प्रमुखा विकल्पसूचिः उद्घाट्यताम्

विकिस्रोतः β

समास:१० पण्डितमूर्खलक्षणम्

पूर्वं यानि लक्षणानि कथितानि, तैः मूर्खाणाम् अपि चातुर्यं जायते।अथ ये पण्डिताः, अपि मूर्खाः, तेषां लक्षणानि शृणुत॥२.१०.१
तेषां संज्ञा ‘मूर्खपण्डिताः’ इति।श्रोतृभिः अत्र खेदः न मन्तव्यः यतो हि अवगुणत्यागेन सुखं लभ्यते॥२.१०.२
यः बहुश्रुतः व्युत्पन्नः च , यः विशदं ब्रह्मज्ञानं ब्रूते अथ दुराशाम् अभिमानं च चित्ते धारयति, स मूर्खपण्डितः॥२.१०.३
यः मुक्तक्रियां प्रतिपादयति, सगुणभक्तिम् उच्छेदयति, स्वधर्मं साधनं च निन्दति, स मूर्खपण्डितः॥२.१०.४
यः स्वज्ञानस्य आधारेण सर्वान् दूषयति, प्राणिमात्रस्य न्यूनं पश्यति, स मूर्खपण्डितः॥२.१०.५
शिष्यस्य अवज्ञाप्रसङ्गः स्यात्, अथवा सः सङ्कटे भवेत्, जनस्य मनोभङ्गः भवेत् इति यस्य वचनं स मूर्खपण्डितः॥२.१०.६
यः रजोबहुलः, तमोबहुलः, सकपटः, अन्तःकरणे कुटिलः, यः वैभवं दृष्ट्वा प्रशंसां कुरुते, सः मूर्खपण्डितः॥२.१०.७
समूलं ग्रन्थम् अनवलोक्य एव यः ग्रन्थं दूषयते, गुणे कथिते सति दोषम् एव ईक्षते, स मूर्खपण्डितः ॥२.१०.८
यः सल्लक्षणानि श्रुत्वा उद्विग्नः भवति, मत्सरेण कार्ये प्रवर्तते, औद्धत्यवशात् नीतिवचनं नाद्रियते, स मूर्खपण्डितः॥२.१०.९
यः ज्ञातृत्वाभिमानेन कार्ये प्रवर्तते, यः क्रोधं धारयितुम् अक्षमः यस्य वाक्क्रिययोः अन्तरं विद्यते, स मूर्खपण्डितः॥२.१०.१०
अधिकारं विना य व्याख्यानं कृत्वा परिश्राम्यति, यस्य वचनं कठोरं, स मूर्खपण्डितः॥२.१०.११
यः श्रोता बहुश्रुतः तथा वाचालः, यः श्रोतुः न्यूनं दर्शयते, स मूर्खपण्डितः॥२.१०.१२
‘अन्येषां यान् दोषान् अहम् उद्धरामि ते दोषाः मयि अपि सन्ति’इति यः न जानाति, स मूर्खपण्डितः॥२.१०.१३
अभ्यासवशात् सकलविद्यापारङ्गतः अपि जनानां समाधानं कर्तुं न शक्नोति सः मूर्खपण्डितः॥२.१०.१४
यथा ऊर्णतन्तुना बद्धः गजः यथा च लोभवशात् कमले मृतः भ्रमरः तथा यः प्रपञ्चे सक्तः स मूर्खपण्डितः॥ २.१०.१५
यः स्त्रीभिः सङ्गतः, यः स्त्रीभ्यः निरूपणं करोति, यः निन्द्यं वस्तु अङ्गीकरोति, स मूर्खपण्डितः॥२.१०.१६
येन स्वस्य अपकर्षः स्यात् तदेव यः चित्ते दृढं धारयति, यश्च देहबुद्धिः स मूर्खपण्डितः॥२.१०.१७
श्रीपतिं वर्जयित्वा यः नरस्तुतिं करोति, अथवा दृष्टं दृष्टं जनं प्रशंसति, सः मूर्खपण्डितः॥२.१०.१८
यः स्त्रीणाम् अवयवान् वर्णयति, नाना हावान् भावान् च नाटयति, यः देवं विस्मरति, स मूर्खपण्डितः॥२.१०.१९
वैभवमदेन यः प्राणिमात्रं तुच्छं मन्यते, नास्तिकमतं यः प्रतिपादयति, सः मूर्खपण्डितः॥२.१०. २०
यः व्युत्पन्नः, वीतरागः, ब्रह्मज्ञः, महायोगी, तथापि जनेषु भविष्यं कथयति,स मूर्खपण्डितः॥२.१०.२१
कस्यचित् नाम्नि श्रुते तस्य गुणदोषान् मनसि चिन्तयति, परेषां भूषणविषये मत्सरं करोति,स मूर्खपण्डितः॥२.१०.२२
यस्य न भक्तिरूपं साधनं विद्यते, न वैराग्यं विद्यते, न भजनं विद्यते, क्रियां विना यः ब्रह्मज्ञानं ब्रूते,स मूर्खपण्डितः॥२.१०.२३
यः तीर्थं न मन्यते, पुण्यक्षेत्रं न मन्यते, वेदं न मन्यते, शास्त्रं न मन्यते, यः च पवित्रकुले जातः सन् अपवित्रः, स मूर्खपण्डितः॥२.१०.२४
स्वविषये आदरं दृष्ट्वा तत्र रमते, तस्य जनस्य कीर्तिः नास्ति चेदपि स्तुतिं करोति,तत्कालमेव तम् अनादरेण निन्दति,स मूर्खपण्डितः॥२.१०.२५ वदति अन्यत् करोति अन्यत् इति यस्य व्यवहारः स मूर्खपण्डितः॥२.१०.२६
यस्य प्रपञ्चविषये आदरः, परमार्थविषये अनादरः,यः ज्ञाता सन् अज्ञानम् आश्रयते,स मूर्खपण्डितः॥२.१०.२७
यथार्थवचनं त्यक्त्वा यः मनः सन्धाय वदति, यस्य जीवितं पराधीनं सः मूर्खपण्डितः॥२.१०.२८
उपरि सज्जनताम् अभिनयति, परं निषिद्धम् आचरति, यः अमार्गेण गच्छन् अपि हठात् तमेव मार्गम् अनुसरति, सः मूर्खपण्डितः॥२.१०.२९
यः दिवानिशं श्रवणं कृत्वापि स्वदोषान् न त्यजति,स्वय स्वहितं न जानाति,स मूर्खपण्डितः॥२.१०.३०
निरूपणं श्रोतुम् आगतान् सज्जनान् दुर्लक्ष्य यः क्षुद्रान् अभिलक्ष्य भाषते, सः मूर्खपण्डितः॥२.१०.३१
अधिकारात् च्युतम् अपि, अवज्ञाकरम् अपि शिष्यम् आशालुतया यः अभिलषति,स मूर्खपण्डितः॥२.१०.३२
निरूपणकाले देहपीडा जाता चेद् यः क्रुद्ध्यति, स मूर्खपण्डितः॥२.१०.३३
वैभवमत्ततया यः सद्गुरुम् उपेक्षते, स्वगुरुपरम्परां गोपायते,सः मूर्खपण्डितः॥२.१०.३४
मुखेन ज्ञानं वदति परं स्वार्थं साधयति, कृपणवत् अर्थं सञ्चिनोति, अर्थनिमित्तं परमार्थं ब्रूते,स मूर्खपण्डितः॥२.१०.३५
स्वयं तथा वर्तनम् अकृत्वा एव अन्यान् शिक्षयते,ब्रह्मज्ञानम् ऐहिकलाभार्थं प्रतिपादयति, यः साधुः सन् पराधीनः स मूर्खपण्डितः॥२.१०.३६
येन भक्तिमार्गः भज्यते, येन स्वस्य दम्भः प्रकटः भवति, तादृशं कर्म यः आचरति,सः मूर्खपण्डितः॥२.१०.३७
हस्तस्थः प्रपञ्चः यस्य गतः, परमार्थस्य लेशोऽपि येन न प्राप्तः, यः देवान् ब्राह्मणान् द्वेष्टि, स मूर्खपण्डितः॥२.१०.३८
अवगुणत्यागार्थं मूर्खपण्डितस्य लक्षणानि उक्तानि।तत्र न्यूनाधिकदोषः विचक्षणैः क्षन्तव्यः॥२.१०.३९
यः अस्मिन् संसारे सुखं मन्यते, सः परममूर्खेषु अपि मूर्खः (यतो हि) अनेन संसारदुःखेन तुल्यं दुःखम् अन्यद् नास्ति॥२.१०.४०
तदेव निरूपणम् अग्रे वर्तते।जन्मदुःखस्य लक्षणरूपः गर्भवासः अग्रे वर्ण्यते॥२.१०.४१

इति मूर्खपण्डितलक्षणनिरूपणं नाम द्वितीयाध्याये दशमः समासः॥

दासबोधः   

दशक ०२ – मूर्खलक्षणम्