ॐ हे सर्वसिद्धिफलदायक, अज्ञानभ्रान्तिच्छेदक, बोधरूप, गणनायक, तुभ्यं नमः॥ १.२.१॥
मम अन्तः व्याप्नुहि। सर्वदा तत्र निवासं कुरु। वाक्शून्यं मां कृपाकटाक्षेण वाचय ॥ १.२.२॥
त्वत्कृपाबलेन भ्रान्तिपटलाः विलयं यान्ति।विश्वभक्षकः कालः च दास्यं कुर्यात्। ॥ १.२.३॥
त्वत्कृपाकूर्दनमात्रेण विघ्नाः वराकाः कम्पन्ते। नाममात्रेण देशान्तरं विद्रवन्ति च॥ १.२.४॥
अतः नाम्ना यः विघ्नहरः, यः च अस्मादृशानाम् अनाथानां मातृस्थलं, यं हरिहरादयः अमराः वन्दन्ते॥ १.२.५॥
तं मङ्गलनिधिं वन्दित्वा । कार्यं कृतं चेत् सर्वसिद्धिः भवति।आघाताः, प्रत्यवायाः, उपाधयः न बाधन्ते॥१.२.६॥
यस्य ध्यानेन परमं समाधानं जायते, मनः नेत्रं प्रविश्य सर्वाङ्गम् अटितुं पङ्गु भवति- ॥ १.२.७॥
सः त्वं सगुणरूपस्य निधिः ।त्वयि महल्लावण्यं च लाघवं च ।तव नृत्येन सर्वे देवाः स्तब्धाः भवन्ति। ॥ १.२.८॥
त्वं सर्वदा मदोन्मत्तः । सदा आनंदेन दोलमानः ।हर्षनिर्भरः उदितः । सुप्रसन्नवदनः ॥ १.२.९॥
तव रूपं भव्यं विकटं च। मूर्तिः ते भीमरूपा महत्प्रचण्डा ।तव विस्तीर्णमस्तके विपुलः सिन्दूरः लेपितः ॥ १.२.१०॥
नानाविध-सुगन्धेन नानापरिमलैः बहुलं स्रवति गंडस्थलं ।तत्र आगतानि षट्पदकुलानि झङ्कारशब्देन ॥ १.२.११॥
वङ्कितः शुण्डादण्डः सरलः भवति तदा शोभते। अभिनवं गण्डस्थलं शोभते। लम्बितः अधरः शोभते।गण्डस्थलात् तीव्रः मदस्रावः क्षणशः स्यन्दते॥ १.२.१२॥
चतुर्दश-विद्यानाम् अधिपतिः त्वं ह्रस्वलोचनयोः निमेषोन्मेषौ करोषि।लोलं कर्णशूर्पं फडत्कारेण विचालयसि ॥ १.२.१३॥
रत्नमण्डिते मुकुटे तेजः विलसति। नानाविधाः शोभनाः रङ्गप्रभाः ततः वितताः।कुंडले दीप्यतः।तत्र संसक्ताः नीलमणयः चकासते ॥ १.२.१४॥
तव दन्तः शुभ्रः दृढः च।सः रत्नमण्डितेन हेमवलयेन वेष्टितः ।तदधः सुन्दराणि लघुलघूनि पत्राणि दीप्यन्ति॥ १.२.१५॥
तव तुन्दिलम् उदरं विचलति।तत्र नागबन्धः वेष्टितः।(तस्मिन् विद्यमानाः) क्षुद्रघण्टिकः मन्दं मन्दं झणत्कारेण नदन्ति।॥ १.२.१६॥
त्वं चतुर्भुजः लंबोदरः असि।तव कटितटे पीताम्बरं सुबद्धम् ।तुन्दिले ते फणिवरः। धुधूकारं कुर्वन् विचेष्टते ॥ १.२.१७॥
(अयं फणिवरः)मस्तकं दोलयते जिव्हां दर्शयते।वलयाकारः सन् अयं नाभिकमले फटाटोपेन विलोलं वीक्षते॥१.२.१८॥
नानाजातीयकाः कुसुममालाः गलतः व्यालपर्यन्तम् अवलन्ते। रत्नयुतं पदकं हृदयकमले शोभते ॥ १.२.१९॥
परशुः शोभते।कमलं च शोभते। तीक्ष्णः तेजस्वी अङ्कुशः च शोभते।एकस्मिन् करे मोदकगोलः शोभते। तस्मिन् तव अतिप्रीतिः॥१.२.२०॥
नानाविधनाट्ययुतं नानाछन्दोबद्धं नृत्यं करोषि।तत्र तालः मृदङ्गम् इत्येतयोः उपाङ्गयोः हुङ्कारः सह वर्तते।॥ १.२.२१॥
स्थिरता नास्ति क्षणमात्रम् अपि । चापल्ये अग्रगण्यः असि ।मूर्तिः ते सुलक्षणा, सुन्दरी , लावण्यखनिः च ॥ १.२.२२॥
रुणझुणेति नदतः नूपुरे । वङ्कितभूषणं गर्जति।घण्टिकासहितौ उभौ चरणौ शोभेते॥ १.२.२३॥
(तव नृत्येन) ईश्वरसभा शोभमाना जाता ।तत्र दिव्याम्बराणां प्रभा विकीर्णा ।सह नर्तितुम् अष्टौ नायिकाः सुलभाः जाताः ॥ १.२.२४॥
एवं यः सर्वाङ्ग-सुन्दरः, सकल-विद्यानाम् आगारं,तं प्रति मम भावपूर्णः साष्टाङ्गः नमस्कारः ॥ १.२.२५॥
गणेशध्यान-वर्णनेन भ्रान्तस्य़ मतिः प्रकाशते।गुणानुवाद-श्रवणेन सरस्वती प्रसन्ना भवति॥ १.२.२६॥
यं ब्रह्मादिकाः वन्दन्ते, तत्र मानवानां वराकाणां का कथा?मन्दमतिः प्राणी अपि गणेशं चिन्तयेत् ॥ १.२.२७॥
ये खलु मूर्खाः, अवलक्षणाः,ये च हीनाद् अपि हीनाः ते अपि सर्वेषु विषयेषु दक्षाः प्रवीणाः च भवन्ति॥ १.२.२८॥
यः एवं परम-समर्थः सः मनोरथं पूर्णं करोति।अस्य भजनेन स्वार्थः लभ्यते अतः‘कलौ चण्डीविनायकौ’ इति वचनस्य प्रतीतिः भवति॥१.२.२९॥
एतादृशः मङ्गलमूर्तिः गणेशः। सः च मया अन्तःकरणे परमार्थस्य अभिलाषं धृत्वा यथामति संस्तुतः।॥ १.२.३०॥
इति श्रीदासबोधे गुरुशिष्यसंवादे गणेशस्तवनं नाम समासः द्वितीयः॥२॥

दशक ०१ - स्तवनम्  दासबोध: समर्थरामदासकृतय: [
"https://sa.wikisource.org/w/index.php?title=समास:०२_गणेशस्तवनम्&oldid=128780" इत्यस्माद् प्रतिप्राप्तम्