प्रमुखा विकल्पसूचिः उद्घाट्यताम्

समास:०१ ग्रन्थारम्भ:

श्रोतारः पृच्छन्ति ननु कोऽयं ग्रन्थः?किम् अत्र प्रतिपादितम्?अस्य श्रवणेन किं वा फलं प्राप्यते ? १.१.१
ग्रन्थस्य नाम दासबोधः।अयं गुरुशिष्यसंवादः।अत्र प्रतिपादितः विशदः भक्तिमार्गः॥ १.१.२
नवविधा भक्ति: तथा ज्ञानम्।उक्तं वैराग्यलक्षणम्।बहुधा अध्यात्मनिरूपणम्।निरूपितम्॥१.१.३
भक्त्या मनुष्याः निश्चयेन देवं प्राप्नुवन्ति इति अभिप्रायः अस्मिन् ग्रन्थे विद्यते।१.१.४
मुख्यभक्तेः निश्चयः, शुद्धज्ञानस्य निश्चयः, आत्मस्थितेः निश्चयः अत्र प्रतिपादितः। १.१.५
शुद्धोपदेशस्य निश्चयः, सायोज्यमुक्तेः निश्चयः,मोक्षप्राप्तेः च निश्चयः अत्र उक्तः॥ १.१.६॥
शुद्धस्वरूपस्य निश्चयः विदेहस्थितेः निश्चयः,अलिप्तत्वस्य निश्चयः अत्र उक्तः ॥ १.१.७॥
मुख्यदेवस्य निश्चयः, मुख्यभक्तस्य निश्चयः,जीवशिवयोः निश्चयः अत्र उक्तः ॥ १.१.८॥
मुख्यब्रह्मणः निश्चयः, नानामतानां निश्चयः,कोऽहम् इति निश्चयः अत्र उक्तः ॥१.१.९॥
मुख्यम् उपासनालक्षणं, नानाविधं कवित्वलक्षणं,नानाविधं चातुर्यलक्षणम् अत्र उक्तम् ॥ १.१.१०॥
मायोद्भवस्य लक्षणं, पञ्चभूतानां लक्षणानि, कर्ता कः इति अस्य लक्षणम् अत्र उक्तम् ॥ १.१.११॥
नाना विकल्पाः निवारिताः। नाना संशयाः छेदिताः।नाना आशंकाः उत्तरिताः, नाना प्रश्नाः च उत्तरिताः ॥ १.१.१२॥
एवं बहुधा निरूपितम् ।तथापि ग्रंथगर्भे यद् यद् उक्तं तत् सर्वम् एव अत्र अनूदितुं न शक्यते॥ १.१.१३॥
तथापि समग्रः दासबोधः दशकभेदेन विशदीकृतः ।तस्य तस्य दशकस्य अनुवादः।तस्मिन् तस्मिन् दशके उक्तः॥ १.१.१४॥
उपनिषदः, वेदान्तः श्रुतिः इति नानाग्रन्थानां सम्मतिः अत्र उक्ता।मुख्यतः शास्त्रसहिता आत्मप्रतीतिः अत्र उक्ता॥ १.१.१५॥
नाना सम्मतीनाम् अन्वयः अस्ति अतः मिथ्या इति वक्तुं न शक्यते।तथापि एतत् प्रत्यक्षानुभवयोग्यम् अस्ति ॥ १.१.१६॥
मत्सरेण एतं मिथ्या वदन्ति चेत्, सर्वे ग्रन्थाः, नाना ग्रन्थानां सम्मतयः,भगवद्वचनानि इति एतत् सर्वम् उच्छेदितं स्यात्।१.१.१७॥
शिवगीता, रामगीता, गुरुगीता, गर्भगीता, उत्तरगीता, अवधूतगीता, वेदः तथा वेदान्तः ॥ १.१.१८॥
भगवद्गीता, ब्रह्मगीता, हंसगीता, पाण्डवगीता, गणेशगीता, येमगीता, उपनिषदः, भागवतम् ॥ १.१.१९॥
इत्यादयः नाना ग्रन्थाः सम्मत्यर्थम् अत्र उदाहृताः। यथार्थ-निश्चयार्थं भगवद्वाक्यानि उदाहृतानि ॥१.१.२०
भगवद्वचने यस्य अविश्वासः, एतादृशः को वा पतितः स्यात्?अत्र तु भगवद्वाक्याविरहितं वचनं नास्ति। नसे ॥ १.१.२१॥
पूर्णग्रन्थम् अनालोच्य एव यः केवलं दूषणं ब्रूते, सः दुरात्मा।मत्सरेण सः दुराभिमानं प्रदर्शयति।१.१.२२॥
अभिमानात् जायते मत्सरः।मत्सरात् जायते तिरस्कारः। अग्रे क्रोधविकारः अनिवार्यतया प्रबलः भवति।१.१.२३॥
ऐसा अन्तरङ्गे नष्टः। कामक्रोधाभ्यां क्षुब्धः।अहंभावेन परिवर्तितः इति साक्षात् दृश्यते॥ १.१.२४॥
यः कामक्रोधाभ्या अवलिप्तः सः साधुः इति कथं वाच्यः?(कामी) राहुः अमृतसेवनोत्तरम् अपि मृत्युं प्राप्तः ॥ १.१.२५॥
अस्तु इदानीम् एतद् भाषणम्। अधिकारानुसारं ग्राह्यम्।तथापि अभिमानः त्याज्यः इति उत्तमोत्तमम् ॥ १.१.२६॥
पूर्वं श्रोतृभिः पृष्टं यद् अस्मिन् ग्रन्थे किं प्रतिपादितम्? तस्य उत्तरम् एतत् सङ्कलितरीत्या निरूपितम् १.१.२७॥
अथ श्रवणस्य फलं वदामि।सत्वरं क्रिया परिवर्तते, संशयस्य मूलम् अकस्मात् उच्छिद्यते ॥१.१.२८॥
सुगमः मार्गः प्राप्यते। न च दुर्गमसाधनस्य अपेक्षा विद्यते ।सायोज्यमुक्तेः मर्म ज्ञातं भवति॥ १.१.२९॥
नश्यन्ति अज्ञानं दुःखं भ्रान्तिः च । भवति शीघ्रम् एव अत्र ज्ञानप्राप्तिः ।एवम् अस्ति फलश्रुतिः। अस्मिन् ग्रन्थे ॥ १.१.३०॥
योगिनां यत् परमं भाग्यम् इति उच्यते,तद् वैराग्यं सिद्ध्यति।यथायोग्यं चातुर्यं सविवेकम् अवगम्यते १.१.३१॥
भ्रान्ताः दुर्गुणाः अवलक्षणाः जनाः सुलक्षणाः जायन्ते ।धूर्ताः तार्किकाः विचक्षणाः जनाः समयज्ञाः जायन्ते ॥ १.१.३२॥
अलसाः जनाः उद्योगिनः भवन्ति।पापिनः पश्चात्तापम् अनुभवन्ति।निन्दकाः अपि वन्दन्ते भक्तिमार्गम् ॥ १.१.३३॥
बद्धाः मुमुक्षवः भवन्ति।मूर्खाः अतिदक्षाः भवन्ति ।अभक्ताः अपि भक्तिमार्गेण मोक्षं प्राप्नुवन्ति । ॥ १.१.३४॥
नाना दोषाः नश्यन्ति । पतिताः पूताः भवन्ति ।प्राणी श्रवणमात्रेण उत्तमां गतिं प्राप्नुयात् । ॥ १.१.३५॥
देहबुद्धिजन्यानि नाना सङ्कटानि, संदेहजन्याः नाना प्रश्नाः,संसारजन्याः नाना उद्वेगाः नश्यन्ति श्रवणमात्रेण ॥ १.१.३६॥
एवम् अस्य फलश्रुतिः यत् श्रवणेन अधोगतिः निवार्यते ।मनसः विश्रमः समाधानं च जायेत ।१.१.३७॥
यस्य यथा भावः तस्य तथा लाभः यः पुरुषः मत्सरं कुर्याद् सः तमेव प्राप्नुयात्॥ १.१.३८॥

इति श्रीदासबोधे गुरुशिष्यसंवादे ग्रन्थारम्भलक्षणं नाम समासः प्रथमः ॥ १॥

वर्ग: दशक ०१ - स्तवनम् दासबोधः  समर्थरामदासकृतयः मराठीभाषितस्य संस्कृतेन
"https://sa.wikisource.org/w/index.php?title=समास:०१_ग्रन्थारम्भ:&oldid=129113" इत्यस्माद् पुनः प्राप्तिः