सम्प्रदायमीमांसापात्रम्

सम्प्रदायमीमांसापात्रम्
विष्णुस्तोत्राणि
[[लेखकः :|]]

मुख्येन सम्प्रदायित्वं सम्प्रदायविदां नये ।
सम्प्रदायिगुरोर्दीक्षामन्त्रग्रहणतो भवेत॥१॥

शिष्टपरम्पराचार्योपदिष्टमन्त्रा एव हि ।
सम्प्रदाय इति ख्यातः सुधीभिः सम्प्रदायिभिः ॥२॥

शिष्टत्वं नाम चाम्नायप्रामाण्याभ्युपगन्तृता ।
वेदानां विष्णुपारम्यात्शिष्टो वैष्णव उच्यते ॥३॥

अतत्परस्परत्वेन वैष्णवत्वं न सिद्ध्यति ।
अवैष्णवोपदिष्टेनेत्यादि शास्त्रप्रकोपणात॥४॥

तस्मात्शिष्टानुशिष्टानां परम्परां रिरक्षिषुः ।
स्वनिःश्वसितवेदोऽपि गौरो माध्वमतं गतः ॥५॥

सर्वजगद्गुरुः श्रीमद्गौराङ्गो लोकशिक्षया ।
पुरीश्वरं गुरुं कृत्वा स्वीचक्रे सम्प्रदायकम् ॥६॥

कञ्चिन्मतविशेषोऽपि निरस्तस्तत्त्ववादिनाम् ।
श्रीमद्गौराङ्गदेवेन सम्प्रदायस्य तेन किम् ॥७॥

सम्प्रदायैकदीक्षाणां मिथः किञ्चिन्मतान्तरात।
शाखाभेदो भवेन्मात्रं सम्प्रदायो न भिद्यते ॥८॥

रामानन्दी यथा रामानुजीयान्तर्गतो भवेत।
निम्बार्कसम्प्रदाये च हरिव्यासादयो यथा ॥९॥

गौडीयस्तत्त्ववादी च तथा माध्वमतं गतौ ।
न ह्यत्र बाधकः कश्चित्दृश्यते तत्त्ववित्तमैः ॥१०॥

तुष्यत्विति मतेनापि सम्प्रदायविनिश्चये ।
स्वीकृतं साधकत्वेन चेत्साध्यादिविवेचनम् ।
तथाप्यत्यन्तभेदो न श्रीगौरमाध्वयोर्मते ॥११॥

मध्वमते च या मुक्तिः साध्यत्वेन प्रकीर्तिता ।
विष्ण्वङ्घ्रिप्राप्तिरूपा सा भाष्यकृद्भिः प्रदर्शिता ॥१२॥

साधनं चार्पितं कर्मजीवाधिकारभेदतः ।
स्वीकृतमपि मध्वेन भक्तेः श्रैष्ठ्यं बहुस्तुतम् ॥१३॥

प्रमाणं भारतं मात्रं मध्वमतेऽनृतं वचः ।
यत्तेन त्रिविधं प्रोक्तं मुख्यं शब्दप्रमाणकम् ॥१४॥

श्रीमन्नर्तकगोपालसेवा येन प्रतिष्ठिता ।
इष्टत्वेन कथं तस्य निर्णीतो द्वारकापतिः ॥१५॥

निश्चितो द्वार्काधीशो यद्यपि वा क्षतिः कुतः ।
यो नन्दनन्दनः कृष्णः स एव द्वारकापतिः ।
स्वरूपयोर्द्वयो ऐक्यं कृष्णत्वमविशेषः ॥१६॥

लीलाभिमानभेदेन पूर्णतमश्च पूर्णकः ।
न तु स्वरूपतो भेदस्तयोरस्ति कथञ्चन ॥१७॥

भेदाभेदमतं यच्चाचिन्त्याख्यं कीर्त्यते बुधैः ।
श्रीचैतन्यमताभिज्ञैः तच्च मध्वमतेङ्गितम् ॥१८॥

जीवानां ब्रह्मवैजात्ये गुणांशत्वादभिन्नता ।
प्रतियोगित्वभेदत्वे चिन्मात्रत्वात्तदेकता ॥१९॥

तद्व्याप्यत्वतदायत्तवृत्तिकत्वादिहेतुतः ।
सामानाधिकरण्यं च गोस्वामिमध्वयोः समम् ॥२०॥

विचारमात्रनैपुण्यं शक्तिशक्तिमतोरिह ।
गौरकृपोद्भवोऽचिन्त्यवादो गोस्वामिभिः स्मृतः ।
तत्त्वनिर्धारणे मुख्यः कारणवाद उच्यते ॥२१॥

पराख्यशक्तिमद्ब्रह्म निमित्तकारणं भवेत।
उपादानं तु तद्ब्रह्म जीवप्रधानशक्तियुक।
इति कारणवादेऽपि ह्युभयोर्मतयोः समम् ॥२२॥

श्रीगोविन्दाभिधं भाष्यं प्रमाणं यदि मन्यते ।
प्रमेयरत्नसिद्धान्तनिष्कृष्टा तत्समाहृतिः ॥२३॥

वक्ति श्रीगौरसम्मतिं मध्वः प्राहेत्युपक्रमे ।
यदि वोपेक्षते कैश्चित्तर्ह्यर्धकुक्कुटिनयः ॥२४॥

इति श्रीश्रीगौडीयवैष्णवसाहित्ये श्रीहरिदासदासमहोदयेन धृतम् ॥