धन्यो धन्योऽयं वायुदेव:,यस्य विचित्र: स्वभाव:।वायुना जगति सर्वे जीवा: वर्तन्ते।दास.१६.६.१
वायुना नि:श्वासोच्छ्वासा:। वायुना नाना विद्यानाम् अध्ययनम्।वायुना शरीरस्य चलनं च भवति।१६.६.२
चलनं वलनं प्रसारणं निरोधनम् आकुञ्चनं च (वायुना भवति)।प्राण: अपान:,व्यान:, उदान:समान: इति वायु: (एव)। १६.६.३
नाग: कूर्म: कर्कश: (कृकल:)देवदत्त: धनञ्जय: इति वायो: नैके स्वभावा: सन्ति।१६.६.४
वायु: ब्रह्माण्डे प्रकटित:, ब्रह्मादिदेवतासु व्याप्त:।तत:नाना गुणै: पिण्डे प्रकटित:। १६.६.५
ये च स्वर्गस्था: देवा:, ये च पुरुषार्थिन: दानवा:, ये च मृत्युलोकस्था: मानवा:, ये च विख्याता: राजान:-।१६.६.६
-ये च नरदेहे नाना भेदा:,यानि च विभिन्नानि श्वापदानि, ये च सानन्दं क्रीडन्त: वनचरा:, जलचरा:-।१६.६.७
-तेषु समस्तेषु वायु: क्रीडति।खगकुलं यद् विहरति, वह्नि: यद् उद्गच्छति तद् वायुना एव।१६.६.८ वायु: मेघान् पूरयति,सपदि तान् परं सारयति।वायुतुल्य: कर्मकर: अपर: नास्ति।१६.६.९
(वायु:) पिण्डे व्याप्त:, ब्रह्माण्डे व्याप्त:। तत: कवचं कर्तुं बहि: प्रयात:। सर्वत्र परिपूर्ण: समर्थ: वायु:॥१६.६.२३
एवम् अयं समर्थ: पवन:, हनुमान् यस्य नन्दन:।हनुमत: तनु: च मन: च रघुनाथस्मरणे वर्तते।१६.६.२४

दासबोध:
"https://sa.wikisource.org/w/index.php?title=समास:०६_वायुनिरूपणम्&oldid=38158" इत्यस्माद् प्रतिप्राप्तम्