समास:०१ वाल्मीकिस्तवनम्

धन्य: धन्य: स: वाल्मीकि:।स: खलु ऋषिषु पुण्यश्लोक:,यत: त्रैलोक्यम् इदं पूतं जातम्।१६.१.१
भविष्यवचनं, तदपि शतकोटिपद्यात्मकम् इति एतद् न दृष्टपूर्वम्।सकला सृष्टि: अन्विष्टा तथापि न क्वापि श्रुतम्॥१६.१.२
कदाचिद् एकं भविष्यवचनं सप्रत्ययं भवति चेत् भूमण्डलस्था: जना: तत्र आश्चर्यं मन्यन्ते॥१६.१.३
नासीत् रघुनाथस्य अवतार:, न च दृष्ट: शास्त्राधार:, तथापि रामकथाया: विस्तर: वितत: येन॥१६.१.४ ईदृशो यस्य वाग्विलास: यत् महेश: श्रुत्वा सन्तुष्ट:।अथ तेन महेशेन शतकोटिपद्यात्मकं रामायणं संविभाजितम्।१६.१.५
यस्य कवित्वं शङ्करेण अवलोकितं, तद् अन्येषाम् अनुमानगम्यं नास्ति।रामोपासकानां तेन परमं समाधानं जातम्।१६.१.६
महान्त: ऋषय: आसन्, कवित्व-विचारका: बहव: आसन्, परं वाल्मीकिसदृश: कवीश्वर: न भूत: न भविष्यति।१६.१.७
पूर्वं दुष्टकर्माणि कृतानि तथापि स: रामनाम्ना पवित्र: सञ्जात:। दृढनियमेन नामजप: कृत:, तेन पुण्यं सीमातिशायि सम्पन्नम्। १६.१.८
वाचा विपर्यस्तं नाम जपितम् तथापि पापपर्वता: ध्वस्ता:।पुण्यघना: ब्रह्माण्डाद् उपरि उत्थिता:।१६.१.९
वाल्मीकिना यत्र तप आचरितं तद् वनं पुण्यमयं जातम्।तस्य तपोबलेन शुष्ककाष्ठेभ्य: अङ्कुरा: प्ररूढा:॥१६.१.१०
पूर्वं य: ‘वाल्ह्या कोळी’ इति भूमण्डले जीवहिंसक: आसीत्,स एव इदानीं सर्वेषां विबुधानाम् ऋषिवराणां च वन्द्य: जात:।१६.१.११
अनुतापेन आसनं साधितम्।देहे वल्मीकं जातम्।तदेव अग्रे नाम प्रथितं वाल्मीकि: इति।१६.१.१३

दासबोध: