प्रमुखा विकल्पसूचिः उद्घाट्यताम्

श्रोतारः सावधानाः भवन्तु।इदानीम् उत्तमगुणान् कथयामि, यैः सर्वज्ञत्वस्य चिह्नं जायते॥२.२.१
मार्गम् अपृष्ट्वा न गन्तव्यम्।अपरिचितं फलं न भोक्तव्यम्।पतितं वस्तु सहसा नाङ्गीकर्तव्यम्॥२.२.२
अतिवादः न स्यात्।अन्तरङ्गे कपटं न स्यात्।अन्वेषणं विना अकुलीनायाः वध्वा सह परिणयः न स्यात्॥२.२.३
विचारहीनं वचनं न भवेत्।चिन्तनहीनं चलनं न भवेत्।मर्यादाहीनं प्रवर्तनं न भवेत्॥२.२.४
प्रीतिं विना रोषः न कार्यः।चौरं प्रति परिचयः न प्रष्टव्यः।रात्रौ एकाकिना पन्थाः न क्रमणीयः॥२.२.५
जनेषु ऋजुता न त्याज्या।पापद्रव्यं नादेयम्।पुण्यमार्गः कदापि न हेयः॥२.२.६
न निन्दा कार्या, न द्वेषः कार्यः।न असत्सङ्गः कार्यः।द्रव्यदारादिकं प्रसभं न आहरणीयम्॥२.२.७
वक्ता न खण्डनीयः।ऐक्यं न नाशनीयम्।कदापि विद्याभ्यासः न वर्जनीयः॥२.२.८
मुखरेण सह कलहः मास्तु।वाचालेन सह विवादः मास्तु।अन्तरङ्गे सत्सङ्गभङ्गः कदापि मास्तु॥२.२.९
अतिक्रोधः न कार्यः।प्राणप्रियस्य जनस्य खेदः न कार्यः। उपदेशाद् उद्वेगः न कार्यः॥२.२.१०
क्षणे क्षणे रोषः न कार्यः।मिथ्या स्वपुरुषार्थः न वाच्यः।कृतेः पूर्वं स्वपराक्रमः न वर्णनीयः॥२.२.११
प्रतिशृतं वचनं न विस्मरणीयम्।प्रसङ्गे सति सामर्थ्यप्रदर्शनं न वर्जनीयम्।स्वकर्तृत्वं विना अन्येषां तर्जनं न करणीयम्॥२.२.१२
आलस्येन सन्तोषः न मन्तव्यः।पैशुन्यं मनसि न धारणीयम्।सम्यग् अन्वेषणं विना कार्यं नारभणीयम्॥२.२.१३
सुखे न रमणीयम्।प्रयत्नो न त्यक्तव्यः।निरन्तरकष्टेभ्यः नोद्वेजनीयम्॥२.२.१४
सभायां लज्जा न कार्या।वाचालतया न प्रलपनीयम्।कदापि पणः न कार्यः॥२.२.१५
अतिचिन्ता न कार्या।निश्चिन्ततया न वर्तितव्यम्।पापबुद्ध्या परस्त्री न द्रष्टव्या॥२.२.१६
न कस्मादपि उपकारः ग्राह्यः।गृहीतः चेद् न अवशेषणीयः।परपीडा न कार्या।विश्वासघातः न कार्यः॥२.२.१७
शौचं विना न स्थातव्यम्।मलिनं वस्त्रं न धारणीयम्।कार्यार्थं प्रतिष्ठमानः जनः न प्रष्टव्यः ‘कुत्र गच्छसि?’ इति॥२.२.१८
स्वस्य सर्वकार्येषु स्वयं प्रवर्तनं न त्याज्यम्।पराधीनत्वं नावलम्बनीयम्। स्वभारः अन्यस्मिन् न क्षेप्तव्यः ॥२.२.१९
लेखां विना व्यवहारः न कार्यः।हीनात् जनात् ऋणं नाङ्गीकार्यम्।साक्षिणा विना राजद्वारं प्रति न गन्तव्यम् ॥२.२.२०
मिथ्या आरोपः न कार्यः।सभायाः अनादरः न कार्यः।स्ववचनं यत्र नाद्रियते, तत्र स्वयं न वक्तव्यम्॥२.२.२१
लक्षितमपि अलक्षितमिव न कार्यम्।अन्यायं विना जनः न दण्डनीयः। देहबलमस्तीति अनीतिः न कार्या॥२.२.२२
अतिमात्रम् अशनं न कार्यम्।अतिमात्रा निद्रा न कार्या।पिशुनस्य सन्निधौ दीर्घकालं न उषितव्यम्२.२.२३
स्वस्य साक्ष्यं स्वयं न कार्यम्।स्वकीर्तिः स्वयं न वर्णनीया।स्वगोष्ठ्या स्वयम् एव न हसनीयम्।२.२.२४
धूम्रपानं न कार्यम्।मादकद्रव्यं न सेव्यम्।वावदूकैः जनैः कदापि मैत्रं न कार्यम्॥२.२.२५
क्वापि कार्यरहितं न उषितव्यम्।नीचवचनस्य पात्रं न भवितव्यम्।अनायासम् अन्नं पितु्ः अपि न भक्षणीयम्।२.२.२६
मुखेन अपशब्दः न वाच्यः।परस्य उपहासः न कार्यः।अभिजनस्य अपि न्यूनं (गुणत्वेन) नाङ्गीकरणीयम्॥२.२.२७
दृष्टं दृष्टं वस्तु न चोर्यम्।बहु कृपणत्वं न कार्यम्।सुहृद्भिः सह कलहः न कार्यः॥२.२.२८
कस्य अपि घातः न कार्यः।मिथ्या साक्ष्यं न कार्यम्।कदापि अप्रमाणं न वर्तनीयम्॥२.२.२९
पैशुन्यं न कार्यम्।चौर्यं न कार्यम्।परस्त्रीगमनं न कार्यम्।कस्यापि अनुपस्थितौ तस्य न्यूनं न वाच्यम्॥२.२.३०
प्रसङ्गे धैर्यं न त्याज्यम्।सत्वगुणः न त्याज्यः।शरणागतः शत्रुः न दण्ड्यः॥ २.२.३१
धनेन उन्मादः न स्यात्।हरिभक्तौ लज्जा न स्यात्।पवित्रजनेषु मर्यादोल्लङ्घनं न स्यात्॥२.२.३२
मूर्खेण सह सङ्गः न स्यात्।अन्धकारे हस्तक्षेपः न स्यात्।अनवधानेन वस्तुविस्मरणं न स्यात्॥२.२.३३
स्नानं न त्याज्यम्।सन्ध्यावन्दनं न त्याज्यम्।कुलाचारः न खण्डनीयः।आलस्यवशाद् अनाचारः न कार्यः॥२.२.३४
हरिकथा न त्याज्या।निरूपणं न खण्डनीयम्।प्रपञ्चबलेन परमार्थः न विसर्जनीयः॥२.२.३५
स्वधर्मः न त्याज्यः।देवं प्रति प्रतिशृतं वचनं न लोपनीयम्।अविचारेण कुमार्गः नाश्रयणीयः॥२.२.३६
निष्ठुरता न स्यात्।जीवहत्या न कार्या।वर्षति देवे प्रयाणं न कार्यम्।अवकाले प्रयाणं न कार्यम्॥२.२.३७
सभां दृष्ट्वा गलितगात्रता न भवेत्।प्रसङ्गे उत्तरं न लोपनीयम्।धिक्कारे सत्यपि धैर्यं न त्याज्यम्॥२.२.३८
गुरुं विना न भवितव्यम्।नीचजातीयकः गुरुः न भवेत्।आयुः वा वैभवं वा शाश्वतं न मन्तव्यम्॥२.२.३९
सत्यमार्गः न वर्जनीयः।असत्यमार्गः नानुसरणीयः।असत्यविषये अभिमानः न कार्यः॥२.२.४०
अपकीर्तिः त्याज्या।सत्कीर्तिः वर्धनीया।विवेकेन दृढतया सत्यमार्गः अवलम्ब्यः॥२.२.४१
एतान् उत्तमगुणान् ये न स्वीकुर्वन्ति, ते अवलक्षणाः जनाः।अग्रिमे समासे तेषां लक्षणं शृणु॥२.२.४२
॥इति द्वितीयदशके द्वितीयः समासः॥

दशक ०२ – मूर्खलक्षणम् दासबोधः   समर्थरामदासकृतयः