समास:०३ स्वगुणपरीक्षा

द्वितीयः विवाहः सम्पन्नः। तेन भूतपूर्वं दुःखं विस्मृतम्। संसारे सुखम् मत्वा अवर्तत॥ ३.३.१
अत्यन्तं कृपणं सञ्जातः।पर्याप्तम् अन्नम् अपि न खादति। कणस्य कणस्य कृते प्राणान् अपि ददाति॥ ३.३.२
कल्पान्ते प्राप्ते अपि व्ययं न करोति। पुनः पुनः संचय एव करोति। अन्तरे सद्वासना कुतः स्यात ३.३.३
स्वयं धर्मं नाचरति। यः याचरति,तमपि वारयति।सर्वदा साधु जनान् निन्दति॥ ३.३.४
न जानाति तिर्थं, न जानाति व्रतम। न सत्करोति अतिथिं, न सत्करोति अभ्यागतम्।पिपीलिकामुखादपि कणम् आह्रत्य संचिनोति॥३.३.५
स्वयंपुण्यं न करोति। सन्येन कृतं द्रष्टुं न शक्नोति।“नैतत्(कर्म) सन्तोषप्रदम्” इति पुण्यम् उपहसति॥ ३.३.६
देवान् भक्तान् च उच्छेदयति। अङ्ग बलेन सर्वान् खेदयति। निष्ठुरशब्दैः प्राणिनां मनोभङ्गं करोति॥ ३.३.७
नीतिं दुरे उत्सृज्य अनीत्या वर्तते। गर्वेण सर्वदा उत्फुल्लितः विद्यते॥३.३.८
पूर्वजाः वञ्चिताः। न पक्षः अनिष्टितः,न श्राद्धं कृतम्।कुलदैवतमपि प्रतारितम्। तदेवम्–॥ ३.३.९
सुवासाः इति स्वभगिनी भोजनार्थं निमन्त्रिता। तां नेतुम् आगतः आवुत्तः एव विप्र इति भोजनार्थं निमन्त्रितः॥ ३.३.१०
एतस्मै हरिकथा कदापि न रोचते। देवं सर्वथा एषः परिहरति। “स्नानं सन्ध्यावंदनं वृथा।किमर्थं तद् आचरणीयम्?” इति एषः वदति॥ ३.३.११
अभिलाषेण वित्तसंञ्चयं करोति।(तदर्थं) विश्वासघातं करोति। तारुणये मदोन्मत्तः जातः॥ ३.३.१२
देहे तारूण्यं परिपुष्टम्। धैर्यं तु नासीत्। अकार्यं महत् पापं कृतम्॥३.३.१३
द्वितीयविवाहः कृतः परं पत्नी अल्पवयस्का।मनः कथमपि धारयितुं न शक्यम्। विषयासक्त्या परिचितापरिचितभावः विस्मृतिं गतः॥३.३.१४
न मातरं गणयति,न स्वसारं गणयति। परद्वारगमनं कृतम्। तेन राजसभायां दण्डितः,तथापि न परिवर्तितः॥ ३.३.१५
परस्त्रियां नयनगोचरायां सत्यां,मनसि अभिलाषः जायते। ततः अकर्तव्यं कर्म क्रियते तेन पुनः दुःखम् अनुभूयते॥ ३.३.१६
एवम् अतिमात्रं पापम् आचरितम्। तत्र शुभाशुभं न विचारितम्।तैः दोषैः सहसा शरीरं रोगग्रस्तम्॥ ३.३.१७
सर्वाङ्गं व्याधिभिः व्याप्तम्।प्राणी क्षयरोगेण आक्रन्तः। स्वकृतं पापम् अचिराद् एव भोगरुपेण अनुभूतम्॥३.३.१८
रोगेण सर्वाङ्गं भिन्नम्। नासिका अवसन्ना। सुलक्षणं नष्टम्। कुलक्षणं प्रकटितम्॥ ३.३.१९
देहः क्षीणः जातः। नाना व्यथा उद्भूताः। तारुणयस्य बलं गतम्। प्राणी सर्वथा कृशत्वं प्राप्तः॥ ३.३.२०
सर्वाङ्गे वेदनानां प्रादूर्भावः। देहः विकलः। शक्तिहीनं प्राणी कम्पते भृशम्॥३.३.२१
हस्तपादाः गलिताः। सर्वाङ्गे कृमयः संञ्जाताः। आबालवृद्धं जना तद् दृष्ट्वा ष्ठीवनम् आरब्धवन्तः॥ ३.३.२२
अतीसारः जातः। परितः दुर्गन्धघ उद्भूतः। बहु कृशत्वं प्राप्तं प्राणी।अधुनः जीवः न रक्ष्यते॥ ३.३.२३
“अधुना मरणं देहि हे देव।बहु कष्टम् अनेन जीवेन सोढम्। मम पातकस्य सञ्चितं न समाप्तं वा” इति॥ ३.३.२४
दुःखेन भृशं रोदिति। यदा यदा स्वदेहम् ईक्षते तदा तदा दीन्ते भूत्वा वराकः अयं विव्यथते॥ ३.३.२५
एवं बहु कष्टं जातम्।सकलं वाताहतम् इव सम्भतम्। चोरैः बलात् वित्तम् अपह्रतम्॥ ३.३.२६
एवं न इहलोकः न परलोकः साधितः। विचित्रं प्रारब्धम् उपस्थितं यत् स्वस्य मलमूत्रं स्वयं सेवितम्॥ ३.३.२७
(तावत्) पापसामग्री समाप्ता। तेन प्रतिदिनं व्यथा न्यूना जाता।वैद्येनऔषधं दत्तम्।उपचारः जातः॥ ३.३.२८
मरणाद् इव रक्षितः। एतस्य पुनर्जन्म जातम्।जनाः अवदन्, “एषः पुनः मनुष्येषु समाविष्टः”॥ ३.३.२९
नुतन पत्नी आनीता। प्रपञ्चः पुनः आरब्धः। स्वार्थबुद्धिः सा पुनरपि अङ्गीकृता॥३.३.३०
किञ्चिद् वैभवम् अर्जितम्। पुनः वस्तुसञ्चयः कृतः।परं सन्ततिः नास्ति इति गृहं नष्टम् इव॥ ३.३.३१
पुत्रः नास्तीति दुःखी जातः।लोकैः ‘एषः वन्ध्यः’ इति अपकीर्तीः कृता। साअपकीर्तीः नश्येत् इति एतदर्थं कन्यासन्ततिः तु भवेत् (इति सः विचारितवान्) ३.३.३२
तदर्थं सङ्कल्पाः कृताः, नाना प्रयासाः अनुष्ठीताः। तीर्थयात्राः, व्रतानि,उपवासाः, धरणं,पारणम् इत्यादयः उपायाः आरब्धाः॥ ३.३.३३
विषयसुख तु दूरतः, वन्ध्यत्वेन दुःखं तावत् प्राप्तम्। तावत् देवता प्रसन्ना।तेन अपत्यं जातम्॥ ३.३.३४
तस्मिन् अपत्ये तयोः मातापित्रौः अतिप्रीतिः॥ एकं क्षणम् अपि तण न दूरीकुरुतः। तस्य दुःखे सञ्जाते उभौ उच्चैः आक्रन्दतः॥ ३.३.३५
दुःखितौ तौ(तस्य क्षेमाय) नाना देवताः पूजयतः स्म। तावत् पूर्वपापवशात् तस्य मरणं प्राप्तम्॥ ३.३.३६
तेन बहु दुःखं जातम्।गृहे शोकः जातः। तौ वदतः,”किमिति देवेन आवयोः वन्ध्यत्वं दत्तम्?॥ ३.३.३७
किम् आवयोः धनेन? तद् गच्छतु परम् अपत्यं भवतु। अपत्यार्थं सकलम् अपि त्यजावः॥ ३.३.३८
वन्ध्यत्वम् इदानीं गतम् आसीत्,तावत् मृतवत्सत्वम् आपतितम्। तत् केनापि उपायेन न नश्यति” इति दुःखेन उच्चैः आक्रन्दतः॥ ३.३.३९
“अस्माकं वंशवल्ली किमिति अवरूद्धा? हन्त! अस्माकं गृहस्थवृत्तिः लुप्ता।कुलस्वामिनी क्षुब्धा वा येन कुलदीपः शान्तः?” ३.३.४०
अथ अपत्यस्य मुखं पश्यामि चेत् सानन्दम् अग्निदिव्यं करिष्ये।तथा कुलस्वामिन्याःपुरः कण्ठतोदव्रतम् आचरिष्ये॥ ३.३.४१
जगदम्ब; मम पुत्रं तव भृत्यत्वे योजयिष्ये।तस्य नाम ‘केरपुंजा’ इति करिष्ये।।तस्य नासायां तव नाम्ना आभरणं धारयिष्ये परं मम मनेरथं पूर्णत्वं नय॥ ३.३.४२
बहून् देवान् उदिश्य सङ्कल्पाः कृताः। बहवः साधवः अन्विष्टाः।वृश्चिकाः बहवः निगीर्णाः॥ ३.३.४३
समन्ध(?) पूजा रचिता। शरीरे सञ्चारिताः देवाः प्रार्थिताः।कदलीफलानि,नारिकेलफलानि,आम्रफलानि ब्राह्मणेभ्यः दत्तानी॥ ३.३.४४
(पुत्रार्थं) नाना कुटिलकृत्यानि आचरितानि।नाना व्रतसङ्कल्पाः अनिष्ठिताः परम् अदृष्टं प्रतिकुलम् आसीत् अतः पुत्रः न जातः॥ ३.३.४५
(पुत्रार्थं)वृक्षतले स्नानं कृतम्। तेन सफलाः अपि वृक्षाः विदग्धाः। एवं पुत्रलोभेन नाना दोषाः आचरिताः॥ ३.३.४६


दासबोधः
दशक ०३ - सगुणपरीक्षा