समास:०७ सत्त्वगुणलक्षणम्

पूर्वं तमोगुणः कथितः।स दुःखदः,दारुणः च।अथ सत्वगुणं शृणुत।अयं परमदुर्लभः॥२.७.१
अयं भजनस्य आधारः, योगिनाम् आश्रयः।अयं दुःखमूलं संसारं निरस्यति॥२.७.२
येन उत्तमगत्तिः प्राप्यते, भगवन्तं प्रति मार्गः प्राप्यते येन सायुज्यमुक्तिः प्राप्यते॥२.७.३
अयं भक्तानां रक्षकः, भवार्णवे विश्वासः।या मोक्षलक्ष्म्याः दशा सोऽयं सत्वगुणः॥२.७.४
यः परमार्थस्य मण्डनं, महतां भूषणं, येन रजस्तमसोः निराकरणं भवति सोऽयं सत्वगुणः॥२.७.५
यः परमसुखकरः, यः आनन्दलहरीं दत्त्वा जन्ममृत्यू निवारयति, सोऽयं सत्वगुणः॥२.७.६
यः अज्ञानस्य अन्तः, यः पुण्यस्य मूलपीठं, येन परलोकमार्गः लभ्यते, सोऽयं सत्वगुणः॥२.७.७
एतादृशोऽयं सत्वगुणः, यदा स्वयं देहे प्रकाशते तदा तस्य क्रियारूपं लक्षणम् एवं विद्यते-॥२.७.८
ईश्वरे अधिकं प्रेम, प्रपञ्चसम्पादनं लौकिकमात्रं तथा सदा विवेकसान्निध्यं सः सत्वगुणः॥२.७.९
संसारदुःखं विस्मारयति, विमलं भक्तिमार्गं दर्शयति, भजनक्रियां जनयति, सः सत्वगुणः॥२.७.१०
परमार्थे प्रेम, भावार्थे रुचिः,परोपकारे त्वया सः सत्वगुणःसः सत्वगुणः॥२.७.११
स्नानं, सन्ध्यावन्दनादिकः पुण्याचारः, अन्तरङ्गे, निर्मलत्वं, शरीरवस्त्रादिषु सोज्ज्वलता,सः सत्वगुणः॥२.७.१२
यजनं , याजनं, अध्ययनम्, अध्यापनं, दानपुण्यं यः स्वयं कुरुते सः सत्वगुणः॥२.७.१३
निरूपणे रतिः, हरिकथायां रुचिः, साक्षात् क्रियायां परिवर्तनं सः सत्वगुणः॥२.७.१४
अश्वदानं गजदानं गोदानं भूमिदानं नाना रत्नानां दानं यः करोति सः सत्वगुणः॥२.७.१५
धनदानं, वस्त्रदानम, अन्नदानम् उदकदानं, ब्राह्मणसन्तर्पणं यः करोति, सः सत्वगुणः॥२.७.१६
कार्तिकस्नानं, माघस्नानं, व्रतम् उद्यापनं, दानं, तीर्थाटनम्, उपवासः, इति एतत् यः निष्कामतया करोति, सः सत्वगुणः॥२.७.१७
सहस्रभोजनानि, लक्षभोजनानि, विविधदानानि यः निष्कामतया करोति, एतद् एव यः कामनया करोति सः रजोगुणः॥२.७.१८
यः तीर्थाय भूमिम् अर्पयति, वापीं सरोवरं च निर्माति, देवालयान् शिखराणि च रचयति सः सत्वगुणः॥२.७.१९
देवद्वारे उपशालां रचयति, सोपानमार्गं रचयति, दीपमालाः रचयति, वृन्दावनं रचयति, अश्वत्थस्य वितर्दिं रचयति सः सत्वगुणः॥२.७.२०
यः वनानि उपवनानि करोति पुष्पवाटिकां करोति जलस्रोतः निर्माति तापसानां मनांसि तोषयति सः सत्वगुणः॥२.७.२१
यः सन्ध्यामठान् सुरङ्गानि नदीतीरे सोपानानि, देवद्वारे भाण्डारगृहाणि रचयति सः सत्वगुणः॥२.७.२२
यः नाना देवानां स्थानेषु नन्दादीपान् ज्वालयति, अलङ्कारभूषणादीनां समर्पणं करोति, सः सत्वगुणः॥२.७.२३
यः सुस्वरं झणद्वाद्यं (झल्लरीं) मृदङ्गं तालं डिण्डिमवाद्यं दुन्दुभिं कर्णिकावाद्यं देवालये अर्पयति सः सत्वगुणः॥२.७.२४
य: नानाविधं सुन्दरं साहित्यं देवालये अर्पयति, य: हरिभजनपर:, स: सत्वगुण:॥२.७.२५
यः सुखासनानि, शिबिकाः, पताकाः, ध्वजान् चमरीः छत्रविशेषान् देवालये अर्पयति सः सत्वगुणः॥२.७.२६
यस्य वृन्दावन-निर्माणं, रङ्गमालानिर्माणं, सम्मार्जनम् इत्यादिविषये प्रीतिः विद्यते, स: सत्वगुण:॥२.७.२७
नाना सुन्दराणि उपकरणानि, मण्डपाः, छत्राणि, आसनानि, इति एतेषां देवालये समर्पणम् इति सत्वगुणः॥२.७.२८
यः देवार्थं नानाविधं खाद्यं, नानाविधं नैवेद्यम् अपूर्वाणि फलानि अर्पयति, सः सत्वगुणः॥२.७.२९ एवं यस्य भक्तौ रुचिः, देवस्य नीचदास्यविषये अपि रुचिः,य: स्वयं देवद्वारं मार्जयति, सः सत्वगुणः॥२.७.३० तिथिः, पर्वकालः, महोत्सवः इत्यादिषु यस्य रतिः विद्यते, यः कायेन वचसा , मनसा सर्वमर्पयति, सः सत्वगुणः॥२.७.३१ यः हरिकथायां तत्परः, तत्र गन्धं, मालां, धूपं, स्वीकृत्य सदा तिष्ठति, सः सत्वगुणः॥२.७.३२
नरः वा नारी वापि यथाशक्ति सामग्रीम् आदाय देवद्वारे तिष्ठति,सः सत्वगुणः॥२.७.३३
यः महत्कृत्यमपि विवर्ज्य देवकार्यार्थं त्वरते, यस्यान्तरङ्गे भक्तिः एवमुत्कटा, सः सत्वगुणः॥२.७.३४
स्वस्य माहात्म्यं दूरे उज्झित्वा यः देवद्वारे तिष्ठति, तत्र नीचमपि कृत्यं स्वीकरोति, सः सत्वगुणः॥२.७.३५
देवार्थं यः उपवासं करोति, भोजनताम्बूलादिकं वर्जयति, नियमेन जपध्यानादिकम् आचरति, सः सत्वगुणः।२.७.३६
यः कठिनां वाचं न वदति, अतिनियमेन वर्तते, येन योगिनः सन्तोषिताः , सः सत्वगुणः।२.७.३७
यः निरभिमानः सन् निष्कामं कीर्तनं कुरुते, कीर्तने च यस्य स्वेदरोमाञ्चप्रादुर्भावः भवति, सः सत्वगुणः।२.७.३८
यस्य चित्ते ईश्वरस्य ध्यानं, तेन सजलं नेत्रं, देहस्य च विस्मरणं , सः सत्वगुणः।२.७.३९
यस्य हरिकथायाम् एतावती प्रीतिः अस्ति, यत् ततः कदापि उद्विग्नः न भवति।कथादौ वा कथान्ते वापि यस्य प्रेम वर्धमानं भवति,सः सत्वगुणः।२.७.४०
यस्य मुखे नाम तथा करे तालः, यः नृत्यन् भगवल्लीलां वर्णयति, यः भक्तानां पदरजः शिरसा धारयति, सः सत्वगुणः।२.७.४१
यस्य देहाभिमानः गलितः, यस्य विषयवैराग्यं प्रवृद्धं, येन मायायाः मिथ्यात्वम् अवगतं, सः सत्वगुणः।२.७.४२
कश्चन उपायः कार्यः, किं प्रपञ्चासक्त्या इति यः मनसि विचारयति, सः सत्वगुणः।२.७.४३
संसाराद् यस्य मनः त्रस्तं, ‘किञ्चिद् भजनं करोमि’इति यस्य बुदधिः उदिता, सः सत्वगुणः।२.७.४४
स्वस्य (गार्हस्थ्ये) आश्रमे सन् अपि यः नित्यविधिषु सादरः, यस्य सदा रामे प्रीतिः, सः सत्वगुणः।२.७.४५
यः सर्वस्माद् उद्विग्नः, यः परमार्थस्य निकटे वर्तते, आघातेषु यस्य धैर्यं समुपजायते, सः सत्वगुणः।२.७.४६
यः सर्वदा उदासीनः, नाना भोगेभ्यः उद्विग्नः सन् भगवद्भजनं स्मरति, सः सत्वगुणः।२.७.४७
यस्य चित्तं पदार्थेषु न रमते, सततं भगवन्तं स्मरति, एवं यस्य भावार्थः दृढः, सः सत्वगुणः।२.७.४८
जनाः ‘अयं विकृतः’ इति दूषयन्ति, तथापि अस्य ईश्वरप्रेम वर्धतेतरां, निश्चयो दृढतरः भवति, सः सत्वगुणः।२.७.४९
यस्य अन्तरे स्फुरणं जागर्ति, तर्कः स्वरूपपरः भवति, दुष्टसंशयः निवर्तते, सः सत्वगुणः।२.७.५०
शरीरं सप्रयोजनं स्यात्, तदर्थं यस्य मनसि प्रयत्नेच्छा जायते, सः सत्वगुणः।२.७.५१
शान्तिः, क्षमा, दया, तथा निश्चयः अस्य जायते।सत्वगुणस्य कार्यम् एवम् अस्ति।२.७.५२
ये अतिथयः ये अभ्यागताः प्राप्ताः, तान् अभोजयित्वा न गमयति।यः यथाशक्ति दानं करोति, सः सत्वगुणः।२.७.५३
कश्चिद् हीनः, दुर्बलः तप्तः, स्वाश्रमम् आगच्छति चेत्, तस्मै स्थलं कल्पयते, सः सत्वगुणः।२.७.५४
स्वस्य गृहे अन्नं न्यूनम् अस्ति चेदपि (अभ्यागतात्) विमुखो न भवति, सदा यथाशक्ति ददाति, सः सत्वगुणः।२.७.५५
येन विजिता रसना, तृप्ता यस्य वासना, नास्ति च यस्य कामना, सः सत्वगुणः।२.७.५६
यद्भविता तद् भविता इति विचारेण प्रापञ्चिकाघातैः अपि यस्य चित्तं चञ्चलं न भवति, सः सत्वगुणः।२.७.५७
एकं भगवन्तम् आस्थाय सर्वम् (ऐहिकं) सुखं येन वर्जितं,देहः अपि समर्पितः, सः सत्वगुणः।२.७.५८
वासना विषयान् प्रति धावति, तथापि यः अविचलः तिष्ठति, यस्य धैर्यं न गलति, सः सत्वगुणः।२.७.५९
देहः आपद्ग्रस्तः वा क्षुधातृषाभ्यां पीडितः वा भवतु, यस्य निश्चयः स्थिरः,सः सत्वगुणः।२.७.२.७.६०
येन श्रवणमनननिदिध्यासनैः समाधानं प्राप्तं,शुद्धम् आत्मज्ञानं लब्धं, सः सत्वगुणः।२.७.२.७.६१
यस्य अहङ्कारः नष्टः, यस्मिन् नैराश्यं विलसति, यस्मिन् कृपालुत्वं विद्यते, सः सत्वगुणः।२.७.६२
सर्वैः सह यः नम्रतया वर्तते, मर्यादया वर्तते, सर्वान् जनान् यः तोषयति, सः सत्वगुणः।२.७.६३
यस्य सर्वजनेषु आर्जवम् अस्ति, विरोधस्य वार्ता अपि नास्ति,यः परोपकारार्थं प्राणान् अपि ददाति, सः सत्वगुणः।२.७.६४
स्वकार्यादपि पूर्वं यः परकार्यं साधयति, मरणोत्तरं यस्य कीर्तिः अवशिष्यते, सः सत्वगुणः।२.७.६५
परस्य गुणदोषान् यः पश्यति, तान् समुद्र इव स्वस्मिन् गोपायते सः सत्वगुणः। २.७.६६
नीचमुत्तरं सोढव्यं परं प्रत्युत्तरं न दातव्यम्।क्रोधः उत्पन्नः चेदपि धारणीयः इति एषः सत्वगुणः।२.७.६७
अन्यायं विना जनाः दुःखं जनयन्ति,नानाविधं पीडयन्ति,तथापि तावत् सर्वं चित्ते सहते, सः सत्वगुणः।२.७.६८
कायक्लेशः सोढव्यः, दुर्जनैः सह सख्यं रक्षति, निन्दकेषु उपकारं करोति, सः सत्वगुणः।२.७.६९
मनः अपधावति, परं तद् विवेकेन रोधयति, इन्द्रियाणि दमयति,सः सत्वगुणः।२.७.७०
सत्कर्म आचरणीयं, दुष्कर्म त्याज्यं, भक्तिमार्गः अनुसरणीयः इति सः सत्वगुणः।२.७.७१
यस्मै प्रातःस्नानं रोचते, पुराणश्रवणं रोचते, यः नाना मन्त्रैः देवतार्चनं करोति,सः सत्वगुणः।२.७.७२
यः पर्वकालेषु दक्षः, वसन्तपूजापरः, जन्मोत्सवेषु धृतातिस्नेहः, सः सत्वगुणः।२.७.७३
कश्चिद् वैदेशिकः म्रियते चेत् तस्य अन्त्यसंस्कारं करोति, अथवा अन्त्यसंस्कारे उपस्थितः भवति, सः सत्वगुणः।२.७.७४
कश्चन कञ्चन ताडयति,तत्र गत्वा यः ताडकं निवारयति, जीवान् बन्धमुक्तान् करोति,सः सत्वगुणः।२.७.७५
शिवलिङ्गे लक्षावल्यर्पणम् अभिषेके नामस्मरणे विश्वासः, देवदर्शनाय समयरक्षणम् इति सः सत्वगुणः।२.७.७६
साधून् दृषट्वा त्वरते, परमसुखेन आकम्पितः भवति, सर्वभावैः नमस्करोति,सः सत्वगुणः।२.७.७७
यस्मिन् साधुकृपा भवति, तया कृपया वंशोद्धारः भवति, सः ईश्वरांशः सत्वगुणः।२.७.७८
यः जनेभ्यः सन्मार्गं दरशयते, तान् हरिभजने योजयते, अथवा ज्ञानं ब्रूते, सः सत्वगुणः।२.७.७९
यस्मै पुण्यसंस्कारः रोचते, प्रदक्षिणा रोचते, नमस्कारः रोचते, यस्य कण्ठपाठः स्थिरः भवति,सः सत्वगुणः।२.७.८०
यस्य भक्तिविषये अतिलोभः, यः ग्रन्थसामग्रीं सङ्गृह्णाति, नाना धातुमूर्तीः पूजयति,सः सत्वगुणः।२.७.८१
यस्य उपकरणानि चकासते, यस्य मालाः, भाण्डानि, आसनानि, वसनानि, पवित्राणि तथा स्वच्छानि सन्ति ,सः सत्वगुणः।२.७.८२
यः परपीडया दुःखी भवति, परसन्तोषेण सुखी भवति,वैराग्यं दृष्ट्वा हृष्टः भवति, सः सत्वगुणः।२.७.८३
यः परभूषणेन भूषणं मन्यते, परदूषणेन दूषणं मन्यते, परदुःखेन खिद्यते, सः सत्वगुणः।२.७.८४
अधुना अलं विस्तरेण।देवे, धर्मे यस्य चित्तं वर्तते, यः निष्कामं भजते, सः सत्वगुणः।२.७.८५
एवम् अयं सत्वगुणः संसारसागरे स्वभावतः तारकः भवति।एतेन ज्ञानमार्गस्य विवेकः उत्पद्यते॥२.७.८६
सत्वगुणेन भगवद्भक्तिः,सत्वगुणेन ज्ञानप्राप्तिः,सत्वगुणेन सायुज्यमुक्तिः प्राप्यते।२.७.८७
एवं सत्वगुणस्य स्थितिः।तत्र यथामति स्वल्पमुक्तम्।श्रोतारः अग्रे सावधानाः भवन्तु।२.७.८८

। इति सत्वगुणः नाम समासः सप्तमः।

दासबोधः

दासबोध: दशक ०२ – मूर्खलक्षणम्