प्रमुखा विकल्पसूचिः उद्घाट्यताम्

समासलक्षणम् – श्रीरत्न मण्डनसूरिः

द्वंद्वः प्रथमाचाग्रध्वनिः स इतरेतरः समाहारः ।
आद्यः स्वलिंगवचनो ऽन्यः क्लीबश्चैकवचनान्तः ॥ १
प्रथमा च चश्च प्रथमाचौ । प्रथमाचौ अग्रे येषां ते प्रथमाचाग्राः । एवंविधा ध्वनयः शब्दा यस्मिन्सः प्र० (प्रथमाचाग्रध्वनिः) ।
स द्वंद्व द्विविधो भवति । कः । इतरेतरः । पुनः कः । समाहारः । एतावता द्वंद्वस्य द्विविधामुक्तम् । स्वलिंगवचने यस्य स तथा । अंत्यशब्दापेक्षया लिंगं, वाच्यसंख्यापेक्षया वचनं भवतीत्यर्थः । यथा । नेत्रे च नासिका च नेत्रनासिकाः । धवश्च खदिरश्च पलाशश्च धवखदिरपलाशाः । उत्तमश्च मध्यमश्च अधमश्च उत्तममध्यमाधमाः । पुरुषः केवलविशेषणोऽयम्‌ ।
अथ समाहारः । अश्वश्च वडवा च अश्ववडवम्‌ । गावश्च महिषाश्च गौमहिषम्‌ । इत्यादि ॥ टीका १ ॥

प्रथमाचाग्रौ त्वं गुणगुणिनौ गुणिसदृशलिंगवचनाभ्याम्‌ ।
मध्यस्थिततददोभ्यां समस्य बुध कर्म धारय वः ॥ २
प्रथ० । – हे बुध त्वं गुणगुणिनौ विशेषणविशेष्ये कर्मधारयके समासे समस्येति । (संटंकः ) कीदृशौ | प्रथमा च चश्च तावग्रे ययोस्तौ प्रथमाचाग्रौ । प्रथमान्तयोजिनः चकारावित्यर्थः । काभ्यां कृत्वा । मध्य० – मध्यस्थितौ च तौ तददसौ च ताभ्याम् । पुंस्त्रियोः प्रथमैकवचनांतस्यादःशब्दस्यापि प्रयोजनात्तद्ग्रहणम्‌ । कीदृशाभ्याम् । गुणी विशेष्यं तत्तुल्यलिंगवचने ययोस्ताभ्याम्‌ । यथा वीरश्चासौ पुरुषश्च वीरपुरुषः । मधुरा चासौ वाणी च मधुरवाणी । प्रसन्नं तत्‌ वदनं च प्रसन्नवदनम्‌ । एवं शेषवचनयोरपि । विशेष्यमपि विवक्षया विशेषणं स्यात्तेन नाभिः स्यात्सो नृपश्च नाभिनृपः । इत्यादि कर्मधारयः ॥ टीका २ ॥

संख्यासन्नप्रमुखाः संख्याभिर्दिग्दिशा सहोऽन्ये च ।
सर्वैः गुणिसमसामादिः यदा युक्ता बहुव्रीहौ ॥ ३
सं० – संख्यासन्नप्रमुखाः संख्याभिः संख्याशब्दैर्युक्ताः समस्ता भवन्तीति संबंधः ॥ संख्या संख्याशब्दास्ते च आसन्नप्रमुखाश्चेति द्वंद्वः । अत्र प्रमुखशब्देनासन्नार्था अदूराधिकादयश्च गृह्यन्ते । यथा द्विर्दश द्विदशाः २०॥ एवं त्रिदशादयोऽपि । द्वौ वा त्रयो वा द्वित्रा । एवं त्रिचतुरादयोऽपि सर्वत्र प्रमाणीसंख्याड्डः इति प्रत्ययः । आसन्ना दश येषां ते आसन्नदशा ९, ११ । वा एवं निकटनवादूरदशादयोऽपि । दिग्दिग्वाची शब्दो दिशा दिग्वाचियुक्तः स्याद्यथा । उत्तरस्याः पूर्वस्या दिशोः यदंतरालं सा उत्तरपूर्वा ऐशानी । एवं विशेषविदिशोऽपि वाच्याः | सहः सहशब्दः सर्वैः शब्दैः युक्तः स्याद्यथा । सह पुत्रेण वर्तते सपुत्रः । एवं सविद्यादयोऽपि । अन्ये सहविवर्जिताः शब्दाः सर्वैः शब्दैर्युक्ता भवन्ति । केन कृत्वा । गुणे सामादयित्वा गुणी विशेष्यं तेन समतुल्यलिंगवचन इत्यर्थः । सह अमादिभिर्द्वितीयादिषट्षड्विभक्तिवानेव वर्तते । इति सामादिः । गुणिसमश्च सामादिश्चेति विशेषणद्वंद्वस्ततो गुणिसमसामादिश्चासौ यत्र तेन गुणि० । विशेषतुल्यलिंगवचनेन द्वितीयाद्यंतेन शब्देन सर्वं सर्वैः समस्यते इत्यर्थः । यथा उच्चैः मुखं यस्य स उच्चैःमुखाः । उद्गतं यौवनं यस्य स उद्यौवनः कुमारः । एवं उद्रश्मिप्रभृतयोऽपि अव्ययपूर्वपदाः । नता इन्द्रा यं स नतेन्द्रः पार्श्वः । १ जितो मोहो येन स जितमोहो जिनः । २ दत्ता दक्षिणा यस्मै स दत्तदक्षिणः द्विजः । ३ वीतः रागो यस्मात्स वीतरागो जिनः । ४ शीता रश्मयो यस्य स शीतरश्मिरिन्दुः । ५ प्रादुर्भूता अंकूरा यस्यां सा प्रादुर्भूतांकुरा भूः । ६ विशेषणविशेषाभ्यां एते भेदा बहुव्रीहौ । धर्मे मतिर्यस्य स धर्ममतिः । दुःखस्य क्षयो यस्मात्स दुःखक्षयः । इत्यादयः विशेषणविशेष्यभावं विना भेदाः ॥ टीका ३ ॥

सप्तविभक्त्यंतपदैः प्रथमांतपदे समस्यमाने सः ।
परलिंगोऽनंतर इव तत्पुरुषो मुख्यपदयुगलः ॥ ४
सप्त० – सः समासः परस्य लिंगं यस्मिन्स तथा । अनंतरो बहुव्रीहिः स इव परलिंगः एताववना बहुव्रीहिस्तत्पुरुषश्च विशेष्यलिंगौ भवतः इत्यर्थः । मु० – प्रधानपदद्वयम्‌ । यथा ।
भव एव सागरः भवसागरः । शोभनः साधुः सुसाधुः । चन्द्र इव चन्द्रवद्वा सौम्यः । न जितः अजितः । इत्यादौ प्रथमातत्पुरुषः ।१।
वृक्षं आरूढः वृक्षारूढः । अतिक्रान्तः खट्वां अतिखट्वः द्वितीयातत्पुरुषः ।२। गुणैर्युक्तः गुणयुक्तः । परिणद्धो वीरूद्भिः परिवीरुत्‌ तृतीयातत्पुरुषः ।३।
जीवेभ्यो हितः जीवहितः। परिग्लानोऽध्ययनाय पर्यध्ययनः चतुर्थीतत्पुरुषः।४। पापाद्भीतः पापभीतः। निर्गतः कौशाम्ब्याः निष्कौशांबिः पञ्चमीतत्पुरुषः ।५।
राज्ञः पुरुषः राजपुरुषः । अर्धं पिप्पल्या अर्धपिप्पली षष्ठीतत्पुरुषः ।६।
धर्मे धीरः धर्मधीरः सप्तमीतत्पुरुषः ।७। ॥ टीका ४ ॥

स्यादव्ययपूर्वपदस्तदर्थमुख्योऽव्ययी स च क्लीबः ।
अनदंताल्लुप्स्यादेरादम्‌ चास्मिन्नपञ्चम्याः ॥ ५
अव्ययीभावः । अ० – अकारांतवर्जात्‌ । आत् अकारांतात्‌ । अपंचम्याः पंचमीवर्जस्यादेः ॥ यथा कुम्भस्य मालायाश्च समीपं उपकुम्भम् उपमालम् अस्ति १ पश्य २ शुशुभे ३ क्रुध्यति ४ उपकुम्भात्‌ अनघशोभा ५ शेते । एवं साधो: समीपं उपसाधु । वधोः समीपं उपवधु उपनदि । यथामुखं प्रत्यहं बलिषुरमित्यादिः ॥ टीका ५ ॥

संख्यार्थात्षष्ठ्यन्तं द्विगौ समाहारयुग्विशेष्यपदम्‌ ।
एकत्वमदंताड्डीराबंताद्वा षण्ढत्वम्‌ ॥ ६
संख्यावाचकात्‌ विशेषस्य षष्ठ्यंतत्वे उक्ते विशेषणस्यापि षष्ठ्यन्तत्वलाभात्‌ । द्विगौ षष्ठ्यंतात्संख्यापूर्वकविशेष्यमात्रपरः समाहारशब्दः प्रयुञ्जीत इति भावः । त्रयाणां लोकानां समाहारः त्रिलोकी । पंचराजीत्यादयोऽप्येवम्‌ । आबंताद्विकल्पेन डीप्रत्ययः । यथा तिसृणां मालानां समाहारः त्रिमाला त्रिमालम्‌ । इत्येतेषां इकाराद्यंतानां च षण्ढत्वं स्याद्यथा । द्विमुनि द्विनदि त्रिजगदित्यादि ॥ टीका ६ ॥
इति श्रीरत्नमंडनकृतं समासलक्षणं षड्विधम्‌ । श्री संवत १६ आषाढादि १७ वर्षे फल्गुनशुक्लप्रतिपदा षयरनयरे लीलालषितम्‌ ।
मुनिऋद्धिविजयपठनार्थम्‌ ॥

इति षट्समासप्रक्रिया समाप्ता ॥
इति श्रीरत्नमण्डनसूरिकृतं समासलक्षणमलेखि । श्रीरस्तु ।
इह यत्किंचिदशुद्धं शास्त्रविरुद्धं च लिखितमस्ति मया ।
शोध्यं श्रीसूरिवरैः प्रसादमध्याय्य तत्सर्वम्‌ ॥ १ ॥ श्रीरस्तु ॥

"https://sa.wikisource.org/w/index.php?title=समासलक्षणम्&oldid=123408" इत्यस्माद् पुनः प्राप्तिः