समास:०३ कुविद्यालक्षणम्
कुविद्यालक्षणानि शृणुत।हीनानि एतानि कुलक्षणानि।त्यागार्थम् एतानि उक्तानि।एतेषां श्रवणेन त्यागः सम्भवति।२.३.१
कुविद्यः जनः जन्महानिम् एव करोति।सः एतैः वक्ष्यमाणलक्षणैः ज्ञेयः, शृणुत।२.३.२
कुविद्यः जनः कठिननिरूपणाद् उद्विजते, यतो हि सः अवगुणैः समृद्धः अस्ति।२.३.३
दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च।अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम्॥
कामः, क्रोधः, मदः, मत्सरः, लोभः, दम्भः, तिरस्कारः, गर्वः, उद्दण्डता, अहङ्कारः, द्वेषः, विषादः, विकल्पः,…।२.३.४
आशा, ममता, तृष्णा, कल्पना, चिन्ता, अहंता, कामना, भावना, असूया, अविद्या, एषणा , वासना, अतृप्तिः, लोलुप्त्वम्॥२.३.५
इच्छा, वाञ्छा, चिकित्सा, निन्दा, अनीतिः, ग्रामता, सदा उन्मादः, ज्ञातृत्वाभिमानः, अवज्ञा, विपत्तिः, आपद्, दुर्वृत्तिः, दुर्वासना...॥२.३.६
स्पर्धा, प्रयासः, व्याकुलता, (वर्तने)वैचित्र्यं, त्वरा, वाचालता, सदा प्रवृत्तिः, अपप्रवृत्तिः, परमव्यथा इति एषा कुविद्या।२.३.७
यः कुरूपः अपि कुलक्षणः, अशक्तः अपि दुर्जनः, दरिद्रः अपि अत्यन्तं कृपणः, (सः कुविद्यः जनः)।२.३.८
यः अलसः अपि दन्दशूकः, दुर्बलः अपि कलहशीलः, तुच्छवादी अपि अत्यन्तं धूर्तः, (सः कुविद्यः जनः)।२.३.९
यः मूर्खः अपि क्रोधी, मूढः अपि वाचालः, असत्यवचनः अपि बहुभाषकः, (सः कुविद्यः जनः)।२.३.१०
यः न स्वयं जानाति, तथापि अन्यस्य अपि श्रुणोति, यः अनधीतोऽपि न अधीते, यः अकर्ता अपि अध्येतृबुद्ध्या न कर्म ईक्षते (सः कुविद्यः जनः)।२.३.११
यः अज्ञः अपि अविश्वासी, (स्वयं) दोषी अपि अन्येषां छलकर्ता, अभक्तः अपि भक्तद्वेष्टा (सः कुविद्यः जनः)।२.३.१२
यः पापः च निन्दकः च, कष्टापन्नः अपि अन्येषां घातकः, स्वयं दुःखी अपि हिंसकः (सः कुविद्यः जनः)।२.३.१३
यः हीनः सन् नाटकी, रोगी सन् कुकर्मा, कृपणः सन् अधर्मवासनारतः, (सः कुविद्यः जनः)।२.३.१४
यः देहेन विकलः अपि गर्विष्ठः, प्रमाणशून्यः अपि विचिकित्सकः, स्वयम् अमर्यादः, भाग्यहीनः अपि अन्येषां विवेकोपदेष्टा (सः कुविद्यः जनः)। २.३.१५
यः हीनः अपि उन्मत्तः,निष्क्रियः अपि विलासी, कातरः अपि स्वपराक्रमं वर्णयति, (सः कुविद्यः जनः)।२.३.१६
यः: कनिष्ठः अपि गर्विष्ठः, नष्टः अपि विषयेभ्यः नोपरतः, स्वयं भ्रष्टः अपि अन्येषाम् अतिद्वेष्टा (सः कुविद्यः जनः)।२.३.१७
यः अभिमानी चापि निर्लज्जः, धनचिन्ताग्रस्तः चापि खलः, दाम्भिकः चापि अत्यन्तम् अनर्गलः (सः कुविद्यः जनः)।२.३.१८
यः मलिनः चापि विकारी, असत्यः चापि अनुपकारकः, अवलक्षणः च अपि प्राणिमात्रस्य तिरस्कर्ता (सः कुविद्यः जनः)।२.३.१९
यः अल्पमतिः चापि वादकर्ता, दीनः चापि अन्यदोषदर्शकः, लघीयान चापि कुशब्दैः पीडकः (सः कुविद्यः जनः)।२.३.२०
यः कठिनवचनः, कर्कशवचनः, कपटवचनः, सन्दिग्धवचनः, दु:खवचनः, तीव्रवचनः, क्रूरः, निष्ठुरः, दुरात्मा (सः कुविद्यः जनः)।२.३.२१
यः न्यूनवचनः, पिशुनवचनः, अशुभवचनः, अनित्यवचनः, द्वेषवचनः, अनृतवचनः, व्यर्थवचनः, धिक्कारवचनः, (सः कुविद्यः जनः)।२.३.२२
यः कपटी, कुटिलः, गूढाकूतः, क्षुद्रः, अकर्मण्यः, नाटकी, कोपी, कुधनः, अत्यन्तं निन्दकः, (सः कुविद्यः जनः)।२.३.२३
यः क्रोधालुः,तामसः अविचारः, पापः अनर्थकारी, अपस्मारी, भूतैः जुष्टः, सः कुविद्यः जनः॥२.३.२४
यः आत्महत्यां, स्त्रीहत्यां, गोहत्यां, ब्राह्मणहत्यां, मातृहत्यां, पितृहत्यां करोति, यः महापापः, पतितः सः कुविद्यः जनः।२.३.२५
यः हीनः, कुपात्रं, कुतर्कः, मित्रद्रोही, विश्वासघातकः,कृतघ्नः, कामासक्तः, नरकोचितः, आततायी, जल्पकः, सः कुविद्यः जनः॥२.३.२६
यः संशयी, कलही, विवादी,सङ्घर्षशीलः, अधर्मः, लोकविरुद्धः, शोकशीलः, परिग्रही, पिशुनः, व्यसनी, कलहजनकः, बाधकः सः कुविद्यः जनः॥२.३.२७
यः पीडकः , अपयशाः, अस्वच्छः, स्थैर्यनाशकः, कञ्जूषः, लम्पटः, स्वार्थी, साभिलाषः, बहिर्मुखः, अदाता, दृढदोषः, मत्सरी, सः कुविद्यः जनः॥२.३.२८
यः शठः, मूढः, कातरः, अव्यवस्थितकारी, अस्थाने प्रेक्षकः, वञ्चकः, कुपुष्टः, पाखण्डः, तस्करः, अपहारकः, सः कुविद्यः जनः॥२.३.२९
यः धृष्टः, अनिर्बन्धाचारः, अनिर्बन्धविचारः, चटुलः, अश्लीलः, वातुलः, मिथ्यारोपी, उद्धतः, भ्रष्टः, कुबुद्धिः, सः कुविद्यः जनः॥२.३.३०
यः अपहारकः, लुण्ठकः, बहुभक्षः, वञ्चकः, दाम्भिकः, व्यभिचारी, संमोहकः, मान्त्रिकः सः कुविद्यः जनः॥२.३.३१
यः निःशङ्कः, निर्लज्जः, कलहप्रियः, कर्महीनः, वृथापुष्टः, दुर्मदः, उद्धतः, निर्भीकः, निरक्षरः, खलतरः, विश्वकलहः, विकारी सः कुविद्यः जनः॥२.३.३२
यः अधीरः, अनृतः, अनाचारः, अन्धः, पङ्गुः, कासरोगी, हस्तशून्यः, बधिरः, श्वासरोगी सन् अपि दुरभिमानः सः कुविद्यः जनः॥२.३.३३
यः विद्याहीनः, वैभवहीनः, कुलहीनः, लक्ष्मीहीनः, शक्तिहीनः, सामर्थ्यहीनः, अदृष्टहीनः, भिक्षाजीवी सः कुविद्यः जनः॥२.३.३४
यः बलहीनः, कलाहीनः, सम्प्रदायमुद्रारहितः, दीक्षारहितः, लावण्यहीनः, हीनावयवः, अधिकावयवः सः कुविद्यः जनः॥२.३.३५
यः युक्तिहीनः:,बुद्धिहीनः आचारहीनः:, विचारहीनः, क्रियाहीनः, सत्त्वहीनः, विवेकहीनः, संशयी सः कुविद्यः जनः॥२.३.३६
यः भक्तिहीनः, भावहीनः, ज्ञानहीनः, वैराग्यहीनः:, शान्तिहीनः, क्षमाहीनः, सर्वहीनः क्षुद्रः सः कुविद्यः जनः॥२.३.३७
यः अभाग्यः जनः, न वेत्ति प्रसङ्गं, न वेत्ति समयं, न वेत्ति प्रयत्नं, न वेत्ति अभ्यासं, न वेत्ति आर्जवं, न वेत्ति मैत्रं, न वेत्ति किमपि सः कुविद्यः जनः॥२.३.३८
अस्तु। एवं नाना विकाराणां कुलक्षणानां च आगारं नाम कुविद्यः जनः इति श्रोतृभिः अवगन्तव्यम्।सः कुविद्यः जनः॥२.३.३९
एवं सन्ति कुविद्यालक्षणानि।तानि श्रोतव्यानि, त्यक्तव्यानि। अभिमानवशात् तेषां सन्धारणं नोचितम्।सः कुविद्यः जनः॥२.३.४०
॥इति कुविद्यालक्षणं नाम समासः॥
दशक ०२ – मूर्खलक्षणम् दासबोधः