समास:०४ सद्गुरुस्तवनम्

अथ सद्गुरुः अवर्णनीयः।तत्र माया स्प्रष्टुं न शक्नोति।तत् स्वरूपं मया अज्ञेन कथमिव ज्ञायेत?१.४.१
न ज्ञायते न ज्ञायते नेति नेति इति श्रुतिः अपि वदति।तत्र मम मूर्खस्य मतिः कथमिव प्रभवेत्?१.४.२
सद्गुरुवर्णनस्य विचारं न जाने, अतः दूरादेव मम प्रणामः।हे गुरो परतीरं प्रापय माम्।१.४.३
स्तवनस्य दुराशा आसीत्।परं मायायाः आधारः नष्टः।इदानीं हे स्वामिन्, हे सद्गुरो, यथा असि तादृशं त्वां नमामि।१.४.४
मायाबलेन स्तौमि इति मनोवाञ्छा आसीत्।तथापि माया लज्जिता।किं करवाणि?१.४.५
न लभ्यते मुख्यः परमात्मा।अतः तस्य प्रतिमा क्रियते।एवमेव मायाधारेण सद्गुरोः महिमानं वर्णयामि।१.४.६
निजभावानुसारं देवः ध्याने स्मर्यते।तथैव (निजभावानुसारम्) अयं सद्गुरुः स्तोत्रैः स्तूयते।१.४.७
जय जय हे सद्गुरुराज, विश्वम्भर, विश्वबीज, परमपुरुष, मोक्षधन दीनबन्धो॥१.४.८
तव अभयप्रदहस्तेन दुर्निवारा अपि इयं माया निवार्यते।यथा सूर्यप्रकाशेन अन्धकारः पलायते।१.४.९
आदित्येन अन्धकारः निवार्यते परं पुनः अन्धकारेण ब्रह्माडं व्याप्यते। निशागमे पुनरपि अन्धकारः भवति।१.४.१०
तथा नास्ति सद्गुरुः।अयं जन्ममृत्यू निवारयति।अज्ञानं समूलं मार्जयति। १.४.११
यथा सुवर्णस्य लोहं कदापि न भवति, तथा (निःसन्देहः) गुरुदासः कदापि सन्देहं न प्राप्नोति।१.४.१२
यथा च काचित् सरित् गङ्गां प्राप्ता।मेलने सति सा गङ्गा एव जाता। अनन्तरं यत्नेनापि सा पृथक् न भविष्यति।१.४.१३
तथापि तस्मात् मेलनात् पूर्वं तां सरितं जनाः ‘सामान्या सरित्’ इत्येव मन्यन्ते।अत्र एवं नास्ति।शिष्यः (बोधलाभोत्तरं) स्वामी एव जायते।१.४.१४
पारिषमणिः (लोहे) स्वतुल्यतां न आदधाति।सुवर्णं लोहं न परिवर्तयति। तथा अत्र नास्ति। सद्गुरोः शिष्यः बहुभ्यः जनेभ्यः उपदेशं कर्तुं समर्थः भवति।१.४.१५
(एवं) शिष्यः गुरुत्वं प्राप्नोति।परं सुवर्णेन (लोहस्य) सुवर्णं न भवति। अतः सद्गुरोः कृते पारिषोपमानं न शोभते।१.४.१६
सागरस्य उपमानं चिन्तयेयं परं सः अत्यन्तं क्षारः।अतः क्षीरसागरं चिन्तयेयम्।परं सः कल्पान्ते नश्यति।१.४.१७
मेरोः उपमानं वदेयं परं स तु जडः कठोरः, पाषाणः।नेदृशः सद्गुरुः भवति। (एष तु) दीनविषये कोमलः।१.४.१८
गगनस्य उपमानं प्रयुञ्जेयं परं गगनादपि सद्गुरुः निर्गुणः।अतः सद्गुरोः कृते गगनस्य दृष्टान्तः हीनः।१.४.१९
धैर्यार्थं पृथिव्याः उपमानं कथयेयं परं सापि कल्पान्ते नश्यति।अतः धैर्यार्थं वसुन्धरायाः दृष्टान्तः न्यूनः।१.४.२०
अथ गभस्तिना उपमिनोमि चेत् गभस्तेः प्रकाशः कियान्?शास्त्राणि तस्य मर्यादां वर्णयन्ति।सद्गुरुस्तु अमर्यादः।१.४.२१
अतः उपामायै दिनकरः न्यूनः।सद्गुरुः ज्ञानप्रकाशः महान्।अथ शेषस्य उपमानं कल्पयेय परं सः अपि भारवाहकः।१.४.२२
अथ उपमानार्थं जलं वदेयं परं तदपि कालेन शुष्येत्।सद्गुरोः स्वरूपं निश्चलम्।तद् न शुष्यति।१.४.२३
सद्गुरवे अमृतस्य उपमानं कल्पयेय परं (अमृतपाः) देवाः अपि मृत्युपथं गच्छन्ति।सद्गुरुकृपा यथार्थम् अमरत्वं ददाति।१.४.२४
सद्गुरुं कल्पतरुं सम्बोधयेयं तथापि अयं सद्गुरुः नाम कल्पनातीतः विचारः।तत्र कल्पवृक्षस्य अङ्गीकारं को वा कुर्यात्?१.४.२५
मनसि चिन्तामात्रं नास्ति अतः चिन्तामणिं को वा पृच्छति?कामधेनोः दोहनं निष्कामः नापेक्षते।१.४.२६
सद्गुरुं लक्ष्मीवन्तं भाषेय, परं सा लक्ष्मी विनाशशीला।सद्गुरोः द्वारे मोक्षलक्ष्मी सन्तिष्ठते।१.४.२७
स्वर्गलोकः, इन्द्रस्य सम्पद् इति एतत् कालेन नश्यति।सद्गुरुकृपया यत् प्राप्यते, तत् कालेनापि न भ्रश्यति।१.४.२८
हरिः, हरः, ब्रह्मा इत्यादयः सर्वे विनाशं गच्छन्ति परं सद्गुरुपदम् एकम् अविनाशम्।१.४.२९
किं तदर्थम् उपमानं कल्पयेय?(यतो हि) सकला सृष्टिः नश्वरा।सद्गुरोः उपमानार्थं पाञ्चभौतिकस्य चिन्तनं व्यर्थम्।१.४.३0
अतः सद्गुरुः अवर्णनीयः इति एतद् एव एतद् एव मम वर्णनम्।अन्तस्थितेः चिह्नानि अन्तर्निष्ठाः एव जानन्ति।१.४.३१
इति चतुर्थः समासः।

दशक ०१ - स्तवनम्   दासबोधः