः यदि मूकः, तर्हि सन्देहं वक्तुं न शक्नोति।नरदेहः यदि अशक्तः, रुग्णः, जर्जऱः, तर्हि निरर्थकः भवति।१. १०.३०
मूर्खः वा अपस्मारी वा पिशाचगृहीतः नरदेहः अस्ति चेत् सः ध्रुवं निरर्थकः।१. १०.३१
एतादृशेन व्यङ्गेन रहितः, सकलः नरदेहः यस्य अस्ति, तेन त्वरया परमार्थमार्गः अनुसरणीयः।१. १०.३२
सति अपि साङ्गे देहे यः परमार्थं विस्मरति, मायाजाले च भ्रमति, सः कियान् मूर्खः?१. १०.३३
मृत्तिकां खनित्वा गृहं रचितम्।तच्च ‘मम’ इति दृढं भावितम्।तथापि तद् बहूनाम् अस्ति इति तेन न विज्ञातम्।१.१०.३४
मूषकाः वदन्ति मम गृहम्।।गोधाः वदन्ति मम गृहम्।मक्षिकाः वदन्ति मम गृहम् इति ध्रुवम्।१.१०.३५
कर्तकीटाः वदन्ति मम गृहम्।पिपीलिकाः वदन्ति मम गृहम्।पिपीलकाः वदन्ति मम गृहम् इति ध्रुवम्।१.१०.३६
वृश्चिकाः वदन्ति मम गृहम्।सर्पाः वदन्ति मम गृहम्।तैलपाः वदन्ति मम गृहम्।१.१०.३७
भ्रमराः वदन्ति मम गृहम्।कुम्भकर्यः (कीटविशेषाः) वदन्ति मम गृहम्। काष्ठकीटाः वदन्ति मम गृहं काष्ठेषु।१.१०.३८
मार्जाराः वदन्ति मम गृहम्।कुक्कुराः वदन्ति मम गृहम्।नकुलाः वदन्ति मम गृहम् इति ध्रुवम्।१.१०.३९
पङ्गुलाः (कीटविशेषाः) वदन्ति मम गृहम्।१.१०.४०
मत्कुणाः वदन्ति वदन्ति मम गृहम्।रक्तपिपीलिकाः वदन्ति मम गृहम्।मशकाः वदन्ति मम गृहम्।१.१०.४१
पित्सवः वदन्ति मम गृहम्।दंशमक्षिकाः वदन्ति मम गृहम्। सोटः (?) वदन्ति मम गृहम्। शतपद्यः वदन्ति मम गृहम्।१.१०.४२
बहुः प्रपञ्चः कीटानाम्।तेषां विस्तरः कियान् वर्णनीयः?एते सर्वे निश्चयपूर्वकं वदन्ति मम गृहम् इति।१.१०.४३
पशवः वदन्ति मम गृहम्।दास्यः वदन्ति मम गृहम्।गृहजनाः वदन्ति मम गृहम्।१.१०.४४
प्राहुणिकाः वदन्ति मम गृहम्।मित्राणि वदन्ति मम गृहम्।ग्रामस्थाः वदन्ति मम गृहम्।१.१०.४५
तस्कराः वदन्ति मम गृहम्।राजपुरुषाः वदन्ति मम गृहम्।अग्निः वदति मम गृहं भस्मसात्करोमीति।१.१०.४६
सर्वे वदन्ति मम गृहम्। अयं मूर्खः अपि वदति मम गृहम्।अन्ते यदा प्रपञ्चभारः असह्यः जायते, तदा अयं तं देशम् एव त्यजति।१.१०.४७
सर्वाणि गृहाणि भग्नानि।ग्रामः निर्मनुष्यः जातः।तेषु गृहेषु आरण्यानि श्वापदानि निवसन्ति।१.१०.४८
कीटः, पिपीलिका, वल्मीकाः, मूषकाः, इति एतेषाम् एव गृहम् इति निश्चितम्।मूर्खः वराकः अयं जनः गृहं त्यक्त्वा निर्गतः।१.१०.४९
एवमस्ति गृहाणां स्थितिः।ममत्वं मिथ्या इति स्वयम् अनुभूतम्।जन्म इति दिनद्वयात्मकः निवासः।कुत्रचित् पारणीयः।१.१०.५०
देहः मम इति वक्तव्यं तथापि सः देहः बहूनां कृते निर्मितः ।प्राणिनां मस्तकेषु निवासं कृत्वा यूकाः रक्तं पिबन्ति।१.१०.५१
कीटाः रोममूलानि खादन्ति।व्रणे कीटाः प्रादुर्भवन्ति।उदरे साक्षात् कृमयः जायन्ते।१.१०.५२
कीटजुष्टाः भवन्ति दन्ताः।कीटजुष्टे भवतः नेत्रे।कीटजुष्टौ भवतः कर्णौ।कर्णौ गोमक्षिकाभिः पूर्यन्ते।१.१०.५३
गोश्लिष्टाः कीटाः रक्तं पिबन्ति।चर्मकीटाः मांसं प्रविशन्ति।पित्सवः कीटाः अकस्माद् दष्ट्वा पलायन्ते।१.१०.५४
भ्रमराः दंशमक्षिकाः दशन्ति।शतपद्यः जलौकाः रक्तं पिबन्ति।वृश्चिकाः गोनस-स्फुरदादयः सर्पाः दशन्ति।१.१०.५५
आजन्म रक्षितो देहः अकस्माद् व्याघ्रेण नीयते, अथवा प्रसभं वृकेण भक्ष्यते।१.१०.५६
मूषकाः मार्जाराः दशन्ति।कुक्कुराः अश्वाः मांसं छिन्दन्ति।भल्लूकाः मर्कटाः प्राणान् विलोड्य निघ्नन्ति।१.१०.५७
उष्ट्राः दष्ट्वा उत्थापयन्ति।गजाः चूर्णयन्ति।वृषभाः अकस्मात् (शृङ्गैः) विद्ध्यन्ति।१.१०.५८
तस्कराः तडतडेति खण्डयन्ति।पिशाचाः गृहीत्वा घ्नन्ति।अस्तु , अस्य देहस्य स्थितिः एवं वर्तते।१.१०.५९
एवं शरीरं बहूनां विद्यते।मूर्खः मन्यते ‘मम शरीरम्’ इति।परं नैकानां जीवानाम् एतत् खाद्यमस्ति इति तापत्रयविवरणे उच्यते।१.१०.६०
देहः परमार्थे योजितः चेदेव तस्य साफल्यं जातम्।अन्यथा नाना आघातैः मृत्युमार्गेण व्यर्थः गच्छति।१.१०.६१
अस्तु, ये प्रापञ्चिकाः मूर्खाः ते परमार्थसुखं किं जानन्ति? तेषां मूर्खाणां कतिपयलक्षणानि अग्रे वक्ष्यन्ते।१.१०.६२
॥ इति प्रथमदशके दशमः समासः॥

दशक ०१ - स्तवनम्   दासबोधः समर्थरामदासकृतयः