प्रमुखा विकल्पसूचिः उद्घाट्यताम्

स्वयं यथेष्टं खादनीयम्। अवशिष्टस्य अन्नस्य वितरणं करणीयम्।परम् अन्नस्य वृथा त्यागः करणीयः इति एषः धर्मः नास्ति।१२.१०.१
तथा (साधकः ) ज्ञानेन तृप्तः भवेत्।तदेव ज्ञानम् अन्येभ्यः वदेत्। यः तरणे समर्थः सः मज्जन्तं जनं तारयेत्।२
(साधकः) उत्तमान् गुणान् स्वयम् अङ्गीकुर्यात्।तान् गुणान् बहुभ्यः जनान् वदेत्।स्वयं वर्तनं विना अन्येभ्यः कथनम् अनुचितम्।३
स्नानं, सन्ध्यावन्दनं, देवतार्चनं, जपः, ध्यानं, हरिकथानिरूपणम् इति एतत् एकाग्रचित्तेन करणीयम्।४
शरीरं परोपकारे योजयेत्।बहूनां कार्ये साहाय्यं कुर्यात्।कस्यापि कार्ये न्यूनं न भवेद् इति यत्नः कार्यः।५
सक्तं, पीडितं जनं जानीयात्।यथाशक्ति तस्य कार्यं कुर्यात्।सर्वैः सह मृदुवाण्या वदेत्।६
(साधकः) परस्य दुःखेन दुःखितः भवेत्।परस्य सन्तोषेण सन्तुष्टः भवेत्।साधुशब्दैः सर्वेषां प्राणिनां सङ्ग्रहं कुर्यात्।७
बहवः जनाः अन्यायं कुर्वन्ति।तेषां विषये क्षमा भवतु।बहूनां कार्याणि करणीयानि।(तेन ) ये परकीयाः जनाः ते स्वकीयाः भविष्यन्ति।१२.१०.८
अन्यस्य चित्तं ज्ञातव्यम्।तदनुसारं वर्तनं करणीयम्।नाना प्रकारैः लोकानां परीक्षणं करणीयम्।१२.१०.९
(साधकः ) नियतं वदेत्।तत्कालं प्रतिवचनं यच्छेत्।क्षमायाः आधारेण सर्वदा क्रोधं त्यजेत्।१०
अलसस्य सर्वथा त्यागः करणीयः।महान् यत्नः करणीयः।कस्य अपि शब्दच्छलं न करणीयम्।११
(साधकः) उत्तमं पदार्थम् अन्यस्मै यच्छेत्।शब्दं चित्त्वा वदेत्।सावधानतया लोकव्यवहारं कुर्यात्।१२
मरणस्य स्मरणं भवतु।हरिभक्तिविषये आदरः भवतु।एवं मरणानन्तरम् अपि कीर्तिः अवशिष्टा भवतु।१३
यः नियमेन वर्तनं करोति, तं बहवः जनाः जानन्ति।सर्वत्र यः आर्जवेन वर्तनं करोति, तस्य किं न्यूनं भवति?१४
एवम् उत्तमैः गुणैः विशिष्टः यः, सः एव पुरुषः इति उच्यते।एतस्य भजनेन परमात्मा तृप्तः भवति।१५
(केचन जनाः ) बहु धिक्कारं कृत्वा वदन्ति।तथापि (स्वस्य) शान्तिः नष्टा न भवेत्।दुर्जनैः सह अपि ये सङ्घर्षं विना वर्तन्ते ते साधवः धन्याः।१६
यः उत्तमैः गुणैः अलङ्कृतः, ज्ञानेन वैराग्येण च शोभितः,सः एव भूमण्डले उत्तमः पुरुषः।१२.१०.१७
स्वयं कष्टं करणीयम्, बहूनां सहनीयम्।स्वयं नानाप्रकारैः क्षीणः भूत्वा अपि कीर्तिः अवशेषणीया।१८
(साधकः) सुखमिच्छति चेत् कीर्तिं न प्राप्नोति।कीर्तिमिच्छति चेत् सुखं न प्राप्नोति। विचारं विना कुत्रापि समाधानं न प्राप्नोति।१२.१०.१९
परस्य चित्ते आघातः न करणीयः।कदापि प्रमादः न करणीयः।यः क्षमाशीलः, तस्य प्रतिष्ठायाः हानिः न भवति।१२.१०.२०
स्वस्य अथवा परस्य सर्वं कार्यं करणीयम्।प्रसङ्गे कार्यं त्याज्यम् इति एतद् न विहितम्।२१
सुवचनेन स्वस्य सुखं भवति इति प्रत्यक्षं ज्ञातम्।यथा स्वस्य तथा परस्य इति मन्तव्यम्।२२
कठोरैः शब्दैः दुःखं भवति इति एषः अनुभवः अस्ति।तर्हि किमर्थं कठोरं वक्तव्यम्?२३
यदा स्वदेहे सन्दंशः भवति, तदा जीवः व्याकुलः भवति।एतेन स्वस्य अनुभवेन अन्येषां रक्षणं करणीयम्।२४
या अन्यस्य दुःखं करोति, सा अपवित्रा वैखरी।कदाचित् कस्मिंश्चित् प्रसङ्गे सा अस्माकं घातं करिष्यति।२५
वयं यथा वपामः तथा अङ्कुरः भवति।यथा वदामः तथा प्रत्युत्तरं भवति।तर्हि किमर्थं कर्कशं वक्तव्यम्?२६
स्वस्य पुरुषार्थरूपेण वैभवेन बहुभ्यः जनेभ्यः सुखं करणीयम्।परं कष्टमुत्पादनीयमिति एषा राक्षसी क्रिया।२७
दम्भः दर्पः अभिमानः क्रोधः परुषवचनम् इति एतत् अज्ञानस्य लक्षणमस्तीति भगवद्गीतायामुक्तम्।२८
यः उत्तमैः गुणैः शोभितः, स एव महान् सत्पुरुषः।बहवः जनाः तम् अन्वेष्टुम् अटन्ति।२९
क्रियां विना शब्दज्ञानं नाम कुक्कुरस्य वमनम्।सज्जनाः तत् कदापि न पश्यन्ति।३०
ये मनसा भक्तिं कुर्वन्ति, उत्तमगुणान् यत्नेन धारयन्ति, तान् महापुरुषान् जनाः अन्विष्यन्ति।३१
एवं यः महानुभावः, तेन समुदायः करणीयः।भक्तियोगेन देवाधिदेवः आत्मीयः करणीयः।१२.१०.३२
अकस्मात् स्वस्य मृत्युः भवति चेत् भजनं केन करणीयम्? अतः बहूनां जनानां भजने योजना करणीया।१२.१०.३३
अस्माकं प्रतिज्ञा एवमस्ति यत् शिष्यं प्रति किमपि न याचनीयम्।स्वस्य अनन्तरं शिष्येण जगदीशे भक्तिः करणीया (एतावदेव प्रार्थनीयम्)।१२.१०.३४
अतः समुदायः भवतु, महोत्सवः भवतु।देवः अल्पेन आयासेन प्राप्तः भवेदिति एतदर्थं यत्नः भवतु।३५
अथ समुदायार्थं लक्षणद्वयमावश्यकम्।श्रोतारः एतस्मिन् विषये अवधानं दद्युः।१२.१०.३६
येन उपायेन बहवः जनाः भक्तिं कुर्वन्ति, सः उपायः नाम प्रबोधनशक्तिः।तदर्थं बहूनां मनोगतं ज्ञातव्यं भवति।१२.१०.३७
पूर्वं ये उत्तमाः गुणाः उक्ताः, ते यत्र सन्ति तं जनं लोकः प्रमाणं मन्यते।प्रबोधशक्तेः लक्षणस्य वर्णनम् अग्रे भविष्यति।१२.१०.३८
यः यथा वदति तथा वर्तनं करोति तस्य वचनं जनाः प्रमाणं मन्यन्ते।यः प्रथमं करोति, अनन्तरं वदति, तस्य वचनं जनाः प्रमाणं मन्यन्ते।१२.१०.३९
यद् जनानाम् अनुमतं न भवति, तद् जनः नाङ्गीकरोति।जगति स्वयमेकः भवति, जनाः तु बहवः सन्ति।१२.१०.४०
अतः (उपदेष्टा) जनैः सह भवेत्।जनान् मानयन् मानयन् पाठयेत्।विवेकेन शनैः शनैः अन्तं यावद् विवेकेन नयेत् ।४१
परमेतत् विवेकस्य कार्यम्।विवेकी जनः नियमेन एतत् करिष्यति।अन्ये वराकाः जनाः भ्रमेण कलहमेव कुर्वन्ति॥४२
बहुभिः सह, सैन्यं विना एकेन एव कलहः भविष्यति।अतः बहवः जनाः सन्तुष्टाः करणीयाः।१२.१०.४३


दासबोधः दशक १२ - विवेकवैराग्यम्

"https://sa.wikisource.org/w/index.php?title=समास:१०_उत्तमपुरुष:&oldid=129116" इत्यस्माद् पुनः प्राप्तिः