समासचक्रम्
[[लेखकः :|]]
१९०९

श्रीः ।

समासचक्रम् ।


इदं पुस्तकं

हरिप्रसाद भागीरथजी

इत्यनेन

मुंबय्यां

"जगदीश्वर" यन्त्रालये

मुद्रितम्


आश्विन शुल्क ११ संवत १९५८ सन् १९०९.


श्रीः ।
श्रीवेङ्कटेश्वरायनमः ।
समासचक्रम् ।

॥ श्रीगणेशाय नमः॥

षोढा समासाः संक्षेपादष्टाविंशतिधा पुनः ।
नित्यानित्यत्वयोगेन लुगलुक्त्वेन च द्विधा ॥ १ ॥
तत्राष्टधा तत्पुरुषः सप्तधा कर्मधारयः ।
सप्तधा च बहुव्रीहिर्द्विगुराभाषितो द्विधा ॥ २ ॥
द्वंद्वोऽपि द्विविधो ज्ञेयोऽव्ययीभावो द्विधा मतः ।
तेषां पुनः समासानां प्राधान्यं स्याच्चतुर्विधम् ॥ ३ ॥
चकारबहुलो द्वंद्वः सचासौ कर्मधारयः ।
यस्ययेषांबहुव्रीहिः शेषस्तत्पुरुषःस्मृतः ॥ ४ ॥
कर्तृकर्मक्रियायुक्तः प्रयोगः स्यात्सकर्मकः ।
अकर्मकः कर्मशून्यः कर्मद्वन्द्वो द्विकर्मकः ॥ ५ ॥

अथ बालबोधार्थं प्रयोगविधिः कथ्यते । प्रयोगाः पंचविधाः । सकर्मकोऽकर्मकः कर्मणि भावे द्विकर्मकश्चेति भेदात् ॥ सकर्मकप्रयोगो यथा ॥ कृष्णो भक्तान् रक्षति ॥ १ ॥ अकर्मकप्रयोगो यथा ॥ कृष्णस्तिष्ठति ॥ २ ॥कर्मणिप्रयोगो यथा ॥ विष्णुना प्रपंचः क्रियते ॥ ३ ॥ भावे प्रयोगो यथा ॥ कृष्णेन स्थीयते ॥ ४ ॥द्विकर्मकप्रयोगो यथा ॥ यो धरामनं दुदोह ॥ ५ ॥ इति प्रयोगविधिः ॥

अथ समासविधिः कथ्यते ॥ समासाः षड्विधाः तत्पुरुषः कर्मधारयो बहुव्रीहिर्द्विगुर्द्वन्द्वोऽव्ययीभावश्चेति भेदात् ॥ तल्लक्षणानि तु ॥ पूर्वपदार्थप्रधानोऽव्ययीभावः ॥ उत्तरपदार्थप्रधानस्तत्पुरुषः ॥ उभयपदार्थप्रधानो द्वंद्वः ॥ अन्यपदार्थप्रधानो बहुव्रीहिः ॥ द्विगुकर्मधारयौ तत्पुरुषभेदौ ॥ समासार्थावबोधकं वाक्यं विग्रह इति ॥


तत्राष्टधा तत्पुरुषक्रमः ॥ प्रथमातत्पुरुषो द्वितीयातत्पुरुषस्तृतीयातत्पुरुषश्चतुर्थीतत्पुरुषः पंचमीतत्पुरुषः षष्ठीतत्पुरुषः सप्तमीतत्पुरुषो नञ्तत्पुरुषश्चेति ॥ तत्र प्रथमातत्पुरुषो यथा ॥ अर्ध पिप्पल्याः अर्थपिप्पली । पूर्वं कायस्येति पूर्वकायः॥ १॥ द्वितीयातत्पुरुषो यथा॥ कृष्णं श्रितः कृष्णश्रितः ॥ ग्रामं गतोग्रामगतः ॥ कांतारमतीतः कांतारातीतः ॥ २ ॥ तृतीयातत्पुरुषो यथा ॥ शंकुलया खंडः शंकुलाखंडः धान्येनार्थों धान्यार्थः ॥ मासेन पूर्वो मासपूर्वः ॥ ३ ॥ चतुर्थीतत्पुरुषो यथा ॥ यूपाय दारु यूपदारु ॥ कुंडलाय हिरण्यं कुंडलहिरण्यम् गुरवे दक्षिणा गुरुदक्षिणा ॥ ४ ॥ पंचमीतत्पुरुषो यथा ॥ अर्थात् अपेतःअर्थापेतः ॥ सिंहात् भयं सिंहभयम् ॥ वृश्चिकात् भीः वृश्चिकभीः ॥ ५ ॥षष्ठीतत्पुरुषो यथा ॥ कृष्णस्य भक्तः कृष्णभक्तः ॥ आम्रस्य फलं आम्रफलम् ॥राज्ञः पुरुषो राजपुरुषः ॥ ॥६॥ सप्तमीतत्पुरुषो यथा ॥ अक्षेषु शौंडः अक्षशौंडः ॥ कर्मणि कुशलः कर्मकुशलः ॥ विद्यायां निपुणः विद्यानिपुणः ॥ ७॥ नञ्तत्पुरुषो यथा ॥ न ब्राह्मणः अब्राह्मणः ॥ न वृषभः अवृषभः ॥ पापाभावः अपापम् ॥ धर्मविरुद्धोऽधर्मः ॥ ८ ॥ इति तत्पुरुषः ॥


अथ कर्मधारयः कथ्यते ॥ स च विशेषणपूर्वपदो विशेष्यपूर्वपदो विशेषणोभयपद उपमानपूर्वपदउपमानोत्तरपदः संभावनापूर्वपदोऽवधारणापूर्वपदश्चेति भेदात्सप्तविधः ॥ तत्र विशेष णपूर्वपदः कर्मधारयो यथा ॥ कृष्णश्चासौसर्पश्च कृष्णसर्पः ॥ कृष्णौ च तौ सर्पौ च कृष्णसर्पौ ॥ कृष्णाश्च ते साश्च कृष्णसर्पाः । रक्ता चासौ लता च रक्तलता ॥ रक्ते च ते लते च रक्तलते ॥ रक्ताश्चताः लताश्च रक्तलताः ॥ नीलं च तत् उत्पलं च नीलोत्पलम् ॥ नीले च ते उत्पले च नीलोत्पले ॥ नीलानि च तानि उत्पलानि च नीलोत्पलानि ॥ १ ॥ विशेष्यपूर्वपदः कर्मधारयो यथा ॥ वैयाकरणश्चासौ खसूचिश्च वैयाकरणखसूचिः ॥ गोपालश्चासौ बालश्च गोपालबालः ॥ २ ॥ विशेषणोभयपदः कर्मधारयो यथा ॥ शीतं च तत् उष्णं च शीतोष्णम् ॥३॥ उपमानपूर्वपदः कर्मधारयो यथा ॥ मेघ इव श्यामो मेघश्यामः कंबुवत् ग्रीवा कंबुग्रीवा ॥ चंद्रवत् मुखं चंद्रमुखम् ॥ ४ ॥ उपमानोत्तरप दः कर्मधारयो यथा ॥ पुरुषःव्याघ्र इव पुरुषव्याघ्रः नरः सिंह इव नरसिंहः ॥ ५ ॥ संभावनापूर्वपदः कर्मधारयो यथा॥ गुणः इति बुद्धिः गुणबुद्धिः ॥ ६ ॥ अवधारणापूर्वपदः कर्मधारयो यथा ॥ विद्यैव धनं विद्याधनम् ॥ अविद्यैव शृंखला अविद्याशृंखला॥ ७ ॥ मध्यमपदलोपी समासो यथा ॥ शाकप्रियः पार्थिवः शाकपार्थिवः ॥ देवपूजको ब्राह्मणः देवब्राह्मणः ॥ इति कर्मधारयः ॥


अथ बहुव्रीहिः कथ्यते ॥ सच द्विपदो बहुपदः सहपूर्वपदः संख्योत्तरपदः संख्योभयपदो व्यतिहारलक्षणो दिगंतराललक्षणश्चेति भेदात्सप्तविधः ॥ तत्र द्विपदबहुव्रीहिर्यथा ॥ चित्राः गावो यस्य सः चित्रगुः गोपः ॥ प्राप्तं उदकं यं सः प्राप्तोदको ग्रामः ॥ भुक्तं ओदनं येन सः भुक्तौदनो भूपः ॥ निर्जितः कामो येन सः निर्जितकामः शिवः ॥ विभक्तं धनं यैस्ते विभक्तधनाः बंधवः॥ दत्तः सूपो यस्मै सः दत्तसूपो ब्राह्मणः ॥ उद्धृतं धनं यस्मात्तत् उद्धृतधनं कुंडम् ॥ चक्रं पाणौ यस्य सः चक्रपाणिः हरिः । करस्थितं धनं यस्य सःकरस्थितधनो वणिक् ॥ पुष्पिताः द्रुमाः यस्मिन् सः पुष्पितद्रुम आरामः ॥ बहवो यज्वानो यस्यां सा बहुयज्वा शाला ॥ पुष्पिताःद्रुमाः यस्मिन् तत् पुष्पितद्रुमं वनम् ॥ खरस्य मुखमिव मुखं यस्य सः खरमुखस्तुरगः ॥ उष्ट्रस्य मुखमिव मुखं यस्य सः उष्ट्रमुखो यक्षः ॥ उच्चैर्घटो यस्याः सा उच्चैर्घटा नारी ॥ अंगगात्रोदरस्तनकंठौष्ठदंतमुखाक्षिकेशाः स्त्रियां बहुव्रीहौ ईबंता भवंति ॥ ते च यथा ॥ सुंदरं अंगं यस्याः सा सुंदरांगी ॥ शोभनं गात्रं यस्याः सा सुगात्री ॥ कृशं उदरं यस्याः सा कृशोदरी ॥ चारू स्तनौ यस्याः सा चारूस्तनी ॥ इंदीवरे इव अक्षिणी यस्याः सा इंदीवराक्षी ॥ कंबुरिवकंठो यस्याः सा कंबुकंठी ॥ कुटिला केशाः यस्याः सा कुटिलकेशी ॥इतरेषां अंगादिवाचकानां स्त्रीत्वेऽपि आबंतत्वमेव ॥ चारुदेहा विस्तृतालका आवृतकुचा कुंददशनेत्यादि । उरुपृथुलघुबहुपटुऋजुस्वादुचारुमृदुशब्दानां स्त्रीलिंगविशेषणत्वे ईबंतत्वमपि ॥ यथा ॥ मृद्वी शाटी लध्वी भाषेत्यादि॥ इति द्विपदबहुव्रीहिः ॥ बहुपदो यथा ॥ अधिक उन्नतःअंसो यस्य सः अधिकोन्नतांसः ॥ सहपूर्वपदो यथा ॥ सह कृष्णेन वर्तत इति सकृष्णः ॥ सह पुत्रेण वर्तत इति सपुत्रः ॥ रामेण सह वर्तत इति सरामः ॥ संख्योत्तरपदो यथा ॥ दशा नां समीपे ये संति ते उपदशाः ॥ संख्योभयपदो यथा ॥ द्वौ वा त्रयो वा द्वित्राः ॥ व्यतिहारलक्षणो यथा ॥ केशेषुकेशेषु गृहीत्वा इदं युद्धं प्रवर्तत इति केशाकेशि युद्धम् ॥ दंडै दंडैः कृत्वा इदं युद्धं प्रवर्तत इति दंडादंडियुद्धं । दिगंतराललक्षणो यथा ॥ दक्षिणस्याःपूर्वस्याश्च दिशोर्यदंतरालं सा दक्षिणपूर्वा ॥ इति बहुव्रीहिः ॥


अथ द्विगुः ॥ द्विगुसमासो द्विविधः एकवद्भावी अनेकवद्भावी चेति ॥ एकवद्भावी द्विगुर्यथा ॥ त्रयाणां शृंगाणां समाहारस्त्रिशंगम् ॥ पंचानां फलानां समाहारः पंचफली ॥ अनेकवद्भावी द्विगुर्यथा ॥ सप्त च ते ऋषयश्च सप्तर्षयः ॥


अथ द्वंद्वः ॥ द्वंद्वोऽपि द्विविधः इतरेतरसमाहारभेदात् ॥ इतरेतरद्वंदो यथा ॥ प्लक्षश्च न्यग्रोधश्च प्लक्षन्यग्रोधौ ॥ रामश्च कृष्णश्च रामकृष्णौ ॥ समाहार द्वंदो यथा ॥ हरिश्च हरश्च गुरुश्च एषां समाहारः हरिहरगुरुः ॥ प्राणितूर्यसेनांगानां द्वंद्वैकवद्भावः ॥ प्राण्यंगे यथा ॥ पाणी च पादौ च मुखं च पाणिपादमुखम् ॥ तूयाँगे यथा ॥ मार्दंगिकश्च वैणविकश्च मादगिकवैणविकम् ॥ शंखश्च पटहश्च शंखपटहम् ॥ सेनांगे यथा ॥ राजन्याश्च रथाश्च अश्वाश्च राजन्यरथाश्वम् ॥ इति द्वंद्वः ॥


अथाव्ययीभावः ॥ स यथा ॥ तटं तटं प्रत्यनुतटम् ॥ गिरिंगिरिं प्रत्यनुगिरि ॥ क्रममनतिक्रम्य वर्तत इति यथाक्रमम् ॥ वेलायामित्यधिवेलम् ॥ कुंभस्य समीपे वर्तत इत्युपकुंभम् ॥ मक्षिकाणामभावो निर्मक्षिकम् ॥ हिमस्य अत्ययः अतिहिमम् ॥ अव्ययीभावस्याव्ययत्वात्त्रिषु लिंगेषु समानं रूपम् ॥ इति षट्समासा निर्णीताः ॥


अथ लुक्समासोऽलुक्समासश्च ॥ लुक्समासो यथा ॥ तनुरेव लता तनुलता ॥ कृष्णा एव मेघाः कृष्णमेघाः ॥अलुक्समासो यथा ॥ वने चरतीति वनेचरः ॥ पंके रोहतीति पंकेरुहम् ॥ मत्वर्थीयादयो यथा ॥ बुद्धिरस्यास्तीति बुद्धिमान् ॥ धनमस्यास्तीति धनवान् ॥ धीरस्य भावो धीरता ॥ जनानां समूहो जनता ॥ घटस्य भावो घटत्वम् ॥

वृक्षशाखा तत्पुरुषः श्वेताश्वः कर्मधारयः ।
रक्तवस्त्रो बहुव्रीहिर्द्वन्द्वश्चंद्रदिवाकरौ ॥ १ ॥
यल्लिंगं यद्वचनं या च विभक्तिर्विशेष्यस्य ।
तल्लिंगं तद्ववचनं सैव विभक्तिर्विशेषणस्यापि ॥ २ ॥
सदृशं त्रिषु लिंगेषु सर्वासु च विभक्तिषु ।
वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥ ३ ॥
आदौ कर्तृपदं वाच्यं द्वितीयादिपदं ततः ।
क्त्वातुमुनल्यप् च मध्ये तु कुर्यादन्ते क्रियापदम् ॥ ४ ॥

अथ कारकमुच्यते॥
कर्ता कर्म च करणं संप्रदानं तथैव च ।
अपादानाधिकरणमित्याहुः कारकाणि षट् ॥ ५ ॥
निर्देशे प्रथमा प्रोक्ता सैव चामंत्रणेष्वपि ।
द्वितीया कर्मणि प्रोक्ता तृतीया कर्तृकरणयोः ॥ ६ ॥
ज्ञानज्ञाप्येंऽगविकारे हेतावपि च इष्यते ।
तादर्थ्यं संप्रदाने च चतुर्थी स्याच्च सर्वदा ॥ ७ ॥
हेत्वपादानयोः पंचमी षष्ठी तु कर्तृकर्मसंबंधे ।
अधिकरणनिमित्ते सति सप्तमी स्याच्च विषयेऽपि ॥ ८ ॥
यदा कर्तरि प्रथमा स्यात्कर्मणि द्वितीया तदा ॥
यदा कर्तरि तृतीया स्यात्कर्मणि प्रथमा तदा ॥ ९ ॥
विशेषणं पुरस्कृत्य विशेष्यं तदनंतरम् ।
कर्तृकर्मक्रियायुक्तमेतदन्वयलक्षणम् ॥ १० ॥
प्रथमांतस्तृतीयांतः षष्ठ्यंतः कर्ता ।

द्वितीयांतं षष्ठ्यंतं कर्म ॥ तृतीयांतं करणम् ॥ चतुर्थ्यन्तं संप्रदानम् ॥ पंचम्यंतमपादानम् ॥ षठ्यर्थः

संबंधः॥ सप्तम्यंतमधिकरणम् ॥ इति कारकाणि ॥ तो ते तीत्या तें तीं ॥ १ ॥ त्यात त्यां ते त्याप्रत त्यांप्रत तीतें त्यांतें तीप्रत त्यांप्रत ॥ २ ॥ त्याने त्याणे तेणें त्यांनी त्यांणी त्यांहीं तेणेकरून त्यांकरून त्यांहीकरून त्याशी त्यांशी त्यासहवर्तमान त्यांसहवर्तमान त्यासह त्यांसह तिने तिणें तीकरून तीणेकरून त्यांकरून तिशी त्यांशी तीसह त्यांसह ॥ ३ ॥ त्याकारणे त्यांकारणें तीसाठी त्यांसाठी तदर्थ ॥ ४ ॥ त्यापासून त्यांपासून त्याहून त्यांहून त्यास्तव त्यांस्तव त्यापेक्षा त्यांपेक्षां तीपासून त्यांपासून तीहून त्यांहून तीस्तव त्यांस्तव तीपेक्षा त्यांपेक्षां ॥५ ॥ त्याचा त्यांचा त्यास त्यांस तिचा त्यांचा तीस त्यांस॥ ६॥ त्याचेठायीं त्यांचेठायीं त्यामध्ये त्यांमध्ये त्यांच्यामध्ये त्याजमध्ये त्यांजमध्ये त्यांत त्यांच्यांत त्याविषयी त्याच्याविषयी त्याजविषयी त्यांविषयी त्यांच्याविषयी त्यांजविषयी त्या निमित्त त्याच्यानिमित्त त्याजनिमित्त त्यांनिमित्त त्यांजनिमित्त तोअसतां ते असतां तिचेठायीं त्याचेठायीं तीमध्ये तिच्यामध्ये तिजमध्ये त्यामध्ये त्यांच्यामध्ये त्यांजमध्ये तीत तिच्यांत त्यांतत्यांच्यांत तीविषयी तिच्याविषयी तिजविषयी त्यांविषयी त्यांच्याविषयी त्यांजविषयी तीनिमित्त तिच्यानिमित्त तिजनिमित्त त्यांनि मित्त त्यांच्यानिमित्त त्यांजनिमित्त ती अस तां ते असतां ती असतां ॥७॥ हे अरे अगा अहो हो भो हे अगे गेअहो हो भो हे॥ संबोधनम् ॥ इतिसमासचक्रं समाप्तम् ॥

"https://sa.wikisource.org/w/index.php?title=समासचक्रम्&oldid=311622" इत्यस्माद् प्रतिप्राप्तम्