समास:०२ स्वगुणपरीक्षा

संसारः दुःखमूलम् अस्ति।तत्र दुःखेन दाहः भवति।पूर्वं गर्भवासे व्यथा उक्ता॥ -दासबोध ३.२.१
गर्भवासे यद् दुःखम् अनुभूतं,तद् बालकेन विस्मृतम्। अग्रे सः बालकः दिने दिने अवर्धत॥- दासबोध ३.२.२
बालके त्वक् कोमला।दुःखे सति बालकः विव्यथते। तदा वाणी नास्ति। सुखं दुःखं वा प्रकटी कर्तुं न शक्नोति॥ - दासबोध ३.२.३
बालकः शरिरं रक्षितुं न समर्थः। तेन नाना अपायाः भवन्ति। क्वचित् व्रात्यः इव चेष्टते। तेन किमपि अङ्गं विकलं भवति॥- दासबोध ३.२.८
अथवा कदाचित् पूर्वपुण्यवशात् अपायाः न भवन्ति। अथ बालकः दिने दिने मातरम् अभिजानाति॥ - दासबोध ३.२.९
क्षणमात्रम् अपि मातरम् न पश्यति चेत् दुःखेन आक्रन्दति। तदा मातृसदृशः कोऽपि जन नास्ति॥- दासबोध ३.२.१०
मातरम् आशया प्रतीक्षते। मातरं विना कदापि न रमते। मातुः स्मरणे सति पलमात्रम् अपि तस्याः वियोगं न सहते॥- दासबोध ३.२.११
ब्रह्मादयः देवाः यद्यपि आगच्छन्ति,लक्ष्मी वापि तम् अवलोकयन्ति,तथापि मातरं विना सः शान्तः न भवति॥- दासबोध ३.२.१२
माता कुरुपा वा कुलक्षणा वा दर्भगतमा वा भवतु,तयअ तुल्यः भूमण्डले कोऽपि न भवति॥- दासबोध ३.२.१३
एवं मातरं विना सः दिनः, मातरं विना सः अपूर्णः। सा क्रोधेन अपसारयति चेदपि क्रन्दित्वा ताम् एव आलिङ्गति॥ - दासबोध ३.२.१४
मातु सन्निधौ लभते सुखम्। दूरं गते सति व्याकुलः भवति। तदा मातरि नितरां प्रीतिः वर्तते॥ - दासबोध ३.२.१५
तदा माता मृता। बालका अनाथः जातः। अम्ब अम्ब इति आक्रोश्य बालकः कृशो जातः ॥ - दासबोध ३.२.१६
माता दृग्गोचरा न भवति। दैन्येन जनान् अवलोकयति। ‘माता आगमिष्यति’ इति आशामनसि वर्तते॥ - दासबोध ३.२.१७
मातरं मत्वा कस्यचित् मुखम् ईक्षते। नैषा मम माता इति ज्ञात्वा हताशः दिनः भवति॥ - दासबोध ३.२.१८
मातृवियोगेन कष्टं प्राप्तः। मनसि दुःखानुभवः। देहोऽपि अतिक्षिणः जातः॥ - दासबोध ३.२.१९
अथवा माता सुरक्षिता चेत् माता चापत्यं च सहवासः भूतः। ततः दिने दिने बाल्यदशा अपगता॥ - दासबोध ३.२.२०
बाल्यं हसितम्। प्रतिदिनं चातुर्यं वर्धितम्। तेन मातरि यः अत्यन्तं स्नेहः आसीत् सः न्यूनः जातः॥- दासबोध ३.२.२१
अग्रे क्रीडायां रतिः वर्धिता। वयस्यानां समुदायः सङ्गृहीतः। गतागतानां क्रीडाचक्राणां हर्षशोकौ उदितौ॥ - दासबोध ३.२.२२
मातापितरौ परमया आस्थया पाठयतः,ततः परमं दुःखम् अनुभवति बालकः। वयस्यै सङ्गतस्य जातः अभ्यासः न त्यजते॥ - दासबोध ३.२.२३
बालकैः सह क्रीडायां न माता स्मर्यते,न वा पिता। क्रीडायामपि क्वचिद् सहसा दुःखं प्राप्नोति॥ - दासबोध ३.२.२४
दन्तः पतितः,नेत्रः भग्नः,पादः भग्नः,विकलत्वम् आगतम्,मदः गतः,अवदशा प्राप्ता ॥ -दासबोध ३.२.२५
शीतलिकाज्वरः मसूरिकाज्वरः वा आगतः,शिरःशीलः उद्भूतः,ज्वरः आगतः,सततम् उदरे वातेन शूलः आरब्धः॥ - दासबोध ३.२.२६
भूतबाधा जाता। जलदेवताबाधा जाता। मुंज–झोटिङ्ग–म्हसिबादीभिः गृहीतः॥ -दासबोध ३.२.२७
वेताल–खङ्काल–ब्रह्मपिशाचादिभिः गृहीतः।अथवा (अनुल्लह्यः बलिः) उल्लङ्घितः॥ - दासबोध ३.२.२८
केचित् वदन्ति,एषः वीरदेवेन गृहीतः। केचित् वदन्ति एषः खण्डेरावेण गृहीतः।केचित् वदन्ति सर्वम् एतत् असत्यम्। एषः ब्रह्मरक्षसा गृहीतः॥ - दासबोध ३.२.२९
केचित् वदन्ति,केनचित् अभिचारेण दैवतम् एतस्मिन् निवेशितम्। केचित् वदन्ति सटवाई–देव्याः आराधने प्रमादः जातः॥- दासबोध ३.२.३०
केचन वदन्ति एवः कर्मभोगः। शरीरे तु नाना रोगाः उत्पन्नाः। उत्तमाः वैद्याः तदा समाहूताः॥ ३.२.३१
एके वदन्ति, ‘नायं जिविष्यति|’ एके वदन्ति ‘नायं मरिष्यति|’पूर्वपापवशाद् अयं नाना वेदनाः अनुभवति ॥ ३.२.३२
येन गर्भदुःखं विस्मृतं सः प्राणी इदानीं त्रिविधतापैः प्रतत्पः। संसारदुःखेन बहु कष्टम् अनुभूतवान्॥ ३.२.३३
एतावद्भ्यः दुःखेभ्यः अपि यदि मुक्तः तर्हिः ताडं ताडं सः बोधितः।लोकव्यवहारदृष्ट्या सः तादृशः चतुरःजातः येन कुलस्य महत्वं रक्षितम्॥ ३.२.३४
अथ मातापितृभ्यां पुत्रस्नेहम् त्वरया तस्य विवाहार्थं सिद्धता कृता। सर्वं वैभवं प्रदर्श्य वधूः सुनिश्यिता॥ ३.२.३५
विवाहे वैभवं बान्धवगणं दृष्ट्वा परमं सुखम् एतेन अनुभूतम्। चित्तं श्वशुरगृहे एव आसक्तम्॥ ३.२.३६
मातापितरौ कथम् अपि स्याताम्। वयं श्वशुरगृहं सुवेषः एव गच्छति।तदर्थं व्याजेनापि ॠणं गृह्णाति॥ ३.२.३७
अन्तरङगे स्नेहभावः सर्वथा श्वशुर गृह विषये। मातापितरौ वराकै दिनौ।तौ सर्वथा एतदर्थं व्याकुलौ। तावदेव तयोः कार्यम् ।एषः ताभ्यां स्नेहस्य प्रतिफलं न ददाति॥३.२.३८
यदा वधूः गृहं प्रविशति तदा एषः अति आसक्तः भवति। मत्सदृशः कोऽपि नास्ति इति सः मन्यते॥ ३.२.३९
पत्नीविरहिताः मातृपितृभ्रातृस्वसृनाः तुच्छाः(दुर्लक्षिताः) भवन्ति। पापरुपया अविद्यया भ्रमितः अयम् अत्यन्तं(पत्न्याम्) आसक्तः॥ ३.२.४०
सम्भोगाभावे अपि एतावती प्रीतिः। सम्भोगे सति तु अमर्यादा। तदा प्रीतिः वर्धते। ततः प्राणी कामपाशे बद्धः भवति॥ ३.२.४१
क्षणमात्रम् अपि सा दृष्टेः परोक्षं भवति चेत् एतस्य जीवः अधीरः भवति।प्रीतिपात्रं सा एतस्य अन्तरङगं निर्हरते॥३.२.४२
तस्याः कोमल मञ्जुलाः शब्दाः तस्याः समर्यादं वर्तनं,तस्याः लज्जाभावः,मुखकमलम्, मुखसलोकनम् इति एषः सर्वः कामपाशः एवः॥ ३.२.४३
कामवेगः धारयितुं न शक्यते। विकलं शरीरं(कामप्रसङ्गात्) वारयितुं न शक्यते। अन्यत्र व्यवसाये चित्तं न रमते। सततं चित्ते अस्वास्थ्यम्॥ ३.२.४४
बाह्यव्यवसायं करोति परं चित्तं गृहे एव लब्धं वर्तते। क्षणे क्षणे मनसि एषः कामिनी स्मरति॥ ३.२.४५
त्वं मे जिवस्यामपि जीवः इत्याति उक्त्वा शृङ्गारपाटवं प्रदर्श्य सा तस्य चित्तम् अपहरति॥ ३.२.४६
शठाः प्रथमं सम्बधं प्रदर्शयन्ति परं अनन्तरं पाशन प्राणअन् हरन्ति,तथा आयुषः अन्ते एतस्य जनस्य अवस्था भवति॥ ३.२.४७
(कामः प्रथमः सुखं ददाति परमन्ते आयुः हरति।)
कामिन्याम् अस्य ईदृशी प्रीतीः यत् तस्यै कश्यित् क्रुद्यति चेत् एतस्यमनसि खेदः जायते॥ ३.२.४८
भार्यायाः पक्षपातेन मातअपितरौ नीचवचनानि वदति। तौ तिरस्कृत्य ताभ्यां पृथग् भवति॥ ३.२.४९
स्त्रीनिमित्तं लज्जा त्यक्ताः। स्त्रीनिमित्तं सखायः त्यक्ताः। स्त्रीनिमित्तं सर्वे सम्बन्धिनः त्यक्ताः॥ ३.२.५०
स्त्रीनिमित्तं देहं विक्रीतः। स्त्रीनिमित्तं सेवकं अङ्गीकृतम्। स्त्रीनिमित्तं विवेकः लोपितः॥ ३.२.५१
स्त्रीनिमित्तं लम्पटता अङ्गीकृता। स्त्रीनिमित्तम् अतिनम्रता अङ्गीकृता। स्त्रीनिमित्तं पराधीनता अङ्गीकृता॥ ३.२.५२
स्त्रीनिमित्तं लुब्धः जातः, स्त्रीनिमित्तं धर्मः त्यक्तः। स्त्रीनिमित्तं तिर्थयात्रा विर्वजिता। स्त्रीनिमित्तं स्वधर्मःहापितः॥ ३.२.५३
स्त्रीनिमित्तं सर्वथा शुभाशुभचिन्तनं न कृतम्। तनुः वा मनो वा धनंवा सर्वमेव अनन्यभावेन स्त्रियै समर्पितम्॥ ३.२.५४
स्त्रीनिमित्तं परमार्थः आप्लावितः। स्वहितं त्यक्तम्। ईश्वरविषये सङुचितः परं स्त्रीनिमित्तं कामासक्तः जातः॥ ३.२.५५
स्त्रीनिमित्तं भक्तिः विसर्जिता। स्त्रीनिमित्तं विरक्तिः व्यक्ता। स्त्रीनिमित्तं सायुज्यमुक्तिः अपि तिरस्कृता॥ ३.२.५६
स्त्रीनिमित्तं सकलं ब्रह्माण्डं तुच्छं मतम्। प्राणसखायः अपि दुष्टाः मताः॥३.२.५७
एवम् अन्तरङे स्नेहः सुबद्धः। तेन सर्वस्वं हारितम्। तावत् सा भार्या अकस्मात् मृता॥ ३.२.५८
तेन मनसि शोकः जातः। एषः वदति महान् अयं घातः। अधुना संसारः मे सर्वथा विलुप्तः॥ ३.२.५९
एतस्याः कृते मया बान्धवानां सङ्गः त्यक्तः।अधुना अकस्माद् गृहं मे भग्नम्। इदानीमं भार्याम् एतां त्यजामि इति दुःखेन आक्रन्दति॥ ३.२.६०
स्त्रीकलेवरं क्रोडीकृत्य उरः ताडयति,उदरं ताडयति। निर्लजतया लोकानां पुरतः तस्याः गुणान् गायति॥३.२.६१
तदा वदति विल्पुतं मे गृहम्। अथ संसारे नैव भवामि। एवं दुःखेन घोरम् आक्रन्दनम् आरब्धम्॥ ३.२.६२
तस्याः मृत्युना तस्य जीवः सम्भ्रान्तः। सर्वस्मात् सः उद्गिग्नः।तेन दुःखेन सः योगी वा महात्मा जातः॥३.२.६३
अथवा संसारात् प्रव्रजनं न जातम्। पुनः विवाहः कृतः। तेन द्वितीयभार्यायां मनः अत्यन्तं मग्नम्॥ ३.२.६४
द्वितीयः विवाहः जातः। पुनः आनन्दः जातः। श्रोतृभिः सावधानतया अग्रिमः समासः श्रोतव्यः॥३.२.६५
इति श्री दासबोधे गुरुशिष्यसंवादे सगुणपरिक्षा नाम समासः द्वितीयः



दासबोधः