समास:०८ सद्विद्यानिरूपणम्
द्वितीयदशके अष्टमः समासः॥
अथ सद्विद्यालक्षणानि शृणुत।एतानि परमशुद्धानि सुलक्षनानि।एतेषां विचारेण सद्विद्या अधिगम्यते।२.८.१
यः सद्विद्यः पुरुषः तस्मिन् उत्तमलक्षणानां विशेषः दृश्यते।तस्य गुणानां श्रवणेन परमसन्तोषः भवति।२.८.२
सः भाविकः सात्विकः,प्रेमलः, शान्तिक्षमादयाशीलः, नम्रः, तत्परः अमृतवचनः भवति॥२.८.३
सः परमसुन्दरः च चतुरः च भवति।परमसबलः च धीरः च भवति। परमसम्पन्नः च उदारः च भवति।२.८.४
सः परमज्ञाता च भक्तः च भवति।पण्डितः च विरक्तः च भवति। महातपस्वी च शान्तः च भवति।२.८.५
सः वक्ता च आशारहितः च भवति।सर्वज्ञः (अन्येषां श्रवणे) च सादरः च भवति।श्रेष्ठः च सर्वत्र नम्रः च भवति।२.८.६
सः राजा च धार्मिकः च।शूरः च विवेकी च।तरूणश्च नियतश्च भवति।२.८.७
सः वृद्धानाम् आचारम् अनुवर्तयति, कुलाचारम् अनुवर्तयति, तस्य आहारः युक्तः भवति।सः निर्विकारः, धन्वन्तरिः इव परोपकारी, तथा यशस्वी भवति।२.८.८
सः निरभिमानः कार्यकर्ता अस्ति।गायकः च वैष्णवः च अस्ति।वैभवयुतः अपि भगवद्भजने सादरः अस्ति।२.८.९
सः तत्त्वज्ञः च उदासीनः च भवति।बहुश्रुतः अपि सज्जनः भवति।मन्त्री अपि गुणवान् नीतिमान् भवति।२.८.१०
परमार्थविषये परा प्रीतिः, सन्मार्गानुसरणं, सत्क्रियानुष्ठानं, धारणा, धृतिः, श्रुत्यध्ययनं, स्मृत्यध्ययनं, भगवल्लीलाश्रवणं, शास्त्रयुक्तिः, भगवत्स्तुतिः, मतिः, परीक्षा एते गुणाः तस्मिन् सन्ति॥२.८.१२
सः दक्षः, धूर्तः,योग्यः, तार्किकः, सत्यः, साहित्यिकः, नियतः, मर्मज्ञः, कुशलः, चपलः, नानाचमत्कारयुक्तः भवति।२.८.१३
सः सादरः, मानज्ञः, तारतम्यवेत्ता, प्रयोगज्ञः, समयज्ञः, प्रसङ्गावधानी, कार्यकारणचिह्नज्ञः, विचक्षणः, सुवक्ता भवति।२.८.१४
सः सावधानः, साक्षेपः, साधकः, आगमनिगमशोधकः, ज्ञानविज्ञानबोधकः, निश्चयी च भवति।२.८.१५
सः पुरश्चरणी, तीर्थवासी, दृढव्रतः, कायक्लेशी, उपासकः, निग्रहवेत्ता भवति।२.८.१६
सः सर्वदा सत्यवचनः,शुभवचनः, कोमलवचनः, एकवचनः, निश्चयवचनः, सौख्यवचनः, भवति।२.८.१७
सः तृप्तकामः, गभीरः, योगी, उदारमनस्कः, सुप्रसन्नः, वीतरागः, सौम्यः, सात्विकः, शुद्धमार्गः, निष्कपटः, निर्व्यसनः भवति॥२.८.१८
सः: सुघटसङ्गीतः, गुणग्राहकः, निरपेक्षः, लोकसङ्ग्राहकः, आर्जवी, सर्वभूतेषु मैत्रपूर्णः भवति॥२.८.१९
सः द्रव्यशुचिः, दारशुचिः, न्यायशुचिः, अन्तःशुचिः, प्रवृत्तिशुचिः, निवृत्तिशुचिः, सर्वशुचिः भवति॥२.८.२०
मैत्रभावनया सः परहितं करोति।वाङ्माधुर्येण सः परशोकं हरति।सामर्थ्येन दण्डं धारयते।पुरुषार्थेन जगन्मैत्रं सम्पादयति॥२.८.२१
सः संशयच्छेदकः, विशालवक्ता भवति।सर्वज्ञत्वे अपि अन्येषां श्रोता भवति।कथानिरूपणे अर्थकथनरहितं शब्दं न गमयति॥२.८.२२
सः साधुः पवित्रः पुण्यशीलः भवति।सः शुद्धचित्तः, धर्मात्मा,कृपालुः, कर्मनिष्ठः, स्वधर्माचरणेन निर्मलः, निर्लोभः, सानुतापः भवति।
सः विवादरहितं संवादं कुरुते।सः निःसङ्गः, निरुपाधिकः भवति। दुराशारहितः अक्रोधः निर्दोषः निर्मत्सरः भवति।२.८.२३
सः निश्चयी, विमलज्ञानी, भवति समाधानी अपि भक्तः भवति।सिद्धः सन् अपि साधकः इव साधनं रक्षति।२.८.२४
सः सुस्वरूपः, सन्तोषरूपः, आनन्दरूपः, हास्यरूपः, ऐक्यरूपः, सर्वेषु आत्मरूपः भवति। २.८.२५
सः भाग्यवान् विजयी, रूपवान् गुणवान् आचारवान्, क्रियावान्, विचारवान् च भवति।२.८.२६
सः यशस्वी, कीर्तिमान्, शक्तिमान्, समर्थः, वीर्यवान्, वरदः, सत्यः, सुकृती च भवति। २.८.२७
सः विद्यावान्, कलावान्, शुभलक्षणः, कुलवान्, शुचिः, बली, दयालुः च भवति। २.८.२८
सः युक्तिमान्, गुणी, वरिष्ठः, बुद्धिमान, बहु धीरः,दीक्षितः, सदा सन्तुष्टः,निःस्पृहः, वीतराग: च भवति॥२.८.२९
अस्तु।एतादृशः उत्तमगुणाः नाम सद्विद्यालक्षणम्।अभ्यासार्थम् अल्पमात्रं निरूपितम्॥२.८.३०
रूपं वा लावण्यं वा अभ्यासप्राप्यं नास्ति।सहजगुणाः उपायलभ्याः न सन्ति अतः आगन्तुकगुणाम् ईषन्मात्रं वा अभ्यासः भवतु॥२.८.३१
सेयं सद्विद्या उत्तमा।सर्वेषां भवितुमर्हति।परं विरक्तजनेन विशेषतः अभ्यसनीया॥२.८.३२
इति सद्विद्यानिरूपणं नाम अष्टमः समासः॥
दासबोधः दशक ०२ – मूर्खलक्षणम् दशक ०२ – मूर्खलक्षणम्