प्रमुखा विकल्पसूचिः उद्घाट्यताम्

॥ द्वितीयदशके षष्ठः समासः॥
पूर्वं रजोगुणः सलक्षणः सक्रियः उक्तः।अधुना तमोगुणं वर्णयामि, शृणुत।२.६.१
संसारे दुःखसंसर्गे सति खेदः भवति अथवा क्रोधः उद्भवति, स तमोगुणः।२.६.२
शरीरे क्रोधपूर्णे सति न मातरं जानाति, न पितरं जानाति।भ्रातरं भगिनीं कान्तां च ताडयति, स तमोगुणः।२.६.३
परस्य घातः कार्यः, अथवा आत्मघातः कार्यः (इति चिन्तयति), स्वस्य एव विस्मरणं कारयति सः तमोगुणः।२.६.४
क्रोधविकारः देहे व्याप्तः।तेन पिशाचवत् सञ्चरति।नाना उपायैः अपि न निवार्यते, स तमोगुणः।२.६.५
स्वस्मिन् एव शस्त्रपातः, परस्यापि घातः इति यः आचारः स तमोगुणः॥ २.६.६
नेत्राभ्यां युद्धं द्रष्टव्यम्।यत्र युद्धं तत्र गमनम्।एवं यत्र अभिरुचिः स तमोगुणः॥ २.६.७
अखण्डं भ्रमः , तेन कृतः अपि निश्चयः नश्यति।अत्यन्तं निद्राति स तमोगुणः॥२.६.८
यस्य क्षुधा महती, न मधुरं जानाति, न तिक्तम् इति यस्य मूढता सः तमोगुणः॥२.६.९
प्रीतिपात्रं मृतम् इति स्वयमपि मर्तव्यम्, आत्महत्या करणीया स तमोगुणः॥२.६.१०
कीटः, पिपीलिका, श्वापदम् इति एतेषां वधे रतिः,यः अत्यन्तं कृपाहीनः सः तमोगुणः॥२.६.११
द्रव्यार्थं स्त्रीहत्या, बालहत्या, ब्रह्महत्या, गोहत्या रोचते स तमोगुणः॥२.६.१२
क्रोधवशात् विषं पातुम् इच्छा अथवा परवधस्य अभिलाषः, , सः तमोगुणः।२.६.१३
मनसि कपटभावं धृत्वा परस्य हानिं करोति, सदा मत्तः, सदा उद्धतः भवति, सः तमोगुणः।२.६.१४
‘कलहः भवेत्’ इति इच्छा, युद्ध्यै इति इच्छा, चित्ते द्वेषः आविर्भवति, स तमोगुणः।२.६.१५
युद्धं द्रष्टव्यं, युद्धं श्रोतव्यं, स्वयं योद्धव्यं, हन्तव्यं, वा मर्तव्यं वा , स तमोगुणः।२.६.१६
मत्सरेण भक्तिः भञ्जनीया, देवालयाः पातनीयाः, फलिताः द्रुमाः छेदनीयाः, स तमोगुणः। २.६.१७
सत्कर्मसु अरुचिः, नाना दोषेषु रतिः, चित्ते पापाभयस्य अभावः , स तमोगुणः॥२.६.१८
ब्रह्माकारवृत्तेः उच्छेदः, जीवमात्रस्य खेदनम् , अति प्रमादरुचिः स तमोगुणः॥२.६.१९
अग्निना विनाशं करोति, शस्त्रैः विनाशं करोति, भूतग्रहेण विनाशं करोति, विषेण विनाशं करोति, एवं मत्सरेण जीवानां क्षयं करोति, स तमोगुणः॥२.६.२०
परपीडया सन्तोषः, निष्ठुरत्वे प्रीतिः, संसारविषये अनुद्वेगः, स तमोगुणः॥२.६.२१
कलहः जनयितव्यः, स्वयं कौतुकं द्रष्टव्यम् एतादृशी कुबुद्धिः जायते, स तमोगुणः॥२.६.२२
सम्पत्तिः प्राप्ता चेत् जीवपीडा करणीया, चित्ते करुणा नास्ति, स तमोगुणः॥२.६.२३
न रोचते भक्तिः, न रोचते भावः, न रोचते तीर्थं न रोचते देवः, नेष्यते वेदशास्त्रादिकं , स तमोगुणः॥२.६.२४
स्नानसन्ध्यावन्दनविषये नियमः नास्ति।य़ः स्वधर्माद् भ्रश्यति, अकर्तव्यं करोति, स तमोगुणः॥२.६.२५
अग्रजः, पिता, माता इत्येतेषां वचनं न सहते, शीघ्रकोपितया यः निर्गच्छति, स तमोगुणः॥२.६.२६
निष्क्रियतया अशनं, निष्क्रियतया आसनं, निष्क्रियतया जीवनं, न किमपि स्मरणं, स तमोगुणः॥२.६.२७
अभिचारविद्यायाः अभ्यासः, शस्त्रविद्याभिलाषः, मल्लविद्याभिलाषः , स तमोगुणः॥२.६.२८
बडिशेन, शृङ्खलया च कायक्लेशः, काष्ठयन्त्रेण जिह्वाच्छेदः इत्येवमादीनि यः ऐहिकलाभस्य इच्छया करोति, स तमोगुणः॥२.६.२९
स्वमस्तके अग्निधारणं, प्रदीपेन स्वाङ्गदाहः, शस्त्रेण स्वदेहतोदः इति एष तमोगुणः॥२.६.३०
देवाय मस्तकम् अर्पनीयम् अथवा शरीरावयवः अर्पणीयः, उन्नतस्थलात् देहः निपातनीयः स तमोगुणः॥२.६.३१
देवस्य पुरतः आत्मनिग्रहः देवस्य पुरतः स्वदेहस्य अवलम्बनं, देवस्य द्वारे आत्महत्या इति अयं तमोगुणः॥२.६.३२
निराहारम् उपोषणं, पञ्चाग्निसाधनं, भूम्यन्तर्गमनमिति अयं तमोगुणः॥ २.६.३३
सकामम् अनुष्ठानं, सकामं योगसाधनम् अथवा निष्क्रियं शमनम् इति अयं तमोगुणः॥२.६.३४
नखसंवर्धनं, केशसंवर्धनं, हस्तस्य ऊर्ध्वधारणं, वाक्शून्यत्वमिति अयं तमोगुणः॥२.६.३५
नाना निग्रहैः देहपीडनं, देहदुःखेन क्षोभः, क्रोधेन देवमूर्तिविखण्डनमिति अयं तमोगुणः॥ २.६.३६
यः देवं निन्दति, सः आशाबद्धः घोरकर्मा।यः सतसङ्गं न करोति, सः तमोगुणः॥२.६.३७
एवमयं तमोगुणः।कथने अतिविस्तृतः तथापि त्यागार्थं किञ्चित् निरूपणं कृतम्॥२.६.३८
एवं यः वर्तते, सः तमोगुणः। अयं पतनस्य कारणम्।मोक्षप्राप्तिः अनेन न भवति॥२.६.३९
तमोगुणवशात् कृतस्य कर्मणः फलं सकलं प्राप्यते।तेन जन्मदुःखस्य मूलं न खण्ड्यते॥२.६.४०
जन्ममूलखण्डनाय सत्वगुणः आवश्यकः।तस्य निरूपणम् अग्रिमे समासे क्रियते॥२.६.४१

॥ इति दासबोधे द्वितीयदशके समासः ६॥

दासबोधः