अस्तु, य एवं प्रसङ्गः घटितः, स इदानीम् अतीतः।इदानीं तु ब्राह्मणाः चतुराः भवन्तु।१४.८.१
(ब्राह्मणैः) विमलहस्ताभ्यां देवः पूजनीयः।तेन सर्वे सभाग्याः भवन्ति।ये त मूर्खाः, अभक्ताः, अव्यवस्थिताः, ते ते दारिद्र्यं भुञ्जते ।१४.८.२
आदौ देवः ज्ञेयः अनन्तरम अनन्यभावेन भजनीयः।सर्वोत्तमस्य अखण्डं ध्यानं कार्यम्।१४.८.३
सर्वेषु यः उत्तमः, तस्य नाम सर्वोत्तमः।(तस्य ध्यानेन) आत्मानात्मविवेकस्य मर्म ज्ञातव्यम्। १४.८.४
आत्मा देहं ज्ञानपूर्वकं रक्षति। सः द्रष्टा अन्तःसाक्षी च। ज्ञानपूर्वकं सः सर्वान् पदार्थान् परीक्षते।१४.८.५
सः सर्वेषां प्राणिनां देहेषु वर्तते, इन्द्रियग्रामं च चेष्टयते इति स्वानुभूतिः विद्यते।१४.८.६
यःसर्वेषु प्राणिषु वर्तते, स एव जगदन्तरे वर्तते अतः अन्तःकरणम् आराधनीयम्।स एव परस्परं दाता, परस्परं भोक्ता।यत्किंच स एव। १४.८.७
देवः जगदन्तरे वर्तते, स एव अस्माकम् अन्तरङ्गे वर्तते, (स एव) त्रैलोक्ये प्राणिमात्रे वर्तते इति सम्यग् द्रष्टव्यम्।१४.८.८
मूलतः द्रष्टा एकः।सः सर्वत्र विभक्तः। देहप्रकृतिवशाद् भिन्नः भिन्नः जातः। १४.८.९

दासबोधः

"https://sa.wikisource.org/w/index.php?title=समास:०८_अखण्डध्यानम्&oldid=131248" इत्यस्माद् प्रतिप्राप्तम्