प्रमुखा विकल्पसूचिः उद्घाट्यताम्

हे प्रणवस्वरूप गजानन, एकदन्त, त्रिनयन, नमस्तुभ्यम्।भक्तजनान् कृपादृषट्या अवलोकय॥२.१.१
वेदमातः हे श्रीशारदे, ब्रह्मसुते, कृपावति, स्फूर्तिरूपे, मम अन्तःकरणे वस।२.१.२
सद्गुरुचरणं वन्दित्वा, रघुनाथस्मरणं कृत्वा, त्यागार्थं मूर्खलक्षणानि वदामि।२.१.३
एके मूर्खाः, एके मूर्खपण्डिताः।उभयोः लक्षणेषु श्रोतृभिः दक्षतया विवेकः कार्यः।२.१.४
मूर्खपण्डितलक्षणानां निरूपणम् अग्रिमे समासे वर्तते।तद् विचक्षणाः श्रोतारः दक्षाः भूत्वा श्रुण्वन्तु।२.१.५ अथ विचारः प्रस्तूयते।लक्षणानि अगणितानि, तथापि तेषु कतिपयानि तन्मयतया श्रुण्वन्तु।२.१.६
ये प्रापञ्चिकाः जनाः येषाम् आत्मज्ञानं नास्ति, ये केवलम् अज्ञाः, तेषाम् एतानि लक्षणानि।२.१.७
याभ्यां जातः, तयोः विरोधेन पत्नीं सखीतमां मन्यते, सः मूर्खः।२.१.८
सर्वान् गोत्रजनान् विवर्ज्य यः स्त्र्यधीनतया जिवति, तामेव आकूतं वदति, स मूर्खः।२.१.९
परस्त्रियां स्निह्यति, श्वशुरगृहे निवसति, अकुलजां कन्यां वृणोति, सः मूर्खः।२.१.१०
यः समर्थस्य पुरतः साहङ्कारं वर्तते, तेन सह स्वस्य समतां मन्यते, सामर्थ्यं विना प्रभुत्वं दर्शयते, सः मूर्खः।२.१.११
यः आत्मस्तुतिं करोति, स्वदेशे विपन्नः सन् अपि पूर्वजानां यशोगाने रमते, सः मूर्खः।२.१.१२
अकारणं यः हसति,बोधितः अपि विवेकं न बुद्ध्यते, बहुभिः सह वैरं करोति, सः मूर्खः॥२.१.१३
स्वकीयान् तिरस्करोति, परकीयैः सख्यं करोति, परन्यूनं तस्य अनुपस्थितौ वदति ,सः मूर्खः॥२.१.१४ बहुषु जागरितेषु जनेषु स्वयं यः शेते,परस्थले भुङ्क्ते, सः मूर्खः॥२.१.१५
यः स्वस्य मानं स्वयं करोति, स्वस्य अपमानं स्वयं करोति, सप्तसु व्यसनेषु यस्य मनः अवरुद्धं भवति,सः मूर्खः॥२.१.१६
परसाहाय्यस्य आशया यः प्रयत्नं त्यजति,आलस्ये सन्तोषं मन्यते, सः मूर्खः॥२.१.१७
गृहे यः विवेकं वदति परं सभायां लज्जते, यः वक्तुं बिभेति, सः मूर्खः॥२.१.१८व् यः श्रैष्ठेन सह सख्यभावेन वर्तते,यः उपदेशाद् उद्विग्नः भवति, सः मूर्खः॥२.१.१९
ये न शृण्वन्ति, तान् यः उपदिशति, गुरुजनेषु स्वविद्वत्तां प्रदर्शयति, आर्यजनान् सङ्कटे पातयति, सः मूर्खः॥२.१.२०
यः सहसा निर्लज्जतया विषयान् सेवते, अमर्यादं विषयान् सेवते, सः मूर्खः॥२.१.२१
सत्यपि रोगे यः औषधं न सेवते, यः पथ्यं न पालयते, यः प्राप्ते सन्तोषं मन्यते(?), स मूर्खः॥२.१.२२
सङ्गं विना यः विदेशं याति, परिचयं विना यः सङ्गं करोति, महापुरे यः उत्पतति, स मूर्खः॥२.१.२३
यत्र मानः तत्र सततं गच्छति, मानं रक्षितुं न जानाति, स मूर्खः॥२.१.२४
सेवकः धनाढ्यः जातः चेत् तस्य दासत्वं यः अङ्गीकरोति, यः सर्वदा दुश्चित्तः भवति, स मूर्खःज्ज्॥२.१.२५
अपराधस्य कारणम् अविचिन्त्य (अथवा) अपराधं विना एव यः दण्डयते, स्वल्पार्थं यः कार्पण्यं प्रकटयते, स मूर्खः॥२.१.२६
यः देवकार्याद्विमुखः, पितृकार्याद् विमुखः यः सामर्थ्यं विना वाचालः यस्य मुखे अपशब्दाः सन्ति, स मूर्खः॥२.१.२७
यः गृहजनेषु क्रोधालुः, परं बाह्यजनेषु दयालुः, स मूर्खः॥२.१.२८
यः नीचजनैः सङ्गतः, पराङ्गनया सह यस्य एकान्तः यः मार्गेण गच्छन् खादति, स मूर्खः॥२.१.२९
यः उपकारं न जानाति, किं च उपाकारकं प्रति अपकारं करोति,यस्य करणं न्यूनं वचनम् अधिकं, स मूर्खः॥२.१.३०
यः क्रोधनः, दन्दशूकः, अलसः, मलिनः,मनसा कुटिलः,धैर्यहीनः, स मूर्खः॥२.१.३१
यस्य न विद्या, न वैभवं,न धनं न पुरुषार्थः, न सामर्थ्यं न मानः तथापि यः शुष्कम् अभिमानं वहते,सः मूर्खः॥२.१.३२
कातरः, धूर्तः, असत्यवादी, कुकर्मा, कुटिलः,निर्लज्जः, यस्य निद्रा अतिमात्रा, सः मूर्खः॥२.१.३३
उत्कृष्टं वस्त्रं धारयते, परं (मलविसर्गार्थं) चतुष्पथे उपविशति,सदा नग्नप्रायः दृश्यते, सः मूर्खः॥२.१.३४
यस्य दन्ताः, नेत्रे, कर्णौ, हस्तौ, वस्त्रं, चरणे इति एतत् सर्वदा मलिनं, सः मूर्खः॥२.१.३५
वैधृतिः, विनिपातः इत्यादिषु कुमुहूर्तेषु यः प्रस्थानं करोति, अपशकुनैः स्वघातं करोति, सः मूर्खः॥२.१.३६
क्रोधेन वा अवमानेन वा यः दुर्बुद्ध्या आत्मानं हन्ति, यस्य बुद्धिः दृढा नास्ति, सः मूर्खः॥२.१.३७
यः सुहृदः खेदयति, शब्दमात्रेण अपि तान् न सुखयति, परं नीचान् नमति, सः मूर्खः॥२.१.३८
आत्मानं बहुशः रक्षति, शरणागतान् तिरस्करोति, लक्ष्म्यां विश्वसिति, सः मूर्खः॥२.१.३९
पुत्रं कलत्रं कुटुम्बम् इति एव आश्रयं मत्वा यः ईश्वरं विस्मरति, सः मूर्खः॥२.१.४०
यथा कर्म तथा फलम् इति यः न जानाति, सः मूर्खः॥२.१.४१
स्त्रीणाम् अष्टगुणः कामः ईश्वरेण एव निर्मितः तथापि यः नाना स्त्रीः उद्वहते,सः मूर्खः॥२.१.४२
दुर्जनम् अनुसृत्य यः अतिमर्यादं वर्तते,स्पष्टान् अपि विषयान् यः न बुद्ध्यते, सः मूर्खः॥२.१.४३
यः देवद्रोही, गुरुद्रोही, मातृद्रोही, पितृद्रोही, ब्राह्मणद्रोही, स्वामिद्रोही, सः मूर्खः॥२.१.४४
यस्य परपीडया सुखं भवति, परसन्तोषेण सुखं जायते, गतं वस्तु यः अनुशोचति, सः मूर्खः॥२.१.४५
यत्र स्वस्य आदरः नास्ति तत्र यः भाषते, अपृष्टः अपि साक्षिवचनं ब्रूते, निन्द्यं वस्तु अङ्गीकुरुते, सः मूर्खः॥२.१.४६
स्वस्य वा परस्य वा गरिमाणं विलोप्य यः वदति, अमार्गेण यः याति, कुकर्मिभिः यः मैत्रं सम्पादयति, सः मूर्खः॥२.१.४७
स्वप्रतिष्ठां रक्षितुं यः न जानाति, सर्वदा विनोदान् करोति, अन्यैः उपहसितः चेत् क्रुद्धः सन् कलहोद्यतः भवति, सः मूर्खः॥२.१.४८
कठिनं पणं वदति, निष्र्प्रयोजनं वावदति, (यत्र) प्रयोजनं तत्र मुखदुर्बलः सन् मौनं साधयति स मूर्खः।२.१.४९
वस्राितभावेऽपि, शास्राभावेऽपि यः (सभायाम्) उच्चैः स्थानम् अध्यास्ते, यः गोत्रजेषु विश्वसिति, स मूर्खः।२.१.५०
यः तस्करं प्रति स्वपरिचयं ब्रूते, दृष्टं वस्तुजातं याचते, क्रोधवशात् स्वस्य एव अहिते प्रवर्तते, स मूर्खः।२.१.५१
यः हीनैः जनैः समत्वं प्रस्थापयति, यः अतिवदति, वामेन करतलेन यः पिबति, स मूर्खः।२.१.५२
यस्य मनसि समर्थविषये मत्सरभावः,यः अप्राप्यवस्तूनि अप्राप्य विषादं मन्यते, यः स्वगृहे एव चौर्यं कुरुते, स मूर्खः।२.१.५३
जगदीशं विहाय यः मनुष्ये विश्वसिति,पुरुषार्थं विना यः कालं नयति, स मूर्खः। २.१.५४
यः संसारदुःखसंसर्गात् देवम् अपवदति, यः मित्रस्य न्यूनं वदति, स मूर्खः।२.१.५५
यः स्तोकम् अपि अपराधं न क्षमते, यः सर्वदा तीक्णंस् प्रवर्तते, यः विश्वासघाती, स मूर्खः।२.१.५६
यः समर्थेन चित्ताद् उत्सारितः, यस्मात् सभा उद्विजते, यः क्षणेन क्षणेन परिवर्तते, स मूर्खः।२.१.५७
यः पुरातनान् सेवकान् त्यक्त्वा नूतनान् नियोजयति, यस्य सभा नेतृविहीना स मूर्खः।२.१.५८
यः अनीत्या द्रव्यम् अर्जयति, धर्माद् न्यायात् च अपैति, सङ्गतं जनं विच्छेदयति,स मूर्खः।२.१.५९
सभार्यः अपि यः सदा परदारगामी, यः बहूनाम् उच्छिष्टं सेवते, स मूर्खः।२.१.६०
स्वस्य अर्थम् अपरस्य हस्ते दत्त्वा अन्यस्य अर्थं यः अभिलषति, यः हीनैः सह व्यवहारं करोति, स मूर्खः।२.१.६१
यः अतिथेः सत्त्वं परीक्षते, कुग्रामे निवसति, यः सर्वदा चिन्ताग्रस्तः ,स मूर्खः।२.१.६२
यत्र द्वयोः सम्भाषणं प्रवर्तते, तत्र गत्वा यः उपविशति, यः उभाभ्यां हस्ताभ्यां शिरः कण्डूयते, सः मूर्खः।२.१.६३
यः उदके गण्डूषं विसर्जयति, पादेन पादं कण्डूयते, हीनकुले सेवाम् आचरति, स मूर्खः।२.१.६४
यः स्त्रिबालकान् लालयते, यः पिशाचसन्निधौ आस्ते, यः श्वपालने मर्यादाम् उल्लङ्घते स मूर्खः।२.१.६५
य़ः परस्त्रिया सह कलहं करोति, यः पशुं हन्ति, यः मूर्खैः सह सङ्गं करोति, स मूर्खः।२.१.६६
यः कलहं प्रेक्षमाणः तिष्ठति, परं कलहं न शमयति, कलहप्रेक्षणे आस्वादं गृह्णाति, सत्यं जानन् अपि असत्यं सहते, स मूर्खः।२.१.६७
सम्पदागमे यः पूर्वपरिचयं विस्मरति, देवे ब्राह्मणेषु यः प्रभुत्वं दर्शयति, स मूर्खः।२.१.६८
स्वकार्यस्य सम्पादनं यावद् यः नम्रः परम् अन्यस्य कार्यं न कुरुते स मूर्खः।२.१.६९
यः पठने अक्षराणि वर्जयति, अथवा अधिकानि योजयति, पुस्तकं न निभालयति स मूर्खः।२.१.७०
पुस्तकं यः स्वयं न पठति, न कस्मै अपि पठनार्थं ददाति, बध्नाति, नमति च सः मूर्खः।२.१.७१
एवम् एतानि मूर्खलक्षणानि।एतेषां श्रवणेन चातुर्यं दृढं भवति (अतः) चतुराः सदा एकाग्रचित्तेन एतानि शृण्वन्ति।२.१.७२
लक्षणानि अपाराणि सन्ति, तथापि कतिचन यथामति कथितानि।त्यागार्थम् एतानि उक्तानि।अतः श्रोतारः मां क्षन्तुम् अर्हन्ति।२.१.७३
उत्तमलक्षणानि ग्राह्याणि। मूर्खलक्षणानि त्याज्यानि।उत्तमलक्षणानि अग्रिमे समासे निरूपितानि।२.१.७४
- इति मूर्खलक्षणं नाम समासः १ -

वर्गः दशक ०२ – मूर्खलक्षणम् दासबोधः समर्थरामदासकृतयः मराठीभाषितस्य संस्कृतेन