सर्वतथागततत्त्वसङ्ग्रहः


अध्याय 1

VAJRADHATU-MAHA-MANDALA-VIDHI-VISTARA-MANDALA I.1

[एवं मया श्रु]तमेकस्मिन् समये भगवान् सर्वतथागत-वज्राधिष्ठानसमयज्ञानविविधविशेषसमन्वागतः, सर्वतथागतरत्नमुकुटत्रैधातुकधर्मराज्याभिषेकप्राप्तः, सर्वतथागतसर्वज्ञानमहायोगीश्वरः, सर्वतथागतसर्वमुद्रासमताधिगतविश्वकार्यकरणताशेषानवशेषसत्त्वधातुसर्वाशापरिपूरकः, महाकृपो वैरोचनः शाश्वतस्त्र्यध्वसमयव्यवस्थितः सर्वकायवाक्चित्तवज्रस्तथागतः, सर्वतथागताध्युषितप्रशस्तस्तविते महामणिरत्नप्रत्युप्ते विचित्रवर्णघण्टावसक्तमारुतोद्धतपट्टस्रक्चामरहारार्धहारचन्द्रोपशोभिते अकनिष्ठदेवराजस्य भवने विजहार । नवनवतिभिर्बोधिसत्त्वकोटिभिः सार्धं, तद्यथा वज्रपाणिना च बोधिसत्त्वेन, अवलोकितेश्वरेण च बोधिसत्त्वेन, आकाशगर्भेण च, वज्रमुष्टिना च, मञ्जुश्रिया च, सहचित्तोत्पादधर्मचक्रप्रवर्तिना च, गगनगञ्जेन च सर्वमारबलप्रमर्दिना च, एवंप्रमुखैर्नवनवतिभिर्बोधिसत्त्वकोटिभिः॑ गङ्गानदीवालुकासमाख्यातैश्च तथागतैः, तद्यथापि नाम तिलबिम्बमिव परिपूर्णं जम्बूद्वीपे संदृश्यते । तैश्चाप्रमेयैस्तथागतैरेकैकस्माच्च तथागतकायादप्रमेयासंख्येयानि बुद्धक्षेत्राणि संदृश्यन्ते, तेषु च बुद्धक्षेत्रेषु इममेव धर्मनयं देशयन्ति स्म ।

अथ भगवान् महावैरोचनः सर्वाकाशधातुसदावस्थितकायवाक्चित्तवज्रः सर्वतथागतसमवसरणतया सर्ववज्रधात्ववबोधनज्ञानसत्त्वः सर्वाकाशधातुपरमाणुरजो वज्राधिष्ठानसम्भवज्ञानगर्भः सर्वतथागतानन्ततया महवज्रज्ञानाभिषेकरत्नः सर्वाकाशस्फरणतथताज्ञानाभिसम्बोध्यभिसम्बोधिभूतः सर्वतथागतात्मभावशुद्धितयास्वभावशुद्धसर्वधर्मः सर्वाकाशचर्याग्र्यः सर्वतथागतामोघाज्ञाकारितया सर्वासमानुत्तरविश्वकर्मा । सर्वतथागतमहाबोधिदृढसत्त्वः सर्वतथागतकर्षणसमयः सर्वतथागतानुरागणज्ञानेश्वरः सर्वतथागतसाधुकारः सर्वतथागतमहाभिषेकरत्नः सर्वतथागतसूर्यप्रभामण्डलः सर्वतथागतचिन्ताराजमणिरत्नकेतुः सर्वतथागतमहाहासः सर्वतथागतमहाशुद्धधर्मः सर्वतथागतप्रज्ञाज्ञानः सर्वतथागतचक्रः सर्वतथागतमहावीर्यसुदृढकवचः सर्वतथागतरक्षपरिपालनवज्रयक्षः सर्वतथागतकायवाक्चित्तवज्रबन्धमुद्राज्ञानः ।

Eulogy of Samantabhadra the महबोधिस्तत्त्व

समन्तभद्रः स्वमोघः मारः प्रामोद्यनायकः ।
खगर्भः सु[महाते]जा रत्नकेतुर्महास्मितः ॥ १ ॥

अवलोकितमहेशश् च मञ्जुश्रीः सर्वमण्डलः ।
अवाचो विश्वकर्मा च वीर्यश्चण्डो [दृढग्रहः] ॥ २ ॥

वज्रोऽङ् कुशः शरस्तुष्टिः रत्नः सूर्यो ध्वजः स्मितः ।
पद्मः कोशः सुचक्रो वाक् कर्म वर्म रवयो ग्रहः ॥ ३ ॥

अनादिनिध[नः शान्तो रुद्रः क्रोधो महा]क्षमः ।
यक्षः सुराक्षसो धीरः सौरिः सौरिर्महाविभुः ॥ ४ ॥

उमापतिः प्रजानाथो विष्णुर्जिष्णुर्महामुनिः ।
लोकपालो नभो भूमि[स्त्रिलोक]स्तु त्रिधातुकः ॥ ५ ॥

महाभूतः सुसत्त्वार्थः सर्वः शर्वः पितामहः ।
संसारो निर्वृतिः शश्वत् सम्यग्वृत्तिर्महामहः ॥ ६ ॥

बुद्धः शुद्धो महायानस्त्रिभवः शाश्वतो हिसः । त्रिलोकविजयी शम्भुः शम्भुनाथः प्रदामकः ॥ ७ ॥ ॥

वज्रनाथः सुभूम्यग्र्यो ज्ञानः पारमितानयः ।
विमोक्षो बोधिसत्त्वश्च चर्यः सर्वतथागतः ॥ ८ ॥

बुद्धार्थो बुद्धहृदयः सर्वबोधिरनुत्तरः ।
वैरोचनो जिनो नाथः स्वयंभूर्धारणी स्मृतिः ॥ ९ ॥

महासत्त्वो महामुद्रः समाधिर्बुद्धकर्मकृत् ।
सर्वबुद्धात्मको भूतः सत्त्वो नित्यार्थबोधकः ॥ १० ॥

महास्थाणुर्महाकालो महारागो महासुखः ।
महापापो महाग्र्याग्र्यः सर्वाग्र्यो भुवनेश्वरः ॥ ११ ॥

भगवान् महाबोधिचित्तः समन्तभद्रो महाबोधिसत्त्वः सर्वतथागतहृदयेषु विजहार । अथ सर्वतथागतैरिदं बुद्धक्षेत्रं तद्यथा तिलबिम्बमिव परिपूर्णम ॥

अथ खलु सर्वतथागता महासमाजमापद्य, येन सर्वार्थसिद्धिर्बोधिसत्त्वो महासत्त्वः बोधिमण्डनिषण्णस्तेनोपजग्मुः । उपेत्य बोधिसत्त्वस्य सांभोगिकैः कायैर्दर्शनन्दत्वैवमाहुः- "कथं कुलपुत्रानुत्तरां सम्यक्सम्बोधिम् अभिसंभोत्स्यसे, यस्त्वं सर्वतथागततत्त्वानभिज्ञतया सर्वदुःकराण्युत्सहसी-?"ति ।

अथ सर्वार्थसिद्धिर्बोधिसत्त्वो महासत्वस्सर्वतथागतचोदितःसमानस्तत आस्फानसमाधितो व्युत्थाय, सर्वतथागतान् प्रणिपत्याहू यैवमाह- "भगवन्तस्तथागता आज्ञापयत कथं प्रतिपद्यामि कीदृशं तत् तत्त्वम्" इति । एवमुक्ते सर्वतथागतास्तं बोधिसत्त्वमेककण्ठेनैवमाहुः- "प्रतिपद्यस्व कुलपुत्र स्वचित्तप्रत्यवेक्षणसमाधानेन प्रकृतिसिद्धेन रुचिजप्तेन मन्त्रेण" इति ॐ चित्तप्रतिवेधं करोमि ।

अथ बोधिसत्त्वः सर्वतथागतानेवमाह- "आज्ञातं मे भगवन्तस्तथागताः स्वहृदि चन्द्रमण्डलाकारं पश्यामि" । सर्वतथागताः प्रोचुः- "प्रकृतिप्रभास्वरमिदं कुलपुत्र चित्तं, तद्यथा परिकर्ष्यते तत् तथैव भवति । तद्यथापि नाम श्वेतवस्त्रे रागरञ्जनम्" इति ।

अथ सर्वतथागताः प्रकृतिप्रभास्वरचित्तज्ञानस्य स्फीतीकरणहेतोः पुनरपि तस्मै बोधिसत्त्वाय ॐ बोधिचित्तमुत्पादयामि इत्यनेन प्रकृतिसिद्धेन मन्त्रेण बोधिचित्तमुत्पादितवन्तः ।

अथ बोधिसत्त्वः पुनरपि सर्वतथागताज्ञया बोधिचित्तमुत्पाद्यैवमाह- "यत् तच्चन्द्रमण्डलाकारं तच्चन्द्रमण्डलमेव पश्यामि" । सर्वतथागता आहुः- "सर्वतथागतहृदयन्ते समन्तभद्रश्चित्तोत्पादः सामीचीभूतः, तत्साधु प्रतिपद्यताम्, सर्वतथागतसमन्तभद्रचित्तोत्पादस्य दृढीकरणहेतोः स्वहृदि चन्द्रमण्डले वज्रबिम्बं चिन्तयानेन मन्त्रेण ॐ तिष्ठ वज्र ।

बोधिसत्त्व आह- "पश्यामि भगवन्तस्तथागताश्चन्द्रमण्डले वज्रम्" । सर्वतथागता आहुः- "दृढीकुर्विदं सर्वतथागतसमन्तभद्रचित्तवज्रमनेन मन्त्रेण ॐ वज्रात्मकोऽहम् ॥

अथ यावन्तः सर्वाकाशधातुसमवसरणाः सर्वतथागतकायवाक्चित्तवज्रधातवः, ते सर्वे सर्वतथागताधिष्ठानेन तस्मिन् सत्त्ववज्रे प्रविष्टाः । ततः सर्वतथागतैः स भगवान् सर्वार्थसिद्धिर्महाबोधिसत्त्वो वज्रधातुर्वज्रधातुरिति वज्रनामाभिषेकेणाभिषिक्तः ।

अथ वज्रधातुर्महाबोधिसत्त्वस्तान् सर्वतथागतानेवमाह "पश्यामि भगवन्तस्तथागताः सर्वतथागतकायमात्मानम्" । सर्वतथागताः प्राहुः- "तेन हि महासत्त्व सत्त्ववज्रं सर्वाकारवरोपेतं बुद्धबिम्बमात्मानं भावयानेन प्रकृतिसिद्धेन मन्त्रेण रुचितः परिजप्य ॐ यथा सर्वतथागतास्तथाहम्" ॥

अथैवमुक्ते वज्रधातुर्महाबोधिसत्त्वस्तथागतमात्मानमभिसम्बुध्य, तान् सर्वतथागतान् प्रणिपत्याहू यैवमाह "अधितिष्ठत मां भगवन्तस्तथागता इमामभिसंबोधिं दृढीकुरुत चेति" । अथैवमुक्ते सर्वतथागता वज्रधातोस्तथागतस्य तस्मिन् सत्त्ववज्रे प्रविष्टा इति ॥

अथ भगवान् वज्रधातुस्तथागतस्तस्मिन् एव क्षणे सर्वतथागतसमताज्ञानाभिसंबुद्ध सर्वतथागतवज्रसमताज्ञानमुद्रागुह्यसमयप्रविष्टः सर्वतथागतधर्मसमताज्ञानाधिगमस्वभावशुद्धः सर्वतथागतसर्वसमताप्रकृतिप्रभास्वरज्ञानाकरभूतस्तथागतोऽर्हान् सम्यक्संबुद्धः संवृत्त इति ॥

अथ सर्वतथागताः पुनरपि ततः सर्वतथागतसत्त्ववज्रान् निःसृत्याकाशगर्भमहामणिरत्नाभिषेकेणाभिषिच्यावलोकितेश्वरधर्मज्ञानमुत्पाद्य सर्वतथागतविश्वकर्मतायां प्रतिष्ठाप्य येन सुमेरुगिरिमूर्धा येन च वज्रमणिरत्नशिखरकूटागारस्तेनोपसंक्रान्ताः, उपसंक्रम्य वज्रधातुन्तथागतं सर्वतथागतत्वेऽधिष्ठ्य, सर्वतथागतसिंहासने सर्वतोमुखं प्रतिष्ठापयामासुरिति ॥

Emanation of the 37 deities from समधि

अथ खलु अक्षोभ्यस्तथागतो रत्नसंभवश्च तथागतो लोकेश्वरराजश्च तथागतो अमोघसिद्धिश्च तथागतः सर्वतथागतत्वं स्वयमात्मन्यधिष्ठाय, भगवतः शाक्यमुनेस्तथागतस्य सर्वसमतासुप्रतिवेधत्वात् सर्वदिक्समतामभ्यालम्ब्य, चतसृषु दिक्षु निषण्णाः ॥

I.1.6 वज्रसत्त्व

अथ भगवान् वैरोचनस्तथागतः अचिराभिसंबुद्धः सर्वतथागतसमन्तभद्रहृदयसर्वतथागताकाशसंभवमहामणिरत्नाभिषेकाभिषिक्तः सर्वतथागतावलोकितेश्वरधर्मज्ञानपरमपारमिताप्राप्तः सर्वतथागतविश्वकर्मतामोघाप्रतिहतशासनः परिपूर्णकार्यः परिपूर्णमनोरथः सर्वतथागतत्वं स्वयमात्मन्यधिष्ठाय, सर्वतथागतसमन्तभद्रमहाबोधिसत्त्वसमयसम्भवसत्त्वाधिष्ठानवज्रं नाम समाधिं समापद्येदं सर्वतथागतमहायानाभिसमयं नाम सर्वतथागतहृदयं स्वहृदयान निश्चचार वज्रसत्त्व ॥

अथास्मिन् विनिःसृतमात्रे सर्वथागतहृदयेभ्यः स एव भगवां समन्तभद्रश्चन्द्रमण्डलानि भूत्वा विनिःसृत्य, सर्वसत्त्वानां महाबोधिचित्तानि संशोध्य, सर्वतथागतानां सर्वपार्श्वेष्ववस्थिताः । अथ तेभ्यश्चन्द्रमण्डलेभ्यः सर्वतथागतज्ञानवज्राणि विनिःसृत्य, भगवतो वैरोचनस्य तथागतस्य हृदये प्रविष्टानि । समन्तभद्रत्वाच्च सुदृढत्वाच्च वज्रसत्त्वसमाधेः सर्वतथागताधिष्ठानेन चैकधनः सकलाकाशधातुसमवसरणप्रमाणो रश्मिमालो पञ्चमूर्धा सर्वतथागतकायवाक्चित्तवज्रमयोवज्रविग्रहः प्रादुर्भूय, सर्वथागतहृदयान् निष्क्रम्य पाणौ प्रतिष्ठितः । अथ ततो वज्राद् वज्राकारा रश्मयो विचित्रवर्णरूपाः सर्वलोकधात्वाभासनस्फरणा विनिश्चरिताः । तेभ्यश्च वज्ररश्मिमुखेभ्यः सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा विनिःसृत्य, सकलधर्मधातुसमवसरणेषु सर्वाकाशधातुपर्यवसानेषु सर्वलोकधातुप्रसरमेघसमुद्रेषु सर्वतथागतसमताज्ञानाभिज्ञास्वभिसंबोधात्, सर्वतथागतमहाबोधिचित्तोत्पादनसमन्तभद्रविविधचर्यानिष्पादनसर्व- तथागतकुलारागणमहाबोधिमण्डोपसंक्रमणसर्वमारधर्षणसर्व- तथागतसमतामहाबोध्यभिसंबुध्यनधर्मचक्रप्रवर्तनं यावद् अशेषानवशेषसत्त्वधातुपरित्राणसर्वहितसुखसर्वतथागतज्ञानाभिज्ञोत्तमसिद्धिनिष्पादनादीनि सर्वतथागतविकुर्वितानि सन्दर्श्य, समन्तभद्रत्वाद् वज्रसत्त्वसमाधेः सुदृढत्वाच्चैकघनः समन्तभद्रमहाबोधिसत्त्वकायः संभूय, भगवतो वैरोचनस्य हृदये स्थित्वेदमुदानमुदानयामास ।

अहो समन्तभद्रोऽहं दृढसत्त्वः स्वयंभुवां ।
यद् दृढत्वादकायोऽपि सत्त्वकायत्वमागतः ॥

अथ समन्तभद्रमहाबोधिसत्त्वकायो भगवतो हृदयादवतीर्य, सर्वतथागतानां पुरतश्चन्द्रमण्डलाश्रितो भूत्वाज्ञां मार्गयामास ॥

अथ भगवान् सर्वतथागतज्ञानसमयवज्रं नाम समाधिं समापद्य, सर्वतथागतशीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनधर्मचक्रप्रवर्तनसत्त्वार्थमहोपायबलवीर्यमहाज्ञानसमयमशेषानवशेषसत्त्वधातुपरित्राणसर्वाधिपत्यसर्वसुखसौमनस्यानुभवनार्थ यावत् सर्वतथागतसमताज्ञानाभिज्ञानुत्तरमहायानाभिसमयोत्तमसिद्ध्यवाप्तिफलहेतोस्तत्सर्वतथागतसिद्धिवज्रं तस्मै समन्तभद्राय महाबोधिसत्त्वाय सर्वतथागतचक्रवर्तित्वे सर्वबुद्धकायरत्नमुकुटपट्टाभिषेकेणाभिषिच्य पाणिभ्यामनुप्रादात् । ततः सर्वतथागतैर्वज्रपाणिर्वज्रपाणिरिति वज्रनामाभिषेकेणाभिषिक्तः ।

अथ वज्रपाणिर्बोधिसत्त्वो महासत्त्वो वामवज्रगर्वोल्लालनतया तदवज्रं स्वहृद्युत्कर्षणयोगेन धारयन्निदमुदानमुदानयामास ।

इदं तत्सर्वबुद्धानां सिद्धिवज्रमनुत्तरं ।
अहं मम करे दत्तं वज्रं वज्रे प्रतिष्ठितम् ॥ इति ॥

I.1.7 वज्ररज

अथ भगवान् पुनरप्यमोघराजमहाबोधिसत्त्वसमयसंभवसत्त्वाधिष्ठानवज्रं नाम समाधिं समापद्यदं सर्वतथागताकर्षणसमयन्नाम सर्वतथागतहृदयं स्वहृदयान्निश्चचार वज्रराज ॥

अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रपाणि सर्वतथागतमहाङ्कुशानि भूत्वा विनिःसृत्य, भगवतो वैरोचनस्य हृदये प्रविष्ट्वैकघनो वज्राङ्कु शमहाविग्रहः प्रादुर्भूय, भगवतः पाणौ प्रतिष्ठितः । अथ ततो वज्राङ्कु शमहाविग्रहात् सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा विनिःसृत्य, सर्वतथागतकर्षणादीनि सर्वबुद्धर्द्धिविकुर्वितानि कृत्वा, स्वमोघराजत्वाद् वज्रसत्त्वसमाधेः सुदृढत्वाच्चैकघनः अमोघराजमहाबोधिसत्त्वकायः संभूय, भगवतो वैरोचनस्य हृदये स्थित्वेदमुदानमुदानयामास ।

अहो ह्यमोघराजाहं वज्रसंभवमङ्कु शः ।
यत्सर्वव्यापिनो बुद्धाः समाकृष्यन्ति सिद्धयः ॥ इति ॥

अथ सोऽमोघराजमहाबोधिसत्त्वकायो भगवतो हृदयादवतीर्य, सर्वतथागतानां दक्षिणचन्द्रमण्डलाश्रितो भूत्वा, पुनरप्याज्ञां मार्गयामास ॥

अथ भगवान् सर्वतथागताकर्षणसमयवज्रन्नाम समाधिं समापद्य, सर्वतथागताकर्षणसमयमशेषानवशेषसत्त्वधातुसर्वाकर्षणसर्वसुखसौमनस्यानुभवनार्थं यावत् सर्वतथागतसमाजाधिष्ठानोत्तमसिद्ध्यर्थं तद्वज्राङ्कुशं तस्मै अमोघराजाय महाबोधिसत्त्वाय तथैव पाणिभ्यामनुप्रादात् । ततः सर्वतथागतैर्वज्राकर्षो वज्राकर्ष इति वज्रनामाभिषेकेणाभिषिक्तः ॥

अथ वज्राकर्षो बोधिसत्त्वस्तेन वज्राङ्कुशेन सर्वतथागतानाकर्षयन्निदमुदानमुदानयामास ।

इदं तत्सर्वबुद्धानां वज्रज्ञानमनुत्तरं ।
यत्सर्वबुद्धार्थसिद्ध्यर्थ समाकर्षणमुत्तमम ॥ इति ॥

I.1.8 वज्ररग

अथ भगवान् पुनरपि मारमहाबोधिसत्त्वसमयसंभवसत्त्वाधिष्ठानवज्रं नाम समाधिं समापद्येदं सर्वतथागतानुरागणसमयन्नाम सर्वतथागतहृदयं स्वहृदयान्निश्चचार वज्रराग ॥

अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रधरः सर्वतथागतकुसुमायुधानि भूत्वा विनिःसृत्य, भगवतो वैरोचनस्य हृदये प्रविष्ट्वैकघनो महावज्रवाणविग्रहः प्रादुर्भूय, पाणौ प्रतिष्ठितः । अथ ततो वज्रवाणविग्रहात्सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा विनिःसृत्य, सर्वतथागतानुरागणादीनि सर्वबुद्धर्द्धिविकुर्वितानि कृत्वा, सुमारणत्वाद् वज्रसत्त्वसमाधेः सुदृढत्वाच्चैकघनो मारमहाबोधिसत्त्वकायः संभूय, भगवतो वैरोचनस्य हृदये स्थित्वेदमुदानमुदानयामास ।

अहो स्वभावशुद्धोऽहमनुरागः स्वयंभुवां ।
यच्छुद्ध्यर्थं विरक्तानां रागेण विनयन्ति हि ॥

अथ स मारमहाबोधिसत्त्वकायो भगवतो हृदयादवतीर्य सर्वतथागतानां वामचन्द्रमण्डलाश्रितो भूत्वा, पुनरप्याज्ञां मार्गयामास ॥

अथ भगवान् सर्वतथागतानुरागणाधिष्ठानवज्रन्नाम समाधिं समापद्य, सर्वतथागतमारणवज्रसमयमशेषानवशेषत्वधात्वनुरागणर्सासुखसौमनस्यानुभवनार्थं यावत् सर्वतथागतमारकर्मोत्तमसिद्ध्यवाप्तिफलहेतोस्तद्वज्रवाणं तस्मै माराय महाबोधिसत्त्वाय तथैव पाणिभ्यामनुप्रादात् । ततः सर्वतथागतैर्वज्रधनुर्वज्रधनुरिति वज्रनामाभिषेकेणाभिषिक्तः ॥

अथ वज्रधनुर्बोधिसत्त्वो महासत्त्वस्तेन वज्रवाणेन सर्वतथागतान् मारयन्निदमुदानमुदानयामास ।

इदन्तत्सर्वबुद्धानां रागज्ञानमनाविलं ।
हत्वा विरागं रागेण सर्वसौख्यं ददन्ति हि ॥

I.1.9 वज्रसाधु

अथ भगवान् पुनरपि प्रामोद्यराजमहाबोधिसत्त्वसमयसंभवसत्त्वाधिष्ठानवज्रन्नाम समाधिं समापद्येदं सर्वतथागतप्रमोदसमयन्नाम सर्वतथागतहृदयं स्वहृदयान्निश्चचार वज्रसाधु ॥

अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रधरः साधुकाराणि भूत्वा, भगवतो वैरोचनस्य हृदये प्रविष्ट्वैकघनो भूत्वा, वज्रतुष्टिविग्रहः प्रादुर्भूय, भगवतः पाणौ प्रतिष्ठितः । अथ ततो वज्रतुष्टिविग्रहात् सर्वलोकधातुपरमाणुरजःसमाः तथागतविग्रहा विनिःसृत्य, सर्वतथागतसाधुकारादीनि सर्वबुद्धर्द्धिविकुर्वितानि कृत्वा, सुप्रामोद्यत्वाद् वज्रसत्त्वसमाधेः सुदृढत्वाच् चैकघनः प्रामोद्यराजमहाबोधिसत्त्वकायः संभूय, भगवतो वैरोचनस्य तथागतस्य हृदये स्थित्वेदमुदानमुदानयामास ।

अहो हि साधुकारोऽहं सर्वः सर्वविदां वरः ।
यद् विकल्पप्रहीणानां तुष्टिं जनयति ध्रुवं ॥

अथ स प्रामोद्यराजमहाबोधिसत्त्वकायो भगवतो वैरोचनस्य हृदयादवतीर्य, सर्वतथागतानां पृष्ठतश्चन्द्रमण्डलाश्रितो भूत्वा, पुनरप्याज्ञां मार्गयामास ॥

अथ भगवान् सर्वतथागतसंतोषणवज्रन्नाम समाधिं संपाद्य, सर्वतथागतानुत्तरप्रामोद्यज्ञानसमयशेषानवशेषसत्त्वधातुसर्वसत्त्वसन्तोषणमहासुखसौमनस्यानुभवनार्थ यावत् सर्वतथागतानुत्तरहर्षरसोत्तमसिद्धिप्राप्तिफलहेतोस्तद्वज्रतुष्टिं तस्मै प्रामोद्यराजाय महाबोधिसत्त्वाय तथैव पाणिभ्यामनुप्रादात् । ततः सर्वतथागतैर्वज्रहर्षो वज्रहर्ष इति वज्रनामाभिषेकेणाभिषिक्तः ॥

अथ वज्रहर्षो बोधिसत्त्वस्तेन वज्रतुष्टिना सर्वतथागतान् साधुकारैः प्रहर्षयन्निदमुदानमुदानयामास ।

इदं तत्सर्वबुद्धानां साधुकारप्रवर्तकं ।
सर्वतुष्टिकरं वज्रं दिव्यं प्रामोद्यवर्धनम् ॥ इति ॥

महाबोधिचित्तं, सर्वतथागतकर्षणसमयः, सर्वतथागतानुरागणज्ञानं, महातुष्टिरिति सर्वतथागतमहासमयसत्त्वाः ॥

I.१.१० वज्ररत्न

अथ भगवान् पुनरप्याकाशगर्भमहाबोधिसत्त्वसमयसंभवरत्नाधिष्ठानवज्रन्नाम समाधिं समापद्येदं सर्वतथागताभिषेकसमयन्नाम सर्वतथागतहृदयं स्वहृदयान्निश्चचार वज्ररत्नः ॥

अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः सर्वाकाशसमताज्ञानसुप्रतिवेधत्वाद्, वज्रसत्त्वसमाधेः स एव भगवान् वज्रधरः सर्वाकाशरसमयो भूत्वा विनिःसृतास्, तैः सर्वैः सर्वाकाशरश्मिभिः सर्वलोकधातवोऽवभासिताः, सर्वाकाशधातुसमाः संवृता अभूवन् । अथ सर्वतथागताधिष्ठानेन सर्वोऽसाकाशधातुर्भगवतो वैरोचनस्य हृदये प्रविष्टाः । सुपरिभावितत्वाच्च वज्रसत्त्वसमाधेः सर्वाकाशधातुगर्भमयः सर्वलोकधातुसमवसरणप्रमाणो महावज्ररत्नविग्रहः प्रादुर्भूय, भगवतः पाणौ प्रतिष्ठितः । अथ तस्माद् वज्ररत्नविग्रहात् सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहाः प्रादुर्भूय, सर्वतथागताभिषेकादीनि सर्वतथागतर्द्धिविकुर्वितानि सर्वलोकधातुषु कृत्वा, सर्वाकाशधातुगर्भसुसंभवत्वाद्वज्रसत्त्वसमाधेः सुदृढत्वाच्चैकघनः आकाशगर्भमहाबोधिसत्त्वकायः संभूय, भगवतो वैरोचनस्य हृदये स्थित्वेदमुदानमुदानयामास ।

अहो हि स्वभिषेकोऽहं वज्ररत्नमनुत्तरं ।
यन्निःसंगा अपि जिनास्त्रिधातुपतयः स्मृताः ॥

अथ स आकाशगर्भमहाबोधिसत्त्वकायो भगवतो हृदयादवतीर्य, सर्वतथागतानां पुरतश्चन्द्रमण्डलाश्रितो भूत्वा, पुनरप्याज्ञां मार्गयामास ॥

अथ भगवान् सर्वतथागतमणिरत्नवज्रन्नाम समाधिं समापद्य, सर्वतथागताभिप्रायपरिपूर्णसमयमशेषानवशेषसत्त्वधातुसर्वार्थपरिप्राप्तिसर्वसुखसौमनस्यानुभवनार्थं यावत् सर्वतथागतार्थसंपदुत्तमसिद्धिप्राप्त्यै तं वज्रमणिं तस्मै आकाशगर्भाय महाबोधिसत्त्वाय वज्ररत्नचक्रवर्तित्वे वज्ररत्नाङ्कुराभिषेकेणाभिषिच्य पाणिभ्यामनुप्रादात् । ततः सर्वतथागतैर्वज्रगर्भो वज्रगर्भ इति वज्रनामाभिषेकेणाभिषिक्तः ।

अथ वज्रगर्भो महाबोधिसत्त्वस्तं वज्रमणिं स्वाभिषेकस्थाने स्थापयन्निदमुदानमुदानयामास ।

इदं तत् सर्वबुद्धानां सत्त्वधात्वभिषेचनं ।
अहम्मम करे दत्तं रत्ने रत्नन्नियोजितं ॥

I.१.११ वज्रतेज

अथ भगवान् पुनरपि महातेजमहाबोधिसत्त्वसमयसंभवरत्नाधिष्ठानवज्रन्नाम समाधिं समापद्यदं सर्वतथागतरश्मिसमयन्नाम सर्वतथागतहृदयं स्वहृदयान्निश्चचार वज्रतेज ॥

अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रपाणिः महासूर्यमण्डलानि भूत्वा, भगवतो वैरोचनस्य हृदये प्रविष्ट्वैकघनो वज्रसूर्यविग्रहः प्रादुर्भूय, भगवतः पाणौ प्रतिष्ठितः । अथ ततो वज्रसूर्यमण्डलात्सर्वलोकधातुपरमाणुरजःसमाः तथागतविग्रहा विनिःसृत्य, सर्वतथागतरश्मिप्रमुञ्चनादीनि सर्वतथागतर्द्धिविकुर्वितानि कृत्वा, सुमहातेजस्त्वाद् वज्रसत्त्वसमाधेः सुदृढत्वाच्चैकघनो महातेजमहाबोधिसत्त्वकायः संभूय, भगवतो वैरोचनस्य हृदये स्थित्वेदमुदानमुदानयामास ।

अहो ह्यनुपमं तेजः सत्त्वधात्ववभासनं । यच्छोधयति शुद्धानां बुद्धानामपि तायिनां ।

अथ स विमलतेजमहाबोधिसत्त्वकायो भगवतो हृदयादवतीर्य, सर्वतथागतानां दक्षिणचन्द्रमण्डलाश्रितो भूत्वा, पुनरप्याज्ञां मार्गयामास ॥

अथ भगवान् सर्वतथागतप्रभामण्डलाधिष्ठानवज्रन्नाम समाधिं समापद्य, सर्वतथागतरश्मिसमयमशेषानवशेषसत्त्वधात्वनुपमतेजःसर्वसुखसौमनस्यानुभवनार्थं यावत्सर्वतथागतस्वयंप्रभावाप्त्युत्तमसिद्धये तद्वज्रसूर्यं तस्मै महातेजसे महाबोधिसत्त्वाय तथैव पाणिभ्यामनुप्रादात् । ततः सर्वतथागतैर्वज्रप्रभो वज्रप्रभ इति वज्रनामाभिषेकेणाभिषिक्तः ॥

अथ वज्रप्रभो महाबोधिसत्त्वस्तेन वज्रसूर्येण सर्वतथागतानवभासयन्निदमुदानमुदानयामास ।

इदं तत्सर्वबुद्धानामज्ञानध्वान्तनाशनं । परमाणुरजःसंख्यसूर्याधिकतरप्रभम् ॥ इति ॥

I.१.१२ वज्रकेतु

अथ भगवान् पुनरपि रत्नकेतुमहाबोधिसत्त्वसमयसंभवरत्नाधिष्ठानवज्रन्नाम समाधिं समापद्येदं सर्वतथागताशापरिपूरणसमयन्नाम सर्वतथागतहृदयं स्वहृदयान्निश्चचार वज्रकेतु ॥

अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रधरो विचित्रवर्णरूपालङ्कारसंस्थानाः पताका भूत्वा विनिःसृत्य, भगवतो वैरोचनस्य हृदये प्रविष्ट्वैकघनो वज्रध्वजविग्रहः प्रादुर्भूय, भगवतः पाणौ प्रतिष्ठितः । अथ ततो वज्रध्वजविग्रहात् सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा विनिश्चरित्वा, सर्वतथागतरत्नध्वजोच्छ्रेपणादीनि सर्वबुद्धर्द्धिविकुर्वितानि कृत्वा, महारत्नकेतुत्वाद् वज्रसत्त्वसमाधेः सदृढत्वाच्चैकघनो रत्नकेतुमहाबोधिसत्त्वकायः संभूय, भगवतो वैरोचनस्य तथागतस्य हृदये स्थित्वेदमुदानमुदानयामास ।

अहो ह्यसदृशः केतुरहं सर्वार्थसिद्धीनां ।
यत्सर्वाशापरिपूर्णानां सर्वार्थप्रतिपूरणं ॥ इति ॥

अथ स रत्नकेतुर्महाबोधिसत्त्वकायो भगवतो हृदयादवतीर्य, सर्वतथागतानां वामचन्द्रमण्डलाश्रितो भूत्वा, पुनरप्याज्ञां मार्गयामास ॥

अथ भगवान् सर्वतथागतोच्छ्रयाधिष्ठानवज्रन्नाम समाधिं समापद्य, सर्वतथागतचिन्ताराजमणिध्वजोच्छ्रेपणसमयमशेषानवशेषसत्त्वधातुसर्वाशापरिपूरिसर्वसुखसौमनस्यानुभवनार्थं यावत् सर्वतथागतमहार्थोत्तमसिद्धिप्राप्तिफलहेतोः तद्वज्रध्वजं तस्मै रत्नकेतवे महाबोधिसत्त्वाय तथैव पाणिभ्यामनुप्रादात् । ततः सर्वतथागतैर्वज्रयष्टिर्वज्रयष्टिरिति वज्रनामभिषेकेणाभिषिक्तः ।

अथ वज्रयष्टिर्बोधिसत्त्वो महासत्त्वस्तेन वज्रध्वजेन सर्वतथागतान् दानपारमितायान्नियोजयन्निदमुदानमुदानयामास ।

इदं तत्सर्वबुद्धानां सर्वाशापपरिपूरणं ।
चिन्तामणिध्वजन्नाम दानपारमितानयम् ॥ इति ॥

I.१.१३ वज्रहास

अथ भगवान् पुनरपि नित्यप्रीतिप्रमुदितेन्द्रियमहाबोधिसत्त्वसमयसंभवरत्नाधिष्ठानवज्रन्नाम समाधिं समापद्येदं सर्वतथागतप्रीतिसमयन्नाम सर्वतथागतहृदयं स्वहृदयान्निश्चचार वज्रहास ॥

अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रधरः सर्वतथागतस्मितानि भूत्वा विनिःसृत्य, भगवतो वैरोचनस्य हृदये प्रविष्ट्वैकघनो वज्रस्मितविग्रहः प्रादुर्भूय, प्राणौ प्रतिष्ठितः । अथ ततो वज्रस्मितविग्रहात् सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहाः सर्वतथागताद्भूतादीनि सर्वबुद्धर्द्धिविकुर्वितानि कृत्वा, नित्यप्रीतिप्रमुदितेन्द्रियत्वाद् वज्रसत्त्वसमाधेः सुदृढत्वाच्चैकघनो नित्यप्रीतिप्रमुदितेन्द्रियमहाबोधिसत्त्वकायः संभूय, भगवतो वैरोचनस्य हृदये स्थित्वेदमुदानमुदानयामास ।

अहो महाहासमहं सर्वाग्र्याणां महाद्भुतं ।
यत्प्रयुञ्जन्ति बुद्धार्थे सदैव सुसमाहिताः ॥

अथ स नित्यप्रीतिप्रमुदितेन्द्रियमहाबोधिसत्त्वकायो भगवतो हृदयादवतीर्य, सर्वतथागतानां पृष्ठतश्चन्द्रमण्डलाश्रितो भूत्वा, पुनरप्याज्ञां मार्गयामास ॥

अथ भगवान् सर्वतथागताद्भुताधिष्ठानवज्रन्नाम समाधिं समापद्य, सर्वतथागताद्भुतोत्पादसमयमशेषानवशेषसत्त्वधातुसर्वेन्द्रियानुत्तरसुखसौमनस्यानुभवनार्थं यावत् सर्वतथागतेन्द्रियपरिशोधनज्ञानाभिज्ञावाप्तिफलहेतोस्तद्वज्रस्मितं तस्मै नित्यप्रीतिप्रमुदितेन्द्रियाय महाबोधिसत्त्वाय तथैव पाणिभ्यामनुप्रादात् । ततः सर्वतथागतैर्वज्रप्रीतिर्वज्रप्रीतिरिति वज्रनामाभिषेकेणाभिषिक्तः ॥

अथ वज्रप्रीतिर्बोधिसत्त्वो महासत्त्वः तेन वज्रस्मितेन सर्वतथागतान् प्रहर्षयन्निदमुदानमुदानयामास ।

इदन्तत्सर्वबुद्धानामद्भुतोत्पाददर्शकं ।
महाहर्षकरं ज्ञानमज्ञातं परशासिभिर् ॥ इति ॥

महाभिषेकः, व्यामप्रभामण्डलं, महासत्त्वार्थो, महाहर्षश्चेति । सर्वतथागतमहाभिषेकसत्त्वाः ॥

I.१.१४ वज्रधर्म

अथ भगवान् पुनरप्यवलोकितेश्वरमहाबोधिसत्त्वसमयसंभवधर्माधिष्ठानवज्रन्नाम समाधिं समापद्येदं सर्वतथागधर्मसमयन्नाम सर्वतथागतहृदयं स्वहृदयान्निश्चचार वज्रधर्म ॥

अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रधरः स्वभावशुद्धधर्मसमताज्ञानसुप्रतिवेधत्वात् वज्रसत्त्वसमाधेः सद्धर्मरश्मयो भूत्वा विनिश्चरितः, तैः सद्धर्मरश्मिभिः सर्वलोकधातवोऽवभासिताः, धर्मधातुमयाः संवृता अभूवन् । स च सकलो धर्मधातुर्भगवतो वरोचनस्य हृदये प्रविष्ट्वैकघनः सर्वाकाशधातुसमवसरणप्रमाणो महापद्मविग्रहः प्रादुर्भूय, भगवतः पाणौ प्रतिष्ठितः । अथ तस्माद् वज्रपद्मविग्रहात् सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा विनिःसृत्य, सर्वतथागतसमाधिज्ञानाभिज्ञादीनि सर्वबुद्धर्द्धिविकुर्वितानि सर्वलोकधातुषु कृत्वा, स्ववलोकनैस्वर्यत्वाद् वज्रसत्त्वसमाधेः सुदृढत्वाच्चैकघनः अवलोकितेश्वरमहाबोधिसत्त्वकायःसंभूय, भगवतो वैरोचनस्य तथागतस्य हृदये स्थित्वेदमुदानमुदानयामास ।

अहो हि परमार्थोऽहमादिशुद्धः स्वयंभुवान् ।
यत्कोलोपमधर्माणां विशुद्धिरुपलभ्यते ॥

अथ सोऽवलोकितेश्वरमहाबोधिसत्त्वकायो भगवतो वैरोचनस्य हृदयादवतीर्य, सर्वतथागतानां पुरतश्चन्द्रमण्डलाश्रितो भूत्वा, पुनरप्याज्ञां मार्गयामास ॥

अथ भगवान् सर्वतथागतसमाधिज्ञानसमयवज्रन्नाम समाधिं समापद्य, सर्वतथागतविशोधनसमयमशेषानवशेषसत्त्वात्मपरिशुद्धिसर्वसुखसौमनस्यानुभवनार्थं यावत् सर्वतथागतधर्मज्ञानाभिज्ञावाप्तिफलहेतोस्तद्वज्रपद्मं तस्म अवलोकितेश्वराय महाबोधिसत्त्वाय सद्धर्मचक्रवर्तित्वे सर्वतथागतधर्मकायाभिषेकेणाभिषिच्य, पाणिभ्यामनुप्रादात् । ततः सर्वतथागतर्वज्रनेत्रो वज्रनेत्र इति वज्रनामाभिषेकेणाभिषिक्तः ॥

अथ वज्रनेत्रो बोधिसत्त्वो महासत्त्वः तद्वज्रपद्मं पत्रविकासनतया रागविशुद्धिनिर्लेपस्वभावावलोकनतथावलोकयन्निदमुदानमुदानयामास ।

इदं तत्सर्वबुद्धानां रागतत्त्वावबोधनं ।
अहं मम करे दत्तं धर्म धर्मे प्रतिष्ठितम् ॥ इति ॥

I.१.१५ वज्रतीक्ष्ण

अथ भगवान् पुनरपि मञ्जुश्रीमहाबोधिसत्त्वसमयसंभवधर्माधिष्ठानवज्रं नाम समाधिं समापद्यदं सर्वतथागतमहाप्रज्ञाज्ञानसमयन्नाम सर्वतथागतहृदयं स्वहृदयान्निश्चचार वज्रतीक्ष्ण ॥

अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रधरः प्रज्ञाशस्त्राणि भूत्वा विनिःसृत्य, भगवतो वैरोचनस्य हृदये प्रविष्ट्वैकधनो वज्रकोशविग्रहः प्रादुर्भूय, भगवतः पाणौ प्रतिष्ठितः । अथ ततो वज्रकोशविग्रहात् सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा विनिश्चरित्वा, सर्वतथागतप्रज्ञाज्ञानादीनि सर्वबुद्धर्द्धिविकुर्वितानि कृत्वा, सुमञ्जुश्रियत्वात् वज्रसत्त्वसमाधेः सुदृढत्वाच्चैकघनो मञ्जुश्रीमहाबोधिसत्त्वकायः संभूय, भगवतो वैरोचनस्य हृदये स्थित्वेदमुदानमुदानयामास ॥

अहो हि सर्वबुद्धानां मञ्जुघोषमहं स्मृतः ।
यत्प्रज्ञाया अरूपिण्या घोषत्वमुपलभ्यते ॥

अथ स मञ्जुश्रीमहाबोधिसत्त्वकायो भगवतो हृदयादवतीर्य, सर्वतथागतानां दक्षिणचन्द्रमण्डलाश्रितो भूत्वा, पुनरप्याज्ञां मार्गयामास ॥

अथ भगवान् सर्वतथागतप्रज्ञाज्ञानवज्रं नाम समाधिं समापद्य, सर्वतथागतक्लेशच्छेदनसमयमशेषानवशेषसत्त्वधातुसर्वदुःखच्छेदनसर्वसुखसौमनस्यानुभवनार्थं यावत् सर्वतथागतघोषानुगप्रज्ञापारिर्पूर्युत्तमसिद्ध्यर्थं तस्मै मञ्जुश्रिये महाबोधिसत्त्वाय तद्वज्रकोशं तथैव पाणिभ्यामनुप्रादात् । ततः सर्वतथागतैर्वज्रबुद्धिर्वज्रबुद्धिरिति वज्रनामाभिषेकेणाभिषिक्तः ॥ अथ स वज्रबुद्धिर्बोधिसत्त्वो महासत्त्वः तेन वज्रकोशेन सर्वतथागतान् प्रहरन्निदमुदानमुदानयामास ।

इदं तत्सर्वबुद्धानां प्रज्ञापारमितानयं ।
छेत्तारं सर्वशत्रूणां सर्वपापहरं परम् ॥ इति ॥

I.१.१६ वज्रहेतु

अथ भगवान् पुनरपि सहचित्तोत्पादितधर्मचक्रप्रवर्तिमहाबोधिसत्त्वसमयसंभवधर्माधिष्ठानवज्रं नाम समाधिं समापद्येदं सर्वतथागतचक्रसमयन्नाम सर्वतथागतहृदयं स्वहृदयान्निश्चचार वज्रहेतु ॥

अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रधरो वज्रधातुमहामण्डलादीनि सर्वतथागतमण्डलानि भूत्वा विनिःसृत्य, भगवतो वैरोचनस्य हृदये प्रविष्ट्वैकघनो वज्रचक्रविग्रहः प्रादुर्भूय, भगवतः पाणौ प्रतिष्ठितः । अथ ततो वज्रचक्रविग्रहात् सर्वलोकधातुपरमाणुरजःसमाः तथागतविग्रहा विनिश्चरित्वा, सहचित्तोत्पादधर्मचक्रप्रवर्तनादीनि सर्वबुद्धर्द्धिविकुर्वितानि सर्वलोकधातुषु कृत्वा, सहचित्तोत्पादधर्मचक्रप्रवर्तनत्वाद् वज्रसत्त्वसमाधेः सुदृढत्वाच्चैकघनः सहचित्तोत्पादितधर्मचक्रप्रवर्तिमहाबोधिसत्त्वकायः संभूय, भगवतो वैरोचनस्य हृदये स्थित्वेदमुदानमुदानयामास ।

अहो वज्रमयं चक्रमहं वज्राग्रधर्मिणाम् ।
यच्चित्तोत्पादमात्रेण धर्मचक्रं प्रवर्तते ॥

अथ स सहचित्तोत्पादितधर्मचक्रप्रवर्तिमहाबोधिसत्त्वकायो भगवतो हृदयादवतीर्य, सर्वतथागतानां वामचन्द्रमण्डलाश्रितो भूत्वा, पुनरप्याज्ञां मार्गयामास ॥

अथ भगवान् सर्वतथागतचक्रवज्रन्नाम समाधिं समापद्य, सर्वतथागतमहामण्डलसमयं शेषानवशेषसत्त्वधातुप्रवेशावैवर्तिकचक्रसर्वसुखसौमनस्यानुभवनार्थं यावत् सर्वतथागतसद्धर्मचक्रप्रवर्तनोत्तमसिद्धिनिमित्तं तद्वज्रचक्रं तस्मै सहचित्तोत्पादितधर्मचक्रप्रवर्तिने महाबोधिसत्त्वाय तथैव पाणिभ्यामनुप्रादात् । ततः सर्वतथागतैर्वज्रमण्डो वज्रमण्ड इति वज्रनामाभिषेकेणाभिषिक्तः ॥

अथ वज्रमण्डो बोधिसत्त्वो सहासत्त्वस्तेन वज्रचक्रेण सर्वतथागतानवैवर्तिकत्वे प्रतिष्ठापयन्निदमुदानमुदानयामास ।

इदं तत् सर्वबुद्धानां सर्वधर्मविशोधकम् ।
अवैवर्तिकचक्रन्तु बोधिमण्डमिति स्मृतम् ॥ इति ॥

I.१.१७ वज्रभाष

अथ भगवानवाचमहाबोधिसत्त्वसमयसंभवधर्माधिष्ठानवज्रन्नाम समाधिं समापद्येदं सर्वतथागतजापसमयं नाम सर्वतथागतहृदयं स्वहृदयान्निश्चचार वज्रभाष ॥

अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रपाणिः सर्वतथागतधर्माक्षराणि भूत्वा विनिः सृत्य, भगवतो वैरोचनस्य हृदये प्रविष्ट्वैकधनो वज्रजापविग्रहः प्रादुर्भूय, भगवतः पाणौ प्रतिष्ठितः । अथ ततो वज्रजापविग्रहात्सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा विनिःसृत्य, सर्वतथागतधर्मतादिनि सर्वबुद्धर्द्धिविकुर्वितानि कृत्वा स्ववाचत्वाद् वज्रसत्त्वसमाधेः सुदृढत्वाच्चैकघनः अवाचमहाबोधिसत्त्वकायः संभूय, भगवतो वैरोचनस्य हृदये स्थित्वेदमुदानयामास ।

अहो स्वयंभुवां गुह्यं सन्धाभाषमहं स्मृतः ।
यद् देशयन्ति सद्धर्मं वाक्प्रपञ्चविवर्जितं ॥

अथ स अवाचमहाबोधिसत्त्वकायो भगवतो हृदयादवतीर्य, सर्वतथागतानां पृष्ठतश्चन्द्रमण्डलाश्रितो भूत्वा, पुनरप्याज्ञां मार्गयामास ।

अथ भगवान् सर्वतथागतगुह्यवाग्वज्रं नाम समाधिं समापद्य, सर्वतथागतवाग्ज्ञानसमयं अशेषानवशेषसत्त्वधातुवाक्सिद्धिसर्वसुखसौमनस्यानुभवनार्थं यावत्सर्वतथागतवाग्गुह्यताप्राप्त्युत्तमसिद्धये तद्वज्रजापं तस्मै अवाचाय महाबोधिसत्त्वाय तथैव पाणिभ्यामनुप्रादात् । ततः सर्वतथागतैर्वज्रवाचो वज्रवाच इति वज्रनामाभिषेकेणाभिषिक्तः ॥

अथ वज्रवाचो बोधिसत्त्वो महासत्त्वस्तेन वज्रजापेन सर्वतथागतान् संल्लापयन्निदमुदानमुदानयामास ।

इदं तत्सर्वबुद्धानां वज्रजापमुदाहृतं ।
सर्वतथागतानां तु मन्त्राणामाशुसाधनम् ॥ इति ॥

वज्रधर्मताज्ञानं, सर्वतथागतप्रज्ञाज्ञानं, महाचक्रप्रवर्तनज्ञानं, सर्वतथागतवाक्प्रपञ्चविनिवर्तनज्ञानं चेति । सर्वतथागतमहाज्ञानसत्त्वाः ॥

I.१.१८ वज्रकर्म

अथ भगवान् सर्वतथागतविश्वकर्ममहाबोधिसत्त्वसमयसंभवकर्माधिष्ठानवज्रं नाम समाधिं समापद्य, इदं सर्वतथागतकर्मसमयन्नाम सर्वतथागतहृदयं स्वहृदयान्निश्चचार वज्रकर्म ॥

अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः सर्वकर्मसमताज्ञानसुप्रतिवेधत्वात् वज्रसत्त्वसमाधेः स एव भगवन् वज्रधरः सर्वतथागतकर्मसमयो भूत्वा विनिःसृतः, तैश्च सर्वतथागतकर्मरश्मिभिः सर्वलोकधातवो भासिताः, सर्वतथागतकर्मधातुमयाः संवृत्ताः, स सकलः सर्वतथागतकर्मधातुर्भगवतो वैरोचनस्य हृदये प्रविष्ट्वैकघनः सर्वाकाशधातुसमवसरणप्रमाणस्ततः सर्वतथागतकर्मधातुतः कर्मवज्रविग्रहः प्रादुर्भूय, भगवतः पाणौ प्रतिष्ठितः । अथ ततः कर्मवज्रविग्रहात् सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा विनिःसृत्य, सर्वलोकधातुषु सर्वतथागतकर्मादीनि सर्वबुद्धर्द्धिविकुर्वितानि कृत्वा, सर्वतथागतानन्तकर्मत्वाद्वज्रसत्त्वसमाधेः सुदृढत्वाच्चैकघनः सर्वतथागतविश्वकर्ममहाबोधिसत्त्वकायः संभूय, भगवतो वैरोचनस्य हृदये स्थित्वेदमुदानमुदानयामास ।

अहो ह्यमोघं बुद्धानां सर्वकर्ममहं बहु ।
यदनाभोगबुद्धार्थं वज्रकर्म प्रवर्तते ॥

अथ स सर्वतथागतविश्वकर्ममहाबोधिसत्त्वकायो भगवतो हृदयादवतीर्य, सर्वतथागतानां पुरतश्चन्द्रमण्डलाश्रितो भूत्वा, पुनरप्याज्ञां मार्गयामास ॥

अथ भगवान् सर्वतथागतामोघवज्रं नाम समाधिं समापद्य, सर्वतथागतपूजाप्रवर्तनाद्यप्रमेयामोघसर्वकर्मविधिविस्तरसमयशेषानवशेषसत्त्वधातुसर्वकर्मसिद्धिसर्वसुखसौमनस्यानुभवनार्थं यावत् सर्वतथागतवज्रकर्मताज्ञानाभिज्ञोत्तमसिद्धिफलहेतोस्तत्कर्मवज्रं तस्मै सर्वतथागतविश्वकर्मणे महाबोधिसत्त्वाय सर्वकर्मचक्रवर्तित्वे सर्वतथागतवज्राभिषेकेणाभिषिच्य, पाणिभ्यामनुप्रादात् । ततः सर्वतथागतैर्वज्रविश्वो वज्रविश्व इति वज्रमहाभिषेकेणाभिषिक्तः ।

अथ वज्रविश्वो बोधिसत्त्वो महासत्वस्तद्वज्रं स्वहृदि स्थाप्य, सर्वतथागतकर्मतायान्नियोजयन्निदमुदानमुदानयामास ।

इदं तत्सर्वबुद्धानां विश्वकर्मकरं परं ।
अहं मम करे दत्तं विश्वे विश्वं नियोजितम् ॥ इति ॥

I.१.१९ वज्ररक्ष

अथ भगवान् दुर्योधनवीर्यमहाबोधिसत्त्वसमयसंभवकर्माधिष्ठानवज्रं नाम समाधिं समापद्येदं सर्वतथागतरक्षासमयन्नाम सर्वतथागतहृदयं स्वहृदयान्निश्चचार वज्ररक्ष ॥

अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रपाणिर्दृढकवचानि भूत्वा विनिःसृत्य, भगवतो वैरोचनस्य हृदये प्रविष्ट्वैकघनो महावज्रकवचविग्रहः प्रादुर्भूय, भगवतः पाणौ प्रतिष्ठितः । अथ ततो वज्रकवचविग्रहात्सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा विनिःसृत्य, सर्वतथागतरक्षाविधिविस्तरकर्मादीनि सर्वबुद्धर्द्धिविकुर्वितानि कृत्वा, दुर्योधनवीर्यत्वाद् वज्रसत्त्वसमाधेः सुदृढत्वाच्चैकघनो दुर्योधनवीर्यमहाबोधिसत्त्वविग्रहः संभूय, भगवतो वैरोचनस्य हृदये स्थित्वेदमुदानमुदानयामास ।

अहो वीर्यमयो वर्मः सुदृढोऽहं दृढात्मनां ।
यद् दृढत्वादकायानां वज्रकायकरं परं ॥

अथ स दुर्योधनवीर्यमहाबोधिसत्त्वकायो भगवतो हृदयादवतीर्य, सर्वतथागतानां दक्षिणचन्द्रमण्डलाश्रितो भूत्त्वा, पुनरप्याज्ञां मार्गयामास ॥

अथ भगवान् सर्वतथागतदृढवज्रन्नाम समाधिं समापद्य, सर्वतथागतवीर्यपारमितासमयमशेषानवशेषसत्त्वधातुपरित्राणसर्वसुखसौमनस्यानुभवनार्थं यावत्सर्वतथागतवज्रकायप्राप्त्युत्तमसिद्धिहेतोस्तद्वज्रवर्म तस्मै दुर्योधनवीर्याय महाबोधिसत्त्वाय पाणिभ्यामनुप्रादात् । ततः सर्वतथागतैर्वज्रमित्रो वज्रमित्र इति वज्रनामाभिषेकेणाभिषिक्तः ॥

अथ वज्रमित्रो बोधिसत्त्वो महासत्त्वः तेन वज्रवर्मेण सर्वतथागतान् कवचयन्निदमुदानमुदानयामास ।

इदं तत्सर्वबुद्धानां मैत्रीकवचमुत्तमं ।
दृढवीर्यमहारक्षं महामित्रमुदाहृतम ॥ इति ॥

I.१.२० वज्रयक्ष

अथ भगवान् पुनरपि सर्वमारप्रमार्देमहाबोधिसत्त्वसमयसंभवकर्माधिष्ठानवज्रन्नाम समाधिं समापद्येदं सर्वतथागतोपायसमयं नाम सर्वतथागतहृदयं स्वहृदयान्निश्चचार वज्रयक्ष ॥

अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रधरो महादंष्ट्रायुधानि भूत्वा विनिःसृत्य, भगवतो वैरोचनस्य हृदये प्रविष्ट्वैकघनो वज्रदंष्ट्राविग्रहः प्रादुर्भूय, पाणौ प्रतिष्ठितः । अथ ततो वज्रदंष्ट्राविग्रहात् सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा विनिश्चरित्वा, सर्वतथागतरौद्रविनयादीनि सर्वबुद्धर्द्धिविकुर्वितानि कृत्वा, सर्वमारसुप्रमर्दित्वाद् वज्रसत्त्वसमाधेः सुदृढत्वाच्चैकघनः सर्वमारप्रमर्दिमहाबोधिसत्त्वकायः संभूय, भगवतो वैरोचनस्य हृदये स्थित्वेदमुदानमुदानयामास ॥

अहो महोपायमहं बुद्धानां करुणात्मनां ।
यत्सत्त्वार्थतया शान्ता रौद्रत्वमपि कुरुवते ॥

अथ स सर्वमारप्रमर्दिमहाबोधिसत्त्वकायो भगवतो हृदयादवतीर्य, सर्वतथागतानां वामचन्द्रमण्डलाश्रितो भूत्वा, पुनरप्याज्ञां मार्गयामास ॥

अथ भगवान् सर्वतथागतप्रचण्डवज्रन्नाम समाधिं समापद्य, सर्वतथागतदुष्टविनयसमयमशेषानवशेषत्वधात्वभयसर्वसुखसौमनस्यानुभवनार्थं यावत्सर्वतथागतमहोपायज्ञानाभिज्ञावाप्त्युत्तमसिद्धिफलहेतोस्तद्वज्रदंष्ट्रायुधं तस्मै सर्वमारप्रमर्दिने महाबोधिसत्त्वाय तथैव पाणिभ्यामनुप्रादात् । ततः सर्वतथागतैर्वज्रचण्डो वज्रचण्ड इति वज्रनामाभिषेकेणाभिषिक्तः ॥

अथ वज्रचण्डो बोधिसत्त्वो महासत्त्वस्तद्वज्रदंष्ट्रायुधं स्वमुखे प्रतिष्ठाप्य, सर्वतथागतान् भीषयन्निदमुदानमुदानयामास ।

इदं तत् सर्वबुद्धानां सर्वदुष्टाग्रदामकं ।
वज्रदंष्ट्रायुधं तीक्ष्णमुपायः करूणात्मनाम् ॥ इति ॥

I.१.२१ वज्रसन्धि

अथ भगवान् पुनरपि सर्वतथागतमुष्टिमहाबोधिसत्त्वसमयसंभवकर्माधिष्ठानवज्रं नाम समाधिं समापद्यदं सर्वतथागतकायवाक्चित्तवज्रबन्धसमयन्नाम सर्वतथागतहृदयं स्वहृदयान्निश्चचार वज्रसन्धि ॥

अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रधरः सर्वतथागतसर्वमुद्राबन्धा भूत्वा विनिःसृत्य, भगवतो वैरोचनस्य हृदये प्रविष्ट्वैकघनो वज्रबन्धविग्रहः प्रादुर्भूय, पाणौ प्रतिष्ठितः । अथ ततो वज्रबन्धविग्रहात् सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा विनिश्चरित्वा, सर्वलोकधातुषु सर्वतथागतमुद्राज्ञानादीनि सर्वबुद्धर्द्धिविकुर्वितानि कृत्वा, सर्वतथागतमहामुष्टिसुबन्धत्वाद् वज्रसत्त्वसमाधेः सुदृढत्वाच्चैकघनः सर्वतथागतमुष्टिमहाबोधिसत्त्वकायः संभूय, भगवतो वैरोचनस्य हृदये स्थित्वेदमुदानमुदानयामास ।

अहो हि सुदृढो बन्धः समयोऽहं दृढात्मनां ।
यत्सर्वाशाप्रसिद्ध्यर्थं मुक्तानामपि बन्धनं ॥

अथ सर्वतथागतमुष्टिमहाबोधिसत्त्वकायो भगवतो हृदयादवतीर्य, सर्वतथागतानां पृष्ठतश्चन्द्रमण्डलाश्रितो भूत्वा, पुनरप्याज्ञां मार्गयामास ॥

अथ भगवान् सर्वतथागतसमयवज्रन्नाम समाधिं समापद्य, सर्वतथागतमुद्राबन्धसमयमशेषानवशेषसत्त्वधातुसर्वतथागतदेवतासान्निध्यकल्पनात् सर्वसिद्धिसुखसौमनस्यानुभवनार्थं यावत्सर्वतथागतसर्वज्ञानमुद्राधिपत्योत्तमसिद्धिफलहेतोस्तद्वज्रबन्धं तस्मै सर्वतथागतमुष्टये महाबोधिसत्त्वाय तथैव पाणिभ्यामनुप्रादात् । ततः सर्वतथागतैर्वज्रमुष्टिर्वज्रमुष्टिरिति वज्रनामाभिषेकेणाभिषिक्तः ॥

अथ स वज्रमुष्टिर्बोधिसत्त्वो महासत्त्वः तेन वज्रबन्धेन सर्वतथागतान् बन्धयन्निदमुदानमुदानयामास ।

इदं तत्सर्वबुद्धानां मुद्राबन्धं महादृढं ।
यत्सर्वबुद्धाशुसिद्ध्यर्थं समयो दुरतिक्रमः ॥ इति ॥

सर्वतथागतपूजाविधिविस्तरकर्म, महावीर्यदृढकवचः, सर्वतथागतमहोपायः, सर्वमुद्राज्ञानं चेति । सर्वतथागतमहाकर्मसत्त्वाः ॥

I.१.२२ षत्त्ववज्रि

अथ खल्वक्षोभ्यस्तथागतो भगवतो वैरोचनस्य तथागतस्य सर्वतथागतज्ञानानि निष्पाद्य, सर्वतथागतज्ञानमुद्रणार्थं वज्रापारमितासमयोभ्दववज्राधिष्ठानं नाम समाधिं समापद्येमां सर्वतथागतवज्रसमयां नाम सर्वतथागतमुद्रां स्वहृदयान्निश्चचार सत्त्ववज्रि ॥

अथास्यां विनिःसृतमात्रायां सर्वतथागतहृदयेभ्यो वज्ररश्मयो विनिश्चरिताः । तेभ्यश्च वज्ररश्मिभ्यः स एव भगवान् वज्रधरः सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा भूत्वा, सर्वतथागतवज्रपारमिताज्ञानान्यामुद्र्य, पुनरप्येकघनः सर्वलोकधातुसमवसरणप्रमाणो महावज्रविग्रहः प्रादुर्भूय, भगवतोवैरोचनस्य पुरतश्चन्द्रमण्डलाश्रितो भूत्वा, इदमुदानमुदानयामास ।

अहो हि सर्वबुद्धानां सत्त्ववज्रमहं दृढः ।
यद् दृढत्वादकायोऽपि वज्रकायत्वमागतः ॥ इति ॥

I.१.२३ ऋअत्नवज्रि

अथ भगवान् रत्नसंभवस्तथागतः भगवतो वैरोचनस्य तथागतस्य सर्वतथागतज्ञानमुद्रणार्थं रत्नपारमितासमयसंभववज्राधिष्ठानं नाम समाधिं समापद्येमां वज्ररत्नसमयां नाम स्वमुद्रां स्वहृदयान्निश्चचार रत्नवज्रि ॥

अथास्यां विनिःसृतमात्रायां सर्वतथागतहृदयेभ्यो रत्नरश्मयो विनिश्चरिताः । तेभ्यो रत्नरश्मिभ्यः स एव भगवान् वज्रधरः सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा भूत्वा, सर्वतथागतज्ञानान्यामुद्र्य, पुनरप्येकघनः सर्वलोकधातुसमवसरणप्रमाणो महावज्ररत्नविग्रहः प्रादुर्भूय, भगवतो वैरोचनस्य दक्षिणपार्श्वे चन्द्रमण्डलाश्रितो भूत्वा, इदमुदानमुदानयामास ।

अहो हि सर्वबुद्धानां रत्नवज्रमहं स्मृतं ।
यन्मुद्राणां हि सर्वासामभिषेकनयं दृढम् ॥ इति ॥

I.१.२४ ढरमवज्रि

अथ भगवान् लोकेश्वरराजस्तथागतो भगवतो वैरोचनस्य तथागतस्य सर्वतथागतज्ञानमुद्रणार्थं धर्मपारमितासमयोद्भववज्राधिष्ठानं नाम समाधिं समापद्येमां धर्मसमयां नाम स्वमुद्रां स्वहृदयान्निश्चचार धर्म वज्रि ॥

अथास्यां विनिःसृतमात्रायां सर्वतथागतहृदयेभ्यः पद्मरश्मयो विनिश्चरिताः । तेभ्यः पद्मरश्मिभ्यः स एव भगवान् वज्रधरः सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा भूत्वा, सर्वतथागतज्ञानान्यामुद्र्य, पुनरप्येकघनः सर्वलोकधातुसमवसरणप्रमाणो महावज्रपद्मविग्रहः प्रादुर्भूय, भगवतो वैरोचनस्य पृष्ठतश्चन्द्रमण्डलाश्रितो भूत्वेदमुदानमुदानयामास ।

अहो हि सर्वबुद्धानां धर्मवज्रं अहं शुचि ।
यत्स्वभावविशुद्ध्या वै रागोऽपि हि सुनिर्मलः ॥ इति ॥

I.१.२५ कर्मवज्रि

अथ भगवानमोघसिद्धिस्तथागतो भगवतो वैरोचनस्य तथागतस्य सर्वतथागतज्ञानमुद्रणार्थं कर्मपारमितासंभववज्राधिष्ठानं नाम समाधिं समापद्येमां सर्वतथागतकर्मसमयां नाम स्वमुद्रां स्वहृदयान्निश्चचार कर्मवज्रि ॥

अथास्यां विनिःसृतमात्रायां सर्वतथागतहृदयेभ्यः सर्वकर्मश्मयो विनिश्चरिताः । तेभ्यश्च सर्वतथागतकर्मरश्मिमभ्यः स एव भगवान् वज्रधरः सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा भूत्वा, सर्वतथागतज्ञानान्यमुद्र्य, पुनरप्येकघनः सर्वलोकधातुसमवसरणप्रमाणः सर्वतोमुखो महाकर्मवज्रविग्रहः प्रादुर्भूय, भगवतो वैरोचनस्य वामपार्श्वे चन्द्रमण्डलाश्रितो भूत्वा, इदमुदानमुदानयामास ॥

अहो हि सर्वबुद्धानां कर्मवज्रमहं बहु ।
यदेकः सन्नशेषस्य सत्त्वधातोः सुकर्मकृद् ॥ इति ॥

सर्वतथागतज्ञानसमया, महाभिषेका, वज्रधर्मता, सर्वपूजा चेति । सर्वतथागतपारमिताः ॥

I.१.२६ वज्रलास्य

अथ भगवान् वैरोचनः पुनरपि सर्वतथागतरतिपूजासमयसंभववज्रन्नाम समाधिं समापद्येमां सर्वतथागतकुलमहादेवीं स्वहृदयान्निश्चचार वज्रलास्ये ॥

अथास्यां विनिःसृतमात्रायां सर्वतथागतहृदयेभ्यो वज्रमुद्रा विनिःसृताः । तेभ्यो वज्रमुद्रामुखभ्यः स एव भगवान् वज्रधरः सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा भूत्वा, पुनरप्येकघना महादेवी वज्रसत्त्वसदृशात्मभावा विचित्रवर्णरूपलिङ्गेर्यापथा सर्वालङ्कारविभूषिता सर्वतथागतकुलसंग्रहभूता वज्रसत्त्वदयिता संभूय, भगवतोऽक्षोभ्यमण्डलवामपार्श्वे चन्द्रमण्डलाश्रिता भूत्वा, इदमुदानमुदानयामास ।

अहो न सदृशी मेऽस्ति पूजा ह्यन्या स्वयंभुवां ।
यत्कामरतिपूजाभिः सर्वपूजा प्रवर्तते ॥ इति ॥

I.१.२७ वज्रमाल

अथ भगवान् पुनरपि सर्वतथागतरत्नमालाभिषेकसमयोद्भववज्रन्नाम समाधिं समापद्य मां सर्वतथागतकुलमहादेवीं स्वहृदयान्निश्चचार वज्रमाले ।

अथास्यां विनिःसृतमात्रायां सर्वतथागतहृदयेभ्यो महारत्नमुद्रा विनिःसृताः । ताभ्यो महारत्नमुद्राभ्यः स एव भगवान् वज्रधरः सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा भूत्वा, एकघनां वज्रमालां महादेवीं तथैव संभूय, भगवतो रत्नसंभवमण्डलवामपार्श्वे पूर्णचन्द्रमण्डलाश्रिता भूत्वेदमुदानमुदानयामास ।

अहो ह्यसदृशाहं वै रत्नपूजेति कीर्तिता ।
यत्त्रैधातुकराज्याग्र्यं शासयन्ति प्रपूजिता ॥ इति ॥

I.१.२८ वज्रगीत

अथ भगवान् पुनरपि सर्वतथागतसंगीतिसमयसंभववज्रन्नाम समाधिं समापद्येमां सर्वतथागतकुलमहादेवीं स्वहृदयान्निश्चचार वज्रगीते ॥

अथास्यां विनिःसृतमात्रायां सर्वतथागतहृदयेऽभ्यः सर्वतथागतधर्ममुद्रा विनिश्चरिताः । ताभ्यश्च सर्वतथागतधर्ममुद्राभ्यः स एव भगवान् वज्रधरः सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा भूत्वा, पुनरप्येकघनां वज्रगीतां महादेवीं संभूय, भगवतो लोकेश्वरराजमण्डलवामपार्श्वे चन्द्रमण्डलाश्रिता भूत्वेदमुदानमुदानयामास ।

अहो हि संगीतिमयी पूजाहं सर्वदर्शिनां ।
यत् तोषयन्ति पूजाभिः प्रतिश्रुत्कोपमेष्वपि ॥ इति ॥

I.१.२९ वज्रनृत्य

अथ भगवान् पुनरपि सर्वतथागतनृत्यपूजासमयोद्भववज्रं नाम समाधिं समापद्येमां सर्वतथागतकुलमहादेवीं स्वहृदयान्निश्चचार वज्रनृत्ये ।

अथास्मिन विनिःसृतमात्रायां सर्वतथागतहृदयेभ्यः सर्वतथागतनृत्यपूजाविधिविस्तरा भूत्वा विनिःसृताः । तेभ्यश्च सर्वतथागतसर्वनृत्तपूजाविधिविस्तरेभ्यः स एव भगवान् वज्रधरः सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा भूत्वा, पुनरप्येकघनां वज्रनृत्तमहादेवीं संभूय, भगवतो अमोघसिद्धेस्तथागतस्य मण्डलवामपार्श्वे पूर्णचन्द्रमण्डलाश्रिता भूत्वेदमुदानमुदानयामास ।

अहो ह्युदारपूजाहं सर्वपूजार्थकरिणां ।
यद्वज्रनृत्तविधिना बुद्धपूजा प्रकल्प्यते ॥ इति ॥

सर्वतथागतानुत्तरसुखसौमनस्यसमया, सर्वतथागतमाला, सर्वतथागतगाथा, सर्वतथागतानुत्तरपूजाकर्मकरी चेति । सर्वतथागतगुह्यपूजाः ॥

I.१.३० वज्रधूप

अथ पुनरपि भगवान् अक्षोभ्यस्तथागतो भगवतो वैरोचनस्य तथागतस्य पूजाप्रतिपूजार्थ सर्वतथागतप्रल्हादनसमयोद्भववज्रन्नाम समाधिं समापद्येमां सर्वतथागतगणिकां स्वहृदयान्निश्चचार वज्रधूपे ॥

अथास्यां विनिःसृतमात्रायां सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रधरः अनेकविधा धूपपूजामेघव्यूहाः सर्ववज्रधातुस्फरणा भूत्वा विनिश्चरिताः । तेभ्यश्च धूपपूजामेघसमुद्रेभ्यः सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा विनिःसृत्य, पुनरप्येकघनो वज्रधूपदेवताकायः संभूय, भगवतो वज्रमणिरत्नशिखरकूटागारस्य कोणे वामपार्श्वे चन्द्रमण्डलाश्रिता भूत्वेदमुदानमुदानयति स्म ।

अहो ह्यं महापूजा प्रल्हादनवती शुभा ।
यत्सत्त्वावेशयोगाद्धि क्षिप्रं बोधिरवाप्यते ॥ इति ॥

I.१.३१ वज्रपुष्प

अथ भगवान् रत्नसंभवस्तथागतो भगवतो वैरोचनस्य तथागतस्य पूजाप्रतिपूजार्थ रत्नाभरणपूजासमयसंभववज्रं नाम समाधिं समापद्येमां सर्वतथागतप्रतीहारीं स्वहृदयान्निश्चचार वज्रपुष्पे ॥

अथास्यां विनिःसृतमात्रायां सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रधरः सर्वपुष्पपूजाव्यूहाः सर्वाकाशधातुस्फरणा भूत्वा विनिःसृतास्तेभ्यश्च सर्वपुष्पपूजाव्यूहेभ्यः सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा विनिःसृत्य, पुनरप्येकघनो वज्रपुष्पदेवताकायः संभूय, भगवतो वज्रमणिरत्नशिखरकूटागारस्य वामकोणे चन्द्रमण्डलाश्रिता भूत्वेदमुदानमुदानयामास ।

अहो हि पुष्पपूजाहं सर्वालङ्कारकारिका ।
यत्तथागतरत्नत्वं पूज्य क्षिप्रमवाप्यते ॥ इति ॥

I.१.३२ वज्रालोक

अथ भगवान् लोकेश्वरराजस्तथागतो भगवतो वैरोचनस्य तथागतस्य पूजाप्रतिपूजार्थ सर्वतथागतालोकपूजासमयोद्भववज्रं नाम समाधिं समापद्येमां सर्वतथागतदूतीं स्वहृदयान्निश्चचार वज्रालोके ।

अथास्यां विनिःसृतमात्रायां सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रधरः सर्वालोकपूजाव्यूहाः सकलधर्मधातुस्फरणा भूत्वा विनिश्चरिताः । तेभ्यश्च सर्वालोकपूजाव्यूहेभ्यः सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा विनिःसृत्य, पुनरप्येकघनो वज्रालोकदेवताकायः संभूय, भगवतो वज्रमणिरत्नशिखरकूटागारस्य वामकोणे चन्द्रमण्डलाश्रिता भूत्वा, इदमुदानमुदानयामास ।

अहो ह्यहं महोदारा पूजा दीपमयी शुभा ।
यदालोकवती क्षिप्रं सर्वबुद्धदृशो लभेद् ॥ इति ॥

I.१.३३ वज्रगन्ध

अथ भगवानमोघसिद्धिस्तथागतो भगवतो वैरोचनस्य तथागतस्य पूजाप्रतिपूजार्थं सर्वतथागतगन्धपजासमयसंभववज्रन्नाम समाधिं समापद्येमां सर्वतथागतचेटीं स्वहृदयान्निश्चचार वज्रगन्धे ॥

अथास्यां विनिःसृतमात्रायां सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रधरः सर्वगन्धपूजाव्यूहाः सर्वलोकधातुस्फरणा भूत्वा विनिःसृताः । तेभ्यश्च गन्धपूजाव्यूहेभ्यः सर्वलोकधातुपरमाणुरजः समास्तथागतविग्रहा विनिःसृत्य पुनरप्येकघनो वज्रगन्धदेवताकायः संभूय, भगवतो वज्रमणिरत्नशिखरकूटागारस्य वामकोणे चन्द्रमण्डलाश्रिता भत्वेदमुदानमुदानयामास ।

अहो गन्धमयी पूजा दिव्याहं मनोरमा ।
यत्तथागतगन्धो वै सर्वकाये ददाति हि ॥ इति ॥

सर्वतथागतज्ञानावेशा, महाबोध्यङ्गसंचया, सर्वतथागतधर्मालोका, शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनगन्धा चेति । सर्वतथागताज्ञाकार्यः ॥

I.१.३४ वज्रांकुश

अथ भगवान् वैरोचनस्तथागतः पुनरपि सर्वतथागतसमयां कुशमहासत्त्वसमयसंभवसत्त्ववज्रन्नाम समाधिं समापद्येयं सर्वतथागतसर्वमुद्रागणपतिं स्वहृदयान्निश्चचार वज्रांकुश ॥

अथास्मिन् विनिःसृतमात्र सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रधरः सर्वतथागतसर्वमुद्रागणा भूत्वा विनिःसृतः । तेभ्यश्च सर्वतथागतमुद्रागणेभ्यः सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा विनिःसृत्य, पुनरप्येकघनो वज्राङ्कुशमहाबोधिसत्त्वकायः संभूय, भगवतो वज्रमणिरत्नशिखरकूटागारस्य वज्रद्वारमध्ये चन्द्रमण्डलाश्रितो भत्वा, सर्वतथागतसमयानाकर्षयन्न, इदमुदानमुदानयामास ।

अहो हि सर्वबुद्धानां समाकर्षमहं दृढः ।
यन्मया हि समाकृष्टा भजन्ते सर्वमण्डलम् ॥ इति ॥

I.१.३५ वज्रपाश

अथ भगवान् पुनरपि सर्वतथागतसमयप्रवेशमहासत्त्वसमयसंभवसत्त्ववज्रन्नाम समाधिं समापद्य मं सर्वतथागतमुद्राप्रवेशप्रतीहारं स्वहृदयान्निश्चचार वज्रपाश ॥

अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रधरः सर्वतथागतसमयप्रवेशमुद्रागणा भूत्वा विनिश्चरितः । तेभ्यश्च सर्वतथागतसमयप्रवेशमुद्रागणेभ्यः सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा विनिःसृत्य, पुनरप्येकघनो वज्रपाशमहाबोधिसत्त्वकायः संभूय, भगवतो वज्रमणिरत्नशिखरकूटागारस्य रत्नद्वारमध्ये चन्द्रमण्डलाश्रितो भूत्वा सर्वतथागतां प्रवेशयन्न्, इदमुदानमुदानयामास ।

अहो हि सर्वबुद्धानां वज्रपाशमहं दृढः ।
यत्सर्वाणुप्रविष्टापि प्रवेश्यन्ते मया पुनः ॥ इति ॥

I.१.३६ वज्रस्फोट

अथ भगवान् पुनरपि सर्वतथागतसमयस्फोटमहासत्त्वसमयोद्भवसत्त्ववज्रन्नामसमाधिं समापद्येमं सर्वतथागतसमयबन्धन्नाम सर्वतथागतदूतं स्वहृदयान्निश्चचार वज्रस्फोट ॥

अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रधरः सर्वतथागतसमयबन्धमुद्रागणा भूत्वा विनिःसृतस्तेभ्यश्च सर्वतथागतसमयबन्धसर्वमुद्रागणेभ्यः सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा विनिःसृत्य, एकघनो वज्रस्फोटमहाबोधिसत्त्वकायः संभूय, भगवतो वज्रमणिरत्नशिखरकूटागारस्य धर्मद्वारमध्ये चन्द्रमण्डलाश्रितो भत्वा, सर्वतथागतान बन्धयन्न, इदमुदानमुदानयामास ।

अहो हि सर्वबुद्धानां वज्रस्फोटमहं दृढः ।
यत्सर्वबन्धमुक्तानां सत्त्वार्थाद् बन्ध इष्यते ॥ इति ॥

I.१.३७ वज्रावेश

अथ भगवान् पुनरपि सर्वतथागतावेशमहासत्त्वसमयसंभवसत्त्ववज्रन्नाम समाधिं समापद्येमं सर्वतथागतसर्वमुद्राचेटं स्वहृदयान्निश्चचार वज्रावेशः ॥

अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रधरः सर्वतथागतसर्वमुद्रागणा भूत्वा विनिश्चरितः । तेभ्यश्च सर्वतथागतसर्वमुद्रागणेभ्यः सर्वलोकधातुपरमाणुरजः समास्तथागतविग्रहा विनिःसृत्य, एकघनो वज्रावेशमहाबोधिसत्त्वविग्रहः प्रादुर्भूय, भगवतो वज्रमणिरत्नशिखरकूटागारस्य कर्मद्वारमध्ये चन्द्रमण्डलाश्रितो भूत्वा, सर्वतथागतानावेशयन्न, इदमुदानमुदानयामास ।

अहो हि सर्वबुद्धानां वज्रावेशमहं दृढः ।
यत्सर्वपतयो भूत्वा चेटा अपि भवन्ति हि ॥ इति ॥

सवतथागतसमाकर्षणं, प्रवेशो, बन्धः, वशीकरणं चेति । सर्वतथागताज्ञाकराः ॥

अथ भगवान् सर्वतथागतासमाजाधिष्ठानाय वज्राच्छटिकासंज्ञामकार्षीत् । इदं सर्वतथागतसमाजाधिष्ठानहृदयमभाषत वज्रसमाज ॥

अथ तेन क्षपालवमुहूर्तेन सर्वतथागताच्छटिकासंज्ञासंचोदिताः सर्वलोकधातुप्रसरमेघसमुद्रेषु सर्वलोकधातुपरमाणुरजःसमास्तथागताः सबोधिसत्त्वपर्षन्मण्डलाः समाजमापद्य, येन भगवान् वज्रमणिरत्नशिखरकूटागारो येन च भगवान् वैरोचनस्तेनोपजग्मुरुपेत्य ॐ सर्वतथागतपादवन्दनाङ्करोमि ॥ इत्येनेन प्रकृतिसिद्धेन मन्त्रेण रुचिजप्तेन सर्वतथागतपादवन्दनां कृत्वेदमुदानमुदानयामासुः ॥

अहो समन्तभद्रस्य बोधिसत्त्वस्य सत्क्रिया ।
यत्तथागतचक्रस्य मध्ये भाति तथागतः ॥

अथेदमुक्त्वा ते दशदिक्सर्वलोकधातुसन्निपतिताः सर्वतथागताः सर्वतथागताधिष्ठानेन भगवतो वैरोचनस्य हृदये सबोधिसत्त्वपर्षन्मण्डलाः प्रविष्टाः । तेभ्यश्च सर्वतथागतहृदयेभ्यः स्वानि स्वानि बोधिसत्त्वपर्षन्मण्डलानि विनिःसृत्य भगवतो वज्रमणिरत्नशिखरकूटागारस्य सर्वपार्श्वेषु मण्डलीभूत्वा समापद्यावस्थिता इदमुदानमुदानयामासुः ।

अहो हि सर्वबुद्धानां महोदार्यमनादिजम् ।
यत्सर्वाणुप्रसंख्या वै बुद्धा ह्येकत्वमागता ॥ इति ॥

Hymn of 108 Names of महावज्रधर

अथ भगवन्तः सर्वतथागताः पुनरपि समाजमागम्यास्य वज्रधातुमहामण्डलस्याधिष्ठानायाशेषानवशेषस्य च सत्त्वधातोः परित्राणसर्वहितसुखावाप्त्यै यावत्सर्वतथागतसमताज्ञानाभिज्ञाभिसंबोध्युत्तमसिद्धये भगवन्तं सर्वतथागताधिपतिं स्ववज्रसत्त्वमनादिनिधनं महावज्रधरमनेन नामाष्टशतेनाध्येषितवन्तः ॥

वज्रसत्त्वमहासत्त्व वज्रसर्वतथागत ।
समन्तभद्र वज्राद्य वज्रपाणे नमोऽस्तु ते ॥ १ ॥

वज्रराज सुबुद्धाग्र्य वज्राङ्कुशतथागत ।
अमोघराज वज्राग्र्य वज्राकर्ष नमोस्तु ते ॥ २ ॥

वज्रराग महासौख्य वज्रवाण वशङ्कर ।
भारकाम महावज्र वज्रचापो नमोऽस्तु ते ॥ ३ ॥

वज्रसाधो सुसत्त्वाग्र्य वज्रतुष्टि महारते ।
प्रामोद्यराज वज्राग्रय वज्रहर्ष नमोऽस्तु ते ॥ ४ ॥

वज्ररत्न सुवज्रार्थं वज्राकाश महामणे ।
आकाशगर्भ वज्राढ्य वज्रगर्भ नमोस्तु ते ॥ ५ ॥

वज्रतेज महाज्वाल वज्रसूर्य जिनप्रभ ।
वज्ररश्मि महातेज वज्रप्रभ नमोऽस्तु ते ॥ ६ ॥

वज्रकेतु सुसत्त्वार्थ वज्रध्वज सुतोषक ।
रत्नकेतु महावज्र वज्रयष्टे नमोऽस्तु ते ॥ ७ ॥

वज्रहास महाहास वज्रस्मित महाद्भुत ।
प्रीतिप्रामोद्य वज्राग्र्य वज्रप्रीते नमोऽस्तु ते ॥ ८ ॥

वज्रधर्म सुतत्वार्थ वज्रपद्म सुशोधक ।
लोकेश्वर सुवज्राक्ष वज्रनेत्र नमोऽस्तु ते ॥ ९ ॥

वज्रतीक्ष्ण महायान वज्रकोश महायुध ।
मञ्जुश्री वज्रगांभीर्य वज्रबुद्धे नमोऽस्तु ते ॥ १० ॥

वज्रहेतु महामण्ड वज्रचक्र महानय ।
सुप्रवर्तन वज्रोत्थ वज्रमण्ड नमोऽस्तु ते ॥ ११ ॥

वज्रभाष सुविद्याग्र्य वज्रजाप सुसिद्धिद ।
अवाच वज्रसिद्ध्यग्र वज्रवाच नमोऽस्तु ते ॥ १२ ॥

वज्रकर्म सुवज्राज्ञा कर्मवज्र सुसर्वग ।
वज्रामोघ महोदार्य वज्रविश्व नमोऽस्तु ते ॥ १३ ॥

वज्ररक्ष महाधैर्य वज्रवर्म महादृढ ।
दुयोधन सुवीर्यग्र्य वज्रवीर्य नमोऽस्तु ते ॥ १४ ॥

वज्रयक्ष महोपाय वज्रदंष्ट्र महाभय ।
भारप्रमर्दिन् वज्रोग्र वज्रचण्ड नमोऽस्तु ते ॥ १५ ॥

वज्रसन्धि सुसान्निध्य वज्रबन्ध प्रमोचक ।
वज्रमुष्ट्यग्रसमय वज्रमुष्टे नमोऽस्तु ते ॥ १६ ॥

यः कश्चिद् धारयेन्नाम्नामिदन्तेऽष्टदशतं शिवम् ।
वज्रनामाभिषेकाद्यैः सर्वाग्रैः सोऽभिषिच्यते ॥ १७ ॥

यस्तु गौणमिदन्नाम्नां महावज्रधरस्य तु ।
शश्वद्गेयं स्तुयात् सोऽपि भवेद्वज्रधरोपमः ॥ १८ ॥

अनेनाभिष्टुतोऽस्माभिर्नाम्नामष्टशतेन तु ।
महायानाभिसमयं विस्फारय महानयम् ॥ १९ ॥

अध्येषयामस्त्वां नाथ भाषस्व परमं विधिम् । सर्वबुद्धमहाचक्रं महामण्डलमुत्तमम् ॥ २० ॥इति ॥

Delineation of the मण्डल

अथ भगवान् वज्रधरः सर्वतथागताध्येषणवचनमुपश्रुत्य सर्वतथागतसमयसंभववज्राधिष्ठानन्नाम समाधिं समापद्ये वज्रधातुन्नाम महामण्डलमुदाजहार ।

अथातः संप्रवक्ष्यामि महामण्डलमुत्तमम् ।
वज्रधातुप्रतीकाशं वज्रधातुरिति स्मृतम् ॥ १ ॥

उपविश्य यथास्यायं मण्डलस्य तु मध्यतः ।
महासत्वमहामुद्रां भावयं समधिष्ठ्य च ॥ २ ॥

तथैवोत्थाय मुद्रास्थः सर्वतो व्यवलोकयेत् ।
परिक्रमेत गर्वेण वज्रसत्त्वमुदाहरन् ॥ ३ ॥

नवेन सुनियुक्तेन सुप्रमाणेन चारुणा ।
सूत्रेण सूत्रयेत् प्राज्ञैर्यथाशक्तेन मण्डलम् ॥ ४ ॥

चतुरस्त्रं चतुर्द्वारं चतुस्तोरणशोभितम् ।
चतुःसूत्रसमायुक्तं पट्टस्त्रग्दामभूषितम् ॥ ५ ॥

कोणभागेषु सर्वेषु द्वारनिर्यूहसन्धिषु ।
खचितं वज्ररत्नैस्तु सूत्रयेद्बाह्यमण्डलम् ॥ ६ ॥

तस्य चक्रप्रतीकाशं प्रविश्याभ्यन्तरं पुरम् ।
वज्रसूत्रपरिक्षिप्तमष्टस्तम्भोपशोभितम् ॥ ७ ॥

वज्र [स्तंभाग्रस्थश्चन्द्रपञ्च] मण्डलमण्डितम् ।
मध्यमण्डलमध्ये तु बुद्धबिम्बन्निवेशयेत् ॥ ८ ॥

बुद्धस्य सर्वपार्श्वेषु मण्डलानान्तु मध्यतः ।
समयाग्र् यश्चतस्रो हि संलिखेदनुपूर्वशः ॥ ९ ॥

वज्रवेगेन चाक्रम्य मण्डलानां चतुष्टये ।
अक्षोभ्याद्यांस्तु चतुरः सर्वबुद्धान्निवेशयेत् ॥ १० ॥

अक्षोभ्यमण्डलं कुर्यात्समं वज्रधरादिभिः ।
वज्रगर्भादिभिः पूर्णं रत्नसंभवमण्डलम् ॥ ११ ॥

वज्रनेत्रादिभिः शुद्धं मण्डलममितायुषः । अमोघसिद्धेः संलेख्यं वज्रविश्वादिमण्डलम् ॥ इति ॥ १२ ॥

चक्रस्य कोणसंस्थेषु वज्रदेव्यः समालिखेत् ।
बाह्यमण्डलकोणेषु बुद्धपूजाः समालिखेत् ॥ १३ ॥

द्वारमध्येषु सर्वेषु द्वारपालचतुष्टयम् ।
बाह्यमण्डलसंस्थेषु महसत्वान्निवेशयेत् ॥ १४ ॥

ततो वै सम्यगाग्रीन्तु मुद्रां बध्वा यथाविधि ।
वज्राचार्यः प्रविष्ट्वा तु स्फोट्य मुद्रां समाविशेत ॥ १५ ॥

Initiation

तत्रेदं सर्वावेशहृदयं भवति अः ॥

आज्ञां मार्ग्य यथावत्तु स्वाधिष्ठानादिकन्तथा ।
कृत्वोच्चार्य स्वकन्नाम ततो वज्रेण साधयेत ॥ १ ॥

सत्त्ववज्राङ्कुशीं बध्वा वज्राचार्यस्ततः पुनः ।
कुर्वन्नच्छटसंघातं सर्वबुद्धां समाजयेत् ॥ २ ॥

तत्क्षणं सर्वबुद्धास्तु वज्रसत्त्वसमन्विताः ।
सर्वमण्डलसंपूर्णाः समाजं यान्ति मण्डले ॥ ३ ॥

ततः शीघ्रं महामुद्रां [बध्वा] वज्रधरस्य तु ।
उच्चारयेत्सकृद्वारन्नामाष्टशतमुत्तमम ॥ ४ ॥

ततस्तुष्टाः समाजेन दृढं यान्ति तथागताः ।
वज्रसत्त्वः स्वयंसिद्धो मित्रत्वेनोपतिष्ठति ॥ ५ ॥

ततो द्वारेषु सर्वेषु कर्म कृत्वाङ्कु शादिभिः ।
महाकर्माग्र् यमुद्राभिः समयांस्तु निवेशयेत् ॥ ६ ॥

मुद्राभिः समयाग्र्याभिः सत्त्ववज्रादिभिस्तथा ।
साधयेत महासत्त्वो जः हूम् वं होः प्रवर्तयन् ॥ ७ ॥

ततो बुद्धादयः सर्वमहासत्त्वाः समग्रतः ।
आकृष्टा सुप्रविष्टाश्च बध्वा याम्यन्ति तद्वशम् ॥ ८ ॥

ततस्तु गुह्यपूजाभिः सन्तोष्य स महात्मना । विज्ञयेत्सर्वसत्वार्थं कुरुध्वं सर्वसिद्धये ॥ ९ ॥ इति ॥

एवं सर्वमण्डलेष वज्राचार्यकर्मेति ॥

Initiation of the शिष्य

अथात्र वज्रधातुमहामण्डले वज्रशिष्यप्रवेशादिविधिविस्तरो भवति ॥

तत्र प्रथमं तावत् प्रवेशो भवत्यशेषानवशेषसत्त्वधातुपरित्राणसर्वहितसुखोत्तमसिद्धिकार्यकरणतया । अत्र महामण्डलप्रवेशे पात्रापात्रपरीक्षा न कार्या । तत्कस्माद्धेतोः ।

सन्ति भगवन्तस्तथागताः केचित् सत्त्वा महापापकारिणस्ते इदं वज्रधातुमहामण्डलं दृष्ट्वा प्रविष्टा च सर्वापायविगता भविष्यन्ति ।

सन्ति च भगवन्तः सत्त्वाः सर्वार्थभोजनपानकामगुणगृद्धाः समयद्विष्टाः पुरश्चरणादिष्वशक्ताः । तेषामप्यत्रयथाकामकरणीयतया प्रविष्टानां सर्वाशापरिपूरिर्भविष्यति ।

सन्ति भगवन्तः सत्त्वा नृत्यगीतहास्यलास्याहारविहारप्रियतया सर्वतथागतमहायानाभिसमयधर्मतानवबोधत्वादन्यदेवकुलमण्डलानि प्रविशन्ति, सर्वाशापरिपूरिसंपदभूतेषु निरुत्तररतिप्रीतिहर्षसंभवकरेषु सर्वतथागतकुलमण्डलेषु शिक्षापदभयभीता न प्रविशन्ति । तेषामपायमण्डलप्रवेश [पथाभिमुखविहाराणामप्येव] वज्रधातुमहामण्डलप्रवेशो युज्यत सर्वरतिप्रीत्युत्तमसिद्धिसुखसौमनस्यानुभवनार्थं सर्वापायगतिप्रवेशाभिमुखपथविनिवर्तनाय च ।

सन्ति च पुनर्भगवन्तो धार्मिकाः सत्त्वाः सर्वतथागतशीलसमाधिप्रज्ञोत्तमसिद्ध्युपायैर्बुद्धबोधिं प्रार्थयन्तो ध्यानविमोक्षादिभिर्भूमिभिर्यन्तः क्लिश्यन्ते । तेषामत्रैव वज्रधातुमहामण्डलप्रवेशमात्रेणैव सर्वतथागतत्वमपि न दुर्लभम्, किमङ्गा पुनरन्या सिद्धिरिति ॥

तत्रादित एव तावत् सर्वतथागतप्रणामचतुष्टयं कारयेत् । तद्यथा ।

सर्वशरीरेण वज्राञ्जलिप्रसारितेन प्रणमेदनेन मन्त्रेण । ॐ सर्वतथागतपूजोपस्थानायात्मानन्निर्यातयामि सर्वतथागतवज्रसत्त्वाधितिष्ठस्व मां ॥

तथैव स्थितो वज्राञ्जलिं हृदि कृत्वा ललाटेन प्रणमेदनेन मन्त्रेण ॐ सर्वतथागतपूजाभिषेकायात्मानन्निर्यातयामि सवतथागतवज्ररत्नाभिषिञ्च माम् ॥

ततस्तथैवोत्थाय वज्रांजलिबन्धेन शिरसा मुखेन प्रणमेदनेन मन्त्रेण ॐ सर्वतथागतपूजाप्रवर्तनायात्मानं निर्यातयामि सर्वतथागतवज्रधर्म प्रवर्तय माम् ॥

ततस्तथैव स्थितो वज्रांजलिं शिरसोऽवतार्य हृदि कृत्वा मुर्ध्ना प्रणमेदनेन मन्त्रेण ॐ सर्वतथागतपूजाकर्मणे आत्मानन्निर्यातयामि सर्वतथातवज्रकर्म कुरु माम् ॥

ततो रक्तवस्त्रोत्तरीयो रक्तपट्टकावच्छादितमुखः सत्त्ववज्रिमुद्रां बन्धयेदनेन हृदयेन समयस्त्वम् ॥

ततो मध्याङ्गुलिद्वयेन मालां ग्रन्थ्या प्रवेशयेदनेन हृदयेन समय हूं ॥

ततः प्रवेश्यैवं वदेत् । "अद्य त्वं सर्वतथागतकुले प्रविष्टः । तदहं ते वज्रज्ञानमुत्पादयिष्यामि, येन ज्ञानेन त्व सर्वतथागतसिद्धिरपि प्राप्स्यसि, किमुतान्याः सिद्धीः । न च त्वयादृष्टमहामण्डलस्य वक्तव्यं, मा ते समयो व्यथेद्" इति । ततः स्वयं वज्राचार्यः सत्त्ववज्रमुद्रामेव मूर्ध्वामुखीं बध्वा वज्रशिष्यस्य मूर्ध्नि स्थास्यैवं वदेत् । "अयं ते समयवज्रो मूर्धानं स्फलयेद्, यदि त्वं कस्यचिद् ब्रूयात् ।"

ततस्तयैव समयमुद्रया उदकं शपथहृदयेन सकृत् परिज्ञाप्य, तस्य शिष्याय पाययेदिति ॥

तत्रेदं शपथहृदयं भवति ।

वज्रसत्त्वः स्वयन्तेऽद्य हृदये समवस्थितः ।
निर्भिद्य तत्क्षणं यायाद् यदि ब्रूयादिमं नयम् ॥

वज्रोदक ठः ॥

ततः शिष्याय ब्रूयात् । "अद्य प्रभृत्यहन्ते वज्रपाणिर्यत्तेऽहं ब्रूयामिदं कुरु तत्कर्तव्यं, न च त्वयाहमवमन्तव्यो, मा ते विषमापरिहारेण कालक्रियां कृत्वा नरपतनं स्याद्" इति उक्त्वा, वक्तव्यं ब्रूहि, "सर्वतथागता अधितिष्ठन्तो वज्रसत्त्वो मे आविशतु" ।

ततस्त्वरमाणेन वज्राचार्येण सत्त्ववज्रिमुद्रां बध्वा इदमुच्चारयितव्यम् ।

अयं तत्समयो वज्रं वज्रसत्त्वमिति स्मृतम् । आवेशयतु तेऽद्यैव वज्रज्ञानमनुत्तरम् । वज्रावेश अः ।

ततः क्रोधमुष्टिं बध्वा सत्त्ववज्रिमुद्रां स्फोटयेत्, महायानाभिसमयं च वज्रवाचा रुचितोच्चारयेदिति ।

ततः समाविशत्याविष्टमात्रस्य दिव्यं ज्ञानमुत्पद्यते । तेन ज्ञानेन परचित्ताभ्यवबुध्यति । सर्वकार्याणि चातीतानागतवर्तमानानि जानाति । हृदयं चास्य दृढीभवति सर्वतथागतशासने । सर्वदुःखानि च [संप्र]णश्यन्ति । सर्वभयविगतश्च भवति । अवध्यः सर्वसत्त्वेषु । सर्वतथागताश्चाधितिष्ठन्ति । सर्वसिद्धयश्चास्याभिमुखीभवन्ति । अपूर्वाणि चास्याकारणहर्षरतिप्रीतिकराणि सुखान्युत्पद्यन्ते । तैः सुखैः केषाञ्चित्समाधयो निष्पद्यन्ते, केषाञ्चिद धारण्यः, केषाञ्चित सर्वाशापरिपूरयो, यावत्, केषाञ्चित्सर्वतथागतत्वमपि निष्पद्यत इति ।

ततस्तां मुद्रां बध्वा स्वहृदि मोक्षयेदनेन हृदयेन

तिष्ठ वज्र दृढो मे भव, शाश्वतो मे भव, हृदयं मेऽधितिष्ठ, सर्वसिद्धिञ्च मे प्रयच्छ, हूं ह ह ह ह होः ॥

ततस्तां मालां महामण्डले क्षेपयेदनेन हृदयेन प्रतीच्छ वज्र होः ॥ ततो यत्र पतति सोऽस्य सिध्यति । ततस्तां मालां गृह्य तस्यैध शिरसि बन्धयेदनेन हदयेन ॐ प्रतिगृण्हत्वमिमं सत्वं महाबलः ॥ तया बन्धया तेन महासत्त्वेन प्रतीच्छितो भवति, शीघ्रं चास्य सिध्यति ।

ततस्तथाविष्टस्यैव मुखबन्धं मुंचेदनेन हृदयेन ॐ वज्रसत्त्वः स्वयन्तेऽद्य चक्षूद्धाटनतत्परः उद्धाटयति सर्वाक्षो वज्रचक्षु रनुत्तरम् ॥ हे वज्र पश्य ॥

ततो महामण्डलं यथानुपूर्वतो दर्शयेत् । महामण्डले च दृष्टमात्रे सर्वतथागतैरधिष्ठ्यते, वज्रसत्त्वश्चास्य हृदये तिष्ठति । नानाद्यतीवरश्मिमण्डलदर्शनादीनि प्रातीहार्यविकुर्वितानि पश्यति । सर्वतथागताधिष्ठितत्वात् । कदाचित् भगवान् महावज्रधरः स्वरूपेण दर्शनं ददाति, तथागतो वति । ततः प्रभृति सर्वार्थाः सर्वमनोऽभिरुचितकार्याणि सर्वसिद्धिर, यावद्, वज्रधरत्वमपि तथागतत्वं वेति ।

ततो महामण्डलं दर्शयित्वा वज्राधिष्ठितकलशाद् गन्धोदकेनाभिषिंचेदनेन हृदयेन वज्राभिषिञ्च ॥

ततस्त्वेकतमां मुद्रां मालां वध्वा स्वचिन्हं पाणौ प्रतिष्ठाप्यैवं वदेत् ।

अद्याभिषिक्तस्त्वमसि बुद्धैर्वज्राभिषेकतः ।
इदन्ते सर्वबुद्धत्वं गृह्ण वज्रं सुसिद्धये ॥

ॐ वज्राधिपति त्वामभिषिंचामि तिष्ठ वज्र समयस्त्वम् ॥

ततो वज्रनामाभिषेकेण अभिषिंचेदनेन हृदयेन । ॐ वज्रसत्त्व त्वामभिषिंचामि वज्रनामाभिषेकतः हे वज्र नाम ॥ यस्य यन्नाम कुर्यात्तस्य हे- शब्दः प्रयोक्तव्य इति ॥

सर्वमण्डलप्रवेशविधिविस्तरः ॥

ततो ब्रूयात्, "किन्तेऽभिरुचिरर्थोत्पत्तिसिद्धिज्ञानं वा, ऋद्धिसिद्धिनिष्पत्तिज्ञानं वा, विद्याधरसिद्धिनिष्पत्तिज्ञानं वा, यावत्, सर्वतथागतोत्तमसिद्धिनिष्पत्तिज्ञानं वे" ति । ततो यस्य यदभिरुचितं तत तस्योच्चेयम् ॥

ततोऽर्थसिद्धिनिष्पत्तिमुद्राज्ञानं शिक्षयेत् ।

वज्रबिम्बन्निधिस्थं तु हृदये परिभावयेत् ॥

भावयन् भूमिसंस्थानि निधानानि स पश्यति ॥ १ ॥

वज्रबिम्बं समालिख्य गगने परिभावयेत् ।
पतेद्यत्र तु पश्येत निधितत्र विनिर्दिशेत् ॥ २ ॥

वज्रबिम्बं तु जिव्हायां भावयेद् बुद्धिमान् नरः ।
अत्रास्तीति स्वयं वाचा ब्रवीति परमार्थतः ॥ ३ ॥

वज्रबिम्बमयं सर्वं भावयं कायमात्मनः । समाविष्टः पतेद्यत्र निधिन्तत्र विनिर्दिशेद् ॥ इति ॥ ४ ॥

तत्रैतानि [हृदयानि भवन्ति] ॥

वज्रनिधि ॥

रन्त निधि ॥

धर्म निधि ॥

कर्मनिधि ॥

ततो वज्रऋद्धिसिद्धिनिष्पत्तिमुद्राज्ञानं शिक्षयेत् ।

वज्रावेशे समुत्पन्ने वज्रबिम्बमयं जलम् ।
भावय[ञ्छीघ्रं सि]द्धस्तु जलस्योपरि चंक्रमेत् ॥ १ ॥

तथैवावेशमुत्पद्य यद् रूपं स्वयमात्मनः ।
भावयं भवते तत्तु बुद्धरूपमपि स्वयम् ॥ २ ॥

तथैवाविष्टमात्मानमाकाशोऽहमिति स्वयम् ।
भावयन् यावदिच्छेत तावददृश्यतां ब्रजेत् ॥ ३ ॥

वज्राविष्टः स्वयं भत्वा वज्रोऽहमिति भावयन् । यावदारुहते स्थानन्तावदाकाशगो भवेद् ॥ इति ॥ ४ ॥

तत्रैतानि हृदयानि भवन्ति ।
वज्रजल ॥

वज्ररूप ॥

वज्राकाश ॥

वज्रमहम् ॥

ततो वज्रविद्याधरसिद्धिनिष्पत्तिमुद्राज्ञानं शिक्षयेत् ।

चन्द्रबिम्बं समालिख्य नमस्यूर्ध्व समारुहेत् ।
पाणौ प्रभावयं वज्रं वज्रविद्याधरो भवेत् ॥ १ ॥

चन्द्रबिम्बं समारुह्य वज्ररत्नं प्रभावयेत् ।
यावदिच्छति शुद्धात्मा तावदुत्पतति क्षणात् ॥ २ ॥

चन्द्रबिम्बाभिरूढस्तु वज्रपद्मं करे स्थितम् ।
भावयन् वज्रनेत्रं तु दद्याद् विद्याधृतां पदम् ॥ ३ ॥

चन्द्रमण्डलमध्यस्थः कर्मवज्रां तु भावयेत् । वज्रविश्वधराच्छीघ्रं सर्वैविद्याधरो भवेद ॥ इति ॥ ४ ॥

अथ हृदयानि भवन्ति ।
वज्रधर ॥

रत्नधर ॥

पद्मधर ॥

कर्मधर ॥

ततः सर्वतथागतोत्तमसिद्धिनिष्पत्तिमुद्राज्ञानं शिक्षयेत् ।

सर्ववज्रसमाधिन्तु संविष्ट्याकाशधातुषु ।
यावदिच्छति वज्रात्मा तावदुत्पतति क्षणात् ॥ १ ॥

सर्वशुद्धसमाधिन्तु भावयन्नुत्तमांस्तथा ।
पंचाभिज्ञानवाप्नोति शीघ्रं ज्ञानप्रसाधक ॥ २ ॥

वज्रसत्त्वमयं सर्व आकाशमिति संस्फरन् ।
दृढानुस्मृतिमाञ्छिघ्रं भवेद्वज्रधरः स्वयम् ॥ ३ ॥

बुद्धबिम्बमयं सर्वमधिमुच्य खधातुषु । सर्वबुद्धसमाधिषु बुद्धत्वाय भविष्यति ॥ इति ॥ ४ ॥

अथात्र हृदयानि भवन्ति ।
वज्र वज्र ॥

शुद्ध शुद्ध ॥

सत्व सत्व ॥

बुद्ध बुद्ध ॥

सर्वसिद्धिज्ञाननिष्पत्तयः ॥

अथ रहस्याधरणक्षमो भवति ॥

तस्य प्रथमं तावच्छपथहृदयं भूयात् ।

ॐ वज्रसत्त्वः स्वयं तेऽद्य हृदयं समवस्थितः ।
निर्भिद्य तत्क्षणं यायाद्यदि भूयादिदन्नयम् ॥

तत एवं वदेन् "न त्वयेदं शपथहृदयमतिक्रमितव्यम्॑ मा ते विषमापरिहारेणाकालमरणं स्याद्, अनेनैव कायेन नरकपतनम्" ।

ततो रहस्यमुद्राज्ञानं शिक्षयेत् ।

वज्रावेशं समुत्पाद्य तालं दद्यात् समाहितः ।
वज्रांजलितलैः सूक्ष्मं पर्वतोऽपि वशं नयेत् ॥ १ ॥

वज्रतालमुद्रा ॥

वज्रावेशविधिं योज्य वज्रबन्धतलैः हनेत् ।
सूक्ष्मतालप्रयोगेण पर्वतेऽपि समाविशेत् ॥ २ ॥

तथैवावेशविधिना वज्रबन्धप्रसारिते ।
अग्रांगुलिसमास्फोटाद्धनेत् कुलशतं क्षणात् ॥ ३ ॥

सूक्ष्मावेशविधेर्योगात्सर्वागुलिसमाहितम् । वज्रबन्धविनिर्मुक्तं सर्वदुःखहरं परम् ॥ इति ॥ ४ ॥

अथासां गुह्यसाधनं भवति ।

भगेन प्रविशेत् कायं स्त्रियायाः पुरुषस्य वा । प्रविष्ट्वा मनसा सर्वं तस्य कार्यं समं स्फरेद् ॥ इति ।

तत्रैतानि तालहृदयानि भवन्ति ।
वज्र वश ॥

वज्र विश ॥

वज्र हन ॥

वज्र हर ॥

ततो हृदयं दत्त्वा स्वकुलदेवताचतुर्मुद्राज्ञानं शिक्षयेत् । अनेन विधिना वक्तव्यम् । "न कस्यचित् त्वयान्यस्यैषां मुद्राणामकोविदस्य एकतरापि मुद्रा दर्शयितव्या । तत्कस्य हे तोः । तथा हि ते सत्वा अदृष्टमहामण्डलाः सन्तो मुद्राबन्धं प्रयोजयन्ति तदा तेषान्न तथा सिद्धिर्भविष्यति । ततस्ते विचिकित्सा प्राप्ता विषमापरिहारेण शीघ्रमेव कालं कृत्वावीचीमहानरके पतन्तः । तव चापायगमनं स्याद्" इति ॥

अथ सर्वतथागतसत्वसाधनमहामुद्राज्ञानं भवति ।

चित्तज्ञानात्समारभ्य वज्रसूर्यं तु भावयेत् ।
बुद्धबिम्बं स्वमात्मानं वज्रधातुं प्रवर्तयन् ॥ १ ॥

अन्या सिद्धिमात्रस्तु ज्ञानमायुर्बलं वर्षः । प्राप्नोति सर्वगामित्वं बुद्धत्वमपि न दुर्लभम् ॥ २ ॥ इति ॥

सर्वतथागताभिसंबोधिमुद्रा ॥

अथ वज्रसत्त्वसाधनमहामुद्राबन्धो भवति ।

सगर्वं वज्रमुल्लास्य वज्रगर्वां समुद्वहन् ।
कायवाक्चित्तवज्रैस्तु वज्रसत्त्वः स्वयं भवेत ॥ १ ॥

अन्या सर्वगामी सर्वकामपतिः सुखी । ऋद्ध्यायुर्बलरूपाग्र्यो वज्रसत्त्वसमो भवेद् ॥ इति ॥ २ ॥

कायवाक्चित्तवज्रैस्तु यथा लेख्यानुसारतः ।
चिन्हमुद्रान् समोपेतान्महासत्वांस्तु साधयेत् ॥ ३ ॥

अथात्र सर्वकल्पानां साधनं सिद्धिरेव च ।
सिद्धानां च महत्कर्म प्रवक्ष्याम्यनुपूर्वशः ॥ ४ ॥

प्रत्यहं प्राग्यथाकालं स्वाधिष्ठानादिकन्तथा । कृत्वा तु साधयेत्सर्वं ततः पश्चाद् यथासुखम् ॥ ५ ॥ इति ॥

तत्रायं महामुद्रासाधनविधिविस्तरो भवति ।

वज्रावेशं समुत्पाद्य महामुद्रां यथाविधि ।
बध्वा तु परतस्तं तु महासत्त्वं प्रभावयेत् ॥ १ ॥

तं दृष्ट्वा ज्ञानसत्त्वं तु स्वशरीरे प्रभावयेत् ।
आकृष्य प्रवेश्य बध्वा वशीकृत्वा च साधयेत् ॥

तत्रैषां हृदयानि भवन्ति । वज्रसत्त्व अः ॥ वज्रावेशहृदयम् ॥

वज्रसत्त्व दृश्य ॥ महासत्वानुस्मृतिहृदयम् ॥

जः हूं वं होः ॥ महासत्वाकर्षणप्रवेशनबन्धनवशीकरणहृदयम ॥

"समयस्त्वम्" इति प्रोक्ते पृष्ठतश्चन्द्रमाविशेत् ।
तत्रात्मा भावयेत्सत्वं "समयस्त्वम्" अहं ब्रूवन् ॥ १ ॥

यस्य सत्त्वस्य या मुद्रा तामात्मानन्तु भावयेत् ।
साधयेद्वज्रजापेन सर्वमुद्राप्रसाधनम् ॥ २ ॥

"जः हूं वं होः" ब्रुवन् काये सर्वबुद्धान् प्रवेशयेत् । मनसा साधुयोगेन साधनं त्वपरम् महद् ॥ इति ॥ ३ ॥

अथासां कर्म प्रवक्ष्यामि वज्रकर्म निरुत्तरम् ।
बुद्धानुस्मृतिसंसिद्धः शीघ्रं बुद्धत्वमाप्नुयात् ॥ ४ ॥

सत्त्ववज्या तु संसिद्धः सर्वमुद्राधिपो भवेत् ।
सत्त्ववज्र यान्तु मुद्रायां सर्वरत्नाधिपः स तु ॥ ५ ॥

सिद्धस्तु धर्मवज्र या वै बुद्धधर्मधरो भवेत् ।
कर्मवज्रिणि मुद्रायां वज्रकर्मकरो भवेत् ॥ ६ ॥

सिद्ध्यते वज्रसत्त्वस्तु बन्धया सत्त्वमुद्रया ।
आकर्षयेद्वज्रधरां वज्राकर्षप्रयोगतः ॥ ७ ॥

वज्ररागमहामुद्रा सर्वबुद्धांस्तु रागयेत् ।
तोषयेत्सर्वबुद्धानां वज्रसाधप्रयोगतः ॥ ८ ॥

दद्याद् बुद्धाभिषेकाणि रत्नमुद्राविधिस्तथा ।
वज्रतेजा भवेच्छीघ्रं वज्रतेजःप्रयोगतः ॥ ९ ॥

वज्रकेतुधरं सेव्य भवेदाशाप्रपूरकः ।
वज्रहासविधिं योज्य सर्वबुद्धैः समं हसेत् ॥ १० ॥

वज्रधर्मधरो भूयाद् वज्रधर्मप्रयोगतः ।
प्रज्ञाग्र्यः सर्वबुद्धानां वज्रतीक्ष्णप्रयोगतः ॥ ११ ॥

वज्रचक्रधरं सेव्य धर्मचक्रं स वर्तयेत् ।
बुद्धवाक्सिद्धिमाप्नोति वज्रभाषप्रयोगतः ॥ १२ ॥

वज्रकर्म[गतं] क्षिप्रं वज्रकर्माग्र्यसाधनात् ।
निबध्य वज्रकवचं वज्रकायत्वमाप्नुयात् ॥ १३ ॥

वज्रयक्षं तु वै साध्य वज्रयक्षसमो भवेत् ।
सर्वमुद्राप्रसिद्धस्तु वज्रमुष्टिनिबन्धनान् ॥ १४ ॥

वज्रलास्यां तु वै साध्य महावज्ररतिं लभेत् ।
वज्रमाला निबन्धस्तु सर्वबुद्धाभिषेकदः ॥ १५ ॥

योजयेद्वज्रगीतां तु वज्रगीताप्रयोगतः ।
वज्रनृत्यां तु संयोज्य सर्वबुद्धैः स पूज्यते ॥ १६ ॥

प्रल्हादयेज्जगत्सर्वं वज्रधूपाप्रयोगतः ।
वज्रपुष्पां तु संयोज्य वशीकुर्याज्जगत् स तु ॥ १७ ॥

वज्रालोकमहामुद्रा चक्षुर्दद्यात्प्रपूजयन् ।
सर्वदुःखहरो भूयाद्वज्रगन्धप्रयोगतः ॥ १८ ॥

वज्राङ्कुशसमाकर्षात् सर्वाकर्षकरः परः ।
सर्वप्रवेशको भूयाद् वज्रपाशप्रयोगतः ॥ १९ ॥

वज्रस्फोटन्तु संयोज्य सर्वबन्धक्षयो भवेद् । वज्रावेशविधिं योज्य सर्वावेशप्रसाधक ॥ २० ॥ इति ॥

अथ सर्वतथागतवज्रसमयमुद्राज्ञानं भवति ।

अञ्जलिं तु दृढं बध्वा सर्वाङगुलिनिबन्धितम् ।
वज्राञ्जलिः समाख्यातो वज्रबन्धः सुबन्ध[नात् ॥ १ ॥

सर्व] समयमुद्रास्तु वज्रबन्धसमुद्भवाः ।
तासां बन्धं प्रवक्ष्यामि वज्रबन्धमनुत्तरम् ॥ २ ॥

सत्त्ववज्रां दृढीकृत्य मध्यमोत्थासमाङकुराम् ।
मध्यमान्तरसंकोचान् द्वितीया बुद्धवर्णिता ॥ ३ ॥

मध्यमाङगुष्ठरत्ना तु पद्मसंकोचमध्यमा ।
पञ्चमी बुद्धमुद्रा तु तथैवाग्रसुकुञ्चिता ॥ ४ ॥

अथातः संप्रवक्ष्यामि तथागतकुलस्य हि ।
समयग्राहिका मुद्रा बन्धं सिद्धिं च कर्म च ॥ ५ ॥

पाणिद्वयमये चन्द्रे मध्यमाङ्गुलिवर्जिते ।
अन्त्याङ्गुलिमुखासङ्गाद वज्रं वै सत्त्ववज्रया ॥ ६ ॥

अग्राङ्कुशाग्रसंयोगाद् साधुकारप्रदायिका ।
वज्रसत्वचतुष्कस्य सिद्धिमुद्रागणो ह्ययम् ॥ ७ ॥

रत्नवज्रा समाङगुष्ठतर्जनीमुखसन्धनात् ।
सा एव मध्यमानामकनिष्ठा सुप्रसारिता ॥ ८ ॥

पताका तु समानामकनिष्ठाभ्यां समन्विता ।
हासस्थानस्थिता चैव सा एव परिवर्तिता ॥ ९ ॥

प्रसारितसमाङगुष्ठस्थिता कुञ्चिततर्जनी ।
सा एव वर्जकोशा तु मध्यमा मुखसन्धिता ॥ १० ॥

सा एव तु समानामकनिष्ठा चक्रसंज्ञिता ।
निर्युक्ताङगुष्ठबन्धा तु प्रसारितमुखोत्थिता ॥ ११ ॥

कनिष्ठाङगुष्ठमुखयोः समाजात् कर्मवर्जिता ।
सा एव तु समाग्र्या वै हृदिस्था सुप्रसारिता ॥ १२ ॥

कुञ्चिताग्र् याग्रदंष्ट्रा तु कनिष्ठा सन्धिमोक्षिता ।
कनिष्ठान्तरतोऽङगुष्ठौ पीडयेत्कुञ्चिताग्र्यया ॥ १३ ॥

हृदये तु समाङगुष्ठा सुप्रसारितमालिनी ।
अङगुल्यग्रमखोद्धान्ता नृत्यतो मूर्ध्नि संयुता ॥ १४ ॥

वज्रबन्ध त्वधो दानात् स्वाञ्जलिश्चोर्ध्वदायिका ।
समाङगुष्ठनिपीडा च सुप्रसारितलेपना ॥ १५ ॥

एकतर्जनीसंकोचा द्व्यङगुष्ठग्रन्थिबन्धिता । अङगुष्ठाग्र यकटा बन्धा वज्रटमुष्ट्यग्रसन्धिता ॥ इति ॥ १६ ॥

अथासां साधनं वक्ष्ये वज्रसाधनमुत्तमम् ।
स्वमुद्रया हृदिस्थया सत्त्ववज्रसमाधिना ॥ १७ ॥

अथासां कर्म वक्ष्यामि वज्रकर्म निरुत्तरम् ।
वज्रधात्वादिमुद्रासु समाजेन तथागताः ॥ १८ ॥

मण्डलाचार्यशिष्याणामधिष्ठास्यन्ति तत्क्षणात् ।
सत्त्ववज्र् यान्तु बद्धायां भवेद्वज्रधरोपमः ॥ १९ ॥

वज्राङ्कुश्यां बद्धमात्रायां सर्वबुद्धां समाह् वयेत् ।
रागवज्रप्रयोगेण स बुद्धानपि रागयेत् ॥ २० ॥

[वज्रसाधुबन्धेन बुद्धदानतुष्टिं लभति ।] वज्रतुष्ट्या जिनैः सर्वैः साधुकारैः प्रशंस्यते ॥ २१ ॥

रत्नवज्र् यान्तु बद्धायां बुद्धैः सोऽप्यभिषिच्यते ।
वज्रसूर्यां बध्वा वै भवेद् बुद्धप्रभोपमः ॥ २२ ॥

वज्रकेतुधरो भूत्वा सर्वाशाः स तु पूरयेत् ।
वज्रहासप्रयोगेण सर्वबुद्धैः समं हसेत् ॥ २३ ॥

धर्मवज्रां समाधाय वज्रधर्मोपमो भवेत् ।
वज्रकोशां तु संगृह्य सर्वक्लेशां च्छिनत्ति सः ॥ २४ ॥

वज्रचक्रां दृढीकृत्वा मण्डलाधिपतिर्भवेत् ।
वज्रभाषप्रयोगेण वज्रवाक्सिद्धिरुत्तमा ॥ २५ ॥

कर्मवज्रां तु सन्धाय वज्रकर्मसमो भवेत् ।
वज्रवर्मां दृढीकृत्वा कायो वज्रमयो भवेत् ॥ २६ ॥

वज्रदंष्ट्राग्रमुद्रया दुष्टमारां स भञ्जति ।
वज्रमुष्टिं दृढां बध्वा सर्वमुद्रां वशन्नयेत् ॥ २७ ॥

लास्यया रतयो दिव्याः मालया भूषणानि च ।
गीतया स्फुटवाचो नित्यं पूजां लभति नृत्यया ॥ २८ ॥

धूपया ल्हादयेद् लोक पुष्पया रूपशोभिताम् ।
दीपया लोकशुद्धित्वं गन्धया दिव्यगन्धताम् ॥ २९ ॥

वज्राङकुशः समाकर्षेद् वज्रपाशा प्रवेशयेत् । वज्रस्फोटा तु बन्धयाद् वज्रघण्टा समाविशेद् ॥ ३० ॥ इति ॥

अथ धममुद्रा भवन्ति ।

वज्रज्ञानं तु बुद्धानां वज्रधातु दृढंकरम् ।
अतः परं प्रवक्ष्यामि धर्ममुद्रा यथाविधि ॥ १ ॥

"समयस्त्वम्" इति प्रोक्ते सर्वमुद्रापतिर्भवेत् ।
"अन्यस्व" इति वै प्रोक्ते बुद्धानाकर्षयेद् ध्रुवम् ॥ २ ॥

"अहो सुख" इति प्रोक्ते बुद्धानपि स रागयेत् ।
"साधु साध्व्" इति वै प्रोक्त्वा साधुकारैः स तोषयेत् ॥ ३ ॥

"सुमह[त्त्वम्" इति] प्रोक्ते सर्वबुद्धाभिषेचनम् ।
"रूपोद्योते"- ति वै प्रोक्ते धर्मतेजो भविष्यति ॥ ४ ॥

"अर्थप्राप्तिर" इति प्रोक्ते सर्वाशाः पूरयेत् स तु ।
"ह ह हूं हे- "[ति प्रोक्ते समबुद्धहासं प्राप्नु] यात् ॥ ५ ॥

"सर्वकारि" इति प्रोक्ते अकार्यमपि शोधयेत् ।
"दुः खच्छेद" इति प्रोक्ते सर्वदुःखाञ्छिनत्ति सः ॥ ६ ॥

["बुद्ध बोधि" इति] प्रोक्ते मण्डलाधिपतिर्भवेत् । "प्रतिशब्द" इति प्रोक्ते बुद्धैः सहसमालपेत् ॥ ७ ॥।

"शुभसिद्धम्" इति प्रोक्ते वशित्वं सर्वतो भवेत् ।
["निर्भयस्त्वम्" इति] प्रोक्ते निर्भयो भवेत्तत्क्षणात् ॥ ८ ॥

"शत्रु भक्ष" इति प्रोक्ते सर्वशत्रुन् स भक्षयेत् ।
"सर्वसिद्धिर्" इति प्रोक्ते सर्वसिद्धिर्भविष्यति ॥ ९ ॥

["महारति" रतिं] दिव्यां "रूपशोभा" तथैव च ।
"श्रोत्रसौख्या" सुखं दद्यात् "सर्वपूजा" सुपूजताम् ॥ १० ॥

"प्रल्हादिनि" मनःसौख्यं "फलागमी" फलागमा ।
"सु[तेजाग्रि" महातेजः] "सुगन्धाङ्गि" सुगन्धताम् ॥ ११ ॥

"अयाहि जः" समाकर्षा "अहि हूं हूं" प्रवेशिका । "हेस्फोट वं" महाबन्धा "घण्टा अः अः" प्रचालिते- ॥ ति ॥ १२ ॥

अथासां धर्ममुद्रा [साधनं प्र] वक्ष्यते शुभम् । जिव्हायां भावयेद् वज्रां सर्वकर्माणि कुर्वते ॥ ति ॥ १३ ॥

अथ कर्ममुद्राबन्धो भवति ।

वज्रमुष्टिं दृढां बध्वा द्विधीकुर्यात्समाहितः ।
वज्रमुद्राद्वयं भूयात् ततो बन्धः प्रवक्ष्यते ॥ १ ॥

वामवज्राङगुलिर्ग्राह्यं दक्षिणेन समुत्थिता ।
बोधाग्री नाम मुद्रेयं बुद्धबोधिप्रदायिका ॥ २ ॥

अक्षोभ्यस्य भूमिस्पर्शा रत्ने तु वरदा तथा ।
अमितायोः समाध्यग्रा अमोघस्याभयप्रदा ॥ ३ ॥

अतः परं प्रवक्ष्यामि कर्ममुद्रा समासतः ।
वज्रसत्त्वादिसत्त्वानां वज्रकर्मप्रवर्तिकाः ॥ ४ ॥

सगर्वोत्कर्षणं द्वाभ्यामङ्कु शग्रहसंस्थिता ।
वाणघन्तनयोगाच्च साधुकारा हृदि स्थिता ॥ ५ ॥

अभिषेके द्विवज्रं तु हृदि सूर्यप्रदर्शनम् ।
वामस्थबाहुदण्डा च तथास्ये परिवर्तिता ॥ ६ ॥

सव्यापसव्यविकचा हृद् वामां खड्गमारण ।
अलातचक्रभ्रमिता बज्रद्वयमुखोत्थिता ॥ ७ ॥

वज्रनृत्यभ्रमोन्मुक्तं कपोलोष्णीषसंस्थिता ।
कवचा कनिष्ठदंष्ट्राग्र्या मुष्टिद्वयनिपीडिता ॥ ८ ॥

वज्रगर्वाप्रयोगेण नमेदाशयकंपितैः ।
मालाबन्धा मुखोद्वान्ता वज्रनृत्यप्रनर्तिता ॥ ९ ॥

वज्रमुष्टिप्रयोगेण दद्याद् धूपादयस्तथा ।
सर्वबुद्धप्रपूजायाः पूजामुद्राः प्रकल्पिता ॥ १० ॥

तर्जन्यङ्कुशबन्धेन कनिष्ठाया महाङ्कुशी । बाहुग्रन्थिकटाग्र्याभ्यां पृष्ठयोश्च निपीडिता ॥ इति ॥ ११ ॥

अथासां साधनं वक्ष्ये वज्रकर्मकृता समम् । सर्ववज्रमयं वज्रं हृदये परिभावयेद् ॥ इति ॥ १२ ॥

अथासां कर्ममुद्राणां वज्रकर्माण्यनेकधा ।
ज्ञानमुष्ट्यां तु बद्धायां बुद्धज्ञानं समाविशेत् ॥ १३ ॥

अक्षोभ्यायां तु बन्धायामक्षोभ्यं भवेत् मनः ।
रत्नसंभवमुद्रायां परानुग्रहवान् भवेत् ॥ १४ ॥

सद्धर्मचक्रमुद्रायां धर्मचक्रं प्रवर्तयेत् ।
अभयाग्र्या भवेत क्षिप्रं सर्वसत्त्वामयप्रदः ॥ १५ ॥

ज्रगर्वां दृढीकृत्य वज्रसत्वसुखं लभत् ।
वज्राङ्कुश्या समाकर्षेत् क्षणात् सर्वतथागतान ॥ १६ ॥

रागयेद् वज्रवाणैस्तु वज्रभार्यामपि स्वयम् ।
वज्रतुष्ट्या जिनाः सर्वे साधुकारान् ददन्ति हि ॥ १७ ॥

महावज्रमणिं बध्वा शास्तृभिः सोऽभिषिच्यते ।
वज्रसूर्यां समाधाय वज्रसूर्यसमो भवेत् ॥ १८ ॥

वज्रध्वजां समुच्छ्राप्य रत्नवृष्टिं स वर्षयेत् ।
वज्रस्मितां समाधाय हसेद् बुद्धैः समं लघु ॥ १९ ॥

वज्रफुल्लां समाधाय वज्रधर्मं स पश्यति ।
वज्रकोशां दृढं बध्वा सर्वदुःखाञ्छिनत्ति सः ॥ २० ॥

वज्रचक्रं समाधाय धर्मचक्रं प्रवर्तयेत् ।
सर्वं वै बुद्धवचनं सिध्यते वज्रजापतः ॥ २१ ॥

[वज्रनृत्यपूजया बुद्धोऽपि वशिभूतं भवेत्] ।
वज्रवर्म निबध्वा सो वज्रसारत्वं प्राप्नुयात् ॥ २२ ॥

वज्रदंष्ट्रं समाधाय [प्रध्वंसेद् वज्रत्वमपि] ।
वज्रमुष्ट्याहरे[त् सर्वं मुद्रासिद्धिरालभ्यते] ॥ २३ ॥

वज्रलास्या रतिन् दद्याद् वज्रमाला सुरूपताम् ।
वज्रगीता सुगीता [त्वं वज्रनृत्या च वशयेत्] ॥ २४ ॥

धूपया तु मनोल्हादं पुष्पयाभरणानि तु ।
दीपपूजा महादीप्तिं वज्रगन्धा सुगन्धताम् ॥ २५ ॥

वज्राङ्कुश्या समाकर्षेद् वज्र आशा प्रवेशयेत् । बन्धयेद् वज्रनिगडा वज्रघण्टा तु चालयेद् ॥ इति ॥ २६ ॥

अथ सर्वमुद्राणां सामान्या बन्धविधिविस्तरो भवति । तत्रादित एव वज्रबन्धाङ्गुलीं तालं कृत्वा हृदये, इदं हृदयमुच्चारयेत् वज्रबन्ध त्रट् ॥ ततः सर्वमुद्राबन्धाः स्वकायवाक्चित्तवज्रेषु वशीभवन्ति ॥

ततो वज्रावेशसमयमुद्रां बध्वा, इदं हृदयमुच्चारयेत् अः ॥ ततः समाविष्टा मित्रत्वेनोपतिष्ठन्ति ॥

ततो मुद्रासमयमहासत्त्वाननुस्मृत्येदं हृदयमुदाहरेत् महासमयसत्त्वोऽहम् ॥ अनेन सर्वमुद्राः सिद्ध्यन्तीति । सर्वमुद्राविधिविस्तरः ॥

अथ सामान्यः साधनविधिविस्तरो भवति । तत्रादित एव स्वमुद्रां बध्वा स्वमुद्रासत्वमात्मानं भावयेदनेन हृदयेन समयोऽहम् ॥

ततः स्वमुद्रासत्त्वमात्मानं भाव्य तेनाधिष्ठायेदनेन मन्त्रेण समयसत्त्वाधितिष्ठस्व माम् । ततः साधयेदिति । साधनाविधिविस्तरः ॥

अथ सिद्धिविधिविस्तरो भवति । तत्रादित एव अर्थसिद्धिमिच्छता तेन हृदयेन अर्थसिद्धि ॥ अनेन सिद्धा मुद्रा महार्थोत्पत्तिन् करोति ॥

अथ वज्रसिद्धिमिच्छेदनेन हृदयेन वज्रसिद्धि ॥ अनेन यथाभिरुचितवज्रसिद्धो भवति ॥

अथ विद्याधरसिद्धिमिच्छेदनेन हृदयेन वज्रविद्याधर ॥ अनेन यथाभिरुचितविद्याधरसिद्धिः । अथोत्तमसिद्धिमिच्छेत् स्वमुद्राहृदयेनेति । सिद्धिविधिविस्तरः ॥

अथ सर्वमुद्राणां सामान्यः स्वकायवाक्चित्तवज्रेषु वज्रीकरणविधिविस्तरो भवति । यदा मुद्राधिष्ठानं शिथिलीभवति, स्वयं वा मुक्तुकामो भवति, ततोऽनेन हृदयेन दृढीकर्तव्या । ॐ वज्र सत्त्वसमयमनुपालय, वज्रसत्त्वत्वेनोपतिष्ठ, दृढो मे भव, सुतोष्यो मे भवानुरक्तो मे भव, सुपोष्यो मे भव, सर्वसिद्धिञ्च मे प्रयच्छ,

सर्वकर्मसु च मे चित्तश्रेयः कुरु हूं
ह ह ह ह होः भगवन् सर्वतथागतवज्र मा मे मुंच,
वज्रीभव महासमयसत्व आः ॥

"अनेनानन्तर्यकारिणोऽपि सर्वतथागतमोक्षा अपि सद्धर्मप्रतिक्षेपका अपि सर्वदुष्कृतकारिणोऽपि सर्वतथागतमुद्रासाधका वर्जसत्त्वदृढीभावादिहैव जन्मन्यासु यथाभिरुचितां सर्वसिद्धिमुत्तमसिद्धिं वज्रसिद्धिं वज्रसत्त्वसिद्धिं वा यावत् तथागतसिद्धिं वा प्राप्स्यन्ती- "त्याह भगवां सर्वतथागतवज्रसत्त्वः ॥

अथ स्वमुद्राणां सामान्यो मोक्षविधिविस्तरो भवति । तत्रादित एव यतोयतः समुत्पन्ना मुद्रा तान् तत्रतत्रैव मुञ्चेदनेन हृदयेन वज्र मुः ॥

ततो हृदयोत्थितया रत्नवज्रिमुद्रया स्वाभिषेकस्थानस्थितयाभिषिच्याग्राङ्गुलिभ्यां मालां वेष्टव्यं बध्वा तथैव कवचं बन्धयेदनेन हृदयेन ॐ रत्नवज्राभिषिञ्च सर्वमुद्रा मे दृढीकुरु वरकवचेन वम् ॥

ततः पुनः कवचान्तं मालाबन्धं कृत्वा, समतालया तोषयेदनेन हृदयेन वज्र तुष्य होः ॥

अनेन विधिना मुद्रा मुक्ता बद्धाश्च तोषिता ।
वज्रत्वमुपयास्यन्ति वज्रसत्त्वेन वा पुनः ॥

वज्रसत्त्वः सकृज्जप्तो यथाकामं सुखात्मना ।
सिध्यते जापमात्रेण वज्रपाणिवचो यथा ॥

इत्याह भगवान् समन्तभद्रः ॥

वज्रसत्त्वादिसत्त्वानां सर्वसाधनकर्मसु ।
जापस्तु रुचितोऽप्यत्र सर्वकल्पेषु सिद्धिदः ॥

हृन्मुद्रामन्त्रविद्यानां यथाभिरुचितैर्नयैः ।
कल्पोक्तैः स्वकृतैर्वापि साधनं त्वत्र सर्वतः ॥ इति ॥

ततः पूजागुह्यमुद्रामुदाहरन्, गुह्यपूजाचतुष्टयं कार्यम्, अनेन वज्रस्तुतिगीतेन गायन् ।
ॐ वज्रसत्त्वसंग्रहाद् वज्ररत्नमनुत्तरम् ।
वज्रधर्मगायनैश्च वज्रकर्मकरो भव ॥

ततोऽभ्यन्तरमण्डलेऽप्यनेनैव वज्रस्तुतिगीतेन वज्रनृत्यकरपुटेन गृह्य धूपादिभिः पूजा कार्या । ततो बाह्यमण्डले वज्रधूपादिभिः पूजां कृत्वा, ताः पूजा स्वस्थानेषु स्थापयेत् । ततः "सर्वे यथाशक्त्या पूजयन्त्वि" ति सर्वतथागतान् विज्ञाप्य, यथेच्छया धूपादिभिः पूजां कारयित्वा, यथा प्रविष्टां यथा विभवतः सर्वरसाहारविहारादिभिः सर्वोपकरणर्महामण्डले निर्यातितैः सन्तुष्येदं सर्वतथागतसिद्धिवज्रव्रतं दद्यात् ।

इदं तत्सर्वबुद्धत्वं वज्रसत्त्वकरे स्थितम् ।
त्वयापि हि सदा धार्यं वज्रपाणिदृढव्रतम ॥

ॐ सर्वतथागतसिद्धि वज्रसमय तिष्ठ एष त्वा धारयामि वज्रसत्व हि हि हि हि हूं ॥

ततः " सर्वेषां पुनरपि न कस्यचिद् वक्तव्यम्" इति शपथहृदयमाख्येयं । ततो यथा प्रविष्टान् संप्रेष्य सर्वतथागतान् विज्ञापयेत्, सत्ववज्रिमुद्रां बध्वोर्ध्वतो मुञ्चेद्, इदं च हृदयमुच्चारयेत् ।

ॐ कृतो वः सर्वसत्वार्थः सिद्धिर्दत्ता यथानुगा । गच्छध्वं बुद्धविषयं पुनरागमनाय तु ॥ वज्रसत्त्व मुः ॥

एवं सर्वमण्डलेषु कर्तव्यं । समयाग्र्या मुद्रासु च मोक्त इति ॥

सर्वतथागतमहायानाभिसमयान् महाकल्पराजाद् वज्रधातुमहामण्डलविधिविस्तरः समाप्तः ॥


अध्याय 2
VAJRA-GUHYA-VAJRA-MANDALA-VIDHI-VISTARA

अथ भगवान् सर्वतथागतसर्ववज्रधरणीसमयसंभववज्रन्नाम समाधिं समापन्नः । समनन्तरसमापन्ने चाथ तावदेव सर्वतथागतहृदयेभ्यः । स एव भगवान् वज्रपाणिः वज्रधररूपधारिण्यः समन्त ज्वालागर्भा वज्रधारणीसमयमुद्रा देवता भूत्वा विनिःसृत्य, सर्वलोकधातुषु सर्वबुद्धानां सर्वतथागतवज्रधारणी ज्ञानानि निष्पाद्य, सर्वतथागतसमयमुद्राबिम्बानि भूत्वा, सर्वतथागतानां वज्रधातुमहामण्डले सन्निवेशयोगेन चन्द्रमण्डलान्याश्रित्येदमुदानमुदानयामास ।

अहो हि बोधिचित्तस्य सर्वसत्वहितैषिता ।
यद् विनयवशाद् धीराः स्त्रीरूपमपि कुर्वते ॥

Emanation of deities from समाधि

अथ भगवान् सर्वतथागतज्ञानमुद्रासमयवज्रधात्वधिष्ठानं नाम समाधिं समापद्येमां स्वविद्यात्तमामभाषत् ॐ वज्रधात्वीश्वरि हूं वज्रिणि ॥

अथ खल्वक्षोभयस्तथागतः सर्वतथागतवज्रसत्वसमयज्ञानमुद्रामण्डलाधिष्ठानन् नाम समाधिं समापद्येमां स्वविद्योत्तमामभाषत् ॐ वज्रवज्रिणि हूं ॥

अथ रत्नसंभवस्तथागतः सर्वतथागतवज्ररत्नसमयज्ञानमुद्रामण्डलाधिष्ठानन् नाम समाधिं समापद्येमां स्वविद्योत्तमामभाषत् ॐ रत्नवज्रिणि हूं ॥

अथामितायुस्तथागतः सर्वतथागतवज्रधर्मसमयज्ञानमुद्रामण्डलाधिष्ठानन् नाम समाधिं समापद्येमां स्वविद्योत्तमामभाषत् ॐ धर्मवज्रिणि हूं ॥

अथामोघसिद्धिस्तथागतः सर्वतथागतवज्रकर्नसमयज्ञानमुद्रामण्डलाधिष्ठानन् नाम समाधिं समापद्येमां स्वविद्योत्तमामभाषत् ॐ कर्मवज्रिणि हूं ॥

अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतमहाधारणीसमयमुद्राचतुष्टयमभाषत् ॥

ॐ वज्रसत्वगुह्यसमये हूं ॥

ॐ गुह्यवज्राङ्कुशि हूं ॥

ॐ वज्रगुह्यरागे रागय हूं ॥

ॐ गुह्यवज्रसाध्वीश्वरि हूं ॥

समन्तभद्रा, तथागताङ्क शी, रतिरागा, साधुमती च । वज्रधारण्यः । ॐ वज्रगुह्यरत्नसमये हूं ॥

ॐ वज्रगुह्यप्रभे हूं ॥

ॐ वज्रध्वजाग्रगुह्ये हूं ॥

ॐ गुह्यहासवज्रि हूं ॥

रत्नोत्तमा, रत्नोल्का, ध्वजाग्रकेयूरा, हासवती च । रत्नधारण्यः ॥

ॐ वज्रधर्मगुह्यसमये हूं ॥

ॐ वज्रकोशगुह्ये हूं ॥

ॐ वज्रगुह्यमण्डले हूं ॥

ॐ वज्रगुह्यजापसमये हूं ॥

वज्राम्बुजा, आधारणी, सर्वचक्र, सहस्रावर्ता च । धर्मधारण्यः ॥

ॐ वज्रगुह्यकर्मसमये हूं ॥

ॐ वज्रगुह्यकवचे हूं ॥

ॐ गुह्यवज्रदंष्ट्राधारिणि हूं ॥

ॐ वज्रगुह्यमुष्टि हूं ॥

सिद्धोत्तरा, सर्वरक्षा, तेजःप्रत्याहारिणी, धरणीमुद्रा च । सर्वधारण्य इति ॥

अथ वज्रपाणिर्महाबोधिसत्वः पुनरपि सर्वतथागतवज्रगुह्यसमयमुद्राचतुष्टयमभाषत् ।
ॐ गुह्यसत्ववज्रि हूं ॥

ॐ गुह्यरत्नवज्रि हूं ॥

ॐ गुह्यधर्मवज्रि हूं ॥

ॐ गुह्यकर्मवज्रि हूं ॥

ता एव वज्रपारमितादयः सर्वतथागतवज्रगुह्यसमयधारणीसंग्रहसमयमुद्राः ।
वज्रधत्वीश्वरीमहामण्डले सज्वालाः चन्द्रमण्डलाश्रिताः स्थाप्याः ॥

अथ पुनरपि वज्रपाणिः सर्वतथागत वज्रगुह्यपूजासमयमुद्राचतुष्टयमभाषत् ।
ॐ वज्रगुह्यरतिपूजासमये सर्वपूजां प्रवर्तय हूं ॥

ॐ वज्रगुह्याभिषेकपूजासमये सर्वपूजां प्रवर्तय हूं ॥

ॐ वज्रगुह्यगीतापूजासमये सर्वपूजां प्रवर्तय हूं ॥

ॐ वज्रगुह्यनृत्यपूजासमये सर्वपूजां प्रवर्तय हूं ॥

ता एव वज्रलास्यादयः सज्वालाः स्वचिन्हा मुद्राश्चक्रमण्डलकोणचतुष्टये स्थाप्याः ॥

Delineation of the मण्डल

अथ वज्रपाणिः पुनरपीदं वज्रगुह्यं नाम महावज्रमण्डलमभाषत् । अथातः संप्रवक्ष्यामि वज्रमण्डलमुत्तमं ।

वज्रधातुप्रतीकाशं वज्रगुह्यमितिस्मृतं ॥ १ ॥

महामण्डलयोगेन सर्वमण्डलमालिखेत् ।
सर्वमण्डलमध्येषु बुद्धमुद्राः समालिखेत् ॥ २ ॥

पर्यङके सुस्थितं चैत्यं वज्रधात्वीश्वरी स्मृता । पर्यङ्के वज्रा वज्रां तु वज्रचिन्तेति कीर्तिता ॥ ३ ॥ ॥

वज्ररत्नं तु पर्यङ्के स्वाभिषेकेति कीर्तिता ।
पर्यङ्के वज्रपद्मं तु आयुधैति प्रकीर्तिता ॥ ४ ॥

कर्मवज्रं तु पर्यङ्के सर्ववज्रेति कीर्तिता ।
पद्मप्रतिष्ठाः समालेख्याः प्रभामण्डलसंस्थिताः ॥ ५ ॥

पर्यङ्केतु लिखेद् वज्रमुत्थितं द्वयङ्कुशं तथा ।
वज्रं वज्रपरियुक्तं साधुकारद्वयं तथा ॥ ६ ॥

रत्नं करोज्वलं कुर्यात्सूर्यमुद्रान्तथैव च ।
ध्वजाग्रं चैव सज्वालं दन्तपङिक्तर्द्विवज्रगे ॥ ७ ॥

वज्रमध्ये लिखेत्पद्मं खड्गं सज्वालमेव च ।
वज्रारं वज्रचक्रं तु जिव्हां रश्मिकरोज्ज्वलां ॥ ८ ॥

वज्रं तु सर्वतो वक्त्रं कवचं वज्रसंयुतं ।
वज्रदंष्ट्रे तथा लेख्ये मुष्टिमुद्रा करद्वये ॥ ९ ॥

सत्ववज्रादयो लेख्या यथावद् धातुमण्डले ।
चिन्हमुद्राः समालेख्या वज्रलास्यादिमण्डले ॥ १० ॥

बाह्यातश्च यथायोगं स्वचिन्हंतु समालिखेत् । मैत्रेयादिस्वचिन्हानि यथाभिरुचितं लिखेद् ॥ ११ ॥ इति ॥


Intiation into the mandala

अथात्र वज्रगुह्यमण्डले प्रवेशादिविविधविस्तरो भवति ।

तत्र प्रथमं तावद्वज्राचार्यः स्वयं सत्ववज्रिमुद्रां बध्वा प्रविशेत्॑ प्रविश्य सकृत् प्रदक्षिणीकृत्य, तां मुद्रां भगवते वज्रपाणये निर्यात्य, स्वहृदये यथावन्मुक्त्वा, चतुर्षु द्वारेषु वज्राङ्कु शकर्ममुद्रादिभिर्यथावत् कर्माणि कृत्वा निष्क्रमेद्, अभिनिष्क्रम्य शिष्यां प्रवेशयेत् वज्रधातुमहामण्डलयोगेनेति । ततः प्रवेश्य मुष्ट्याच्छाद्य सिद्धिगुह्यवज्रचिन्हं दत्वा, वज्रगुह्यमुद्राज्ञानं शिक्षयेत् ॥

Mudra

तत्र प्रथमं तावद् वज्रगुह्यकायमुद्राज्ञानं शिक्षयेत् ।

चन्द्रमण्डलमध्ये तु हस्तपादाञ्जलिं मुखं ।
विजृंभन् भावयेद्वज्रं वज्रिणीमपि रागयेत् ॥ १ ॥

अङ्कुशं बाहुसंकोचं शीर्षे वज्रं तु भावयेत् ।
शब्दापयंस्तु हस्तेन आनयेदङ्कुशीमपि ॥ २ ॥

वाणप्रक्षेपयोगेन विजृंभन् प्रहरेद् हृदि ।
रागयेन्मारयोगेन रतिवज्रामपि स्वयं ॥ ३ ॥

बाहुबन्धेन बध्नीयाद् हृदयं स्वयमात्मनः । वज्रवर्मप्रयोगेण रक्षेद् बुद्धमपि स्वयम् ॥ इति ॥ ४ ॥

तत्रैषां हृदयानि भवन्ति ।
वज्र रागय होः ॥

वज्राङ्कु श जः ॥

मारय मारय फट् ॥

बन्ध रक्ष हं ॥

ततो वज्रगुह्यदृष्टिमुद्राज्ञानं शिक्षयेत् ।

वज्रदृष्टिस्तु संरागप्रहर्षोत्फुल्ललोचना ।
तया निरीक्षता स्त्री तु वश्या भवति शाश्वती ॥ १ ॥

प्रद्रुतप्रचलच्चक्षुः पक्ष्मकर्षणलोचना ।
दीप्तकृष्टिरिति प्रोक्ता सर्वमाकर्षयेज्जगत् ॥ २ ॥

प्रध्वस्तभृकुटीभङ्गक्रोधसंकुचितेक्षणं ।
क्रोधदृष्टिं समाधाय त्रैलोक्यमपि नाशयेत् ॥ ३ ॥

मेरुमर्दनपाषाणदृढानिमिषलोचना । मैत्रीदृष्टिरिति ख्याता ज्वरग्रहविषापहा ॥ इति ॥ ४ ॥

अथासां हृदयानि भवन्ति ।
वज्रदृष्टि मट् ॥

दीप्तदृष्ट्याङ्कु शिज्जः ॥

क्रोधदृष्टि हीः ॥

दृढदृष्टि त्रट् ॥

ततो वज्रगुह्यवाङ्मुद्राज्ञानं शिक्षयेत् ।

होः होः होः हो इति प्रोक्ते वाग्विवर्तितया क्षणात् ।
रागयेत् सर्वसत्वां सो वज्रवाचा परिस्फुटां ॥ १ ॥

ज्जः ज्जः ज्जः ज्ज इति प्रोक्ते क्रोधवाचा परिस्फुटां ।
आकर्षयेज्जगत्सर्वमपि वज्रधरोपमम् ॥ २ ॥

हुं हुं हुं हुं समाधाय शब्दवाचा परिस्फुटां ।
मारयेत् सर्वसत्वां सो मेरुमर्दनसन्निभाम् ॥ ३ ॥

हं हं हं हं इति प्रोक्ते सूक्ष्मवाचा परिस्फुटां । रक्षेत् सर्वमिदं लोचमपि वज्रात्मकं जिनम् ॥ इति ॥ ४ ॥

तत्रैतानि हृदयानि भवन्ति ।
वज्र होः ॥

वज्र ज्जः ॥

वज्र हुं ॥

वज्र हं ॥

ततो वज्रगुह्यचित्तमुद्राज्ञानं शिक्षयेत् ।

सर्वाकारवरोपेतं भावयन् स्वयमात्मना ।
वज्रपाणिं स्वमात्मानं सर्वबुद्धां वशन्नयेत् ॥ १ ॥

सर्वाकारवरोपेतं भावयन् स्वयमात्मना ।
वज्रगर्भं स्वमात्मानमाकर्षयेद्वज्रपाणिनं ॥ २ ॥

सर्वाकारवरोपेतं भावयन् स्वयमात्मना ।
वज्रनेत्रं स्वमात्मानं सर्वधर्मां स मारयेत् ॥ ३ ॥

सर्वाकारवरोपेतं भावयन् स्वयमात्मना । वज्रविश्वं स्वमात्मानं सर्ववज्रं स रक्षति ॥ इति ॥ ४ ॥

तत्रैतानि हृदयानि भवन्ति ।
वज्रपाणि वशमानय सर्वबुद्धान् होः ॥

वज्रगर्भ वज्रपाणिं शीघ्रमाकर्षय हूं ज्जः ॥

वज्रनेत्र सर्वधर्मान् मारय हूं फट् ॥

वज्रविश्व रक्ष सर्ववज्रान् हं ॥

ततो वज्रगुह्यमुद्राज्ञानं शिक्षयेत् ।

सत्ववज्रां समाधाय हृदये स्वयमात्मनः ।
वज्रदृष्ट्या निरीक्षन् वै सर्वमावेशयेज्जगत् ॥ १ ॥

रत्नवज्रां समाधाय हृदये स्वयमात्मनः ।
दीप्तदृष्ट्या निरीक्षन् वै सर्वमानयते वशं ॥ २ ॥

धर्मवज्रां समाधाय हृदये स्वयमात्मनः ।
क्रोधदृष्ट्या निरीक्षन् वै जगत्सर्वं स मारयेत् ॥ ३ ॥

कर्मवज्रां समाधाय हृदये स्वयमात्मनः । मैत्रीदृष्ट्या निरीक्षन् वै रक्षेत्सर्वमिदं जगद् ॥ इति ॥ ४ ॥

अथासां वज्रगुह्यज्ञानमुद्राणां हृदयानि भवन्ति ।
वज्रगुह्यसमय अः ॥

वज्रगुह्यसमय होः ॥

वज्रगुह्यसमय हुं ॥

वज्रगुह्यसमय हं ॥

ततो वज्रगुह्यमुद्राबन्धं शिक्षयेत् ।

वज्राञ्जलिसमुद्भूता महागुह्याः प्रकीर्तिताः ।
महामुद्राः समासेन तासां बन्धः प्रवक्ष्यते ॥ १ ॥

अङ्गुष्ठद्वयपर्यङ्का कुञ्चिताग्राग्रविग्रहा ।
सममध्योत्तमाङ्गा च वज्रधात्वीश्वरी स्मृता ॥ २ ॥

सा एव मध्यवज्रा तु मध्याभ्यां तु मणीकृता ।
मध्यानामान्त्यपद्मा च प्रसारितकराङ्गुली ॥ ३ ॥

अग्र्या वज्रा दिवज्राग्री साङ्गुष्ठद्वयगूहिता ।
साधुकाराग्र्यरत्ना च स रत्नाग्राकरोज्वला ॥ ४ ॥

समानामान्त्यरत्ना च सा एव परिवर्तिता ।
सुप्रसारितसर्वाग्रा समाङ्गुष्ठान्तरस्थिता ॥ ५ ॥

प्रसारिताङ्गुलीमण्डासा एव तु मुखोद्धृता ।
अङ्गुष्ठवज्रसंच्छन्ना समाग्र्याभ्यन्तरस्थिता ॥ ६ ॥

द्वयङ्गुष्ठविकचा सा तु ततोऽभ्यन्तरवज्रिणी ।
वज्रगुह्याः पुनश्चैता वज्रबन्धसमुद्भवाः ॥ ७ ॥

धर्मगुह्याः पुनश्चिन्हैः संपुटान्तरभावितैः ।
कर्मगुह्यान्तरस्थितैस्तु चिन्हैः कर्मप्रदर्शनम् ॥ ८ ॥

अतः परं प्रवक्ष्यामि धर्ममुद्राः समासतः ।
आः ज्जः होः सः, उं आं त्रं हः,
ह्रीः धं भं रं, कं हं हुं वं ॥ १ ॥

गुह्यमुद्रा द्विधिकृत्य कर्ममुद्रासु कल्पयेत् ।
यावद्यः समयाग्र्यो वै द्विधीकृत्य तथैव च ॥ २ ॥

अथासां साधनं वक्ष्ये समयस्त्वम् इति ब्रूवन् ।

स्वयं बध्वा तु सिध्यन्ते कामरागसुखात्मनः ॥ १ ॥

आसां त्वधिकमेकं तु सर्वकालं न बन्धयेत् ।
गुह्ये वार्थमहत्कार्ये प्रयुञ्जीत् विचक्षणः ॥ २ ॥

यसर्वात्मसित्थात ह्येता दृढभार्याः स्वयंभुवां । साधकेषु दृढं रक्ता मा त्यजेयुः पतिन्निजम् ॥ ३ ॥ इति ॥

अथासां सर्वमुद्राणां बन्धादिति कर्माणि भवन्ति ।
वज्रवेशं समुत्पाद्य आत्मनश्च परस्य वा ।
बन्धयेद्वा बन्धयेद्वापि अनेन हृदयेन तु ॥

वज्र हूं बन्ध ॥

अथ मोक्षो भवति ।

यतो यतः समुत्पन्नाः सर्वमुद्राः समासतः ।
तत्र तत्र तां मुञ्चेदनेन हृदयेन तु ॥

ॐ वज्र मुः ॥

अथ दृढीकरणं भवति ।

रत्न वज्रां दृढीकृत्य हृदयान्मूर्ध्नि मोक्षिता ।
अग्राभ्यां कवचं बन्धेदनेन हृदयेन तु ॥

ॐ दृढ वज्रकवच धृट् ॥

अथ बन्धसमयो भवति ।

यथा स्थानेषु वै मुक्ता कवचेन दृढीकृता ।
निबन्धेत्तालया सर्वा ह्यनेन हृदयेन तु ॥

ॐ गुह्यसमयताल सः ॥

वज्रसत्वो रुचिजप्तिः सर्वमण्डलकर्मसु ।
प्रयोक्तव्योऽत्र समये सर्वसिद्धिकरः परम् ॥ इति ॥

सर्वतथागतमहायानाभिसमयान् महाकल्पराजाद् वज्रगुह्यवज्रमण्डलविधिविस्तरः समाप्तः ॥


अध्याय 3
VAJRA-JNANA-DHARMA-MANDALA-VIDHI-VISTARA

Emanation of deities from समाधि

अथ भगवान् पुनरपि सर्वतथागतसूक्ष्मवज्रज्ञानमुद्रासमयमण्डलाधिष्ठानं नाम समाधिं समापद्येमां स्वविद्योत्तमामभाषत् ॐ सूक्ष्मवज्रज्ञानसमय हूं ॥

अथ खल्वक्षोभ्यः तथागतः सर्वतथागतवज्रसत्वसूक्ष्मज्ञानसमयमण्डलाधिष्ठानन् नाम समाधिं समापद्येमां स्वविद्योत्तममभाषत् ॐ वज्रसत्व सूक्ष्मज्ञानसमय हूं ॥

अथ खलु रत्नसंभवस्तथागतः सर्वतथागतवज्ररत्नसूक्ष्मज्ञानसमयमण्डलाधिष्ठानं नाम समाधिं समापद्येमां स्वविद्योत्तममभाषत् ॐ वज्ररत्न सूक्ष्मज्ञानसमय हूं ॥

अथ खल्वमितायुस्तथागतः सर्वतथागतवज्रधर्मसूक्ष्मज्ञानसमयमण्डलाधिष्ठानं नाम समाधिं समापद्येमां स्वविद्योत्तममभाषत् ॐ वज्रधर्म सूक्ष्मज्ञानसमय हूं ॥

अथ खल्वमोघसिद्धिस्तथागतः सर्वतथागतवज्रकर्मसूक्ष्मज्ञानसमयमण्डलाधिष्ठानन्नाम समाधिं समापद्येमां स्वविद्योत्तममभाषत् ॐ वज्रकम सूक्ष्मज्ञानसमय हूं ॥

अथ भगवान् वैरोचनः सर्वतथागतसूक्ष्मज्ञानवज्रं नाम समाधिं समापन्नः, समनन्तरसमापन्ने च भगवत्यथ तावदेव सर्वतथागतहृदयेभ्यः सूक्ष्मज्ञानवज्ररश्मयो विनिश्चरित्वा, सर्वलोकधातवोऽवभास्य सर्वसत्वानां, सर्वतथागतसूक्ष्मज्ञानवज्रसमाधिसमापत्तीन् दृढी कृत्य पुनरप्येकध्यीभूत्वा, समाधिज्ञानवज्रकायतामध्यालम्ब्यैकघनस्तथागतज्ञानः संभूय, भगवतो वैरोचनस्य हृदये प्रविष्टः ॥

अथ वज्रपाणिः सर्वतथागतज्ञानहृदयेभ्यः प्रविष्ट्वेदं सर्वतथागतसूक्ष्मज्ञानमहासमयवज्रमभाषत् सूक्ष्मवज्र ॥

अथास्मिन् भाषितमात्रे सर्वतथागतहृदयेभ्यो वज्रपाणिर्विनिःसृत्य, सर्वतथागतसूक्ष्मज्ञानवज्रबिम्बमात्मानमधिष्ठाय, सर्वतथागतनासिकाग्रेषु स्थित्वेदमुदानमुदानयामास । अहो हि सर्वबुद्धानां सूक्ष्मवज्रमहं महत् । यन्महत्वात्स सूक्ष्मोऽपि त्रैधातुकमपि स्फरेद् ॥ इति ॥

अथेदमुक्त्वा भगवान् वज्रपाणिर्महाबोधिसत्वः सर्वतथागतनासिकाग्रेभ्यः सुसूक्ष्मवज्रज्ञाननिमित्तस्फरणताय सर्वतथागतकायेभ्यः स्फरित्वा, सकलधर्मधातुस्फरणतायोगेन सर्वाकाशधातुं सुसूक्ष्मवज्रज्ञाननिमित्तैः संस्फर्य, सकलाकाशधातुविस्फरितसर्वतथागतज्ञानवज्रबिम्बमात्मानमधिष्ठायावस्थितः ॥

अथ तस्मिन्नेव क्षणे सर्वतथागताः सर्वतथागतज्ञानवज्रमध्ये वज्रधर्मतामध्यालम्ब्य, सर्वतथागतसूक्ष्मज्ञानवज्राधिष्ठानन्नाम समाधिं समापद्यावस्थिताः ॥

अथ ततः सर्वतथागतज्ञानवज्रात्सर्वतथागतसमाधिज्ञानहृदयं निश्चचार वज्रनाभि तथागत हूं ॥

अथास्मिन् विनिःसृतमात्रे भगवान् वज्रपाणिः पुनरपि सूक्ष्मज्ञानप्रवेशयोगेन सर्वतथागतकायेषु प्रविष्ट्वा, हृदये वज्रबिम्बानि भूत्वावस्थिताः ।

अथ तेभ्यः सर्वतथागतसत्ववज्रेभ्य इदं महाज्ञानहृदयचतुष्टयं निश्चचार ।
वज्रात्मक ॥

हृद्वज्राङ्कुश ॥

तिष्ठ रागवज्र प्रविश हृदयं ॥

अहो वज्रतुष्टि ॥

वज्रसत्वज्ञानमुद्रः, सर्वतथागतसमाजाधिष्ठानज्ञानमुद्रः, सर्वतथागतानुरागणज्ञानमुद्रः, महातुष्टिज्ञानमुद्रश्चेति । सर्वतथागतमहावज्रसमाधयः ॥

अथ वज्रपाणिः सर्वतथागतहृदयः पुनरपि सूक्ष्मज्ञानप्रवेशयोगेन स्वहृदयं प्रविष्ट्वा हृदये वज्रबिम्बमात्मानमधिष्ठायावस्थितः ॥

अथ ततो वज्रविग्रहादिदं हृदयचतुष्टयं निश्चचार ।
वज्ररत्नात्मक ॥

हृदय वज्रसूर्य ॥

तिष्ठवज्रध्वजाग्र वं ॥

हृदयवज्रहास ॥

सर्वतथागतवज्राभिषेकज्ञानमुद्रः, महाप्रभामण्डलव्यूहज्ञानमुद्रः, सर्वतथागताशापरिपूरणज्ञानमुद्रः, सर्वतथागतमहाहासज्ञानमुद्र इति । सर्वतथागतरत्नसमाध्यः ॥

अथ वज्रपाणिः पुनरपि सूक्ष्मवज्रज्ञानप्रवेशयोगेन स्वहृदयं वज्रहृदयं प्रविष्ट्वा वज्रबिम्बमात्मानमधिष्ठायावस्थितः ॥

अथ ततो वज्रबिम्बादिदं हृदयचतुष्टयं निश्चचार ।
वज्रपद्मात्मक ॥

हृद्वज्रकोश ॥

तिष्ठ वज्रचक्र हृदयं प्रविश ॥

वज्रजिव्हाग्र हृदय ॥

सर्वधर्मसमताज्ञानमुद्रः, सर्वतथागतप्रज्ञाज्ञानमुद्रः, महाचक्रप्रवेशज्ञानमुद्रः, सर्वतथागतधर्मवाग्निःप्रपञ्चज्ञानमुद्र इति । सर्वतथागतधर्मसमाधयः ॥

अथ वज्रपाणिः पुनरपि स्वहृदयवज्रहृदयवज्रात् सुसूक्ष्मज्ञानप्रवेशयोगेन तद्वज्रहृदयं प्रविष्ट्वा, पुनरपि सूक्ष्मवज्रबिम्बमात्मानमधिष्ठायावस्थितः ॥

अथ ततः सूक्ष्मवज्रबिम्बादिदं हृदयचतुष्टयं निश्चचार ।
सर्ववज्रात्मक ॥

हृद्वज्रकवच ॥

तिष्ठ वज्रयक्ष हृदय ॥

वज्रमुष्टिहृदय ॥

सर्वतथागतविश्वकर्मज्ञानमुद्रः, दुर्योधनवीर्यज्ञानमुद्रः, सर्वमारमण्डलविध्वंसनज्ञानमुद्रः, सर्वतथागतबन्धज्ञानमुद्र इति । सर्वतथागतकर्मसमाधयः ॥

अथ भगवान् वज्रपाणिः पुनरपि सुसूक्ष्मज्ञाननिमित्तस्फरणयोगेन सर्वतथागतकायेभ्यो निःक्रम्य, वज्रपाणिमहाबोधिसत्त्वकायः संभूय, पुनरपि वज्रसत्वादिमहाबोधिसत्वविग्रहाणि भूत्वा, स्वानि स्वानि चिन्हानि हृदयेषु प्रतिष्ठाप्य, वज्रधातुमहामण्डलसन्निवेशयोगेन चन्द्रमण्डलान्याश्रित्य स्वहृदयसमाधयः समापद्यावस्थिता इति ॥


Delineation of the मण्डल

अथ वज्रापाणिः पुनरपि सर्वतथागतसमाधिज्ञानाभिज्ञानिष्पादनार्थमिदं वज्रसूक्ष्मज्ञानमण्डलमभाषत ।

अथातः संप्रवक्ष्यामि धर्ममण्डलमुत्तमं ।
वज्रधातुप्रतीकाशं वज्रसूक्ष्ममिति स्मृतं ॥ १ ॥

महामण्डलयोगेन महासत्वान्निवेशयेत् ।
वज्रमध्ये लिखेद्बुद्धं बुद्धमण्डलकेष्वपि ॥ २ ॥

महासत्वाः समालेख्याः स्वमुद्राहृदयन्तथा । समाधितो निषण्णास्तु वज्रबन्धकरद्वया ॥ ३ ॥ इति ॥

Mudra

अथात्र वज्रसूक्ष्मधर्ममण्डल आकर्षणादिविधिविस्तरो, महामण्डलयोगेन प्रवेशादिविधिविस्तरं ज्ञानचिन्हं पाणिभ्यां दत्वा, स्वचित्तपरिकर्ममहामुद्राज्ञानं शिक्षयेत् ।

जिव्हां तालुगतां कृत्वा नासिकाग्रं तु चिन्तयेत् ।
सूक्ष्मवज्रसुखस्पर्शाद् भवेच्चितं समाहितं ॥ १ ॥

सूक्ष्मवज्रसुखस्पर्शनिमित्तं जायते यदा ।
स्फरयेत् तन्निमित्तन्तु तच्चित्तं सर्वतः स्फरेत् ॥ २ ॥

यथेच्छास्फरणाच्चित्तं त्रैधातुकमपि स्फरेत् ।
पुनस्तु संहरेत् तत् तु यावन्नासाग्रमागतं ॥ ३ ॥

ततः प्रभृति यत्किञ्चद् भावयेत् सुसमाहितः ।
सर्वं चैतद् दृढीकुर्यात् समाधिज्ञानकल्पितं ॥ ४ ॥

अथैषां हृदयानि भवन्ति ।
सूक्ष्म वज्र ॥

स्फर वज्र ॥

संहर वज्र ॥

वज्र दृढ तिष्ठ ॥

मैत्री यस्य सत्वस्य सह भूयात् महादृढा ।
चित्तस्फरणयोगेन सर्वसत्वेषु तां स्फरेत् ॥ १ ॥

मैत्रीस्फरणयोगेन कारुण्यं यस्य कस्यचित् ।
सर्वसत्वार्थयुक्तस्तु स्फरेद्वै प्रतिपत्तितः ॥ २ ॥

प्रकृतिप्रभास्वराः सर्वे ह्यादिशुद्धा नभःसमाः ।
अधर्मोऽप्यथ वा धर्म्[अः स्फ]रं भावेन तुष्यति ॥ ३ ॥

दुर्दुरूटसममुख्या बुद्धबोधावभाजयाः । तेषां संशोधनार्थाय महोपेक्षां तु भावयेद् ॥ इति ॥ ४ ॥

तत्रैतानि हृदया[नि भवन्ति] ।
महामैत्र्या स्फर ॥

महाकरुणया स्फर ॥

सर्वशुद्ध प्रमोद स्फर ॥

सर्वसत्वान् संबोधय ॥

ततः सर्वतथागतानुस्मृतिज्ञानं शिक्षयेत् ।

आकाशे वान्यदेशे वा सूक्ष्मवज्रप्रयोगतः ।
उत्थितो वा निषण्णो वा वज्रबिम्बं तु भावयेत् ॥ १ ॥

तथैव सर्वस्थानेषु सुक्ष्मवज्रप्रयोगतः ।
हृद्वज्रं बोधिसत्वं तु भावयेत्सुसमाहितः ॥ २ ॥

वज्रपाणिमहाबिम्बं सर्वस्थानेषु भावयेत् ।
सूक्ष्मवज्रप्रयोगेण यथावदनुपूर्वशः ॥ ३ ॥

सर्वाकारवरोपेतं बुद्धबिम्बं तु सर्वतः । यथावदनुपूर्वेण भावयेत्सुसमाहित ॥ इति ॥ ४ ॥

तत्रैतानि हृदयानि भवन्ति ।
वज्रामुखीभव ॥

महाबोधिसत्वाविश ॥

वज्रपाणि दर्शय स्वं रूपं ॥

बुद्धानुस्मृत्याविश ॥

सूक्ष्मवज्रप्रयोगेण भावयेत्स्वयमात्मना ।
चन्द्रबिम्बं स्वमात्मानं बोधिचित्तस्य भावना ॥ १ ॥

चन्द्रमण्डलमध्ये तु भावयेत्स्वयमात्मना ।
वज्रबिम्बं स्वमात्मानं सत्ववज्रस्य भावना ॥ २ ॥

सूक्ष्मवज्रविधिं योज्य भावयेत्स्वयमात्मना ।
सत्ववज्रहृदात्मानं वज्रसत्वस्य भावना ॥ ३ ॥

सर्वाकारवरोपेतं भावयेत्स्वयमात्मना । बुद्ध बिम्बं स्वमात्मानं बुद्धबोधेस्तु भावना ॥ इति ॥ ४ ॥

तत्रेमानि हृदयानि भवन्ति ।
समन्तभद्राविश ॥

सत्ववज्राविश ॥

वज्रसत्वसमाधिज्ञानाविश ॥

तथागतोऽहं ॥

ततः सर्वतथागतधर्मतारहस्यमुद्राज्ञानं शिक्षयेत् ।

तथागतसमोऽहं हि वज्रवाचा सकृद्वदन् ।
द्वयेन्द्रियसमापत्त्या सर्वसत्वां स मारयेत् ॥ १ ॥

महावज्रसमोऽहं हि वज्रवाचा सकृद्वदन् ।
द्वयेन्द्रियसमापत्त्या लोकमाकर्षयेद्ध्रुवं ॥ २ ॥

वज्रधर्मसमोऽहं हि वज्रवाचा सकृद्वदन् ।
द्वयेन्द्रियसमापत्त्या सर्वलोकं स नाशयेत् ॥ ३ ॥

विश्ववज्रसमोऽहं हि वज्रवाचा सकृद्वदन् । द्वयेन्द्रियसमापत्त्या सर्वकर्म स साधयेद् ॥ इति ॥ ४ ॥

ततः सर्वतथागतज्ञानवज्राधिष्ठानसमाधिमुद्राज्ञानं शिक्षयेत् ।
सूक्ष्मवज्रप्रयोगेण भावयेद्वज्रमध्यतः ।
बुद्धबिम्बं स्वमात्मानं बुद्धत्वं सो ह्यवाप्नुयाद् ॥ इति ॥

ततो वज्रसत्वसमाधिमुद्राज्ञानं शिक्षयेत् ।
सुक्ष्मवज्रविधिं योज्य हृदि वज्रादयो गणाः ।
भावयं वज्रसत्वाद्याः प्रददन्ति स्वसिद्धये ॥ इति ॥

ततः सर्वतथागतकुलसमाधिसमयमुद्राज्ञानं शिक्षयेत् ।

वज्रबन्धसमुद्भूताः षोडशस्तु प्रकीर्तिताः ।
समाधिसमयाग्र्यस्तु तासां बन्धः प्रवक्ष्यते ॥ १ ॥

पर्यङ्कस्था समुत्ताना वलितोद्ववलिता तथा ।
हृदिस्था च चतुर्थी तु वज्रसत्वादिमण्डले ॥ २ ॥

ललातस्था शिरः पृष्ठे स्कन्धे हासप्रयोजिता ।
मुखधात्री हृदि खड्गा हृद्विकासा मुखस्थिता ॥ ३ ॥

मू(र्धन्)वक्षस्तु वक्त्रस्था ज्येष्ठस्था पुरतस्तथा । अतः परं समासेन धर्ममुद्रास्तु शिक्षयेद् ॥ इति ॥ ४ ॥

दृ क्कि । ग्र ग्र । म टः । अ ग्र । त्रं त्रं । अं अं । चं चं । त्र टः । धृ टः । भृ टः । क्र सः । ह हः । व व । वं वं । फ टः । ग्र सः ॥

ततस्तु धर्मकर्माग्र्य शिक्षयेत्सूक्ष्मवज्रिणं ।
ज्ञानमुष्टिन्तु समायां द्विधीकृत्य प्रयोजयेद् ॥ इति ॥

सर्वतथागतमहायानाभिसमयान्महाकल्पराजाद् वज्रज्ञानधर्ममण्डलविधिविस्तरः परिसमाप्तः ॥


अध्याय 4
VAJRA-KARYA-KARMA-MANDALA-VIDHI-VISTARA

I.4 Emanation of deities from समाधि

अथ भगवान् पुनरपि सर्वतथागतानुत्तरपूजाविधिविस्तरस्फरणकर्मसमयवज्राधिष्ठानन् नाम समाधिं समापद्येमं स्वविद्योत्तममभाषत् ॐ सर्वतथागत वज्रधात्वनुत्तरपूजास्फरण समये हूं ॥

अथ खल्वक्षोभयस्तथागताः सर्वतथागतवज्रसत्वानुत्तरपूजाविधिविस्तरस्फरणकर्मसमयवज्राधिष्ठानं नाम समाधिं समापद्येमं स्वविद्योत्तममभाषत् ॐ सर्वतथागतवज्रसत्वानुत्तरपूजास्फरणसमये हूं ॥

अथ खलु रत्नसंभवस्तथागतः सर्वतथागतवज्ररत्नानुत्तरपूजाविधिविस्तरस्फरणकर्मसमयवज्राधिष्ठानं नाम समाधिं समापद्येमं स्वविद्योत्तममभाषत् ॐ सर्वतथागतवज्ररत्नानुत्तरपूजास्फरणसमये हूं ॥

अथ खल्वमितायुस्तथागतः सर्वतथागतवज्रधर्मानुत्तरपूजाविधिविस्तरस्फरणकर्मसमयवज्राधिष्ठाननाम समाधिं समापद्येमं स्वविद्योत्तममभाषत् ॐ सर्वतथागतवज्रधर्मानुत्तरपूजास्फरणसमये हूं ॥

अथ खल्वमोघसिद्धिस्तथागतः सर्वतथागतवज्रकर्मानुत्तरपूजाविधिविस्तरस्फरणकर्मसमयवज्राधिष्ठानं नाम समाधिं समापद्येमं स्वविद्योत्तममभाषत् ॐ सर्वतथागतवज्रकर्मानुत्तरपूजास्फरणसमय हूं ॥

अथ भगवान् वैरोचनः पुनरपि सर्वतथागतपूजाविधिविस्तरसकलधर्मधातुस्फरणकर्मसमयवज्रन्नाम समाधिं समापन्नः॑ समनन्तरसमापन्ने चाथ तावदेव सर्वतथागतहृदयेभ्यः स एव भगवां वज्रधरः सकलधर्मधातुस्फरणाः सर्वाकाशधातुसमवसरणाः सर्वविचि[त्र]पूजाव्यूहविधिविस्तरमेघसमुद्रदेवता भूत्वा विनिःसृत्य, सर्वलोकधातुप्रसरमेघसमुद्रसर्वतथागतपर्षन्मडलेषु सर्वतथागतानुत्तरमहाबोधिचित्तोत्पादनसर्वतथागतकुलारागणसमन्तभद्रचर्यानिष्पादनमहो बोधिमण्डपसंक्रममणसर्वमारधर्षणसर्वतथागत[समता]भिसंभुध्यनसर्वतथागतमहामण्डलोत्पादनसकलत्रिलोकविजयसद्धर्मचक्रप्रवर्तनाशेषानवशेषसत्वधात्वर्थकरणादिनि सर्वबुद्धर्द्धिविकुर्वितानि सन्दर्शयन्तोऽवस्थिताः ॥

ताश्च पूजामेघसमुद्रदेवताः स्वमुद्राव्यग्रकरयुगलाः सर्वतथागतान् विधिवत्संपूज्य, वज्रधातुमहामण्डलयोगेन चन्द्रमण्डलाश्रितो भूत्वेदमुदानमुदानयामासुः ।

अहो हि बुद्धपूजाहं सर्वपूजाप्रवर्तिका ।
यद्बुद्धत्वमहत्वं तु सर्वबुद्धददन्ति हि ॥

अथ वज्रपाणिः पुनरपि सर्वतथागतपूजादिकर्मविधिविस्तरं वज्रकार्यन्नाम कर्ममण्डलमभाषत् ।

ॐ सर्वतथागतसर्वात्मनिर्यातनपूजास्फरण कर्मवज्रि अः ।
ॐ सर्वतथागतसर्वात्मनिर्यातनाकर्षणपूजास्फरण कर्माग्रि ज्जः ॥

ॐ सर्वतथागतसर्वात्मानिर्यातनानुरागणपूजास्फरण कर्मवाणे हूं होः ॥

ॐ सर्वतथागतसर्वात्मनिर्यातनसाधुकारपूजास्फरण कर्मतुष्टि अः ॥

सर्वतथागतसुखसुखा, सर्वतथागताकर्षणी, सर्वतथागतानुरागिणी, सर्वतथागतसंतोषणी चेति सर्वतथागतमहापूजाः ॥

ॐ नमः सर्वतथागतकायाभिषेकरत्नेभ्यो वज्रमणिं ॐ ॥

ॐ नमः सर्वतथागतसूर्येभ्यो वज्रतेजिनि ज्वाल ह्रीः ॥

ॐ नमः सर्वतथागताशापरिपूरणचिन्तामणिध्वज्राग्रेभ्यो वज्रध्वजाग्रे त्रं ॥

ॐ नमः सर्वतथागतमहाप्रीतिप्रामोद्यकरेभ्यो वज्रहासे हः ॥

महाधिपतिनी, महोद्योता, महारत्नवर्षा, महाप्रीतिहर्षा चेति सर्वतथागताभिषेकपूजाः ॥

ॐ सर्वतथागतवज्रधर्मतासमाधिभिः स्तुनोमि महाधर्माग्रिह्रीः ॥

ॐ सर्वतथागतप्रज्ञापारमितानिर्हारैः स्तुनोमि महाघोषानुगे धं ॥

ॐ सर्वतथागतचक्राक्षरपरिवर्तादिसर्वसूत्रान्तनयैः स्तुनोमि सर्वमण्डले हूं ॥

ॐ सर्वतथागसन्धाभाषबुद्धसंगीतिभिर्गायन् स्तुनोमि वज्रावाचे वं ॥

महाज्ञानगीता, महाघोषानुगा, सर्वमण्डलप्रवेशा, मन्त्रचर्या चेति ।
सर्वतथागतधर्मपूजाः ॥

ॐ सर्वतथागतधूपमेघस्फरणपूजाकर्मे कर कर ॥

ॐ सर्वतथागतपुष्पप्रसरस्फरणपूजाकर्मे किरि किरि ॥

ॐ सर्वतथागतालोकज्वालस्फरणपूजाकर्मे भर भर ॥

ॐ सर्वतथागतगन्धसमुद्रस्फरणपूजाकर्मे कुरु कुरु ॥

सत्ववती, महाबोध्यङ्गवती, चक्षुष्मती, गन्धवती चेति । सर्वतथागतकर्मपूजाः ॥


Delineation of the मण्डल

अथात्र वज्रकार्यकर्ममण्डलं भवत्यशेषानवशेषतथागतपूजाप्रवर्तकमिति ॥

अथातः संप्रवक्ष्यामि कर्मण्डलमुत्तमं ।
वज्रधातुप्रतीकाशं वज्रकार्यमिति स्मृतं ॥

महामण्डलयोगेन बुद्धबिम्बान्निवेशयेत् ।
वज्रसत्वादियोगेन समुद्रा देवता लिखेद् ॥ इति ॥


Initiation into the mandala

अथात्र वज्रकार्यकर्ममण्डलप्रवेशादिविधिविस्तरो भवति ॥

तत्रादित एव प्रवेशयेत् वज्रधातुप्रवेशयोगेन । प्रवेश्यैवं वदेत् । "सर्वतथागतपूजासमयोऽयं । तत्त्वया दिनेदिने एताः षोडशपूजा यथाशक्तितः कार्या" इति ॥

ततो मुखबन्धं मुक्त्वा, कर्ममण्डलं दर्शयित्वा, विश्वचिन्हं पाणिभ्यां दद्यात् ॥

ततः सर्वतथागतैरपि स पूज्यते, कः पुनर्वादोऽन्यैरिति ॥

Mudra

ततो महबोधिचित्तनिष्पत्तिपूजामुद्राज्ञानं शिक्षयेत् ।

बोधिचित्तदृढोत्पादाद्बुद्धोऽहमिति चिन्तयन् ।
रत्ना तु पुजयन्नात्मा लभेद् बुद्धसुखान्यपि ॥ १ ॥

बोधिचित्तदृढोत्पादाद् बुद्धोऽहमिति चिन्तयन् ।
मलादिभिः प्रपूजाभिः संपूज्यात्माभिषिच्यते ॥ २ ॥

बोधिचित्तदृढोत्पादाद्बुद्धोऽहमिति चिन्तयन् ।
गीतिसौख्यप्रपूजाभिः संपूज्यात्मा स रागयेत् ॥ ३ ॥

बोधिचित्तदृढोत्पादाद्बुद्धोऽहमिति चिन्तयन् । नृत्यतः पूजयन्नात्मा बुद्धैरपि स पूज्यते ॥ ४ ॥ इति ॥

तत्रेमानि हृदयानि भवन्ति ।
बुद्धात्माहं ॥

बुद्धमभिषिञ्चामि ॥

बुद्धस्तुतिङ्करोमि ॥

बुद्धपूजाङ्करोमि ॥

ततः सर्वबुद्धपूजामुद्राज्ञानं शिक्षयेत् ।

कायवाक्चित्तवज्राग्र्यप्रयोगैः प्रणमन्तथा ।
पूजयं सर्वबुद्धांस्तु वन्दनीयो भवेद् ध्रुवं ॥ १ ॥

सर्वबुद्धमहापुण्यकायावाक्चित्तवज्रजं ।
अनुमोदनपूजात्मा बुद्धत्वं क्षिप्रमाप्नुयात् ॥ २ ॥

आत्मानियतिनाद् दिव्यकायवाक्चित्तवज्रतः ।
सर्वपूजाभिः संबुद्धान् पूजयामीति पूज्यते ॥ ३ ॥

सर्व कुशलसंभारङ्कायवाक्चित्तवज्रतः । परिणामनपूजाभिः सर्वबुद्धसमो भवेद् ॥ इति ॥ ४ ॥

तत्रैतानि भवन्ति ।
प्रणमामि ॥

अनुमोदे ॥

बुद्धपूज ॥

परिणाम ॥

ततो धर्मपूजामुद्राज्ञानं शिक्षयेत् ।

प्रकृतिप्रभास्वरा धर्मा ह्यादिशुद्धाः स्वभावतः ।
पूजितोऽनेन धर्मेण लभेद् रतिसुखानि तु ॥ १ ॥

अ-कारस्तु मुखं वाच्यं सर्वधर्मसमुच्चये ।
अनया धर्ममुद्रया सर्वदुःखांश्छिनत्ति सः ॥ २ ॥

सर्वेषामेव धर्माणां हेतुरत्र तथागतः ।
सद्धर्मचक्रपूजया पूज्य धर्मधरो भवेत् ॥ ३ ॥

प्रतिश्रुत्कोपमानुक्त्वा सर्वधर्मा स्वभावतः ।
अनया धर्मपूजया संपूज्य स्वरतां लभेत् ॥ ४ ॥

तत्रैतानि हृदयानि भवन्ति ।
सर्वशुद्ध ॥

समन्तभद्र ॥

धर्मचक्र ॥

निःप्रपञ्च ॥

ततः समाधिपूजामुद्राज्ञानं शिक्षयेत् ।

कायवाक्चित्तवज्रेषु स्वकीयाः परमाणवः ।
भावयन्वज्रविम्बानि वज्रात्मा भवे[त्क्षिप्रं] ॥ १ ॥

कायवाक्चित्तवज्रेषु स्वकीयाः परमाणवः ।
भावयन् सर्वबुद्धांस्तु धर्मकायो भवेल्लघु ॥ २ ॥

कायवाक्चित्तवज्रेषु स्व(कीयाःपरमा)णवः ।
भावयन्वज्रसत्वांस्तु वज्रसत्वसमो भवेत् ॥ ३ ॥

कायवाक्चित्तवज्रेषु स्वकीयाः परमाणवः । भावयन् बुद्धबिम्बानि संबुद्धत्वमवाप्नुयाद् ॥ इति ॥ ४ ॥

तत्रैतानि हृदयानि भवन्ति ।
वज्रकाय ॥

धर्मकाय ॥

सत्वकाय ॥

बुद्धकाय ॥

ततो रहस्यपूजामुद्राज्ञानं शिक्षयेत् ।

सर्वकायपरिष्वङ्गसुखपूजा स्वयंभुवा ।
निर्यातयं भवेच्छीघ्रं वज्रसत्वसमो हि सः ॥ १ ॥

दृढानुरागसंयोगकचग्रहसुखानि तु ।
निर्यातयंस्तु बुद्धानां वज्ररत्नसमो भवेत् ॥ २ ॥

दृढप्रतीतिसुखसक्तिचुम्बिताग्र्यसुखानि तु ।
निर्यातयंस्तु बुद्धानां वज्रधर्मसमो भवेत् ॥ ३ ॥

द्वयेन्द्रियसमापत्तियोगसौख्यानि सर्वतः । निर्यातयंस्तु पूजायां वज्रकर्मसमो भवेद् ॥ इति ॥ ४ ॥

तत्रैतानि गुह्यमुद्राहृदयानि भवन्ति ।
रतिवज्र ॥

रागवज्र ॥

प्रीतिवज्र ॥

कामवज्र ॥

ततः सर्वतथागतपूजाकर्ममहामुद्राज्ञानं शिक्षयेत् ।

हृत्पार्श्वपृष्ठतो योगाल्ललाटादेस्तथैव च ।
मुखकर्णशिरःपृष्ठमूर्धासासकटिस्थितेति ॥

ततः सर्वतथागतपूजाकर्मसमयमुद्राज्ञानं शिक्षयेत् ।

वज्रबन्धं दृढीकृत्य महामुद्राप्रयोगतः ।
हृदयादिस्थानयोगेन स्थापयन्पूजयेज्जिनान् ॥ इति ॥

ततः सर्वतथागतपूजाधर्मज्ञानं शिक्षयेत् ।

ॐ ग्रयः य्यः सा । त्रि रं हं नः । खं षं हूं हि । श ण सिः सं ।

कर्ममुद्राः समासेन कर्ममुद्रा द्विधीकृता ॥ इति ॥

सर्वतथागतमहायानाभिसमयान्महाकल्पराजाद्वज्रकार्यकर्ममण्डलविधिविस्तरः परिसमाप्तः ॥

अध्याय 5
EPILOGUE OF THE SARVA-TATHAGATA-MAHAYANABHISAMAYA NAMA MAHA-KALPA-RAJA

1.5 Emanation of deities

अथ भगवान् वैरोचनस्तथागतः सर्वतथागताधिष्ठानेन सर्वतथागतकुलमुत्पाद्य, अस्य सर्वतथागतकुलमहाकल्पविधिविस्तरस्य सर्वसिद्धिसंग्रहार्थमिदं सर्वतथागतमुद्राहृदयमभाषत् ॐ सर्वतथागतमुष्टि वं ॥

अथ खल्वक्षोभयस्तथागतः सर्वतथागताधिष्ठानेन सर्वतथागतकुलमुत्पाद्यास्य सर्वतथागतकुलमहाकल्पविधिविस्तरस्य सर्वसिद्धिसंग्रहार्थमिमां सर्वतथागतमुद्रामभाषत् ॐ वज्रसत्वमुष्टि अः ॥

अथ रत्नसंभवस्तथागतः सर्वतथागताधिष्ठानेन सर्वतथागतकुलमुत्पाद्यास्य सर्वतथागतकुलमहाकल्पविधिविस्तरस्य सर्वसिद्धिसंग्रहार्थमिमां सर्वतथागतमुद्रामभाषत् ॐ वज्ररत्नमुष्टि त्रं ॥

अथामितायुस्तथागतः सर्वतथागताधिष्ठानेन सर्वतथागतकुलमुत्पाद्यास्य सर्वतथागतकुलमहाकल्पविधिविस्तरस्य सर्वसिद्धिसंग्रहार्थमिमां सर्वतथागतमुद्रामभाषत् ॐ वज्रधर्ममुष्टि खं ॥

अथामोघसिद्धिस्तथागतः सर्वतथागताधिष्ठानेन सर्वतथागतकुलमुत्पाद्यास्य सर्वतथागतकुलमहाकल्पविधिविस्तरस्य सर्वसिद्धिसंग्रहार्थमिमां सर्वतथागतमुद्रामभाषत् ॐ वज्रकर्ममुष्टि हां ॥

Delineation of the मण्डल

अथ वज्रपाणिर्महाबोधिसत्वः स्वाधिष्ठानेन भगवतो वैरोचनस्य तथागतस्य सर्वतथागतकुलमुत्पाद्यास्य सर्वतथागतकुलमहाकल्पविधिविस्तरस्य सर्वसिद्धिसंग्रहायेदं वज्रसिद्धिन्नाम चतुर्मुद्रामण्डलमभाषत् ।

अथातः संप्रवक्ष्यामि मुद्रामण्डलमुत्तमं ।
वज्रधातुप्रतीकाशं वज्रसिद्धिरिति स्मृतं ॥ १ ॥

महामण्डलयोगेन सूत्रयेत विचक्षणः । बुद्धबिम्बन्निवेश्यादौ लिखेन्मुद्राचतुष्टयं ॥ २ ॥ ॥

चन्द्रमण्डलमध्येषु वज्रमुद्रादयो लिखेद् ॥ इति ॥ ३ ॥

Initiation into the mandala

अथात्र वज्रसिद्धिमुद्रामण्डल आकर्षणादिविधिविस्तरङ्कृत्वा तथैव प्रवेश्यैवं ब्रुयात् । "न त्वया कस्यचिदिमं रहस्यपटलमुद्घाटयितव्यं । तत्कस्य हेतोः? सन्ति सत्वा दुर्दृष्टयः पापकर्माणो हीनवीर्या वैकल्यरहिताः चित्रकर्मण्यनभिज्ञाः॑ ते वज्रधात्वादिषु सर्वतथागतकुलमण्डलेषु महत्स्विति कृत्वा हीनवीर्यतया न प्रविशन्ते । तेषामर्थायेदं वज्रसिद्धिमुद्रामण्डलं सर्वतथागतकुलमण्डलसमयभूतमशेषानवशेषसत्वधातुपरित्राणसर्वहितसुखसौमनस्यानुभवनार्थ यावत् सर्वतथागतवज्रोत्तमसिद्धिनिमित्तमधिष्ठितमिति । न त्वयैषां सर्वतथागतकुलसमयमुद्रारहस्यानां न प्रत्यभिश्रद्धानीयं । मा ते नरकतिर्यक्प्रेतोपपत्तिः स्यात्, विषमापरिहारेण वाकालमरणं स्याद्" इत्युक्त्वा, मुखबन्धं मुक्त्वा मण्डलं दर्शयेत् ।

Mudra

ततः सर्वतथागतमुद्रासमयं ब्रूयात् ।

यां यां मुद्रां तु बध्नीयाद्य[स्य य]स्य महात्मनः ।
जपंस्तु हृदयार्थेन भावयेत्तं स्वमात्मना ॥ १ ॥

अनेन ज्ञानयोगेन सिद्धिं यान्ति महात्मनां ।
सर्वमुद्रास्तु सर्वेषां वज्रपा[णेर्व]चो यथा ॥ २ ॥

ततः सर्वमुद्रारहस्यं ब्रुयात् ।
विदार्य स्वेन्द्रियं गृण्हेद्वज्रमुष्टिग्रहेण तु ।
तेन मुद्रां स्पृशेद्यां तु सा वशं याति तत्क्षणात् ॥

ततः सर्वमुद्राधर्मतां ब्रुयात् ।

सूक्ष्मवज्रविधिं योज्य ज्ञानमुद्रां तु बन्धयेत् ।
अनेन विधियोगेन ज्ञानमुद्रां वशन्नयेत् ॥

ततः सर्वमुद्राकर्म ब्रुयात् ।

गीतनृत्यरसाहारविहारादिसुखानि तु ।
निर्यातयंस्तु बुद्धेभ्यः कर्ममुद्रावशन्नयेद् ॥ इति ॥

ततः सर्वमण्डलसाधिकारहस्यमुद्राज्ञानं शिक्षयेत् ।

स्तब्धलिङ्गः स्वयंभूत्वा निपद्येत्पटके सिते ।
लिङ्गं चैत्यमधिष्ठाय वज्रधातुरहं स्वयं ॥ १ ॥

वज्रबन्धं दृढीकृत्य मध्यमोत्थसमाङ्कुरा ।
कन्यसाग्र्या मुखोत्थानान्समयः समयाग्रीणां ॥ २ ॥

सूक्ष्मवज्रप्रयोगेण भावयेत्स समाहितः ।
मण्डलं सूक्ष्मवज्रां तु समाधिवशितां नयन् ॥ ३ ॥

वज्रमुद्राद्विकं बध्वा गृण्हेद् वज्रन्तयोर्दृढम् । कनिष्ठाग्रा निबन्धेन वज्रकार्याग्रमण्डल ॥ ४ ॥ इति ॥

"ततो यथावद् वज्रसत्वादिमहामुद्राबन्धचतुष्टयं शिक्षयित्वा, यथावद् वज्रधातुमहामण्डलविधिविस्तर इति, यथावज्रसिद्धिचतुर्मुद्रामण्डलमेवमक्षोभयादीनि सर्वमण्डलानि चतुर्मुद्रामण्डलयोगेन लिखेत् । स्वाभिः स्वाभिर्मुद्राभिः सर्वसिद्धयो ददन्तीति । एवम्पटाकुड्याकाशसर्वस्थानाभिलिखितानि सर्वसिद्धयो ददन्तीति ॥

मण्डलकल्पनात्प्रभृति केषांचित्तस्मिन्नेव मण्डलप्रवेशे सिद्धिर्यथाभिरुचिता, केषांचित्तत आरभ्य दिवसेन, केषांचिद् दिवसचतुष्टयेत्, केषांचिच्छोडशाहात्, केषांचित्पञ्चानन्तर्यकारिणामपि यथाकामं सुखतः सर्वकार्याणि कुर्वतां सर्वानुरागसर्वरसाहारविहारसुखान्यनुभवतां वर्षेणोत्तमा सिद्धिरिति भगवता निदिष्टेति ॥

१.६ Emanation of the deity from samadhi

अथ भगवान् वैरोचनः पुनरपि सर्वतथागतोत्तमसिद्धिसमयवज्रन्नाम समाधिं समापद्येमं सर्वतथागतमहायानाभिसमयन्नाम सर्वतथागतहृदयं स्वहृदयान्निश्चचार वज्रसत्व ॥

Delineation of the मण्डल

अथ भगवान् वज्रपाणिर्महाबोधिसत्वः अशेषानवशेषसत्वधातुपरित्राणसर्वहितसुखसौमनस्यानुभवनार्थं यावत्सर्वतथागतसर्वोत्तमसिद्धये इदं महायानाभिसमयमण्डलमभाषत् ।

अथातः संप्रवक्ष्यामि सत्वमण्डलमुत्तमं ।
वज्रधातुप्रतीकाश वज्रसत्वमिति [स्मृतं] ॥ १ ॥

महामण्डलयोगेन सुत्रयेद्बाह्यमण्डलं । चन्द्रमण्डलमध्ये तु वज्रसत्वन्निवेशयेद् ॥ २ ॥ इति ॥

Initiation into the mandala

ततो यथावदाकर्षण[प्रवेशादिं कृ]त्वा सर्वतथागतसिद्धिज्ञानान्युत्पादयेत् ॥

तत्र प्रथमन्तावद्वक्तव्यं "न त्वया कस्यचिददृष्टसमयस्यैषां रहस्यानाम[कोवि]दस्य वक्तव्यं । मा ते सर्वापायोपपत्तये भवेयु, र्विषमापरिहारेणाकालमरणं वा स्याद्" इति ॥

ततो वज्रसत्वोत्तमसिद्धिसाधनज्ञानं शिक्षयेत् ।

पूर्णचन्द्रमण्डलारूढो महामुद्रापरिग्रहः ।
वज्रसत्वं स्वमात्मानं भावयं सिध्यते लघु ॥ रिति ॥

ततः सर्वमण्डलगुह्यसमयज्ञानं शिक्षयेत् ।

विरागसदृशं पापमन्यन्नास्ति त्रिधातुके ।
तस्मात्कामविरागित्वं न कार्यं भवता पुनः ॥

महासमय हन् फट् ॥

ततः शपथहृदयं दद्यादेवं । सर्वतथागतकुलमण्डलेषु विधिविस्तरेषु समयसंवरन्दातव्यं ॥

ततो वज्रसत्वमहामुद्रादिबन्धचतुष्टयं शिक्षयेत् । तथैव सिद्धय इति ।

एवं पटादिषु सर्वप्रतिमासु च मनीषितविधानेन सर्वसिद्धयो ददन्ति । एवं यथा वज्रधातुमहामण्डलविधिविस्तर इति ॥

Mudra

अथ सर्वतथागताः पुनरपि समाहजामागत्य, भगवते सर्वतथागताधिपतये महाबोधिचित्ताय वज्रसत्वाय महावज्रपाणये वज्रतुष्ट्यानेन हृदयेन साधुकारमददुः ॐ ॥

साधु ते वज्रसत्वाय वज्ररत्नाय साधु ते ।
वज्रधर्माय ते साधु साधु ते वज्रकर्मणे ॥ १ ॥

सुभाषितमिदं सूत्रं वज्रयानमनुत्तरं ।
सर्वतथागतं गुह्यं महायानाभिसंग्रहं ॥ २ ॥

वज्रसत्वस्य नामापि सर्वसिद्धिकरं परं ।
साध्यमानस्तु शुद्ध्या वै सुखैर्बुद्धत्वमाप्नुयात् ॥ ३ ॥

वज्रधर्मप्रयोगेण सर्वकामसुखैः सुखं । साधयेज्जन्मनीहैव सुखमक्षयमव्ययम् ॥ ४ ॥ इति ।

सर्वतथागततत्वसंग्रहात्सर्वतथागतमहायानाभिसमयो नाम महाकल्पराजा समाप्तः ॥

अध्याय 6
TRILOKAVIJAYA-MAHA-MANDALA-VIDHI-VISTARA

Hymn of 108 names of महाचक्रवर्तिन

अथ भगवन्तः सर्वतथागताः पुनः समाजमागम्य, भगवन्तं सर्वतथागतमहाचक्रवर्तिनमनेन नामाष्टशतेनाध्येषितवन्तः ।

वज्रसत्व महावज्र वज्रनाथ सुसाधक ।
वज्राभिषेक वज्राभ वज्रकेतु नमो [ऽस्तुते] ॥ १ ॥

हासवज्र महाधर्म वज्रकोश महावर ।
सर्वमण्डलराजाग्र्य निःप्रपञ्च नमोऽस्तु ते ॥ २ ॥

वज्रकर्म महारक्ष चण्डयक्ष महाग्रह ।
वज्रमुष्टि महामुद्र सर्वमुद्र नमोऽस्तु ते ॥ ३ ॥

बोधिचित्त महाबोधे बुद्ध सर्वतथागत् ।
वज्रयान् महाज्ञान महायान नमोऽस्तु ते ॥ ५ ॥

सर्वार्थ सर्वतत्वार्थ महासत्वार्थ सर्ववित् ।
सर्वज्ञ सर्वकृत्सर्व सर्वदर्शि नमोऽस्तु ते ॥ ५ ॥

वज्रात्मक सुवज्राग्र्य वज्रवीर्य सुवज्रधृक् ।
महासमय तत्वार्थ महासत्य नमोऽस्तु ते ॥ ६ ॥

वज्राङ्कुश महाकाम सुरते सुमहाप्रभ ।
वज्रप्रभ प्रभोद्योत बुद्धप्रभ नमोऽस्तु ते ॥ ७ ॥

वज्रराजाग्र्य वज्राग्र्य विद्याग्र्याग्र्य नरोत्तम ।
वज्रोत्तम महाग्र्याग्र्य विद्योत्तम नमोऽस्तु ते ॥ ८ ॥

वज्रधातो महागुह्य वज्रगुह्य सुगुह्यधृक् ।
वज्रसूक्ष्म महाध्यान वज्रकार्य नमोऽस्तु ते ॥ ९ ॥

बुद्धाग्र्य बुद्धवज्राग्र्य बुद्धबोधे महाबुध ।
बुद्धज्ञान महाबुद्ध बुद्धबुद्ध नमोऽस्तु ते ॥ १० ॥

बुद्धपूजा महापूजा सत्वपूजा सुपूजक ।
महोपाय महासिद्धे वज्रसिद्धि नमोऽस्तु ते ॥ ११ ॥

तथागतमहाकाय तथागतसरस्वते ।
तथागतमहाचित्त वज्रचित्त नमोऽस्तु ते ॥ १२ ॥

बुद्धाधिप जिनाज्ञाकृद्बुद्धमित्रे जिनाग्रज ।
महावैरोचन विभो[शास्ता]शान्तरौद्र नमोऽस्तु ते ॥ १३ ॥

तथागतमहातत्व भूतकोटे महानय ।
सर्वपारमिताज्ञान परमार्थ नमोऽस्तु ते ॥ १४ ॥

समन्तभद्र चर्याग्र्य मार मारप्रमर्दक ।
सर्वाग्र्य समाताज्ञान सर्वत्रग नमोऽस्तु ते ॥ १५ ॥

बुद्धहुंकर हुंकर वज्रहुंकर दामक ।
विश्ववज्राङ्ग वज्रोग्र वज्रपाणे नमोऽस्तु ते ॥ १६ ॥

वन्द्यः पूज्यश्च मान्यश्च सत्कर्तव्यस्तथागतैः ।
यस्माद्वज्रदृढं चित्तं वज्रसत्वस्त्वमुच्यसे ॥ १७ ॥

त्वदधीना हि संबोधि पिता त्वं सर्वदर्शिनां ।
संभूताः संभविष्यन्ति त्वामासाद्य तथागताः ॥ १८ ॥

अनेन स्तोत्रराजेन स्तुयाद्वै सुभक्तितः ।
यो गायंस्तु स्तुयात्सोऽपि भवेद्वज्रधरोपमः ॥ १९ ॥

अध्येषयामस्त्वान्नाथ सर्वबुद्धवशङ्करं । सर्वसत्वार्थकार्यार्थमुत्पादय कुलं स्वकम् ॥ २० ॥ इति ॥

Subjugation of Mahesvara and his retinue

अथ वज्रपाणिः सर्वतथागताधिपतिः सर्वतथागताध्येषणवचनमुपश्रुत्य, तद्वज्रं स्वहृदि प्रतिष्ठाप्य, तान् सर्वतथागतान् आहूयैवमाह । "भागवन्तः सर्वतथागता न प्रतिपद्यामि" ॥ सर्वतथागता प्राहुः । "को हेतुः?" ॥ वज्रधरः प्राह । "सन्ति भगवन्तः सत्वाः महेश्वरा दिदुष्टस] त्वा, ये युष्माभिरपि सर्वतथागतैरविनेयाः, तेषां मया कथं प्रतिपत्तव्यम्!" ॥

अथ भगवान् वैरोचनस्तथागतः [सर्वतथाग]ताधिष्ठानेन सर्वतथागतमहोपायज्ञानवज्रन्नाम समाधिं समापन्नः । समनन्तरसमापन्ने चाथ तावदेव स[र्वतथाग]ताः सकलाकाशधातुपरमाणुरजः समवसरण[स्फरण] ताय सुमेरुगिरिमूर्ध्नि वज्रमणिरत्नकूटागारे [पुनः] समाजमागम्य, सर्वतथागतसमतामध्यालम्भ्य, भगवतो वैरोचनस्य श्रीवत्सहृदये प्रविष्टाः ।

अथ भगवान् वैरोचनस्तथागतः सर्वतथागतहृदयमात्मानमधिष्ठाय सर्ववज्रसमतया अशेषानवशेषसत्वधातुपरित्राणसर्वहितसुखोत्तमसिद्धिहेतोः सर्वदुष्टविनयाय च, सर्वतथागतमहाकरुणोपायसमाधिज्ञानमध्यालम्भ्य, सर्वतथागतमहाकरूणोपायक्रोधसमय वज्रं नाम समाधिं समापन्नः । समनन्तरसमापन्ने चात्रैतस्मिन्नेव क्षणे सर्वतथागतहृदयेभ्यः सर्वतथागतसमयन्नाम सर्वतथागतहृदयं निश्चचार हुं ॥

अथास्मिन् विनिःसृतमात्रे वज्रपाणिहृदयवज्रात्स एव भगवान् वज्रधरः समन्तज्वालागर्भाः सभ्रुकुटिभ्रूभङ्गोत्कुञ्चितललाटविकटदंष्ट्राकरालमुखाः वज्राङ्कुशकोषपाशादिवज्रज्वालान्निप्रदीप्तप्रहरणव्यग्रकराः अनेकविधवर्णालङ्कारविचित्रवेषधराः वज्रपाणिविग्रहा विनिश्चरित्वा, सर्वलोकधातुषु सर्वदुष्टविनयङ्कृत्वा, भगवतो वैरोचनस्य सर्वतो वज्रधातुमहामण्डलयोगेन चन्द्रमण्डलाश्रिता भुत्वेदमुदानमुदानयिंसुः ॥

अहो ह्युपायविनयं महोपायवतामहं ।
यत्सत्वोपायविनयात्क्रोधत्वं यान्ति निर्मला ॥ इति ॥

अथ भगवान् वैरोचनस्तथागतः सर्वतथागताप्रपञ्चधर्मतामध्यालम्भ्य, सर्वतथागतमहाक्रोधवज्रसमयवज्राधिष्ठानन्नाम समाधिं समापद्येमं सर्वतथागतवज्र-हुङ्-करन्नाम सर्वतथागतहृदयं विद्योत्तममभाषत् ।

ॐ सुंभ निसुंभ हुं ।

गृह्ण गृह्ण हुं ।
गृह् णापय हुं ।
आनय हों भगवन् ।
वज्र हुं फट् ॥

अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यो भगवान्वज्रपाणिर्विनिःसृत्य, सर्वलोकधातुप्रसरमेघसमुद्रेभ्यो यावन्तः सर्वतथागताः सबोधिसत्वपर्षद्मण्डलाः समाधिष्ठायाकृष्य, वज्रसमयमहामण्डले प्रवेश्य, समयैर्बध्वा, पुनरप्येकघनो महावज्रक्रोधकायो भूत्वा, भगवतो [वैरो]चनस्य हृदये स्थित्वेममुदानमुदानयामास ।

अहो हि बोधिचैत्तस्य सर्वतो भद्रतानघा ।
यत्सत्वविनयाद्याति क्रोधोऽपि रमणीय[ताम् ॥ इति] ॥

अथ स महावज्रक्रोधकायो भगवतो हृदयादवतीर्य, सर्वतथागतानां पुरतश्चन्द्रमण्डलाश्रितो भूत्वा, पुनरप्याज्ञां मार्गया[मास] ॥

अथ भगवान् सर्वतथागतसमयाकर्षणवज्रन्नाम समाधिं समापद्येदं सर्वतथागतसमयाङ्कुशन्नाम सर्वतथागतहृदयं स्वहृ[दय]न् निश्चचार हुं टक्कि ज्जः ॥

अथास्मिन् विनिःसृतमात्रे सर्वलोकधातुप्रसरमेघसमुद्रेषु यावन्तस्त्रैलोक्याधिपतयो महेश्वरादयस्ते स[र्वे स]र्वलोकसन्निवेशगणपरिवृताः अशेषानवशेषाः सर्वतथागतसमयवज्राङ्कु शेनाकृष्टाः समाना येन सुमेरुगिरिमूर्धा [येन] च वज्रमणिरत्नशिखरकूटागारस्तेनोपसंक्रम्य, भगवतो वज्रमणिरत्नशिखरकूटागारस्य सर्वतः परिवार्यावस्थिता अभूवन् ॥

अथ वज्रपाणिस्तद्वज्रं स्वहृदयाद्गृह्योल्लालयन् सर्वावन्तं सकलत्रैधातुकत्रिलोकचक्रमवलोक्यैवमाह । "प्रतिपद्यत [मार्षा]स्सर्वतथागतशासने, मम चाज्ञां पालयत!" । अथ त एवमाहुः । "कथम् प्रतिपद्यामः?" । भगवान् वज्रपाणिराह । "बुद्ध धर्मं च सङ्घं च शरणगमनं प्रतिपत्तितः, सर्वज्ञज्ञानलाभाय प्रतिपद्यध्वं मार्षा!" इति ॥

अथ योऽस्मिन् लोकधातौ सकलत्रैलोक्याधिपतिर्महादेवः सर्वत्रैलोक्याधिपत्यगर्वितो महाक्रोधतान्दर्शयन्नेवमाह । "अहं भो यक्ष त्रैलोक्याधिपतिरीश्वरः कर्ता विकर्ता सर्वभूतेश्वरो देवातिदेवो महादेवः॑ तत्कथमहं ते यक्षज्ञाङ्करिष्यामी-?" ति ॥

अथ वज्रपाणिः पुनरपि वज्रमुल्लालयन्नाज्ञाप्यति । "भो दुष्टसत्त्व शीघ्रं प्रविश मण्डलं, मम च समये तिष्ठ!" ।

अथ महादेवो देवो भगवन्तमिदमवोचत् । "कोऽयं भगवन्नीदृशः सत्वो योऽयमीश्वरस्यैवमाज्ञान्ददाति?" ।

अथ भगवान् सर्वावन्तं महेश्वरादित्रैलोक्यगणमाहूयैवमाह । "प्रतिपद्यत मार्षास्त्रिशरणगमनसमयसंवरे॑ मायं वज्रपाणिर्यक्षः क्रूरः क्रोधनश्चण्डो महाबोधिसत्वश्च वो दीप्तेन वज्रेण सकलमेव त्रैधातुकं नाशयेद्" इति ।

अथ महेश्वरः सकलत्रैलोक्याधिपत्यतया स्वज्ञानवशितया च भगवतो वज्रपाणेर्भयसन्दर्शनार्थं महाचण्डक्रोधतां महाभैरवरूपतां महाज्वालोत्सृजनतां महा[रौ]द्राहासतां सहगणैः सन्दर्शयन्नेवमाह । "अहं भोः सकलत्रैलोक्याधिपस्त्वं ममाज्ञान्ददासी-" ति ॥

अथ वज्रपाणिस्तद्वज्रं [सगर्वम्] उल्लालयन् विहसन्नेवमाह । "प्रतिपद्य भो कटपूतनमानुषमान्साहार चितिभस्मभक्ष्यभोज्य शय्यासनप्रावरण ममाज्ञा[म्पालय]!" । अथ महेश्वरो महादेवः सकलं त्रैलोक्यं महाक्रोधाविष्टमधिष्ठाय, एवमाह । "त्वमपि ममाज्ञां पालय, समये च प्रति[पद्य!" इ]ति ॥

अथ वज्रापाणिर्महाक्रोधराजो भगवन्तमेतदवोचद् । "अयम्भगवन्महादेवो देवः स्वज्ञानबलगर्वात् महेश्वर्या[धिप]त्यात् च सर्वतथागतशासने न प्रणमति । तत्कथमस्य क्रियत?" इति ॥

अथ भगवान् सर्वतथागतहृदयसंभूतं महावज्रस[मयं] स्मारयति ॐ निसुम्भ वज्र हुं फट् ॥

अथ वज्रपाणिर्महाबोधिसत्वः स्ववज्रहृदयमुदाजहार हुं ॥ अथास्मिन् भाषितमात्र सकलत्रैधातुकसन्निपतिता महादेवादयः सर्वत्रैलोक्याधिपतयः अधोमुखाः प्रपतिताः आर्तस्वरं मन्वन्तो भगवतो वज्रपाणेश्च शरणं गताः । स च महादेवो देवो भूम्यां प्रपतितो निश्चेष्टीभूतो मृतः ॥

अथ भगवान् जानन्नेव वज्रपाणिमेवमाह । "प्रतिपद्यस्व वज्रपाणे अस्य सकलत्रिलोकचक्रस्याभयाय, मा पञ्चत्वमापादय" । अथ वज्रपाणिर्महाक्रोधराजो भगवतो वचनमुपश्रुत्य तां सर्वदेवादीनाहूयैवमाह । "बुद्धं धर्म सङ्घं च शरणं प्रतिपद्यत, ममाज्ञाकारितायां च, यदीष्टं वः स्वजीवितम्" इति । अथ त एवमाहुः । "सबुद्धधर्मसङ्घसमुद्रांच्छरणं गच्छामः, त्वच्छासनाज्ञां न जानीम" इति ॥

अथ भगवान् वैरोचनस्तथागतस्तानाहूयैवमाह । "अयं भो देवोऽस्माकं सर्वतथागताधिपतिः सर्वतथागतपिता सर्वतथागताज्ञाकरः सर्वतथागतज्येष्ठपुत्रो भगवां समन्तभद्रो बोधिसत्वो महासत्वः सर्वसत्वविनयेन कार्यकरणतया महाक्रोधराज्यतायामभिषिक्तः । तत्कस्माद्धेतोः? । सन्ति युष्मद्मध्ये महादेवादयो दुष्टगणास् ते सर्वतथागतैरपि न शक्याः शान्तया पापेभ्यो निवारयितुं । तेषां पापसत्वानां निग्रहाय अधितिष्ठितस्तद्युस्माभिरस्य समये स्थातव्यमित्याज्ञा" इति । त एवमाहुर् । "अस्माकं भगवन्नस्माज्जीवितविप्रलायात्परित्रायस्व । यामाज्ञान्दास्यति तत्करिष्यमह" इति । भगवानाह । "हं भो मार्षा एतमेव शरणं गच्छतायमेव वः परित्रास्यति, नान्य" इति ॥

अथ ते त्रिलोकसकलत्रैधातुकसन्निपतिताः त्रिभुव[नपत]यो येन भगवान् वज्रधरस्तेनाभिमुखा एककण्ठेन महार्तान् स्वरान्प्रमुञ्चत एवमाहुः । "परित्रायस्व भो भगवन् परित्रायस्व अतो मरणदुःखाद्" इति ॥

अथ वज्रपाणिर्महाबोधिसत्वस्तां देवादीनाहूयैवमाह । "हं भो दुष्टाः प्रतिपद्यत मम शासने । मा वो [दीप्तेना]नेन वज्रेण एकज्वालीकृत्य, सर्वानेव भस्मीकुर्याम्" इति । त एवमाहुः । "समन्तभद्रस्त्वं भगवन्सर्वतथागतचित्तोत्पाद[ः शान्तविनीतः] सर्वसत्वहितैषी सर्वसत्वाभयप्रदः । तत्कथं भगवन्नस्माकन्निर्दहिष्यती-?" ति । अथ वज्रपाणिर्महाक्रोधरजस्तानेवमाह । "[अहं भो] मार्षाः समन्तभद्रो येन सर्वतथागताज्ञाकारित्वाद्युष्मद्विधानां दुष्टसत्वजातीयानां पापचित्तानां संशोधनार्थाय, विनाशयामि यदि मत्समये न तिष्ठत" इति । ते प्राहुर् "एवमस्त्वि" ति ॥

अथ वज्रपाणिर्महाक्रोधराजो महेश्वरं मुक्त्वान्यान्देवानाश्वास्योत्थापनार्थमिदम् वज्रोत्तिष्ठन्नाम सर्वतथागतहृदयमभाषत् वज्रोत्तिष्ठ ॥ अथास्मिन् भाषितमात्रे महेश्वरं मुक्त्वा सर्वे ते त्रिधातुकसन्निपतितास्त्रिभुवनपतयः सपरिवाराः संमूर्च्छिताः समानाः समाश्वस्तहृदया अभूवन् दिव्यानि सुखान्यनुभवन्तो विगतभयच्छभितरोमहर्षा भगवन्तं वज्रपाणिनमवलोकयन्तः समुत्थिता इति ॥

अथ भगवान् वज्रपाणिं बोधिसत्वमामन्त्रयामास । "अयं महासत्वो महादेवो देवाधिपतिर्नोत्थापितः, तत्किमस्य जीवितविप्रणाशेन कृतेन?॑ जीवापयैनं, सत्पुरुषोऽयं भविष्यती-" ति । अथ वज्रपाणिर् "एवमस्त्व्" इति कृत्वेदं मृत संजीवनहृदयमुदाजहार वज्रायुः ॥ अथास्मिन् भाषितमात्रे महादेवो देवो मृतः संजीव्योत्थातुमिच्छति, न शक्तो व्युत्थातुं । ततो भगवन्तमेतदवोचत् । "किमहं भगवता एवं शास्यामि?" । भगवानाह । "न त्वं प्रतिपद्यस्वास्य महासत्पुरुषस्याज्ञाङ्कर्तु । अयमेव तेन शास्ति, नाहं" । महेश्वरः प्राह । "किन्न त्वं भगवंच्छक्तोऽस्माद्दृष्टसत्वान्परित्रातुम्?" इति । भगवानाह । "नाहमस्मात्समर्थः परित्रातुं" । आह । "तत्कस्माद्धेतोर्" । आह । "सर्वतथागताधिपतित्वात्" । आह । "नाहं भगवं भगवतो भाषितस्यार्थमाजाने । किन्तु यत्र हि नाम तथागतानामपि सर्वत्रैधातुकाधिपतीनामन्योऽधिपतिस्तन्न जाने कोऽयम्" इति ॥

अथ भगवान् वज्रपाणिर्महाबोधिसत्वः पुनरपि महादेवमाहूयैवमाह । "न प्रतिप[द्यसि किं] दुष्टसत्व ममाज्ञाङ्कर्तुम्?" इति । अथ महादेवो वज्रसत्ववचनमुपश्रुत्य कुपितश्चण्डीभूतस्तथा पतित एव पुनरपि महारौद्ररूपतां दर्शय[न्ने]वमाह । "मरणमप्युत्सहामि॑ न च तवाज्ञाङ्करिष्यामि" ॥

अथ वज्रपाणिर्महाबोधिसत्वो महाकोपतां सन्दर्शयन्स्वक्रमतालादिद[मनुच]रन् निश्चचार ॐ पादाकर्षण वज्र हूं ॥

अथ भगवतश्चरणतालात्समन्तज्वाला गर्भाकृतभ्रुकुटीदंष्ट्राकरालमहावक्त्रो वज्रा नुचरो भगवतो वज्रपा] णेः पुरतः स्थित्वाज्ञां मार्गयामास ॥

अथ वज्रापाणिर्महेश्वरसंशोधननिमित्तमेवमाह ॐ पादाकर्षाकर्षस्य सर्ववज्रधरानुचर [कण्ड कण्ड व]ज्र हूं जः ॥

अथैवमुक्ते महादेव उमादेवीसहितः ऊर्ध्वपादो नग्नः सर्वजगद्भिरुपहस्यमानः पादाकर्षणवज्रानुचरेण भगव[तो वज्रपा]णेः पुरतः पादताले स्थापित इति ।

अथ वज्रपाणिर्बोधिसत्वो भगवन्तमेतदवोचत् । "अयं भगवन् दुष्टसत्वः सपत्नीकः किं करोमि?" [इति] । भगवानाह ॐ वज्राक्रम होः ॥ अथैवमुक्ते वज्रपाणिर्महाबोधिसत्वो महादेवं वामपादाक्रान्तं कृत्वा, दक्षिणेन चोमा [याः स्तनौ पीड]यन्निदं स्वहृदयमुदाजहार ॐ वज्राविश हनय त्रं त्रट् ॥

अथास्मिन् भाषितमात्रे महादेवः समाविष्ट्वा, स्वकरसहस्रेण मुख[सह]स्त्रमहनत् । अथ वज्रमणिरत्नशिखरकूटागारस्य बाह्यतः सर्वत्रिभुवनैर्महानादो मुक्तः । "अयं सोऽस्माकमधिपतिरनेन महात्मना [शास्यत" इति] ॥

अथ भगवान् महादेवस्योपरि महाकरुणामुत्पाद्य, इदं सर्वबुद्धमैत्रीहृदयमभाषत् ॐ बुद्ध मैत्री वज्र रक्ष हं ॥

अथास्मिन् भाषितमात्रे महादेवस्य तदावेशदुःखमुपशान्तं । तच्च वज्रपाणिपादतलस्पर्शमनुत्तरसिद्ध्यभिषेकसमाधिविमोक्षधारणी ज्ञानाभिज्ञावाप्तये यावत् तथागतत्वाय संवृत्त इति । अथ महादेवो भगवत्पादतलस्पर्शात्सर्वतथागतसमाधिधारणीविमोक्षसुखान्यनुभवन्त महादेवकायं वज्रपाणिपादमूले निपातयित्वा, अधस्ताद् द्वात्रिंशद्गङ्गानदीवालुकोपमलोकधातुपरमाणुरजः समा लोकधातवोऽतिक्रम्य, भस्मच्छत्रा नाम लोकधातुस्तत्र भस्मेश्वरनिर्घोषो नाम तथागत उत्पन्नः । अथ तस्मान्महादेवकायादिदमुदानं निः सृतवान् ।

अहो हि सर्वबुद्धानां बुद्धज्ञानमनुत्तरं ।
पातयित्वाक्षरपदे निर्वृत्तौ स्थापयन्ति हि ॥ इति ॥

अथ वज्रपाणिर्महाबोधिसत्वस्तानन्यान् नारायणादान् सर्वत्रिलोकाधिपतीनेवमाह । "प्रविशध्वं मार्षा अस्मिन्सर्वतथागतवज्रसमयमहामण्डले॑ प्रविष्ट्वा सर्वतथागतसमयमनुपालयत!" । त एवमाहुः । "यथा ज्ञापयसि तथा कुर्म" इति ॥

अथ वज्रपाणिर्महाबोधिसत्वस्तांस्त्रिभुवनसन्निवेशानाहूयैवमाह । "प्रतिगृण्हत मार्षाः पुनस्त्रिशरणगमनशिक्षासमयसंवरं, मम च समये तिष्ठत!" । त एवमाहुः "एवमस्त्विति । किन्तु वयं तव समयम् [अकोविदाः]" ।

अथ वज्रपाणिः स्वसमयमनुप्रादात् । बोधिचित्तं समुत्पद्य यथा च क्रमतः पर[म् । बोध्यर्थाय यथाबलं यत]ध्वं सुसमाहिताः ॥

अथ वज्रपाणिर्महाबोधिसत्वः तेषां देवादीनां, "प्रवेशमहासमयमुद्रां बन्धान" इति कृत्वा, बन्धयन्ति स्म, अनेन [महासमय]मुद्राहृदयेनेति ।

ॐ वज्र समय गृह्ण बन्ध समयं, वज्रसत्व समयमनुस्मर सर्वतथागतसमयस्त्वं ।

दृढी मे भव, स्थिरो मे भव, [आहार्यो मे भव, अप्रतिहा]र्यो मे भव,
सर्वकर्मसु च मे चित्तश्रेयः कुरु ।
ह ह ह ह हूं ॥

अथास्मिन्नुच्चारितमात्रे सकलत्रैधातुकत्रिभुवनजनसनिवेशस्य[वज्रक्रोधतेरिन्तिरिमुद्रापाणिभ्यामाविश्य बन्धतो दृढीभूतेति ॥

New names of Sarva deities

अथ वज्रपाणिर्यथावत्प्रवेशयित्वा, सर्वमहामण्डलं यथानुपूर्वेण देशयित्वा, वज्ररत्नाभिषेकैरभिषिच्य, वज्रचिन्हानि च करेभ्यो दत्वा, वज्रनामाभिषेकैरभिषिच्य, सर्वतथागतसत्वार्थतायां स्थापयामास । अथ सर्वत्रैलोक्याधिपतीनां कर्म भवति । तद्यथा, महेश्वराय क्रोधवज्रः, नारायणाय मायावज्रः, सनत्कुमाराय वज्रघण्टः, ब्रह्मणे मौनवज्रः, इन्द्राय वज्रायुधः, इति विद्याराज्यका इत्यभिषिक्ताः । ततोऽन्तरीक्षचराणां सर्वदेवाधिप[तीनामनुप्रादात् ।] तद्यथा, अमृतकुण्डले वज्रकुण्डलिः, इन्दवे वज्रप्रभः, महादण्डाग्राय वज्रदण्डः, पिङ्गलाय वज्रपिङ्गलः, इत्येवमादाय वज्रक्रोधा इत्यभिषिक्ताः । तत आकाशचराणां सर्वदेवाधिपतीनामनुप्रादात् । तद्यथा, मधुमत्ताय वज्रशौण्डः, मधुकराय वज्रमाला, जयाय वज्रवशी, जयावहाय विजयवज्र, इत्येवमाद्या गणपतय इत्यभिषिक्ताः । ततो भौमानां सर्वदेवाधिपतीनामनुप्रादात् । तद्यथा, कोशपालाय वज्रमुसलः, वायवे वज्रानिलः, अग्नये वज्रानलः, कुबेराय वज्रभैरवः, इत्येवमादयो दूता इत्यभिषिक्ताः । ततः पातालाधिपतीनां सर्वदेवानामनुप्रादात् । तद्यथा, वराहाय वज्राङ्कुशः, यमाय वज्रकालः, पृथ्वीचूलिकाय वज्रविनायकः, वरुणाय नागवज्रः, इत्येवमाद्याश्चेटका इत्यभिषिक्ताः ॥

New names of Saiva goddesses

ततस्त्रैलोक्याधिपतिः सर्वदेवीनां वज्ररत्नाभिषेकेणाभिषिच्य, स्वचिन्हेभ्यो वज्राधिष्ठाप्य, [वज्र] नामाभिषेकेणाभिषिच्य, सर्वतथागतसत्वार्थतायां प्रतिष्ठापयामास । तद्यथा, उमायै क्रोधवज्राग्निः, रुक्मिण्यै [वज्रसौवर्णी], षष्ठ्यै वज्रकौमारी, ब्रह्माण्यै वज्रशान्तिः, इन्द्राण्यै वज्रमुष्टिरि, त्येवमाद्या वज्रराजनिका इत्यभिषिक्ताः । ततोऽन्तरीक्षचरीणां [सर्वमा]तृणामनुप्रादात् । तद्यथा, अमृतायै वज्रामृता, रोहिण्यै वज्रकान्तिः, दण्डहारिण्यै दण्डवज्राग्रा, जाताहारिण्यै वज्र[मेखला], इत्येवमाद्या वज्रक्रोधिन्य इत्यभिषिक्ताः । ततः खेचरीणां सर्वमातॄणामनुप्रादात् । तद्यथा, मारण्यै वज्रविलया, [अशना]यै वज्राशना, वसनायै वज्रवसना, रत्यै वज्रवशा, इत्येवमाद्या गणिका इत्यभिषिक्ताः । ततो भूचरीणां सर्वमातॄणामनुप्रादात् । तद्यथा, शिवायै वज्रदूती, वायव्यै वेगवज्रिणी, आग्नेध्र्यायै वज्रज्वाला, कुबेर्यै वज्रविकटा, इत्येवमाद्या वज्रदूत्य इत्यभिषिक्ताः । ततः पातालवासिनीनां सर्वमातॄणामनुप्रादात् । वाराह्यै वज्रमुखी, चामुण्डायै वज्रकाली, च्छिन्ननासायै वज्रपूतना, वारुण्यै वज्रमकरी, इत्येवमाद्या वज्रचेट्य इत्यभिषिक्ताः ॥

अथ वज्रपाणिर्महाबोधिसत्वः तेषां सर्वप्रविष्टानाम्बुद्धज्ञानानि निष्पाद्य, सर्वमुद्राबन्धानि शिक्षयित्वा, वज्रसमयान्यनुप्रादात् अनेन शपथहृदयेन ।

अयं वज्रो महावज्रस्सर्वबुद्धैरधिष्ठितः ।
समयव्यतिक्रमात्क्षिप्रं भस्मीकुर्यत्कुलानि तु ॥

ॐ हन समय हुं फट्

Mudra

ततो हृदयग्रहणमुद्रमनुप्रादात् ।

वज्रमुद्राद्विकं बध्वा तर्जन्यङ्कुशबन्धितं ।
वलितोद्वलितं कुर्याद्यस्तु कार्यार्थचिन्तकः ॥ १ ॥

तस्य युष्माभिः पुरतः स्थातव्यं कार्यसिद्धये ।
मा वो जीवितनाशाय भवेत्समयो ह्ययम् ॥ २ ॥

वज्रबन्धं दृढीकृत्य कुञ्चिताग्र्या सुयन्त्रितं ।
सन्धायाङ्गुष्ठयुगलं पीडयेन्मध्यमाद्वयं ॥ ३ ॥

अयं वः समयो हन्याद् यदिं कश्चिदतिक्रमेत् ।
बन्धं समयमुद्राया वज्रविद्याधरस्य तु ॥ ४ ॥

कनिष्ठाङ्ग लिबन्धन्तु वज्रमुद्राद्विकस्य तु ।
पृष्ठतोऽग्राङ्गु लिग्रस्तं परिवर्त्य शिरे स्थितं ॥ ५ ॥

वज्रविद्याधराबन्धः समयाऽयं महात्मनः ।
यस्तु क्रोधो निरीक्षेत स्थेयन्तस्य पुरस्तथा ॥ ६ ॥

वज्ररक्षां दृढां बध्वा वज्रबन्धं तु पीडयेत् ।
भौमानां समयो ह्येष सर्वसत्वाभिरक्षकः ॥ ७ ॥

यस्तु कश्चित्परित्रार्थे बन्धेत्क्रोधसमन्वितः ।
रक्षायै[य]स्य सत्वस्य स्थातव्यं तस्य पृष्ठतः ॥ ८ ॥

वज्रमुद्रद्विकं बध्वा वमवज्राग्रपीडिता ।
वलितोद्वलितं कृत्वा स्फोटयेत्कन्यसाङ्गलि ॥ ९ ॥

य[दि क्रोधं समाविशेत्] प्रयुञ्चेत् समयोह्य । तस्य युष्माभिः पुरतः स्थेयं सर्वाग्रसिद्धय ॥ इति ॥ १० ॥

ग्रन्थितं वज्रबन्धेन दृढन्तर्जनी [योगेन] ।
मध्यमाङ्गुष्ठमुखयोर्वज्रमुद्रां परिक्षिपेत् ॥ ११ ॥

परिवर्त्य ललाटे तु स्थाप्य यस्तु समाव्हयेत् । तस्य स्थेयं पुरः शश्वद् यदि जीवि[तं स्थापयेद् ॥ १२ ॥ इ]ति ॥

अथासां सकलत्रिलोकहृदयग्रहणसमयमुद्राणां समयग्रहणहृदयानि भवन्ति । ॐ वलितोद्वलित वज्राकर्षय [हुं ज्जः ॥] वज्रवलितमुद्राया देवाकर्षणहृदयं । हुं वज्राग्र पीडय समय हुं ॥ अन्तरीक्षचराणं ॥

ॐ वज्रमालाग्र वं ॥ मालधारिणी[नां ।] ॐ वज्रबन्ध हं ॥ भूचराणां । ॐ वज्र पाताल भंज भंज हुं फट् ॥ पातालनिवासिनां । ॐ हेरूक वज्र समय सर्वदुष्ट समय मुद्रा प्रभंजक हुं फट् ॥ सर्वमातॄणामिति ॥

अथ भगवान् वज्रपाणिर्भगवन्तमेतदवोचत् । "अहं भगवं सर्वतथागतैर्दुष्टदमक इत्यभिषिक्तः, तत्साध्वाज्ञापयैषां सर्वदुष्टमण्डलबन्धानां कथं प्रतिपद्यामि" ।

अथ भगवानिदमुपश्रुत्य एवमाह । ॐ वज्र सुंभ निसुंभ हुं फट् ॥

अथ वज्रपाणिर्महाबोधिसत्वः सर्वसत्वपरित्राणार्थमिदं सर्वमण्डलाकर्षणहृदयमभाषत् ।

ॐ वज्र समयाकर्षय सर्वमण्डलान् वज्रधर सत्यं मातिक्रम हुं फट् ॥

वज्राङ्कुशद्वयं हृदये परिवर्तितं ।
अर्गाङ्कुशीद्वया बाह्यमण्डलाकर्षणं परं ॥

अथास्मिन् भाषितमात्रे सर्वमण्डलानि सर्वतः सुमेरुगिरिमूर्ध्नि बाध्यतः परिवार्यावस्थितानि ।

अथ भगवान् वज्रपाणिस्तां सर्वमण्डलसन्निवेशानाहूयैवमाह । "प्रतिपद्यत मार्षाः प्राणातिपातवैरमण्यसमयसंग्रहणम्!" इति । अथ तैर्बाह्यमण्डलसमयसत्वैर्भगवां विज्ञप्तो, "वयं भगवन् मान्साहारा दृष्टसत्वतया ओजोहारेण जीविकां कल्पयामः॑ तदाज्ञापयतु भगवान् कथमस्माभिर्जीवितव्यम्" इति ।

अथ वज्रपाणिर्महाबोधिसत्व इमं दुष्टवज्रक्रोधमभाषत् । ॐ दुष्टवज्रक्रोध हन दह पच विध्वंसय विकिर सर्वदुष्टसमयमुद्रामण्डलान् भंज भंज मर्द मर्द खाद खाद परमन्त्रान् वज्र समय हुं फट् ॥

वज्र क्रोधाङ्गुली सम्यग्नखसन्धानवेष्टिते ।
सन्धयेन्मुखतो गाढां मुद्रेयं दुष्टनाशनी ॥ ति ॥

अथास्मिन् भाषितमात्रे सर्वदुष्टमण्डलानि एकध्यीभूत्वानेकानि विध्वन्सितानि विकीर्णानि, समयमुद्राबन्धाः स्फोटिताः । ते च दुष्टसमयसत्वा दह्यमानाः पच्यमाना महान्तो महारौरवान्तान्तान् खान् मुञ्चन्तो, येन भगवान् महावज्रधरस्तेनाञ्जलयो बध्वैवमाहुः । "परित्रायस्व भगवन्, येन वयं प्राणान् न परित्यजामः!" ।

अथ वज्रपाणिः पुनरपि भगवन्तमेतदवोचत् । "आज्ञापयस्व भगवन् कथमेषां दुष्टमण्डलानां प्रतिपद्यामि" । अथ भगवानिदमुवाच ॐ निसुंभ हन दह पच गृह्ण बन्ध हुं फट् ॥

अथ वज्रपाणिर्महाबोधिसत्व इ[मं] वज्रक्रूरक्रोधमभाषत् ॐ महावज्रक्रूरक्रोध पातय सर्वदुष्टमण्डलान्, विनाशय सर्वदुष्टसमयान्, विकिर विध्वं[सय स्फो]टय भंजय सर्वदुष्टसमयमुद्राबन्धान्, गृह्ण हन दह पच सर्वदुष्टसमयसत्वान्, वज्र समय हुं फट् ॥

अथास्मिन् भाषितमात्रे सर्वदुष्टसमयमुद्रामण्डलानि पुनरप्येकध्यीभूत्वा महासागरे प्रपतितानीति ॥

अथ वज्रपाणिर्महाबोधिसत्वः पुनरपि भगवन्तमेतदवोचत् । "अहं भगवता सर्वदुष्टदमनायाध्येषितः । तदेषां डाकिनीग्रहादीनां सर्वग्रहाणां कथं प्रतिपद्यामि? ।"

अथ भगवानिदमवोचत् ॐ हन हन वज्र हुं फट् ॥

अथ वज्रपाणिर्महाबोधिसत्वः पुनरपि सर्वडाकिन्यादिदुष्टग्रहाकर्षणहृदयमभाषत् ॐ वज्राकर्षय शीघ्रं सर्वदुष्टग्रहान् वज्रधरसत्येन हुं जः ॥

अथास्मिन् भाषितमात्रे डाकिन्यादयः सर्वदुष्टग्रहाः सुमेरुगिरिमूर्ध्नि बाह्यतो मण्डलीभूत्वावस्थिता इति ॥

अथ वज्रपाणिर्महाबोधिसत्वः तां डाकिन्यादीन् सर्वदुष्टग्रहानाहूयैवमाह । "प्रतिपद्यत मार्षाः प्राणातिपातवैरमण्यशिक्षासमयसंवरे॑ मा वो वज्रेणादीप्तेन प्रदीप्तेनैकज्वालीभूतेन कुलानि निर्दहेयम्" ।

अथ ते डाकिन्यादयः सर्वदुष्टग्रहा येन भगवान् तेनाञ्जलिम् बध्वा भगवन्तं विज्ञापयामासुः । "वयं भगवन् मान्साशिनस्, तदाज्ञापयस्व कथं प्रतिपत्तव्यम्" इति ।

अथ भगवान् वज्रपाणिमेवमाह "प्रतिपद्यस्व वज्रपाणे एषां सर्वानां महाकरुणामुत्पाद्योपायन्दातुम्" इति ।

अथ वज्रपाणिर्महाकारुणिक इदं सर्वसत्वमरणनिमित्तज्ञानमुद्राहृदयमभाषत् ॐ वज्र प्रतिगृहण हृदयमाकर्षय, यद्ययं सत्वो मांसादत्वेन म्रियते, तदस्य हृदयन्निष्क्रमतु, समय हुं ज्जः ॥

अथास्य मुद्राबन्धो भवति ।

वज्रबन्धं समाधाय बाहुभ्यां सुहृदं हृदि ।
वज्राङ्गुलिमुखाभ्यान्तु स्वकक्षौ तु समुत्कर्षेद् ॥ इति ॥

अनया मुद्रया भवद्भिः सर्वसत्वहृदयान्यपकृष्य भोक्तव्यानी-" ति ।

अथ ते डाकिन्यादयः सर्वदुष्टग्रहा हुलुहुलुप्रक्ष्वेडितानि कृत्वा स्वभवनं गता इति ॥

अथ भगवान् वज्रपाणिः पुनरपि भगवन्तमेतदवोचत् । "अहं भगवद्भिः सर्वतथागतैः सर्वदुष्टदमक इति कृत्वाध्यिष्टः । तदाज्ञापयतु मे भगवान् ज्वरादीनां व्याधीनां किङ्करोमि" ॥

अथ भगवानाह ॐ हुं फट् ॥

अथ वज्रपाणिर्महाबोधिसत्वः सर्वज्वराद्याकर्षणहृदयमुदाजहार ॐ वज्र समयानय सर्व[दुष्ट]ज्वरादीन्नाशयं हुं फट् ॥

अथास्मिन् भाषितमात्रे ज्वरादयः सर्वे सुमेरुगिरिमूर्ध्नि बाह्यतः परिवार्यवस्थिता अभूवन् ।

अथ वज्रपाणिस्तान् ज्वरादीनाहूयैवमाह । "प्रतिपद्यत मार्षाः सत्वोपघातवैरमण्यशिक्षाग्रहणसंवरे!" । अथ त एवमाहु । "वयं भगवन् सत्वौ [जोऽप]हृत्य जीविकां कल्पयामः । तत्साधु भगवानाज्ञापयतु कथं प्रतिपद्यामह" इति ।

अथ वज्रपाणिर्महाबोधिसत्व इदं स्वकर्मविशुद्धिज्ञानमुद्राहृदयमुदाजहार ॐ वज्रकर्म विशोधय सर्वावरणानि बुद्धसत्येन समय हूं ॥

अथास्य मुद्राबन्धो भवति ।

वज्राञ्जलिं दृढीकृत्य तर्जनीद्वयकुञ्चितां ।
सुबन्धितसमाङ्गुष्ठ्ययन्त्रिता पापहारिणी ॥ इति ॥

इयं मुद्रा यस्य ज्वरादिसर्वव्याधिस्पृष्टस्य कर्मतो दर्शयेत्, तद्युष्माभिरपसर्तव्यं॑ मा वो जीवितनाशो भवेद्" इति । अथ त "एवमस्त्व्" इति कृत्वा प्रक्रान्ता इति ॥

अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतानेवमाह । "अहं भगवद्भिः सर्वावरणनीवरणकर्मावरणविशुद्धिहेतोः स्वहृदयेभ्यो विनिःसृष्टः । तदाज्ञापयतु मे भगवन्तः एषान्नरकादीनां सर्वापायानां कथं प्रतिपत्तव्यम्" इति ।

भगवानाह ॐ क्षपय वज्र स्वाहा ॥

अथ वज्रपाणिर्महाबोधिसत्वः रौरवादिसर्वापायगतिचक्राकर्षणहृदमभाषत् ॐ सर्वापायकर्षण विशोधन वज्रसमय हुं फट् ॥

अथास्मिन् भाषितमात्रे रौरवमहारौरवादयः सर्वापायसन्निवेशाः सुमेरुगिरिमुर्ध्नि बाह्यतः परिवार्यावस्थिताः ।

अथ वज्रपाणिर्महाबोधिसत्वः तानपायभूमिपतितान् सर्वसत्वानाहूयैवमाह । "गृह्णत मार्षास्त्रिशरणगमनसङ्कटात्! । एष वयं बुद्धं धर्म संघं त्वं च शरणं गच्छाम" इति । अथ वज्रपाणिः सर्वापायस्फोटनहृदयमुदाजहार ॐ वज्रपाणि विस्फोटय सर्वापायबन्धनानि प्रमोक्षय सर्वापायगतिभ्य सर्वसत्वान् सर्वतथागतवज्र समय त्रट् ॥

अथास्य मुद्राबन्धो भवति ।

वज्रबन्धं दृढीकृत्य मध्यमाद्वयसन्धिता ।
चतुरन्त्यमुखासक्ता पापस्फोटेति कीर्तिता ॥

अथ ते त्र्यपायगतिचक्रान्तरस्थिताः सर्वसत्वा वज्रपाणिसकाशादिमां मुद्रां दृष्ट्वा, सर्वदुर्गतिभ्यश्च्युत्वा, भगवतो वैरोचनस्य पादमूले उपपन्नाः । ते चापाया महासमुद्रे पतिता इति ।

अथ वज्रपाणिर्महाबोधिसत्त्वः पुनरपि भगवन्तमेतदवोचत् । "अहं भगवन्नशेषानवशेषत्वधातुपरित्राणसर्वहितसुखानुभवनार्थ यावत्सर्वतथागतत्वोत्तमसिद्धिफलावाप्तिहेतोः सर्वतथागतसिद्धिवज्रं दत्वा, सर्वतथागतैरध्यिष्टः ।तत्साधु आज्ञापयन्तु मे भग[वन्तः] सर्वतथागता अथैषां मनुष्याणां किङ्करोमी-"ति ।

अथ सर्वतथागताः पुनः समाजमागम्येदमवोचन् ॐ वज्रपाणि महा[मण्डले] प्रवेशय, सर्वान् दुष्टरौद्रान् निवारय, पापेभ्यः प्रमोक्षय, दुर्दृष्टिपर्यापन्नान् विशोधय नाशय विनाशय ह ह ह ह हूं ॥

अथ वज्रपाणिः सर्वतथागताज्ञावचनमुपश्रुत्य, अशेषानवशेषसत्वधातुपरित्राणसर्वहितसुखोत्तमसिद्धिनिमित्तं यावत् सर्वतथागतज्ञानाभिज्ञावाप्तिफलहेतोरिदं सर्वतथागतमहावज्रसमयभूतं त्रिलोकविजयन्नाम महामण्डलमभाषत् ।

अथातः संप्रवक्ष्यामि महामण्डलमुत्तमं ।
वज्रधातुप्रतीकाशं सर्वसिद्धिकरं परं ॥ १ ॥

त्रिलोकविजयन्नाम समयं वज्रसंभवं ।
बुद्धबोधिप्रवर्तारं सर्वदुष्टविनाशनं ॥ २ ॥

तत्रानेन मन्त्रण सूत्रयेत् ॐ वज्रसमय सूत्रं मातिक्रम ॥

चतुरस्त्रं चतुर्द्वारं चतुस्तोरणशोभितं ।
चतुःसूत्रसमायुक्तं पट्टमालासुशोभितं ॥ १ ॥

सर्वमण्डलकोणेषु द्वारनिर्यूहसन्धिषु ।
स्वचित्तं वज्ररत्नैस्तु सूत्रयेद्बाह्यमण्डलं ॥ २ ॥

तस्याभ्यन्तरतः प्राज्ञो वज्ररत्नविभूषितं ।
चतुरस्त्रं चतुर्द्वारमष्टस्तम्भसतोरणं ॥ ३ ॥

वज्रस्तम्भाग्रसंस्थेषु पञ्चमण्डलमण्डितं ।
सूत्रयेन्मण्डलस्तत्र सूत्रं रङ्गैः प्रपूरयेत् ॥ ४ ॥

तत्रायं रङ्गजापः ॐ वज्रचित्र समय हूं ॥

ततो मध्यस्थितो भूत्वा वज्राचार्यः समाहितः ।
मनसोद्घाटयेच्चैव वज्रद्वारचतुष्टयं ॥

तत्रायं द्वारोद्घाटनमन्त्रः ॐ वज्रोद्घाटय समय प्रवेशय हूं ॥

सौवर्णे राजते वापि मृण्मये वा सुचित्रिते ।
इष्टके चतुरस्त्रे तु बुद्धबिम्बन्निवेशयेत् ॥

तत्रेदं सर्वतथागताकर्षणहृदयं भवति । ॐ वज्र ज्वालाग्निप्रदीप्ताकर्षय सर्वतथागतान् महावज्र समय हूं जः ॥

बुद्धस्य पुरतो वज्रं ज्वालामध्ये निवेशयेत् ।
ज्वालामध्ये लिखेद् रत्नं पद्मं विश्वायुधन्तथा ॥

अथासां वज्रसमयमुद्राणां निवेशहृदयानि भवन्ति ।

हूं सत्ववज्र ज्वालामाल हूं फट् ॥

ॐ रत्नवज्र ज्वालामाल हूं त्रः ॥

ॐ धर्मवज्र ज्वालामाल हूं ह्रीः ॥

हूं कर्मवज्र ज्वालामाल हूं हः ॥

वज्रवेगेन निःक्रम्य बुद्धस्य पुरतस्तथा ।
संलिखेद्विधिवत्प्राज्ञो वज्रहुंकारमण्डलम् ॥

तत्रेदं वज्रवेगहृदयं भवति ॐ वज्रवेगाक्रम हूं ॥

एवं वज्रधात्वादिषु सर्वमण्डलेषु सूत्रमाक्रम्य, सर्वतो गच्छेदिति ॥

अथास्य मुद्रा भवति ।

मनोत्क्षिप्य रेखात्तु वज्रसूत्रमथापि वा ।
प्रविशन्ति क्रमत्वापि भ्रम्यते समयान्न सः ॥ १ ॥

तत्र मध्ये महासत्वं व[ज्रपा]णिं समालिखेत् ।
महानीलोत्पलरुचं वज्र-हूं-कारसंग्रहं ॥ २ ॥

ईषद् दंष्ट्राकरालास्यं सरोषहसिताननं ।
प्रत्यालीढस[माक्रान्तं ज्वा]लामालाकुलप्रभं ॥ ३ ॥

वामपादसमाक्रान्तस्तेन कार्य महेश्वरः ।
दक्षिणं तु लिखेत्पादमुमास्तनभरस्थितं ॥ ४ ॥

तत्रास्य हृद[यं भवति हूं ॥]

तस्य पार्श्वेषु सर्वेषु वज्रक्रोधान्निवेशयेत् ।
क्रुद्धदंष्ट्राकरालांस्तु ज्वालामालाकुलप्रभान् ॥

अथैषां हृदयानि भवन्ति ।
[हूं ॥

ॐ वज्रसत्व]क्रोध हूं फट् ॥

ॐ वज्रक्रोधाकर्षय हूं फट् ॥

ॐ वज्रकाम क्रोध रागाय हूं फट् ॥

ॐ वज्रतुष्टिक्रोध साधु साधु हूं फट् ॥

वज्रवेगे[न चा]क्रम्य द्वितीयं मण्डलोत्तमं ।
तत्रा वज्राभिषेकं तु लिखेत्क्रोधैः परिवृतं ॥

अथैषां हृदयानि भवन्ति ।
त्रः ॥

ॐ वज्रभृकुटि क्रोध हर हर हुं फट् ॥

ॐ वज्रसूर्य महाज्वालामाल क्रोध ज्वालय सर्व हुं फट् ॥

ॐ वज्र क्रोध केतु देहि हुं फट् ॥

ॐ वज्राट्टहास क्रोध हः हः हः हः हुं फट् ॥

वज्रवेगेन चाक्रम्य तृतीयं मण्डलात्तमं ।
वज्रसेनं समालेख्यं वृतं क्रोधैर्महात्मभिः ॥

अथैषां हृदयानि भवन्ति ।
ह्रीः ॥

ॐ वज्रधर्म क्रोध विनाशय विशोधय हुं फट् ॥

ॐ वज्रतीक्ष्ण क्रोध च्छिन्द च्छिन्द हुं फट् ॥

ॐ वज्रहेतु क्रोध प्रविश प्रवेशय मण्डलं सर्वा हुं फट् ॥

ॐ वज्रक्रोध भाष वद वद हुं फट् ॥

वज्रवेगेन चाक्रम्य चतुरथं मण्डलोत्तमं ।
वज्रावेशं समालेख्यं वज्रक्रोधगणैर्वृतं ॥

तत्रैषां हृदयानि भवन्ति ।
अः ॥

ॐ वज्रकर्म ॥

ॐ वज्रकवच क्रोध रक्ष रक्ष हुं फट् ॥

ॐ वज्रयक्ष क्रोध खाद खाद हुं फट् ॥

हुं वज्रक्रोध मुष्टि साधय समय हुं फट् ॥

मण्डलस्य तु कोणेषु यथावदनुपूर्वता ।
वज्रधातुप्रयोगेण गुह्यपूजां समालिखेत् ॥

अथासां हृदयमुद्रा भवन्ति ।
ॐ वज्रलास्ये रागय हूं फट् ॥

ॐ वज्रमालेऽभिषिञ्च हुं फट् ॥

ॐ वज्रगीते गाद गाद हूं फट् ॥

ॐ वज्रनृत्ये वशीकुरु हुं फट् ॥

वज्रवेगेन निःक्रम्य बाह्यमण्डलमुत्तमं ।
तत्र कोणेषु कर्तव्यं पूजादेवीचतुष्टयं ॥

अथासां हृदयमुद्रा भवन्ति ।
ॐ वज्रधूपपूजास्फरणसमये हुं फट् ॥

ॐ वज्रपुष्पपूजास्फरणसमये हुं फट् ॥

ॐ वज्रालोकपूजास्फरणसमये हुं फट् ॥

ॐ वज्रगन्धपूजास्फरणसमये हुं फट् ॥

अङ्कुशाद्यास्तु कर्तव्या द्वारमध्यचतुष्टये ।
बाह्यमण्डलसंस्थेषु बाह्यवज्रकुलानि तु ॥

अथासां हृदयमुद्रा भवन्ति ।
ॐ वज्राङ्कुश महाक्रोधाकर्षय सर्वसमयान् हूं ज्जः ॥

ॐ वज्रपाश महाक्रोध प्रवेशय सर्वसमयान् हुं हूं ॥

ॐ वज्रस्फोट महाक्रोध बन्ध बन्ध सर्वसमयान् हुं वं ॥

ॐ वज्रावेश महाक्रोधावेशय सर्वसमयान् हुं अः ॥

Initiation into the mandala

अथात्र त्रिलोकविजयमहामण्डले प्रवेशविधिविस्तरो भवति ।

तत्रादित एव तावत्स्वयं वज्रा [चार्यो व]ज्रकोधतेरिन्तिरिमुद्रां बध्वा प्रविशेत् । प्रविष्ट्वा सर्वतथागतां विज्ञापयेत् । "अहं भगवन्तस्तथागताः क्रोधवशं यास्यामि [निग्रहीतव्यां] निग्रहीष्यामि संग्रहीतव्यां संग्रहीष्यामि । तन्मे भगवन्त आज्ञापयन्तु, कथं प्रतिपद्यामी"ति कृत्वा, वज्रक्रोधतेरिन्तिरिमुद्रां स्व[हृदये य]थावत्स्थाप्य, वज्राङ्कुशादिभिः कर्माणि कृत्वा, पुनः सर्वसमयमुद्रां बन्धयेत्॑ ततः सर्वे सान्निध्यङ्कल्पयन्ति । ततो गुह्यपूजाचतुष्टयं कृत्वा तथा धूपादिभिश्च ॥

ततो वज्रशिष्यां प्रवेशयेदनेन विधिना स्वयं वज्राचार्यो वज्रकोधतिरिन्तिरिमुद्रां बध्वा, शिष्याय बन्धयेदनेन हृदयेन ॐ गृण्ह वज्र समय हुं वं ॥

ततो नीलवस्त्रान्तरीयनीलोष्णीषावबन्धशिराः, नीलरक्तकेन मुखं बध्वा, प्रवेशयेदनेन मन्त्रेण ॐ वज्र समयं प्रविशामि ॥ ततः प्रवेश्य वज्रावेशसमयमुद्रयास्यावेशमुत्पादयेदनेन हृदयेन वज्रावेश अः ॥

ततः समाविशति । तेनावेशेन सर्वतथागतैरधिष्ठ्यते । सर्वं चातीतानागतप्रत्युत्पन्नन्निमिषादेव जानाति । अवध्यश्च भवति सर्वसत्वेभ्यः, अधृष्यः । हुंकारेण च सर्वसत्वनिग्रहानुग्रहसमर्थीभवति । वज्रपाणिश्चास्य नित्यं सर्वकार्याणि साधयतीति ॥

ततः शपथहृदयं दद्यात् । ततो यथावत् मुखबन्धं मुक्त्वा, महामण्डलं दर्शयेत् । मण्डले दृष्टमात्रे तु सर्वपापैर्विमुच्यते, सकलत्रिलोकविजयसमर्थो भवति । हुंकारेण च महादेवादिसर्वदेवाकर्षणप्रवेशनबन्धनवशीकरणपातनक्षमो भवति । सर्वतथागताधिष्ठानाच्च वज्रपाणिर्महाबोधिसत्वः सततानुद्धः स्वकीयाः सिद्धीर्ददाति ॥

ततोऽस्य वज्राभिषेकेणाभिषिच्य, तीक्ष्णस्ववज्रचिन्हं यथावत् पाणिभ्यां दातव्यमनेन मन्त्रेण ॐ वज्रपाणि वज्रकर्मकरो भव ॥

ततो वज्रनामाभिषेकन्दद्यादनेन मन्त्रेण । ॐ वज्रक्रोध त्वामभिषिंचामि वज्रनामाभिषेकतः हेवज्र नाम ॥ ततो यस्य यन्नाम कुर्यात् तस्य हेशब्दः प्रयोक्तव्य इति ॥

ततो ज्ञानान्युत्पादयेत् ।

वज्रबिम्बं समालिख्य हृदि वालाकुलप्रभं ।
वज्रक्रोधसमापत्त्या सर्व आवेशयेज्जगत् ॥ १ ॥

वज्ररत्नं ललाटे तु समालिख्य तथैव च ।
वज्रक्रोधसमापत्त्या सर्वसत्वान् वशन्नयेत् ॥ २ ॥

वज्रपद्मं गले कृत्वा ज्वालामालाकुलप्रभं ।
वज्रक्रोधसमापत्त्या सर्वसत्वां स नाशयेत् ॥ ३ ॥

सत्ववज्रं प्रतिष्ठाप्य मूर्ध्नि ज्वालाकुल[प्रभं] ।
वज्रक्रोधसमापत्त्या रक्षेत् सर्वमिदं जगत् ॥ ४ ॥

अथासां ज्ञानमुद्राणां हृदयानि भवन्ति ।
हुं सत्व वज्र क्रोधाविश अः ॥

हो रत्न [वज्रक्रोध] त्रः ॥

हुं धर्म वज्रक्रोध फट् ॥

हं कर्म वज्रक्रोध रक्ष ॥

Mudra

ततो देवाद्याकर्षणमुद्राज्ञानं शिक्षयेत् ।

वज्राङ्कुशं समा[लिख्य ताले हूंक]रसंज्ञितं ।
अङ्गुलीं चालयेत्क्रुद्धो देवाकर्षणमुत्तमं ॥ १ ॥

वज्राङ्कुशं समालिख्य स्वपादतलमध्यतः ।
लिङ्गमाक्रम्य तेनैव दे[वा समाकर्षे]द् ध्रुवं ॥ २ ॥

वज्राङ्कुशं समालिख्य स्वमेढ्रे तु समुत्थिते ।
चालयंस्तु समाकर्षेदुमाद्याः सर्वयोषितः ॥ ३ ॥

वज्राङ्कुशं समालिख्ये गुदे कुदे तथा ।
तेनाक्रमीत यं देवं तस्याकर्षणमुत्तमं ॥ ४ ॥

तत्रैषां हृदयानि भवन्ति ।
ॐ वज्र क्रोधाग्राकर्षय हुं फट् ॥

ॐ वज्र क्रमाङ्कुशक्रोधाकर्षय हुं फट् ॥

ॐ वज्र क्रोधदण्डाग्राकर्षय हुं फट् ॥

ॐ वज्रक्रोधासनागच्छाकर्षयामि ते वज्र समयमनुस्मर हुं फट् ॥

ततश्चतुर्विधमुद्राज्ञानं शिक्षयेत् ।

प्रत्यालीढं समास्थाय वज्रावेशप्रयोगतः ।
क्षणाद्धुंकारमात्रेण सर्वमावेशयेज्जगत् ॥ १ ॥

वज्रवाचा वदेत्सम्यग् चतुर्हुंकारसंयुतं ।
हृदयं सर्वबुद्धानां सर्वमप्यानयेद्ध्रुवं ॥ २ ॥

वज्रक्रोधसमापत्त्या वज्रक्रोधाग्रदृष्टितः ।
मारयेत जगत्सर्व वज्रहुंकारयोगतः ॥ ३ ॥

मनसा वर्मयेत्कायमात्मनस्तु परस्य वा । महाकवचयोगेन रक्षेत्सर्वमिदं जगद् ॥ इति ॥ ४ ॥

अथैषां हृदयानि भवन्ति ।
ॐ वज्र क्रोध कायावेशय हुं अः ॥

ॐ वज्र विद्योत्तम महाक्रोधानय हो भगवन् वज्र हुं फट् ॥

ॐ वज्र क्रोध दृष्टि हन दह पच विनाशय हुङ्कारेण पातय वज्र समय हुं फट् ॥

ॐ मनोदृढ वज्र कवच क्रोध रक्ष हुं फट् ॥

ततः सर्वसत्वमुद्रणमुद्राज्ञानं शिक्षयेत् ।

वज्रक्रोधसमापत्त्या यस्य यस्य परिष्वजेत् ।
वज्रहुंकारजापेन मुद्रितो भवते स तु ॥ १ ॥

संलपन्महता वाचा ट्टक्कि हूं फट् सकृद्वदेत् ।
यस्य क्रुद्धः स दीप्तेन वज्रेणाभिहतो भवेत् ॥ २ ॥

वज्रदृष्टया निरीक्षेद्वै वज्रक्रोधसमाधिना ।
यस्य यस्य तु सत्वस्य सो सो मरणमाप्नुयात् ॥ ३ ॥

मनसा मारयामीति वज्रं हृदि तु भावयेत् । हुंकारेणैव सर्वेषां मुद्रयत्यभितः स्वयम् ॥ इति ॥ ४ ॥

यस्य सत्वस्य येनैव मनसा मुद्रयत्यसौ । आभिर्मुद्राभिरभ्यर्थ सर्वकर्माणि साधयेद् ॥ इति ॥ ५ ॥

अथैषां हृदयानि भवन्ति ।
टक्कि अः ॥

टक्कि ज्जः ॥

टक्कि हुं ॥

टक्कि हं ॥

एकैकया तु मुद्रया चतुर्षु कर्मसु चत्वारि मुद्राहृदयानि प्रयुञ्चेदिति ॥

ततो रहस्यक्रोधमुद्राज्ञानं शिक्षयेत् ।

सर्वाङ्गतः परिष्वज्य हुंकारमस्य योजयेत् ।
द्वयेन्द्रियसमापत्त्या तस्य नश्येत जीवितं ॥ १ ॥

चुम्बंस्तु दशनैरोष्ठं गृह्य हुङ्कारयोगतः ।
द्वयेन्द्रियसमापत्त्या यस्य तस्य मुखं पतेत् ॥ २ ॥

हुं-कारं यः प्रयुञ्जीत सुखं ह्यनुभवन्नसौ ।
द्वयेन्द्रियसमापत्त्या यस्य सो दुःखमाप्नुयात् ॥ ३ ॥

हुंकारं यः प्रयुञ्जीत सर्वाङ्गेन तु पीडयन् । द्वये[न्द्रियस]मापत्त्या तस्य सर्वतनुः पतेद् ॥ इति ॥ ४ ॥

अथात्र हृदयानि भवन्ति ।
हुं अः ॥

हुं ज्जः ॥

हुं होः ॥

हुं हं ॥

ततस्त्रिलोकविजयमहामण्डलसमयतत्वमुद्राज्ञानं शिक्षयेत् ।

वज्रधातुप्रयोगेण बुद्धानुस्मृतिमान् भवेत् ।
यस्तु सत्वहितार्थाय स तु बुद्धत्वमाप्नुयात् ॥ १ ॥

महेश्वरमुमांश्चैव भूमौ लिख्य तथाक्रमेत् ।
यथालेख्यानुसारेण सत्वमुद्रां समाधयेत् ॥ २ ॥

अनया बद्धमात्रया त्रिलोकविजयी स तु ।
सिद्धविद्यो भवेत्क्षिप्रं बज्रहुंकारसन्निभः ॥ ३ ॥

ज्वालामण्डलमध्यस्था यथा लेख्यानुसारतः ।
कायवाक्चित्तवज्रैस्तु सत्वमुद्रास्तु बन्धयेत् ॥ ४ ॥

अथासां कर्म वक्ष्यामि वज्रकर्ममनुत्तरं । बुद्धानुस्मृतिसंसिद्धः शीघ्रं बुद्धत्वमाप्नुयाद् ॥ इति ॥ ५ ॥

त्रिलोकविजयां बध्वा त्रिलोकविजयी भवेत् ।
वज्रायुः सर्वगामी तु वज्रहुंकारसन्निभः ॥ ६ ॥

वज्राभिषेका राज्यत्वं लोकैश्वर्यं सुधर्मिणी ।
कर्मवज्रमहाक्रोधा वज्रकर्मकरी भवेत् ॥ ७ ॥

सत्वक्रोधा महादाढ्र्यं क्रोधाङ्कुश्या समाव्हान ।
रागयेत्क्रोधरागा तु साधुक्रोधा तु तुष्टिदा ॥ ८ ॥

भृकुट्या नाशयेत्सर्वं क्रोधसूर्या सुतेजतां ।
केतुक्रोधा हरेदर्थान् अट्टहासा तु मारयेत् ॥ ९ ॥

धर्मक्रोधा हरेद् धर्मान् च्छिन्देद्वै क्रोधवज्रया ।
हेतुक्रोधा हरेद् दुःखान् वाग्घरेत् क्रोधभाषया ॥ १० ॥

कर्मक्रोधा सुकर्माणि कुर्याद् रक्षां तु रक्षया । क्रोधयक्षा रिपुं खादेत् क्रोधमुष्टिस्तु सिद्धिदा ॥ इति ॥ ११ ॥

अथ वज्रसमयमुद्राबन्धी भवति ।

वज्र[द्विकस]मुद्भूताः समयाग्र्यास्तु कीर्तिताः ।
तासां बन्धं प्रवक्ष्यामि क्रोधबन्धमनुत्तरं ॥ १ ॥

बाहुवज्रं समाधाय कनिष्ठाङ्कुशं बन्धिता ।
त्रिलोकविजया नाम तर्जनीद्वयतर्जनी ॥ २ ॥

तथैवाग्र्या मुखासंगान्मणिस्तु प्रविकुञ्चिता । समोत्थमध्यपद्मा तु मध्याग्र्यद्वयवर्जिते ॥ ति ॥ ३ ॥

तर्जनीद्वयवज्रा तु दक्षिणाङ्कुञ्चिताङ्कुशी ।
तयैव ग्रस्तहुंकारा साधुकारा तथव हि ॥ ४ ॥

द्व्यग्रा संस्था भृकुट्यान्तु हृदि सूर्याग्रमण्डला ।
प्रसारितभुजा मूर्ध्नि तर्जनीमुखहासिनी ॥ ५ ॥

तर्जनीनखसंसक्ता कोशमुष्टिस्तु दक्षिणा ।
सममध्याग्र्योत्थचक्रा तु मुखतः प्रविनिः सृताः ॥ ६ ॥

तर्जनीमध्यवज्रा च ग्रीवा वेष्टिततर्जनी । अग्र्याधिकमहादंष्ट्रा ग्रस्ताग्रा वज्रा मुष्टिने- ॥ति ॥ ७ ॥

वज्रलास्यादिसन्धीनां मुद्रास्ता एव हुंकृताः ।
धर्ममुद्रास्तु ता एव हुंकारैः सहिताः पुनः ॥ ८ ॥

अथ वज्रसमयधर्ममुद्रा भवन्ति ।

हुंकारो बुद्धवज्रिभ्यां त्रःकारो वज्रगर्भतः ।
ह्रीःकारो वज्रसेनस्य अःकारो वज्रविश्वन ॥ इति ॥

[अतः परं धर्ममुद्राः समासत एवं भवन्ति ।] हुं हेः त्रां तं, हि हीः देः हः, धिक् खीः हूं ग्रं, कृ वं दृ अः ।

धर्ममुद्रा सुसिद्धास्तु वज्रक्रोधगणस्य हि ॥ इति ॥

ततो वज्रसमयकर्ममुद्रा भवन्ति ।

क्रोधमुष्टिं द्विधीकृत्य वज्रगर्वादियोगतः ।
कर्ममुद्राः समासेन महवज्रकुले स्मृताः ॥ १ ॥

यस्या [य]स्यास्तु मुद्राया यद्यत्पार्श्वं च कर्मणः ।
तत्र तत्र तु वै वेष्ट्य तां तां मुद्रां प्रयोजयेत् ॥ २ ॥

सर्वमुद्राविधिः ॥

अथात्र त्रिलोकविजयम[हामण्डल]साधारणमुद्राबन्धो भवति ।

त्रिलोकविजया मुद्रा वज्राग्रसमयस्य तु ।
वज्रहुंकारमन्त्रस्य सर्वसिद्धिप्रदा क्षणात् ॥ १ ॥

कनिष्ठाग्र्याङ्कुशैर्बन्धेद्वज्रौ द्वावधरोत्तरौ ।
समयाङ्कुशमुद्रेयं सर्वमाकर्षयेत्क्षणात् ॥ २ ॥

सर्वविद्योत्तमानां तु त्रिलोकविजया स्मृता ।
[घातनी चैव] सर्वस्य सर्वकर्मकरी तथा ॥ ३ ॥

द्विवज्राग्र्याङ्गुली सम्यक्सन्धाय सुसमाहितः ।
उत्थापयेन्मृतं सर्व वज्रोत्तिष्ठेति संज्ञिता ॥ ४ ॥

द्विवज्राग्र्याङ्गुली सम्यक् वज्रबन्धेन बन्धयेत् ।
परिवर्त्य स्थापेन्मूर्ध्नि आयुरारोग्यवर्धनी ॥ ५ ॥

वज्रबन्धं दृढीकृत्य समाङ्गुष्ठप्रवेशिता । तर्जनी दृढं संकोचा वलिता पादकर्षणी ॥ ६ ॥ ॥

त्रिलोकविजयां बध्वा यस्य बिम्बं समाक्रमेत् ।
वामपादेन तं सत्वं मासादर्धेन सिद्ध्यति ॥ ७ ॥

वज्रमुद्राद्विकं बध्वा ताडयेत परस्परं ।
यस्य वै रात्वकायं तु समाविष्टस्तु ताडयेत् ॥ ८ ॥

वज्रमुद्राद्विकं बध्वा कवचं स्वं परस्य वा ।
ग्रन्थनन् तर्जनीभ्यां तु रक्षा भवती शाश्वती ॥ ९ ॥

वज्रबन्धं तले कृत्वाच्छादयेत्क्रुद्धमानसः ।
गाढमङ्गुष्ठ [वज्रेण] सिद्ध्येद्वज्रकुलं महत् ॥ १० ॥

सत्ववज्रं दृढीकृत्य द्व्यङ्गुष्ठग्रस्तमध्यमे ।
कनिष्ठा वज्रमुखतो तीक्ष्ण[आन्तु समय]ग्रहां ॥ ११ ॥

वज्रमुद्राद्विकं बध्वा कुञ्चिताग्र्या निबन्धितं ।
वलितोद्वलितं कुर्वन् देवाकर्षणमुत्तमं ॥ १२ ॥

वज्रबन्धं दृढीकृत्य कुञ्चिताग्र्या सुयन्त्रितं ।
सन्धायाङ्गुष्ठयुगलं पीड्य मध्येऽन्तरीक्षिणां ॥ १३ ॥

कनिष्ठाङ्गुलिमध्यन्तु वज्रमुद्राद्विकस्य तु ।
पृष्ठतोऽग्र्याङ्गुलिग्रस्तं परिवर्त्य खचारिणां ॥ १४ ॥

वज्ररक्षां दृढीकृत्य वज्रबन्धं तु पीडयेत् ।
भौमानां समयो ह्येष सर्वकृद् दुरतिक्रमः ॥ १५ ॥

वज्रमुद्राद्विकं बध्वा वामवज्राग्र्यपीडिता ।
अन्त्याङ्गुलिसमास्फोटा पाताताकर्षणी त्वियं ॥ १६ ॥

ग्रन्थितं वज्रबन्धेन दृढन्तर्जनिकाद्वयं ।
मध्यमाङ्गुष्ठवज्रं तु दुष्टमुद्राप्रभञ्जकं ॥ १७ ॥

वज्रमुद्राद्वयं बध्वा हृदि स्थाप्य समाहितः ।
पीडयेत्क्रोधमुष्टिं तु बाह्यमण्डलनाशनी ॥ १८ ॥

वामवज्राङ्गुलिं गृह्य दक्षिणाकुञ्चिताग्र्यया ।
आस्फोटयं सुसंक्रुद्धः सुमेरुमपि पातयेत् ॥ १९ ॥

वामवज्राङ्गुलिं गृह्य दक्षिणाग्र्याङ्कु शेन तु ।
आकर्षयत्सुसंक्रुद्धो ग्रहां सर्वान् वशन्नयेत् ॥ २० ॥

वज्रबन्धं समाधाय बाहुभ्यां सुदृढं हृदि ।
वज्राग्र्याभ्यां स्वकुक्षौ तु कुशंस्तु हृदयं हृदि ॥ २१ ॥

अ[ग्र्याङ्गु]लिमुखाभ्यां तु पीडयेत्क्रुद्धमानसः ।
अङ्गुष्ठद्वयमूलन्तु ज्वराकर्षणमुत्तमं ॥ २२ ॥

वज्राञ्जलिं दृढीकृत्य तर्जनीद्वय [कुञ्चिता] ।
सुसन्धितसमाङ्गुष्ठयन्त्रिता पापहारिणी ॥ २३ ॥

अग्र्याङ्गु लिद्वयं बध्वा वज्रमुद्राद्विकान्तरात् ।
समुत्क्षिपेत् क्षणादूर्ध्वं पतितोत्क्षे[पकोत्तमं] ॥ २४ ॥

वज्रबन्धं दृढीकृत्य मध्यमामुखसन्धिता ।
चतुरन्त्यमुखासङ्गात् पापं स्फोटयति क्षणात् ॥ २५ ॥

अथ सर्वतथागतमण्डल[साधन]मुद्राबन्धो भवति ।

सूत्रयन्मण्डलं पूर्व वज्रमुद्राग्रहेण तु ।
सूत्रं तु धारयेत्पश्चात् यथावत् सूत्रणं स्मृतं ॥ १ ॥

सुसन्धितसमाग्र्यन्तु वज्रमुद्राद्विकस्य तु ।
कृत्वा तु सर्वरङ्गाणि दीप्तदृष्ट्या समाव्हयेत् ॥ २ ॥

द्विवज्राग्र्याङ्गुली सम्यक् सन्धायोत्तानतो दृढं । विवारयेत संक्रुद्धो द्वारोद्धाटनमुत्तमम् ॥ इति ॥ ३ ॥

अथ सर्ववज्रकुलसर्वमुद्रासाधनं भवति ।
प्रत्यालीढकृतिङ्कृत्वा क्रोधवाचा प्रवर्तयन् ।
क्रोधदृष्ट्या तु संक्रुद्धः सर्वकर्माणि साधयेद् ॥ इति ॥

सर्वतथागतवज्रसमयान्महाकल्पराजात् त्रिलोकविजयमहामण्डलविधिविस्तरः समाप्तः ॥

अध्याय 7
KRODHA-GUHYA-MUDRA-MANDALA-VIDHI-VISTARA

Emanation of deities form समाधि

अथ भगवान् पुनरपि वज्रधारणीसमयसंभववज्राधिष्ठानं नाम समाधिं समापद्येमां स्वविद्योत्तमामभाषत् ॐ सर्ववज्रिणि वज्रमाते आनय सर्व वज्रसत्येन हूं ज्जः ॥

अथास्यां भाषितमात्रायां वज्रपाणिहृदयात्स एव भगवान् वज्रापाणिः वज्रपाणिसदृशसर्वात्मभावाः समन्तज्वालागर्भा वज्रक्रोधसमयमुद्रा देवता भूत्वा विनिःसृत्य, सर्वलोकधातुषु सर्वतथागतार्थान् निष्पाद्य, भगवतो वज्रसत्वस्य गुह्यभार्यताप्रच्छादनार्थ कायवाक्चित्तवज्रमुद्राबिम्बानि भूत्वा, भगवतो वैरोचनस्य त्रिलोकविजयमहामण्डलयोगेन चन्द्रमण्डलाश्रिता भूत्वेदमुदानमुदानयिंसुः ।

अहो हि सर्वबुद्धानां गुह्यज्ञानमनुत्तरं ।
यत् तथागतसौख्यार्थं भार्यात्वमपि कुर्वते ॥ ति ॥

हीः ॥

Delineation of the मण्डल

अथ वज्रापाणिः पुनरपि स्वकुलसमयमुद्रामण्डलवज्रसमयगुह्यन्नाममभाषत् ।

अथातः संप्रवक्ष्यामि वज्रमण्डलमुत्तमं ।
वज्रधातुप्रतीकाशं क्रोधगुह्यमिति स्मृतं ॥ १ ॥

महामण्डलयोगेन सूत्रयेत्सर्वमण्डलं ।
पञ्चमण्डलसंस्थेषु गुह्यमुद्रान्निवेशयेत् ॥ २ ॥

वज्रमण्डलमध्येऽस्मिं बुद्धबिम्बन्निवेशयेत् ।
बुद्धस्य क्रोधसमयान् यथावत्तु लिखेद्बुधः ॥ ३ ॥

वज्रवेगेन निःक्रम्य वज्रपाणेस्तु मण्डलं ।
तत्र मध्ये लिखेत् तिर्यक् शूलवज्रं प्रतिष्ठितं ॥ ४ ॥

ज्वालामध्ये लिखेत् तस्य यथावदनुपूर्वशः ।
वज्रं वज्राङ्कुशं चैव वाणं तुष्टिस्तथैव च ॥ ५ ॥

वज्र[वेगे]न चाक्रम्य द्वितीयं मण्डलोत्तमं ।
वज्ररत्नं लिखेत् चैव चक्रमध्ये प्रतिष्ठितं ॥ ६ ॥

वज्रभृकुटिमध्ये [वज्रसूर्यं त]था ध्वजं ।
दन्तपंक्ती तथा वज्रैतस्य पार्श्वेषु संलिखेत् ॥ ७ ॥

वज्रवेगेन चाक्रम्य तृतीयं मण्ड[लोत्तमं ।
वज्रपद्मं लिखेद् दिव्यं पद्ममध्ये प्रति]ष्ठितं ॥ ८ ॥

ज्वालामध्ये लिखेत्पद्मं खङ्गं चक्रन्तथैव च ।
वज्रजिव्हां यथावत् तु तस्याः पार्श्वेषु स[र्वेषु ॥ ९ ॥

वज्रवेगेन चाक्रम्य चतुर्थ मण्डलोत्त]मं ।
तिर्यग्वज्रे लिखेद् वज्रं वृतं वज्रैर्महाप्रभैः ॥ १० ॥

तस्याः पार्श्वेषु सर्वेषु सर्वज्वालाकुलप्रभाः ।
[विश्ववज्रं सुकवचं वज्रदंष्ट्रमुष्टिं लिखेत् ॥]११ ॥

कोणेषु बाह्यसंस्थेषु यथावत्तु लिखेन्नयं ।
अतः परं प्रवक्ष्यामि मुद्राविद्याः समासतः ॥ १२ ॥

[सिः ॥

ॐ वज्रक्रोधसमये सिः ॥

ॐ वज्र]रोषाङ्कुश्यानय सर्व सिः ॥

ॐ वज्ररोषे कामवज्रिणि वशं मे आनय हि सिः ॥

ॐ वज्रतुष्टि[क्रोधे तोष्य सर्वाणि सिः ॥

वज्रसिंकारम]ण्डले ॥]

जिः ॥

ॐ वज्रभृकुटिक्रोधे हर सर्वार्थ जिः ॥

ॐ वज्रज्वालामालप्रभे महाक्रोधा[ग्नि ज्वालय सर्व विरोषे जिः ॥

ॐ वज्र]ध्वजाग्रकेयूरमहाक्रोधे देहि मे सर्वं जिः ॥

ॐ वज्राट्टहासनि हस हसाट्टाट्टहासेन [मारय जिः ॥

वज्रजिंकारमण्डले ॥]

दिः ॥

ॐ वज्रशुद्धक्रोधे हन मारय दुष्टान् दिः ॥

ॐ वज्रतीक्ष्णक्रोधेच्छिन्द वज्रकोशेन सर्वान् दिः ॥

ॐ [वज्रहेतुमहा क्रोधे प्रवेश चक्र प्रवेशय सर्वान्] दिः ॥

ॐ वज्रजिव्हे महाक्रोधभाषे वाचं मुञ्च दिः ॥

वज्रदिंकारमण्डले ॥]

न्हिः ॥

ॐ सर्व मुखे [कर्मवज्रिणि महाक्रोधे कुरु सर्वान् न्हिः ॥

ॐ वज्र] कवचक्रोधे रक्ष मां न्हिः ॥

ॐ वज्रचण्डक्रोधे महायक्षिणि वज्रदंष्ट्राकरालभीषणि भीषा[पय न्हिः ॥

ॐ वज्रक्रोधे मुष्टिबन्ध न्हिः ॥

वज्रन्हिं]कारमण्डले ॥]

ततः कोणमण्डलेषु वज्रनृत्यगुह्यपूजाविद्याहृदयानि भवन्ति ।
वज्र हूं र्ख्ने ॥

वज्र हूं घूं ॥

वज्र हूं र्ते ॥

वज्र हूं स्तें ॥

बहिःकोणेषु तूर्यपूजाहृदयानि भवन्ति ।
वज्र ती ते ॥

वज्र टं टः ॥

वज्र धा धू ॥

वज्र धौ धः ॥

द्वारपालानां पूजाहृदयानि भवन्ति ।
वज्र जः ज्जः ॥

वज्र हूं हूं ॥

वज्र वं वं ॥

वज्र अः अः ॥

Initiation into the मण्डल


अथास्मिन् वज्रकुलगुह्यमण्डले प्रवेशविधिविस्तरो भवति । तत्रादित एव तावत् त्रिलोकविजयमहामण्डलप्रवेशविधिना प्रविश्य, वज्रगुह्यवज्रकुलसमयमुद्राप्रतिमुद्रोपमुद्राज्ञानमुद्राभिः वज्रधरपूजार्थ नृत्योपहारः कर्तव्य इति ।

तत्रेदं नृत्यप्रतिनृत्योपनृत्यज्ञाननृत्योपहारमुद्राज्ञानं भवति । [तत्रादित एव वज्रधातुसंग्रहहृदयं वज्रगीतेन गायन् सर्वतथागतानां स्तोत्रोपहारङ्कृत्वा, वज्राचार्येण सत्ववज्रिमुद्रा स्फोटयितव्या, ततो यथा प्र[विष्ट]मुद्राभिः समाविशन्ति ।

वज्रनृत्यप्रयोगेण वज्रक्रोधाङ्गुलिद्वयं ।
वज्रहुंकारमुद्रां तु हृदये तु निबन्धयेत् ॥ १ ॥

ततस्तु नृत्यविधि[ना वज्र]क्रोधाङ्कुशेन तु ।
आकर्षयत् सर्वबुद्धान् वज्रवाणां परिक्षिपेत् ॥ २ ॥

वज्रवाणपरिक्षेपाद् वज्रतुष्ट्या तु साधयेत् ।
मुक्त्वा मुद्रां यथा[विधि]तालया चैव बन्धयेत् ॥ ३ ॥

अनेन पूजाविधिना वज्रपाणिन्तु तोषयेत् ।
तुष्टः सत् सर्वकार्याणि साधयेद् रुचितः क्षणात् ॥ ४ ॥

तत्रैतानि नृत्यहृदयानि भवन्ति ।
सिद्ध्य वज्र ॥

आनय वज्र ॥

रागय वज्र ॥

साधु वज्र ॥

ततः प्रतिनृत्योपहारः कर्तव्यः ।

तथैव नृत्यन् वामां तु गृह्य दक्षिणमुष्टिना ।
परिवर्त्य ललाटो तु निवेश्याग्र्या मुखेन तु ॥ १ ॥

तथैव नृत्यं सूर्यान्तु परिवर्त समाव्हयेत् ।
वज्रकेतुं समुत्क्षिप्य हसेद् वज्राट्टहासया ॥ २ ॥

अनेन पूजाविधिना राजादीन् सर्वमानुषान् ।
वशित्वाच्च सुतेजस्त्वाद् दानाच्चाशाच्च तोषयेत् ॥ ३ ॥

तत्रैतानि प्रतिमुद्राहृदयानि भवन्ति ।
आहि वज्र ॥

ज्वालय वज्र ॥

देहि वज्र ॥

हस हस वज्र ॥

तथैव नृत्यं मुक्त्वा तु समकुड्मलसन्धिते ।
अग्राङ्गुली हृदि स्थाप्य नमेदाशयकंपितैः ॥ १ ॥

तथैव नृत्यं छिन्देद् वै वज्रकोशेन नाशकान् ।
अलातचक्रभ्रमया भ्रामयेच्चक्रमण्डलन् ॥ २ ॥

गायन् वै वज्रवाचा तु पूजयेद् वज्रपाणिनं ।
अनेन पूजाविधिना सर्व भवति शाश्वतं ॥ ३ ॥

तत्रैतान्युपमुद्राहृदयानि भवन्ति ॥

कामय वज्र ॥

च्छिन्दय वज्र ॥

भ्रामय वज्र ॥

ब्रूहि वज्र ॥

वज्रक्रोधाङ्गुली सम्यगुत्तानमुखसन्धिता ।
परिवर्त्य तथोष्णीषे तर्जनी मुखसंस्थिता ॥ १ ॥

वज्रकर्मप्रयोगेण सर्वकार्याग्रमण्डलं ।
दर्शयन् नृत्यविधिना हृदये प्रतिशामयेत् ॥ २ ॥

तथैव नृत्यविधिना वज्ररक्षां तु बन्धयेत् ।
वज्रदंष्ट्रे समाधाय वज्रमुष्ट्या तु पीडयेत् ॥ ३ ॥

अनेन पूजाविधिना सर्वकर्मक्षमो भवेत् । कृत्वा चतुर्विधां पूजां मुद्रां मुञ्चेद् यथाविधिर् ॥ इति ॥ ४ ॥

तत्रैतानि हृदयानि भवन्ति ।
नृत्य वज्र ॥

रक्ष वज्र ॥

खाद वज्र ॥

बन्ध वज्र ॥

ततः क्रोधगुह्यमुद्राज्ञानं शिक्षयेत् ।

वज्रं गृह्य तु पाणिभ्यां स्फोटयेत् क्रुद्धमानसः ।
यस्य नाम्ना तु हृदयं स्फुटेत् तस्य जनस्य हि ॥ १ ॥

अधोष्ठं दशनैर्गृह्य यस्य नाम्ना तु पीडयेत् ।
शिरस्तस्य स्फुटेच्छीघ्रं यद्याज्ञां समतिक्रमेत् ॥ २ ॥

वज्रक्रोधमहादृष्ट्या चक्षुषी तु निमीलयेत् ।
निरीक्षत् यस्य नाम्ना तु स्फुटेत् एतस्य चाक्षिणी ॥ ३ ॥

वज्रक्रोधसमापत्त्या हृदयं स्वयमात्मना । पीडयेद् वज्रबन्धेन तस्य चित्तं परिस्फुटेद् ॥ इति ॥ ४ ॥

तत्रैतानि हृदयानि भवन्ति ।
हुं वज्रस्फोट ठः ॥

हुं मुखवज्र ठः ॥

हुं वज्रनेत्र ठः ॥

हुं मनोवज्र ठः ॥

ततो महावज्रकुलगुह्यमुद्राज्ञानं शिक्षयेत् । तत्र प्रथमं तावन्महामुद्राबन्धो भवति ।

कनिष्ठाङ्कुशबन्धेन वज्रक्रोधान्निवेशयेत् ।
वामत्रिशूलपृष्ठे तु त्रिलोकविजया स्मृता ॥ १ ॥

सुप्रसारितवामाग्र्या तथैवोत्तानवारिजा । परिवर्त्य तथा चैव वामवज्रा प्रतिष्ठिते ॥ ति ॥ २ ॥

वज्रबन्धन्तले कृत्वा च्छादयेत्क्रुद्धमानसः ।
गाढमङ्गुष्ठवज्रेण क्रोधतेरिन्तिरिः स्मृता ॥ ३ ॥

कुञ्चिताग्र्याङ्कुशी चैव तर्जनीमुखवज्रिणी ।
साधुकारा तथाग्र्याभ्यां अग्रवज्रा मुखस्थिता ॥ ४ ॥

हृदये सूर्यसंदर्शा समाग्र्या मूर्ध्नि संस्थिता ।
परिवर्त्य स्मितस्था तु समाग्र्या कुड्मला तथा ॥ ५ ॥

खङ्गमुष्टिग्रहद्वाभ्यामग्र्या चक्रा निबन्धनः ।
समाग्र्या मुखतोद्धान्ता तर्जनी संप्रसारिता ॥ ६ ॥

तर्जनी गले बन्धा तु ताभ्यां दंष्ट्रा मुखस्थिता । गाढमुष्टिनिबन्धाश्च महामुद्राः प्रकल्पिता ॥ ७ ॥ इति ॥

अथ वज्रकुलगुह्यसमयमुद्राबन्धो भवति ।

गुह्यमुष्टिसमुद्भूताः समयाग्र्यः प्रकीर्तिताः ।
तासां बन्धं प्रवक्ष्यामि वज्र[बन्ध]मनुत्तरं ॥ १ ॥

हृदिस्था वलिता पार्श्वे वाणाकर्षा तु वामतः ।
हृदयाच्च समुद्धान्ता भृकुटिः परिवर्त्य वै ॥ २ ॥

सूर्यमण्डलसंदर्शा मूर्ध्नि बाहुप्रसारिता ।
परिवर्त्य स्मितस्था तु मुखमध्यसुसंस्थिता ॥ ३ ॥

कोशग्रप्रहराकारा चक्रनिक्षेपदर्शिका ।
मुखतश्च समुद्धान्ता मूर्ध्नि कायाग्रमण्डला ॥ ४ ॥

स्कन्धयोर्हृदि पार्श्वाभ्यां वज्ररक्षाकृतिस्तथा ।
दंष्ट्रासंस्थानयोगाच्च गाढमुष्टिनिपीडिता ॥ ५ ॥

बाह्यमण्डलमुद्रास्तु बन्धेच्चिह्नानुसारतः । समया वज्रबन्धेन तथास्या वज्रमुष्टिना ॥ ६ ॥ इति ॥

अथ वज्रकुलगुह्यधर्ममुद्रा भवन्ति । फ ट्टः । श ट्टः । म ट्टः । स ट्टः । र ट्टः । त ट्टः । घृ ट्टः । ह ट्टः । प ट्टः । त्र ट्टः । क ट्टः । ध ट्टः । कु ट्टः । रि ट्टः । ख ट्टः । व ट्टः ॥

अथ वज्रकुलगुह्यकर्ममुद्राबन्धो भवति ।
कर्ममुद्राः समासेन वज्रमुष्टिर्द्विधीकृता ।
यथा स्थानेषु संस्थेया क्रोधदुष्ट्या सुरोषवान् ॥ इति ॥

सर्वतथागतवज्रसमयान्महाकल्पराजात् क्रोधगुह्यमुद्रामण्डलविधिविस्तरः परिसमाप्तः ॥

अध्याय 8
VAJRA-KULA-DHARMA-JNANA-SAMAYA-MANDALA-VIDHI-VISTARA

Emanation of deities from samadhi

अथ भगवान् पुनरपि सर्वतथागतवज्रकुलसमाधिज्ञानमुद्राधिष्ठानं नाम समाधिं समापद्येमं सविद्योत्तममभाषत् ॐ सर्वतथागतसूक्ष्मवज्रक्रोध हूं फट् ।

अथ वज्रपाणिर्महाक्रोधराजा त्रिलोकविजयसूक्ष्मवज्रविद्योत्तममभाषत् ॐ सूक्ष्मवज्रक्रोधाक्रम हूं फट् ॥

अथ वज्रगर्भो [बोधि]सत्व इमं त्रिलोकविजयसूक्ष्मवज्रविद्योत्तमभाषत् ॐ सूक्ष्मवज्ररत्नाक्रम हूं फट् ॥

अथ वज्रनेत्रो बोधिसत्व इमं त्रिलोकविजयसूक्ष्मवज्रविद्योत्तममभाषत् ॐ सूक्ष्मवज्रपद्मक्रोधाक्रम हूं फट् ॥

अथ वज्रविश्वो बोधिसत्व इमं त्रिलोकविजयसूक्ष्मवज्रविद्योत्तममभाषत् ॐ सूक्ष्मवज्रकर्मक्रोधाक्रम हूं फट् ॥

अथ वज्रपाणिर्महाबोधिसत्वः पुनरपि स्वकुलमुत्साद्य, वज्रधातुमहामण्डलयोगेन सन्निवेश्यैतानि स्वहृदयान्यभाषत् ।

ॐ वज्रसत्व सूक्ष्मज्ञान क्रोध हूं फट् ॥ १ ॥

ॐ सूक्ष्मवज्राङ्कुशाकर्षय महाक्रोध हूं फट् ॥ २ ॥

ॐ वज्रसूक्ष्मरागक्रोधानुरागय तीव्रं हूं फट् ॥ ३ ॥

ॐ सूक्ष्मवज्रतुष्टिक्रोध हूं फट् ॥ ४ ॥

ॐ सूक्ष्मवज्रभृकुटिक्रोध हर हर हूं फट् ॥ ५ ॥

ॐ वज्रसूक्ष्मज्वालामण्डलक्रोध सूर्य ज्वालय हूं फट् ॥ ६ ॥

ॐ सूक्ष्मवज्रध्वजाग्रक्रोध सर्वार्थान् मे प्रयच्छ शीघ्रं हूं फट् ॥ ७ ॥

ॐ वज्रसूक्ष्महासक्रोध ह ह ह ह हूं फट् ॥ ८ ॥

ॐ सूक्ष्मवज्रधर्मक्रोध शोधय हूं फट् ॥ ९ ॥

ॐ सूक्ष्मवज्रच्छेदक्रोध छिन्द भिन्द हुं फट् ॥ १० ॥

ॐ सूक्ष्मवज्रक्रोध महाचक्र छिन्द पातय शिरः प्रविश्य हृदयं भिन्द हूं फट् ॥ ११ ॥

ॐ सूक्ष्मवज्रहूंकारक्रोध हन पातय वाङ्मात्रेण हूं फट् ॥ १२ ॥

ॐ सूक्ष्मवज्रकर्मक्रोध सर्वकर्मकरो भव सर्वकार्याणि साधय हूं फट् ॥ १३ ॥

ॐ वज्रसूक्ष्मकवचक्रोध रक्ष रक्ष हूं फट् ॥ १४ ॥

ॐ सूक्ष्मवज्रयक्षक्रोध हन भक्षय सर्वदुष्टान् चिन्तितमात्रेण वज्रदंष्ट्र हूं फट् ॥ १५ ॥

ॐ सूक्ष्मवज्रमुष्टिक्रोध बन्ध बन्ध हूं फट् ॥ १६ ॥

Delineation of the मण्डल

अथ वज्रापाणिः पुनरपीदं वज्रकुलसूक्ष्मज्ञानसमयमण्डलमुदाजहार ।

अथातः संप्रवक्ष्यामि धर्ममण्डलमुत्तमं ।
वज्रधातुप्रतीकाशं क्रोधज्ञानमिति स्मृतं ॥ १ ॥

महामण्डलयोगेन सूत्रयेत्सर्वमण्डलं ।
तस्य मध्ये लिखेद्बुद्धं ज्ञानवज्रस्य मध्यगं ॥ २ ॥

बुद्धस्य सर्वपार्श्वेषु मुद्रास्ता एव संलिखेत् ।
वज्रवेगेन निष्क्रम्य मण्डलानां चतुष्टये ॥ ३ ॥

त्रिलोकविजयाभ्यांस्तु यथावत् तु निवेशयेत् । तेषां तु सर्वपार्श्वेभ्यो वज्रक्रोधान् यथाविधिर् ॥ ४ ॥ इति ॥

Initiation into the मण्डल

अथात्र वज्रकुलसूक्ष्मज्ञानमण्डले यथावद् विधिविस्तरो भवति । तत्रादित एव तावत्प्रवेश्य ब्रूयाद्"अद्य त्वं सर्वतथागतवज्रक्रोधतायां वज्रपाणिना भगवताभिषि[क्तं] तत्साधु॑ प्रतिपद्यस्वाशेषानवशेषसत्वधातुपरित्राण यावत् सर्वतथागतहितसुखोत्तमसिद्ध्यवाप्तिफलहेतोर्वज्रक्रोधे[ण सर्व]सत्वानपि संशोधननिमित्तं मारयितुं॑ कः पुनर्वादः सर्वदुष्टान्" इति । इदमुक्त्वा मुखबन्धं मुञ्चेत् । ततः सर्वमण्डलं दर्शयित्वा, [वज्रं] यथावत्पाणौ दत्वा, ततो वज्रक्रोधसूक्ष्मज्ञानानि शिक्षयेत् ।

सूक्ष्मवज्रं दृढीकृत्य वज्रहुंकारयोगतः ।
हुंकारं योजयेद्यस्य तस्य नश्यति जीवितं ॥ १ ॥

सूक्ष्मवज्रं दृढीकृत्य स्फरयेत यथाविधि ।
यावत्तः स्फरते तं तु तावन्नश्यत्यसौ रिपुः ॥ २ ॥

सूक्ष्मवज्रविधिं योज्य वज्रहुंकारयोगतः ।
स्फरयेत् क्रोधवान् यावत् तावत् सत्वान् विनाशयेत् ॥ ३ ॥

तथैव संहरेत् तत्तु यावदिच्छेत योगवान् । सर्वं वापि हि निःशेष पुनरदयात् तु जीवितम् ॥ ४ ॥ ॥ इति ॥

तत्रैषां हृदयानि भवन्ति ।
हुं ॥

हुंनाशय वज्र ॥

हुं विनाशय सर्वान् वज्र ॥

ॐ सूक्ष्मवज्र प्रत्यानय शीघ्रं हुं ॥

वज्रं तु यस्य सत्वस्य सहभूत्वा महादृढं ।
मैत्रीस्फरणतायोगात्स्फरन् वैरेण नाशयेत् ॥ १ ॥

वैरस्फरणतायोगात् कारुण्यं यस्य कस्यचित् ।
तेन कारुण्ययोगेन सर्वदुष्टान् स नाशयेत् ॥ २ ॥

अधर्मा यदि वा धर्माः प्रकृत्या तु प्रभास्वराः ।
एवं तु भावयं सत्वां हुंकारेण तु नाशयेत् ॥ ३ ॥

दुर्दुरूटा हि ये सत्वा बुद्धबोधावभाजनाः ।
तेषां तु संशोधनार्थाय हुंकारेण तु नाशयेत् ॥ ४ ॥

तत्रैषां हृदयानि भवन्ति ।
वैर वज्रक्रोध हुं फट् ॥

करुणा वज्रक्रोध हुं फट् ॥

हुं विशुद्ध वज्रक्रोध हूं फट् ॥

हुं विशोधन वज्रक्रोध हूं फट् ॥

वज्रबिम्बं समालिख्य मनसा यस्य कस्यचित् ।
पातयेद् गृहमध्ये तु तस्य तन्नश्यते कुलं ॥ १ ॥

तथैव सूक्ष्मविधानेन हृद्वज्रं परिभावयेत् ।
बोधिसत्वमहाबिम्बं पातयेन्नाशयेत्कुलं ॥ २ ॥

वज्रपाणिमहाबिम्बं भावयन् यत्र पातयेत् ।
तद् राज्यं विविधैर्दोषै राज्ञैव सह नश्यति ॥ ३ ॥

सर्वाकारवरोपेतं बुद्धबिम्बं तु भावयन् । पातयेद्यत्र राज्ये तु तद् राज्यन्नश्यते ध्रुवम् ॥ ४ ॥ इति ॥

तत्रैतानि हृदयानि भवन्ति ।
हुं वज्र प्रपात ॥

हूं बोधिसत्त्व प्रपात ॥

हूं वज्रधर प्रपात ॥

हूं बुद्ध प्रपात ॥

सूक्ष्मवज्रप्रयोगेण चन्द्रबिम्बं स्वमात्मना ।
भावयं स्वयमात्मानं पतेद्यत्र पतेत्स तु ॥ १ ॥

चन्द्रे वज्रं स्वमात्मानं भावयं स्वयमात्मना ।
पतेद्यत्र सुसंक्रुद्धस्तत्कुलं पतति क्षणात् ॥ २ ॥

वज्रपाणिं स्वमात्मानं भावयं स्वयमात्मना ।
पतेद्यत्र हि तं देशमचिराद् विप्रणंक्ष्यते ॥ ३ ॥

बुद्धबिम्बं स्वमात्मानं भावयं स्वयमात्मना । पतेद्यत्र तु तद् राज्यमचिरेणैब नश्यति ॥ ४ ॥ इति ॥

तत्रैतानि हृदयानि भवन्ति ।
बोध्यग्र प्रपातय हुं ॥

सर्ववज्र प्रपातय हुं ॥

वज्रसत्व प्रपातय हुं ॥

बुद्ध प्रपातय हुं ॥

Mudra

ततो वज्रकुलधर्मरहस्यमुद्राज्ञानं शिक्षयेत् ।

वज्र[क्रोधसमाप]त्या स्वकायं परिवेष्टयेत् ।
यस्य नाम्ना स म्रियते संवेष्टन् वज्रहुंकृतः ॥ १ ॥

सूक्ष्मवज्रं समापद्य सूक्ष्मनासिकया सकृतः ।
श्वासहुंकारयोगेन त्रयोक्यमपि पातयेत् ॥ २ ॥

सूक्ष्मवज्रविधिं योज्य क्रुद्धः सन् वज्रदृष्टितः ।
निरीक्षन्नन्धतां याति मरणं वातिगच्छति ॥ ३ ॥

भगेन तु प्रविष्ट्या वै मनसा यस्य कस्यचित् ।
हृदयाकर्षणाद्याति वशं स्वं वा यमस्य वे- ॥ इति ४ ॥

तत्रैषां हृदयानि भवन्ति ।
हुं वज्र वलित क्रोध मारय हुं फट् ॥

ॐ वज्र सूक्ष्म श्वास विषं पातय हुं फट् ॥

ॐ वज्र दृष्टि विषं नाशय हुं फट् ॥

हुं हृदयाकर्षण क्रोध प्रविश कायं हृदयं च्छिन्द भिन्द कड्ढाकड्ढ फट् ॥

ततो वज्रकुलधर्ममुद्राज्ञानं शिक्षयेत् ।
तत्र तावन्महामुद्राबन्धो भवति ।
वज्रज्ञानप्रयोगेण ज्वालामालाकुलप्रभान् ।
वज्रक्रोधान् स्वमात्मानं भावयं सिद्ध्यति क्षणाद् ॥ इति ॥

ततो वज्रकुलधर्मसमयमुद्राज्ञानं शिक्षयेत् ।
समाधिज्ञानसमया द्वि-हुं-कारसमन्धिता ।
यथा स्थानेषु संस्थेया सर्वसिद्धिप्रदावरम् ॥ इति ॥

ततो वज्रकुलधर्मसमयधर्ममुद्राज्ञानं शिक्षयेत् । फट् सट् मट् सट् रट् तट् धृट् हट् पट् त्रट् घट् भट् कृट् रिट् खट् वट्

इति च प्रोक्ता धर्ममुद्राः समासत इति ॥

ततो वज्रकुलधर्मसमयकर्ममुद्राज्ञानं शिक्षयेत् ।
धर्ममुष्टिं द्विधीकृत्य यथा स्थानप्रयोगतः
कर्ममुद्राः समासेन सिद्धिं यान्ति यथाविधिर् ॥ इति ॥

सर्वतथागतवज्रसमयान्महाकल्पराजाद् वज्रकुलधर्मज्ञानसमयमण्डलविधिविस्तरः समाप्तः ॥


अध्याय 9
VAJRA-KULA-KARMA-MANDALA-VIDHI-VISTARA

Emanation of deities from samadhi

अथ भगवान् सर्वतथागतवज्रकर्मसमयसंभवाधिष्ठानन्नाम समाधिं समापद्येमां स्वविद्योत्तमामभाषत् ॐ सर्वतथागत कर्मेश्वरि हूं ॥

अथ वज्रपाणिर्महाबोधिसत्वः पुनरपीमां स्वविद्योत्तमामभाषत् ॐ सर्वतथागतधर्मधातुस्फरणमहापूजाकर्मविधिविस्तरसमये त्रिलोकविजयंकरि सर्वदुष्टान् दामय वज्रिणि हूं ॥

अथ वज्रगर्भो बोधिसत्वः पुनरपीमां स्वविद्योत्तमामभाषत् ॐ सर्वतथागताकाशधातुसमवसरणमहापूजाकर्मविधिविस्तरसमये हूं ॥

अथ वज्रनेत्रो बोधिसत्वः पुनरपीमां स्वविद्योत्तमामभाषत् ॐ सर्वतथागतधर्मधातुस्फरणमहापूजाकर्मविधिविस्तरसमये हूं ॥

अथ वज्रविश्वो बोधिसत्वः पुनरपीमां स्वविद्योत्तमामभाषत् ॐ सर्वतथागतसर्वलोकधातुविविधमहापूजाकर्मविधिविस्तरसमये हूं ॥

अथ वज्रपाणिर्महाबोधिसत्वः पुनरपि स्वकुलपूजाविधिविस्तरदेवताः स्वहृदयादुत्पाद्य, सर्वलोकधातुषु सर्वतथागताकर्षणवशीकरणानुरागणसर्वकर्मसिद्धिकार्यकरणतासन्नियोजनादीनि सर्वतथागतर्द्धिविकुर्वितानि कृत्वा, पुनरपि भगवतो वैरोचनस्य वज्रधातुमहामण्डलयोगेन चण्द्रमण्डलान्याश्रित्यावस्थिता इति ।

Delineation of the मण्डल

अथ वज्रपाणिर्महाबोधिसत्व इदं वज्रकर्मसमयविधिविस्तरकर्ममण्डलमभाषत् ।

अथातः संप्रवक्ष्यामि कर्ममण्डलमुत्तमं ।
वज्रधातुप्रतीकाशं कर्मवज्रमिति स्मृतं ॥ १ ॥

महामण्डलयोगेन सूत्रयेत्सर्वमण्डलं ।
मध्यमण्डलसंस्थेषु बुद्धबिम्बन् निवेशयेत् ॥ २ ॥

बुद्धस्य सर्वपार्श्वेषु समयाग्र्यो निवेशयेत् ।
वज्रवेगैः समाक्रम्य मण्डलानां चतुष्टये ॥ ३ ॥

चत्वारो वज्रनाथाद्या यथावत्तु निवेशयेत् । तेषां सर्वेषु पार्श्वेषु महासत्व्यो निवेशयेद् ॥ ४ ॥ इति ॥

अथात्र कर्ममण्डले वज्रकर्ममुद्रा भवन्ति ।
ॐ वज्रसत्वसिद्धिज्ञानसमये हुं ज्जः ॥ १ ॥

ॐ वज्राकर्षणकर्मज्ञानसमये हुं ज्जः ॥ २ ॥

ॐ वज्ररतिरागकर्मज्ञानसमये हुं ज्जः ॥ ३ ॥

ॐ वज्रसाधुकर्मज्ञानसमये हुं ज्जः ॥ ४ ॥ ॥

ॐ वज्रभृकुटी वशीकुरु हुं ॥ ५ ॥

ॐ वज्रसूर्यमण्डले वशीकुरु हुं ॥ ६ ॥

ॐ वज्रध्वजाग्रकेयूरे वशीकुरु हुं ॥ ७ ॥

ॐ वज्राट्टहासे वशीकुरु हुं ॥ ८ ॥

ॐ वज्रपद्मरागे रागय हुं ॥ ९ ॥

ॐ वज्रतीक्ष्णरागे रागय हुं ॥ १० ॥

ॐ वज्रमण्डलरागे रागय हुं ॥ ११ ॥

ॐ वज्रवाग्रागे रागय हुं ॥ १२ ॥

ॐ वज्रकर्मसमये पूजय हुं ॥ १३ ॥

ॐ वज्रकवचबन्धे रक्षय हुं ॥ १४ ॥

ॐ वज्रयक्षिणि मारय वज्रदंष्ट्राया भिन्द हृदयममुकस्य हुं फट् ॥ १५ ॥

ॐ वज्रकर्ममुष्टि सिद्ध्य सिद्ध्य हुं फट् ॥ १६ ॥

ऋइतुअल्

अथात्र कर्ममण्डले यथावद् विधिविस्तरं कृत्वा, वज्रकुलकर्मज्ञानान्युत्पादयेत् ।

तत्रादित एव शान्तिकर्मादिज्ञानं शिक्षयेत् ।
समिद्भिर्मधुरैरग्निं प्रज्वाल्य सुसमाहितः ।
वज्रक्रोधसमापत्त्या तिलां हुत्वा अघान्दहेत् ॥ १ ॥

तैरेव तु समिद्भिस्तु प्रज्वाल्य तु हुताशनं ।
तण्डुलांस्तु जुह्वन् नित्यं गृहपुष्टिर्भवेद् ध्रुवं ॥ २ ॥

समिद्भिर्मधुरैश्चापि अग्निं प्रज्वाल्य पण्डितः ।
दूर्वाप्रवालां सघृतान् जुह्वन्नायुः प्रवर्धते ॥ ३ ॥

तैरेव तु समिद्भिस्तु प्रज्वाल्य तु हुताशनं । कुशप्रवालांस्तैलेन जुह्वन् रक्षा तु शाश्वतम् ॥ इति ॥ ४ ॥

अथैषां हृदयमन्त्राणि भवन्ति ।
ॐ सर्वपापदहनवज्राय स्वाहा ॥

ॐ वज्रपुष्टये स्वाहा ॥

ॐ वजायुषे स्वाहा ॥

ॐ अप्रतिहतवज्राय स्वाहा ॥

समिद्भिः कडकैः पूर्व वज्रक्रोधसमाधिना ।
अग्निं [प्रज्वाल्य] कुञ्जैस्तु कण्टकैरभिकर्षितः ॥ १ ॥

तैरेव तु समिद्भिस्तु प्रज्वाल्याग्निं सुरोषवान् ।
रक्तपुष्पफलान् चापि जुह्वन् रागयते जगत् ॥ २ ॥

समि[द्भिरपि]कुपितो ह्यग्निं प्रज्वाल्य योगवान् ।
अयोरजांसि हि जुह्वन् वज्रबन्धो भविष्यति ॥ ३ ॥

तैरेव तु समिद्भिस्तु प्रज्वाल्याग्निं समाहितः ।
जुहेत् तिक्तफलं क्रोधान् मारिमुत्पादयेत्क्षणात् ॥ ४ ॥

तत्रैषां हृदयानि भवन्ति ।
हुं वज्राकर्षय स्वाहा ॥

हुं वज्र रागय स्वाहा ॥

हुं वज्र बन्धाय स्वाहा ॥

हुं वज्र मारणाय स्वाहा ॥

समिद्भिरमलैः प्रज्वाल्य ऋद्धो हुतभुजं बुधः ।
होममाम्लफलैः पुष्पैर्वशीकरणमुत्तमं ॥ १ ॥

तैरेव तु समिद्भिस्तु प्रज्वाल्याग्निं समाहितः ।
जुहुयात्कामफलां कुद्धः कामरूपित्वमाप्नुयात् ॥ २ ॥

समिद्भिस्तादृशैरेव प्रज्वाल्य तु हुताशनं ।
काण्डान्यदृश्यपुष्पाणां जुह्वं रुच्या न दृश्यते ॥ ३ ॥

तैरेव तु समिद्भिस्तु प्रज्वाल्याग्निं समाहितः । आकाशवल्लीपुष्पाणि जुह्वन्नाकाशगो भवेद् ॥ इति ॥ ४ ॥

तत्रैषां हृदयानि भवन्ति ।
ॐ वज्रवशंकराय स्वाहा ॥

ॐ कामरूपवज्राय स्वाहा ॥

ॐ अदृश्यवज्राय स्वाहा ॥

ॐ वज्रखचारिणी स्वाहा ॥

समिद्भिस्तिक्तवीर्यैस्तु प्रज्वाल्याग्निं समाहितः ।
वज्रिपुष्पा जुहेत् क्रुद्धो वज्रमाज्ञाकरं भवेत् ॥ १ ॥

तैरेवं तु समिद्भिस्तु प्रज्वाल्याग्निं सुरोषवान् ।
यस्य सौरे जुहेन्माल्यं सोऽप्याज्ञाकरतां वज्रेत् ॥ २ ॥

समिद्भिस्तैस्तु संक्रुद्धः प्रज्वाल्याग्निं समाहितः ।
वज्रपाणेर्जुहेन्माल्यं सोऽप्याज्ञाकरतां व्रजेत् ॥ ३ ॥

तैरेव तु समिद्भिस्तु प्रज्वाल्याग्निं सुरोषितः ।
चीवराणि जुहेत् बुद्धो यात्याज्ञाकरतां क्षणात् ॥ ४ ॥

तत्रैषां हृदयानि भवन्ति ॥

हुं वज्रवशंकराय स्वाहा ॥

हुं सौरिवशंकरवज्राय स्वाहा ॥

हुं वज्रपाणिवशंकराय स्वाहा ॥

हुं बुद्धवशंकरवज्राय स्वाहा ॥

Mudra

ततो रहस्यकर्ममुद्राज्ञानं शिक्षयेत् ।

प्रियया तु स्त्रिया सार्ध संवसंस्तु भगेऽञ्जनं ।
प्रक्षिप्य घट्टयेत्तत्र तेनांज्याक्षी वशं नयेत् ॥ १ ॥

मनःशिलां भग विध्वा वज्रबन्धेन तां पिघेत् ।
चतुर्विधैर्निमित्तैस्तु सिद्धिश्चापि चतुर्विधा ॥ २ ॥

रोचनां तु भगे स्थाप्य गुह्यमुष्ट्या निपीडयेत् ।
[स्था]पितं ज्वालते तत्र भवेद्वज्रधरो समः ॥ ३ ॥

कुङ्कुमं तु भगे विध्वा तद्भगं सत्ववज्रया । च्छादितं ज्वालते तन्तु भवेद्वज्रधरो सम ॥ इति ॥ ४ ॥

तत्रैषां हृदयानि भवन्ति ।
ॐ वज्रगुह्य रतिवशंकर सिध्य हुं ॥

ॐ वज्रगुह्य सिध्य हुं ॥

ॐ गुह्यवज्र सिध्य हुं ॥

ॐ वज्रधरगुह्य सिध्य हुं ॥

ततो वज्रकुलकर्ममहामुद्राज्ञानं शिक्षयेत् ।

वज्रकार्यप्रयोगेण महामुद्राः समासतः । वज्रक्रोधसमापत्त्या वज्रमुष्टिप्रयोगतः ॥ १ ॥ ॥

समयाग्र्यस्तथैवेहहुंकाराङ्गु लियोगतः ।
धर्ममुद्रास्तथैवेह ओंकाराद्यै अ-अक्षरैः ॥ २ ॥

कर्ममुद्राः समासेन कर्ममुष्टिद्विधीकृता ।
सर्वसिद्धिकरा शुद्धा वज्रकर्मप्रयोगतः ॥ ३ ॥

सर्वतथागतवज्रसमयात् महाकल्पराजाद् वज्रकुलकर्ममण्डलविधिविस्तरः समाप्तः ॥


अध्याय 10
MAHA-KALPA-VIDHI-VISTARA

Emanation of deities form samadhi

अथ भगवान् पुनरपि सर्वतथागतवज्रसमयमुद्राधिष्ठानं नाम समाधिं समापद्येमां सर्वविद्योत्तममभाषत् ॐ सर्वतथागतवज्रसमये हूं ॥

अथ वज्रपाणिर्महाबोधिसत्व इमां स्ववज्रससयमुद्रामभाषत् हुं वज्रि मट् ॥

अथ वज्रगर्भो बोधिसत्व इमां स्वरत्नसमयमुद्रामभाषत् हुं भृकुटिवज्रे रट् ॥

अथ वज्रनेत्रो बोधिसत्वो महासत्व इमां स्वधर्मसमयमुद्रामभाषत् हूं पद्मवज्रि त्रिट् ॥

अथ वज्रविश्वो बोधिसत्त्वो महासत्व इमां स्वकर्मसमयमुद्रामभाषत् हूं वज्रकर्माग्रि कृट् ॥

Delineation of the मण्डल

अथ वज्रपाणिर्महाबोधिसत्वः पुनरपीदं त्रिलोकविजयचतुर्मुद्रामण्डलमभाषत् ।

अथातः संप्रवक्ष्यामि मुद्रामण्डलमुत्तमं ।
वज्रधातुप्रतीकाशं क्रोधवज्रमिति स्मृतं ॥ १ ॥

महामण्डलयोगेन सूत्रयेत् सर्वमण्डलम् । त्रिलोकविजयाद्यांस्तु लिखेद्बुद्धस्य सर्वत ॥ इति ॥ २ ॥

Mudra

अथात्र चतुर्मुद्रामण्डले महामण्डलयोगेनाकर्षणादिविधिविस्तरंकृत्वा प्रवेश्य चतुर्मुद्रामण्डलं गुह्यमुद्राज्ञानं शिक्षयेत् ।

स्वयं लिख्य चतुर्मुद्रामण्डलं शुद्धधर्मतां ।
उच्चारयं स्त्रिया सार्धं संवसं सिद्धिराप्यते ॥ १ ॥

स्वयं लिख्य चतुर्मुद्रामण्डलं शुद्धधर्मतां ।
उच्चारयन् रागेण स्त्रीं निरीक्षं सिद्धिराप्यते ॥ २ ॥

स्वयं लिख्य चतुर्मुद्रामण्डलं शुद्धधर्मतां ।
प्रवर्तयं स्त्रियं कान्तां परिचुम्बंस्तु सिध्यति ॥ ३ ॥

स्वयं लिख्य चतुर्मुद्रामण्डलं शुद्धधर्मतां ।
उच्चारयं समालिङ्गेत्सर्वसिद्धिरवाप्यते ॥ ४ ॥

तत्रैताः शुद्धधर्मतामुद्रा भवन्ति ।
ॐ सर्वतथागतविशुद्धधर्मते होः ॥

ॐ वज्रविशुद्धदृष्टि ज्जः ॥

ॐ स्वभावविशुद्धमुखे हुं ॥

ॐ सर्वविशुद्धकायवाङ्मनःकर्मवज्रि हन् ॥

ततश्चतुर्मुद्रामण्डलगुह्यरहस्यमुद्रां शिक्षयेत् ।

प्रविश्य मण्डलमिदं पञ्चभिः कामसद्गुणैः ।
रमयन् परदाराणि सुतरां सिद्धिमाप्नुते ॥

अथास्या हृदयं भवति हो वज्रकाम ॥

ततो यथावद् वज्राक्रान्तित्रिशूलमुद्राद्याः चतस्रः समयमुद्राः सविधिविस्तराः शिक्षयित्वा, तेन चतुर्मुद्राप्रयोगेण वज्रवाद्यतूर्यतालान् निर्यात्य, वज्रसत्वसंग्रहहृदयगीतिं गायता मुद्राप्रतिमुद्रोपमुद्राज्ञानमुद्राभिर्नृत्योपहारपूजा कार्यति ।

तत्रेयं नृत्योपहारपूजा भवति ।

वज्रनृत्यप्रयोगेण वज्रक्रोधाङ्गु लिद्वयं ।
वज्रहुंकारमुद्रां तु हृद्ये तु निबन्धयेत् ॥ १ ॥

तथैव नृत्यन् वामां तु गृह्य दक्षिणमुष्टिना ।
परिवर्त्य ललाटो तु निवेश्याग्र्या मुखेन त ॥ २ ॥

ततैव नृत्यन्मुक्त्वा तु समकुड्मलसन्धिते ।
अग्र्याञ्जलिं हृदि स्थाप्य नमेदाशयकम्पितैः ॥ ३ ॥

वज्रक्रोधाङ्गुली सम्यगुत्तारमुखसन्धिते । परिवर्त्य तथोष्णीषे तु तर्जनी मुखसुस्थिता ॥ ४ ॥ इति ॥

II.6 Ekamudramandala

अ[थ वज्रपा]णिर्महाबोधिसत्वः पुनरपीमं स्ववज्रसमयक्रोधसमयमभाषत् हुं ॥

Delineation of the मण्डल

अथास्य मण्डलं भवति ।

अथातः संप्रवक्ष्यामि गुह्यमण्डलमुत्तमं ।
वज्रधातुप्रतीकाशं वज्रहुंकरसंज्ञितं ॥ १ ॥

महामण्डलयोगेन बाह्यमण्डलमालिखेत् ।
तस्य मध्ये लिखेत्सम्यग्वज्रिणं चन्द्रमण्डले ॥ २ ॥

सवज्र वज्रहुंकारमहामुद्राकरग्रहं । प्रत्यालीढसुसंस्थानं यथावद् वर्णरूपिणम् ॥ इति ॥ ३ ॥

Mudra

अथात्र गुह्यमण्डले सर्वसिद्धिविधिविस्तरं कृत्वा, वज्रहुंकारगुह्यमुद्राज्ञानमुदीरयेत् ।
प्रविश्य मण्डलमिदं त्रिलोकविजयाङ्गुलीं ।
साधये तु भगे बिध्वा सर्वकर्म सुसिध्यति ॥

अथास्य साधनहृदयं भवति हुं वज्रसमय कृत ॥

ततो वज्रहुंकारहस्यसाधनमुद्राज्ञानं शिक्षयेत् ।

प्रविष्ट्वा मण्डलं सम्यग् महामुद्राग्रसंस्थितः ।
संवसन् वज्रहुंकारः सर्वकर्मकरो भवेद् ॥ इति ॥

तत्रास्याः साधनहृदयं भवति हुं वज्रसमय हुं ॥

ततो यथावन् मुद्राबन्धचतुष्टयं शिक्षयेत् । तथैव सिद्धयः संभवन्तीति ॥

यथा मण्डले एवं पटादिषु लिखितानां सर्वप्रतिमास्वपि सामान्या सिद्धिरिति ।

अथ वज्रपाणिः सर्वतथागतानाहूयैवमाह । "अधितिष्ठत भगवन्तः सर्वतथागता ममे[दं कुलं ये च] सर्वसत्वा यथाकामकरणीयतया सर्वसिद्धीः प्राप्नुयुर्" इति ॥

अथ भगवन्तः सर्वतथागताः पुनः समाजमागम्यास्य त्रिलोकविजयकल्पस्याधिष्ठानायेदमूचुः ।

साधु ते वज्रसत्वाय वज्ररत्नाय साधु ते ।
वज्रधर्माय ते साधु साधु ते वज्रकर्मणे ॥

सुभाषितमिदं सूत्रं वज्रयानमनुत्तरं ।
सर्वतथागतं गुह्यं महायानाभिसंग्रहम् ॥ इति ॥

सर्वतथागतवज्रसमयान्महाकल्पराजान् महाकल्पविधिविस्तरः समाप्तः ॥


अध्याय 11
TRILOKACAKRA-MAHA-MANDALA-VIDHI-VISTARA

अथ भगवन्तः सर्वतथागताः पुनरपि समाजमापद्य जानन्नेव वज्रपाणिं महाबोधिसत्वमेवमाहुः । "प्रतिपद्यस्व वत्स सर्वतथागताज्ञाकारितयै इमं महेश्वरकायमतः स्वपादतालात् मोक्षुम्!" इति । अथ भगवां वज्रपाणिस्तांस्तथागतानेवमाह । "अहं भगवद्भिः सर्वदुष्टदमकः क्रोध इत्यभिषिक्तः । तन्मयायं व्यापादितः, तत्कथमस्य मोक्षामी?" ति ।

अथ सर्वतथागता महेश्वरस्य सर्वत्रिलोकाधिपतेः शरीरस्य जीवितसंजननहेतोरिदं मृतविज्ञानाकर्षणहृदयं स्वहृदये[भ्यो निश्चरन्ति ।] ॐ वज्रसत्व हूं ज्जः ॥

अथास्य मुद्राबन्धो भवति ।

गुह्याङ्कुशी दृढीकृत्य समान्त्यासु प्रसारिता । मृतस्य मूर्ध्नि सन्धाय [पुनर्जीवितं प्राप्स्यत ॥ इति ॥]

अथास्मिन् विनिःसृतमात्रे स भगवान् [भस्मेश्वरनिर्घोषस्] तथागतो भस्मच्छत्राया लोकधातोर् [आगम्य, तस्य] महेश्वर[स्य काये प्रविष्ट्वा, इदमुदानमुदानयामास ।]

अहो हि सर्वबुद्धानां बुद्धाज्ञानमनुत्तरं ।
यन्मृतोऽपि हि कायोऽयं जीवधातुत्वमागत ॥ इति ॥

[अथ वज्रपाणिर्] महाबोधिसत्व इदं पादोच्चारन्नाम हृदयमुदाजहार ॐ वज्र मुः ॥

अथास्य मुद्राबन्धो भवति ।

वज्रक्रोधाङ्गुली[मुत्थापयित्वाग्रासङ्गं स्थिते ।] परिवर्त्य[द्वयोर्वज्रयोरधस्तात्समुद्धरेद् ॥ इति ॥]

अथास्मिन् भाषितमात्रे महावज्रधरपादमूलान् महादेवो [मुक्तयित्वा पुनः संजीवीकृतः ।] अथ महेश्वर[कायं तेन तथागतेन सं]जीवमधिष्ठाय, स्वयौवराज्यतायामत्रैव लोकधातौ सर्वसत्व[हितार्थञ्च दुष्ट]विनयार्थं च प्रतिष्ठापितवानिति ॥

अथ ततो वज्रपाणि चरणतलादिमां चन्द्रपादान्नाम सर्वतथागतबोधिचित्तमुद्रां [विनिःसृतः ।] ॐ चन्द्रोत्तरे समन्तभद्रकिरणी महावज्रिणि हूं ॥

अथास्य मुद्राबन्धो भवति ।

वज्रबन्धं दृढीकृत्य कनिष्ठाङ्गुष्ठ[समोत्था ।
समोत्थित्वा सुसारिता चन्द्रप्रभेति] कीर्तिता ॥

अथास्यां विनिःसृतमात्रायां तत एव पादतलाच् चन्द्रोत्तर एव तथागतो [निश्चचार, तस्य महेश्वरस्य शिरे वज्रपाणि पादावक्रान्ते तदर्धचन्द्रमूर्धनभिषिक्तो, वज्रपाणेर्वामपार्श्वे स्थितः । ततः] सर्वतथागतै[र्वज्रपाणेर्मित्रस्य पाणौ] वज्रशूलं दत्वा, वज्रविद्योत्तमो वज्रविद्योत्तम इति वज्रनामाभिषेकेणाभिषिक्तः ॥

अथ वज्रविद्योत्तमो बोधिसत्त्वो [महासत्त्वश्च] तेन वज्रशूलेन चक्रपरिवर्तनगत्या नृत्योपहारपूजां कुर्वन्निदमुदानमुदानयामास ।

अहो हि सर्वबुद्धानां बोधिचित्तमनुत्तरं ।
यत्पादाग्रस्पर्शेनापि बुद्धत्वं प्राप्यते मया ॥ इति ॥

अथ वज्रपाणिर्महाबोधिसत्वः, ततो वज्रक्रोधसमाधेर्व्युत्थाय, भगवन्तमे[तां वाचमुवाच] । "अहं भगवं सर्वतथागतैर्वज्रं पाणिभ्यां दत्वा वज्रपाणित्वेनाभिषिक्तः ॥ तदेषां देवादीनां बाह्यवज्रकुलानामस्मिं त्रिलोकविजयमहामण्डले स्थानविनियोगङ्करिष्यामि । येन ते सत्वा अवैवर्तिका भविष्यन्ति अनुत्तरायां सम्यक्संबोधाव्" इति ॥

अथ भग[वान् वैरोचनस्] तथागतोऽर्हन् सम्यक्संबुद्ध इदं सर्वतथागतोष्णीषमुदाजहार ॐ वज्रसत्वोष्णीष हुं फट् ॥

अथास्मिन् भाषितमात्रे सर्वतथागतोष्णी[षेम्यो विनिःसृतो भगवद्वज्रपाणिविग्रहः, नाना]वर्णरश्मयो भूत्वा, सर्वलोकधातवोऽवभास्य, पुनरपि भगवतो वज्रपाणेर्मूधम् [अनुपरिवेष्टिताः, सर्वतथागतोष्णीषतेजोराशिं भूत्वा] स्थितः । अथ ततस्तेजोराशित इदं सर्वतथागतोष्णीषं निश्चचार । ॐ नमस्सर्वतथाग[तोष्णीष] तेजोराशि अनवलोकितमूर्ध हूं ज्वाल धक विधक दर विदर हुं फट् ॥

अथ वज्रपाणिर्बोधिसत्वो महासत्व इदं स्वविद्योत्तममुदा[जहार] ॐ निसुंभ वज्र हुं फट् ॥

ततः पुनरपि वज्रपाणिः स्वहृदयादिदं हृदयमुदाजहार ॐ ट्टक्कि ज्जः ॥

अथ वज्रगर्भो बोधिसत्वो महासत्व इदं स्वविद्योत्तममभाषत् ॐ वज्र रत्नोत्तम ज्वालय हुं फट् ॥

अथ वज्रनेत्रो बोधिसत्वो महासत्व इदं स्वविद्योत्तममभाषत् ॐ स्वभावशुद्ध वज्रपद्म शोधय सर्वान् विद्योत्तम हुं फट् ॥

अथ वज्रविश्वो बोधिसत्त्वो महासत्व इमं स्वविद्योत्तममभाषत् ॐ वज्रकर्मोत्तम वज्रधर समयमनुस्मर सुंभनिसुंभाकर्षय प्रवेशयावेशय बन्धय समयं ग्रहय सर्वकर्माणि मे कुरु महासत्व हुं फट् ॥

अथ वज्रविद्योत्तमो बोधिसत्वो महासत्व इदं स्वहृदयं भगवतो वज्रपाणेः पादवन्दनीयं निर्यातयामास ॐ सुंभ निसुंभ वज्रविद्योत्तम हुं फट् ॥

अथ क्रोधवज्रो विद्याराजो भगवतश्चरणयोर्निपत्येद स्वहृदयमदात् हुं वज्रशूल ॥

अथ मायावज्रो विद्याराजेदं स्वहृदयमभाषत् ॐ वज्रमाय विदर्शय सर्व हुं फट् ॥

अथ वज्रघण्टो विद्याराजः स्वहृदयमदात् ॐ वज्रघण्ट रण रण हुं फट् ॥

अथ मौनवज्रः स्वहृदयमदात् ॐ वज्रमौन महाव्रत हुं फट् ॥

अथ वज्रायुधः स्वहृदयमदात् ॐ वज्रायुध दामक हुं फट् ॥

विद्याराजनकाः ॥

अथ वज्रकुण्डलिर्वज्रक्रोधो भगवते वज्रपाणये इदं स्वहृदयं पादवन्दनीयं निर्यातयामास । ॐ वज्रकुण्डलि महावज्रक्रोध गुह्ण हन दह पच विध्वंसय । वज्रेण मूर्धानं स्फालय भिन्द हृदयं वज्रक्रोध हुं फट् ॥

अथ वज्रप्रभो वज्रक्रोध इदं स्वहृदयमदात् । ॐ वज्रप्रभ मारय सौम्यक्रोध हुं फट् ॥

अथ वज्रदण्डो वज्रक्रोधः स्वहृदयमदात् । ॐ वज्रदण्ड तनुय सर्वदुष्टान् महाक्रोध हुं फट् ॥

अथ वज्रपिङ्गलो वज्रक्रोध इदं स्वहृदयमदात् । ॐ वज्रपिङ्गल भीषय सर्वदुष्टान् भीमक्रोध हुं फट् ॥

वज्रक्रोधाः ॥

अथ वज्रशौण्डो गणपतिर्भगवते वज्रपाणये इदं हृदयन्निर्यातयति स्म । ॐ वज्रशौण्ड महागणपति रक्ष सर्वदुष्टेभ्यो वज्रधराज्ञां पालय हुं फट् ।

अथ वज्रमाल इदं स्वहृदयमदात् । ॐ वज्रमाल गणपतये मालयाकर्षय प्रवेशयावेशय बन्धय वशीकुरु मारय हुं फट् ॥

अथ वज्रवशी स्वहृदयमदात् । ॐ वज्रवशी महागणपते वशीकुरु हुं फट् ॥

अथ विजयवज्रो गणपतिः स्वहृदयमदात् । ॐ वज्रविजय विजयं कुरु महागणपति हुं फट् ॥

गणप[तयः ॥]

अथ वज्रमुसलो वज्रदूत इदं स्वहृदयं वज्रपाणये निर्यातयामास । ॐ वज्रमुसल कृट्ट कुट्ट सर्वदुष्टान् वज्रदूतहुं फट् ॥

[अथ वज्रा]निलो दूतः स्वहृदयमदात् । ॐ वज्रानिल महावेगानय सर्वदुष्टान् हुं फट् ॥

अथ वज्रानलो दूतः स्वहृदयमदात् । ॐ वज्रानल महादूत ज्वालय सर्व भस्मीकुरु सर्वदुष्टान् हुं फट् ॥

अथ वज्रभैरवो दूतः स्वहृदयमदात् । ॐ वज्रभैरव वज्रदूत भक्षय सर्वदुष्टान् महायक्ष हुं फट् ॥

दूताः ॥

अथ वज्राङ्कुशो वज्रचेट इदं स्वहृदयं भगवते वज्रपाणये निर्यातयामास । ॐ वज्रङ्कुशाकर्षय सर्व महाचेट हुं फट् ॥

अथ वज्रकालः स्वहृदयमदात् । ॐ वज्रकाल महामृत्युमुत्पादय हुं फट् ॥

अथ वज्रविनायकः स्वहृदयमदात् । ॐ वज्रविनायकास्य विघ्नं कुरु हुं फट् ॥

अथ नागवज्र इदं स्वहृदयं भगवते वज्रापाणये पादवन्दनीयं निर्यतयामास । ॐ नागवज्रानय सर्वधनधान्यहिरण्यसुवर्णमणिमुक्तालङ्कारादीनि सर्वोपकरणानि वज्रधर समयमनुस्मरकड्ढ गृह्ण बन्ध हर हर प्राणान् महाचेट हुं फट् ॥

चेटाः ॥

अथ वज्रपाणिर्महाबोधिसत्व इदं सर्ववज्रकुलाकर्षणसमयमुदाजहार ॐ वज्राङ्कुशाकर्षय हुं ॥

ततः प्रवेशनसमयमुदाजहार हुं वज्रपाशाकड्ढ हुं ॥

ततः समयबन्धमुदाजहार हुं वज्रस्फोट वं ॥

ततः कर्महृदयमुदाजहार ॐ वज्रकर्म साधय कृत् ॥

Delineation of the मण्डल

अथ वज्रपाणिरिदं सर्ववज्रकुलमहामण्डलमभाषत् ।
अथातः संप्रवक्ष्यामि महामण्डलमुत्तमं ।
धर्मचक्रप्रतीकाशं सूत्रये सर्वमण्डलं ॥

तत्रेदं सूत्रणहृदयं भवति ॐ वज्रसूत्राकर्षय सर्वमण्डलान् हुं ॥

मण्डलस्य तु मध्ये वै विध्वा खदिरकीलकं ।
ततस्तु सूत्रं द्विगुणं कृत्वा तेन प्रसूत्रयेत् ॥

तत्रेदं कीलकहृदयं । ॐ वज्रकील कीलय सर्वविध्नान् बन्धय हूं फट् ॥

चतुःसूत्रसमायुक्तं सूत्रयेच्चक्रमण्डलं ।
बाह्यतस्तस्य निःक्रम्य द्विगुणं तु तथैव च ॥ १ ॥

तस्यापि त्रिगुणङ्कुर्यात् बाह्यमण्डलसूत्रणं । विदिशाश्चारयोगेन कोणरेखास्तु सूत्रयेद् ॥ इति ॥ २ ॥

सूत्रणविधिः ।

ततस्तु सूत्रणं तत्तु रङ्गैः शुद्धैस्तु पूरयेत् ।
वामवज्रमहामुष्ट्या प्राग्रेखां तु यथासुखं ॥

तत्रेदं रङ्गहृदयं । ॐ वज्ररङ्ग समय हूं ॥

ततो मध्यस्थितो भूत्वा वज्राचार्यः समाहितः ।
मनसोद्घाटयेच्चैव वज्रद्वारचतुष्टयं ॥

तत्रेदं द्वारोद्घाटनहृदयं । ॐ वज्रोद्घाटनसमय प्रविश शीघ्रं स्मर वज्रसमय हुं फट् ॥

सौर्वर्णराजते वापि मृण्मये वा सुचित्रिते ।
इष्टके तु चतुरश्रे तु बुद्धबिम्बं निवेशयेत् ॥

तत्रेदं सर्वबुद्धहृदयं[भ]वति । ॐ सर्वविद् ॥

बुद्धस्य सर्वतः कुर्यन्महासत्वचतुष्टयं ।
त्रिलोकविजयं कुर्वन् वज्रापाणिं पुरःस्थितं ॥

तत्रैतानि महासत्वचतुष्टयहृदयानि भवन्ति ।
ॐ सुंभ निसुंभ हुं गृण्ह गृण्ह हुं गृण्ह प्य हुं आनय हो भगवन् वज्र हुं फट् ॥ १ ॥

ॐ वज्रभृकुटि क्रोधानय सर्वरत्नान् हीः फट् ॥ २ ॥

ॐ वज्रदृष्टि क्रोधदृष्ट्या मारय हुं फट् ॥ ३ ॥

ॐ वज्रविश्व क्रोध कुरु सर्वं विश्वरूपतया साधय हूं फट् ॥ ४ ॥

प्रवेशेन्निष्क्रमेद्वापि सुत्राधस्तान्मनोगतं ।
वज्रवेग इति ख्यातस्तेन रेखां समाक्रमेद् ॥ इति ॥

तत्रेदं वज्रवेगहृदयं । वज्रवेग ॥

वज्रवेगेन निःक्रम्य प्रथमं मण्डलं तथा ।
यथावदनुपूर्वेण वज्रमायादयो लिखेत् ॥

तत्रैषां समयहृदयानि भवन्ति ।
ॐ वज्रचक्र हूं ॥ १ ॥

ॐ वज्रघण्ट हूं ॥ २ ॥

ॐ वज्रदण्डकाष्ठ हूं ॥ ३ ॥

ॐ वज्रायुध हूं ॥ ४ ॥

वज्रवेगेन चाक्रम्य द्वितीयं मण्डलं तथा ।
वज्रकुण्डलिपूर्वांस्तु वज्रकोधान्निवेशयेत् ॥

तत्रैषां हृदयानि भवन्ति ।
ॐ प्रज्वलित प्रदीप्तवज्र हूं ॥ १ ॥

ॐ वज्रसौम्य हूं ॥ २ ॥

ॐ वज्रदण्ड हूं ॥ ३ ॥

ॐ वज्रविकृत हुं ॥ ४ ॥

ततस्तु वज्रवेगेन लिखेद् द्वारचतुष्टये ।
वज्रशौण्डादयः सर्वे यथावदनुपूर्वशः ॥

तत्रैषां समयहृदयानि भवन्ति ।
ॐ वज्रमद हुं ॥

ॐ वज्रमाले हूं ॥

ॐ वज्रार्थ हूं ॥

ॐ वज्राशि हूं ॥

वज्रवेगेन चाक्रम्य तृतीये मण्डले लिखेत् ।
यथावदनुपूर्वेण स वज्रमुसलादयः ॥

तत्रैषां हृदयानि भवन्ति ।
ॐ वज्रमुसल हूं ॥

ॐ वज्रपट हूं ॥

ॐ वज्रज्वाल हूं ॥

ॐ वज्रग्रह हूं ॥

वज्रवेगेन चाक्रम्य चतुर्थे मण्डले लिखेत् ।
वज्राङ्कुशादयश्चेटा यथावदनुपूर्वशः ॥

तत्रैषां हृदयानि भवन्ति ॥

ॐ वज्रदंष्ट्र हूं ॥

ॐ वज्रामारण हूं ॥

ॐ वज्रविध्न हूं ॥

ॐ वज्रहरण हुं ॥

वज्रवेगेन निःक्रम्य बाह्यमण्डले संस्थिता ।
यथावदनुपूर्वेण संलिखेत्सर्वमातरः ॥ १ ॥

वज्रद्वारेषु सर्वेषु द्वारपालास्त एव तु । अतः परं प्रवक्ष्यामि यथावद्विधिविस्तरम् ॥ २ ॥ इति ॥

अथात्र त्रिलोकचक्रमहामण्डले आकर्षणादिकर्म कृत्वा, स्वयं वज्राचार्यो वज्रक्रोधतेरिन्तिरिमुद्रां बध्वा, एवं ब्रूयाद्, "अहन्ते वज्रसमयज्ञानमुत्पादयिष्यामि । तत्त्वया न कस्यचिद्वक्तव्यं । मा ते विषमा परिहारेण कालक्रियया नरकपतनं स्याद्," इदमुक्त्वेदं शपथहृदयं दद्यात् । वज्रक्रोधतेरिन्तिरिमुद्रां बध्वा दर्शयेत् "अयं वज्रक्रोधसमयस्ते सन्दहेत् कुलन्, मुर्धादारभ्य कायं तु नाशयेत्, यद्यतिक्रमेत् समयं बन्धय" ॥

ततो वज्रधारि कर्ममुद्रां बन्धयेदनेन हृदयेन ॐ सर्वतथागत वज्रधर गृह्ण बन्ध समय हूं ॥

अथास्या मुद्राया बन्धो भवति ।

कनिष्ठाङ्गुष्ठबन्धो तु हस्तौ द्वावधरोत्तरौ ।
मुद्रेयङ्कर्मसमय[वज्रबन्धेति] कीर्तिता ॥

ततो वज्र ओदकेनाभिषिञ्चेदनेन हृदयेन ॐ वज्राभिषेकाभिषिञ्च वज्रधरत्वे समय ग्र ग्र ॥

ततो नक्तकेन मुखं बध्वा [प्रवेशयत्य] नेन हृदयेन ॐ प्रविश वज्र प्रवेशय वज्र आविश वज्र आधितिष्ठ वज्र हूं ॥

ततः प्रवेश्य पुष्पाणि क्षिपेत् अनेन हृदयेन ॐ प्रतीच्छाधितिष्ठ वज्र होः ॥

ततो यत्र पतति सोऽस्य सिध्यति ।

ततो मुखबन्धं मुक्त्वा, मण्डलं यथानुपूर्वतो दर्शयेत् । न चास्य वक्तव्यं किं देव इति । तत्कस्माद्धेतोः? सन्ति सत्वा मिथ्यादृष्टयो ये न श्रद्धास्यन्ति, किमेतदमोघं बुद्धानां भगवतां ज्ञानं, यथा तथागता वज्रकुले वज्रपाणिनाभिषिक्तास्तथागता एवेति समयः । अन्यत्र ये देवे भक्तास्तेषां शपथहृदयं दत्वा वाच्यमिति ।

ततो वज्ररत्नचिन्हमालाभिषेकं दत्वा, कर्मवज्रं पाणिभ्यामभिप्रयच्छ्य, वज्रनाम कुर्यात्, यथा वज्रसमयमहामण्डल इति ॥

Mudra

ततो महामुद्राबन्धं शिक्षयेत् ।

वज्रबन्धं दृढीकृत्य प्रविष्टाङ्गु ष्ठसंचयं ।
कुञ्चिताग्र्याषु गच्छन्नं सत्वोष्णीषेति संज्ञिता ॥ १ ॥

वज्रबन्धं समाधाय समाङ्गुष्ठात्म्यमध्यमा ।
तेजोराशीति विख्याता तेजोराशेर्महात्मनः ॥ २ ॥

वज्रमुद्राद्विकं बध्वा कनिष्ठाङ्गुष्ठसन्धितं ।
गाढमङ्कुशबन्धेन महाविद्योत्तमस्य तु ॥ ३ ॥

महाविद्योत्तममयीं मुद्रां बध्वा सुयन्त्रितां ।
हृद्यङ्गष्ठमुखानां तु बन्धनाद्धृदया स्मृता ॥ ४ ॥

तामेवानाममध्याभिरङ्गुलीभिः सुयन्त्रितां ।
वज्ररत्नप्रयोगेण परिवर्त्य मुखस्थिता ॥ ५ ॥

तामेवोत्तानसंस्थां स्वहृदये परिवर्त्य वै ।
चतुःपुष्पा तु नामेन पद्मविद्योत्तमस्य तु ॥ ६ ॥

तामेव मूर्धादारभ्य भ्रमत्कायाग्रमण्डला । वज्रविश्वस्य मुद्रेयं वज्रकर्मप्रसाधिके ॥ ति ॥ ७ ॥

सत्ववज्रां दृढीकृत्य कनिष्ठा वज्रसन्धिता ।
सर्वविद्धृदयस्यास्य मुद्रेयं सर्वसाधिका ॥ ८ ॥

कनिष्ठाङ्गुष्ठबन्धे तु वाममध्याङ्गुलित्रिके ।
त्रिशूले मध्यशूलं तु वज्रमुद्रापरिग्रहं ॥ ९ ॥

वज्रविद्योत्तमस्येयं वज्रशूलेति कीर्तिता ।
अतः परं प्रवक्ष्यामि मायावज्रादिसंज्ञिता ॥ १० ॥

वज्रबन्धं दृढीकृत्य वामवज्रं तु बन्धयेत् ।
वज्रमुष्टिरिति ख्याता सर्ववज्रकुलेष्वियं ॥ १ ॥

द्विधीकृत्य तु तद्वज्रं सर्वचिह्ननिवेशितं ।
सर्ववज्रकुलानां तु मुद्रासु च निवेशयेत् ॥ २ ॥

प्रसारिताग्रा पृष्ठस्था ज्येष्ठाङ्गुष्ठग्रहाधगा ।
ओंकार मूर्ध्नि संस्था तु वज्र चैव प्रतिष्ठिता ॥ ३ ॥

विद्याराजमहामुद्रागणः ॥

प्रसारिताश्रिता पाणौ हस्तपृष्ठे तथैव वा ।
मुष्टिसंस्था भुजा वा च मुखतः परिवर्तिता ॥

वज्रक्रोधमहामुद्रागणः ॥

वामाङ्गुष्ठसुसंस्था तु मालबन्धप्रयोजिता ।
दक्षिणेनार्थदायी च खङ्गमुद्राग्रमुष्टिमा ॥

गणपतिमहामुद्रागणः ॥

दक्षिणग्रस्तमुसला प्रसारितभुजा तथा ।
दक्षिणज्वालसन्दर्शा वज्रमुष्टिप्रकम्पिता ॥

दूतमहामुद्रागणः ॥

सगर्वमुखदंष्ट्राग्रा दण्डाघातप्रपातिता ।
बाहुसंकोचलम्बा च वामदक्षिणहारिणी ॥ ति ॥

चेटमहामुद्रागणः ॥

कल्पनं मण्डले सर्वे [वाम]वज्रग्रहेण तु ।
अतः परं प्रवक्ष्यामि साधनं कर्म एव च ॥ १ ॥

यस्य सत्वस्य या मुद्रा भवेत्तस्य स्वमात्मना ।
भावयन्तं स्वमात्मानं मुद्रासाधनमुत्तमं ॥ २ ॥

मनोष्णीषमहारक्षा तेजोराशी सुसिद्धदा । सर्वकृद्वज्रहुंकारा सर्वाकर्षा तु हृद्गते ॥ ति ॥ ३ ॥

बुद्धमुद्राः ॥

सर्ववित्सर्वसिद्धिस्तु वज्रविद्योत्तमा ।
वज्रशूला महामुद्रा महसिद्धिप्रदायिका ॥ १ ॥

मायावज्रसुसिद्धिस्तु समावेशा तु घण्टिका ।
दण्डकाष्ठा तु नैर्वाणी वज्रवज्रा तु मारणी ॥ २ ॥

विद्याराजनिकाः ॥

ज्वालाग्री दुष्टदमनी सौम्याग्री सर्वमारणी ।
दण्डाग्रा घातनी चैव भीमाक्षी तु भयङ्करी ॥

वज्रक्रोधाः ॥

मदनी मदनी तीव्रं माला सर्वकरी स्मृता ।
कामिनी प्रियकारी तु मारणी सर्वमारणी ॥

गणमुद्राः ॥

मुसला दुष्टनिर्घाता पटा सूत्रपटा तथा ।
ज्वालाग्री दुष्टदमनी यक्षिणी ग्रहलायिका ॥

दूतमुद्राः ।

भक्षणी वज्रदंष्ट्रा तु मारणी सर्वमारणी ।
सुविघ्ना विध्नकर्त्री तु हारिणी सर्वहारिणी ॥

चेटमुद्राः ॥

सर्वतथागतवज्रसमयान् महाकल्पराजात् त्रिलोकचक्रमहामण्डलविधिविस्तरः परिसमाप्तः ॥


अध्याय 12
SARVA-VAJRA-KULA-VAJRA-MANDALA-VIDHI-VISTARA

Emanation of deities from samadhi

अथ भगवान् पुनरपि सर्वतथागतवज्रधारणीसमयसंभवाधिष्ठानन्नाम समाधिं समापद्येमां स्वविद्योत्तमामभाषत् ॐ वज्रसावित्रे स्वाहा ॥

अथ वज्रापाणिर्महाबोधिसत्वः पुनरपीमं स्वविद्योत्तमामभाषत् ॐ वज्रधारि हूं ॥ वज्रविक्रमे हूं फट् ॥

अथ वज्रगर्भो बोधिसत्त्वो महासत्व इमां स्वविद्योत्तमामभाषत् ॐ वज्ररत्नगोत्रे स्वाहा ॥

अथ वज्रनेत्रो बोधिसत्वो महासत्व इमां स्वविद्योत्तमामभाषत् ॐ वज्रपद्मनेत्रे हूं फट् ॥

अथ वज्रविश्वो बोधिसत्वो महासत्व इमां स्वविद्योत्तमामभाषत् ॐ वज्रकर्मकरि हूं ॥

अथ वज्रविद्योत्तमो बोधिसत्त्व इमां स्वविद्योत्तमामभाषत् ॐ वज्रशूलाग्रे स्वाहा ॥

अथ वज्रमायो विद्याराज इमां स्वमुद्रामभाषत् ॐ वज्रचक्रे हूं ॥

वज्रघण्टोवाच ॐ वज्रघण्टिके हूं ॥

मौनवज्रोवाच ॐ वज्रदण्डकाष्ठे हूं ॥

वज्रायुधोवाच ॐ वज्रे हूं ॥

विद्याराजसमयमुद्राः ॥

अथ वज्रकुण्डलिर्वज्रक्रोध इमां समयमुद्रामभाषत् ॐ ज्वालावज्रे हूं ॥

अथ वज्रप्रभ उवाच ॐ वज्रसौम्ये हूं ॥

वज्रदण्डोवाच ॐ वज्रदण्डे हूं ॥

वज्रपिङ्गलोवाच ॐ वज्रभीषणे हूं ॥

वज्रक्रोधसमयमुद्राः ॥

अथ वज्रशौण्डः स्वसमयमुद्रामभाषत् ॐ वज्रमेद हूं ॥

वज्रमालोवाच ॐ वज्रमाले हूं ॥

वज्रवश्युवाच ॐ वज्रवशे हूं ॥

विजयवज्रोवाच ॐ वज्रापराजिते हूं ॥

वज्रगणपतिसमयमुद्राः ॥

अथ वज्रमुसलः स्वसमयमुद्रामुदाजहार ॐ वज्रमुसलग्रहे हूं ॥

वज्रानिलोवाच ॐ वज्रपटे हूं ॥

वज्रानलोवाच ॐ वज्रज्वाले हूं ॥

वज्रभैरवोवाच ॐ वज्रग्रहे हूं ॥

वज्रदूतसमयमुद्राः ॥

अथ वज्राङ्कुशोवाच ॐ वज्रदंष्ट्रे हूं ॥

वज्राकालोवाच ॐ वज्रमारणि हूं ॥

वज्रविनायकोवाच ॐ वज्रविघ्ने हूं ॥

नागवज्रोवाच ॐ वज्रहारिणि हूं ॥

वज्रचेटसमयमुद्राः ॥

Delineation of the मण्डल

अथ वज्रपाणिः पुनरपीदं सर्ववज्रकुलवज्रमण्डलमभाषत् ।

अथातः संप्रवक्ष्यामि वज्रमण्डलमुत्तमं ।
चतुरश्रमुत्तरद्वारं सूत्रयेद् बाह्यमण्डलं ॥ १ ॥

तस्याभ्यन्तरतस्तत्र पूर्वद्वारन्तथैव च ।
तस्य मध्ये यथायोगं बुद्धबिम्बन्निवेशयेत् ॥ २ ॥

त्रिलोकविजयाद्यास्तु चतस्रस्तस्य सर्वतः ।
मण्डलस्य तथा श्रेष्ठ वज्रमुद्राः समालिखेत् ॥ ३ ॥

तासां सर्वेषु पार्श्वेषु कुलमुद्राः समालिखेत् ।
वज्रशौण्डादयश्चैव चत्वारो द्वाररक्षकाः ॥ ४ ॥

भीमां श्रियं सरस्वतीं दुर्गां कोणेषु वामतः ।
बाह्यकोणेषु मुद्रा वै आसामेव तु संलिखेत् ॥ ५ ॥

बाह्यमण्डलेषु पुनर्यथावद्देवीः संलिखेत् । अतः परं प्रवक्ष्यामि यथावद्विधिविस्तरम् ॥ इति ॥ ६ ॥

Initiation into the मण्डल

अथत्र वज्रमण्डले यथाकामकरणीयतया वज्राङ्कु शादिभिः समयकर्म कृत्वा, वज्रधारिमुद्रां यथावद् बध्वा, ब्रूयान् "न कस्यचित्त्वया अदृष्टसमयस्तैताः समयमुद्राः पुरतो वक्तव्याः, न च रहस्यभेदः कर्तव्यः" ॥

ततस्तत्कर्मवज्रं वज्रधारिमुद्रायामुपरि स्थाप्य, यथावत्प्रवेशयेत् । प्रवेश्य तद्वज्रं तथैव क्षिपेत् । यत्र पतति सास्य समयमुद्रा वश्य भवति आ ॥ तया सर्वकर्माणि करोति ॥

ततो मुखबन्धं मुक्त्वा, मण्डलं यथावद् दर्शयित्वा, समयमुद्रारहस्यं ब्रूयात् ।

एताः समयमुद्रास्ते सर्वकर्मकराः शुभाः ।
मातरश्च भगिन्यश्च भार्या दुहितरोऽनुगा ॥ इति ॥

तत्रास्या हृदयं भवति ॐ सर्ववज्रगामिनि सर्वभक्षे साधय गुह्यवज्रिणि हूं फट् ॥

"अनया सकृज्जप्तया सर्वस्त्रियो वशीकृत्योपभोक्तव्याः, अधर्मो न भवति । यथाभिरुचित्तश्च सर्वभुज्त्व साध्याः । ततः सर्वशुद्धिचित्ततामवेत्य, सर्वमुद्रामनसोत्तमान्यपि सर्वकर्माणि कुर्वन्ती" त्याह भगवान् वज्रधरः ॥

Mudra

अतः समयमुद्राः शिक्षयितव्याः ॥

समयक्रोधाङ्गुली मूर्ध्नि हृदये वज्रदृढीकृता । मुखोर्णा च मुखोद्धान्ता मूर्ध्नि स्थाप्य द्विधिकृते ॥ ति ॥ १ ॥

वामवज्राग्रबन्धेन त्रिशूलाङ्गन्तु पीडयेत् ।
अनया बन्धया सम्यक् सिध्येद् विद्योत्तमः स्वयम् ॥ २ ॥

सर्ववज्रकुलानां तु वामवज्राग्रसंग्रहम् ।
मुद्राबन्धं प्रवक्ष्यामि समयानां यथाविधि ॥ ३ ॥

चक्रा सर्वाङ्गसंपीडा घण्टा मुद्रा तथैव च ।
तथैवोङ्कारमुद्रा तु सिंहकर्णपरिग्रहा ॥ ४ ॥

मुद्राराजनिकाः ॥

ज्वाला परिग्रहा चैव प्रभा संग्रहमेव च ।
दण्डमुष्टिग्रहा चैव मुखतः परिवर्तिता ॥

क्रोधसमयाः ॥

पानमुद्रा च माला च वज्रा च ष्टंभनामिता ।
मूर्धस्था चैव गणिका मण्डलद्वारपालिकाः ॥

गणिकासमयाः ॥

बाहुंसंकोचचक्रा तु पृष्ठतः परिवर्तिता ।
ज्वाला स्फुलिङ्गमोक्षा च विदारितमुखस्थिता ॥

दूतीसमयाः ॥

द्व्यन्तप्रवेशितमुखी पीड्य चैव प्रपातनी ।
बाहुवेष्टनवेष्टा च सहसा हारिणी तथे ॥ ति ॥

चेटीसमया ॥

सर्वतथागतवज्रसमयान् महाकल्पराजात् सर्ववज्रकुलवज्रमण्डलविधिविस्तरः परिसमाप्तः ॥


अध्याय 13
SARVA-VAJRA-KULA-DHARMA-SAMAYA-MANDALA-VIDHI-VISTARA

Emanation of deities from samadhi

अथ भगवां पुनरपि सर्वतथागतधर्मसमयसंभववज्राधिष्ठानन्नाम समाधिं समापद्येमां स्वविद्योत्तमामभाषत् ॐ वज्र वित् ॥

अथ वज्रापाणिः पुनरपीदं स्वधर्मसमयमभाषत् ॐ हन हन हु फट् ॥

अथ वज्रगर्भः स्वधर्मसमयमभाषत् ॐ हर हर हुं फट् ॥

अथ वज्रनेत्रः स्वधर्मसमयमभाषत् ॐ मर मर हुं फट् ॥

अथ वज्रविश्वः स्वधर्मसमयमभाषत् ॐ कुरु कुरु हुं फट् ॥

अथ वज्रविद्योत्तमः स्वधर्मसमयमभाषत् ॐ हुं हुं फट् ॥

अथ मायावज्र उवाच ॐ च्छिन्द च्छिन्द हुं फट् ॥ ॐ आविशाविश हुं फट् ॥ ॐ भूर्भुवः स्व हुं फट् ॥ ॐ भिन्द भिन्द हुं फट् ॥

विद्याराजनकाः ॥

ॐ दम दम हुं फट् ॥

ॐ मारय मारय हुं फट् ॥

ॐ घातय घातय हुं फट् ॥

ॐ भय भय हुं फट् ॥

क्रोधाः ॥

ॐ मद मद हुं फट् ॥

ॐ बन्ध बन्ध हुं फट् ॥

ॐ वशीभव हुं फट् ॥

ॐ जय जय हुं फट् ॥

गणपतयः ॥

ॐ भ्यो भ्यो हुं फट् ॥

ॐ घु घु हुं फट् ॥

ॐ ज्वल ज्वल हुं फट् ॥

ॐ खाद खाद हुं फट् ॥

दूताः ॥

ॐ खन खन हुं फट् ॥

ॐ मर मर हुं फट् ॥

ॐ गृह्ण गृह्ण हुं फट् ॥

ॐ विभ विभ हुं फट् ॥

चेटाः ॥

Delineation of the मण्डल

अथ वज्रपाणिः पुनरपीदं सर्ववज्रकुलधर्मसमयमण्डलमभाषत् ।

अथातः संप्रवक्ष्यामि महामण्डलमुत्तमम् ।
[त्रिलोक]चक्रसंकाशं संलिखेत्सर्वमण्डलम् ॥ १ ॥

सर्वे चैव समापन्ना बुद्धवज्रधरादयः ।
धर्ममण्डलयोगेन हृच्चिह्नास्तु समालिखेत् ॥

Initiation into the मण्डल

अथात्र [धर्मसमय]मण्डले यथावत्कर्म कृत्वा, वज्रधारिमुद्रांसु वज्रघण्टां [बद्धं बध्यै]वं ब्रुयात् "न त्वया कस्यचिदसमयदृष्टस्यादृष्टदेवकुलस्य वक्तव्यम्" इति उक्त्वा, तां घण्टां रणापयेत् एवं च ब्रूयात्, शपथहृदयं दत्वा ।

यथेयं रणितघण्टा शब्दश्चास्य यथा ध्रुवः ।
तथेदं कर्मवज्रं ते नाशं कुर्यत्तथा ध्रुवं ॥ १ ॥

वज्राचार्यत्वगौरव्यं वज्रस्रातृष्वमित्रता । दुष्टमैत्रीविरासश्च यदि कुर्याद्भवान् कदा ॥ इति ॥ २ ॥

Mudra

ततो मुखबन्धं मुक्त्वा, मण्डलं दर्श्य, धर्मसमयमुद्राज्ञानं शिक्षयेत् ।

Samadhis of Vidyaraja, Vajrakrodha, Gana, Duta and Ceta

बुद्धवज्रधरादीनां यथावद्धर्ममण्डले ।
ध्यानं सर्वसमत्वं हि वज्रविद्योत्तमस्य तु ॥ १ ॥

मायोपमं जगदिदं दुःखं गण्ठोपमं तथा । निर्वाणं सर्वदुःखानां वज्रं भेदिष्वनुत्तरम् ॥ इति ॥ २ ॥

विद्याराजसमाधयः ॥

क्रोधोऽग्रयः सत्वविनये सौम्यत्वं मारणं ध्रुवम् ।
दण्डात् समो न निर्घातो मिथ्यादृष्टिर्भयंकरः ॥ इति ॥

वज्रक्रोधसमाधयः ॥

मदात्तुल्यो न धैर्यास्ति मालातुल्यन्न बन्धनम् ।
स्त्रियो हि रागो जगद्वशंकरः धैर्यमात्रा पराजिता ॥ इति ॥

गणसमाधयः ॥

प्रहारो निग्रहाग्रयो हि स्पर्शानां तु समीरणः ।
तेजसां हुतभुग् ज्येष्ठः भोजनानां तु लोहितम् ॥ इति ॥

दूतसमाधयः ॥

दंष्ट्रा शुद्धः प्रविष्टस्तु मृत्युः सर्व पदे स्थितः ।
भयात्तुल्यो न विघ्नास्ति जलात्तुल्यो न वै रस ॥ इति ॥

चेटसमाधयः ॥

सर्वतथागतवज्रसमयान् महाकल्पराजात् सर्ववज्रकुलधर्मसमयमण्डलविधिविस्तरः समाप्तः ॥


अध्याय 14
SARVA-VAJRA-KULA-KARMA-MANDALA-VIDHI-VISTARA

अथ भगवान् पुनरपि सर्वतथागतकर्मसमयोद्भववज्राधिष्ठानन्नाम समाधिं समापद्येमां स्ववि[द्योत्तमामभाषत् । ॐ वज्र] कर्मप्रवर्तनि समये हूं ॥

अथ वज्रपाणिः पुनरपि स्वकर्मोत्तममभाषत् [ॐ वज्रविलासे पूजय हूं ॥] अथ वजगर्भः स्वकर्मोत्तममभाषत् ॐ वज्राभिषेकेऽभिषिञ्चे हूं ॥

अथ वज्रनेत्रः स्वकर्मोत्तममभाष[त् ॐ वज्रगीते गाहि हूं ॥] अथ वज्रविश्वो बोधिसत्वः स्वकर्मविद्योत्तममभाषत् ॐ वज्रनृत्ये नृत्य हूं ॥

अथ वज्रविद्योत्तम [इमां स्वकर्मसमयामभाषत्] ॐ वज्रविद्योत्तम नृत्य नृत्य विकुर्व विकुर्व हुं फट् ॥

अथ वज्रक्रोधवज्राग्नि महादेवीमां स्वकर्मसम[यामभाषत् ॐ वज्रक्रोध] वज्राग्ने ज्वालय त्रिशूलं भिन्द हृदयं वज्रेण हूं फट् ॥

अथ वज्रहेमा महादेवीमां स्वकर्मसंमयामभाषत् [ॐ वज्रहेमे च्छिन्द चक्रेण] वज्रिणि हूं फट् ॥

अथ वज्रकौमारीमां स्वकर्मसमयामभाषत् ॐ वज्रकौमारी शीघ्रमावेशय घण्[टाशब्देन] वज्रपाणिप्रिये वज्रसमयमनुस्मर रण रण हूं फट् ॥

अथ वज्रशान्तिर्महादेवीमां स्वकर्मसमयामभाषत् ॐ वज्रशा[न्त जप ज]पाक्षमालया सर्वान् मारय शान्त दृष्ट्या हूं फट् ।

अथ वज्रमुष्टिर्महादेवीमां स्वकर्मसमयामभाषत् ॐ वज्रमुष्टि [हन हन] वज्रेण भिन्द भिन्द पीडय पीडय सर्वदुष्टहृदयानि ॐ सुंभ निसुंभ हूं फट् ॥

विद्याराजनिकाः ॥

अथ [वज्रामृतक्रोधा इमां स्वकर्मसमयामभाषत् ॐ वज्रामृते सर्वदुष्टान् गृह्ण बन्ध हन पच विध्वंसय विनाशय भिन्द च्छिन्द भस्मीकुरु मूर्धन्तानुय [वज्रेण ये केतुमममुकस्य] विध्नविनायकास्तान् दामय दीप्तक्रोधवज्रिणि हूं फट् ॥

अथ वज्रकान्तिः स्वकर्मसमयामभाषत् ॐ वज्रकान्ति मा[रय सौम्यरूपे प्र]दीप्तरागेण शीघ्रं स्फोटय हृदयं वज्रधरसत्येन महाज्योत्स्नाकराले शीतरश्मिवज्रिणि हूं फट् ॥

अथ वज्रदण्डाग्रा स्वकर्मस[मयामभाषत्] ॐ वज्रदण्डाग्रे घातय हुं फट् ॥

अथ वज्रमेखला महाक्रोधा इमां स्वकर्मसमयामभाषत् ॐ वज्रमेखले ख[न खन शब्देन वशीकु]रु दुष्ट्या मारय भीषणि हूं फट् ॥

क्रोधविद्याः ॥

अथवज्रविलया स्वकर्मसमयामभाषत् ॐ वज्रवि[लये च्छिन्द सिन भिन्द व]ज्रिणी मादयोन्मादय पिव पिव हूं फट् ॥

अथ वज्राशना स्वकर्मसमयामभाषत् ॐ वज्राशने भ[क्षय सर्वदुष्टान् वज्रदशनि शक्तिधारि]णि मानुषमांसाहारे नररुचिराशुभप्रिये मज्जवसानुलेपनविलिप्तगात्रे आनय सर्वधनधान्यहिरण्यसुव[र्णादीनि संक्रामय बलदेवरक्षि]णि हूं फट् ॥

अथ वज्रवसना स्वकर्मसमयमभाषत् ॐ वज्रवसने आनय सर्ववस्त्रान्नपानाद्यु प[करणानि शीघ्रं वशीकुरु एनं] मे प्रयच्छाविशाविश सत्यं कथय वज्रकोशधारिणि हूं फट् ।

अथ वज्रवशी स्वकर्मसमयामभाषत् ॐ [वज्रवशी आनय वशीकुरु सर्वस्त्रिय] सर्वपुरुषान् दासीकुरु ऋद्धान् प्रसादय व्यवहारेभ्योऽप्युत्तारय विजयकरि वज्रपताकाधारिणि हुं [फट् ॥

वज्रगणिकाः ॥

अथ वज्र] दूतीमां स्वकर्मसमयामभाषत् ॐ वज्रदूति आनय सर्वान् मण्डलं प्रवेशयावेशय बन्धय सर्वकर्मा[णि मे कुरु शीघ्रं शीघ्रं लघु लघु] त्रासय मारय रावेण वज्रखङ्गधारिणि हुं फट् ॥

अथ वेगवज्रिणि स्वकर्मसमयामभाषत् ॐ वेगवज्रिणी घु घु] घु घु शब्देन मारय विकिर विध्वंसय वज्रपटधारिणि हुं फट् ॥

अथ वज्रज्वाला स्वकर्मसमयामभाषत् ॐ वज्रज्वालय स]र्वं वज्र ज्वालय दह दह भस्मीकुरु हुं फट् ॥

अथ वज्रविकटा स्वकर्मसमयामभाषत् ॐ वज्रविकटे प्रविकट[दंष्ट्राकरालभीषण]वक्ते शीघ्रं गृह्णावेशय भक्षय रुधिरं पिव महायक्षिणि वज्रपाशधारिणि हुं फट् ॥

वज्रदूत्य ॥

अथ वज्रमु[खी वज्रचेटी स्व]कर्मसमयामभाषात् ॐ वज्रमुखि आनय वज्रदंष्ट्रि भयानिके पातालनिवासिनि खन खन खाहि खाहि सर्व मुखे [प्रवेशय स्फोट]य मर्माणि सर्वदुष्टानां वज्रनिशितासिधारिणि हुं फट् ॥

अथ वज्रकाली स्वकर्मसमयामभाषत् ॐ वज्रकालि [महाप्रेत]रूपिणि मानुषमांसरुधिरप्रिये एह्येहि गृह्ण गृह्ण भक्षय वज्रडाकिनि वज्रशङ्कले सर्वदेवगणमातृभूते हर हर [प्राणानमुकस्य] कपालमालालंङ्कृतसर्वकाये किं चिरायसि वज्रखट्वाङ्गधारिणि प्रेतमानुषशरीरे शीघ्रमावेशय प्रवेशय बन्ध[य वशीकुरु मारय वज्रराक्षसि हूं हूं हूं हूं फट् ॥]

अथ वज्रपूतना स्वकर्मसमयामभाषत् अथ वज्रपूतने मानुषमांसवसारुधिरमूत्रपुरीषश्लेष्मसिंघाणकरे[तो गर्भकरिण्य याहि] शीघ्रमिदमस्य कुरु वज्रशोधनिकाधारिणि सर्वकर्माणि मे कुरु हुं फट् ॥

अथ वज्रमकरीमां स्वकर्मसमयामभाषत् [ॐ वज्रमकरि ग्र]स ग्रस शीघ्रं शीघ्रं प्रवेशय पातालं भक्षय वज्रमकरधारिणि हुं फट् ॥

वज्रचेट्यः ॥

Delineation of the मण्डल

अथ वज्रपाणिः पुनरपीदं सर्ववज्रकुलकर्ममण्डल[मभाषत् ॥

अ]थातः संप्रवक्ष्यामि कर्ममण्डलमुत्तमम् ।
वज्रमण्डलयोगेन सूत्रयेत् सर्वमण्डलम् ॥ १ ॥

मण्डलाग्राणि सर्वाणि बुद्धमध्यस्थितानि [वै ।
अनुपूर्वेण प]ङ्क् त्या वै महासत्वान्निवेशयेत् ॥ २ ॥

तस्य मध्ये सपत्नीकं वज्रविद्योत्तमं स्वयम् ।
वज्रलास्यदिभिर्गुह्यनृत्यपूजाभिरर्चयेत् ॥ ३ ॥

[तत्र देवी यथाक्रमं] चक्रमण्डलयोगतः ।
स्वमुद्राप्रतिमुद्राभिर्नृत्यमानास्तु संलिखेत् ॥ ४ ॥

पूजार्थ बुद्धवज्रिभ्यां वज्रनृत्यप्रयोगतः । [चतुरश्रद्वारेषु वै यथाक्रमं धू]पादिकम् ॥ इति ॥ ५ ॥

Mudra अथात्र कर्ममण्डले समाकर्षणादिकर्म कृत्वा, यथावद् वज्रधारिकर्मसमयमुद्रां बध्वैवं वदेत् ["न त्वया कस्यचिददृष्टदेवकुलस्या]ज्ञातकर्मस्येदं गुह्यकर्म वक्तव्यं, मा ते समयो व्यथेद्!" इति उक्त्वा, वज्राचार्यः स्वकर्मवज्रधारिसमयमुद्रां बन्धयेत्॑ क्रोधदृष्ट्या निरीक्षन्निदमुत्तारयेत् ॐ वज्रधार्यावेशय प्रवेशय नृत्यापय सर्वकर्मसिद्धिं प्रयच्छ हुं अ हूं अ ल ल ल ल वज्रि ॥

ततः स्वयमाविश्य प्रविशेति, मुद्राप्रतिमुद्राभिर्नृत्योपहारपूजां करोति । ततः प्रभृति सर्वकर्माणि कायवाग्दृष्टिमनोवज्रमुद्राभिरीप्सितेन करोति ।

ततो मुखबन्धं मुक्त्वा, नृत्योपहारमुद्राज्ञानं शिक्षयेत् ।

बुद्धवज्रधरादीनां स्मयाग्र्यो द्विधीकृताः ।
वज्रलास्यादिपूजां तु वज्रविद्योत्तमस्य वै ॥ १ ॥

सर्वासां चैव विद्यानां यथावदनुपूर्वशः ।
नृत्योपहारपूजाभिः पूजयेत्कर्ममण्डलं ॥ २ ॥

वज्रनृत्यप्रयोगेण महामुद्रास्तु संक्षिपेत् ।
समयाग्र्य द्विधीकृत्य प्रतिमुद्राभिमोक्षयेत् ॥ ३ ॥

आभिर्नृत्योपहारेण पूजयं सर्वनायकान् । महावज्रधरादिश्च कर्मसिद्धि भवेद् ध्रुवम् ॥ ४ ॥ इति ॥

सर्वतथागतवज्रसमयान्महाकल्पराजात् सर्ववज्रकुलकर्ममण्डलविधिविस्तरः परिसमाप्तः ॥


अध्याय 15
EPILOGUE OF THE SARVA-TATHAGATA-VAJRA-SAMAYA NAMA MAHA-KALPA-RAJA

अथ वज्रपाणिः सर्ववज्रकुलान् सर्वसत्त्वार्थं [स्थित्वा] यावन् सन्नियोज्यावैवर्तिकभूमौ प्रतिष्ठाप्य, जानन्नेव भगवन्तमेतदभाषत् । "अहं भगवद्भिः सर्वतथागतैस्तव गुह्यधारित्वेऽभिषिक्तः । [यदा]ज्ञापयस्व किन्तत् तथागतगुह्यम्!" इति ॥

अथ भगवान् सर्वतथागतगुह्यवज्रं नाम समाधिं समापद्येदं [सर्वतथागतगुह्यमभाषत् ।

यथा यथा हि विनयाः सर्वसत्वाः] स्वभावतः ।
तथा तथा हि सत्वार्थं कुर्याद्रागादिभिः शुचिः ॥

अथ वज्रपाणिरिदं स्वगुह्यतामभाषत् ।

[सर्वसत्वहितार्थाय बुद्धशासनहेतुतः ।] मारयेत्सर्वसत्वास्तु न स पापेन लिप्यते ॥

अथ वज्रगर्भो बोधिसत्व इदं स्वमणिगुह्यमभाषत् ।

सर्वसत्वहिता[र्थाय बुद्धकायप्र]योगतः ॥

हरस्तु सर्वचिन्तानि न स पापेन लिप्यते ॥

अथ वज्रनेत्रो बोधिसत्व इदं स्वधर्मगुह्यमभाषत् ।

रागशुद्धः सुखा[समः जिनगोचरदानतः ।] सहाय परदारा निषेवे स पुण्यमाप्नुते ॥

अथ वज्रविश्वो बोधिसत्व इदं स्वकर्मगुह्यमभाषत् ।

सर्वसत्वहितार्थाय बुद्धशासनहेतुतः ।
सर्वकर्माणि कुर्वन् वं स बहुपुण्यमाप्नुते ॥ इति ॥

अथ भगवान् वैरोचनस्तथागतो भगवते गुह्यधारि[णे वज्र]धराय साधुकारैरभिष्टवेत् ॥

साधु ते वज्रसत्वाय वज्ररत्नाय साधु ते ।
वज्रधर्माय ते साधु साधु ते वज्रकर्मणे ॥

सुभाषितमिदं सूत्रं वज्रयानमनुत्तरम् ।
सर्वतथागतं गुह्यं महायानाभिसंग्रहम् ॥ इति ॥

सर्वतथागतत्वसंग्रहात् सर्वतथागतवज्रसमयो नाम महाकल्पराजः परिसमाप्तः ॥


अध्याय 16
SAKALA-JAGAD-VINAYA-MAHA-MANDALA-VIDHI-VISTARA

Hymn of 108 names of अवलोकितेश्वर

अथ सर्वतथागताः पुनः समाजमागम्य, [तमेव वज्रधरं] भगवन्तं सर्वधर्मेश्वरमवलोकितेश्वरमनेन नामाष्टशतेनाध्येषितवन्तः ।

पद्मसत्व महापद्म लोकेश्वर महेश्वर ।
अवलोकितेश धीराग्र्य वज्रधर्म नमोऽस्तु ते ॥ १ ॥

धर्मराज महाशुद्ध सत्वराज महामते ।
पद्मात्मक महापद्म पद्मनाथ नमोऽस्तु ते ॥ २ ॥

पद्मो[द्भव] सुपद्माभ पद्मशुद्ध सुशोधक ।
वज्रपद्म सुपद्माङ्ग पद्मपद्म नमोऽस्तु ते ॥ ३ ॥

महाविश्व महालोक महाकार्य महोपम ।
महाधीर महावीर महाशौरे नमोऽस्तु ते ॥ ४ ॥

सत्वाशय महायान महायोग पितामह ।
शम्भु शङ्कर शुद्धार्थ बुद्धपद्म नमोऽस्तु ते ॥ ५ ॥

धर्मतत्वार्थ सद्धर्म शुद्धधर्म सुधर्मकृत् ।
महाधर्म सुधर्माग्र्य धर्मचक्र नमोऽस्तु ते ॥ ६ ॥

बुद्धसत्व सुसत्वाग्र्य धर्मसत्व सुसत्वधृक् ।
सत्वोत्तम सुसत्वज्ञ सत्वसत्व नमोऽस्तु ते ॥ ७ ॥

अवलोकितेश नाथाग्र्य महानाथ विलोकित ।
आलोकलोक लोकार्थ लोकनाथ नमोऽस्तु ते ॥ ८ ॥

लोकाक्षराक्षरमहा अक्षराग्र्याक्षरोपम ।
अक्षराक्षर सर्वाक्ष चक्राक्षर नमोऽस्तु ते ॥ ९ ॥

पद्महस्त महाहस्त समाश्वासक दायक ।
बुद्धधर्म महाबुद्ध बुद्धात्मक नमोऽस्तु ते ॥ १० ॥

बुद्धरूप महारूप वज्ररूप सुरूपवित् ।
धर्मालोक सुतेजाग्र्य लोकालोक नमोऽस्तु ते ॥ ११ ॥

पद्मश्रीनाथ नाथाग्र धर्मश्रीनाथ नाथवान् ।
ब्रह्मनाथ महाब्रह्म ब्रह्मपुत्र नमोऽस्तु ते ॥ १२ ॥

दीप दीपाग्र्य दी[पोग्र दीपा]लोक सुदीपक ।
दीपनाथ महादीप बुद्धदीप नमोऽस्तु ते ॥ १३ ॥

बुद्धाभिषिक्त बुद्धाग्र्य बुद्धपुत्र महाबुध ।
बुद्धाभिषेक मूर्धाग्र्य बुद्धबुद्ध [नमोऽस्तु] ते ॥ १४ ॥

बुद्धचक्षोर्महाचक्षोर्धर्मचक्षोर्महेक्षण ।
समाधिज्ञान सर्वस्व वज्रनेत्र नमोऽस्तु ते ॥ १५ ॥

यैवं सर्वात्मना गौणं नाम्नामष्टशतं तव ।
भावयेत्स्तुनुयाद् वापि लोकैश्वर्यमवाप्नुयात् ॥ १६ ॥

अध्येषयाम त्वां वीर प्रकाशय महामुने । स्वकं तु कुलमुत्पाद्य धर्ममण्डलमुत्तमम् ॥ १७ ॥ इति ॥

अथार्यावलोकितेश्वरो बोधिसत्वो महासत्वः सर्वतथागताध्येषणवचनमुपश्रुत्य, येन भगवांच्छाक्यमुनिस्तथागतः तेनाभिमुखं स्थित्वा, तद्वज्रपद्मं स्वहृदि प्रतिष्ठाप्येदमुदानमुदानयामास ।

अहो हि परमं शुद्धं वज्रपद्ममिदं मम ।
पिताहमस्य च सुतोऽधितिष्ठ कुलं त्विदम् ॥ इति ॥

Emanation of deities from samadhi

अथ भगवान् वैरोचनस्तथागतः सर्वतथागतवज्रधर्मसमयसंभवाधिष्ठानपद्मन्नाम समाधिं समापद्येदं सर्वतथागतधर्मसमयं नाम सर्वतथागतहृदयं स्वहृदयान्निश्चचार ह्रीः ॥

अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः पद्माकारा अनेकवर्णरूपलिङ्गेर्यपथा रश्मयो विनिःसृत्य, सर्वलोकधातुषु रागादीनि विशुद्धधर्मताज्ञानानि संशोध्य, पुनरप्यागत्यार्यावलोकितेश्वरस्य हृदये प्रविष्टा इति ॥

अथ भगवान् सर्वतथागतधर्मसमयन्नाम स्वविद्योत्तममभाषत् ॐ वज्रपद्मोत्तम ह्रीः ॥

अथ वज्रपाणिर्महाबोधिसत्व इदं स्वविद्योत्तममभाषत् ॐ वज्र हुं फट् ॥

अथ वज्रगर्भो बोधिसत्व इदं स्वविद्योत्तममभाषत् ॐ वज्ररत्नोत्तम त्रः ॥

अथ वज्रनेत्रो बोधिसत्व इदं स्वविद्योत्तममभाषत् ॐ वज्रविद्योत्तम ह्रीः ॥

अथ वज्रविश्वो बोधिसत्व इदं स्वविद्योत्तममभाषत् ॐ वज्रविश्वोत्तम अः ॥

अथ खल्ववलोकितेश्वरो बोधिसत्वो महासत्वः सर्वरूपसंदर्शनं नाम समाधिं समापद्येदं सर्वजगद्विनयसमयन्नाम स्वहृदयमभाषत् ॐ हुं ह्रीः होः ॥

अथास्मिन् भाषितमात्रे आर्यावलोकितेश्वरहृदयात् स एव भगवां वज्रधरः आर्यावलोकितेश्वररूपधारिणः पद्मप्रतिष्ठाः पद्ममुद्राचिन्हधारिविचित्रवर्णरूपवेषालङ्काराः तथागतादिसर्वसत्वमूर्तिधारा महाबोधिसत्वविग्रहा भूत्वा विनिःसृत्य, सर्वलोकधातुषु सर्वसत्वानां यथा वैनेयतया स्वरूपाणि सन्दर्श्याशेषानवशेषसत्वधातुविनयं कृत्वा, पुनरप्यागत्य, वज्रधातुमहामण्डलयोगेन भगवतः शाक्यमुनेस्तथागतस्य सर्वतश्चन्द्रमण्डलाश्रिता भूत्वेदमुदानमुदानयिंसुः ।

अहो हि सर्वबुद्धानामुपायः करुणात्मनां ।
यत्र ह्यु पायविनयाद् देवा अपि भवन्ति हि ॥

Delineation of the मण्डल

अथ भगवानवलोकितेश्वरो बोधिसत्वो महासत्वः स्वकुलमुत्पाद्य, सर्वतथागतेभ्य सर्वसत्वाभयार्थप्राप्त्युत्तमसिद्धिवज्रधर्मताज्ञानाभिज्ञावाप्तिफलहेतोर्निर्या[त्य, सर्वजग]द्विनयं नाम महामण्डलमभाषत् ।

अथातः संप्रवक्ष्यामि महामण्डलमुत्तमम् ।
वज्रधातुप्रतीकाशं जगद्विनयं संज्ञितं ॥ १ ॥

चतु[रश्रं] चतुर्द्वारं चतुस्तोरणशोभितं ।
चतुःसूत्रसमायुक्तं पट्टस्रग्दामभूषितं ॥ २ ॥

सर्वमण्डलकोणेषु द्वारनिर्यूहसन्धिषु ।
खचितं वज्ररत्नैस्तु सूत्रयेद्बाह्यमण्डलं ॥ ३ ॥

तस्याभ्यन्तरतः सूत्रं चतुरश्रं परिक्षिपेत् ।
द्वितीयं द्वारकोणं तु पद्माकारं प्रकल्पयेत् ॥ ४ ॥

अष्टस्तम्भप्रयोगेण पद्ममष्टदलं लिखेत् ।
तस्य केसरमध्ये तु बुद्धबिम्बन्निवेशयेत् ॥ ५ ॥

तत्रेदं बुद्धप्रवेशहृदयं भवति बुद्ध हूं ॥

बुद्धस्य सर्वतो लेख्याः पद्ममध्ये प्रतिष्ठा ।
वज्रं रत्नं तथा पद्मं विश्वपद्मं तथैव च ॥

तत्रैषां हृदयानि भवन्ति ।
ॐ ॥

हुः ॥

धीः ॥

कृः ॥

वज्रवेगेन निष्क्रम्य जगद्विनयमण्डलं ।
तत्र लोकेश्वरः कार्यः सर्वरूपान्समुत्सृजन् ॥ १ ॥

तस्य पार्श्वेषु सर्वेषु वज्रगर्वादियोगतः ।
बुद्धादयो महासत्वां पद्मचिन्हधरां लिखेत् ॥ २ ॥

तत्रैषां हृदयानि भवन्ति ।
आः ॥

ॐ तथागतधर्म हूं ।
ॐ वज्रपद्माङ्कुश कोशधर वज्रसत्व हूं फट् ॥

ॐ मारय मारय पद्मकुसुमायुधधरामोघशर होः ॥

ॐ पद्मसंभव पद्महस्त साधु हूं । वज्रवेगेन चाक्रम्य द्वितीयं मण्डलन्तथा ।

तत्र मध्ये समालेख्यं जटामध्ये तथागतं ॥ १ ॥

तस्य पार्श्वेषु सर्वेषु भृकुट्यादिप्रयोगतः ।
पद्मचिन्हधरा लेख्य यथावदनुपूर्वशः ॥ २ ॥

तत्रैषां हृदयानि भवन्ति ।
हूं ॥

ॐ पद्मभृकुटि त्रः ॥

ॐ पद्मसूर्य ज्वल हूं ॥

ॐ पद्ममणि केतुधर चन्द्र प्रल्हादयावलोकितेश्वर देहि मे सर्वार्थान् शीघ्रं समय हूं ॥

ॐ पद्माट्टहासैकदशमुख हः हः हः हः हूं ॥

वज्रवेगेन चाक्रम्य तृतीयं मण्डलन्तथा ।
समापन्नं महासत्वं लिखेत् पद्मप्रतिष्ठितम् ॥ १ ॥

तस्य पार्श्वेषु सर्वेषु यथावदनुपूर्वशः ।
पद्मालोकादियोगेन महासत्वान् निर्वेशयेत् ॥ २ ॥

तत्रैषां हृदयानि भवन्ति ।
ध ॥

ॐ तारा पद्मवलोकय मां समयसत्व हूं ॥

ॐ पद्मकुमार पद्मशक्तिधर खङ्गेन च्छिन्द च्छिन्द हूं फट् ॥

ॐ पद्म नीलकण्ठ शंखचक्रगदापद्मपाणि व्याघ्रचर्मनिवसन् कृष्णसर्पकृतयज्ञोपवीताजिनचर्मवामस्कन्धोत्तरीय नारायण[रूपध]र त्रिनेत्र मुंचाट्टहासं प्रवेशय समयान् देहि मे सिद्धिमवलोकितेश्वर हूं ॥

ॐ ब्रह्म पद्मसंभव जप जप पद्मभाष हूं ॥

वज्रवेगेन चाक्रम्य चतुर्थमण्डलं तथा ।
तत्र पद्मं चतुर्वक्त्रं पद्मशूलधरं लिखेत् ॥ १ ॥

तस्य पार्श्वेषु सर्वेषु वज्रनृत्यादियोगतः ।
पद्मचिन्हधरा लेख्या महासत्वा यथाविधि ॥ २ ॥

तत्रैषां हृदयानि भवन्ति ।
त्रीः ॥

ॐ पद्मनट्टेश्वर नट्ट नट्ट पूजय सर्वतथागतान् वज्रकर्मसमयाकर्षय प्रवेशय बन्धयावेशय सर्वकर्मसिद्धिं मे प्रयच्छावलोकितेश्वर हूं ॥

ॐ अभयंददावलोकितेश्वर रक्ष बन्ध पद्मकवचं समय हं ॥

ॐ महाप्रचण्ड विश्वरूप विकटपद्मदंष्ट्राकराल भीषणवक्त्र त्रासय सर्वान् पद्मयक्ष खाद खाद धिक् धिक् धिक् धिक् ॥

ॐ पद्ममुष्टि समय[स्त्व] बन्ध हूं फट् ॥

वज्रवेगेन चाक्रम्य सर्वकोणेषु संलिखेत् ।
वज्रलास्यादियोगेन पद्मलास्यादिदेवताः ॥

तत्रैता मुद्रा भवन्ति ।
ॐ पद्मलास्ये रागय महादेवि रागपूजासमये हूं ॥

ॐ पद्ममालेऽभिषिञ्चाभिषेकपूजासमये हूं ॥

ॐ पद्मगीते गाद गीतपूजासमये हूं ॥

ॐ पद्मनृत्ये नृत्य सर्वपूजाप्रवर्तनसमये हूं ॥

वज्रवेगेन निःक्रम्य बाह्यमण्डलसन्निधौ ।
चतस्रः पद्मधूपाद्याः पूजादेव्यः समालिखेत् ॥

तत्रैताः पूजामुद्रा भवन्ति ।
ॐ पद्मधूपपूजासमये प्रल्हादय पद्मकूलदयिते महागणि पद्मरति हूं ॥

ॐ पद्मपुष्पपूजासमये पद्मवासिनि महाश्रिये पद्मकुलप्रतीहारि सर्वार्थान् साधय हूं ॥

ॐ पद्मदीपूजासमये पद्मकुलसुन्दरि महादूत्यालोक संजनय पद्मसरस्वति हूं ॥

ॐ पद्मगन्धपूजासमये महापद्मकुलचेटि कुरु सर्वकर्माणि मे पद्मसिद्धि हूं ॥

ततो गणादयः सर्वे पद्मद्वारचतुष्टये ।
समालेख्या यथावत्तु तेषां च हृदयार्थत ॥ इति ॥

तत्रेषां हृदयानि भवन्ति ।
ॐ हयग्रीव महापद्माङ्कुशाकर्षय शीघ्रं सर्वपद्मकुलसमयान् पद्माङ्कुशधर हूं ज्जः ॥

ॐ अमोघपद्मपाश क्रोधाकर्षय प्रवेशय महापशुपतियमवरूणकुबेरब्रह्मवेषधर पद्मकुल समयान् हूं हूं ॥

ॐ पद्मस्फोट बन्ध सर्वपद्मकुलसमयान् शीघ्रं हूं वं ॥

ॐ षड्मुख सनत्कुमारवेषधर पद्मघण्टयावेशय सर्वपद्मकुलसमयान् सर्वमुद्रां बन्धय सर्वसिद्धयो मे प्रयच्छ पद्मावेश अः अः अः अः अः ॥

Initiation into the मण्डल

अथात्र सर्वजगद्विनयपद्ममण्डलविधिविस्तरो भवति । तत्रादित एव पद्माचार्यो वज्रपद्मसमयमुद्रां बध्वा यथावत्प्रविश्य, वज्रधातुमहामण्डलयोगेन कर्म कुर्यादिमैर्हृदयैः ॐ पद्मस्फोटाधितिष्ठ अः ॥

ततस्तथैवाज्ञामाज्य, तथैव समयमुद्रया स्वयमभिषिच्य, पद्मविग्रहं गृह्य, स्वपद्मनामोच्चार्य, पद्माङ्कुशादिभिश्च कर्म कृत्वा, ततस्ताभिरेव धर्ममुद्राभिर्महासत्वां साधयेत् । ततस्तथैव सिद्धिरिति ॥

ततः पद्मशिष्यान् प्रवेशयेत् । तत्रादितः पद्मशिष्याय शपथहृदयं दद्यात् । "पद्मसत्वः स्वयन्तेऽद्य इति कर्तव्यम्" ।

ततो [आज्ञाप]यात् । "न कस्यचित्त्वयेदं गुह्यविधिविस्तरमाख्येयं॑ मा ते नरकपतनं भवेत्, विषमापरिहारेण च कालक्रिये" ति ॥

ततः समय[मुद्रां बन्धये]द् अनेन हृदयेन ॐ वज्रपद्मसमयस्त्वं ॥

ततः श्वेतवस्त्रोत्तरीयः श्वेतरक्तकेन मुखं वध्वा प्रवेशयेदनेन हृदयेन ॐ पद्मसमय हूं ॥

ततो यथावत्कर्म कृत्वा, पद्मविग्रहं पाणौ दातव्यं ॐ पद्महस्त वज्रधर्मतां पालय ॥ तेन वक्तव्यं "कीदृशीमा वज्रधर्मते-" ति । ततो वक्तव्यं ।

यथा रक्तमिदं पद्मं गोत्रदोषैर्न लिप्यते ।
भावयेत् सर्वशुद्धिं तु तथा पापैर्न लिप्यते ॥

इयमत्र धर्मता ॥

Mudra

ततः पद्मकुलमुद्राज्ञानं शिक्षयेत् ।

पद्मं तु हृदये लिख्ये पद्मभावनया हृदि ।
पद्मश्रियं वशीकुर्यात् किं पुनः स्त्रीजनोऽवरः ॥ १ ॥

बुद्धबिम्बं ललाटे तु लिख्याभीक्ष्णं तु भावयेत् ।
तया भावनया शीघ्रमभिषेकमवाप्नुते ॥ २ ॥

बुद्धबिम्बं मुखे विध्वाजिव्हायां तु प्रभावयेत् ।
स्वयं सरस्वती देवी मुखे तिष्ठत्यभीक्ष्णशः ॥ ३ ॥

पद्ममुष्णीषमध्ये तु स्थापयित्वा समाहितः । भावयन् पद्ममुष्णीषे खेगामी स वशन्नयेद् ॥ इति ॥ ४ ॥

तत्रैतानि हृदयानि भवन्ति ।
पद्मश्रियं वशमानय होः ॥

पद्माभिषेकं प्रयच्छ वम् ॥

पद्मसरस्वती शोधय हूं ॥

पद्मोर्ध्वगान् वशीकुरु ज्जः ॥

इमानि पद्मकुलमुद्राज्ञानानि ॥

कुड्ये वाप्यथ वाकाशे भावयन् पद्ममुत्तमं ।
अनया सर्वसत्वानां वशिकरणमुत्तमम् ॥ १ ॥

आकाशे वान्यदेशे वा भावयन् पद्ममुत्तमं ।
यदा पश्येत् तदा गृह्णेद् रुच्यानदृश्यतां व्रजेत् ॥ २ ॥

कुड्ये वाप्यथ वाकाशे विश्वपद्मं समाधयेत् ।
पश्यं गृण्हेद्यथा तं तु विश्वरूपी तदा भवेत् ॥ ३ ॥

आकाशे वान्यदेशे वा वज्रपद्मं तु भावयेत् ।
तं तु गृह्णं क्षणाच्चैव पद्मविद्याधरो भवेत् ॥ ४ ॥

तत्रैषां हृदयानि भवन्ति ।
ॐ सर्वजगद्वशिता ज्ञानपद्माविश अः ॥

ॐ ज्ञानपद्म तिष्ठादृश्यं कुरु वं ॥

ॐ समाधि विश्वपद्म तिष्ठ वैश्वरूप्यं दर्शय भगवन् ढः ।
ॐ समाधि वज्रपद्म तिष्ठोत्तिष्ठ शीघ्रं ह्रीः ॥

लोकेश्वरं समालिख्य मण्डलादिषु सर्वतः ।
पुरस्तस्य समाकर्षेत् हयग्रीवाग्र्यमुद्रया ॥ १ ॥

लोकेश्वरं समालिख्य मण्डलादिषु तस्य वै ।
अमोघपाशमुद्रया वशीकुर्याज्जगत्स तु ॥ २ ॥

लोकेश्वरं समालिख्य मण्डलादिषु सर्वतः ।
पुरस्तस्य बन्धनीयात् पद्मस्फोटाग्रमुद्रया ॥ ३ ॥

लोकेश्वरं समालिख्य मण्डलादिषु तस्य वै । पुरतः पद्मघण्टया सर्वावेशनमुत्तमम् ॥ इति ॥ ४ ॥

तत्रैषां हृदयानि भवन्ति ।
ॐ पदमाङ्कुशाकर्षय सर्वमहासत्वान् हूं जः ॥

ॐ अमोघपाश क्रोध हूं होः ॥

ॐ पद्मस्फोट वं ॥

ॐ पद्मघण्टावेशय सर्वं अः ॥

चतुःपद्ममुखं सत्वं भावयेत्स्वयमात्मना ।
स्वमात्मानन्ततः सिद्धो बहुरूपी भवेत्क्षणात् ॥ १ ॥

भावयन् पद्मपद्मन्तु स्वमात्मानन्तथात्मना ।
वज्रधर्मसमाधिस्थः प्राप्नोति पद्ममक्षरं ॥ २ ॥

लोकेश्वरजटामध्ये भावयन् स्वयमात्मना ।
बुद्धबिम्बं स्वमात्मानममितायुसमो भवेत् ॥ ३ ॥

भावयन् स्वयम्[आत्मना विश्व]रूपसमाधिना । विश्वरूपसमाधिस्थो लोकेश्वरसमो भवेत् ॥ इति ॥ ४ ॥

तत्रैषां हृदयानि भवन्ति ।
पद्मविश्व ॥

धर्मकायपद्म ॥

बुद्धाभिषे[क ॥

लोकेश्व]र ॥

ततो महामण्डलसर्वमुद्राज्ञानं शिक्षयेत् । तत्र प्रवेशं तावन् महामुद्राज्ञानं भवति ।

चन्द्रमण्डलमध्यस्थां यथा लेख्यानुसारतः ।
पद्म[प्रति]ष्ठां सत्वान्स्वं भावयेत्स्वयमात्मने ॥ ति ॥

अथासां कर्म भवति ॥

बध्वा बुद्धमहामुद्राममितायुसमो भवेत् ।
वज्रपद्मं समाधाय लोकेश्वर[समो] भवेत् ॥ १ ॥

बुद्धाभिषेकां बध्वा वै सुगतैः सोऽभिषिच्यते ।
पद्मपद्मा समाधिं तु दद्याद् विश्वा सुविश्वतां ॥ २ ॥

वैश्वरूप्यं वैनेयांस्तु बुद्ध रत्नाभिषेकदा ।
पद्मसत्वि समाधिन्तु पद्मक्रोधेश्वरीं श्रियं ॥ ३ ॥

वज्रलोकेश्वरी सिद्धिमुत्तमां पद्मरागिणी ।
बुद्धेश्वरी तु बुद्धत्वं वज्रपद्मा सुसिद्धिदा ॥ ४ ॥

कामेश्वरी सुरागित्वं दद्यात्तुष्टिन्तु साधुता ।
भृकुटिः क्रोधशमनी पद्मसूर्या सुतेजदा ॥ ५ ॥

पद्मचन्द्रा महाकान्तिं दद्याद् हासा सुहासतां ।
तारया चोत्तरा सिद्धिः सौभोग्यं पद्मखङ्गया ॥ ६ ॥

नीलकण्ठा महाकर्षा सिद्धिं पण्डरवासिनी ।
पद्मनर्तेश्वरी सिद्धिमभया अभयन्ददा ॥ ७ ॥

प्रचण्डा दुष्टदमनी पद्ममुष्टिः सुसाधिका ।
लास्या रतिं धनं माला सर्वं गीता सुखं नृत्या ॥ ८ ॥

धूपा ल्हादं शुभं पुष्पादीपा दृष्टिं गन्ध सुगन्धतां ॥ ९ ॥

हयग्रीवा समा[कर्षणा]मोघा तु वशङ्करी ।
पद्मस्फोटा महाबन्धा सर्वावेशा तु घण्टिके-ति ॥ १० ॥

ततः पद्मकुलसमयमुद्राज्ञानं भवति ।

वज्रबन्धं समाधाय समाङ्गुष्ठान्त्यसन्धानात् ।
मुद्रेयं धर्मसमया बुद्धधर्मप्रदायिका ॥ १ ॥

वज्रबन्धं समाधाय समाग्र्यानाममध्यमा ।
बुद्धविद्योत्तमस्येयं मुद्रा बुद्धत्वदायिका ॥ २ ॥

वज्रबन्धं समाधाय मध्यमा वज्रसंयुता ।
वज्रविद्योत्तमस्येयं मुद्रा वज्रत्वदायिका ॥ ३ ॥

सा एव मणिमध्या तु वज्ररत्नप्रदायिका ।
मध्यकुड्मलयोगेन पद्मसिद्धिप्रदायिका ॥ ४ ॥

वज्राञ्जलिन्तु सन्धाय वज्रकर्मकरी भवेत् ।
धर्मवज्रां समाधाय समयः सिध्यते क्षणात् ॥ ५ ॥

वज्रबन्धं समाग्रन्तु बुद्धसिद्धिप्रदायिका ।
अतः परं प्रवक्ष्यामि सत्वमुद्रा विशेषतः ॥ ६ ॥

वज्राञ्जलिं समाधाय सममध्योत्थिता तथा ।
कनिष्ठाङ्गुष्ठविकचा विश्वपद्मेति कीर्तिता ॥ ७ ॥

सा एवाङ्गुष्ठपर्यङ्का कुञ्चिताग्राग्र्यविग्रहा ।
मध्यवज्रजटा मूर्ध्नि जटाबुद्धेति कीर्तिता ॥ ८ ॥

वज्रबन्धं दृढीकृत्य समाङ्गुष्ठमधस्तनं ।
तर्जनीद्वयसंकोचा समुद्गता समाधितः ॥ ९ ॥

समाञ्जलिं समाधाय तर्जनी वज्रपीडिता ।
विकसिताङ्गुष्ठमुखयोर्मुद्रामोघेश्वरस्य तु ॥ १० ॥

वज्रबन्धं दृढीकृत्य समुत्तानं तु बन्धयेत् ।
समाङ्गुष्ठकृता पद्मे पद्मबुद्धेति कीर्तिता ॥ ११ ॥

अङ्गुष्ठवज्राग्राभ्यामङ्कुशं खड्गमेव च ।
अन्त्यद्वयविकासा च मध्यानामाग्रकुड्मला ॥ १२ ॥

समाञ्जलिं समाधाय वलिताङ्गुष्ठकुञ्चिता ।
तर्जन्या तर्जनीङ्गृह्याकर्षयेत् पद्मवाणया ॥ १३ ॥

समाञ्जलिन्तथोत्तानां बन्धयेत्साधुमुद्रया ।
साधुकारां [प्रददाति] साधुपद्मेति कीर्तिता ॥ १४ ॥

समाञ्जलिं दृढीकृत्य कुञ्चिताग्र्या मुखस्थिता ।
कनिष्ठाभ्यां तु विकचा पद्मभृकुटिरुच्यते ॥ १५ ॥

वज्रबन्धं दृढीकृत्य हृद[ये तु] प्रसारयेत् ।
पद्मसूर्येति विख्याता सर्वाङ्गु लिसुमण्डला ॥ १६ ॥

समाञ्जलिं दृढीकृत्य तर्जनीभ्यां मणीकृता ।
पद्मरत्नध्वजाग्री तु मूर्ध्नि बाहुप्रसारिता ॥ १७ ॥

वज्रबन्धं शिरोमूर्ध्नि प्रसार्याग्रमुखैः सह ।
स्वमुखेनाट्टहासेन एकादशमुखी भवेत् ॥ १८ ॥

समाधिपद्मां सन्धाय समाङ्गुष्ठसमुत्थिता ।
पद्मतारस्य मुद्रेमं सर्वसिद्धिप्रदायिका ॥ १९ ॥

पद्मतारस्य मुद्रा तु पद्म योगाग्र्यबन्धनात् ।
पद्मखड्गस्य मुद्रेयं खड्गाकारनियोजनात् ॥ २० ॥

कुड्मलान्त्यमहापद्मास्तच्चाङ्गुष्ठगदा तथा ।
कुञ्चिताग्र्यमहाशङ्खा वज्रबन्धेन चक्रिता ॥ २१ ॥

वज्राञ्जलिं दृढीकृत्य दक्षिणौंकारवेष्टिता ।
वामग्र्याङ्गुष्ठजापा तु सर्वाग्रविकचाम्बुजा ॥ २२ ॥

वज्राङ्गुलिं समाधाय वामदक्षिणतस्तथा ।
नृत्यं सलीलवलिता मूर्ध्निस्था नृत्यपद्मिनी ॥ २३ ॥

वज्राञ्जलिं दृढीइकृत्य सर्वाग्रकवचा तथा ।
परिवर्त्य तु पद्मेन हृदि स्थाप्य दृढंकरी ॥ २४ ॥

वज्राञ्जलिं दृढीकृत्य गुह्ययक्षप्रयोगतः ।
प्रसारिताञ्जलिपुटा मुखस्था पद्मयक्षिणी ॥ २५ ॥

वज्रमुष्टिं द्विधीकृत्य कुञ्चयित्वा तु मध्यमे ।
स्वाङ्गुष्ठपृष्ठनिहिते पद्ममुष्टिरुदाहृता ॥ २६ ॥

वज्रधातुप्रयोगेण वज्राञ्जलिसमुत्थिता ।
सर्वपूजाग्र्यदेवीनां समयाग्र्यस्तु बन्धयेत् ॥ २७ ॥

वज्रबन्धं दृढीकृत्य सन्धयेत्तर्जनीद्वयं ।
संकोचात्पुरतः सन्धेत् हयग्रीवेति कीर्तिता ॥ २८ ॥

पद्माञ्जलिं समाधाय तर्जनीग्रन्थिबन्धना ।
अमोघपाशमुद्रेयं तर्जन्यङ्गुष्ठशङ्कला ॥ २९ ॥

पद्माञ्जलिं समाधाय वज्रावेशप्रयोगतः । अङ्गुष्ठाभ्यां तु संपीड्य कनिष्ठानामिकान्तराव् ॥ ३० ॥ इति ॥

अथ पद्मकुलधर्ममुद्राज्ञानं भवति । ह्री । ग्री । प्री । ही । श्री । सी । दी । हीः । गी । धी । क्री । वी । वि । री । ष्ट्री । अः ।

पद्ममुष्टिं द्विधीकृत्य कर्ममुद्राः समाधयेद् ॥ इति ॥

सर्वतथागतधर्मसमयान् महाकल्पराजात् सकलजगद्विनयमहामण्डलविधिविस्तरः समाप्तः ॥


अध्याय 16
PADMA-GUHYA-MUDRA-MANDALA-VIDHI-VISTARA

Emanation of deities from samadhi

अथ भगवान् पुनरपि सर्वतथागतधर्मधारणीसमयसंभवमुद्राधिष्ठानपद्मन्नाम समाधिं समापद्येमां स्वविद्योत्तमामभाषत् ॐ सर्वतथागतधर्मसमये हूं ॥

अथ वज्रपाणिर्महाबोधिसत्वः इमां स्वकुलसंभवां विद्योत्तमामभाषत् ॐ वज्रसमये हूं ॥

अथ वज्रगर्भो बोधिसत्व महासत्व इमां स्वविद्योत्तमामभाषत् ॐ मणिरत्नसमये हूं ॥

अथ वज्रनेत्रो बोधिसत्व इमां स्वविद्योत्तमामभाषत् ॐ पद्मसमये हूं ॥

अथ वज्रविश्वो बोधिसत्व इमां स्वविद्योत्तमामभाषत् ॐ कर्मसमये हूं ॥

अथ भगवानार्यावलोकितेश्वरो बोधिसत्व इदं स्वकुलसमयमुद्रामण्डलमभाषत् ॥

अथातः संप्रवक्ष्यामि मुद्रामण्ड[लानुत्तरं ।] वज्रधातुप्रतीकाशं पद्मगुह्यमिति स्मृतं ॥ १ ॥

महामण्डलयोगेन सूत्रयेत्सर्वमण्डलं ।
तस्य मध्ये सुपद्मे वै वज्रधात्वीश्वरीं लिखेत् ॥ २ ॥

[तस्य] सर्वपार्श्वेषु समयाग्र्यो यथोपरि ।
धर्मवज्र्यादयो लेख्याः स्वविद्याभिः समन्धिताः ॥ ३ ॥

तत्रासां मुद्रा भवन्ति ।
ॐ सर्वतथागत धर्मेश्वरि हूं ॥

ॐ धर्म समये वज्रपद्मिनि हूं ।
ॐ बुद्धाभिषेक रत्न समये हूं ॥

ॐ तारा समये हूं ॥

ॐ विश्वमुखे हूं ॥

वज्रवेगेन निष्क्रम्य विश्वरूपाग्र्यमण्डलं ।
तत्र मध्ये लिखेत्पद्मं पद्मैस्तु परिवारितं ॥ १ ॥

तस्य पार्श्वेषु सर्वेषु पद्ममुद्रा प्रतिष्ठिताः ।
पद्मचिन्हः समालेख्याः स्वमुद्राः सुगतात्मनां ॥ २ ॥

तत्रासां मुद्रा भवन्ति ।
ह्रीः ॥

ॐ पद्मतथागते ॥

ॐ समन्तभद्र पद्मवज्राङ्कुशकोशधारिणि हूं ॥

ॐ पद्मरति ।
ॐ पद्मतुष्टि ॥

वज्रवेगेन चाक्रम्य द्वितीये मण्डले तथा ।
बुद्धाभिषेका समालेख्या जटामध्ये महाम्बुजं ॥ १ ॥

तस्य पार्श्वेषु सर्वेषु यथावदनुपूर्वशः ।
पद्मचिन्हसमोपेताः समयाग्र्यो निवेशयेत् ॥ २ ॥

तत्रासां हृदयानि भवन्ति ।
श्रीः ॥

ॐ भृकुटि तटि वेतटि पद्मे हूं ॥

ॐ पद्मज्वाले हूं ॥

ॐ सोमिनि पद्मे हूं ॥

ॐ पद्महासिनि एकादशवक्त्रे दिरि दिरि ईट्टे वट्टे चले प्रचले कुसुमधरे इलि प्रविश सिद्धिं मे प्रयच्छ हूं ॥

वज्रवेगेन चाक्रम्य तृतीयं मण्डलं तथा ।
तत्र मध्ये सुपद्मे तु पद्ममुद्रां निवेशयेत् ॥ १ ॥

तथैव सर्वपार्श्वेषु यथावदनुपूर्वशः ।
पद्मचिन्हसमोपेताः पद्मसंस्थास्तु संलिखेत् ॥ २ ॥

तत्रासां मुद्रा भवन्ति ।
धीः ॥

ॐ तारे तुत्तारे हूं ॥

ॐ धी हूं ॥

ॐ पद्मचक्रगदाधारिणि नीलकण्ठे सिध्य सिध्य हुं ॥] ॐ पण्डरवासिनिं पद्मसंभवे वद वद हूं ॥

वज्रवेगेन चाक्रम्य चतुष्ठे मण्डलोत्तमे ।
पद्ममध्ये लिखेत्पद्मं ज्वालमालाकुलप्रभं ॥ १ ॥

तस्य पार्श्वेषु सर्वेषु यथावदनुपूर्वशः ।
पद्मचिन्हाः समालेख्याः पद्ममध्यप्रतिष्ठिताः ॥ २ ॥

तत्रासां मुद्रा भवन्ति ।
स्त्रीः ॥

ॐ पद्मनर्तेश्वरि पूजय सर्वतथागतान् नट्ट नट्ट हूं ।
ॐ अभये पद्मकवचबन्धे रक्ष मां हूं हं ॥

ॐ महाप्रचण्डि पद्मयक्षिणि विश्वरूपधारिणि भीषापय सर्वदुष्टान् खाद खाद् हुं फट् ॥

ॐ पद्ममुष्टि अः मुः ॥

वज्रवेगेन चाक्रम्य बुद्धपूजाः समालिखेत् ।
पद्माङ्कुश्यादयो मुद्राः पद्मचिन्हः समासतः ॥ इति ॥

अथासां मुद्रा भवन्ति ।
ॐ पद्मरतिपूजे होः ॥

ॐ पद्माभिषेकपूजे रट् ॥

ॐ पद्मगीतपूजे गीः ॥

ॐ पद्मनृत्यपूजे कृट् ॥

ॐ धूपपद्मिनि हुं ॥

ॐ पद्मपुष्पि हूं ॥

ॐ पद्मकुलसुन्दरि धर्मालोके पूजय हूं ॥

ॐ पद्मगन्धे हूं ॥

पूजादेव्यः ।
ॐ पद्माङ्कुश्याकर्षय महापद्मकुलान् हयग्रीवसमये हुं जः ॥

ॐ अमोघपाशक्रोधसमये प्रविश प्रवेशय सर्वसमयान् हूं ॥

ॐ पद्मशङ्कले वं ॥

ॐ पद्मघण्टाधारि शीघ्रमावेशय समयान् षण्मुखि अः ॥

अथात्र मुद्रामण्डले आकर्षणादिविधिविस्तरं कृत्वा, पद्मशिष्यान् यथावत् [प्रवेश्य,] एवंवदेन् "न त्वया कस्यचिद् वक्तव्यं यदत्र गुह्यं, मा ते नरकपतनं भवेत्, दुःखानि चात्रजन्मनि-" ति ।

ततः समावेश्यैवं वदेत् । "[ते चक्षुःपथे] कीदृशोऽवभासः? तद्यथा वदति तथा सिद्धिर्" इति । "तद्यदि श्वेतालोकं पश्येत् तस्योत्तमसिद्धिज्ञानं शिक्षयेत् । अथ पीतं पश्येत् तस्यार्थोत्पत्तिज्ञानं शिक्षयेत् । अथ रक्तं पश्येत् ततोऽनुरागणज्ञानं शिक्षयेत् । अथ कृष्णं पश्येत् ततोऽभिचारकज्ञानं शिक्षयेत् । अथ विचित्रं पश्येत् ततः सर्वसिद्धिज्ञानं शिक्षयेद्" इति ज्ञात्वा, यथावन्मुखबन्धं मुक्त्वा, यथाभाजनतया ज्ञानान्युत्पादयेत् । मुद्राज्ञानं च शिक्षयेत् ।

एवं वज्रधात्वादिष्वपि सर्वमण्डलेषु यथाभाजनतया मुद्राज्ञानानि शिक्षयेदिंयं परीक्षा ॥


Four ज्ञानं

अथोत्तमसिद्धिनिष्पत्तिज्ञानं भवति ।

लोकेश्वरमहासत्वं विश्वरूपं स्वमात्मना ।
भावयंस्तु महामुद्रामग्र्यां सिद्धिमवाप्नुयात् ॥ १ ॥

बुद्धाभिषेकसमयां दृढीकृत्वा समाहितः ।
भावयंस्तु स्वमात्मानमग्र्यां सिद्धिमवाप्नुते ॥ २ ॥

पद्मपद्ममहासत्वं भावयेत् स्वयमात्मना ।
आत्मानमुत्तमां सिद्धिं प्राप्नोति सुसमाहितः ॥ ३ ॥

अमोघेश्वरमयीङ्कर्ममुद्रां स्वयम्भुवः । साधयन् विधिवच्छीघ्रमग्र्यां सिद्धिमवाप्नुयाद् ॥ ४ ॥ इति ॥

अथैषां हृदयानि भवन्ति ।
ॐ पद्मसत्वोऽहं सिध्य होः ॥

ॐ बुद्धाभिषेकोऽहं सिध्य मां ॥

ॐ धर्मसमाधिरहं सिध्य होः ॥

ॐ अमोघेश्वरोऽहं सिध्य मां ॥

ततोऽर्थनिष्पत्तिज्ञानं भवति ।

हिरण्यं तु मुखे विध्वा भावयेत्स्वयमात्मना ।
विश्वेश्वरमहामुद्रामेकं भूयात्सहस्रशः ॥ १ ॥

सुवर्णतोलकं गृह्य समयाग्र्या महादृढं ।
भाव[यन् स्व]यमात्मानमेको भूयात्सहस्रशः ॥ २ ॥

मुक्ताफलं मुखे विध्वा भावयेत्स्वयमात्मना ।
लोकेश्वरं स्वमात्मानमेको भूयात्सहस्रशः ॥ ३ ॥

सर्वरत्नानि संगृह्य पाणिभ्यां कर्ममुद्रया । भावयन् स्वयमात्मानमेको भूयात्सहस्रश ॥ इति ॥ ४ ॥

तत्रैषां हृदयानि भवन्ति ।
ॐ पद्महिरण्यप्रद हुं ज्जः ॥

ॐ पद्मसुवर्णप्रद हुं ज्जः ॥

ॐ पद्ममुक्ताप्रद हुं ज्जः ॥

ॐ पद्मसर्वरत्नप्रद हुं ज्जः ॥

अथानुरागणज्ञानं भवति ।

विश्वेश्वरमहामुद्रां भावयन् स्वयमात्मना ।
पद्मं गृह्य पुरः स्थाति यस्य सोऽस्यानुरज्यति ॥ १ ॥

रक्तपद्मं दृढं गृह्य महासमयमुद्रया ।
भावयन् स्वयमात्मानं रागयेत्सर्वयोषितः ॥ २ ॥

भावयेत्स्वयमात्मानं पद्मं गुह्य यथा तथा ।
निरीक्षेद् वज्रदृष्ट्या वै सर्वलोकं स रागयेत् ॥ ३ ॥

कर्ममुद्राप्रयोगेण पद्मं गृह्य यथाविधि । कराभ्यां भ्रामयन् तन्तु रागयेत् सर्वयोषित ॥ इति ॥ ४ ॥

तत्रैषां हृदयानि भवन्ति ।
ॐ विश्वेश्वर महापद्म होः ॥

ॐ समयपद्म होः ॥

ॐ योगपद्म होः ॥

ॐ कर्मपद्म होः ॥

अथाभिचारज्ञानं भवति ।

विश्वेश्वरमहामुद्रां भावयन् आत्मना ।
च्छिन्देद्यस्य पुरःपद्मं तस्य मृत्युः क्षणाद्भवेत् ॥ १ ॥

पद्मं गृह्य दृढं सम्यक् समयाग्र्या तयैव हि ।
स्फोटयेत् तन्तु सुदृढं यस्य नाम्ना स नश्यति ॥ २ ॥

समाधिमुद्रां सन्धाय पद्मं गुह्य यथा तथा ।
यस्य नाम्ना तु पद्मं वै च्छिन्देत्स तु विनश्यति ॥ ३ ॥

कर्ममुद्राप्रयोगेण पद्मं गृह्य यथाविधि । स्फोटयेद्यस्य संक्रुद्धः स्फुटेत्तस्य तु जीवितम् ॥ इति ॥ ४ ॥

तत्रैषां हृदयानि भवन्ति ।
ॐ महापद्म च्छेद मारय होः फट् ॥

ॐ समयपद्म स्फोट नाशय रट् फट् ॥

ॐ धर्मपद्म च्छेद विनाशय धृट् फट् ॥

ॐ कर्मपद्म स्फोट स्फोटय जीवितमस्य कृट् फट् ॥

Mudra

ततो धर्मसमयरहस्यमुद्राज्ञानं भवति ।

पद्मं तु योषितां चिन्त्य वज्रन्तस्योपरि स्वयं ।
रामयन् वज्रपद्माग्र्या समापत्त्या तु सिध्यति ॥ १ ॥

पद्मं तु योषितां चिन्त्य बुद्धन्तस्योपरि स्वयं ।
रामयन् बुद्धमुकुटां भावयन् सोऽस्य सिध्यति ॥ २ ॥

पद्मं तु योषितां चिन्त्य पद्मं तस्योपरि स्वयं ।
रामयन् पद्मपद्माग्री शुद्धां सिद्धिमवाप्नुते ॥ ३ ॥

पद्मं तु योषितां चिन्त्य विश्वन्तस्योपरि स्वयं । रामयन् विश्वपद्याग्री विश्वां सिद्धिमवाप्नुयाद् ॥ इति ॥ ४ ॥

तत्रैषां हृदयानि भवन्ति ।
ॐ वज्रपद्म संयोग साधय ह्रीः ॥

ॐ बुद्धमुकुट संयोग साधय श्रीः ॥

ॐ पद्मपद्म संयोग साधय धीः ॥

ॐ विश्वपद्म संयोग साधय स्त्रीः ॥

ततो यथावत् पद्मकुलगुह्यमहामुद्राज्ञानं भवति ।

कुड्मलाञ्जलिरग्रस्य वज्रक्रोधाङ्गुली द्विके ।
द्वयग्रा मणिस्तथा पद्मं वज्रबन्धन्तथैव ॥ १ ॥

वज्रबन्धां समानीय सममध्याङ्कुरो स्थितो ।
तर्जन्यानामसंकोचा मुद्रा शाक्यमुनेर्दृढा ॥ २ ॥

धर्मवज्रा हृदिस्था तु परिवर्त्य ललाटगा ।
समाधियोगा चोत्सङ्गे परिवर्त्य तु मूर्धगा ॥ ३ ॥

वज्रधात्वीश्वरीम्बध्वा चैत्यं पद्मप्रयोगतः ।
संधयेन्मध्यमाभ्यां तु बुद्धपद्मेति कीर्तिता ॥ ४ ॥

सा एवाङ्गुष्ठवज्रा तु द्व्यग्रखड्गाङ्कुशी तथा ।
पद्वज्रधरस्यैता गुह्यमुद्राः प्रकीर्तिताः ॥ ५ ॥

सा एवाङ्गुष्ठमुक्ता तु तर्जन्या तर्जनीग्रहा ।
वलिता सुरतिः प्रोक्ता साधुकार्या तथैव च ॥ ६ ॥

वज्रबन्धं दृढीकृत्य समाङ्गुष्ठप्रवेशिता ।
कुञ्चिताग्र्यमुखस्था तु भृकुट्यां मध्यपद्मिनी ॥ ७ ॥

सा एव हृदये चैव सूर्यमण्डलदर्शिका ।
ध्वजबन्धेन सा एव शिरःपृष्ठे प्रसारिता ॥ ८ ॥

वज्रबन्धं दृढीकृत्य कुञ्चिताग्र्याग्रविग्रहा ।
तथैव पद्मखड्गा तु पद्मयोगाग्र्यसन्धनात् ॥ ९ ॥

वज्रबन्धं दृढिकृत्य वामाङ्गुष्ठप्रवेशनात् ।
शङ्खमङ्गुष्ठदण्डोत्थाङ्गुल्यग्रोत्थान्त्यपद्मिनी ॥ १० ॥

सा एव सर्वसंकोचा कनिष्ठा पद्मसंयुता ।
अक्षमालाग्रगणनी दक्षिणाङ्गुष्ठयोगतः ॥ ११ ॥

वज्रबन्धं दृढीकृत्य कनिष्ठा पद्मसंयुता ।
समाग्र्या पद्मनेत्रा तु प्रनर्तन् परिवर्तिता ॥ १२ ॥

वज्रबन्धं दृढीकृत्य कनिष्ठा पद्मसंयुता । कुञ्चिता[ग्र्यं पीडयन्तु] द्वयङ्गुष्ठकवचीकृते- ॥ ति ॥ १३ ॥

सा एवाङ्गुष्ठदंष्ट्रा तु समाङ्गुष्ठप्रवेशिता ।
अतः परं प्रवक्ष्यामि समयाग्र्यो निरुत्तराः ॥ १४ ॥

वज्रबन्धन्तले कृत्वा तर्जनीपद्मसन्धिता । अङ्गुष्ठा बन्धपर्यङ्का गुह्यविश्वेश्वरी स्मृता ॥ १५ ॥ ॥

तथैव वज्रबन्धेन कनिष्ठा मध्यसन्धिता ।
अङ्गुष्ठमुखयोर्वज्रन् पट्टमध्ये तथागतं ॥ १६ ॥

तथैव वज्रबन्धे तु पद्ममङ्गुष्ठसन्धितं ।
कृत्वा तु मुखतोद्धान्तं स्थितोत्सङ्गे समाधिना ॥ १७ ॥

तथैव वज्रबन्धे तु मुखतः समसन्धिता ।
सर्वाङ्गुल्या दृढीकृत्य तर्जनी वज्रसंयुता ॥ १८ ॥

तथैव वज्रबन्धे तु तर्जनी पद्मसन्धिता ।
अङ्गुष्ठा बन्धपर्यङ्का मध्यसंकोचविग्रहा ॥ १९ ॥

तथैव वज्रबन्धे तु वज्रमङ्गुष्ठसन्धिता ।
खड्गाङ्कुशी तथग्राभ्यां कनिष्ठा पद्मसंयुता ॥ २० ॥

तथैव वलितां कृत्वा तर्जन्यङ्गुष्ठसंग्रहां ।
उत्थितान् तर्जनीं वामां कर्षयेत् सुदृढन्तथा ॥ २१ ॥

सा एव तु समीकृत्वा तर्जन्यङ्गुष्ठयोगतः ।
साधुकारप्रदात्री तु पद्मतुष्टेर्महात्मनः ॥ २२ ॥

तथैव वज्रबन्धं तु सर्वाग्रमुखसन्धितं ।
द्वयङ्गुष्ठमुखपीडन्तु समाग्र्या सन्निवेशितं ॥ २३ ॥

सा एव हृदि सूर्या तु मूर्ध्नि पद्मध्वजीकृता ।
परिवर्त्य च हासा तु स्थिता पद्माट्टहासिनी ॥ २४ ॥

वज्रवन्धन्तले कृत्वा धर्मवज्राग्रयोगतः ।
कनिष्ठाङ्ग ष्ठसन्धी तु तारायाः समयो ह्ययं ॥ २५ ॥

तथैव वज्रबन्धे तु ज्येष्ठाभ्यां खड्गपद्मिनी ।
तलचक्रा तथैवेह जापदात्री तथैव च ॥ २६ ॥

तथैव वज्रबन्धा तु खटकद्वयमोक्षिता ।
पुनश्च हृदये बन्धे गुह्यरक्षेति कीर्तिता ॥ २७ ॥

तथैव वज्रबन्धे तु कनिष्ठा पद्मसंयुता ।
तर्जनी दृढसंकोचा विकचाङ्गुष्ठदंष्ट्रिणी ॥ २८ ॥

सा एव मुष्टियोगेन द्वयङ्गुष्ठमुखपीडिता ।
पद्मगुह्यमहामुष्टि समयाग्री प्रकीर्तिता ॥ २९ ॥

सर्वासामेव चान्यासां पद्मलास्यादिसंज्ञिनां ।
वज्रबन्धं तले कृत्वाबन्धस्तादृश एव ही-ति ॥ ३० ॥

ततः पद्मकुलगुह्यधर्ममुद्रा भवन्ति । ह्राः । ग्रा । प्रा । हा । स्र । सा । दः । हः । गा । धा । क्रा । वा । व । रा । ष्ट्र । मः ।

कर्ममुद्राः समासेन मुष्टिरेव द्विधीकृते- ॥ ति ॥

सर्वतथागतधर्मसमयान् महाकल्पराजात् पद्मगुह्यमुद्रामण्डलविधिविस्तरः परिसमाप्तः ॥


अध्याय 17
JNANA-MANDALA-VIDHI-VISTARA

अथ भगवान् पुनरपि सर्वतथागतधर्मसमयज्ञानसमयसंभवाधिष्ठानन् पद्मन्नाम समाधिं समापद्ममां स्वविद्योत्तमामभाषत् ॐ धर्मसमाधिज्ञानतथागत हूं ॥

अथ वज्रपाणिर्महाबोधिसत्व इमं स्वकुलधर्मसंभवं स्वविद्योत्तममभाषत् ॐ वज्रधर्म हूं ॥

अथ वज्रगर्भो बोधिसत्वो महासत्व इमं स्वविद्योत्तममभाषत् ॐ रत्नधर्म हूं ।

अथ वज्रनेत्रो बोधिसत्वो महासत्व इमं स्वविद्योत्तममभाषत् ॐ धर्मधर्म हूं ॥

अथ वज्रविश्वो बोधिसत्वो महासत्व इमं स्वविद्योत्तममभाषत् ॐ कर्मधर्म हूं ॥

Delineation of the मण्डल

अथार्यावलोकितेश्वरो बोधिसत्वो महासत्व इदं स्वधर्ममण्डलमभाषत् ।

अथातः संप्रवक्ष्यामि ज्ञानमण्डलमुत्तमं ।
वज्रधातुप्रतीकाशं धर्मज्ञानमिति स्मृतं ॥ १ ॥

महामण्डलयोगेन सुत्रयेत् सर्वमण्डलं ।
तस्य मध्ये समालेख्यं ज्ञानवज्रतथागतं ॥ २ ॥

तस्य पार्श्वेषु सर्वेषु महासत्वा यथाविधि । विश्वेश्वरादयो लेख्याः समापन्नाः समाहिता ॥ ३ ॥ इति ॥

तत्रैषां हृदयानि भवन्ति ।
ॐ ज्ञानबुद्ध हूं ॥ १ ॥

ॐ ज्ञानविश्वेश्वर हूं ॥ २ ॥

ॐ ज्ञानबुद्धमुकुट हूं ॥ ३ ॥

ॐ ज्ञानधर्मेश्वर हूं ॥ ४ ॥

ॐ ज्ञानामोघेश्वर हूं ॥ ५ ॥

ॐ ज्ञानपद्मबुद्ध हूं ॥ ६ ॥

ॐ ज्ञानपद्मराजधर हूं ॥ ७ ॥

ॐ ज्ञानपद्ममार हूं ॥ ८ ॥

ॐ ज्ञानपद्मतुष्टि हूं ॥ ९ ॥

ॐ ज्ञानपद्मभृकुटि हूं ॥ १० ॥

ॐ ज्ञानपद्मसूर्य हूं ॥ ११ ॥

ॐ ज्ञानपद्मचन्द्र हूं ॥ १२ ॥

ॐ ज्ञानपद्महास हूं ॥ १३ ॥

ॐ ज्ञानपद्मतार हूं ॥ १४ ॥

ॐ ज्ञानपद्मकुमार हूं ॥ १५ ॥

ॐ ज्ञानपद्मनारायण हूं ॥ १६ ॥

ॐ ज्ञानपद्मभाष हूं ॥ १७ ॥

ॐ ज्ञानपद्मनृत्येश्वर हूं ॥ १८ ॥

ॐ ज्ञानपद्मरक्ष हूं ॥ १९ ॥

ॐ ज्ञानपद्मयक्ष हूं ॥ २० ॥

ॐ ज्ञानपद्ममुष्टि हूं ॥ २१ ॥

ॐ ज्ञानपद्मलास्ये हूं ॥ २२ ॥

ॐ ज्ञानपद्ममाले हूं ॥ २३ ॥

ॐ ज्ञानपद्मगीते हूं ॥ २४ ॥

ॐ ज्ञानपद्मनृत्ये हूं ॥ २५ ॥

ॐ पद्मज्ञानधूपे हूं ॥ २६ ॥

ॐ पद्मज्ञानपुष्पे हूं ॥ २७ ॥

ॐ पद्मज्ञानदीपे हूं ॥ २८ ॥

ॐ पद्मज्ञानगन्धे हूं ॥ २९ ॥

ॐ पद्मज्ञानाङ्कुश हूं ॥ ३० ॥

ॐ पद्मज्ञानामोघपाश हूं ॥ ३१ ॥

ॐ पद्मज्ञानस्फोट हूं ॥ ३२ ॥

ॐ पद्मज्ञानावेश हूं ॥ ३३ ॥

Initiation into the मण्डल

अथात्र पद्मधर्ममण्डले आकर्षणादिविधिविस्तरंकृत्वा, यथावत् प्रवेश्यैवं वदेत् "न त्वयान्यस्य वक्तव्यं॑ मा ते नरकं पतनं भवेत्, दुःखानि वे-" ति ।

ञ्नन

ततोऽस्य ज्ञानान्युत्पादयेत् ।

लोकेश्वरसमापत्त्या हृदि पद्मं तु भावयेत् ।
प्राप्तपद्मसमाधिस्तु शीघ्रमुत्पतति क्षणात् ॥ १ ॥

लोकेश्वरसमापत्त्या ललाटे पद्मभावनात् ।
अभ्यसन् सुदृढीभूतः खेगामी भवते क्षणात् ॥ २ ॥

जिव्हायां भावयन् पद्मं लोकेश्वरसमाधिना ।
संसिद्धो भवते शीघ्रमाकाशेन स गच्छति ॥ ३ ॥

भावयेत्पद्ममुष्णीषे लोकेश्वरसमाधिना ।
संसिद्धो भवते शीघ्रमूर्ध्वमुत्पतति क्षणात् ॥ ४ ॥

तत्रैषां हृदयानि भवन्ति ।
ॐ पद्मज्ञानहृदयाविश ॥

ॐ पद्मज्ञानाभिषेकाविश ॥

ॐ पद्मज्ञानविद्योत्तमाविश ॥

ॐ पद्मज्ञानोष्णीषाविश ॥

आकाशे वान्यदेशे व पद्मबिम्बं तु भावयेत् ।

अनेन विधिना सिद्धो अदृश्यो भवति क्षणात् ॥ १ ॥

आकाशे वान्यदेशे वा पद्मबिम्बं तु भावयेत् ।
तत्रारूढः स्वमात्मानं भावयन्नदृश्यो भवेत् ॥ २ ॥

आकाशे वान्यदेशे वा पद्मबिम्बं तु भावयेत् ।
यदा पश्येत्तदा गृह्णाच्छीघ्रम् [अदृश्यो भवति] ॥ ३ ॥

आकाशे वान्यदेशे वा पद्मबिम्बं तु भावयेत् । दृष्ट्वा तु भुक्ष्वा तत्पद्ममदृश्यो भवति क्षणाद् ॥ इति ॥ ४ ॥

तत्रैषां हृदयानि भवन्ति ।
ॐ पद्माकाश ॥

ॐ पद्मरथ ॥

ॐ पद्मज्ञान गृह्ण ॥

ॐ पद्मरसायन ॥

विचित्रवर्णसंस्थानं पद्मबिम्बं तु पाणिना ।
गृह्य बध्वा महामुद्रां सर्वरूपधरो भवेत् ॥ १ ॥

विचित्रवर्णसंस्थानं पद्मबिम्बं तु लेखयेत् ।
तत्र भावयमानस्तु बहुरूपधरो भवेत् ॥ २ ॥

विचित्रवर्णसंस्थानं पद्मबिम्बं [तु भा]वयेत् ।
आकाशे वान्यदेशे वा च्छब्दरूपी भविष्यति ॥ ३ ॥

विचित्रवर्णसंस्थानं पद्मबिम्बं घटापयेत् । तत्रारूढस्तु खेगामी कामरूपी भवेद्ध्रुवम् ॥ इति ॥ ४ ॥

तत्रैषां हृदयानि भवन्ति ।
ॐ पद्मधर विश्वरूपप्रवर्तकाविश ॥

ॐ विश्वपद्म प्रवर्तय मां ॥

ॐ समाधिविश्वपद्माविश ॥

ॐ विश्वपद्मासनोत्क्षिपाकाशं विश्वरूपमधितिष्ठ मां ॥

बध्वा चैकवरां सम्यक् महामुद्रां समाधितः ।
पद्मं गुह्य प्रदातव्यं वशी[करोऽवश्यं भवेत्] ॥ १ ॥

बध्वा चैकवरां सम्यग्[मुद्रां] समयसंज्ञितां ॥

तया गृह्य तु वै पद्मं दद्याद् वश्यकरो भवेत् ॥ २ ॥

बध्वा चकतमां मुद्रां समाधिविहितां शुभां ।
ज्ञानपद्मं ददेद्यस्य सोऽस्य शीघं वशीभवेत् ॥ ३ ॥

बध्वा चैकतमां मुद्रां कर्माख्यां समयान्वितः । यस्य दद्यात् [स सुवशीः] पद्मदानात्क्षणाद् भवेद् ॥इति ॥ ४ ॥

तत्रैषां हृदयानि भवन्ति ॥

ॐ महापद्म होः ॥

ॐ समयपद्म होः ॥

ॐ ज्ञानपद्म होः ॥

ॐ कर्मपद्म होः ॥

Mudra

ततो ज्ञानमण्डलमहामुद्राज्ञानं शिक्षयेत् ।

धर्ममण्डलयोगेन महामुद्रास्तु साधयेत् ।
अतः परं संप्रवक्ष्यामि समयाग्र्यः प्रसाधयेत् ॥

धर्ममण्डलयोगेन पद्मपद्मं तु संस्थपेत् ।
धर्ममुष्टि द्विधीकृत्य कर्ममुद्रा द्विधीकृता ॥ इति ॥

सर्वतथागतधर्मसमयान्महाकल्पराजाज्ज्ञानमण्डलविधिविस्तरः परिसमाप्तः ॥


अध्याय 18a
KARMA-MANDALA-VIDHI-VISTARA

अथ भगवान् पुनरपि सर्वतथागतधर्मकर्मसमयसंभवाधिष्ठानपद्मं नाम समाधिं समापद्येमां स्वविद्योत्तमामभाषत् ॐ सर्वतथागतकर्माग्र हूं ॥

अथ वज्रपाणिरिमां स्वकुलकर्मसंभवां स्वविद्योत्तमामभाषत् ॐ हूं धीः ॥

अथ वज्रगर्भो बोधिसत्व इमां स्वविद्योत्तमामभाषत् ॐ रत्नकर्मसमये हूं ॥

अथ वज्रनेत्रो बोधिसत्व इमां स्वविद्योत्तमामभाषत् ॐ पद्मकर्मि हूं ॥

अथ वज्रविश्वो बोधिसत्व इमां स्वविद्योत्तमामभाषत् ॐ विश्वकर्मि हूं ॥

अथार्यावलोकितेश्वरो बोधिसत्वो महासत्व इदं स्वकर्ममण्डलमभाषत् ।

अथातः संप्रवक्ष्यामि कर्ममण्डलमुत्तमं ।
वज्रधातुप्रतीकाशं पद्मकर्ममिति [स्मृतं] ॥ १ ॥

महामण्डलयोगेन सूत्रयेत्सर्वमण्डलं । बुद्धस्य सर्वतः सर्वाः पद्मचिन्हधरा लिखेद् ॥ इति ॥ २ ॥

तत्रासां विद्याहृदयानि भवन्ति ।
ॐ पद्मभूरिणी हुं ॥ १ ॥

ॐ विश्वकर्मेश्वरि हूं ॥ २ ॥

ॐ तथागतेश्वर्याभिषेककर्मविद्ये हूं ॥ ३ ॥

ॐ धर्मकर्मेश्वरि ज्ञानपूजासमये हूं ॥ ४ ॥

ॐ अमोघ[कर्मेश्वरि हूं] ॥ ५ ॥

ॐ पद्मकर्मबुद्धे हूं ॥ ६ ॥

ॐ पद्मकर्मवज्रिणि हूं ॥ ७ ॥

ॐ पद्मकामिनि मारणपूजाकर्मसमये हूं ॥ ८ ॥

ॐ पद्मकर्मतुष्टि हूं ॥ ९ ॥

ॐ पद्म[कर्म भृ]कुटि हूं त्रः ॥ १० ॥

ॐ पद्मकर्मसूर्ये हूं ॥ ११ ॥

ॐ पद्मकर्मध्वजे हूं ॥ १२ ॥

ॐ पद्मकर्महासे हः ॥ १३ ॥

ॐ पद्मकर्मतारे हूं ॥ १४ ॥

ॐ पद्मकर्मकुमारि हूं ॥ १५ ॥

ॐ पद्मकर्मनारायणि हूं ॥ १६ ॥

ॐ पद्मकर्मब्राह्मि हूं ॥ १७ ॥

ॐ पद्मकर्मनृत्येश्वरि हूं ॥ १८ ॥

ॐ पद्मरक्षकर्मसमये हूं ॥ १९ ॥

ॐ महाप्रचण्डि घातनि पद्मदंष्ट्राकर्मकरि हूं ॥ २० ॥

ॐ पद्मकर्ममुष्टि घातय हूं ॥ २१ ॥

ॐ रतिपूजे हूं जः ॥ २२ ॥

ॐ अभिषेकपूजे हूं होः ॥ २३ ॥

ॐ गीतपूजे हूं धः ॥ २४ ॥

ॐ नृत्यपूजे हूं वः ॥ २५ ॥

ॐ धूपपूजे अः ॥ २६ ॥

ॐ पुष्पपूजे हूं त्रः ॥ २७ ॥

ॐ आलोकपूजे हूं धीः ॥ २८ ॥

ॐ गन्धपूजे हूं वं ॥ २९ ॥

ॐ हयग्रीवे आनय हूं जः ॥ ३० ॥

ॐ अमोघपाशक्रोधे पीडय हूं फट् ॥ ३१ ॥

ॐ पद्मशङ्कलबन्धे हूं फट् ॥ ३२ ॥

ॐ पद्मघण्टावेशय हूं फट् ॥ ३३ ॥

अथात्र कर्ममण्डले आकर्षणादिविधिविस्तरं कृत्वा, यथावत्प्रवेश्यैवं वदेत् । "न त्वया कुलपुत्र कस्यचिदयं वक्तव्यः मा ते नरकपतनं भवेद्" इति ।

ञ्नन

ततो ज्ञानान्युत्पादयेदिति । ततः पापदेशनाज्ञानं शिक्षयेदिति ।

लोकेश्वरमहामुद्रां भावयन् सुसमाहितः ।
पापानि देशयेच्छीघ्रं सर्वपापान् समाधयेत् ॥ १ ॥

समयाग्रीन् समाधाय लोकेश्वरसमाधिना ।
देशयन् सर्वपापान्यानन्तर्याणि शोधयेत् ॥ २ ॥

लोकेश्वरसमाधिन्तु भावयन् सुसमाहितः ।
देशयेत् सर्वपापानि सर्वपापप्रणाशनं ॥ ३ ॥

बध्वा चैकतमां सम्यक् कर्ममुद्रां समासतः । देशयेत्सर्वपापानि सर्वकर्मविशोधनम् ॥ इति ॥ ४ ॥

अथैषां हृदयानि भवन्ति ।
ॐ सर्वपापसंशोधन महापद्म ॥

ॐ सवानन्तर्यशोधन समयपद्म ॥

ॐ सर्वपापप्रणाशन धर्मपद्म ॥

ॐ सर्वकर्मावरणविशोधक कर्मपद्म ॥

ततः सर्वावरणपरिक्षयज्ञानं शिक्षयेत् ।

लोकेश्वरमहामुद्रां भावयेत् सुसमाहितः ।
शुध्य शुध्य इति प्रोच्य सर्वकर्माणि शोधयेत् ॥ १ ॥

बध्वा वै कर्मसमयां लोकेश्वरसमाधिना ।
बुध्य बुध्य प्रवर्तस्तु सर्वकर्माणि शोधयेत् ॥ २ ॥

लोकेश्वरसमापत्त्या धर्ममुद्रां तु भावयेत् ।
धी धी धी धी-ति प्रोच्यन् वै सर्वकर्माणि शोधयेत् ॥ ३ ॥

बध्वा वै कर्ममुद्रां तु लोकेश्वरसमाधिना । ही ही ही ही-ति सन्धाय सर्वकर्माणि शोधयेद् ॥ इति ॥ ४ ॥

तत्रैषां हृदयानि भवन्ति ।
ॐ पाप क्षपय पद्म ॥

ॐ आवरण क्षपय पद्म ॥

ॐ नीवरण क्षपय पद्म ॥

ॐ कर्म क्षपय पद्म ॥

ततः सर्वतथागतपूजाज्ञानं शिक्षयेत् ।

लोकेश्वरमहामुद्रां बध्वा तु सुसमाहितः ।
ॐ ॐ ॐ ओमिति ब्रुयात्सर्वपूजाप्रवर्तनन् ॥ १ ॥

बध्वा वै समयाग्रन्तु लोकेश्वरसमाधिना ।
भूर्भूर्भूर्भूरिति प्रोक्तो सर्वबुद्धान् स पूजयेत् ॥ २ ॥

लोकेश्वरसमापत्त्या धर्मपद्मं तु भावयेत् ।
हे हे हे हे-ति सन्धाय सर्वबुद्धान् स पूजयेत् ॥ ३ ॥

पद्मकर्ममयीम्मुद्रां बध्वा गाढं समाहितः । धे धे धे धे-ति प्रोच्यन् सर्वबुद्धान् स पूजयेद् ॥ इति ॥ ४ ॥

तत्रासां हृदयानि भवन्ति ।
ॐ ओंकार महापद्म ॥

ॐ भूक्कार समयपद्म ॥

ॐ हेक्कार धर्मपद्म ॥

ॐ धेक्कार कर्मपद्म ॥

ततः सिद्धिज्ञानं शिक्षयेत् ।

लोकेश्वरमहामुद्रां बध्वा तु सुसमा[हितः ।
ह्री ह्री ह्री ह्री-]ति वर्तेत सिद्धिन् लोकेश्वरी भवेत् ॥ १ ॥

बध्वा वै समयाग्रीन्तु लोकेश्वरसमाधिना ।
श्री श्री श्री श्री-ति सन्धाय प्राप्नुयात्सिद्धिमुत्तमां ॥ २ ॥

लोकेश्वरसमापत्तिं भावयन् सुसमाहितः ।
धिक् धिक् धिक् धिगिति प्रोक्ते पद्मक्रोधस्तु सिध्यति ॥ ३ ॥

कर्ममुद्रां समाधाय महापद्ममयीं [शुभां ।
सिः] सिः सिः सी-ति सन्धाय पद्मसिद्धिमवाप्नुते- ॥ ति ॥

अथासां हृदयानि भवन्ति ।
ॐ ह्रिः सिध्य ॥

ॐ श्रीः सिध्य ॥

ॐ धिक् सिध्य ॥

ॐ [सिः सिध्य ॥]

Mudra

ततः कर्मरहस्यमुद्राज्ञानं भवति ।

लोकेश्वरसमापत्त्या रमयन् सर्वयोषितः ।
अहो सुख इति प्रोक्ते सर्वबुद्धान् स पूजयेत् ॥ १ ॥

लोकेश्वरसमापत्त्या रमयन्सर्वयोषितः ।
प्रिये प्रिये-ति वै प्रोके बुद्धानां भवति प्रियः ॥ २ ॥

लोकेश्वरसमापत्त्या रमयन् सर्वयोषितः ।
[अहो रति-ति वै प्रोक्ते नित्यं रतिं स प्राप्नुते ॥ ३ ॥

लोकेश्वरसमापत्त्या रमयन् सर्वयोषितः । सुख सुख इति प्रोक्ते तस्य सुखं न नश्यत ॥ इति ॥ ४ ॥

अथासां] हृदयानि भवन्ति ।
ॐ सर्वबुद्धपूजाप्रवर्तन पद्म ॥

ॐ प्रीतिकर पद्म होः ॥

ॐ रतिप्रवर्तन पद्म ॥

ॐ महासुख पद्म दृढ हन् ॥

[ततः कर्ममहामुद्रां] यथावच्छिक्षयेत् । ततः सुकुड्मलाञ्जलिं समयमुद्रां वज्रकार्यं मण्डलयोगेन सर्वस्थानेषु स्थापयेत् ।

ततः पद्मकुल[कर्ममुद्रा त्र इति] वक्तव्याः ।
कर्मसमयां द्विधीकृत्य कर्ममुद्राः स साधयेदिति ॥

सर्वतथागतधर्मसमयान् महाकल्पराजात् कर्ममण्डल[विधिविस्तरः समाप्तः] ॥


अध्याय 18b
EPILOGUE OF THE SARVA-TATHAGATA-DHARMA-SAMAYA NAMA MAHA-KALPA-RAJA

अथ भगवान् पुनरपि वज्रधर्मसमयमुद्राधिष्ठानं नाम समाधिं समापद्येमां स्वमुद्राहृदय[मभाषत् ॐ वज्र]धर्मपद्म हूं ॥

अथवज्रपाणिरियं स्वमुद्राहृदयमभाषत् अथ वज्र जीः ॥

अथ वज्रगर्भो बोधिसत्व इमां स्व[मुद्रामभाषत् ॐ वज्ररत्न]मुकुटे हूं ॥

अथ वज्रनेत्रो बोधिसत्व इमां स्वमुद्रामभाषत् ॐ धर्मपद्मि धीः ॥

अथ वज्रविश्वो बोधि[सत्व इमां स्वमुद्रामभाषत् ॐ सर्व]मुखि हूं ॥

Delineation of the मण्डल

अथार्यावलोकितेश्वरो बोधिसत्वो महासत्व इदं चतुर्मुद्रामण्डलमभाषत् । [अथातः संप्रवक्ष्यामि] चतुर्मुद्राग्रमण्डलं ।

वज्रधातुप्रतीकाशं महामण्डलसन्निभं ॥ १ ॥

मुद्रामण्डलमध्ये तु बुद्धबिम्बं निवेशयेत् ।
तस्य पार्श्वेषु सर्वेषु [वज्रपद्मादिं वै लिखे]त् ॥ २ ॥

Initiation into the मण्डल

अथात्र महामण्डले आकर्षणादिविधिविस्तरङ्कृत्वा, यथावत् प्रवेश्यैवं ब्रूयात् "न त्वयेदं कस्यचिद् वक्तव्यं॑ मा ते महादुःखं [भवेद्, अकाल]मरणं विषमक्रियये" ति ।

ञ्नन

ततो ज्ञानान्युत्पादयेत् ।

पद्मं हस्तेन वै गृह्य समाजिघ्रन् प्रयत्नतः ।
तेन गन्धेन संयोज्य बुद्धानां तु प्रसिध्य[ति] ॥ १ ॥

बुद्धबिम्बं जटामध्ये प्रतिष्ठाप्य समाहितः ।
सर्वलोकं वशंकुर्याद् दर्शयन् गर्वया व्रजन् ॥ २ ॥

पद्मपद्ममहाबिम्बं कारयित्वा समाधिना ।
उपविश्य यथापायं मनसा स तु मारयेत् ॥ ३ ॥

चतुर्मुखं तु वै पद्मं कारयित्वा करेण तु ।
संगृह्यावेशनादिनि भ्रामयन् प्रकरोति सः ॥ ४ ॥

अथैषां हृदयानि भवन्ति ।
ॐ गन्धपूजाग्र्य साधय ह्रीः ॥

ॐ पद्ममुकुट तथागत वशीकुरु सर्वान् लोकेश्वराभिषेक समय होः ॥

ॐ पद्मपद्म मारय सर्वप्रत्यर्थिकान् समाधिज्ञान धिक् ॥

ॐ विश्वपद्म सर्वकर्मकरो भव ललि लुलि लेलि हूं फट् ॥

Mudra

ततो मुद्रारहस्यज्ञानं शिक्षयेत् ।

रक्तः सं सर्वकार्याणि साधयेत्समयो ह्ययं ।
दुःसाध्यापि हि मुद्रा वै क्षणात् सिध्यति योगत ॥ इति ॥

तत्रास्य समयो भवति ॐ साधय पद्मराग समय अः ॥

ततो महामुद्रादिसर्वमुद्राबन्धं शिक्षयेत् ॥

चतुर्मुद्रामण्डलविधिविस्तरः समाप्तः ॥


III.6 Ekamudra-mandala

अथार्यावलोकितेश्वरो महाबोधिसत्व इदं सर्वजगद्विनयंनाम हृदयमभाषत् । ॐ सर्वजगद्विनय महासत्वागच्छ शीघ्रं वैश्वरूप्यं दर्शय मम च सर्वसिद्धयः प्रयच्छ ह्रीः ॥

Delineation of the मण्डल

अथार्यावलोकितेश्वरो महाबोधिसत्व इदं सर्वजगद्विनयं नाम मण्डलमभाषत् ।

अथातः संप्रवक्ष्यामि जगद्विनयमण्डलं ।
महामण्डलयोगेन संलिखेद् बाह्यमण्डलं ॥ १ ॥

तस्याभ्यन्तरतः पद्मं तथैव च समालिखेत् । तत्र सरोजा विस्फारि विश्वरूपं समालिखेद् ॥ इति ॥ २ ॥

Initiation into the मण्डल

अथात्र महामण्डले यथावद् विधिविस्तरेण प्रवेश्य, तथैवोक्त्वा, सर्वजगद्विनयज्ञानं शिक्षयेत् ।

Mudra

मण्डलं तु समालिख्य जगद्विनयसंज्ञितं ।
भावयंस्तु महामुद्रां भवेद् विश्वधरोपम ॥ इति ॥

ततो जगद्विनयरहस्यमुद्राज्ञानं शिक्षयेत् ।

विश्वरूपसमाधिन्तु भावयन् सुसमाहितः ।
द्वयेन्द्रियसमापत्त्या मण्डले तु स सिध्यति ॥

ततो महामुद्रादिमुद्राबन्धं शिक्षयेत् । तथैव सिद्धयः, एवं पटादिष्विति ॥ मुद्रायामप्येकमुद्रामण्डलयोगेन तथैव सिद्धय इति ॥

अथ सर्वतथागताः पुनः समाजमागम्यावलोकितेश्वराय महाबोधिसत्वाय साधुकाराण्यददन् ।

साधु ते वज्रसत्वाय वज्ररत्नाय साधु ते ।
वज्रधर्माय ते साधु साधु ते वज्र[कर्मणे ॥]१ ॥

सुभाषितमिदं सूत्रं वज्रयानमनुत्तरं ।
सर्वतथागतं गुह्यं महायानभिसंग्रहम् ॥ इति ॥

सर्वतथागततत्त्वसंग्रहात् सर्वतथागतधर्मसमयो नाम महाकल्पराजा परिसमाप्तः ॥


अध्याय 19
SARVARTHASIDDHI-MAHAMANDALA-VIDHI-VISTARA

Hymn of 108 names of the mahabodhisattva Akasagarbha atha

आकसगर्भ अथ खलु सर्वतथागताः पुनः समाजमागम्य, सर्वतथागताभिषेकरत्नं तमेव वज्रधरमार्याकाशगर्भ महाबोधिसत्वमनेन नामष्टशतेनाध्येषितवन्तः ।

आकाशगर्भं सत्वार्थ महासत्व महाद्युते ।
महारत्न सुरत्नाग्र्य वज्ररत्न नमोऽस्तु ते ॥ १ ॥

अभिषेक महारत्न महाशुद्ध महाशुभ ।
बुद्धरत्न विशुद्धाङ्ग रत्नरत्न नमोऽस्तु ते ॥ २ ॥

आकाशाकाशसंभूत सर्वाकाश महानभ ।
आकाशधातु सर्वाश सर्वाशाग्र्य नमोऽस्तु ते ॥ ३ ॥

रत्नसंभव रत्नोर्ण बुद्धोर्ण सुतथागत ।
सर्वरत्न सुसर्वाग्र्य रत्नकार्य नमोऽस्तु ते ॥ ४ ॥

रत्न रत्नाग्र्य रत्नोग्र रत्नसर्वतथागत ।
रत्नोत्तम महाकाश समाकाश नमोऽस्तु ते ॥ ५ ॥

अलङ्कार महाशोभ शोभाकर सुशोभक ।
शुद्ध सर्वार्थ शुद्धार्थ दानचर्य नमोऽस्तु ते ॥ ६ ॥

धर्मरत्न विशुद्धाग्र्य सङ्घरत्न तथागत ।
महाभिषेक लोकार्थ प्रमोदार्थ नमोऽस्तु ते ॥ ७ ॥

दान प्रदन दानाग्र्य त्याग त्यागाग्र्य दायक ।
सर्वसत्वार्थ तत्वार्थ महार्थार्थ नमोऽस्तु ते ॥ ८ ॥

चिन्ताराज महातेज दानपारमितानय ।
तथागत महासत्व सर्वबुद्ध नमोऽस्तु ते ॥ ९ ॥

तथागत महारत्न तथागत महाप्रभ ।
तथागत महाकेतो महाहास नमोऽस्तु ते ॥ १० ॥

तथागताभिषेकाग्र्य महाभिषेक महाविभो ।
लोकनाथत्व लोकाग्र्य लोकसूर्य नमोऽस्तु ते ॥ ११ ॥

रत्नाधिकाधिकतर रत्नभूषण रत्नधृक् ।
रत्नालोक महालोक रत्नकीर्ते नमोऽस्तु ते ॥ १२ ॥

रत्नोत्कर सुरत्नोत्थ मणे वज्रमणे गुण ।
रत्नाकर सुदीप्ताङ्ग सर्वरत्न नमोऽस्तु ते ॥ १३ ॥

महात्म यष्टि रत्नेश सर्वाशापरिपूरक ।
सर्वाभिप्रायसंप्राप्ति रत्नराशि नमोऽस्तु ते ॥ १४ ॥

अ[भ्व]ग्र्य व्यापि सर्वात्म वरप्रद महावर ।
विभूते सर्वसंपत्ते वज्रगर्भ नमोऽस्तु ते ॥ १५ ॥

यः कश्चिद् धारयेन् नाम्नामिदन्तेऽष्टशतं शिवं ।
सर्वबुद्धाभिषेकं तु स प्राप्नोत्यनघः क्षणात् ॥ १६ ॥

अध्येषयामस्त्वां रत्न भाष स्वधनसंचयं । सर्वबुद्धाभिषेकाग्र्यमुत्पाद नियमकुलम् ॥ १७ ॥ इति ॥

अथाकाशगर्भो बोधिसत्वः इदं सर्वतथागतवचनमुपश्रुत्य, सर्वतथागताभिषेकसमयं नाम स्वहृदयमभाषत् ॐ वज्ररत्नं हूं ॥

अथ भगवान् वैरोचनस्तथागत इदं सर्वतथागतमणिसमयं नाम विद्योत्तममभाषत् ॐ सर्वतथागताशापरिपूरणमहारत्न हूं ॥

अथ वज्रपाणिर्महाबोधिसत्व इमं स्वकुलसंभवं विद्योत्तममभाषत् ॐ वज्र हूं त्रः ॥

अथ वज्रगर्भो बोधिसत्व इमं स्वविद्योत्तममभाषत् ॐ मणि हूं ॥

अथ वज्रनेत्रो बोधिसत्व इमं स्वकुलसंभवं विद्योत्तममभाषत् ॐ पद्म ह्रीः ॥

अथ वज्रविश्वो बोधिसत्वो महासत्व इमं स्वविद्योत्तममभाषत् ॐ विश्वरत्न हूं ॥

अथार्याकाशगर्भो बोधिस[त्वो महासत्वः] सर्वतथागताभिषेकरत्नंनाम समाधिं समापन्नः॑ समनन्तरसमापन्ने चाथ तावदेव सर्वतथागतहृदयेभ्यो वज्रमणिरत्नरश्मयो निश्चरिताः । ते सर्वलोकधातवोऽवभास्य सर्वसत्वान् सर्वतथागताभिषेकैरभिषिच्य, पुनरप्येकध्यीभूत्वा, भगवत आकाशगर्भस्य महाबोधिसत्वस्य हृदयेऽनुप्रविष्टा इति ।

अथ तत् आकाशगर्भहृदयात्स एव भगवान् वज्रपाणिः समन्तरश्मिज्वालागर्भा विचित्रवज्रमणिरत्नाभिषेकाद्याभरणालङ्कारालङ्कृतकाया महवज्रमणिरत्नचिन्हमुद्राव्यग्रकरा महाबोधिसत्वकाया भूत्वा विनिःसृत्य, सर्वलोकधातुषु महारत्नवर्षादिभिः रत्नोत्पत्तिभिः सन्तोष्य, पुनरागत्य, भगवतो वैरोचनस्य सर्वतो वज्रधातुमहामण्डलयोगेन चन्द्रमण्डलाश्रिता भूत्वेदमुदानमुदानयिंसुः ।

अहो हि सर्वबुद्धानां सर्वरत्नसमुच्चयं ।
वज्ररत्नकुलं त्वेदं संभूतं जगदर्थत ॥ इति ॥

Delineation of the मण्डल

अथाकाशगर्भो बोधिसत्वो महासत्व इति स्वकुलमुत्पाद्य, सर्वतथागतेभ्यः सर्वाशापरिपूर्ये निर्यात्येदं सर्वार्थसिद्धिन्नाम महामण्डलमभाषत् ।

अथातः संप्रवक्ष्यामि महामण्डलमुत्तमं ।
वज्रधातुप्रतीकाशं सर्वसिद्धिरिति स्मृतं ॥ १ ॥

चतुरश्रं चतुर्द्वारं चतुष्तोरणशोभितं ।
चतुःसूत्रसमायुक्तं पट्टस्रग्दामभूषितं ॥ २ ॥

सर्वमण्डलकोणेषु द्वारनिर्यूहसन्धिषु ।
खचितं वज्ररत्नैस्तु सूत्रयेद्बाह्यमण्डलं ॥ ३ ॥

तस्याभ्यन्तरतः कार्यं वज्ररत्नसमं पुरं ।
अष्टस्तंभाग्रयोगेन सूत्रणं तत्र कारयेत् ॥ ४ ॥

पञ्चमण्डलशोभं तु नानारत्नाकरोज्ज्वलं ।
स्वमुद्रापरिवारं तु तत्र बुद्धन्निवेशयेत् ॥ ५ ॥

तत्रैषां हृदयानि भवन्ति ।
ॐ बुद्धरत्न हूं ॥

ॐ वज्रमणि हूं ॥

ॐ वज्ररत्नाङ्कुर हूं ॥

ॐ वज्ररत्नपद्म हूं ॥

ॐ रत्नपद्मवर्ष हूं ॥

वज्रवेगेन चाक्रम्य सर्वाशासिद्धिमण्डलं ।
तत्रस्थं वज्रगर्भ तु लिखेद्रत्नवरप्रदं ॥ १ ॥

तस्य पार्श्वेषु सर्वेषु रत्नमुद्रा समन्धिताः ।
महासत्वाः समालेख्या यथावदनुपूर्वशः ॥ २ ॥

अथैषां हृदयानि भवन्ति ।
ॐ सर्वार्थसिद्धिप्रद हूं ॥

ॐ वज्रमणिचिन्हाकाशगर्भ भगवन् सिध्य सिध्य हूं ॥

ॐ रत्नाङ्कुशाकर्षय सर्वार्थानानय शीघ्रं सर्वतथागतसत्यमनुस्मर हूं ॥

ॐ मणिराग वशीकुरु सर्वार्थनानयाकाशगर्भ हूं ॥

ॐ रत्नतुष्टि हूं ॥

वज्रवेगेन चाक्रम्य रत्नामालस्य मण्डलं ।
तत्र मध्ये लिखेत् सम्यग्रत्नमालाधरं परं ॥ १ ॥

तस्य पार्श्वेषु सर्वेषु यथावदनुपूर्वशः ।
महासत्वाः समालेख्या मणिचिन्हाग्रपाणयः ॥ २ ॥

तत्रैषां हृदयानि भवन्ति ।
ॐ रत्नदृष्टि त्रः ॥

ॐ सर्वतथागताभिषेकरत्नमाल हूं ॥

ॐ मणिसूर्य हूं ॥

ॐ चिन्तामणिध्वज सर्वाशाप्रपूरकाकाशगर्भ हूं ॥

ॐ रत्नाट्टहास हस ह ह हूं ॥

वज्रवेगेन चाक्रम्य रत्नपद्मस्य मण्डलं ।
तत्रस्थं तु समालेख्यं रत्नपद्मधरं विभुं ॥ १ ॥

तस्य पार्श्वेषु सर्वेषु महासत्वान् समालिखेत् ।
मणिचिन्हान् समासेन यथावदनुपूर्वशः ॥ २ ॥

तत्रैषां हृदयानि भवन्ति ॥

ॐ रत्नपद्म हूं ॥

ॐ [त्यागसमाधिज्ञान]गर्भ हूं ॥

ॐ रत्नकोशाग्र्य हूं ॥

ॐ मणिचक्र प्रवर्तय हूं ॥

ॐ रत्नभाष हूं ॥

वज्रवेगेन चाक्रम्य रत्नवृष्टेस्तु मण्डलं ।
तत्र लेख्यं महासत्वं र[त्नवृष्टिं प्रवर्ष]यन् ॥ १ ॥

तस्य पार्श्वेषु सर्वेषु महासत्वान् यथाविधि ।
रत्नचिन्हसमोपेतान् मुद्राहस्तान् समासतः ॥ २ ॥

तत्रैषां हृदयानि भवन्ति ।
ॐ रत्नवृष्टि वर्षय सर्वार्थसंपदो भगवन् मणिहस्त हूं ॥

ॐ मणिपूजा समय हूं ॥

ॐ मणिबन्ध कवच हूं ॥

ॐ मणिदंष्ट्राकराल महायक्ष हर हर सर्वार्थान् भीषापय हूं ॥

ॐ मणिरत्न बन्ध समय हूं ॥

वज्रवेगेन चाक्रम्य कोणभागेषु सर्वतः ।
रत्नलास्यादयो लेख्या यथावदनुपूर्वशः ॥

तत्रासां मुद्रा भवन्ति ।
ॐ रत्नरति हूं ॥

ॐ रत्नमाले हूं ॥

ॐ रत्नगीते हूं ॥

ॐ रत्ननृत्ये हूं ॥

वज्रवेगेन निःक्रम्य बाह्यमण्डलमुत्तमं ।
बाह्यमण्डलकोणेषु धूपपूजादयो लिखेत् ॥

तत्रासां मुद्रा भवन्ति ।
ॐ धूपरत्ने ॥

ॐ पुष्पमणि ॥

ॐ रत्नालोके ॥

ॐ मणिगन्धे ॥

द्वारपालास्तु कर्तव्या द्वारमध्यचतुष्टये ।
अतः परं प्रवक्ष्यामि मण्डले विधिविस्तरं ॥

अथात्र हृदयानि भवन्ति ।
ॐ सर्वरत्नाकर्ष आर्यारुण महासत्व भगवन्तं आकाशगर्भ चोदयाकर्षय शीघ्रं होः जः ॥

ॐ सर्वरत्नप्रवेशसमय प्रवेशय समयान् महामणिराजकुलं रत्नपाश हूं ॥

ॐ मणिबन्ध हूं वं ॥

ॐ मणिरत्नावेश अः ॥

Initiation into the मण्डल

अथात्र महामण्डले स्वयं मणिरत्नाचार्यो यथावत् प्रविश्य, विधिविस्तरमात्मनः कृत्वा, ततो रत्नाधिष्ठितकलशोदकेन मणिशिष्यानभिषिच्य, वज्रमणिसमयमुद्रां बन्धयेदनेन हृदयेन ॐ वज्रमणि समय वं ॥

ततो यथावर्णप्राप्तितया वस्त्रमुत्तरासङ्गं कृत्वा, तादृशेनैवाक्षिणी बध्वा, प्रवेशयेदनेन हृदयेन ॐ हूं मणिराजकुलं ॥

ततः प्रवेश्य वक्तव्यं "न त्वयेदं कस्यचिद् वक्तव्यं॑ माते सर्वजन्मसु दारिद्र्यदुःखान्मोक्षे न भवेन्, नरकवासश्च दृढो भवेद्" इत्युक्त्वा, समयं स्फोटयेत्॑ महायानाभिसमयं चोच्चारयेत् ।

ततः समाविष्टस्य वज्रवाचा परिपृच्छेत् । "कुत्र महानिधिरस्ति? । कथं वा प्राप्यते ।"

ततो भगवानाकाशगर्भो बोधिसत्वः सर्वं जल्पापयतीत्य॑ उक्तमात्रे मुखबन्धं मुक्त्वा, महामण्डलं दर्शयेत्, सर्वतथागताभिषेकसमयं चोदाहरेत्, यावद् भगवांस्तथागतस्तु गत इति । ततो यथाविभवतः पूजान् कृत्वा, सर्वकार्याणि साधयेदिति ।

Mudra

अथात्र ज्ञानमुद्रा भवन्ति ।

वज्रगर्भमहामुद्रां बध्वा तु सुसमाहितः ।
निधानं खनते यत्र निधानं तत्र पश्यति ॥ १ ॥

बध्वा तु समयाग्रीम् वै निधानं यत्र विद्यते ।
पीडयेत् तत्र तां मुद्रां स्वयमुत्तिष्ठते तदा ॥ २ ॥

वज्रगर्भसमाधिन्तु भावयन् सुसमाहितः ।
मनसा चैव जानाति निधानं यत्र तिष्ठति ॥ ३ ॥

बध्वा कर्ममयीं मुद्रां वज्रगर्भसमाधिना ।
तां मुद्रमाविशेद्यत्र निधानं तत्र लक्षयेत् ॥ ४ ॥

तत्रैषां हृदयानि भवन्ति ।
ॐ महामणिरत्नाविश हूं ॥

ॐ मणिपीड दर्शय ॥

ॐ रत्नसमाधि ब्रूहि ॥

ॐ रत्नावेश दर्शय ॥

महामुद्रां समाधाय यत्र कायं तु वेष्टयेत् ।
तत्र रत्ननिधानं तु ज्ञातव्यं समयात्मभिः ॥ १ ॥

बध्वा तु समयाग्रीम् वै यत्राविश्य परिस्फुटेत् ।
निधानन्तत्र विज्ञेयं महारत्नमयं भवेएत् ॥ २ ॥

समाधिमुद्रां बध्वा वै यद्याविश्य स्वयं पुनः ।
ब्रूयाद्यत्र निधानं तु महारत्नमयं भवेत् ॥ ३ ॥

कर्ममुद्रां तु बध्वा वै यदाविश्य परम्परं । हस्तौ बन्धे तु समयान्निधिन्तत्र विनिर्देशेद् ॥ इति ॥ ४ ॥

तत्रैषां हृदयानि भवन्ति ॥

ॐ महारत्नकाय दर्शय रत्नं ॥

ॐ आकाशगर्भ मणिरत्न स्फुट स्फुट यत्र निधिः ॥

ॐ मणिरत्नज्ञान स्वयं ब्रूहि ॥

ॐ पुनः समय बन्ध दर्शयस्व ॥

बध्वा तु वै महामुद्रां यत्राशङ्का भवेत्तथा ।
तत्र ज्ञानेन विज्ञेयं निधानं रत्नसंभवं ॥ १ ॥

यत्र शङ्का भवेत्तत्र समयाग्रीन्तु बन्धयेत् ।
यदा मोक्षं स्वयं यायान्निधिन्तत्र विनिर्दिशेत् ॥ २ ॥

समाधिमुद्रां बध्वा वै शङ्का यत्र भवेद्ध्रुवा ।
ज्ञानमुत्पाद्य विज्ञेयं निधिस्तत्रास्ति शाश्वतः ॥ ३ ॥

यत्र भूयो भवेच्छङ्का कर्ममुद्रां तु तत्र वै ।
बध्नीयाद् विधिवत्तां तु स्फुटेज्ज्ञेयो निधिः पुनः ॥ ४ ॥

तत्रैषां हृदयानि भवन्ति ।
ॐ निधिज्ञानाविश ॥

ॐ रत्नसमय मुञ्च निधि बन्धान् ॥

ॐ धर्मरत्न ब्रूहि निधानं ॥

ॐ सर्वकर्माणि स्फोटय दर्शय निधि बन्धोत्क्षिप ॥

महामुद्रां तु सन्धाय निधानं परिमार्गयेत् ।
यत्रस्थस्य समावेशो भवेत्तत्र विनिर्दिशेत् ॥ १ ॥

बध्वा समयाग्रीन् वै निधिं तु परिमार्गयेत् ।
यत्रस्थो दृढतां यायान्निधिन्तत्र विनिर्दिशेत् ॥ २ ॥

समाधिमुद्रां सन्धाय निधानं परिमार्गयेत् ।
यत्रस्थो ज्ञानवान् भूयान्निधिन्तत्र विनिर्दिशेत् ॥ ३ ॥

बध्वा कर्ममयीं मुद्रां निधिं तु परिमार्गयेत् ।
यत्रस्थः कर्ममुद्रां तु भ्रामयेत् तत्र निर्दिशेत् ॥ ४ ॥

तत्रैषां हृदयानि भवन्ति ।
ॐ महारत्न परीक्षाविश ॥

ॐ रत्नसमय दृढ दर्शय ॥

ॐ रत्नपरीक्षा ज्ञानाविश ॥

ॐ मणिकर्म भ्रामय ॥

ततो मणिरहस्यमुद्राज्ञानं शिक्षयेत् ॥

द्वयेन्द्रियसमापत्त्या निधानं परिमार्गयेत् ।
भावयंस्तु महामुद्रां समावेशान्निधिं लभेत् ॥ १ ॥

बध्वा तु समयाग्रीन् वै रामयंस्तु स्त्रियन्तथा ।
यत्र मुद्रा दृढीभूयान्निधिन्तत्र विनिर्दिशेत् ॥ २ ॥

द्वयेन्द्रियसमापत्त्या निधानं परिमार्गयेत् ।
भावयन् ज्ञानमुद्रां तु निधिज्ञानं प्रवर्तते ॥ ३ ॥

बध्वा तु कर्ममुद्रां वै द्वयेन्द्रियसमाधितः । स्फुटेद्यत्र तु सा मुद्रा निधिन्तत्र विनिर्दिशेद् ॥ इति ॥ ४ ॥

तत्रैषां हृदयादि भवन्ति ।
ॐ महामणि संयोगविश ॥

ॐ समय संयोगदृढो मे भव ॥

ॐ निधिज्ञानाविशाविश संयोग ॥

ॐ सर्वकर्म स्फोट संयोग ॥

ततो महामणिकुलसर्वमुद्राज्ञानं शिक्षयेत् ।

अथ महामुद्रा भवन्ति ।

यथालेख्यानुसारतौ भावयंस्तु महामुद्राः ।
सर्वार्थोत्तमं सि[ध्यति चन्द्रमण्डलमध्यस्थाः ॥

ततो] महामुद्राणां [क्रिया भवन्ति ।]

बुद्धमुद्रा तु बुद्धत्वं सुसिद्धिर्वज्रगर्भयोः ।
रत्नाङ्क[श्या समाकर्षेत् मणिरामयानुरमेत् ॥ १ ॥

मण्युदग्र्या संतोषका] मणिदृष्ट्यार्थहारिका ।
मणिमालाभिषेका तु मणिसूर्या सुतेजदा ॥ २ ॥

चिन्तामणिर्यथेच्छदा रत्नहासार्थहारिका ।
धर्मरत्ना[प्राप्तं धर्मं त्या] गाग्री लाभमुत्तमं ॥ ३ ॥

रत्नकोशा महाकोशं मणिचक्राधिपत्यतां ।
भाषामार्गेण सिद्धिस्तु रत्नवृष्टिर्महाधनं ॥ ४ ॥

मणिपूजा सुपूज्यत्वं रत्नवर्मा दृढंकरी ।
रत्नदंष्ट्रा हरेदर्थं मणिमुष्ट्या तु सिध्यति ॥ ५ ॥

अथात्र महामण्डले समयमुद्राज्ञानं भवति ।

वज्ररत्नमयी मुद्रा सर्वबुद्धाभिषेकदा ।
महावज्रमणिं बध्वा वज्ररत्नं तु सिध्यति ॥ १ ॥

वज्रद्विकं मणीकृत्वा धनं वज्रधराल्लभेत् ।
सा एवाङ्गु ष्ठवज्रेण मणिं दद्याद् हृदि स्थितं ॥ २ ॥

कुड्मलाग्र्या मणिं बध्वा लोकेशो धनदो भवेत् ।
वज्रकर्ममणिन्दद्यान् महाविश्वमणिध्वजं ॥ ३ ॥

वज्रधात्वग्रमणिना बुद्धरत्नत्वमाप्नुयात् ।
समाग्रग्रा पृष्ठसंकोचा वज्रमङ्गुष्ठबन्धतः ॥ ४ ॥

इयं वज्रमणिः प्रोक्ता वज्रगर्भस्य पाणितः ।
अनया बुद्धमात्रया महावज्रमणिं लभेत् ॥ ५ ॥

रत्नवज्रां समाधाय सममध्योत्थिताङ्करां ।
अनया बद्धमात्रया स्वभिषेकाप्यवाप्नुयात् ॥ ६ ॥

सा एव मध्यमानामकनिष्ठा कुड्मलीकृत्वा ।
अनया तु धनं दद्यादवलोकितनामधृक् ॥ ७ ॥

वज्ररत्नप्रयोगेण तर्जन्यङ्गुष्ठकन्यसा ।
मध्यमाभ्यां नखसन्धानान् समानामाङ्कु रोत्थिता ॥ ८ ॥

वज्रबन्धं दृढीकृत्य तर्जनीभ्यां मणीकृता ।
प्रसारिताङ्गुष्ठमुखा हृदि सर्वार्थसिद्धिदा ॥ ९ ॥

वज्रबन्धं समाधाय मध्यमा मणियोजिता ।
मुद्रेयं मणिचिन्हस्य मणिरत्नप्रदायिका ॥ १० ॥

स एवाङ्कुशयोगेन तर्जनीभ्यां समन्धिता ।
सर्वार्थकर्षणी मुद्रा मणिरत्नाङ्कुशी स्मृता ॥ ११ ॥

सा एव वलि[तां कृत्वा] तर्जन्या तर्जनी ग्रहा ।
वाणाकर्षणायोगेन कर्षयन् रागयेज्जगत् ॥ १२ ॥

सा एव साधुकारा तु तर्जन्यङ्गुष्ठयोजिता ।
सा एवाङ्गुष्ठसन्धानसंच्छन्नाग्र्याङ्गुली तथा ॥ १३ ॥

अङ्गुष्ठान्तरयोश्चैव पुनरग्र्या मुखे क्षणात् ।
मणिदृष्टिस्तु सा ख्याता दृष्ट्यर्थानां प्रहारिका ॥ १४ ॥

सर्वार्थसिद्धिमाला तु स्वभिषेकप्रदायिका ।
सा एव हृदयेऽङ्गुष्ठमुखसन्धानयोजिता ॥ १५ ॥

हृदये मणिसूर्या तु महातेजःप्रदायिका ।
मूर्ध्निस्था च समानाम पताकाग्रविदारिता ॥ १६ ॥

महावज्रमणि पूर्वं सर्वाशापरिपूरिका ।
सा एव हाससंस्था तु लीलया परिवर्तिता ॥ १७ ॥

रत्नाट्टहासनाम्ना वै हासात् सर्वार्थकारिका ।
सर्वाग्रमणिपद्मा तु धनहारी समाधिना ॥ १८ ॥

सा एवान्त्यादिदाना तु महादानप्रदायिका ।
अधर्गतसमाङ्गुष्ठतर्जनी मणिसंस्थिता ॥ १९ ॥

भणिकोशा हरेदर्थान् जगतां विक्रमेण तु ।
वज्रबन्धाग्रचक्रा तु समाङ्गुस्थप्रवेशिता ॥ २० ॥

तर्जनीमणिसंस्थानाच्चक्रवर्तित्वदायिका ।
सा एवाञ्जली मुखबन्धे समुद्धृता ॥ २१ ॥

स तु सन्धाय वाचा वै स्वाज्ञया हरते धनं ।
महावज्रमणिं बध्वा रत्नवर्ष [प्रवर्षिता] ॥ २२ ॥

सर्वाङ्गुल्युपस्तोभा तु चतुःशो वर्षते धनं ।
महावज्रमणिं बध्वा नृत्यन्नुष्णीषमध्यतः ॥ २३ ॥

संपूज्य विधिवत्सर्वै सर्वरत्नैः संपूज्यते ।
[सर्वार्थसिद्धि] मुद्रां तु कण्ठदेशे परिष्वजेत् ॥ २४ ॥

मणिबन्धेति विख्याता रक्षा कवचिनी स्मृता ।
सा एव सर्वसिद्धयर्था यक्षयोगा मुखस्थिता ॥ २५ ॥

मणिदंष्ट्रेति [विख्या]ता भयात्सर्वार्थहारिणी ।
वज्रबन्धं दृढीकृत्य कुञ्चिताग्र्या सुयन्त्रिता ॥ २६ ॥

संगृह्याङ्गुष्ठयोः सम्यग् मणिमुष्टिस्तु सिद्धिदा ।
पूजाग्रसमयानां तु वज्रधातुप्रयोगतः ॥ २७ ॥

यथावन्मणियोगेन समयाग्र्योऽत्र कल्पिताः ।
मध्यमा मणियोगेन ता एव तु विकल्पिताः ॥ २८ ॥

एकाङ्कुश्यादियोगेन सर्वकर्मप्रसाधिका ॥ इति ॥

अथ महामणिकुलधर्ममुद्राज्ञानं भवन्ति, त्रः, ग्रः, त्रिः, ह्रीः, श्रीः, इः, रः हः, ध्रीः धीः, कृ, वा, रो, ढः, य, अः ।

रत्नमुष्टिं द्विधीकृत्य कर्ममुद्रास्तु साधयेद् ॥ इति ॥

सर्वतथागतकर्मसमयान् महाकल्पराजात् सर्वार्थसिद्धिमहामण्डलविधिविस्तरः समाप्तः ।


अध्याय 20
RATNA-GUHYA-MUDRA-MANDALA-VIDHI-VISTARA

अथ भगवान् पुनरपि सर्वतथागताभिषेकधारणीसमयसंभवरत्नाधिष्ठानं नाम समाधिं समापद्येमां स्वमुद्रामभाषत् ॐ वज्ररत्नस्तूपे हूं ॥

अथ वज्रपाणिर्महाबोधिसत्व इमां स्वकुलसंभवां मुद्रामभाषत् ॐ वज्राभिषेकमाले अभिषिञ्च समये हूं ॥

अथ वज्रगर्भो बोधिसत्वो महासत्व इमां स्वमुद्रामभाषत् ॐ वज्ररत्नाभिषेके हूं ॥

अथ वज्रनेत्रो बोधिसत्वो महासत्व इमां स्वमुद्रामभाषत् ॐ वज्रधर्माभिषिञ्च मां ॥

अथ वज्रविश्वो बोधिसत्वो महासत्व इमां स्वमुद्रामभाषत् ॐ सर्वाभिषेकपूजासमये हूं ॥

Delineation of the मण्डल

अथ भगवानार्याकाशगर्भो बोधिसत्वो महासत्व इदं स्वकुलसमयमुद्रामण्डलमभाषत् ।

अथातः संप्रवक्ष्यामि मुद्रामण्डलमुत्तमं ।
वज्रधातुप्रतीकाशं रत्नगुह्यमिति स्मृतं ॥ १ ॥

महामण्डलयोगन सूत्रयेत्सर्वमण्डलं ।
तस्य मध्ये यथान्यायं बुद्धमुद्रां समालिखेत् ॥ २ ॥

पर्यङ्कस्थं मणिं पूर्व वज्रधातोः पुरो लिखेत् ।
मणिमालां मणीं पद्मे मणिं मणिपरीवृत्तं ॥

तत्रासां मुद्रा भवन्ति ।
ॐ त्रः ॥

ॐ मणिसमये हूं ॥

ॐ मणिरत्नाभिषेकमाले हूं ॥

ॐ मणिरत्नपद्मि हूं ॥

ॐ मणिरत्नवृष्टिसमये हूं ॥

वज्रवेगेन निष्क्रम्य सर्वसिद्धेस्तु मण्डले ।
वज्ररत्नस्य मध्ये तु महारत्नमणिं लिखेत् ॥ १ ॥

तस्य पार्श्वषु सर्वेषु स्वमुद्रामणिसंयुता ।
यथावदनुपूर्वेण रत्नाचार्यः समालिखेत् ॥ २ ॥

तत्रासां मुद्रा भवन्ति ।
ॐ सर्वार्थसिद्धिप्रदे महावज्ररत्नसमय मणि सर्वार्थान् मे साधय धारणी हू ॥

ॐ मणिरत्नाकर्षे हूं ॥

ॐ मणिरत्नसमयाङ्कुश्याकर्षय मणिकुलं जः ॥

ॐ मणिरागसमये हूं ॥

ॐ मणिसार्थि हूं ॥

वज्रवेगेन चाक्रम्य द्वितीयं मण्डलं तथा ।
तत्र मध्ये मणिं लेख्यं नेत्रद्विकसमन्धितन् ॥ १ ॥

तस्यास्तु सर्वपार्श्वेषु यथावदनपूर्वशः ।
मणिचिन्हसमोपेताः स्वमुद्रास्तु समालिखेत् ॥ २ ॥

तत्रासां मुद्रा भवन्ति ॥

ॐ वज्रमणिरत्ननेत्रानय वशीकुरु सर्वार्थसंपदः शीघ्रं दृष्ट्याङ्कुशी हूं ॥

ॐ वज्रमणिरत्नमालेऽभिषिञ्च हूं ॥

ॐ मणिरत्नसूर्ये ज्वालय सर्व महातेजिनि हूं ॥

ॐ मणिचन्द्रध्वजाग्रि हूं ॥

ॐ मणिहासे हस हूं ॥

वज्रवेगेन चाक्रम्य मणिपद्मं समालिखेत् ।
तस्य पार्श्वेषु सर्वेषु यथावदनुपूर्वशः ॥ १ ॥

तत्रासां मुद्रां भवन्ति ।
ॐ मणिसमाधिपद्मिनि हूं ॥

ॐ मणिरत्नत्यागसमये हूं ॥

ॐ मणिसमयकोशे हूं ॥

ॐ मणिसमयचक्रे हूं ॥

ॐ मणिभाषाग्रि हूं ॥

वज्रवेगेन चाक्रम्य चतुर्थं मण्डलोत्तमं ।

तत्रस्थं रत्नवृष्ट्या तु वज्रं रत्नसमन्धितं ॥ १ ॥

संलिखेत यथावत्तु कर्ममुद्रापरिवृतं ।
मणिचिन्हप्रयोगैस्तु यथावदनुपूर्वशः ॥ २ ॥

अथासां मुद्रा भवन्ति ।
ॐ रत्नवृष्टि साधय महामणि हूं ॥

ॐ महापूजासमये नृत्य अः ॥

ॐ मणिरत्नसमयरक्षे हं ॥

ॐ वज्रमणिरत्न द्रंष्ट्राकराले हर हर हूं ॥

ॐ मणिसमयमुष्टि हूं ॥

Initiation into the मण्डल

अथात्र मणिगुह्यमण्डले यथावत्कर्म कृत्वा, शिष्यां प्रवेय, ब्रूयात् । "न त्वया कस्यचिदयं नयो वक्तव्यः । मा ते महादारि द्यमकालक्रिया नरकपतनं स्याद्" , इत्युक्त्वा स्वमणिसमयज्ञानान्युत्पादयेत् ।

Mudra

वज्ररत्नं नभे लिख्य वज्ररत्नसमाधिना ।
आत्मनस्तु ललाटे वै स्थाप्य राजा भवेद्ध्रुवं ॥ १ ॥

वज्ररत्नं समालिख्य समयाग्रीन्तु बन्धयेत् ।
स्थाप्याभिषेकस्थानेषु राज्यत्वं भवते ध्रुवं ॥ २ ॥

वज्ररत्नं समालिख्य वज्ररत्नसमाधिना ।
तज्ज्ञानरत्नं संस्थाप्य भवेद्राजा स्वयंकृतः ॥ ३ ॥

वज्ररत्नं नभे लिख्य कर्ममुद्रां तु बन्धयेत् । स्वस्थाने तत्प्रतिष्ठाप्य भवेद्राजा स्वयं कृत ॥ इति ॥ ४ ॥

तत्रैषां हृदयानि भवन्ति ।
महावज्ररत्नाभिषिञ्च मां ॥

समयरत्नाभिषिञ्च मां ॥

धर्मरत्नाभिषिञ्च मां ॥

कर्मरत्नाभिषिञ्च माम् ॥

वज्ररत्नं तु हृदये महामुद्रां तु भावयेत् ।

भावयन्नभिषेकं तु प्राप्नोति परमाद्भुतं ॥ १ ॥

वज्ररत्नं ललाटे तु भावयं सुसमाहितः ।
बध्वा वै रत्नवज्रान्तु भवेद्राजा तु सर्वतः ॥ २ ॥

वज्ररत्नं तु जिव्हायां वज्ररत्नसमाधिना ।
भावयन्नभिषेकं प्राप्नुयाद्धर्मराज्यतां ॥ ३ ॥

वज्ररत्नं स्वमुष्णीषे भावयं सुसमाहितः । बध्वा वै कर्ममुद्रां तु भवेद्राजा सुकर्मकृद् ॥ इति ॥ ४ ॥

अथासां हृदयानि भवन्ति ।
ॐ वज्ररत्नहृदयाभिषिञ्च होः ॥

ॐ वज्ररत्नाभिषेक त्रः ॥

ॐ वज्ररत्नज्ञानाभिषिञ्च वं ॥

ॐ वज्ररत्नोष्णीषाधीतिष्ठस्व मां ॥

पटादिषु समालिख्य वज्ररत्नं स्वमात्मना ।
भावयंस्तु महामुद्रां महाराजा भवेत्स तु ॥ १ ॥

पटादिषु समालिख्य [वज्ररत्न] मनुत्तरं ।
भावयेत्सत्ववज्रां तु समयानां भवेत्पतिः ॥ २ ॥

पटादिषु समालिख्य वज्ररत्नं स्वमात्मना ।
भावयं ध्यानमुद्रां तु भवे[द्धर्मपतिर्ध्रुवं] ॥ ३ ॥

पटादिषु समालिख्य वज्ररत्नमनुत्तरं । भावयेत्कर्ममुद्रां तु भवेत्कर्माधिपः स्वयम् ॥ इति ॥ ॥ ४ ॥

तत्रैषां हृदयानि भवन्ति ।
वज्ररत्न[बिम्बाधितिष्ठ] ॥

वज्ररत्नबिम्ब प्रतिष्ठ ॥

वज्ररत्नबिम्बाविश ॥

वज्ररत्नबिम्ब कुरु ॥

सौवर्ण वाथ रौप्यं वज्ररत्नं तु भावयेत् ।
अन्यरत्नमयं वापि हृदि भाव्याभिषिच्यते ॥ १ ॥

सौवर्णमन्यरत्नं वा वज्ररत्नं त्वनुत्तरं ।
स्थाप्य भूयो ललाटे तु भवेद्राजा महाधनः ॥ २ ॥

सौवर्णमन्यरत्नं वा वज्ररत्नन्तु भावयेत् ।
स्वमुखे चैव प्रक्षिप्य भवेद्वाचां पतिस्तु सः ॥ ३ ॥

सौवर्णमन्यरत्नं वा वज्ररत्नन्तु भावयेत् । उष्णीषे भावयं भूयो सर्वकर्मपतिर्भवेद् ॥ इति ॥ ४ ॥

तत्रैषां हृदयानि भवन्ति ।
ॐ वज्ररत्नहृदयाभरण हूं ॥

ॐ वज्ररत्नाभिषेक महार्थप्रद ॥

ॐ वज्ररत्नवाचस्पते ॥

ॐ वज्ररत्नमहाकर्मपते ॥

ततो मणिकुलसमयमुद्रारहस्यज्ञानं शिक्षयेत् ।

महावज्रमणिं बध्वा तन्मणिं स्त्रीभगे तथा ।
प्रवेश्य तु महामुद्रां भावयन् सिद्धिमाप्नुते ॥ १ ॥

समयाग्र्या मणिं बध्वा स्त्रीभगे समयग्र्यया ।
बन्धया तु भवेत्सिद्धिरभिषेकेषु सर्वतः ॥ २ ॥

महावज्रमणिं बध्वा धर्ममुद्रां तु भावयन् ।
तन्मणिं स्त्रीभगे विध्वा भवेत्सिद्धिरनुत्तरा ॥ ३ ॥

कर्ममुद्रामणिं विध्वा स्त्रीभगे कर्ममुद्रया । बन्धया तु भवेत्सिद्धिः सर्वकर्मस्वनुत्तरम् ॥ इति ॥ ४ ॥

तत्रासां हृदयानि भवन्ति ।
ॐ महासिद्धिः ॥

ॐ समयाभिषेकसिद्धिः ॥

ॐ धर्मसिद्धिः ॥

ॐ कर्मसिद्धिः ॥

अथात्र मण्डले महामुद्राबन्धो भवति ।

रत्नवज्राङ्कुरां बध्वा मध्यानामान्तिमाङ्गुली ।
प्रसारितास्तु संधाय मूर्ध्नि स्थाप्याग्रसिद्धिदा ॥ १ ॥

वज्रबन्धं समाधाय ग्रन्थिताग्र्या युयोर्णगा ।
द्वयङ्गुष्ठानामिका वज्रा परिवर्त्याभिषेकदा ॥ २ ॥

वज्ररत्नप्रयोगेण सा एव परिवर्तिता ।
तर्जन्यग्रमुखा सङ्गादभिषेकन्ददाति सा ॥ ३ ॥

सा एवाङ्गुष्ठज्येष्ठाभ्यां धर्मवज्रप्रयोगतः ।
बध्वा ललाटगा चैव महाधर्माभिषेकदा ॥ ४ ॥

कर्मवज्रां समाधाय ललाटे परिवर्त्य वै ।
सर्वाभिषेकमालां तु स्थापयन्नभिषिञ्चति ॥ ५ ॥

रत्नसंभवमुद्रां तु समयां वज्रधातुजां ।
बध्वा रत्नप्रतिष्ठां तु ललाटे त्वभिषिच्यते ॥ ६ ॥

अङ्गुष्ठा बन्धपर्यङ्का तर्जनीद्वयसन्धिता ।
मणिमुखाग्र्ययोः कुर्यान्महावज्रमणिं लभेत् ॥ ७ ॥

वज्रबन्धं समाधाय मणिमुष्टिं प्रसारयेत् ।
मणिस्तु मध्यमाभ्यां तु मणिमालाभिषेकदा ॥ ८ ॥

वज्रबन्धं समाधाय मध्यमा मणियोजिता ।
द्व्यग्रानामविकासा तु पद्मङ्कृत्वा तुं सिध्यति ॥ ९ ॥

मध्यमाभ्यां मणिं बध्वा सर्वाङ्गुल्यः समुच्छिताः ।
भावयंस्तु मणीनेव भवेत् सुपरिवारवान् ॥ १० ॥

वज्ररत्नं समाधाय [मध्यमाङ्]गुष्ठयोगतः ।
समानामकनिष्ठा तु जिव्हा मुखे मणिप्रदा ॥ ११ ॥

सा एव तर्जनी वज्रा तत्स्था एव तथाङ्कु शी ।
तर्जन्या तर्जनी कर्षा [ताभ्यन्तुष्टिप्रदायि]का ॥ १२ ॥

मध्यमाभ्यां मणिं बध्वा द्र्यग्रसंकोचसंस्थिता ।
बध्वानामाङ्गुलिमुखानङ्गुष्ठद्वयच्छादिता ॥ १३ ॥

सा एव सूर्यावर्ता तु मूर्ध्नि बाहुप्रसारिता ।
मणिं ध्वजाग्रकेयूरा हासयोगेन योजिता ॥ १४ ॥

वज्रबन्धं समाधाय ज्येष्ठानाममुखोच्छिता । ताभिः पद्मं तु संभाव्य मध्यमाम्यां मणीकृता ॥ १५ ॥ ॥

सा एवान्त्यप्रदाना तु वज्रकोशप्रयोजिता ।
वज्रचक्रप्रयोगा तु सा एव मुखतोद्धृता ॥ १६ ॥

वज्ररत्नाङ्कु रां बध्वा सर्वाङ्गुल्यः प्रसारयेत् ।
तां तु मूर्ध्नि प्रतिष्ठाप्य रत्नवृष्टिस्तु वर्षयेत् ॥ १७ ॥

सा एव चक्रयोगा तु हृदि रत्नद्विधीकृता । मणिग्रहाग्रदंष्ट्रा तु मुष्टिर्मध्यमसन्धिते ॥ ति ॥ १८ ॥

ततः समयमुद्राज्ञानं शिक्षयेत् ।

एता एव महामुद्राः संपुटीकृत्य बन्धयेत् ।
गुह्यगुह्याः समासेन सिद्धिन्दद्युश्चतुर्गुणम् ॥ इति ॥

यथावद् वज्रगुह्ये तु सर्वकालं न बन्धयेत् ।
अतः परं प्रवक्ष्यामि धर्भमुद्राः समासत ॥ इति ॥

त्रैः ग्रैः हैः सैः ग्र्यः ख द्व्यैः हैः ध्रैः ध्यैः क्रैः वैः क्रयैः रै य्यः मैः ।

गुह्यगुह्याग्रमुष्टिस्तु द्विधीकृत्य सर्वकर्मिका ॥ इति ॥

सर्वतथागतकर्मसमयात् महाकल्पराजाद् रत्नगुह्यमुद्रामण्डलविधिविस्तरः समाप्तः ॥


अध्याय 21
JNANA-MANDALA-VIDHI-VISTARA Emanation of deiteis from samadhi

अथ भगवान् पुनरपि सर्वतथागताभिषेकज्ञानसमयसंभवाधिष्ठानन्नाम समाधिं समापद्येमं स्वविद्योत्तममभाषत् ॐ सर्वतथागताभिषेकज्ञानोत्तम हूं ॥

अथ वज्रपाणिर्महाबोधिसत्व इमं स्वविद्योत्तममभाषत् ॐ वज्रज्ञानाभिषेकसमय हूं ॥

अथ वज्रगर्भो बोधिसत्वो महासत्व इमं स्वविद्योत्तममभाषत् ॐ मणिरत्नाभिषेकज्ञान हूं ॥

अथ वज्रनेत्रो बोधिसत्वो महासत्व इमं स्वविद्योत्तममभाषत् ॐ धर्माभिषेकज्ञानं हूं ॥

अथ वज्रविश्वो बोधिसत्त्वो महासत्वः इमं स्वविद्योत्तममभाषत् ॐ सर्वाभिषेकज्ञान हूं ॥

Delineation of the मण्डल

अथाकाशगर्भो बोधिसत्वो महासत्वः इदं स्वकुलज्ञानमण्डलममभाषत् ।

अथातः संप्रवक्ष्यामि ज्ञानमण्डलमुत्तमं ।
वज्रधातुप्रतीकाशं रत्नज्ञानमितिस्मृतं ॥ १ ॥

महामण्डलयोगेन सूत्रयेत्सर्वमण्डलं । हृदि चिन्हास्तु संलेख्या धर्ममण्डलयोगत ॥ इति ॥ २ ॥

अथात्र महामण्डले ज्ञानहृदयानि भवन्ति ।
ॐ सर्वार्थसिद्धिज्ञान हूं ॥ १ ॥

ॐ मणिज्ञान हूं ॥ २ ॥

ॐ मणिज्ञानाङ्कुश ॥ ३ ॥

ॐ मणिज्ञानराग ॥ ४ ॥

ॐ मणिज्ञानतुष्टि ॥ ५ ॥

ॐ ज्ञानदृष्टिमणि हूं ॥ ६ ॥

ॐ ज्ञानाभिषेक ॥ ७ ॥

ॐ मणिज्ञानसूर्य ॥ ८ ॥

ॐ मणिज्ञानध्वज ॥ ९ ॥

ॐ मणिज्ञानाट्टहास ॥ १० ॥

ॐ मणिज्ञान पद्म हूं ॥ ११ ॥

ॐ ज्ञानमणित्याग ॥ १२ ॥

ॐ ज्ञानमणिकोश ॥ १३ ॥

ॐ ज्ञानमणिचक्र ॥ १४ ॥

ॐ ज्ञानमणिभाष ॥ १५ ॥

ॐ ज्ञानमणिरत्नवर्ष ॥ १६ ॥

ॐ मणिज्ञाननृत्यपूजासमय हूं ॥ १७ ॥

ॐ मणिज्ञानरक्ष ॥ १८ ॥

ॐ मणिज्ञानयक्ष ॥ १९ ॥

ॐ मणिज्ञानमुष्टि ॥ २० ॥

Initiation into the मण्डल

अथात्र मण्डले यथावद् विधिविस्तरं कृत्वा, शिष्यानेवं ब्रूयात् । "न त्वया अदृष्टधर्ममण्डलस्य वक्तव्यं । मा ते मरणकालः शीघ्रमेवासिद्धस्य स्याद्" , इत्युक्त्वा, मणिकुलधर्मज्ञानान्युत्पादयेत् ।

वज्रगर्भ समालिख्य पटादिषु समाधिना ।
भावयन् याचयेदर्थान्देहि रत्न इति ब्रूवन् ॥ १ ॥

वर्जगर्भं समालिख्य पटादिषु समाधिना ।
भावयन् याचयेद्रत्नां देहीति वाग् ब्रूवन् ॥ २ ॥

वज्रगर्भं समालिख्य पटादिषु विभावयन् ।
समापत्त्या तु सद्धर्भं देहि ज्ञानेति याचयन् ॥ ३ ॥

वज्रगर्भं समालिख्य पटादिषु विभावयन् ।
समापत्त्या तु सत्कर्म देहीति याचयेदिति ॥ ४ ॥

तत्रैषां हृदयानि भवन्ति ।
ॐ देहि सर्वार्थान् भगवन् वज्रगर्भ ॥

ॐ देहि सर्वरत्नान् भगवन् वज्रगर्भ ॥

ॐ देहि सद्धर्म भगवन् वज्रगर्भ सत्सत्व ॥

ॐ देहि सत्कर्म भगवन् वज्रगर्भ ॥

आकाशे वान्यदेशे वाभावयं सुसमाहितः ।
आकाशगर्भं सत्सत्वं याचयेदर्थसंपदः ॥ १ ॥

आकाशे वान्यदेशे वा भावयं सुसमाहितः ।
आकाशगर्भं सत्सत्वं याचयन् रत्नसंचयं ॥ २ ॥

आकाशे वान्यदेशे वा भावयं सुसमाहितः ।
आकाशगर्भं सत्सत्वं याचयेद् धर्मसंपदः ॥ ३ ॥

आकाशे वान्यदेशे वा भावयं सुसमाहितः । आकाशगर्भं सत्सत्वं याचयेत्कर्मसंचयम् ॥ इति ॥ ४ ॥

अथैषां हृदयानि भवन्ति ।
ॐ ज्ञानगर्भ देहि सर्वार्थान् ।
ॐ ज्ञानगर्भ देहि सर्वरत्नान ॥

ॐ ज्ञानगर्भ देहि सर्वधर्मान् ॐ ज्ञानगर्भ देहि सर्वकर्मान् ॥

वज्रगर्भ हृदि लिख्यं भावयं सुसमाहितः ।
यदा तु हृदयं कंपेत् ततः सिद्धो धनं ददेत् ॥ १ ॥

वज्रगर्भं ललाटे तु समालिख्य विभावयेत् ।
यदा तु कंपते शीर्षमभिषेकं स लप्स्यति ॥ २ ॥

वज्रगर्भं मुखे विध्वा भावयेत् तत्र एव हि ।
यदा तु स्फुटते तत्तु तदा वागस्य सिध्यति ॥ ३ ॥

वज्रगर्भं स्वमूर्धे तु प्रतिष्ठाप्य विभावयेत् । यदा तु ज्वालते तत्तु तदैवोर्ध्वगमो भवेद् ॥ इति ॥ ४ ॥

तत्रैषां हृदयानि भवन्ति ।
ॐ हृदय गर्भ देहि धनं ॥

ॐ रत्नाभिषेकगर्भाभिषिञ्च ॥

ॐ वाग्गर्भ सिध्य ।
ॐ रत्नगर्भोष्णीषाकाशं गच्छ ॥

वज्रगर्भमहामुद्रां भावयं सुसमाहितः ।
याचयेद् देहि सिद्धिं मे इति-रत्नेति सिध्यति ॥ १ ॥

आकाशगर्भ समयीम्बध्वा तु सुसमाहितः ।
याचयेदभिषेकाणि मिलि-रत्नेति लप्स्यति ॥ २ ॥

वज्रगर्भसमाधिन्तु भावयं सुसमाहितः ।
याचयेद् देहि मे धर्म चिलि-रत्नेति लप्स्यति ॥ ३ ॥

आकाशगर्भकर्माग्रीं बध्वा तु सुसमाहितः ।
याचे[त्सर्वर]त्नानि किलि-रत्नेति लप्स्यतीति ॥ ४ ॥

अथैषां हृदयानि भवन्ति ।
ॐ इलि ॥

ॐ मिलि ॥

ॐ चिलि ॥

ॐ किलि ॥

Mudra

ततो मणिज्ञानरहस्यमुद्राज्ञानं[शिक्षयेत् ॥]

द्वयेन्द्रियसमापत्त्या वज्रगर्भं तु भावयेत् ।
आकाशे वान्यदेशे वा परां सिद्धिमवाप्नुते ॥ १ ॥

द्वयेन्द्रियसमापत्त्या वज्रगर्भं तु भावयन् ।
आलेख्य चित्रलिखितं प्राप्नुयादभिषेचनं ॥ २ ॥

द्वयेन्द्रियसमापत्त्या वज्रगर्भं तु भावयन् ।
तं प्रियं यस्य रमयेत्सर्वलोकं स रागयेत् ॥ ३ ॥

द्वयेन्द्रियसमापत्त्या वज्रगर्भ तु भावयन् । सर्वाकाशरजोविश्वैः सर्वसिद्धिर्भवेद्रध्रुवम् ॥ इति ॥ ४ ॥

तत्रासां हृदयानि भवन्ति ।
आकाशगुह्यज्ञान साधय हूं ॥

चित्रगुह्यज्ञानाभिषिञ्च हूं ॥

प्रियानुस्मृतिज्ञानगुह्य सर्वलोकं रामय हूं ॥

सर्वगुह्यज्ञान सर्वसिद्धिं मे प्रयच्छ हूं ॥

ततो महामुद्रां यथावद् बध्नीयात् । तादृशा एव सिद्धिः ।

ततो वज्रमणिं वज्रज्ञानमण्डलयोगेन स्थापयेत् ॥

अथ धर्ममुद्रा भवन्ति । सः, राः, रा, साः, राः, तेः, केः, हाः, धं, तीः, हे, भा, क, र, यः, सः ।

कर्ममुद्रा समासेन यथा स्थानेषु संस्थयेद् ॥ इति ॥

सर्वतथागतकर्मसमयात् महाकल्पराजाज्ज्ञानमण्डलविधिविस्तरः परिसमाप्तः ॥


अध्याय 22
KARMA-MANDALA-VIDHI-VISTARA

Emanation of deities from samadhi

अथ भगवान् पुनरपि सर्वतथागताभिषेककर्मसमयसंभवाधिष्ठानन्नाम समाधिं समापद्येमां स्वविद्योत्तममभाषत् ॐ सर्वतथागतकर्माभिषेके हूं ॥

अथ वज्रापाणिर्महाबोधिसत्व इमां स्वकर्मसंभवां विद्योत्तमामभाषत् ॐ वज्रहुंकाराभिषेके ॥

अथ वज्रगर्भो बोधिसत्व इमां स्वविद्योत्तमामभाषात् ॐ सर्वाकाशसमताभिषेके हूं ॥

अथ वज्रनेत्रो बोधिसत्व इमां स्वविद्योत्तमामभाषत् ॐ सद्धर्माभिषेकरत्ने ॥

अथ वज्रविश्वो बोधिसत्व इमां स्वविद्योत्तमामभाषत् ॐ विश्वाभिषेके ॥

Delineation of the मण्डल

अथाकाशगर्भो बोधिसत्वो महासत्व इदं स्वकुलकर्ममण्डलमभाषत् ।

अथातः संप्रवक्ष्यामि कर्ममण्डलमुत्तमं ।
वज्रधातुप्रतीकाशं रत्नकर्ममिति स्मृतं ॥ १ ॥

महामण्डलयोगेन सूत्रयेत्सर्वं मण्डलं ।
तस्य मध्ये यथान्यायं बुद्धबिम्बन्निवेशयेत् ॥ २ ॥

महासत्वप्रयोगेण रत्नसत्व्यः समालिखेद् ॥ इति ॥ ॥ ३ ॥

तत्रासां मुद्रा भवन्ति ।
ॐ मणिरत्नपूजाग्र्य ॥ १ ॥

ॐ सर्वार्थसिद्धिवज्ररत्नाभिषेके हूं ॥ २ ॥

ॐ वज्रमणिधारिणिसमये हूं ॥ ३ ॥

ॐ मणिरत्नाकर्षे कर्मसमये हूं ॥ ४ ॥

ॐ मणिरत्नरागरति कर्मपूजे प्रवर्त ॥ ५ ॥

ॐ मणिरत्नसाधुकारपूजासमये ॥ ६ ॥

ॐ महामणिरत्नदृष्ट्याकर्षे ॥ ७ ॥

ॐ मणिरत्नमालापूजे ॥ ८ ॥

ॐ मणिरत्नसूर्यालोकपूजे ॥ ९ ॥

ॐ मणिरत्नध्वजपताकापूजे ॥ १० ॥ ॥

ॐ मणिरत्नाट्टहासपूजे ॥ ११ ॥

ॐ पद्ममणिसमाधिसमये हूं ॥ १२ ॥

ॐ सर्वत्यागानुस्मृतिसमाधिकर्मकारि हूं ॥ १३ ॥

ॐ मणिरत्नतीक्ष्णसमये च्छिन्द हूं ॥ १४ ॥

ॐ मणिरत्नचक्रसमये हूं ॥ १५ ॥

ॐ मणिरत्नभाषे वद वद हूं ॥ १६ ॥

ॐ मणिरत्नवृष्टिकर्मसमये हूं ॥ १७ ॥

ॐ मणिरत्नकर्मणि हूं ॥ १८ ॥

ॐ मणिरत्नकवचे रक्ष हूं ॥ १९ ॥

ॐ मणिरत्नदंष्ट्री खाद खाद हूं ॥ २० ॥

ॐ मणिरत्नकर्ममुष्टि हूं ॥ २१ ॥

ॐ मणिरत्नलास्ये पूजय होः ॥ २२ ॥

ॐ मणिरत्नमालाभिषेके पूजय ॥ २३ ॥

ॐ मणिरत्नगीते पूजय ॥ २४ ॥

ॐ मणिरत्ननृत्ये पूजय ॥ २५ ॥

ॐ मणिरत्नधूपे पूजय ॥ २६ ॥

ॐ मणिरत्नपुष्पे पूजय ॥ २७ ॥

ॐ मणिरत्नदीपे पूजय ॥ २८ ॥

ॐ मणिरत्नगन्धे पूजय ॥ २९ ॥

ॐ मणिरत्नाङ्कुश्याकर्षे ज्जः ॥ ३० ॥

ॐ मणिरत्नपाशे हूं ॥ ३१ ॥

ॐ मणिरत्नस्फोटे वं ॥ ३२ ॥

ॐ मणिरत्नावेशे अः ॥ ३३ ॥

Initiation into the मण्डल

अथात्र कर्ममण्डले यथावद्विधिविस्तरं कृत्वा प्रवेश्यैवं वदेत् । "न त्वया कस्यचिदयं वक्तव्यः । मा ते कर्मावरणधिष्ठितस्यैव मरणं भवेद्" इति, उक्त्वा, मणिकर्मज्ञानानि शिक्षयेत् ।

Mudra

वज्रगर्भमहामुद्रां बध्वा तु समाहितः ।
पूजयं सर्वपूजाभिः सर्वबुद्धान् वशन्नयेत् ॥ १ ॥

बध्वा चैकतराम्मुद्रां समयग्रीं समाधिना ।
पूजयं सर्वबुद्धां हि स्वभिषेकां स लप्स्यति ॥ २ ॥

वज्रगर्भसमाधिं तु भावयं सुसमाहितः ।
पूजयं सर्वबुद्धांस्तु नाशयेज्जगदुत्तमं ॥ ३ ॥

बध्वा कर्ममयीं मुद्रां वज्रगर्भसमाधिना । पूजयं सर्वबुद्धांस्तु सवार्थां लभते क्षणाद् ॥ इति ॥ ॥ ४ ॥

तत्रैषां हृदयानि भवन्ति ।
ॐ रत्नपूजा वशीकुरु ॥

ॐ रत्नपूजासमयाभिषिञ्च ॥

ॐ रत्नपूजाधर्म नाशय पतिं ॥

ॐ रत्नपूजाकर्म सर्वार्थान् मे दद ॥

अथ रहस्यमुद्राकर्मज्ञानं भवति ।

द्वयेन्द्रियसमापत्त्या वज्रगर्भसमाधिना ।
पूजयं सर्वबुद्धांस्तु सर्वलोकं स रागयेद् ॥ इति ॥

ततो यथावन्महामुद्राज्ञानेनोत्तमसिद्धय ॥ इति ॥

अथ समयमुद्राज्ञानं शिक्षयेत् ।

वज्ररत्नं समाधायस्थानेषु संस्थयेत् ।
वज्रकार्यप्रयोगेण यथावदनुपूर्वशः ॥

अथ धर्ममुद्राज्ञानं भवति ।

त्वः, जः, गः, ध्रुः, त्नः, जाः, तुः, सः, मीः, क्ष्णः, नुः, षः, र्मः, क्षः, क्षः, धीः ।

वज्ररत्नां द्विधीकृत्य कर्ममुद्राः समाधयेद् ॥ इति ॥

सर्वतथागतकर्मसमयान् महाकल्पराजात् कर्ममण्डलविधिविस्तरः परिसमाप्तः ॥


अध्याय 22b
EPILOGUE OF THE SARVA-TATHAGATA-KARMA-SAMAYA NAMA MAHA-KALPA-RAJA Mandala IV.5

Emanation of deities from samadhi

अथ भगवान् रत्नमुद्रान् नाम समाधिं समापद्येमां स्वविद्योत्तमामभाषत् ॐ वज्ररत्ने त्रां ॥

अथ वज्रपाणिर्बोधिसत्वो महासत्व इमां स्वमुद्रामभाषत् ॐ वज्रमाले हूं ॥

अथ वज्रगर्भो बोधिसत्वो महासत्व इमां स्वमुद्रामभाषत् ॐ मणिरत्ने ॥

अथ वज्रनेत्रो बोधिसत्वो महासत्व इमां [स्वमु]द्रामभाषत् ॐ धर्मरत्ने ॥

अथ वज्रविश्वो बोधिसत्वो महासत्व इमां स्वमुद्रामभाषत् ॐ विश्वदृष्टि ॥

Delineation of the मण्डल

अथार्याकाश[गर्भो बोधि]सत्व इदं मणिकुलचतुर्मुद्रामण्डलमभाषत् ।

अथातः संप्रवक्ष्यामि मुद्रामण्डलमुत्तमं ।
चतुर्मुद्राप्रयोगेण मण्डलं परिकल्पयेत् ॥

ततो यथावत् प्रवेश्य शिक्षयेत् "न त्वया कस्यचिद् वक्तव्यम्" इति ॥

Jnana

ततो ज्ञानान्युत्पादयेत् ।

वज्ररत्नं समाधाय वज्ररत्नसमाधिना ।
ललाटे तु प्रतिष्ठाप्य सर्वसिद्धिमवाप्नुयाद् ॥ इति ॥

अथात्र हृदयं भवति ।

ॐ वज्ररत्न सर्वाभिषेक सर्वसिद्धयो मे प्रयच्छ रल रल हूं त्रः ॥

Mudra

ततो रहस्यमुद्रां दर्शयेत् ।

पतिं वापि प्रियां वापि स्त्रियं वा पुरुषोऽपि वा ।
ललाटद्वयसन्धानाच्चुम्बं द्वावपि सिध्यतः ॥

तत्रास्याः साधनहृदयं भवति ॐ वज्ररत्नसखि विद्याधर त्वं प्रयच्छ शीघ्रमभिषिञ्चाहि ह ह ह ह त्रः ॥

ततो यथावच्चतुर्मुद्राबन्धं चतुर्विधं शिक्षयेत् ।

तथैव सिद्धय इति ॥

चतुमुद्रामण्डलं ॥


IV.6 Ekamudra-mandala of सर्वार्थसिद्धि

अथाकाशगर्भो बोधिसत्वो महासत्व इदं सर्वार्थसिद्धिं नाम मण्डलमभाषत् ॐ वज्रमणिधर सर्वार्थसिद्धिं मे प्रयच्छ हो भगवन् वज्ररत्न हूं ॥

Delineation of the मण्डल

अथात्र मण्डलं भवति ।

अथातः संप्रवक्ष्यामि महामण्डलमुत्तमं ।
यथावत्तु समालेख्यं सर्वसिद्धेस्तु मण्डलम् ॥ इति ॥

Mudra

अथात्र ज्ञानरहस्यमुद्राज्ञानं शिक्षयेत् ।
रूपादीनां तु कामानामविरक्तः सुखानि तु ।
निर्यातयंस्तु बुद्धेभ्यः कल्पसिद्धिमवाप्नुत ॥ इति ॥

ततश्चतुर्विधं मुद्राज्ञानं शिक्षयेत् ॥

एवं पटादिषु सत्वं मुद्रां वा मण्डलेषु लिख्य साधयेदिति ॥

अथ सर्वतथागताः पुनः समाजमागम्याकाशगर्भं महाबोधिसत्वमनेन साधुकारदानेनाच्छादितवन्तः ।

साधु ते वज्रसत्वाय वज्ररत्नाय साधु ते ।
साधु ते वज्रधर्माय साधु ते वज्रकर्मणे ॥

सुभाषितमिदं सूत्रं वज्रयानमनुत्तरं ।
सर्वतथागतं गुह्यं महायानाभिसंग्रहम् ॥ इति ॥

सर्वतथागततत्वसंग्रहात्सर्वतथागतकर्मसमयो नाम महाकल्पराजः परिसमाप्तः ॥


अध्याय 23
SARVA-KALPOPAYA-SIDDHI-VIDHI-VISTARA-TANTRA

अथ वज्रपाणिर्महाब्रोधिसत्व इदं सर्वतथागतमहातत्वविधिविस्तरतन्त्रमुदाजहार । तत्र प्रथमं तावत् महामुद्रोत्तमसिद्धितन्त्रं भवति ।

तथागतमहामुद्रां बध्वा सर्वखधातुषु ।
बुद्धबिम्बानधिष्ठाय स्वहृदिस्तु प्रवेशयेत् ॥ १ ॥

इहैव जन्मनि वरं यदीच्छेदुत्तमं शिवं ।
बुद्धत्वं तेन कामेदं न चेत् सिद्धिर्यथोपरि ॥ २ ॥

महामुद्रां समाधाय महातत्वमुदाहरन् ।
पदशः सर्वमेवाहं भावयेत्सत्वयोगतः ॥ १ ॥

इहैव जन्मनि पदं यदीच्छेत् सौरित्वं शुभं ।
आत्मनस्तेन कामेदं न चेत्सिद्धिर्यथोपरि ॥ २ ॥

अथ समयमुद्रोत्तमसिद्धितन्त्रं भवति ।

यथा वज्रधरः सिद्धस्तथाहमिति भावयन् ।
बुद्धसौरित्वमाप्नोति न चेत्सिद्धिर्यथोपरी- ॥ ति ॥

अथ धर्ममुद्रोत्तमसिद्धितन्त्रं भवति ।

स्वभावशुद्ध्या वाचा वै सर्वधर्मा इति ब्रूवन् ।
बुद्धसौरित्वमाप्नोति न चेत्सिद्धिर्यथोपरी- ॥ ति ॥

अथ कर्ममुद्रोत्तमसिद्धितन्त्रं भवति ।
सर्वस्य सर्वशुद्धित्वात्सर्वकर्माणि शोधयन् ।
बुद्धसौरित्वमाप्नोति न चेत्सिद्धिर्यथोपरी- ॥ ति ॥

तथागतकुलोत्तमसिद्धयः ॥

अथ वज्रपाणिः स्वकुलोत्तमसिद्धितन्त्रमुदाजहार ।

बुद्धाज्ञां सर्वसत्वार्थात् सर्वसिद्धिप्रयोगतः ।
साधयंस्तु महामुद्रां बुद्धत्वमिह जन्मनी- ॥ ति ॥

अथ समयोत्तमसिद्धितन्त्रं भवति ।

यथा वज्रधरः सिद्धिस्तथाहमिति भावयन् ।
महामुद्राप्रयोगेण क्षणात्सौरित्वमाप्नुत ॥ इति ॥

अथ धर्ममुद्रोत्तमसिद्धितन्त्रं भवति ।
अनक्षरेषु धर्मेषु प्रपञ्चो न हि विद्यते ।
इमं वदंस्तु धर्माग्रीं भावयन् सौरितां ब्रजेद् ॥ इति ॥

अथ कर्ममुद्रोत्तमसिद्धितन्त्रं भवति ।
यत्करोति हि कर्म वै शुभं वा यदि वाशुभं ।
निर्यातयं जिनेष्वस्तु क्षणात्सौरितां व्रजेद् ॥ इति ॥

अथ वज्रपाणिर्महाबोधिसत्वः पद्मकुलोत्तमसिद्धितन्त्रमुदाजहार । तत्र प्रथमन्तावन्महामुद्रोत्तमसिद्धितन्त्रं भवति ।

रागः शुद्धः स्वभावेन तीर्थिकैरवसन्यते ।
तस्याविरागो धर्मोऽस्मिं महायाने तु सिध्यती- ॥ ति ॥

अथ समयमुद्रोत्तमसिद्धितन्त्रं भवति ।

अभ्यसंस्तु महामैत्रीन् समाधिदृढयोगतः ।
स्फरेद्विधिवद्योगात् क्षणात्सौरित्वमाप्नुयाद् ॥ इति ॥

अथ धर्ममुद्रोत्तमसिद्धितन्त्रं भवति ।

स्वभावशुद्धः संराग इति ब्रूयादिमं नयं ।
रागपारमिताप्राप्ते क्षणात्सौरित्वमाप्नुयाद् ॥ इति ॥

अथ कर्ममुद्रोत्तमसिद्धितन्त्रं भवति ।

दर्शनस्पर्शनाभ्यां तु श्रवणस्मरणेन वा ।
स्यामहं सर्वसत्वानां सर्वदुःखान्तकस्थितिर् ॥ इति ॥

अथ वज्रपाणिर्महाबोधिसत्वो मणिकुलोत्तमसिद्धितन्त्रमुदाजहार । तत्र महामुद्रोत्तमसिद्धितन्त्रं भवति ।

सर्वबुद्धाभिषेकोऽहं भवेयं वज्रगर्भवत् ।
भावयं विभावयन् वै क्षणात्सौरित्वमाप्नुत ॥ इति ॥

अथ समयमुद्रोत्तमसिद्धितन्त्रं भवति ।
भवेयं सर्वसत्वानां सर्वाशापरिपूरकः ।
आकाशगर्भसदृशः क्षणात्सौरित्वमाप्नुत ॥ इति ॥

अथ धर्ममुद्रोत्तमसिद्धितन्त्रं भवति ।
आत्मनस्तु समुत्सृज्य धनदानान् सुहर्षितः ।
वदन् धर्ममयीं मुद्रामिह सौरित्वमाप्नुत ॥ इति ॥

अथ कर्ममुद्रोत्तमसिद्धितन्त्रं भवति ।
दारिद्राणां हितार्थाय धनोत्पादने तत्परः ।
उद्योगात्सौरितां याति न चेत्सिद्धिर्यथोपरी- ॥ ति ॥

सर्वकुलमुद्राणां बुद्धबोधिसत्वोत्तमसिद्ध्यवाप्तिविधिविस्तरः ॥

अथ वज्रपाणिर्महाबोधिसत्वः पुनरपि सर्वतथागत[समयसि]द्धितन्त्रमुदाजहार । तत्रायं सर्वतथागतसमयसिद्धितन्त्रं भवति ।

यस्य रागसमापत्तिस्तस्य रागेण शोधयेत् ।
इति बुद्धन्महामुद्रा ज्ञानस्य समयः स्मृतः ॥

अथ तथागतकुलसमयसिद्धितन्त्रं भवति ।

कामानामविरागस्तु समयः सुमहानयं ।
तथागतकुलशुद्धोऽनातिक्रम्यो जिनैरपि ॥

अथ वज्रकुलसमयसिद्धितन्त्रं भवति ।

अक्रोधस्यापि सत्वार्थान्महाक्रोधप्रदर्शनं ।
महावज्रकुले त्वेष समयो दुरतिक्रमः ॥

अथ पद्मकुलसमयसिद्धितन्त्रं भवति ।

स्वभावशुद्धिज्ञानेन तस्य कार्यं स करोति ।
महापद्मकुले त्वेष समयो दुरतिक्रमः ॥

अथ रत्नकुलसमयसिद्धितन्त्रं भवति ।

अल्पत्वे वा बहुत्वे वा यथाभिरुचितं पुनः ।
अवश्यो दिवसः कार्यो दानेन समयो ह्ययम् ॥ इति ॥

सर्वकुलसमयविधिविस्तरतन्त्रं ॥

अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतधर्ममुद्राज्ञानसिद्धितन्त्रमुदाजहार । तत्रेयं सर्वतथागतधर्मसिद्धितन्त्र भवति ।

बुद्धो धर्म इति ख्यात इत्युक्त्वा धर्मताक्षरं ।
बुद्धधर्ममहामुद्राज्ञानस्य परमनयं ॥

तत्रेदं तथागतकुलधर्मसिद्धितन्त्रं ।
रागाच्छ्रद्धतरन्नास्ति धर्मः सर्वसुखप्रदः ।
तथागतकुलेप्येष धर्मः सिद्धिकरः परः ॥

तत्रेदं वज्रकुलधर्मसिद्धितन्त्रं ।

बुद्धाज्ञाच्छोधनार्थाद्वा सत्वत्राणार्थतस्तथा ।
अक्रोधोऽपि हि संदुष्टान्मारयंच्छुद्धिमाप्नुते ॥

तत्रेदं पद्मकुलधर्मसिद्धितन्त्रं ।

अलिप्तं सलिलैः पद्मं तथा रागो न दुष्यति ।
इति ब्रूवन्नकार्याणि कुर्वं पापैर्न लिप्यते ॥

तत्रेदं मणिकुलसिद्धितन्त्रं ।

दानात्समो न धर्मोऽस्ति प्रतिपत्त्या ब्रवीति हि ।
महामणिकुले धर्मः न चेत्सिद्धिर्यथोपरी- ॥ ति ॥

सर्वकुलधर्मसिद्धिविधिविस्तरतन्त्रम् ॥

अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतकुलकर्मसिद्धितन्त्रमुदाजहार । तत्रेदं तथागतकर्मसिद्धितन्त्रं भवति ।

बुद्धत्वं सर्वसत्वानां बोधिसत्वत्वमेव च ।
यथावद्विनयं चैव कर्ममुद्राग्रसिद्धिदा ॥

तत्रेदं तथागतकुलकर्मसिद्धितन्त्रं भवति ।

चतुर्विधाभिः पूजाभिः सदा योगाच्चतुर्विधं ।
चतुःकालयोगेन कुर्वन् कर्माणि साधयेत् ॥

तत्रेदं वज्रकुलकर्मसिद्धितन्त्रम् ।

दुष्टसत्वोपघाताय यद्यत्कार्य करोति सः ।
कर्मवज्रकुलेऽप्येष सर्वसिद्धिप्रदायकः ॥

तत्रेदं पद्मकुलकर्मसिद्धितन्त्रं ।

भयात्मनामभयदो यथावद्विनयस्तथा ।
एतत्पद्मकुले कर्म बुद्धसिद्धिप्रदायकं ॥

अथ मणिकुलकर्मसिद्धितन्त्रं ।

अभिषेकस्तथा दानं सर्वाशापरिपूरयः ।
बुद्धानां देहिनां चैव कर्म सर्वार्थसाधकम् ॥ इति ॥

सर्वकुलकर्मसिद्धिविधिविस्तरतन्त्रं ॥

अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतकुलधर्मतामुद्राज्ञानतन्त्रमुदाजहार ।

तत्रेदं तथागतधर्मताज्ञानसिद्धितन्त्रं भवति ।

वज्रसत्वसमाधिस्तु बुद्धानां धर्मता स्मृता ।
एतद्बुद्धस्य बुद्धत्वं न बुद्धो भवतेऽन्यतः ॥

तत्रेदं तथागतकुलधर्मताज्ञानसिद्धितन्त्रं ।

भावयंस्तु महामुद्रां साधयेत्सर्वसिद्धयः ।
तथागतकुलेऽप्येष धर्मतोत्तमसिद्धिदा ॥

तत्रेदं वज्रकुलधर्मताज्ञानसिद्धितन्त्रं ॥

बद्धाभिः समयाग्र्याभिः सर्वकर्माणि साधयेत् ।
महामुद्राप्रयोगेण वज्रसिद्धिमवाप्नुयात् ॥

तत्रेदं पद्मकुलधर्मताज्ञानसिद्धितन्त्रं ।

धर्ममुद्राप्रयोगेण धर्ममुद्राः प्रवर्तयेत् ।
अनया साधयं धर्मान् धर्मतावज्रधर्मिणः ॥

तत्रेदं मणिकुलधर्मताज्ञानसिद्धितन्त्रं ।

कर्ममुद्राप्रयोगेण कर्मवज्रं हृदि स्थितं ।
भावयं धर्मतामेतावाप्नोति स्वकर्मताम् ॥ इति ॥

सर्वकुलधर्मताज्ञानसिद्धितन्त्रं ॥

अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतकुलज्ञानसिद्धितन्त्रमुदाजहार । तत्रेदं तथागतज्ञानसिद्धितन्त्रं भवति ।

वज्रसत्वसमाधिस्थः चन्द्रवज्रप्रयोगतः ।
यथा वर्णौ तु तौ वेत्ति तथा लोकं तु वेत्ति सः ॥ १ ॥

शुद्धे शुद्धमिति ज्ञेयं पाण्डरे तु प्रभास्वरं ।
रक्ते रक्तंतरे क्रुद्धं यादृग्वर्ण तदात्मकं ॥ २ ॥

तत्रेदं तथागतकुलज्ञानसिद्धितन्त्रं ।

महामुद्रां समाधाय चन्द्रमण्डलसप्रभां ।
स्वयं कायं यथा वेत्ति तथा वेद्यं जगन्मनः ॥

तत्रेदं वज्रकुलज्ञानसिद्धितन्त्रं ।

आकाशे वान्यदेशे क्रुद्धः सन्मण्डलानि तु ।
यादृशानि तु पश्येद्वै विज्ञेयन्तादृशन्मनः ॥

तत्रेदं पद्मकुलज्ञानसिद्धितन्त्रं ।

सूक्ष्ममक्षरपङिक्तर्वा पश्यन्नाकाशभूमिषु ।
यादृग्वर्ण समासेन वेत्ति चित्तं स तादृशं ॥

तत्रेदं मणिकुलज्ञानसिद्धितन्त्रं ।

सर्वलोकं निरीक्षन् वै प्रतिभासो हि यादृशः ।
पश्यते तादृशं चैव जगच्चित्तं तु लक्षयेद् ॥ इति ॥

एतमेव समापत्त्यो गमनागमनानि तु ।
कुर्वन्त्यश्च भ्रमन्त्यो वा यथा पश्येत्तथागमः ॥ १ ॥

यस्य यस्य च सत्वस्य समापत्त्या तु चिन्तयेत् ।
तस्य तस्य तथा चैव सर्वचित्तानि बुध्यती- ॥ २ ॥

त्याह भगवान् वज्रधरः ॥

सर्वकुलज्ञानविधिविस्तरतन्त्रं ॥

अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतकुलसिद्धिज्ञानतन्त्रमुदाजहार । तत्रेदं तथागतसिद्धिज्ञानतन्त्रं ।

सत्वाधिष्ठानयोगेन बुद्धबिम्बात्मभावना ।
अनेन ज्ञानयोगेन बुद्धसिद्धिमवाप्नुयात् ॥

तत्रेदं तथागतकुलसिद्धिज्ञानतन्त्रं ।

आकाशे वाऽन्यदेशे वा श्वेतपीताभमण्डलान् ।
स्वमुद्रासत्वमात्मानं साक्षादिव स पश्यति ॥

तत्रेदं वज्रकुलसिद्धिज्ञानतन्त्रं ।

तादृशेष्वेव बिम्बेषु मध्ये श्यामं निर्यच्छति ।
सिद्धिर्वज्रकुलस्याग्रा भवेच्छीघ्रं यदिच्छति ॥

तत्रेदं पद्मकुलसिद्धिज्ञानतन्त्रं ।

तान्येवाकाशनीलानि पद्माकाराणि पश्यति ।
महापद्मकुले विद्यासिद्धय संभवन्ति हि ॥

तत्रेदं मणिकुलसिद्धिज्ञानतन्त्रं ।

आकाशे वान्यदेशे वा त एवाकाशनिर्मलाः ।
स्फुरन्तो रश्मिमण्डानि पश्यत् सि[द्धिमवाप्नुया]द् ॥ इति ॥

वज्रसत्वादयः सत्वाचश्चन्द्रमण्डलसप्रभाः ।
प्राग् दर्शयन्ति चात्मानं सिद्धिकाले स्वरूपतः ॥

सर्वकुल[सिद्धिज्ञानवि]धिविस्तरतन्त्रं ॥

अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतकुलाभिज्ञासिद्धिज्ञानमुद्रातन्त्रमुदाजहार ।

तत्रेदं तथागता[भिज्ञासिद्धिज्ञान] तन्त्रं ।

वज्रसत्वसमाधिस्थः सर्वकाये तथागतान् ।
भावयन् बोधिसत्वांश्च दर्शयेत्कायतस्तथा ॥

तत्रेदं तथागतकुलाभिज्ञासिद्धि[तन्त्रं] ।

वज्रसत्वमहामुद्रां बध्वा तु सुसमाहितः ।
पञ्चाभिज्ञामवाप्नोति विधिनानेन साधकः ॥

तत्रेदं दिव्यचक्षुज्ञानं भवति ।

महामुद्रां समाधाय चक्षुर्विज्ञानमावहेत् ।
तेन यच्चिन्तयेत् किंचित् सुदूरापि पश्यती- ॥

त्याह भगवान् वज्रसत्वः ॥

महामुद्रां समाधाय श्रोत्रविज्ञानमावहेत् ।
तेन यच्चिन्तयेत्कार्यं सुदूरस्थं शृणोति ही- ॥

त्याह भगवान् वज्रधरः ॥

महामुद्रां समाधाय मनोविज्ञानमावहेत् ।
तेन य सत्वमुद्वीक्षेत् चित्तं जानाति तस्य सः ॥ १ ॥

महामुद्रां समाधाय आत्मनो वा परस्य वा ।
मनसा पश्यते रूपं यतो जन्म स आवहेद् ॥ २ ॥

इत्याह भगवान् वज्रपाणिः ॥

अथ ऋद्धिविधिज्ञानसिद्धिर्भवति ।

महामुद्रां समाधाय यां यां ऋद्धिमभीष्यति ।
यत्र वा तत्र वा तद्वै संदर्शयेत्समाधिने- ॥

त्याह भगवान् महाबोधिचित्तः ॥

तत्रेदं वज्रकुलाभिज्ञासिद्धितन्त्रं ॥

त्रिलोकविजयाग्रीं वै बध्वा तु सुसमाहितः ।
पञ्चाभिज्ञानवाप्नोति विधिनानेन साधकः ॥ १ ॥

क्रुद्धः सः सर्वकार्याणि यथावदनुपूर्वशः ।
दिव्यचक्ष्वादियोगेन सर्वाभिज्ञो भवेत् क्षणाद् ॥ २ ॥

इत्याह भगवान् वज्रसत्वः ॥

तत्रेदं पद्मकुलाभिज्ञासिद्धितन्त्रं ।

जगद्विनयमुद्राग्रीं सन्धाय सुसमाहितः ।
पञ्चाभिज्ञामवाप्नोति विधिनानेन साधकः ॥ १ ॥

रागसक्तस्तु विधिवद्यथानुक्रमतस्तथा ।
दिव्यचक्ष्वादियोगेन सर्वाभिज्ञो भविष्यति- ॥ २ ॥

त्याह भगवान् लोकेश्वरः ॥

तत्रेदं मणिकुलाभिज्ञासिद्धितन्त्रं ।

सर्वार्थसिद्धिसन्मुद्रां बध्वा तु सुसमाहितः ।
पञ्चाभिज्ञामवाप्नोति विधिनानेन साधकः ॥ १ ॥

बुद्धपूजां प्रकुर्वन्वै यथानुक्रमतस्तथा ।
दिव्यचक्ष्वादियोगेन पञ्चाभिज्ञां स पश्यती- ॥

त्याह भगवानाकाशगभः ॥

सर्वकुलाभिज्ञाज्ञानविधिविस्तरतन्त्रः ॥

अथ भगवान् वज्रपाणिर्महाबोधिसत्वः सर्वतथागतकुलसत्यसिद्धितन्त्रमुदाजहार । तत्र तथागतसत्यसिद्धितन्त्रं भवति ।

सत्यानुपरिवर्तिन्या वाचा तु शपथक्रिया ।
पालयंस्तु महासत्यं लघु बुद्धत्वमाप्नुयाद् ॥

इत्याह भगवान् बुद्धः ॥

तत्रेदं तथागतकुलसत्यसिद्धितन्त्रं ।

समये शपथा कार्या तथागतकुलोद्गता ।
पालयन् वज्रसत्यं तु सिद्धिमग्र्यामवाप्नुत ॥

इत्याह भगवान् वज्रधरः ।

तत्रेदं वज्रकुलसत्यसिद्धितन्त्रं ।

वज्रधार्यासु शपथां कृत्वा तु दुरतिक्रमान् ।
पालयेत्सत्यमेतद्धि यदिच्छेत् सिद्धिमुत्तमाम् ॥

इत्याह भगवान् वज्रधरः ।

तत्रेदं पद्मकुलसत्यसिद्धितन्त्रं ।

सद्धर्मे शपथाङ्कृत्वा महापद्मकुलोत्तमं ।
पालयेत्सत्यसमयं यदिच्छेत् सिद्धिमुत्तमाम् ॥

इत्याह भगवान् [वज्रध]र्मः ॥

तत्रेदं मणिकुलसत्यसिद्धितन्त्रं ।

बुद्धपूजासु शपथां कृत्वा तु दुरतिक्रमान् ।
पालयेदुत्तमं सत्यमभिषेकं स लप्स्यती ॥

[त्याह भगवान्] बुद्धपूजः ॥

सर्वकुलशपथसिद्धितन्त्रं ॥

अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतसमयतत्वसिद्धितन्त्रमुदाजहार । तत्रेदं सर्वतथागतसमयतत्वसिद्धितन्त्रं भवति ।

समयस्त्वमिति प्रोक्ते सर्वमुद्रान् कुलेष्वपि ।
स्वयं बध्वा दृढं यान्ति ततः पश्चादसाधिता ॥

इत्याह भगवान् महासमयसत्वः ॥

तत्रेदं तथागतकुलसमयतत्वसिद्धितन्त्रं ।

सुरतस्त्वमिति प्रोक्ते सर्वमुद्रा असाधिताः ।
स्वयं बध्वा तु सिध्यन्ते तत्वचोदान् महात्मन ॥

इत्याह भगवान् महासमयसत्वः ॥

तत्रेदं वज्रकुलसमयतत्वसिद्धितन्त्रं ।

एकहुंकारमात्रेण सर्वमुद्राः समासतः ।
स्वयं बन्धेद् वन्धयेद्वापि स्वयं वापि परस्य वे- ॥ ति ॥

तत्रेदं पद्मकुलसमयतत्वसिद्धितन्त्रं ।

सर्वशुद्ध इति प्रोक्ते स्वतो वापि परस्य वा ।
स्त्रीसङ्गाद्यास्तु संयोगा न मोक्षं यान्ति सर्वश ॥ इति ॥

तत्रेदं मणिकुलसमयतत्वसिद्धितन्त्रं ॥

ओंकारेणैव सिध्यन्ते सर्वमुद्राः समासतः ॥

सर्वलोकेषु चैवाग्र्याः पूजाश्चैव स्वयंभुवाम् ॥ इति ॥

सर्वकुलसमयतत्वसिद्धिमुद्राविधिविस्तरतन्त्रं ॥

अथ भगवान् वज्रपाणिर्महाबोधिसत्वः सर्वतथागतसिद्धिमुद्रातन्त्रमुदाजहार । तत्र सर्वतथागतसिद्धितन्त्रं भवति ।

बुद्धमुद्रां तु संधाय तथागतमनुस्मरन् ।
साधयन् सिध्यते शीघ्रं बुद्धबोधिरपि स्थिरा ॥

तत्रेदं तथागतकुलसिद्धितन्त्रं ।

वज्रसत्वमहामुद्रां बध्वा तु परिभावयन् ।
पुरतो वज्रसत्वं च सिद्धिः शीघ्रतरा भवेत् ॥

तत्रेदं वज्रकुलसिद्धितन्त्रं ।

बध्वा तु समयाग्रीं वै वज्रसत्वसमाधिना ।
भावयन् वज्रसत्वं च सिद्धिस्तु द्विगुणा भवेत् ॥

तत्रेदं पद्मकुलसिद्धितन्त्रं ।

बध्वा धर्ममयीं मुद्रां लोकेश्वरसमाधिना ।
भावयन् लोकनाथं च सिद्धिस्तु द्विगुणा भवेत् ॥

तत्रेदं मणिकुलसिद्धितन्त्रं ।

कर्ममुद्रां समाधाय वज्रगर्भसमाधिना ।
भावयन् वज्रगर्भं च सिद्धिस्तु द्विगुणा भवेत् ॥

सर्वकुलसिद्धिविधिविस्तरतन्त्रं ॥

अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतसर्वसिद्धिसाधनतन्त्रमुदाजहार । तत्रेदं सर्वतथागतसिद्धिसाधनतन्त्रं ।

आत्मनो वाथ परतो बुद्धानुस्मृतिसाधकः ।
बध्वा वै सर्वमुद्रास्तु ततः सिध्यन्ति तत्क्षणाद् ॥

इत्याह भगवान् बुद्धः ॥

तत्रेदं तथागतकुलादिसर्वसिद्धिसाधनतन्त्रं ।

साधयेत्सर्वमुद्रास्तु कामोऽहमिति भावयन् ।
वज्रजापप्रयोगेण सर्वसिद्ध्यग्रसाधनम् ॥

इत्याह भगवान् वज्रसत्वः ॥

तत्रेदंवज्रकुलसर्वसिद्धिसाधनतन्त्रं ।

वज्रबिम्बं स्वमात्मानं भावयन् [सुसमाहितः] ।
बध्नीयात्सर्वमुद्रास्तु सिद्धिं यान्ति हि तत्क्षणाद् ॥

इत्याह भगवान् सर्वतथागतवज्रः ॥

तत्रेदं पद्मकुलसर्वसिद्धिसाधनतन्त्रं ।

पद्मबिम्बं स्व[मात्मानं] भावयन् स्वयमात्मना ।
सर्वज्ञानमयी सिद्धिर्महापद्मकुले स्मृते- ॥

त्याह भगवानवलोकितेश्वरः ॥

तत्रेदं मणिकुलसर्वसिद्धिसाधनतन्त्रं ।

भावयेत्स्वयमात्मानं मणिरत्नंकरो ज्वालं ।
सर्वपूजामयी सिद्धिर्महामणिकुले स्मृते- ॥

त्याह भगवानाकाशगर्भः ॥

सर्वकुलोत्तमसिद्धिविधिविस्तरतन्त्रः ॥

अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागताधिष्ठानमुद्रासिद्धितन्त्रमुदाजहार । तत्रेदन्तथागताधिष्ठानसिद्धितन्त्रं ।

वज्रधात्वीश्वरीं मुद्रां बध्वा तु सुसमाहितः ।
हृद्यूर्णायां गले मूर्ध्नि स्थाप्य बुद्धैरधिष्ठ्यत् ॥

इत्याह भगवान् बुद्धः ॥

तत्रेदं तथागतकुलाधिष्ठानसिद्धितन्त्रं भवति ।

सत्ववज्रीन् दृढीकृत्य वज्रसत्वसमाधिना ।
हद्यूर्णायां तथा कण्ठे मूर्ध्नि स्थाप्याधितिष्ठ्यते ।
इत्याह भगवान् वज्रसत्वः ॥

तत्रेदं वज्रकुलाधिष्ठानसिद्धितन्त्रं ।

वज्रहूंकारमुद्रां वै बध्वा तु सुसमाहितः ।
हृद्यूर्णाकण्ठमूर्धस्था समाधिष्ठानि तत्क्षणाद् ॥

इत्याह भगवान् वज्रनाथः ॥

तत्रेदं पद्मकुलाधिष्ठानसिद्धितन्त्रं ।

वज्रपद्मां दृढीकृत्य लोकेश्वरसमाधिना ।
हृद्यूर्णाकण्ठमूर्धस्था स्वधिष्ठापय कल्पत ॥

इत्याह भगवानवलोकितेश्वरः ।

तत्रेदं मणिकुलाधिष्ठानसिद्धितन्त्रं ।

महावज्रमणिं बध्वा वज्रगर्भसमाधिना ।
हृद्यूर्णाकण्ठमूर्धस्था स्वधिष्ठानाय कल्पयेद् ॥

इत्याह भगवान् वज्रगर्भः ॥

सर्वकुलाधिष्ठानविधिविस्तरतन्त्रः ॥

अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागताभिषेकमुद्रासिद्धितन्त्रमुदाजहार । तत्रेदं तथागताभिषेकसिद्धितन्त्रं ।

सज्ररत्नां समाधाय ललाटे तु प्रतिष्ठितां ।
कृत्वा तु वज्ररत्नेभ्यामभिषिक्तो जिनेर्भवेद् ॥

इत्याह भगवान् बुद्धः ॥

तत्रेदं तथागतकुलाभिषेकसिद्धितन्त्रं ।

वज्रधात्वीश्वर्याद्याभिर्बुद्धमुद्राभिरग्रतः ।
समारभ्य चतुःपार्श्वमालया त्वभिषिच्यती- ॥ ति ॥

तत्रेदं वज्रकुलाभिषेकसिद्धितन्त्रं ।

वज्राभिषेकमालां तु सन्धाय च ललाटगान् ।
तया मालाभिषेकेण वज्रिणा सोऽभिषिच्यती- ॥ ति ॥

तत्रेदं पद्मकुलाभिषेकसिद्धितन्त्रं ।

धर्मवज्रीं समाधाय पुरः शीर्षे प्रतिष्ठितां ।
तयाभिषिक्तो बुद्धैस्तु लोकेश्वर्येऽभिषिच्यती- ॥

त्याह भगवानवलोकितेश्वरः ॥

तत्रेदं मणिकुलाभिषेकसिद्धितन्त्रं ।

वज्ररत्नाङ्कुरां बध्वा ललाटे तु प्रतिष्ठितां ।
तयाभिषिक्तो बुद्धैस्तु पूजैश्वर्येऽभिषिच्यती- ॥

त्याह भगवानाकाशगर्भः ॥

सर्वकुलाभिषेकसिद्धितन्त्रं ॥

अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतसमाधिसिद्धितन्त्रमुदाजहार । तत्रेदं सर्वतथागतसमाधिसिद्धितन्त्रं ।

आहारतः सर्वबुद्धानां मुद्रां बध्वा समाहितः ।
जपन् वै मन्त्रविद्यास्तु शीघ्रं सिद्धिमवाप्नुते- ॥

त्याह भगवान् बुद्धः ॥

तत्रेदं तथागतकुलसमाधिसिद्धितन्त्रं ।

समाधिर्वज्रधर्मेण सत्वाधिष्ठानयोगतः ।
हृन्मुद्रामन्द्रविद्यास्तु शीघ्रं सिध्यन्ति जापत ॥

इत्याह भगवान् बुद्धसमाधिः ॥

तत्रेदं वज्रकुलसमाधिसिद्धितन्त्रं ।

रागात्त्वमसि संभूतः क्रोधोऽहमिति भावयन् ।
हृन्मुद्रामन्त्रविद्यानामाशुसिद्धिकरं भवेद् ॥

इ[त्याह भगवा]न् वज्रधरः ॥

तत्रेदं पद्मकुलसमाधिसिद्धितन्त्रं ।

मैत्रीस्फरणतायोगः साधयेद्धृदयादयः ।
लोकेश्वरकुले जापः सिद्धिं शीघ्रं[तु ददाति- ॥

त्या]ह भगवानार्यावलोकितेश्वरः ॥

तत्रेदं मणिकुलसमाधिसिद्धितन्त्रं ।

सर्वाकाशसमाधिस्तु भावयन् सुसमाहितः ।
हृन्मुद्रामन्त्रविद्यासु साधयन् सर्वगो भवेद् ॥

इत्याह भगवानाकाशगर्भः ॥

सर्वकुलसमाधिसिद्धिविधिविस्तरतन्त्रं ॥

अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतपूजामुद्रासिद्धितन्त्रमुदाजहार । तत्रेदं तथागतपूजासिद्धितन्त्रं ।

पूर्वं धूपादिभिः पूजां कृत्वा तु सुसमाहितः ।
ततस्तु सिद्धिकामो वै साधयन् सिद्धिमाप्नुयाद् ॥

इत्याह भगवान् बुद्धः ॥

तत्रेदं तथागतकुलपूजासिद्धितन्त्रं ।

गुह्यपूजाचतुष्ठेन पूजागुह्यमुदाहरन् ।
आत्मनिर्यातनाद्यैवां पूजां कुर्वस्तु सिध्यती- ॥

त्याह भगवान् वज्रसत्वः ॥

तत्रेदं वज्रकुलपूजासिद्धितन्त्रं ।

क्रोधवज्रमहापूजां क्रोधगुह्यमुदाहरन् ।
क्रोधमुष्टि प्रकुर्वन् वै शीघ्रं सिध्येत् कुलं ममे- ॥

त्याह भगवान् वज्रधरः ॥

तत्रेदं पद्मकुलपूजासिद्धितन्त्रं ।

गंभीरोदारसूत्रान्तप्रयोगसमुदाहृताः ।
निर्यातयन्मनोवाग्भिः शीघ्रं सिद्धिमवाप्नुयाद् ॥

इत्याह भगवानार्यावलोकितेश्वर ।

तत्रेदं मणिकुलपूजासिद्धितन्त्रं ।

च्छत्रध्वजपताकाभिः राजपूजाभिरर्चयन् ।
सिध्यते मणिकुलं सर्वददन् दानानि वा सिध्यती- ॥

त्याह भगवान् वज्रगर्भः ॥

स्वाधिष्ठानादिसंयुक्तो वज्रसत्वसमो भवेत् ।
चतुर्भिः प्रातिहार्यस्तु वज्रविश्वं समाधयेत् ॥

सर्वसिद्धय इत्याह भगवान् वज्रसत्वः ॥

सर्वकुलाधिष्ठानाभिषेकसमाधिपूजासिद्धिविधिविस्तरतन्त्रं ॥

अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागता[भिज्ञाज्ञा]नसिद्धितन्त्रमुदाजहार । तत्रेदं तथागताभिज्ञाज्ञानसिद्धितन्त्रं भवति ।

काये बुद्धसमाधिस्तु स्वभिज्ञा सौगती त्वियं ।
तस्याः सुप्रति[वेदित्य]बौद्धीं सिद्धिमवाप्नुयाद् ॥

इत्याह भगवान् बुद्धः ॥

तत्रेदं तथागतकुलाभिज्ञाज्ञानसिद्धितन्त्रं ।

दिव्यचक्ष्वादयोऽभिज्ञा भावयन् सुसमाहितः ।
पञ्चाभिज्ञः स्वयंभूत्वा वज्रसत्वत्वमाप्नुयाद् ॥

इत्याह भगवान् वज्रसत्वः ॥

तत्रेदं वज्रकुलाभिज्ञाज्ञानसिद्धितन्त्रं ।

क्रोधाभिज्ञां समुत्पाद्य साधयन् सुसमाहितः ।
पञ्चाभिज्ञः स्वयंभूत्वा परां सिद्धिमवाप्नुयाद् ॥

इत्याह भगवान् वज्रधरः ॥

तत्रेदं पद्मकुलाभिज्ञाज्ञानसिद्धितन्त्रं ।

रागाभिज्ञां समुत्पाद्य भावयन् सुसमाहितः ।
पञ्चाभिज्ञः स्वयंभूत्वा शुद्धां सिद्धिमवाप्नुयाद् ॥

इत्याह भगवान् वज्रनेत्रः ॥

तत्रेदं मणिकुलाभिज्ञाज्ञानसिद्धितन्त्रं ।

पूजाभिज्ञां समुत्पाद्य भावयन् सुसमाहितः ।
पञ्चाभिज्ञः स्वयंभूत्वा सर्वसिद्धिर्वरा भवेद् ॥

इत्याह भगवान् वज्रधरः ॥

सर्वकुलाभिज्ञाज्ञानसिद्धिविधिविस्तरतन्त्रं ॥

अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतबोधिज्ञानसिद्धितन्त्रमुदाजहार । तत्रेदं तथागतबोधिज्ञानसिद्धितन्त्रं ।

वज्रसत्वसमाधिस्थो बुद्धानुस्मृतिमान् स्वयं ।
बुद्धबोधिरियं ज्ञानं भावयन् सिद्धिमाप्नुयाद् ॥

इत्याह भगवान् बुद्धः ॥

तत्रेदं तथागतकुलामहाबोधिज्ञानसिद्धितन्त्रं ।

वज्रसत्वसमाधिस्थो महामुद्रां तु भावयन् ।
महाबोधिरियं ज्ञानं भावयन् सिद्धिमाप्नुयाद् ॥

इत्याह भगवान् महाबोधिसत्वः ॥

तत्रायं वज्रकुलमहाबोधिज्ञानसिद्धितन्त्रः ।

क्रोधराजसमाधिस्थः समयाग्र्या करग्रहः ।
महाबोधिरियं ज्ञानं भावयन् सिद्धिमाप्नुयाद् ॥

इत्याह भगवान् वज्रधरः ॥

तत्रेदं पद्मकुलमहाबोधिज्ञानसिद्धितन्त्रं ।

लोकेश्वरसमाधिस्थो धर्ममुद्रां जपंस्तथा ।
महाबोधिरियं ज्ञानं भावयन् सिद्धिमाप्नुयाद् ॥

इत्याह भगवानवलोकितेश्वरः ॥

तत्रेदं मणिकुलमहाबोधिज्ञानसिद्धितन्त्रं ।

वज्रगर्भसमाधिस्थः कर्ममुद्रा सुकर्मकृत् ।
महाबोधिरियं ज्ञानं भावयन् सिद्धिमाप्नुयाद् ॥

इत्याह भगवानाकाशगर्भः ॥

सर्वकुलमहाबोधिज्ञानसिद्धिविधिविस्तरतन्त्रः ॥

अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतानुरागणसिद्धितन्त्रमुदाजहार । तत्रेदं तथागतानुरागणसिद्धितन्त्रं ।

सत्वार्थं च प्रकुर्वन् वै बुद्धबोध्यर्थिकः स्वयं ।
बुद्धानुस्मृतिमां भूत्वा सर्वबुद्धानुरागणम् ॥

इत्याह भगवान् वज्ररागः ॥

तत्रेदं तथागतकुलानुरागणसिद्धितन्त्रं ।

यथा विषयवां भूत्वा वज्रसत्व[स्तु] साधयेत् ।
तत्वचोदनया शीघ्रमनुरक्तः स सिध्यती- ॥

त्याह भगवान् वज्रसत्वः ॥

तत्रेदं वज्रकुलानुरागणसिद्धितन्त्रं ।

बुद्धाज्ञाकारितार्थं हि दुष्टानामभिचारुकैः ।
क्रोधान् सत्वविशुद्ध्यर्थमिदं वज्रानुरागणम् ॥

इत्याह भगवांस्त्रिलोकविजयः ॥

तत्रेदं पद्मकुलानुरागणसिद्धितन्त्रं ।

रागावलोकनं मैत्रीकारुण्य धर्मवादिता ।
सर्वाभयप्रदानं च सर्वबुद्धानुरागणम्ं ॥

इत्याह भगवान् वज्रनेत्रः ॥

तत्रेदं मणिकुलानुरागणसिद्धितन्त्रं ।

अभिषेकप्रदानं च प्रदानं धनसंचयं ।
तच्च बुद्धार्थतो योज्यमिदं बुद्धानुरागणम् ॥

इत्याह भगवानार्याकाशगर्भः ।

सर्वकुलानुरागणसिद्धिविधिविस्तरतन्त्रं ॥

अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतवशीकरणसिद्धितन्त्रमुदाजहार । तत्रेदं तथागत वशीकरणसिद्धितन्त्रं ॥

रागो वै नावमन्तर्यो विशुद्धः सुखदस्तथा ।
सवसत्वार्थतो योग इदं बुद्धवशङ्करम् ॥

इत्याह भगवान् बुद्धः ॥

तत्रेदं तथागतकुलवशीकरणसिद्धितन्त्रं ।

कामं सेव्य सुखात्मा तु सुरतस्त्वमिति कुर्वन् ।
साधयेद् वज्रसत्वं तु तत्वचोदवशीकृतम् ॥

इत्याह भगवान् समन्तभद्रः ॥

तत्रेदं वज्रकुलवशीकरणसिद्धितन्त्रं ।

बुद्धाज्ञान् सत्वशुद्ध्यर्थमभयार्थं च देहिनां ।
बुद्धशासनरक्षार्थं मारयं वशमानयेद् ॥

इत्याह भगवान् वज्रहुंकार ॥

तत्रेदं पद्मकुलवशीकरणसिद्धितन्त्रं ।

रागशुद्धिं परीक्षत् वै पद्मपत्रविकासतः ।
रञ्जेद्वा रागयेच्चैव विनयार्थं वशंकरम् ॥

इत्याह आर्यावलोकितेश्वरः ॥

तत्रेदं मणिकुलवशीकरणसिद्धितन्त्रं ।

सर्वबुद्धाभिषेकार्थं वज्ररत्नं दिनेदिने ।
शीर्षे स्थाप्याभिषिच्यतां सर्वबुद्धान् वशं नयेद् ॥

इत्याह भगवानाकाशगर्भः ॥

सर्वकुलवशीकरणसिद्धितन्त्रं ॥

अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतमारणसिद्धितन्त्रमुदाजहार । तत्रेदं तथागतमारणसिद्धितन्त्रं ।

अपश्यं सर्वसत्वार्थ बुद्धतत्वा न शोधयन् ।
मनसा कर्मवाग्भ्यां वा मारणसिद्धिमाप्तयाद् ॥

इत्याह भगवांस्तथागतः ॥

तत्रेदं तथागतकुलमारणसिद्धितन्त्रं ।

अलाभात्सर्वसिद्धीनामनुद्योगात्कुलस्य च ।
आस्फोटमहावज्रस्य मारयन् लघु सिध्यत ॥

इत्याह भगवान् वज्रपाणिः ॥

तत्रेदं वज्रकुलमारणसिद्धितन्त्रं ।

अदुष्टदमनात्क्रोधादसत्वविनेयात् तथा ।
आत्मनो दुःखदानाच्च हुंकारेण तु मारयेद् ॥

इत्याह भगवान् वज्रधरः ॥

तत्रेदं पद्मकुलमारणसिद्धितन्त्रं ॥

अकारुण्यादमैत्र्यात्तु दुःसत्वानामशोधनात् ।
आत्मनश्च विसंवादान मारयन् सिद्धिमाप्नुयाद् ॥

इत्याह भगवानवलोकितेश्वरः ॥

तत्रेदं मणिकुलमारणसिद्धितन्त्रं ।

अत्यागादात्मनोऽनर्थात् अर्थकारादनर्थतः ।
दारिद्र्याच्चैव सत्वानां मारयन् सिद्धिमाप्नुयाद् ॥

इत्याह भगवान् सर्वाशापरिपूरकः ॥

केचिदप्राप्तियोगेन बुद्धानां मारणात्मकाः ।
तेषामुद्धरणार्थाय लघु सिद्धिप्रदा वयम् ॥

इत्याह भगवानार्यसमन्तभद्रः ॥

सर्वकुलमारणसिद्धिविधिविस्तरतन्त्रं ॥

अथ भगवान् वज्रपाणिर्महाबोधिसत्वः सर्वतथागतरक्षामुद्रासिद्धितन्त्रमुदाजहार । तत्रेदं तथागतरक्षासिद्धितन्त्रं ।

सर्वसत्वापरित्यागो बुद्धपूजात्मता सदा ।
नित्यं बुद्धमनस्कारो रक्षेयं परमाद्भुत- ॥

इत्याह भगवान् बुद्धः ॥

तत्रेदं तथागतकुलरक्षासिद्धितन्त्रं ।

वज्रसत्वे सकृद्वारां नाममात्रपरिग्रहः ।
इयं रक्षा तु महती शाश्वती सिद्धिदा क्षणाद् ॥

इत्याह भगवान् वज्रधरः ।

तत्रेदं वज्रकुलरक्षासिद्धितन्त्रं ।

विद्यातन्त्रेषु संतोषः त्रिलोकविजयात्मता ।
भक्तिर्वै वज्रहुंकारे रक्षेयं स्वपरस्य वे- ॥

त्याह भगवान् वज्रहुंकारः ॥

तत्रेदं पद्मकुलरक्षासिद्धितन्त्रं ।

रागशुद्धिर्महामैत्री सत्वेषु अभयदानता ।
लोकेशनामजापश्य रक्षेयं परमाद्भुते- ॥

त्याह भगवान् वज्रधर्मः ।

तत्रेदं मणिकुलरक्षासिद्धितन्त्रं ।

अबन्ध्यो दिवसः कार्यो यथा शक्त्या प्रयोगतः ।
त्यागेन बुद्धसत्वाभ्यां रक्षेयं परमाद्भूते- ॥

त्याह भगवान् वज्ररक्षः ॥

सर्वकुलरक्षासिद्धिविधिविस्तरतन्त्रं ॥

अथ वज्रपाणिर्महाबोधिसत्वो भगवन्तमेतदवोचत् । "प्रतिगृहाण भगवन्निदं सर्वतथागतकुलतन्त्रं । येन सर्वसत्वाः सर्वकल्पैश्वर्यतयाधिगमं कृत्वा, शीघ्रमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्त" इति ॥

अथ भगवान् वज्रपाणये बोधिसत्वाय महासत्वाय साधुकारमदात् । "साधु साधु वज्रपाणे सुभाषितं, प्रतिगृहीतोऽस्माभिरधिष्ठितश्चे-" ति ॥

अथ सर्वतथागताः पुनः समाजमागम्य, वज्रपाणये महाबोधिसत्वाय साधुकाराण्यददन् ।

"साधु ते वज्रसत्वाय वज्ररत्नाय साधु ते ।
वज्रधर्माय ते साधु साधु ते वज्रकर्मणे ॥

सुभाषितमिदं सूत्रं वज्रयानमनुत्तरं ।
सर्वतथागतं गुह्यं महायानाभिसंग्रहम् ॥ " इति ॥

सर्वतथागततत्वसंग्रहात् सर्वकल्पोपायसिद्धिविधिविस्तरतन्त्रः परिसमाप्तः ॥


अध्याय 24
SARVA-KULA-KALPA-GUHYA-VIDHI-VISTARA-TANTRA

अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतगुह्यसिद्धितन्त्रमुदाजहार । तत्रादित एव सर्वतथागतोत्तमसिद्धिगुह्यतन्त्रं ।

बुद्धबोधिसमाधिन्तु भावयन् सुसमाहितः ।
सुखेन लभ्यते बोधिरिति चिन्त्यावबुध्यती- ॥

त्याह भगवान् सर्वतथागतः ॥

तत्रेदं तथागतकुलोत्तमसिद्धिगुह्यतन्त्रं ।

सत्ववज्रां हृदि बध्वा भार्या मे त्वमिति प्रिया ।
दृढीभव इति प्रोक्ते सर्वमुद्रास्तु साधयेत् ॥ १ ॥

अनेन विधियोगेन असिद्धापि स्वकर्मभिः ।
गुह्यभार्यामिति प्रोक्त्वा सुतरां सिद्धिमाप्नुयाद् ॥

इत्याह भगवान् सत्ववज्रः ॥

तत्रेदं वज्रकुलोत्तमसिद्धिगुह्यतन्त्रं ।

यथा तथा हि कुपितो वज्र-हुं-कारमुद्रया ।
मारयन् सर्वबुद्धांस्तु भयात् सिद्धि[न्ददङ्करेद् ॥

इत्याह] भगवान् सर्वतथागतहुङ्कारः ॥

तत्रेदं पद्मकुलोत्तमसिद्धिगुह्यतन्त्रं ।

समाधिमुद्रां सन्धाय निरीक्षन् वज्रदृष्टिना ।
स्वदारं परदारं वा प्रियां सिद्धिमवाप्नुयते- ॥

त्याह भगवान् पद्मरागः ॥

तत्रेदं मणिकुलोत्तमसिद्धिगुह्यतन्त्रं ।

द्वयेन्द्रियसमापत्त्या सुखमग्रमिति ब्रूवन् ।
स्वेन्द्रियं सर्वबुद्धानां निर्यात्य लघु सिध्यती- ॥

त्याह भगवान् मणिरागः ॥

सर्वकुलोत्तमसिद्धिगुह्यतन्त्रः ॥

अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतसमयसिद्धिगुह्यतन्त्रमुदाजहार । तत्रेदं तथागतसमयसिद्धिगुह्यतन्त्रं ।

समयस्त्वमिति प्रोक्त्वा रागयेत्सर्वयोषितः ।
म विरागय सत्वार्थं ध्रुवं बुद्धां स रागयेद् ॥

इत्याह भगवान् महावैरोचनः ॥

तत्रेदं तथागतकुलसमयसिद्धिगुह्यतन्त्रं ।

रागो हि नावमन्तव्यो रागयेत्सर्वयोषितः ।
वज्रिणो गुह्यसमयमिदं रक्षंस्तु सिध्यती- ॥

त्याह भगवान् वैरोचनः ॥

तत्रेदं वज्रकुलसमयसिद्धिगुह्यतन्त्रं ।

मारयन्मारयेल्लोकं कायवाक्कर्मसत्क्रियैः ।
हूं-कारैस्तु विशुद्ध्यर्थं समयो ह्यर्थसिद्धिद ॥

इत्याह भगवान् त्रिलोकविजयः ।

तत्रेदं पद्मकुलसमयसिद्धिगुह्यतन्त्रं ।

रागः शुद्धात्मनां शुद्धो ह्यशुद्धस्तीर्थ्ययोगिनां ।
शुद्धात्मनां तु समयं पालयन् सिद्धिमाप्नुयाद् ॥

इत्याह भगवानवलोकितेश्वरः ॥

तत्रेदं मणिकुलसमयसिद्धिगुह्यतन्त्रं ।

बध्वा वज्रमणिं पूर्वं वज्रगर्भसमाधिना ।
दुष्टानां तु हरन्नर्थान् समयः सिद्धिदो भवेद् ॥

इ]त्याह भगवान् वज्ररत्नः ॥

सर्वकुलसमयसिद्धिगुह्यविधिविस्तरतन्त्रं ॥

अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतधर्मसिद्धिगुह्यतन्त्रमुदाजहार । तत्रेदं तथागतधर्मसिद्धिगुह्यतन्त्रं ।

स्वभावशुद्धिं धर्माणां भावयन् सुसमाहितः ।
सर्वकार्याणि कुर्वन् वै बोधीं सिद्धिमवाप्नुते- ॥

त्याह भगवान् वज्रधातुः ॥

तत्रेदं तथागतकुलधर्मसिद्धिगुह्यतन्त्रं ।

सर्वसत्वानुरागश्च विषयेष्वविरागिता ।
रामारामणशुद्धिस्तु गुह्यधर्मः सुसिद्धिद ॥

इत्याह भगवान् वज्रगुह्यः ॥

तत्रेदं वज्रकुलधर्मसिद्धिगुह्यतन्त्रं ।

नासाहुंकारयोगेन सर्वदुष्टांस्तु मारयन् ।
सूक्ष्मवज्रसमाधिस्थः परां सिद्धिमवाप्नुयाद् ॥

इत्याह भगवान् धर्महुंकारः ॥

तत्रेदं पद्मकुलधर्मसिद्धिगुह्यतन्त्रं ।

सूक्ष्मवज्रप्रयोगेण रामयेत्सर्वयोषितः ।
धर्मसिद्धिमवाप्नोति वज्रधर्मसमाधिने- ॥

त्याह भगवानवलोकितेश्वरः ।

तत्रेदं मणिकुलधर्मसिद्धिगुह्यतन्त्रं ।

द्वयेन्द्रियसमापत्त्या सर्वाशा परिपूरयन् । योषितां वा प्रियाणां वा सिद्धिमाप्नोत्यनुत्तराम् ।

इत्याह भगवान् वज्ररत्नः ॥

सर्वकुलधर्मसिद्धिगुह्यविधिविस्तरतन्त्रं ॥

अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतकर्मसिद्धिगुह्यतन्त्रमुदाजहार । तत्रेदं तथागतकर्मसिद्धिगुह्यतन्त्रं ।

वज्रसत्वसमाधिस्थो बुद्धानुस्मृतिभावकः ।
स्त्रीकायं प्रविशन्योन्या वशीकुर्यात्तु योषित ॥

इत्याह भगवान् वैरोचनः ॥

तत्रेदं तथागतकुलकर्मसिद्धिगुह्यतन्त्रं ।

वज्रसत्वसमाधिस्थो भगेन प्रविशंस्तथा ।
स्त्रिया काये स्फरेत्सम्यग् निश्चेष्टामपि रागयेद् ॥

इत्याह भगवान् वज्ररागः ॥

तत्रेदं वज्रकुलकर्मसिद्धिगुह्यतन्त्रं ।

वज्रहुंकारमुद्रां वै बध्वा तु सुसमाहितः ।
प्रविशंस्तु भगे क्रुद्धः मनसा स तु पातयेद् ॥

इत्याह भगवान् वज्रसमयः ॥

तत्रेदं पद्मकुलकर्मसिद्धिगुह्यतन्त्रं ।

धर्मकर्ममयीमुद्रां बध्वा पद्मसमाधिना ।
भगेन प्रविशन् रक्षेदपि सर्वास्तु योषित ॥

इत्याह भगवान् वज्रपद्मः ।

तत्रेदं मणिकुलकर्मसिद्धिगुह्यतन्त्रं ।

कर्मवज्रमणिं बध्वा वज्ररत्नसमाधिना ।
भगेन प्रविशन् स्त्रीणां क्षणादाविश्य नर्तती- ॥

त्याह भगवान् वज्ररत्नः ॥

सर्वकुलकर्मसिद्धिगुह्यविधिविस्तरतन्त्रं ॥

अथवज्रपाणिर्महाबोधिसत्वः सर्वतथागतमण्डलशुद्धिसिद्धिगुह्यतन्त्रमुदाजहार । तत्रेदं सर्वतथागतचक्रशुद्धिसिद्धिगुह्यतन्त्रं भवति ।

धर्मचक्रसमाकारं कुर्याद्वा गुह्यमण्डलं ।
मुद्रा भार्या परिवृतं तत्र बुद्धन्निवेशयेत् ॥ १ ॥

प्रविष्ट्वैव हि तद्गुह्यं ब्रूयाद्बुद्धस्य तत्क्षणात् ।
"भार्या ह्येतास्तव विभो ददस्व मम सर्वद" ॥ २ ॥

एवं ब्रूवंस्तु सर्वेषु कुलमुद्रा नयेषु च ।
गुह्यसिद्धिमवाप्नोति बुद्धानामसमत्विषाम् ॥ ३ ॥

इत्याह भगवान् बुद्धः ॥

तत्रेदं तथागतकुलसर्वमण्डलसिद्धिगुह्यतन्त्रं ।

वज्रधातुप्रतीकाशं मण्डलं तु समालिखेत् ।
तथागतकुलानां तु सर्वेषां परमन्नयं ॥

[सिद्धिकामस्त्वाशु] ब्रूयात्प्रवि[ष्टैव तन्मण्डलं] ।
सुरते समयस्त्वंहोः, वज्रसत्वाद्य सिध्य मां ॥ २ ॥

इदं जपंस्तु हृदयं साधयेत् सर्वसिद्धयः ।
[तत्वचोदनयोगे]न तुष्टः स त्वाशु सिध्यती- ॥

त्याह भगवान् वज्रसत्वः ॥

तत्रेदं वज्रकुलसर्वमण्डलसिद्धिगुह्यतन्त्रं ।

त्रिलोकविजयाकारं सर्ववज्रकुलस्य हि ।
सर्वमण्डलयोगं तु संलिखेत विचक्षणः ॥ १ ॥

तं प्रविष्ट्वैव शीघ्रं वै ब्रूयात्सिद्धिं तु याचयन् ।
"रागात्त्वमसि संभूत" , एवं सर्वेषु सिध्यती- ॥ २ ॥

त्याह भगवान् वज्रहुंकारः ॥

तत्रेदं पद्मकुलमण्डलसिद्धिगुह्यतन्त्रं ।

जगद्विनययोगेन सर्वपद्मकुलेषु वै ।
मण्डलानि लिखेत्प्रज्ञस्तं प्रविष्ट्वैव वाग्वदेत् ॥ १ ॥

"रागधर्म महापद्म प्रसिध्य लघु मे विभो" ।
एवमुक्त्वा तु सर्वेषु मण्डलेषु स सिध्यती- ॥ २ ॥

त्याह भगवानवलोकितेश्वरः ॥

तत्रेदं मणिकुलमण्डलसिद्धिगुह्यतन्त्रं ।

सर्वार्थसिद्धियोगेन मण्डलानि समालिखेत् ।
महामणिकुलानां तु तं प्रविष्ट्वैव वाग्वदेत् ॥ १ ॥

"सर्वाभिप्रायसिद्धीनां रागाशासिद्धिरुत्तमा ।
सिध्य सिध्य महासत्व भगवन् सर्वसिद्धये" ॥ २ ॥

एवं ब्रूवंस्तु सर्वेषु मण्डलेषु प्रवेशतः ।
महासिद्धिमवाप्नोति पूजागुह्यमनुत्तरं ॥ ३ ॥

ततः प्रभृति सिद्धात्मा साधयन् सिद्धयः सदा ।
यदा न लघु सिद्धिः स्यात् सिध्यन्ते तत्वचोदनैर् ॥ ४ ॥

इत्याह भ[गवान् वज्रसत्वः ॥]

सर्वकुलमण्डलसिद्धिगुह्यविधिविस्तरतन्त्रं ॥

अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतसर्वमुद्रागुह्यसिद्धितन्त्रमुदाजहार । तत्रेदं तथागतमुद्रागुह्यसिद्धितन्त्रं ।

तथागतमहादेव्यः प्रियाः सर्वसुखप्रदाः ।
सत्यानुपरिवर्तिन्या वास्सत्यैः सापि ता यन्न सिध्यत ॥

इत्याह भगवान् बुद्धः ॥

तत्रेदं तथागतकुलमहामुद्रागुह्यसिद्धितन्त्रं ।

महामुद्रां तु वै बध्वा यथावदनुपूर्वशः ।
इदं तत्वं रहस्यं च वज्रवाचा वदेत्वयं ॥ १ ॥

वज्रसत्वः स्वयमहं त्वम्मे भार्या हृदि स्थिता ।
सर्वकायं परिष्वज्य वज्रगर्वे समुत्क्षिप ॥ २ ॥

वज्रगर्वा महादेवी तत्वचोदानुरागिता ।
सर्वकाये दृढीभूत्वा यथावत्सिध्यते लघुर् ॥ ३ ॥

इत्याह भगवान् वज्रगर्वापतिः ॥

तत्रेदं वज्रकुलसमयमुद्रागुह्यसिद्धितन्त्रं ।

"सिध्य सिध्याद्य समये समयोऽहं त्वं प्रिया मम" ।
इति चोदनया शीघ्रमनुरक्ता प्रसिध्यती- ॥

त्याह भगवान् वज्रसत्वः ॥

तत्रेदं पद्मकुलधर्ममुद्रागुह्यसिद्धितन्त्रं ।

"बुध्य बुध्य महासत्वि भार्या मे त्वमतिप्रिया" ।
इति चोदनया शीघ्रमनुरक्ता तु सिध्यती- ॥

त्याह भगवान् वज्रधर्मः ॥

तत्रेदं मणिकुलकर्ममुद्रागुह्यसिद्धितन्त्रं ।

"सर्वकर्मकरी भार्या त्वं मे सिध्याद्य वज्रिणि" ।

इति चोदनया शीघ्रमनुरक्ता तु सिध्यती- ॥

त्याह भगवानाकाशगर्भः ॥

सर्वकुलसर्वमुद्रा[गुह्यसि]द्धिविधिविस्तरतन्त्रं ॥

अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतसमयगुह्यसिद्धितन्त्रमुदाजहार । तत्रेदं तथाग[तसमयगु]ह्यसिद्धितन्त्रं ।

तीर्थिकानां हितार्थाय बुद्धभार्या प्रगोपिता ।
लेख्या मुद्रा प्रयोगेण इति विज्ञेय सिध्यती- ॥

त्याह भगवान् सर्वतथागत[समयः ॥]

तत्रेदं तथागतकुलसमयगुह्यसिद्धितन्त्रं ।

सर्वसत्वमनोव्यापी सर्वसत्वसुखप्रदः ।
सर्वसत्वपिता चैव कामोऽग्रः समयाग्रिणाम् ॥

इत्याहुर्भगवन्तः सर्वतथागताः ॥

इदं तत्सर्वबुद्धानां रहस्यं परमाद्भुतं ।

विज्ञेय श्रद्दधच्छ्द्धो दुःसाध्योऽपि हि सिध्यती- ॥

त्याह भगवान् वज्रधरः ॥

तत्रेदं वज्रकुलसमयगुह्यसिद्धितन्त्रं ।

रागशुद्ध्यै विरक्तानां तीर्थ्यदृष्टिकृतात्मनां ।
मारणं समयं त्वग्रमिदं विज्ञेयं सिध्यती- ॥

त्याह भगवान् वज्रधरः ॥

तत्रेदं पद्मकुलसमयगुह्यसिद्धितन्त्रं ।

महाभूतोद्भवं सर्वं, कथं त्वशुचिरुच्यते? ।
तीर्थिकानां विनाशाय ध्रुवं सिद्धिमवाप्नुयाद् ॥

इत्याह भगवान् वज्रनेत्रः ॥

तत्रेदं मणिकुलसमयगुह्यसिद्धितन्त्रं ।

स्त्रीप्रसङ्गात्तु रत्नानां संचयः क्रियते यदा ।
स्त्रियो ह्यनुत्तरं रत्नमिति चिन्त्यते सिध्यती- ॥

त्याह भगवानाज्ञाकरः ॥

सर्वकलसमयगुह्यसिद्धिविधिविस्तरतन्त्रः ॥

अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतपूजागुह्यसिद्धितन्त्रमुदाजहार । तत्रायं तथागतपूजागुह्यसिद्धितन्त्रः ।

स्त्रीभिः परिवृतो भूत्वा परिहासक्रिया सुखं ।
निर्यात्य बुद्धपूजायां पूजासिद्धिमवाप्नुयाद् ॥

इत्याह भगवान् बुद्धः ।

तत्रेदं तथागतकुलपूजागुह्यसिद्धितन्त्रं ।

सुरतश्रमखिन्नस्तु तत्सौख्यं सुरतोद्भवं ।
चतुःप्रणामे पूजायां निर्यात्य लघु सिध्यती- ॥

त्याह भगवान् वज्रधरः ॥

तत्रेदं वज्रकुलपूजागुह्यसिद्धितन्त्रं ।

हुंकारसमयां बध्वा परिष्वज्य स्त्रियं जनं ।
तत्परिष्वङ्गसौख्यं तु निर्यात्य हि स सिध्यती- ॥

त्याह भगवान् वज्रहुंकारः ॥

तत्रेदं पद्मकुलपूजागुह्यसिद्धितन्त्रं ।

लोकेश्वरमहं भाव्य प्रियावक्त्रं निरीक्षन्वै । तन्निरीक्षणसौरव्यं तु निर्यात्य हि स सिध्यती- ।

त्याह भगवान् पद्मनेत्रः ॥

तत्रेदं मणिकुलपूजागुह्यसिद्धितन्त्रं ।

कर्ममुद्राधरो भूत्वा सर्वाभरणभूषितः ।
स्त्रियं परिष्वज्य पूजायां विभूतिं निर्यात्य सिध्यती- ॥

त्याह भगवान् वज्ररत्नः ॥

सर्वकुलपूजागुह्यसिद्धिविधिविस्तरतन्त्रं ॥

अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतगुह्यपूजासिद्धितन्त्रमुदाजहार । तत्रेदं तथागतगुह्यपूजासिद्धितन्त्रं ।

रमयन् परदाराणि यथा[क]श्चिन्न वेदयेत् ।
भावयन् बुद्धमात्मानं पूजया सिद्धिमाप्नुयाद् ॥

इत्याह भगवान् बुद्धः ॥

तत्रेदं तथागत[कुल]गुह्यपूजासिद्धितन्त्रं ।

वज्रलास्यां समाधाय वज्रमालां तु बन्ध[येत्] ।
वज्रगीतां ततो बध्वा पूजयेद् वज्रनृत्यया ॥

का[मरत्याभिषेका]ग्र्या नृत्यगीतसुखात्सुखं ।
नान्यदस्ति हि तेनेयं गुह्यपूजा निरुत्तरा ॥

तत्रेदं वज्रकुलगुह्यपूजासिद्धितन्त्रं ॥

यथावद् विधियोगेन पूज[येद्] गुह्यपूजया ।
त्रिलोकविजयं भाव्य पूजासिद्धिम वाप्नुयाद् ॥

इत्याह भगवान् वज्रगुह्यः ।

तत्रेदं पद्मकुलगुह्यपूजासिद्धितन्त्रं ।

य[थावद् गु]ह्ययोगेन धर्ममुद्रा सुपूजयन् ।
जगद्विनयमुद्रास्थः पूजासिद्धिमवाप्नुते- ॥

त्याह भगवानवलोकितेश्वरः ॥

तत्रेदं मणिकुलगुह्यपूजासिद्धितन्त्रं ।

यथावद् गुह्ययोगेन कर्ममुद्रा सुसाधयन् ।
सर्वार्थसिद्धियोगेन पूजासिद्धिमवाप्नुते- ॥

त्याह भगवान् वज्रगर्भः ॥

सर्वकुलगुह्यपूजाविधिविस्तरतन्त्रं ॥

अथ भगवान् वज्रपाणिर्महाबोधिसत्वः सर्वतथागतकुलोद्घाटनगुह्यसिद्धितन्त्रमुदाजहार । तत्रेदं तथागततत्वोत्पत्तिसिद्धिगुह्यतन्त्रं ।

समाधिज्ञानसंभूतं बुद्धत्वं हि समासतः ।
सत्वरागणयोगेन शीघ्रमाप्नोत्यनुत्तरम् ॥

इत्याह भगवांस्तथागतः ।

तत्रेदं तथागतकुलमहातत्त्वोद्घाटनसिद्धिगुह्यतन्त्रं ।

अनादिनिधनः सत्वः आकाशोत्पत्तिलक्षणः ।
समन्तभद्रः सर्वात्मा कामः सर्वजगत्पतिः ॥ १ ॥

यच्चित्तं सर्वसत्वानां दृढत्वात् सत्वनुच्यते ।
समाधानाद् वज्रसमो निश्चयैर्याति वज्रतां ॥ २ ॥

सत्वाधिष्ठानयोगेन वज्रसत्वः पुनर्भवेत् ।
स एव भगवान् सत्वो वज्रकायस्तथागतः ॥ ३ ॥

स्वचित्तप्रतिवेधादिबुद्धबोधिर्यथाविधि ।
स एव भगवान् सर्वतथागतकुलं भवेद् ॥

इत्याह भगवाननादिनिधनसत्वः ॥

तथागतकुलं सैव सैव वज्रकुलं स्मृतं ।
सैव पद्मकुलं शुद्धं सैवोक्तं मणिसत्कुलम् ॥

इत्याह भगवान् सर्वतथागतचक्रः ॥

सर्वकुलोत्पादनगुह्यसिद्धिविधिविस्तरतन्त्रं ॥

अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतमुद्राचिन्हाभिधानसिद्धिगुह्यतन्त्रमुदाजहार ।

तत्रेदं तथागतचिन्हाभिधानसिद्धिगुह्यतन्त्रं भवति ।

स एव भगवान् सत्वो वज्रसत्वो हृदि स्थितः ।
समाधानात्समाधिस्तु बुद्धबोधिप्रसाधक ॥

इत्याह भगवान् बुद्धः ॥

तत्रेदं तथाकुलचिन्हाभिधानसिद्धिगुह्यतन्त्रं ।

वज्रं सुप्रतिवेधत्वादङ्कुशं ग्रहमोचकः ।
सूक्ष्मवेधितया वाणं साधुकारस्तु तुष्टितः ॥ १ ॥

रत्नस्तु रचनादुक्तः सूर्यस्तेजो विधानतः ।
केतुः समुच्छ्रयः प्रोक्तः स्मितो हासस्तु कीर्तितः ॥ २ ॥

रागशुद्धितया पद्मं कोशः क्लेशारिच्छेदनात् ।
चक्रो मण्डलयोगात्तु वाग्लापाज्जपनुच्यते ॥ ३ ॥

सर्ववज्रं तु विश्वत्वाद् वर्मदुर्भेद्ययोगतः ।
दंष्ट्रा भीषणयोगात्तु बन्धो मुद्राप्रयोगतः ॥ ४ ॥

यथा हि भगवान् शाश्वो वज्रसत्वस्तु सर्वगः ।
तथा वज्रां तु चिह्नादि भावयन्निति सिध्यती- ॥

त्याह भगवान् सर्वतथागतचिन्हः ।

सर्वकुलचिह्नाभिधानसिद्धिगुह्यतन्त्रं ॥

अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतमुद्राबन्धोत्पत्तिसिद्धिगुह्यतन्त्रमुदाजहार । तत्रेदं तथागतमुद्राबन्धोत्पत्तिसिद्धिगुह्यतन्त्रं ।

बध्वा वै वज्रपर्यङ्कङ्कराभ्यां वज्रबन्धतः ।
वज्रसत्वसमाधिस्थः शीघ्रं बुद्धत्वमाप्नुयाद् ॥

इत्याह भगवान् बुद्धः ॥

[तत्रे]दं तथागतकुलमुद्राबन्धोत्पत्तिसिद्धिगुह्यतन्त्रं ।

यथा राज्ञां स्वमुद्राभिः मुद्र्यते राजशासनं ।
महात्मनां स्वमुद्राभिरामुद्र्यन्ते तथा जनाः ॥ १ ॥

कायवाक्चित्तवज्राणां प्रतिबिम्बप्रयोगतः ।
महात्मनां महामुद्रा इति विज्ञाय सिध्यती- ॥ २ ॥

त्याह भगवान् महामुद्रः ॥

तत्रेदं वज्रकुलमुद्राबन्धोत्पत्तिसिद्धिगुह्यतन्त्रं ।

यथाहि समयैस्तीव्रैः कश्चिद्बन्धो भवेज्जनः ।
अनतिक्रमणीयैस्तु तथा सर्वतथागताः ॥ १ ॥

बद्धा हि वज्रबन्धाग्र्यमुद्रासमयबन्धनैः ।
नातिक्रमन्त्यामरणादिति विज्ञाय सिध्यती- ॥

त्याह भगवान् वज्रसमयः ॥

तत्रेदं धर्मकुलमुद्राबन्धोत्पत्तिसिद्धिगुह्यतन्त्रं ।

अनतिक्रमणीया हि वज्रवास्सर्वशो जिनैः ।
अयं बन्ध इति ज्ञात्वा धर्ममस्य प्रसिध्यती- ॥

त्याह भगवान् वज्रधर्मः ॥

तत्रेदं कर्मकुलमुद्राबन्धोत्पत्तिसिद्धिगुह्यतन्त्रं ।

अनतिक्रमणीया हि वज्राज्ञा कर्मभूरि च ।
आज्ञावतस्तु तत्कर्म विज्ञाय लघु सिध्यती- ॥

त्याह भगवान् वज्रः ॥

सर्वकुलमुद्राबन्धोत्पत्तिसिद्धिविधिविस्तरगुह्यतन्त्रं ॥

अथ खलु भगवान् वज्रपाणिं महाबोधिसत्वमेवमाह । "इदमपि मया भगवन् परिगृहीतमधिष्ठितं चे-" ति ॥

अथ सर्वतथागताः पुनः समाजमागम्य वज्रपाणये सर्वतथागतधिपतये साधुकाराण्यददुः ॥

साधु ते वज्रसत्वाय वज्ररत्नाय साधु ते ।
वज्रधर्माय ते साधु साधु ते वज्रकर्मणे ॥

सुभाषितमिदं सूत्रं वज्रयानमनुत्तरं ।
सर्वतथागतं गुह्यं महायानाभिसंग्रहम् ॥ इति ॥

सर्वतथागततत्वसंग्रहात्सर्वकुलकल्पगुह्यविधिविस्तरतन्त्रं समाप्तं ॥


अध्याय 25
SARVA-KALPA-GUHYOTTARA-TANTRA-VIDHI-VISTARA

अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतधर्मोत्तमसिद्धितन्त्रमुदाजहार । तत्रेदं तथागतधर्मोत्तमसिद्धितन्त्रं

बुद्धधर्मसमाधिं तु भावयन् सुसमाहितः ।
बुद्धानुस्मृतियोगेन सिद्धिमाप्नोत्युत्तमाम् ॥

इत्याह भगवांस्तथागतः ।

तत्रेदं तथागतकुलधर्मोत्तमसिद्धितन्त्रं ।

सर्वसत्वसमाधिस्थः भावयन् सुसमाहितः ।
रागानुस्मृतियोगेन प्राप्नुयात् सिद्धिमुत्तमाम् ॥

इत्याह भगवान् सर्वतथागतसमाधिः ॥

तत्रेदं वज्रकुलधर्मोत्तमसिद्धितन्त्रं ।

त्रिलोकविजयाकारं भावयन् पुरतस्तथा ।
वज्रपाणिबलो भूत्वा त्रिलोकविजयी भवेद् ॥

इत्याह भगवान् वज्रसत्वः ॥

तत्रेदं पद्मकुलधर्मोत्तमसिद्धितन्त्रं ।

जगद्विनयधर्मं तु भावयन् पुरतस्त[था ।] सर्वाकारवरोपेतं विनयं प्रकरोति स ॥

इत्याह भगवान् वज्रधर्मः ॥

तत्रेदं मणिकुलधर्मोत्तमसिद्धितन्त्रं ।

सर्वार्थसिद्धिरा[कारं भावयन् पुरतस्तथा ।
सर्वाकारवरोपेतमर्थसंपत्स लप्स्यते- ॥

त्याह भगवान् वज्रपाणिः ॥

सर्वकुलधर्मोत्तमसिद्धिविधिविस्तरतन्त्रं ॥

अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतधर्मसमयसिद्धितन्त्रमुदाजहार । तत्रेदं तथागतधर्मसमयसिद्धितन्त्रं ।

बुद्धा[नुस्मृ]तिमां भूत्वा वज्र वज्र इति ब्रूवन् ।
सूक्ष्मवज्रप्रयोगेण बुद्धसिद्धिमवाप्नुते- ॥

त्याह भगवान् बुद्धः ॥

तत्रेदं तथागतकुलधर्मसमयसिद्धितन्त्रं ।

वज्रसत्वसमाधिन्तु भावयन् सूक्ष्मवज्रतः ।
वज्रसत्वत्वमाप्नोति वज्रसत्वमुदाहरन्न ॥

इत्याह भगवान् वज्रसत्वः ॥

तत्रेदं वज्रकुलधर्मसमयसिद्धितन्त्रं ।

त्रिलोकविजयाकारन् संस्मरन् पुरतस्तथा ।
हुं हुं हुं हुमिति प्रोच्य सिद्धिमाप्नोत्यनुत्तराम् ॥

इत्याह भगवान् वज्रहुंकारः ।

तत्रेदं पद्मकुलधर्मसमयसिद्धितन्त्रं ।

जगद्विनयरूपं तु भावयन् सूक्ष्मवज्रतः ।
शुध्य शुध्य इति प्रोच्य उत्तमां सिद्धिमाप्नुते- ॥

त्याह भगवान् वज्रधर्मः ।

तत्रेदं मणिकुलधर्मसमयसिद्धितन्त्रं ।

सर्वार्थसिद्धिरूपं तु भावयन् सूक्ष्मवज्रतः ।
सिध्य सिध्य इति प्रोच्य अर्थसिद्धिः परा भवेद् ॥

इत्याह भगवान् मणिधर्मः ॥

सर्वकुलधर्मसमयसिद्धिविधिविस्तरतन्त्रं ॥

अथ वज्रापाणिर्महाबोधिसत्वः सर्वतथागतसद्धर्मज्ञानसिद्धितन्त्रमुदाजहार । तत्रेदं सर्वतथागतसद्धर्मज्ञानसिद्धितन्त्र ।

अनक्षरं तु सद्धर्मं समाधिज्ञानसंभवं ।
अकारस्तेन धर्माणामनुत्पाद इति स्मृतः ॥ १ ॥

अनेन मुद्राप्रयोगेण भावयन् प्रज्ञया ततः ।
सर्वाक्षरमयं ज्ञानं सिध्यते सौगतं क्षणाद् ॥ २ ॥

इत्याह भगवान् आर्यमञ्जुश्रीसर्वतथागतः ॥

तत्रेदं तथागतकुलसद्धर्मज्ञानसिद्धितन्त्रं ।

सर्वतथागतं तत्वमिदं सूत्रं तु श्रद्दधन् ।
धारयन् वाचयन् श्राद्धः सिद्धिमाप्नोत्यनुत्तराम् ॥

इत्याह भगवान् वज्रसत्वः ।

तत्रेदं वज्रकुलसद्धर्मज्ञानसिद्धितन्त्रं ।

पापसत्वहितार्थाय बुद्धाज्ञाकरणाय च ।
दुष्टानां विनयार्थाय मारणेन तु सिध्यती- ॥

त्याह भगवान् वज्रकुलः ॥

तत्रेदं पद्मकुलसद्धर्मज्ञानसिद्धितन्त्रं ।

स्वभावशुद्धिमागम्य परमार्थमिति स्मृतं ।
भावयन्निदमाद्यं तु धर्मेणाशु प्रसिध्यती- ॥

त्याह भगवानवलोकितेश्वरः ॥

तत्रेदं मणिकुलसद्धर्मज्ञानसिद्धितन्त्रं ।

सर्वसत्वार्थदानं च सर्वाशापरिपूरये ।
इमं मणिकुले धर्म भावयन्नाशु सिध्यती- ॥

त्याह भगवान् धर्मरत्नः ॥

सर्वकुलसद्धर्मज्ञानसिद्धिविधिविस्तरतन्त्रं ॥

अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतसमाधिकर्मसिद्धितन्त्रमुदाजहार । तत्रेदं तथागतसमाधिकर्मसिद्धितन्त्रं ।

समाधिकर्म बुद्धानां बुद्धबोधिप्रसाधकं ।
इदं भावयमानस्तु परां सिद्धिमवाप्नुयाद् ॥

इत्याह भगवान् बुद्धः ॥

तत्रेदं [तथागत] कुलसमाधिकर्मसिद्धितन्त्रं ॥

वज्रसत्वसमाधीनामुत्तमं कर्मभूरि च ।
सर्वसत्वकरं विश्वमिति भावेन सिध्यती- ॥

त्याह भगवान् वज्रः ॥

तत्रेदं वज्रकुलसमाधिकर्मसिद्धितन्त्रं ।

पापशुद्धिनिमित्तं हि सर्वपापप्रदामकं ।
मारणं सर्वसत्वानां श्रद्दधानात्तु सिध्यती- ॥

त्याह भगवान् वज्री ॥

तत्रेदं पद्मकुलसमाधिकर्मसिद्धितन्त्रं ।

सर्वपापविशुद्धात्मा सर्वशुद्ध्या करोति सः ।
सर्वकार्याणि कर्मेयमिति भावेन सिध्यति ॥

इत्याह भगवान् पद्मः ॥

तत्रेदं मणिकुलसमाधिकर्मसिद्धितन्त्रः ।

सर्वाशिनां दरिद्राणां सर्वाशाः परिपूरयन् ।
सर्वार्थसिद्धिः सर्वात्मा सिध्यते नात्र संशय ॥

इत्याह भगवान् रत्नध्वजः ॥

सर्वकुलसमाधिकर्मसिद्धिविधिविस्तरतन्त्रः ॥

अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतसूक्ष्मज्ञानसिद्धितन्त्रमुदाजहार । तत्रेदं तथागतसूक्ष्मज्ञानसिद्धितन्त्रं भवति ।

सूक्ष्मवज्रविधिं शाश्वत् योजयं सर्वभावतः ।
सर्वाकारवरोपेतां पञ्चाभिज्ञामवाप्नुयाद् ॥

इत्याह भगवान् बुद्धः ॥

तत्रेदं सर्वतथागतकुलसूक्ष्मज्ञानसिद्धितन्त्रं ।

नानाचार्यस्य नान्यस्य नाशिष्यस्यासुतस्य वा ।
पुरतः प्रकाशयेन्मुद्राः सिद्धिरासां सुगुह्यत ॥

इत्याह भगवान् वज्रधरः ।

तत्रेदं वज्रकुलसूक्ष्मज्ञानसिद्धितन्त्रं ।

सूक्ष्मवज्रप्रयोगेण नासा हुं-कारयोगतः ।
वज्रक्रोधसमाधिस्थः सर्वकार्याणि साधयेद् ॥

इत्याह भगवान् वज्रः ॥

तत्रेदं पद्मकुलसूक्ष्मज्ञानसिद्धितन्त्रं ।

वज्रदृष्टिं समाधाय सूक्ष्मवज्रप्रयोगतः ।
महापद्मसमाधिस्थः रागसिद्धिमवाप्नुयाद् ॥

इत्याह भगवान् पद्मरागः ॥

तत्रेदं मणिकुलसूक्ष्मज्ञानसिद्धितन्त्रं ।

दीप्तदृष्टिः सुसूक्ष्मा तु वज्ररत्नसमाधिना ।
सूक्ष्मवज्रप्रयोगेण सर्वार्थाकर्षो भवेद् ॥

इत्याह भगवान् वज्रपाणिः ।

सर्वकुलसूक्ष्मज्ञानसिद्धितन्त्रं ॥

अथ वज्रपाणीर्महाबोधिसत्वः सर्वतथागतचक्षुर्ज्ञानसिद्धितन्त्रमुदाजहार । तत्रेदं तथागतचक्षुर्ज्ञानसिद्धितन्त्रं ।

यदा मुद्रा समाधिर्वा साधनायोपयुज्यति ।
तदा खे धातवः शुभ्रास्तारकाकाराः स पश्यति ॥ १ ॥

तदा जानीत मतिमां बुद्धचक्षुरिदं मम ।
ततः प्रभृति बुद्धानां सर्वकल्पानि साधयेद् ॥ २ ॥

इत्याह भगवान् बुद्धः ॥

तत्रेदं तथागतकुलचक्षुर्ज्ञानसिद्धितन्त्रं ।

यावन्तो भावा विद्यन्ते स्थावरा जंगमास्तथा ।
तेषां प्रतिबिम्बानि पश्यति खे प्रधावतः ॥ १ ॥

आगच्छं गच्छतो वै वज्रचक्षुर्विशुद्धितां ।
जानन्वै पूजया सिद्धिमाप्नोत्यनुत्तराम् ॥ २ ॥

इत्याह भगवान् वज्रसत्वः ॥

तत्रेदं वज्रकुलचक्षुर्ज्ञानसिद्धितन्त्रं ।

सव्यापसव्यवर्तिभ्यो खे तः पश्यति चक्षुषा ।
आकाशधातवः शीघ्रं भ्रमन्तो अंभ्रसन्निभाः ॥ १ ॥

तां दृष्ट्वा न हि बिभ्येत मुद्रास्ता वज्रसंभवाः ।
तेषां ग्रहणतो मुद्राः सिध्यन्ते मुद्रचक्षुषा ॥ २ ॥

इत्याह भगवान् वज्रः ॥

तत्रेदं पद्मकुल चक्षुर्ज्ञानसिद्धितन्त्रं ।

श्वेतां रक्तां सितां पितां यदा पश्यन्ति मण्डलान् ।
तदाभि[प्रायं वै] यान्ति सिध्यन्ते वज्रचक्षुषा ॥ २ ॥

इत्याह भगवानवलोकितेश्वरः ।

तत्रेदं मणिकुलचक्षुर्ज्ञानसिद्धितन्त्रं ।

आकाशे रत्नसंकाशा हिरण्यादिषु सादृशाः । यदा तु पश्यते खे तु खचक्षुः सिध्यते सदे- ।

त्याह भगवान् वज्रगर्भः ।

सर्वकुलचक्षुर्ज्ञानसिद्धिविधिविस्तरतन्त्रं ॥

अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतकर्मोत्तमसिद्धितन्त्रमुदाजहार । तत्रेदं तथागतकर्मोत्तमसिद्धितन्त्रं ।

कर्ममण्डलयोगेन पूजयं सर्वनायकान् ।
रागसौख्यविपाकार्थं बुद्धसिद्धिमवाप्नुयाद् ॥

इत्याह भगवान् बुद्धः ॥

तत्रेदं तथागतकुलकर्मोत्तमसिद्धितन्त्रं ।

गुह्यपूजां प्रकुर्वाणो रागोऽहमिति भावयन् ।
प्राप्नुयादुत्तमां सिद्धिं वज्ररागसमद्युतिम् ॥

इत्याह भगवान् कामः ॥

तत्रेदं वज्रकुलकर्मोत्तमसिद्धितन्त्रं ।

गुह्यपूजां प्रकुर्वाणो क्रोधोऽहमिति भावयन् ।
प्राप्नुयादुत्तमां सिद्धिं त्रिलोकविजयोपमाम् ॥

इत्याह भगवान् वज्रपाणिः ॥

तत्रेदं पद्मकुलकर्मोत्तमसिद्धितन्त्रं ।

अन्तर्गतेन मनसा कामशुद्धिं तु भावयन् ।
स्वरेऽतो बिन्दुभिर्बुद्धां पूजयं सिद्धिमाप्नुयाद् ॥

इत्याह भगवानवलोकितेश्वरः ॥

तत्रेदं मणिकुलकर्मोत्तमसिद्धितन्त्रं ।

वज्रगर्वा समाधाय नमेदाशयकम्पितैः ।
प्रणामपरमो नित्यमभिषेकां समाप्नुयाद् ॥

इत्याह भगवान् वज्राभिषेकरत्नः ॥

सर्वकुलकर्मोत्तमसिद्धिविधिविधिविस्तरतन्त्रः ॥

अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतकर्मसमयगुह्यसिद्धितन्त्रमुदाजहार । तत्रायं तथागतकर्मसमयगुह्यसिद्धितन्त्रः ।

कामाद्याः सर्वसौख्या मे सदैव हृदये स्थिताः ।
अहो सत्वार्थानामविरागो यत्र देश्यते ॥ १ ॥

अयं हि कर्मसमयस्तथागतसमाधिना ।
भावयं पूजयेद् बुद्धामुत्तमां सिद्धिमाप्नुयाद् ॥ २ ॥

इत्याह भगवान् बुद्धः ॥

तत्रायं तथागतकुलकर्मसमयगुह्यसिद्धितन्त्रः ।

समन्तभद्रः कामोऽहं सर्वसत्वसुखप्रदः ।
वज्रसत्वसमाधिस्थः पूजयं सिद्धिमाप्नुयाद् ॥

इत्याह भगवान् कामः ॥

तत्रायं वज्रकुलकर्मसमयगुह्यसिद्धितन्त्रः ।

समन्तभद्रः क्रोधोऽहं सर्वसत्वहितंकरः ।
वज्रहुंकारयोगेन पूजयं सिद्धिमाप्नुयाद् ॥

इत्याह भगवान् वज्रपाणिः ॥

तत्रायं पद्मकुलकर्मसमयगुह्यसिद्धितन्त्रः ।

समन्तभद्रो रागोऽहं सर्वसौख्यप्रदः स्वयं ।
जगद्विनयरूपस्थः पूजयं सिद्धिमाप्नुयाद् ॥

इत्याह भगवान् पद्मरागः ॥

तत्रायं मणिकुलकर्मसमयगुह्यसिद्धितन्त्रः ।

समन्तभद्रो राजाहं सर्वसत्व[महार्थदः ।
सर्वार्थसिद्धिरूपेण] पूजयं सिद्धिमाप्नुयाद् ॥

इत्याह भगवान् सर्वार्थसिद्धिः ॥

सर्वकुलकर्मसमयगुह्यसिद्धिविधिविस्तरतन्त्रं ॥

अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतकर्मधर्मतोत्तमसिद्धितन्त्रमुदाजहार । तत्रायं तथागतकर्मधर्मतोत्तमसिद्धितन्त्रः ।

दक्षिणाग्र्याभिमुखतः कवचं स्वसमाधिना ।
निबध्योष्णीषसंस्था तु रक्षात्यन्तं भविष्यती- ॥

त्याह भगवान् बुद्धः ॥

तत्रायं तथागतकुलकर्मधर्मोत्तमसिद्धितन्त्रः ।

संलिख्य तु भगाकारं कुड्ये मेढ्रं समुच्छ्रितं ।
यां स्त्रियं चिन्तयन् मृदुं कुर्यात्सास्य वशीभवेद् ॥

इत्याह भगवानार्यवज्रपाणिः ॥

तत्रायं वज्रकुलकर्मधर्मोत्तमसिद्धितन्त्रः ।

भूमौ यक्षमुखं लिख्य तस्याग्र्याङ्गु लितो नखं ।
निहत्य चक्षुर्देशे तु समाकर्षेत्स्त्रियो वराः ॥

इत्याह भगवान् वज्रसत्वः ॥

तत्रायं पद्मकुलकर्मधर्मोत्तमसिद्धितन्त्रः ।

पद्मं गृह्य कराभ्यां तु निरीक्ष्य रागशुद्धितां ।
वज्रदृष्ट्या तु स स्त्रीणां रागयेदभितस्तथे- ॥

त्याह भगवान् वज्रधरः ॥

तत्रायं मणिकुलकर्मधर्मोत्तमसिद्धितन्त्रः ।

वज्ररत्नसमाधिस्थो मणिं गृह्य [द्वि]पाणिना ।
रत्नहुंकारयोगेन मारयेत्सर्वयोषितः ॥

इत्याह भगवान् वज्रहुंकारः ॥

सर्वकुलकर्मधर्मोत्तमसिद्धिविधिविस्तरत्नत्रः ॥ ॥

अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतकर्मकार्यसिद्धितन्त्रमुदाजहार । तत्रायं तथागतकर्मकार्यसिद्धितन्त्रः ।

पूजाकर्मविधिं योज्य यद्यत् कार्यं तु चिन्तयेत् ।
तत्तद् विज्ञाप्य मुद्रां तु साधयेत विचक्षणः ॥

इत्याह भगवान् वज्रधातुः ॥

तत्रायं तथागतकुलकर्मकार्यसिद्धितन्त्रः ।

गुह्यपूजाविधिं योज्य वज्रसत्वसमाधिना ।
यत्कार्यं वदते तत्तु शीघ्रं सिद्धिमवाप्नुयाद् ॥

इत्याह भगवान् वज्रधरः ॥

तत्रायं वज्रकुलकर्मकार्यसिद्धितन्त्रः ।

कुलगुह्यमहापूजां कृत्वा क्रोधसमाधिना ।
यत्किञ्चिच्चिन्तयेत्प्राज्ञः स शीघ्रं सिद्धिमेष्यती- ॥

त्याह भगवान् वज्रक्रोधः ।

तत्राय पद्मकुलकर्मकार्यसिद्धितन्त्रः ।

कृत्वा तु मनसीं पूजां लोकेश्वरसमाधिना ।
यत्कार्यं चिन्तयेत्प्राज्ञः तत्सर्वं शीघ्रमाप्नुयाद् ॥

इत्याह भगवान् पद्मधरः ॥

तत्रायं मणिकुलकर्मकार्यसिद्धितन्त्रः ।

कृत्वा धूपादिभिः पूजां वज्रगर्भसमाधिना ।
यत्कार्यं चिन्तयेत्प्राज्ञः तत्सर्वं सिध्यति क्षणाद् ॥

इत्याह भगवान् वज्रगर्भः ॥

सर्वकुल[कर्मकार्य]सिद्धिविधिविस्तरतन्त्रं ॥

अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतमुद्राभावना[धिष्ठानयोगसिद्धितन्त्रमुदाजहार ।] तत्रायं तथागताधिष्ठानयोगसिद्धितन्त्रो भवति ।

सूक्ष्मवज्रप्रयोगेण बुद्धयोगसमाहितः ।
उत्तमासि[द्धिमाप्नुयाद्] बुद्धमुद्राप्रसाधक ॥

इत्याह भगवान् वज्रपाणिस्तथागतः ॥

तत्रायं तथागतकुलसत्वाधिष्ठानयोगसिद्धितन्त्रः ।

सत्वो हि [सर्वात्मभावः कायेऽ]प्यात्मनि संस्थितः ।
इत्यधिष्ठाय सत्वोऽहमहंकारेण भावयन् ॥

सिध्यतीत्याह भगवान् सर्वतथागतमहायानाभिसमय[वज्रसत्वः ॥

तत्रायं व]ज्रकुलवज्राधिष्ठान[योगसिद्धितन्त्रः ।]

यथा सत्वस्तथा मुद्रा यथा मुद्रास्तथा ह्यहं ।
अनेन भावयोगेन सर्वमुद्राः सु[साधयेद् ॥

इत्याह भगवान् वज्रधरः ॥

तत्रायं पद्मकुलधर्मा]धिष्ठानयोगसिद्धितन्त्रः ।

धर्ममुद्राप्रयोगेण सूक्ष्मवज्रेण भावना ।
वाङ्मुद्राणां [तु तत्सर्वं महासत्वस्य समाधि ॥

इत्याह भगवानार्यावलोकितेश्वरः ॥] तत्रायं मणिकुलकर्माधिष्ठानयोगसिद्धितन्त्रः ।

सर्वबुद्धाभिषेकाणि [पजासमयसिद्धयः ।
भगवानिति भावयन् वज्रकर्माणि साधयेद् ॥

इत्याह भगवान्] वज्रकर्म ॥

सर्वकुलमुद्राभाव[नासिद्धितन्त्रं ॥

अथ] भगवन्[सर्वतथागताः] पुनः समाजमागम्य, भगवते सर्वतथागतचक्रवर्तिने वज्रपाणये महाबोधिसत्वाय साधुकाराण्यददुः ।

साधु ते वज्रसत्वाय [वज्ररत्ना]य साधु ते ।
[वज्रधर्माय ते साधु साधु ते] वज्रकर्मणे ॥

सुभाषितमिदं सूत्रं वज्रयानमनुत्तरं । सर्वतथागतं गुह्यं महायानाभिसं[ग्रहम् ॥ इति ॥]

सर्वतथागततत्वसंग्रहात् सर्वकल्पगुह्योत्तरतन्त्रविधिविस्तरः परिसमाप्तः ॥


अध्याय 26a
SARVA-KALPANUTTARA-TANTRA

अथ वज्रपाणिर्महाबोधिसत्व इमा[मुदानमुदानयामास ।]

दुर्दृष्टीनां विरक्तानामिदं गुह्यन्न युज्यते ।
सर्वसत्वहितार्थाय वक्ष्यामि विधयस्तथे- ॥ ति ॥

अथवज्रपाणिर्महाबोधिसत्वः [सर्वतथागत] कुलोपचारविधिविस्तरमभाषत् ।

तत्रेदं सर्वतथागतकुलोपचारविधिविस्तरतन्त्रं ।

तत्रायं हृदयोपचारविधि[विस्तरतन्त्रो भवति] । महामण्डलं दृष्ट्वा धूपपुष्पदीपगन्धपूजामुद्राभिर् कृत्वा, ततो वज्र[वाचा जापमारभ्यति ।]

तत्रायं जापविधिर्भवति । यथा स्थानस्थितश्चतुर्मासं चतुःसन्ध्यं धूपादिभिर्यथावत्पूजां कृत्वा, सर्वतथागतमहायानाभिसमयनामाष्टशतेन सर्वतथागतानभिष्टुत्य, चतुर्मुद्राप्रणामयोगेन प्रणमन्नात्मनिर्यातनपूजा कार्यनेन मन्त्रचतुष्टयेन ।

ॐ सर्वतथागतपूजोपस्थानायात्मानं निर्यातयामि सर्वतथागतवज्रसत्वाधितिष्ठस्व मां ॥

ॐ सर्वतथागतपूजाभिषेकायात्मानं निर्यातयामि सर्वतथागतवज्ररत्नाभिषिञ्च मां ॥

ॐ सर्वतथागतपूजाप्रवर्तनायात्मानं निर्यातयामि सर्वतथागतवज्रधर्म प्रवर्तय मां ॥

ॐ सर्वतथागतपूजाकर्मणे आत्मानं निर्यातयामि सर्वतथागतवज्रकर्म कुरु मां ॥

"ततोऽविरक्तः सर्वकामगुणेषु सर्वाहारः सर्वकामोपभोगीहृदयार्थः स्वमात्मानं बुद्धबिम्बं पुरतो वाङ्मात्रेणापि भावयन् यथाकामकरणीयतया, अष्टशतं वज्रवाचा जपन्नाशु प्रसिध्यती-" त्याह भगवान् वज्रसत्वः ॥

"अथोत्तमसिद्धिमिच्छेत्ततः पटे भगवन्तं तथागतं मध्ये लेखयेत् । तस्य चतुर्महासत्वमण्डलयोगेन यथाभिरुचितवर्णाभरणा महासत्वाश्चन्द्रमण्डलप्रतिष्ठिता लेख्याः कोणभागेषु कुलदेव्य इति । ततः पटस्योदारां पूजां कृत्वा यथावज्जपयोगेन तावज्जपेत् यावन्मासचतुष्टयं, ततः सकलां रात्रिं जपेत् । ततः प्रभाते सर्वतथागततत्वादीनुत्तमसिद्धीनवाप्नोती-" त्याह भगवान् वज्रधरः ।

"अथमुद्रासाधनमिच्छेत्तेन सर्वतथागतसत्ववज्रिमुद्रां बध्वा पटस्याग्रतो वज्रवाचां शतसहस्रं यथाकामकरणीयतया यथावद् बन्धन् मुञ्चंश्च जपेत् । ततोऽन्ते सकलां रात्रिं, अविश्रमतो किञ्चित्कालं मुञ्चन्, यथावच्च बन्धन् जपेत् । ततो मुद्रा ज्वलत्याविशत्युत्तिष्ठति वाचं मुञ्चतीति । ततो मुद्राबन्धनेनोत्पतति कामरूपी भवति अन्तर्धाति सर्वकर्माणि च करोति । सर्वमुद्राश्च बन्धमात्रा यथावत्सर्वकर्माणि कुर्वन्ती-"त्याह भगवान् वज्रधरः ॥

"अथ समाधयो इष्येत् तेन सूक्ष्मवज्रादारब्धव्य समाधिमभिरोचेत् तं हृदययोगतोऽभ्यसेत्, तावद्यावच् चतुर्मासं । ततोऽन्ते सकलां [रात्रिं पर्यङ्काविक्षप्तसमापन्नेन तिष्ठेत् । ततः प्रभाते सर्वतथागताद्याः] सर्वसिद्धय आमुखीभवन्ति । ततो यादृशी अभिरुचिस्तादृ[शीमवाप्नोती-"त्याह भगवान् वज्रसत्वः ॥]

अथ कर्मसाधनं भवति । तथैव जपन्मासमेकं साधयेत् । ततोऽन्ते सकलां रात्रिं ज[पेत् । ततः सर्वकर्माणि सिध्यन्ती-"त्याह भगवान् वज्रध]रः ॥

"अथ कर्माणि भवन्ति । सकृदुच्चारितेनात्मपरग्रामनगररक्ष भवति ॥ कवचब[न्धादिनावेशमपि कृत्वा चन्दनगन्धेन ग्रहाग्रह]स्पृष्टवज्राङ्कु शशरहस्तरत्नसूर्यध्वजदन्तपङ्क्तिपद्मखड्गचक्रजिव्हासर्ववज्रकवचदंष्ट्रामुष्टिमुद्रादिनिसर्वभावानाविशयति सकृज्जप्तेन ॥ मायाकर्म च मयूरपत्रपिञ्च्छके वज्रं चिध्वा बन्धयेत् । ततस्तं मयूराङ्गपिञ्च्छकं सत्ववज्रि मुद्र[या बध्यात् ता]वज्जपेद्यावत् सर्वतथागतमुद्रा आविशति । ततश्च पिञ्च्छकान् नानाद्यानि रूपाणि पश्यति । ततः प्रभृति तेन पिञ्च्छकेन सर्वरूपाणि विधिवद् दर्शयति । तेनैव पिञ्च्छकेन सकृज्जप्ते भ्रामितेनात्मनः सर्वरूपाणि दर्शयति । तेनैव पिञ्च्छकेन लौकिकानि मायाकर्माणि दर्शयति । बुद्धबोधिसत्वबिम्बान्यपि दर्शयति । दशसु दिक्षु सर्वबुद्धक्षेत्रेषु तथागताः सपर्षन्मण्डलाः समारसेनाधर्षणादिबुद्धर्द्धिविकुर्वितानि कुर्वन्तो दर्शयति । यावत्सर्वाकारवरोपेतं बुद्धरूपमात्मानं भवती-"ति ॥

"वशीकरणं कर्तुकामः सर्वतथागतसत्वमुद्रां बध्वा तावज्जपेद् यावत्सा मुद्रां ज्वलति । ततः प्रभृति मुद्राबन्धेन सर्वतथागतानभ्यारागयति वशीकरोति । किं पुनरन्यां सत्वान्? ॥

"अथ लौकिकोत्तमसिद्धयः साधयितुकामेन तेनादित एव तथैव जपता मासमेकमष्टसाहस्रिकेण जप्तव्यः । ततोऽन्ते मुद्रां बध्वा तथैव सकलां रात्रिं जपेत्, यावन्मुद्रा ज्वलति । ततः प्रभृति मुद्राबन्धेन लौकिकसिद्धिविद्याधरसिद्धीनामेकतरो भवती-"त्याह भगवां वज्रधरः ॥

तथागतकुलोपचारविधिविस्तरः परिसमाप्तः ॥

अथ वज्रकुलोपचारविधिविस्तरो भवति ।

"तत्रादित एव पूर्वमेवं कुर्यात् । तथैव यथाकामकरणीयतया, अक्षरलक्षं जपेत् । अस्य सकलां रात्रिं जपेत् । ततः प्रभृति सर्वसत्वनिग्रहानुग्रहक्षमो भवती-"त्याह भगवां वज्रधरः ॥

अथ साधयितुमिच्छेत् तेन यथावत्पटं चित्रापयितव्यः । ततस्तथैव पूजां कृत्वा मासमेकं सर्वकामभोजी यथाकामकरणीयतया, अष्टसाहस्रिकेण जापेन चतुःसन्ध्य वज्रवाचा जपेत्, तावद्यावन्मासान्ते पटस्योदारां पूजां कृत्वा वज्र-हुंकारमहामुद्रां बध्वा तावज्जपेद्यावत्तस्मात् मुद्रां बन्धात्, हुंकारशब्दो विनिःसृतः । ततः प्रभाते महेश्वरादयो देवाधिपतयः सगणपरिवाराः पुरःस्थित्वाज्ञां मार्गयन्ति । ततो विद्याधरेणैवं वक्तव्यं "यदाहं ब्रूयामागच्छतेदं कुरुत तदा भवद्भिरागत्य ममाज्ञा कार्ये-"ति । ततः प्रभृति सकलत्रिलोकाधिपतिर्भवति । यथेच्छया च मुहूर्तमात्रेण सकलं त्रिभुवनमाज्ञापयन् भ्रमति । पुनरप्येति च, निग्रहानुग्रहं कुर्वं, दिव्यानि च त्रिलोकभोगानि चोपभुञ्जन् यथाकामकरणीयतया, सर्वसुराधिपतियोषिताद्याः सर्वयोषिता आरागयित्वोपभुञ्जति । न च तस्य कश्चित् किंचिच्छक्नोति कर्तुं, हुंकारेण च सर्वदुष्टदे[वादीन् प्रमर्दित्वा ततस्तावत्कल्पशतसहस्रान् जीवती-"त्याह भगवान् वज्रधरः ॥

"अथ मुद्रासाधनमिच्छेद्] यथावज्जपं कृत्वा मासान्ते वज्र-हुं-कारसमयमुद्रां बध्वा सकलां रात्रिं जपेत् । ततः प्रभाते मुद्राः सिद्धा भवन्ति । ततो यथावन् मुद्राबन्धेन हुंकारप्रयुक्तेन आकाशगमनविश्वसंदर्शनान्तर्धानमायासन्दर्शनसर्वावेशनाकर्षणवशीकरणसर्वतुष्टिसंजननसर्वरत्नाभिहरणमहातेजोज्वालासन्दर्शनरत्नवृष्टिसन्दर्शनमहाट्टहासप्रमुञ्चनसर्वसत्वसंशोधनच्छिन्दनभिन्दनऋतुचक्रपरिवर्तनयथावत्तत्वोल्लापनसर्वकर्मप्रवर्तनरक्षजंभनस्तंभनत्रासनमारणसर्वसत्वमुद्रणकामरतिक्रियाप्रवर्तनाभिषेकसर्वभावगायापननृत्यापनाह्वायनप्रवेशनस्फोटनावेशनादीनि सर्वकर्माणि करोती-"त्याह भगवान् वज्रधरः ॥

"अथ सूक्ष्मज्ञानसाधनमिच्छेत् तेन वज्र-हुं-कारसमाधिमभ्यसता तथैव जापयोगेन मासं साधयितव्यं । ततोऽन्तेऽनेनैव समाधिना सकलां रात्रिं जपेत् । तावद् यावत् प्रभाते पञ्चाभिज्ञा भूत्वा सर्वसत्वानुग्रहनिग्रहक्षमो भवती-"त्याह भगवान् वज्रधरः ॥

"अथ कर्मसाधनमिच्छेत् तेन तथैव जपता मासमेकं साधयितव्यं । ततोऽन्ते सकलां रात्रिं जपेत् । ततः सर्वकर्माणि सिध्यन्ती"त्याह भगवान् वज्रधरः ॥ ततः कर्माणि भवन्ति सकृदुच्चारितेन मनीषितया रक्षादीनि सर्वकर्माणि करोति ॥

वज्रकुलोपचारसिद्धिविधिविस्तरः [परिसमा]प्तः ॥

अथ पद्मकुलोपचारविधिविस्तरो भवति ।

"तत्रादित एव तावच्छतसहस्रं जपेत्, पूर्वमेवाकृता भ[वति]ततः साधनं भवति । पटे भगवान् सर्वजगद्विनयाद्याः कर्तव्यास्तस्य सर्वपार्श्वेषु चतुर्मण्डलयोगेन महासत्वचतुष्टयः कार्यः अन्ते च देव्यः । ततः स एव जापविधिविस्तरो मासान्ते सकलां रात्रिं जपेत् । ततः सर्वजगद्विनयो भगवानागच्छति, यथाकालं वरेणाभिप्रचारयती-"ति आह भगवान् वज्रधरः ॥

"अथ मुद्रासाधनमिच्छेत् तेन तथैव पद्मवज्रिमुद्राबन्धं कृत्वा यथावन् मुच्याष्टसाहस्रिकेण जापेन चतुःसन्ध्यं जपेत् । ततः सकलां रात्रिं मुद्राबन्धेन जपेत् । प्रभाते सिद्धिर्भवति । ततो मुद्राबन्धेन यथावत् सर्वजगद्विनयं करोती-"त्याह भगवानवलोकितेश्वरः ॥

"अथ समाधिनयसाधनममिच्छेत् तेन तथैव मासान्ते सकलां रात्रिं यथाभिरुचितेन समाधिना जापो दातव्यः । ततः प्रभाते सर्वसमाधय आमुखीभवन्ती-"त्याह भगवान् वज्रधर्मः ॥

अथ कर्मसाधनमिच्छेत् तथैव जपन्मासान्ते सकलां रात्रिं जपेत् । ततः सर्वकर्मक्षयो भवती-"त्याह भगवां वज्रधरः ॥

पद्मकुलोपचारविधिविस्तरः परिसमाप्तः ॥

अथ मणिकुलोपचारविधिविस्तरो भवति ॥

"तत्रादित एव सर्वतथागतप्रणामचतुष्टयं कृत्वा शतसहस्रं जपेत् । ततस्तथैव पटे भगवां सर्वार्थसिद्धिं चतुर्मुद्रामण्डलयोगेन लिखेत् । ततस्तथैव पूजां कृत्वा तथैव साधयेत् । मासान्ते सकलां रात्रिं जपेत् । ततः प्रभाते भगवां सर्वतथागताभिषेकरत्नः आकाशगर्भो बोधिसत्व आगत्याभिषेकं ददाति । तेनाभिषेकेण त्रिसाहस्रमहासाहस्रे लोकधातौ विद्याधरचक्रवर्ती भवती-"त्याह भगवान् वज्रधरः ।

"अथ मुद्रासाधनमिच्छेत् तेन तथैव धर्मवज्रिप्रयोगेण वज्ररत्नमुद्रा यथावत्साध्या सर्वाशाकर्मकरी भवती ॥

"अथ मणिज्ञानमिच्छेत् साधयितुं तेन तथैव वज्ररत्नोद्भवसमाधिर्यथानुक्रमतो भावयितव्यः । निःस्वभावादाकाशात्कथं रत्नसंभव इति, रत्नाच्च कथं बोधिसत्वकायसंभव इति । इमं समाधिं चतुःसंध्यं भाव्य जपेद्, यथोपरि ततो मासान्ते तेनैव समाधिना [सकलां रा]त्रिं जपेत् । ततः प्रभाते सर्वतथागतैरागत्य यथाभिरुचितोऽभिषिच्यत"इत्याह भगवनाकाशगर्भः ॥

"अथ कामसाधन[मिच्छेत्] तथैव जपता मासान्ते सकलां रात्रिं जपेत् । ततः प्रभाते भगवानाकाशगर्भः सर्वार्थसाधको भवतीति । ततः सर्वकर्माणि कुर्याद्" इत्याह भगवानार्यवज्रधरः ॥

मणिकुलोपचारविधिविस्तरः परिसमाप्तः ॥

अथ सर्वकुलोपचारसाधारणविधिविस्तरो भवति ॥

तत्रादित एव च सर्वहृदयोपचारविस्तरः ।

"हृदयमनीषितानि सर्वतथागतानां सिध्यन्ताम्" इत्युच्चार्य हृदयं यथाभिरुचितो जप्य साधनविधिः कर्तव्य इति ॥

तत्रायं मुद्रोपचारविधिः । "सर्वमुद्रा मे भोग्या भवन्ती-" त्युक्त्वा समयमुद्रां बध्वा यथाभिरुचितो यथाशक्त्या जपेत् । ततो यथावत्सिद्धिरिति ॥

तत्रायं सर्वमन्त्रोपचारविधिः । "निःप्रपञ्चा वाक्सिद्धिर्भवतु, सर्वतथागतसमाधयो मे आजायन्ताम्" इत्युक्त्वा मन्त्रं यथाभिरुचितो जपेत्, एषा सिद्धिरिति ॥

तत्रायं विद्योपचारविधिः । "अविद्यान्धा च ते मे सत्वाः सर्वतथागताश्च विद्याधिगमसंवरभूता" इत्युक्त्वा विद्यां यथाभिरुचितो जप्य साधनमावहेद्" इत्याह भगवानार्यवज्रधरः ॥

"अथ सर्वहृदयमुद्रामन्त्रविद्यानां यथाकामकरणीयतया वज्रजापविधिविस्तरो भवति । यस्य सत्वस्य हृन्मुद्रां मन्त्रं विद्यां तु साधयेत् । जापार्थतस्तमात्मानं सत्वं वा साध्य सिध्यती-" त्याह भगवान् वज्रसत्वः ॥

सर्वकुलसाधारणजापविधिविस्तरः परिसमाप्तः ॥

अथ सर्वकुलसाधारणसिद्धिविधिविस्तरो भवति ॥

तत्रादित एव तथागतकुलसिद्धयः । तद्यथार्थनिष्पत्तिसिद्धिः ऋद्धिसिद्धिर्विद्याधरत्वं महासिद्धिश्चेति ॥

"तत्रार्थनिष्पत्तिर्भवति । यत्रा निधिशङ्का भवेत् तत्र मुद्रां बध्वा स्वसमाधिना तन्निधिस्थानं वज्रदृष्ट्या निरीक्षयेत् । यदि वज्राकारमुत्तिष्ठत्वं पश्यति तथा ज्ञातव्यं निधिरत्रास्तीति । ततो वज्रस्फोटसमयमुद्रां बध्वोत्खन्य यथाकामकरणीयतया गृण्हीयादचिरात् प्राप्नोती-" त्याह भगवान् वज्रसत्वः ॥

"तत्र ऋद्धिसिद्धिनिष्पत्तिर्भवति । यां मुद्रां साधयेद् "वज्रसिद्धिर् । "इत्युक्त्वा ऋद्धिसिद्धिश्चतुर्विधा भव[न्ति तद्यथा] जलस्योपरिचंक्रमणनिषीदतादिकं तथागतादिसर्वरूपसंदर्शनं यावदभिरुचिस्तावद् अद्रेष्यत्वं । आकाशगामी च योजनसहस्रमूर्ध्वमुत्पत्यधस्ताच्च गच्छति । सर्वादिशश्च योजनसहस्राद् यथाभिरुचितवेगः परिभ्रम्यागच्छति । योजनसहस्रादर्शेन सर्वसत्वमनीषितानि ज्ञानाति । सर्वभावानि च चक्षुषा पश्यति श्रोत्रेण शृणोति । सर्वदिक्षु स योजनसहस्रादर्शेन मनोऽभिरुचिताः सर्वस्त्रियोऽङ्गे समुत्क्षिप्यानयति । सर्वहिरण्यसुवर्णमणिमुक्तादयश्च सर्वार्थानपहरति, न चास्य कश्चित् किंचित् छक्नोति कर्तुं । यद् वज्रेणाप्यदृश्यो भवति । किं पुनरन्यैः? । दशपुरुषसहस्रबली नित्यारोग्यवान् नित्यं सर्वकामोपभोजी सदायौवनो दिव्यरूपी सर्वतथागतान् सवज्रसत्वां पश्यन् पूजयंश्चानुत्तरवज्रसिद्धिश्चत्वारिवर्षसहस्राणि जीवती-" त्याह भगवान् सर्वतथागतवज्रऋद्धिः ॥

तत्रायं वज्रविद्याधरसिद्धिनिष्पत्तिर्भवति । मुद्रान् साधयं "वज्रविद्याधर" इति कुर्यात्, सिद्धया वज्रविद्याधरचक्रवर्ती भवति । सर्वकामोपभोगी सहस्रबुद्धक्षेत्रमेकक्षणेन परिभ्रम्यागच्छति । सर्वसुखानि परिभुंक्ते । द्विरष्टवर्षवयुः आकुञ्चितकुण्डलकेशधारी महावज्रविद्याधरः सर्वतथागतान् सवज्रसत्वान् पश्यन् महाकल्पस्थायी भवती-" त्याह भगवान् सर्वतथागतविद्याधरः ॥

तत्र महासिद्धिनिष्पत्तिर्भवति । स्वमुद्रां हृदयार्थतः साधयन् । स्वमुद्रा सत्वरूपी भवत्य, एकक्षणेन दशसु दिक्षु सर्वलोकधातुषु विश्वरूपी विश्वक्रियाप्रवर्तकः, सर्वतथागतान् सवज्रसत्वां दृष्ट्वा सर्वाकारवरोपेताभिः सर्वतथागतपूजाभिः संपूज्याशेषानवशेषसत्वार्थं च कृत्वा पुनरप्यायाति । सर्वलोकधातुसर्वकामसर्वसुखसौमनस्यानि सर्वाकारवरोपेतान्युपभुञ्जन्, वज्रसत्वसमो महाबोधिसत्वः अशेषानवशेषमहाकल्पायुर्भवती-" त्याह भगवान् सर्वतथागतसिद्धिः ।

तत्रैता वज्रकुलसिद्धयः । तद्यथा त्रिलोकविजयसिद्धिः सर्वाभिषेकसिद्धिः सर्वसुखसौमनस्यसिद्धिः उत्तमसिद्धिरिति ॥

"तत्र त्रिलोकविजयसिद्धिर्भवति । त्रिलोकविजयमुद्रां बध्वा महेश्वरं [वामप]देनाक्रम्य साधयेत् । ततः सा प्रतिमा नादं मुञ्चति । ततो हुंकारः प्रयोक्तव्यः । हुंकारे प्रयुक्तेमात्रे महेश्वरादयः सर्वत्रैलोक्याधिपतयः सपरिवारा॑ साधकस्य पुरत आगत्वा आज्ञावश्यविधेया भवन्ति । ततः प्रभृति सर्वत्रिलोकाधिपतिर्वज्रधरो भवति । आकाशेन गच्छति सकलत्रिलोकचक्रं परिक्रम्यागच्छति, दुष्टदेवादयश्च सर्वसत्वान् हुंकारेण दमयति । सर्वतथागतवज्रहुंकाररूपी सकलत्रिलोकमाज्ञया वर्तयन् सर्वतथागतान् सवज्रसत्वान् पश्यन्नारागयंश्च वर्षहस्रान् जीवती-" त्याह भगवान् वज्रहुंकारः ॥

"तत्रायं सर्वाभिषेकसिद्धिमुद्रां साधयन् । सर्वतथागताभिषेकरत्नमुद्रया पूर्वमात्मानमभिषिच्य साधयेत् । ततस्तस्य सिद्धस्य चतुर्विधमभिषेको भवति । वज्राभिषेको रत्नाभिषेको धर्माभिषेकः कर्माभिषेकश्चेति । तत्र वज्राभिषेके लब्धे सर्वतथागतानां वज्रधरो भवति । रत्नाभिषेके सर्वरत्नाधिपतिर्भवति । धर्माभिषेके धर्मराजा भवति । कर्माभिषेके लौकिकरोकोत्तरसर्वकर्मसिद्धिमवाप्नोती-" त्याह भगवां सर्वतथागताभिषेकः ॥

"तत्रेयं सर्वसुखसौमनस्यसिद्धिर्, यदुत गुह्यपूजाभिर्नित्यं सर्वतथागतपूजां कुर्वन्, सर्वतथागतसर्वसुखसौमनस्यसिद्धिमवाप्नोती-" त्याह भगवां सर्वतथागतसर्वसुखसौमनस्यः ॥

"तत्रेयमुत्तमसिद्धिः, यदुत वज्रधरसमोऽहम्" इत्याह भगवां वज्रधरः ॥

तत्रैताः पद्मकुलसिद्धयः । तद्यथानुरागणवशीकरणरक्षपद्मसिद्विश्चेति ॥

"तत्रानुरागणसिद्धिर्भवति, यथावत्पद्मरागभावनया सर्वतथागतादिसर्वसत्वानुरागणक्षमो भवति ।
स्वलोकेश्वरानुस्मृत्या तथैव सर्वसत्ववशीकरणसमर्थो भवति ।
मैत्र्यस्फरणसमाधिना सर्वजगद्रक्षावरणगुप्तक्षमो भवति ।
स्वं पद्मसमाधिना पद्मं हस्तेन गृह्य साधयं लोकेश्वररूपी सर्वाकारवरोपेतश्चतुर्वर्षहस्रं जीवती-" त्याह भगवान् सर्वतथागतपद्मः ॥

तत्रैता मणिकुलसिद्धयः । तद्यथा सर्वकुलाभिषेकसिद्धिः, महातेजस्त्वं, सर्वाशाप्रपूरणं, रत्नसिद्धिश्चेति ॥

"तत्र सर्वतथागताभिषेकसिद्धिः । यदुत स्वाभिषेकनिर्यातना प्रदीपदानं दानपारमितापारिपूरिः, यथाशक्यरत्नसाधनं चत्वाभिः सिद्धिभिः सर्वतथागतां पूजयन्नचिरात् सिध्यती-" त्याह भगवां सर्वतथागतरत्नः ॥

सर्वकुलसाधारणसिद्धिविधिविस्तरः [परिसमा]प्तः ॥

"अथ सर्वकल्पोपायसिद्धितन्त्रमनुव्याख्यास्यामी-" त्याह भगवाननादिनिधनसत्वः ॥

[तत्रादित एव हृदयोपायसिद्धितन्त्रं ।]

यथा विनयो लोको हि तादृशी सिद्धिरिष्यते ।
उपायस्तत्र मुद्रा हि सर्वसिद्धिप्रदं महत् ॥

तत्रायं मुद्रोपायसिद्धितन्त्रं ।

विरागविनयो लोको मुद्रासिद्धिस्तु रागजा ।
उपायो भावना तत्र सर्वसिद्धिकरी वरा ॥

तत्रेदं मन्त्रोपायसिद्धितन्त्रं ।

लोकोऽयं सत्यविभ्रष्टो मन्त्रसिद्धिर्न इष्यते ।
उपायो निःप्रपञ्चस्तु सर्वसिद्धिकरः परः ॥

तत्रेदं विद्योपायसिद्धितन्त्रं ।

अविद्याभिनिविष्टोऽयं विद्यासिद्धिर्न इष्यते ।
उपायस्तत्र चौदारां सर्वसिद्धिप्रदं वरम् ॥ इति ॥

सर्वकल्पोपायसिद्धितन्त्रं ॥

"अथ सर्वकल्पपुण्यसिद्धितन्त्रमनुव्याख्यास्यामी-" त्याह भगवां सर्वतथागतः ॥

तत्रादित एव स्वहृदयपुण्यसिद्धितन्त्रं ।

कृत्वा चतुर्विधां पूजां महापुण्यमवाप्नुते ।
बुद्धपूजाग्रपुण्या हि सिध्यते नात्रं संशय ॥ इति ॥

तत्रेदं मुद्रापुण्यसिद्धितन्त्रं ।

रक्षंस्तु समयं गुह्यं महापुण्यमवाप्नुते ।
अपुण्योऽपि हि सिध्येय शीघ्रं समयरक्षणाद् ॥ इति ॥

तत्रेदं मन्त्रपुण्यसिद्धितन्त्रं ।

बुद्धानामादिवचनैर्महापुण्यमवाप्नुयात् ।
धर्मदानादपुण्योऽपि शीघ्रं सिद्धिमवाप्नुते ॥

तत्रेदं विद्यापुण्यसिद्धितन्त्रं ।

दानमग्र्यं हि पुण्यानां ददन्पुण्यमवाप्नुते ।
दानपारमिता पूर्णः शीघ्रं बुद्धत्वमाप्नुते- ॥ ति ॥

सर्वकल्पपुण्यसिद्धितन्त्रं ॥

"अथ सर्वकल्पप्रज्ञासिद्धितन्त्रमनुव्याख्यास्यामि ॥

तत्रादित एव हृदयप्रज्ञासिद्धितन्त्रं ।

अ-अक्षरप्रवेशेन सर्वाक्षरविजानना । स्ववक्त्रपरवक्त्रं तु भावयं सिद्धिमाप्नुयाद् ।

इत्याह भगवान् मञ्जुश्रीर्महाबोधिसत्वः ॥

तत्रेदं मुद्राप्रज्ञासिद्धितन्त्रं ।

प्रज्ञा नैर्वेधिकी नाम समाधिरिति कीर्तिता ।
तया तु मुद्राः सिध्यन्ते भावयं सिध्यति क्षणाद् ॥

इत्याह भगवान् प्रज्ञाग्र्यः ॥

तत्रेदं मन्त्रप्रज्ञासिद्धितन्त्रं ॥

प्रज्ञाघोषानुगा नाम समाधित्वात्प्रपञ्चतः ।
तय भावितया शीघ्रं मन्त्रसिद्धिमवाप्नुयाद् ॥

इत्याह भगवान् वज्रबुद्धिः ॥

तत्रेदं विद्याप्रज्ञासिद्धितन्त्रं ।

विद्यामन्त्रविशेषाणां विशेषो नहि विद्यते ।
प्रज्ञया भावयन्नेवमाशु सिद्धिर्ध्रुवा भवेद् ॥

इत्याह भगवान् सर्वतथागतप्रज्ञाज्ञानः ॥

सर्वकल्पप्रज्ञासिद्धिविधिविस्तरतन्त्रं ॥ ॥

"अथ कल्पसंभारसिद्धितन्त्रमनुव्याख्यास्यामी-" त्याह भगवान् वज्रपाणिः ॥

तत्रादित एव सर्वहृदसंभारसिद्धितन्त्रं ।

सर्वपूजां प्रकुर्वाणः सं[भारं हि] विवर्धते ।
कुशलानां तु धर्माणां ततः सिध्यति संभृतः ॥

तत्रेदं मुद्रासंभारसिद्धितन्त्रं ।

बहुचक्रप्रवेशाच्च बहुमण्डल[कल्पनात्] ।
[संभार]पूजामुद्राणां महासिद्धिः प्रवर्तते ॥

तत्रेदं मन्त्रसंभारसिद्धितन्त्रं ।

अनुमोदनादियोगेन सद्धर्मपठनात्तथा ।
बहुजापप्रदानाच्च मन्त्रसिद्धिर्ध्रुवा भवेद् ॥ इति ॥

तत्रेदं विद्यासंभारसिद्धितन्त्रं ।

अविद्यासुप्रहीणत्वात् दानपारमितानयात् ।
संभारपरिपूर्णस्तु शीघ्रं सिद्धिमवाप्नुते- ॥ ति ॥

सर्वकल्पसंभारसिद्धितन्त्रं ॥

सर्वकल्पविधिविस्तरतन्त्रं परिसमाप्तं ॥

अथ वज्रपाणिर्महाबोधिसत्वः सर्वकुलचिह्नसंभवज्ञानतन्त्रमुदाजहार ॥ तत्र कथं वज्रसंभवः? ।

स एव भगवां सत्वः सर्वचित्तः स्वयं प्रभुः ।
कायवाक्चित्तवज्रस्तु दृढः सत्वः स्वयंभुवां ॥

सत्वानामुत्तमः सत्वो वज्रभावनया हृदि ।
वज्रसत्व इति ख्यातस्तु तस्मिं वज्रो प्रतिष्ठितः ॥

स एव ज्ञानयोगेन बुद्धानामसमत्विषां ।
निःक्रम्य हृदयाद्विश्वो विश्वरूपो भवत्यपि ॥

सर्वधातुरजःसंख्याः स एव तु जिनो भवेत् ।
तेभ्यो वै वज्रकायेभ्यो वज्रसत्वस्तु संभवेत् ॥

तत एवादिसत्वास्तु सर्वचिह्नसमुद्भवः ।
चिह्नेभ्यस्तु महासत्वास्तेभ्यः सर्वमिदं नयम् ॥ इति ॥

य इदं शृणुयात्कश्चिच्छ्द्दधेद् धारयेद् हृदि ।
भावयेच्च सदा तुष्टः शीघ्रं सिद्धिमवाप्नुयाद् ॥

इत्याह भगवान् वज्रसत्वः ॥

सर्वतथागततत्वसंभवज्ञानविधिविस्तरतन्त्रं ॥

॥ अथ वज्रपाणिर्महाबोधिसत्वः सर्वकल्पसंभवज्ञानविधिविस्तरतन्त्रमभाषत् ॥

तत्रादित एव तावत् सर्वतथागतकल्पसंभवज्ञानन्तन्त्रं भवति ।

बुद्धानामविकल्पं तु ज्ञानं भवति शाश्वतं ।
अविकल्पात्ततो ज्ञानात्कल्पनात्कल्प उच्यते ॥

तत्रेदं तथागतकुलकल्पसंभवज्ञानतन्त्रं ।

यत्राविकल्पः कल्पात्मा कल्प्यते कल्पनोद्भवः ।
वज्रसत्वो महासत्वः तेन कल्पो निरुच्यते ॥

तत्रेदं वज्रकुलकल्पसंभवज्ञानतन्त्रं ।

यथा लिख्य हि कल्पयन्ते विधयः कल्पसिद्धिदाः ।
तेन कल्प इति प्रोक्तो विकल्परहितात्मभिः ॥

तत्रेदं पद्मकुलकल्पसंभवज्ञानतन्त्रं ।

रागो विकल्पसंभूतः स च पद्मे प्रतिष्ठितः ।
ततस्तु कल्पस्थायिन्यः सिद्धयः संभवन्ति हि ॥

तत्रेदं मणिकुलकल्पसंभवज्ञानतन्त्रं ।

मणयो ह्यविकल्पास्तु प्रभावैः सुसमुच्छ्रिताः ।
एवंस्तु सिद्धयो दिव्याः संभवन्त्यविकल्पिताः ॥

इत्याह भगवान् वज्रधरः ॥

सर्वकुलकल्पसंभवज्ञानतन्त्रं ॥

अथ सर्वकल्पहृदयसंभवज्ञानतन्त्रं ॥

मनीषितविधानैस्तु सिध्यते तु मनीषितं ।
समाधिसाधनो हृद्स्थः हृदयस्तु तेन चोच्यते ॥

अथ सर्वमुद्रासंभवज्ञानतन्त्रं ॥

दुरतिक्रमो यथाभेद्यो राजमुद्राग्रशासनः ।
महात्मचिह्नविश्वस्तु तथा मुद्रेति कीर्तिता ॥

अथ मन्त्रसंभवज्ञानतन्त्रं ॥

अनतिक्रम[णो च] हि दुर्भेद्यो गुह्य एव च ।
मन्त्र्यते गुह्यसिद्ध्यत्वं मन्त्रस्तेन निरुच्यते ॥

अथ विद्यासंभवज्ञानतन्त्रं ॥

अविद्याविप्रणाशाय वाग्विद्यो[त्तम]सिद्धये ।
विद्यते वेदनासिद्धिस्तेन विद्या प्रकीर्तिते ॥

त्याह भगवान् वज्रधरः ॥

सर्वकल्पहृदयादिसंभवज्ञानतन्त्रं ॥ ॥

अथ सर्वकल्पज्ञानोत्पत्तितन्त्रं ॥

तत्रादित एव हृदयज्ञानोत्पत्तितन्त्रो भवति ॥

हृदयं जप्य विज्ञेयमात्मनो वा परस्य वा ।
भव्यं भूतं भविष्यं च यः पश्यति शृणोति च ॥

तत्रेदं मुद्राज्ञानोत्पत्तितन्त्रं भवति ।

मुद्रामेकतरां बध्वा यथावद्विधिना मनः ।
कृत्वा निरीक्षेल्लोकं तु सर्वं ज्ञेयं यथोपरी- ॥ ति ॥

तत्रेदं मन्त्रज्ञानोत्पत्तितन्त्रं ।

सकृदुच्चारयन्मन्त्रं ब्रूयाज्जिह्वां स्वकीन्तु यः ।
भव्यं भूतं भविष्यं च तत्सर्वं सत्यमावहेद् ॥

इत्याह भगवानवलोकितेश्वरः ॥

तत्रेदं विद्याज्ञानोत्पत्तितन्त्रं ।

सकृदुच्चार्य विद्यां तु वेदयेन्मनसा स तु ।
भव्य भूतं भविष्यं [च वज्रवाक्शास]नं यथे- ॥ ति ॥

सर्वकल्पज्ञानोत्पत्तिविधिविस्तरतन्त्रं परिसमाप्तं ॥ ॥

अथ सर्वकुलसाधारणगुह्यकायवाक्चित्तवज्रमुद्रासाधनतन्त्रं भवति ॥

तत्रेदं तथागतकुलगुह्यकायमुद्रासाधनं भवति ।

यथा तथा निषण्णस्तु पर्यङ्केन तु साधयेत् ।
यथा लेख्यानुसारेण महासत्वः प्रसिध्यती- ॥

त्याह भगवान् वज्रसत्वः ॥

तत्रेदं वज्रकुलगुह्यकायमुद्रासाधनं भवति ।

प्रत्यालीढसुसंस्थानं यथा लेख्यानुसारतः ।
साधयेत सुसंक्रुद्धः सिध्यते नात्र संशय ॥

इत्याह भगवान् वज्रहुंकारः ॥

तत्रेदं पद्मकुलगुह्यकायमुद्रासाधनं भवति ।

वज्रपर्यङ्कसंस्थं तु वज्रबन्धं करद्वयं ।
समाधिकायो भूत्वा तु साधयेत्पद्मसंभवम् ॥

इत्याह भगवान् पद्मसत्वः ॥

तत्रेदं मणिकुलगुह्यकायमुद्रासाधनं भवति ।

उत्थितो वा निषण्णो वा चङ्क्रमन् वा यथा तथा ।
वज्ररत्नाभिषेकेण सिध्यते नत्र संशय ॥

इत्याह भगवान् वज्रगर्भः ।

तत्रेदं तथागतकुलगुह्यवाङ्मुद्रासाधनतन्त्रः ।

नातिस्यन्दितजिह्वाग्रदन्तोष्ठद्वयसंयुता ।
साधयेत्सर्वकल्पान्तु वज्रवाक्स्वरवर्जिते- ॥

त्याह भगवान् वज्रवाचः ।

तत्रेदं वज्रकुलगुह्यवाङ्मुद्रासाधनतन्त्रं ।

मेघघूल्लित-हुं-कारक्रोधगंभीरवाक्स्थिरा ।
क्रोधस्फुटा महावज्रं वज्रक्रोधवाग्साधनम् ॥

इत्याह भगवान् वज्रहुंकारः ॥

तत्रेदं पद्मकुलगुह्यवाङ्मुद्रासाधनतन्त्रं ।

अनुच्छ्वासं सूक्ष्म[श्वासं सूक्ष्मवाचासुसं]स्फुटं ।
सिध्यते सर्वजापानि समाधिज्ञानगर्भये- ॥

त्याह सर्वतथागतसमाधिज्ञानगर्भः ॥

तत्रेदं मणिकुलगुह्यवाङ्मुद्रा[साधन]तन्त्रं ।

सुपरिस्फुटया वाचा प्रणामपरमः सदा ।
जपेते विनयैश्चापि सर्वमाशु प्रसिध्यती- ॥

त्याह भगवान् सर्वतथागतपूजावि[धिविस्त]रकर्मा ॥

तत्रेदं तथागतकुलगुह्यचित्तमुद्रासाधनतन्त्रं ।

कामो हि भगवांच्छश्वः सर्वसत्वसुखप्रदः ।
वज्रसत्वः स्वयमे[व इ]ति भाव्याशु सिध्यती- ॥

त्याह भगवान् कामः ।

तत्रेदं वज्रकुलगुह्यचित्तमुद्रासाधनतन्त्रं ।

सर्वसत्वहितार्थाय दुष्टानां [विनयार्थाय] ।
बुद्धशासनरक्षार्थं क्रोधः सिद्धिकरः पर ॥

इत्याह भगवान् सर्वतथागतवज्रहुंकारः ।

तत्रेदं पद्मकुलगुह्यचित्तमुद्रासाधनतन्तं ।

यथा पद्ममलिष्ठं तु वासदोषैः सुरागवान् ।
तथा मे रागदोषैस्तु भवेद्रागः स सिध्यती- ॥

त्याह भगवान् पद्मरागः ॥

तत्रेदं मणिकुलगुह्यचित्तमुद्रासाधनतन्त्रं ।

कदा नु सर्वसत्वानां सर्वकार्यार्थसिद्धये । रत्नवर्षाणि वर्षेयं सिद्धः सर्वाशु सिध्यती- ।

त्याह भगवानार्याकाशगर्भः ।

तत्रेदं तथागतकुलगुह्यवज्रमुद्रासाधनतन्त्रं ।

उत्थितो वा निषण्णो वा [चङ्क्रमन्वा] यथा तथा ।
वाममुद्रागुह्यकरः सर्वं कुर्वं स सिध्यती- ॥

त्याह भगवां सर्वतथागतगुह्यवज्रपा[णिः ॥

तत्रेदं वज्रकुलगुह्यवज्रमुद्रासाधनतन्त्रं ॥]

यथा तथा स्थितश्चैव कुर्वन् चापि यथा तथा ।
वक्रज्रोधाङ्गुलिं बध्वा वस्त्रच्छन्नां तु सिध्यती- ॥

त्याह भगवा[न् सर्वतथागतक्रोधराजः ॥

तत्रेदं पद्मकुलगु]ह्यवज्रमुद्रासाधनतन्त्रं ।

पद्ममुष्टिं तु वामेन करेणाच्छादितेन तु ।
बध्वा यथा शीघ्रं पद्म[सिद्धिमवाप्नुयाद् ॥

इत्याह भगवानवलोकितेश्व]रः ॥

तत्रेदं मणिकुलगुह्यवज्रमुद्रासाधनतन्त्रं ।

रत्नमुष्टिं तु बध्वा वै वामाच्छादितसत्क[रः ।
यथा तथा क्रियते वै रत्नसिद्धिमवाप्नु] याद् ॥

इत्याह भगवानाकाशगर्भः ।

तत्रेदं सर्वकुलगुह्यसाधारणमुद्रासाधनतन्त्रं ।

महामु[द्राप्रयोगेण स्वसत्वसमाधिना हि ।] वज्रवाग्वज्रदृष्टिभ्यामचिरात्सिद्धिरुत्तमे- ॥

त्याह भगवान् सर्वतथागतवज्रसत्वः ॥

सर्वकुलगुह्य[कायवाक्चित्तवज्रमुद्रासाधनतन्त्रं स]माप्तं ॥ ॥

अथ भगवान् वज्रपाणिः सर्वतथागतनाहूयैवमाह । "प्रतिपद्यत भगवन्तस्तथा[गता इदं कल्पमधितिष्ठन्ति प्रतिवेदयन्ति ।"

अथ स]र्वतथागताः पुनः समाजमागम्य, पुनरपि साधुकाराण्यददुः ।

साधु ते वज्रसत्वाय वज्ररत्ना[य साधु ते ।
वज्रधर्माय ते साधु साधु ते] वज्रकर्मणे ॥

सुभाषितमिदं सूत्रं वज्रयानमनुत्तरं ।
सर्वतथागतगुह्यं महायानाभिसंग्रहम् ॥ इ[ति ॥

सर्वतथागततत्वसंग्र]हात् सर्वकल्पानुत्तरतन्त्रं परिसमाप्तं ॥


अध्याय 26b
EPILOGUE OF THE SARVA-TATHAGATA-TATTVA-SANGRAHA

अथ वज्रपाणिर्महाबोधिसत्वः उत्थायास[नाद् भगवन्तमनेन नामाष्टशतेनाध्येषामा]स ।

वज्रधातु महासत्व सर्वार्थ परमार्थक ।
शाक्यराज महाज्ञान वज्रात्मक नमोऽस्तु ते ॥ १ ॥

[सत्वसंभव तत्वार्थ सत्वहेतु महानय ।] महासत्वार्थ कार्यार्थ सत्वसत्व नमोऽस्तु ते ॥ २ ॥

बुद्धधर्म महाधर्म धर्मचक्रप्रवर्तक ।
म[हावचन विद्याग्र्य महासत्व नमोऽस्तु ते] ॥ ३ ॥

महाकर्म महारक्ष सर्वकर्म प्रसाधक ।
महात्म सत्वचर्याग्र सत्वहेतो नमोऽस्तु ते ॥ ४ ॥

[सर्वपारमिताप्राप्त सर्वज्ञज्ञानवेदक ।
सर्वस]त्व महोपाय महाप्रज्ञा नमोऽस्तु ते ॥ ५ ॥

महाकारुणिकाग्र्याग्र्य कारुण्य करुणात्मक ।
सर्वदा[न महामैत्री सर्वकार नमोऽस्तु ते] ॥ ६ ॥

शाक्यसिंह महाशाक्य शाक्यशाक्य महामुने ।
विभो महाविनय नेयार्थ विनयाग्र नमोऽस्तु [ते ॥ ७ ॥

धर्मधातु समप्राप्त धर्मधातु तथाग]त ।
वज्रनाथ महानाथ सत्वराशि नमोऽस्तु ते ॥ ८ ॥

महाप्रभ महालोक महावीर्य महाबल ।
म[हावीर सुवीराग्र्य शम्भु वीर नमोऽस्तु ते] ॥ ९ ॥

ब्रह्मन् स्वयंभू भगवन् शाक्यवीर महामुने ।
सर्वात्मक मुने शुद्ध धर्मराज नमोऽस्तु ते ॥ १० ॥

आ[काशकाय कायाग्र्य त्रिकायाकायभा]वक ।
सर्वकाय महाकाय वज्रकाय नमोऽस्तु ते ॥ ११ ॥

अवाच वाच [वाचाग्र्य त्रिवाचावाचदर्शक ।
सर्ववाच] सुमहावाच वज्रवाच नमोऽस्तु ते ॥ १२ ॥

अचित्त चित्त चित्ताग्र्य त्रिचित्ताचित्तदर्शक ।
सर्वचित्त महाचित्त [वज्रचित्त नमोऽस्तु ते ॥ १३ ॥

अवज्र वज्र व]ज्राग्र्य त्रिवज्रावज्रशोधक ।
सर्ववज्र महावज्र वज्रवज्र नमोऽस्तु ते ॥ १४ ॥

सर्वव्यापि भवाग्र्याग्र्य सु[गताधिपति जय ।
त्रैधातुकमहाराज] वैरोचन नमोऽस्तु ते ॥ १५ ॥

नामाष्टशतकंश्च तद्यः कश्चिच्छृणुया सकृत् ।
पठेद्वा भावयेद्वापि [सर्वो बुद्धत्वमाप्नुयात् ॥ १६ ॥

अध्येषया]मि त्वान्नाथ सर्वसत्वहितार्थतः । महाकारुण्यमुत्पाद्य धर्मचक्रं प्रवर्तये- ॥ १७ ॥ ति ॥

[अथ भगवान् वैरोचनः सर्वतथागतधिपतिना]ज्ञावचनमुपश्रुत्य, सर्वतथागतानाहूयैवमाह । "प्रतिपद्यत भगवन्तः तथागताः समा[जमापन्तुम्" इति ॥

अथ सर्वतथाग]ताः समाजमापद्य, इमां गाथामभाषन्त ।

सर्वसत्वहितार्थाय सर्वलोकेषु सर्वतः । [यथा विनयतो विश्वं धर्मचक्रं प्रवर्त्यताम् ॥ इति ॥]

अथास्मिन् भाषितमात्रे सर्वबुद्धक्षेत्रेषु सर्वलोकधातुषु सर्वसत्वानां पुरतः स्फर्य यावत्सर्व[परमाणुरजोमण्डलेषु भगवान् शाक्यमुनि]स्तथागतो धर्मचक्रं प्रवर्तयामास ॥

अथ वज्रपाणिर्महाबोधिसत्वः पुनरपीमां गाथमभाष[त् ।

सर्वसत्वहितार्थाय सर्वलोकेषु] सर्वतः ।
यथा विनयतो विश्वं वज्रचक्रं प्रवर्त्यताम् ॥ इति ॥

अथास्मिन् भाषितमात्रे तथैव सर्वबुद्धक्षे[त्रेषु यावत् सर्वपरमाणुरजोमण्डलेषु भ]गवान् वज्रधातुस्तथागतो वज्रधात्वादीन् सर्ववज्रचक्राणि प्रवर्तयामास ॥

अथ त्रिलोकविजयो [महाबोधिसत्व इमां] गाथामभाषत् ।

सर्वसत्वहितार्थाय सर्वलोकेषु सर्वतः ।
यथा विनयतो विश्वं क्रोधचक्रं प्रवर्त्यताम् ॥ [इति ॥

अथास्मिन् भाषितमात्रे तथैव] सर्वबुद्धक्षेत्रेषु यावत् सर्वपरमाणुरजोमण्डलेषु भगवांस्त्रिलोकविजयी तथागतः सर्वतथागतक्रो[धचक्रं प्रवर्तयामास ॥

अथार्याव]लोकितेश्वरो बोधिसत्व इमां गाथामभाषत् ।

सर्वसत्वहितार्थाय सर्वलोकेषु सर्वतः । यथा वि[नयतो विश्वं पद्मचक्रं प्रवर्त्यताम् ॥ इति ॥]

अथास्मिन् भाषितमात्रे तथैव सर्वबुद्धक्षेत्रेषु यावत् सर्वपरमाणुरजोमण्डलेषु भगवां धर्मराजा तथागतः पद्मचक्रं प्रवर्तयामास ॥

अथार्याकाशगर्भो बोधिसत्व इमां गाथामभाषत् ।

सर्वसत्वहितार्थाय सर्वलोकेषु सर्वतः ।
यथा विनयतो विश्वं मणिचक्रं प्रवर्त्यताम् ॥ इति ॥

अथास्मिन्[भाषितमात्रे सर्वबुद्धक्षेत्रान्तर्गत]सर्वसत्वाः सूक्ष्मा वा स्थूला वा ते सर्वे सर्वतथागतं सुमेरुगिरिमूर्ध्नि वज्रमणिरत्नशिखरकूटागारे सर्वतथा[गतसिंहासने स्थित्वा वज्रधात्वादीन् सर्व]चक्राणि प्रवर्तयन्तं सर्वतोऽद्राक्षुरिति ॥

अथ वज्रपाणिर्महाबोधिसत्वः तस्यां वेलायामिमां गा[थामभाषत् ।

सर्वसत्वहितार्थाय प्र]तिपद्यस्व कार्यतः ।
मानुष्यमवताराग्र्यं वज्रचक्रं प्रवर्त्यताम् ॥ इति ॥

अथ पुनरपि भगवान् सर्वत[थागतानाहूयैवमाह । "प्रतिपद्यत भ]गवन्तस्तथागताः पुनः समाजमापन्तुम्" इति ॥

अथ भगवन्तः सर्वतथागताः पुनः समाजमा[पद्य, वैरोचनस्य हृदये प्रविष्टा]इति ॥

अथ भगवान् वैरोचनस्तथागतः सर्वतथागतकायवाक्चित्तवज्रमात्मानमवबुध्य, व[ज्रपाणिमेवमाह । "प्रविशकुलपु]त्र त्वमपि मम हृदये॑ सर्वतथागतसर्ववज्रकुलसर्वमण्डलाः सर्वतथागतहृदयेषु समनुप्र[विष्टाः" ।

अथ वज्रपाणिर्महाबोधिसत्वः] सर्वतथागतानुज्ञात इमां गाथामभाषत् ।

सर्वसत्वहितार्थाय प्रतिपद्यामि सर्वतः ।
प्रवेष्टुं सर्वबुद्धानां का[यवाक्चित्तस्य वज्र ॥ इति ॥

अथास्मिन् भा]षितमात्रे यावन्तस्तथागताः सर्वलोकधातुपरमाणुरजःसमेषु सर्वलोकधातुषु तिष्ठन्ति ते तथा[गता एकैकेन सर्वलोक]धातुपरमाणुरजःसमाः स्फरणकायाः भगवतो वैरोचनस्य हृदये प्रविष्टाः ।

अथ वज्रपाणिर्महाबोधिस[त्वः सर्वतथागतेषु] भगवतश्च वैरोचनस्य सर्वकायेषु सर्ववाक्प्रवर्तनस्थानेषु सर्वचित्तसन्ततिप्रवाहेषु सर्ववज्रनयेषु सर्वा[ङ्गप्रत्यङ्गेषु सर्वस्थानेषु] सर्वलक्षणेषु सर्वानुव्यञ्जनेषु सर्वरोमकूपेषु सर्वपरमाणुरजोमण्डलेषु च हृदयेषु प्रविष्ट्वा स्थिता इति ॥

[अथ भगवानचिराभि] संबुद्धः सर्वतथागतकायवाक्चित्तवज्रः सर्वतथागतकायमात्मानमवबुध्य, तस्मात् सुमेरुगिरिमूर्धाद्येन [बोधिमण्डं तेनोपजगा]मोपेत्य, भगवतो बोधिवृक्षस्याधस्तात् लोकानुवर्तनतया, पुनस्तृणानि गृह्येदमुदानमुदानयामास ।

अ[हो ह्यग्रार्थ आत्मनः स]त्वार्थः सत्वशासिनां ।
यद् विनेयवशाद्धीरास्तीर्थदृष्ट्या विहन्ति हि ॥

अविनेयस्य लोकस्य दुर्दृष्ट्यान्धस्य सर्वतः ।
ज्ञा[नाभया शोधनार्थं बुद्धबो]धिमवाप्नुयाद् ॥ इति ॥

अथ कामावचरा देवा भगवतस्तत्वमजानन्तो ब्रूवन् । "किं भो श्रमण एवं तीव्राण्येवं रौद्राणि बो[ध्यार्थाय] दुःखान्युत्सहसी-" ति ।

अथ भगवांस्तानि तृणान्यास्तर्योपविष्ट्वा तां देवानेवमाह । "प्रतिपद्यत मार्षा मम बोधिं [प्राप्तुम्" इति ।

अथ कामाव]चरा देवा भगवतो भाषितस्यार्थमजानन्तो येन शक्रो देवानामिन्द्रः तेनोपजगामोपेत्य, शक्रं देवानामिन्द्रमि[दं वृत्तान्तमारोचया]मास ।

अथ शक्रो देवानामिन्द्रः सर्वकामावचरदेवसङ्घपरिवारो रूपावचराधिपतिं महाब्रह्माणमिदं [वृत्तान्तमारोचया]मास ।

अथ महाब्रह्मा सर्वकामावचररूपावचरदेवसहितस्त्रिलोकाधिपतिमीश्वरं तं वृत्तान्तमारोच[यामास ॥

अथ महे]श्वरस्त्रिलोकाधिपतिर्नारायणादीन् सर्वदेवाधिपतीनेवमाह । "प्रतिपद्यत मार्षास्तथागतोऽर्हं सम्यक्संबुद्धो [लोकानुवर्तनतया पु]नरनुत्तरां सम्यक्संबोधिं दर्शयिष्यति । मामन्त्र्या एवं विद्येन् न तथागतो मानुषो भवति, देवा एव [तथागता भवन्ति], मनुषे घटयेयुः, न तथागतत्व इति । तत्साधु प्रतिपद्यत तत्र पूजनाय गन्तु" मिति ।

अथ महेश्व[रादिदेवाधिपतयः स्थित्वा] बोधिमण्डे, येन च भगवान् बोधिमण्डनिषण्णः तेनोपजगामोपेत्य च भगवतः पादौ शिरसाभिवन्द्य, भगवन्तमेवमाहुः । ["प्रतिपद्य भ]गवन्नस्माकमनुकम्पामुपादाय, अस्मात् तृणसंस्तरादुत्थाय, दिव्येष्वासनेषु निषद्यानुत्तरां समयक्संबोधिमभिसंबोद्धु" ॥

अथ [भगवान् दे]वाधिपतीनेवमाह । "प्रतिपद्यत मार्षा ममानुत्तरां समयक्संबोधि दातु" मिति । अथ ते एवमाहुर् । "न वयं भगवं समर्था बोधिं द[आतुं] । यदि वयं समर्था भवेमस्तदात्मनैवाभिसंबोधिमभिसंबुध्येमही-" ति ॥

अथ भगवानिदमेवार्थमुद्दीपयं भूयस्या मात्रया इ[मां गाथा]मभाषत् ।

न सा रूपि न चारूपि न सत्यं न मृषाशुचि ।
बुद्धबोधिरिदं ज्ञानमवबुध्य जिनो भवेद् ॥ इति ॥

अथ ते देवाधिप[तियो मु]हूर्तं तूष्णीम्भावेन तस्थुः ॥

अथ भगवांस्ततस्तृणासनादुत्थाय, तां देवानेवमाह । "प्रतिपद्यत मार्षा ईदृशं ज्ञानमवबोद्धुं ।" [त ए]वमाहुर् । "न शक्तमो भगवन्" ॥

अथ भगवांस्तस्मिन्नेवासने निषद्येमां गाथामभाषत् ।

मनसः प्रतिवेद्येन बोधिचित्तं दृढीकुरु ।
वज्रं सत्वे दृढीकृत्वा बुद्धमात्मानुभावय ॥

अथ त एवमाहुर् । "एवमस्त्व्" इति कृत्वा सर्वे प्रक्रान्ताः ॥

अथ भगवान् रात्रौ प्रभातायां [लोकानु]वर्तनतया मारां जित्वानुत्तरां सम्यक्संबोधिमभिसंबुध्य, अशेषानवशेष[सत्वधातुषु सर्वसत्वहितार्थाय, स्वहृद]यावस्थितमार्यवज्रपाणिनमनेन नामाष्टशतेनाभिस्तौति ।

वज्रसत्व महासत्व [महायान महात्मक ।
महाप्रभ महाशु]द्ध महानाथ नमोऽस्तु ते ॥ १ ॥

वज्रराज महावज्र वज्र सर्वतथागत ।
महासत्व महावीर्य महोपाय नमोऽस्तु ते ॥ २ ॥

वज्ररा[ग महाशुद्ध स]र्वसौख्य महासुख ।
सुखाग्र्यानादिनिधन महाकाम नमोऽस्तु ते ॥ ३ ॥

वज्रसाधु महातुष्टि साधुकार प्रहर्षक ।
महाहर्ष महामो[दन] प्रामोद्य नमोऽस्तु ते ॥ ४ ॥

वज्ररत्न महाराज स्वभिषेक महामते ।
सर्वरत्न महाशोभ विभूषण नमोऽस्तु ते ॥ ५ ॥

वज्रतेज म[हातेज] वज्रप्रभ महाद्युते ।
जिनप्रभ महाज्वाल बुद्धप्रभ नमोऽस्तु ते ॥ ६ ॥

वज्रकेतु महाकेतु महाध्वज धनप्रद ।
आकाशकेतो महा[यष्टि त्या]गध्वज नमोऽस्तु ते ॥ ७ ॥

वज्रहास महाहास महाप्रीति प्रमोदन ।
प्रीतिवेग रतिप्रीते धर्मप्रीते नमोऽस्तु ते ॥ ८ ॥

वज्रधर्म महा[धर्म सर्व]र्धर्म सुशोधक ।
बुद्धधर्म सुधर्माग्र्य रागधर्म नमोऽस्तु ते ॥ ९ ॥

वज्रतीक्ष्ण महाकोश प्रज्ञाज्ञान महामते ।
पापच्छेद म[हाखड्ग बु]द्धशस्त्र नमोऽस्तु ते ॥ १० ॥

वज्रहेतु महाचक्र बुद्धचक्र महानिधि ।
सर्वमण्डल धर्माग्र धर्मचक्र नमोऽस्तु ते ॥ ११ ॥

वज्रभा[ष महाभाष] निःप्रपञ्च महाक्षर ।
अनक्षर महाजाप बुद्धवाच नमोऽस्तु ते ॥ १२ ॥

वज्रकर्म सुकर्माग्र्य महाकर्म सुकर्मकृत् ।
गुह्यपू[ज महापूज बुद्धपूज नमो]स्तु ते ॥ १३ ॥

वज्ररक्ष महावर्म कवचाग्र्य महादृढ ।
महारक्ष महासार बुद्धवीर्य नमोऽस्तु ते ॥ १४ ॥

वज्रयक्ष महाक्रोध सर्वदुष्टभयानक ।
सर्वबुद्धमहोपाय अग्रयक्ष नमोऽस्तु ते ॥ १५ ॥

महासन्धि महामुद्र महासमयबन्धक ।
महामुष्टे समुद्राग्र्य वज्रमुष्टे नमोऽस्तु ते ॥ १६ ॥

वन्द्यो मान्यश्च पूज्यश्च सत्कर्तव्यस्तथागतैः ।
यस्मादनादिनिधनं बोधिचित्तं त्वमुच्यसे ॥ १७ ॥

त्वामासाद्य जिनाः सर्वे बोधिसत्वाश्च शौरिणः ।
संभूता संभविष्यन्ति बुद्धबोध्यग्रहेतवः ॥ १८ ॥

नमस्ते वज्रसत्त्वाय वज्ररत्नाय च ते नमः ।
नमस्ते वज्रधर्माय नमस्ते वज्रकर्मणे ॥ १९ ॥

त्वामभिष्टुत्य नामाग्रैः प्रणम्य च सुभावतः ।
यत्पुण्यं तेन सर्वो हि बुद्धबोधिमवाप्नुयात् ॥ २० ॥

येदमुच्चारयेत्सम्यग्नामाष्टशतमुत्तमं ।
सकृद्वारं सुभक्तिस्थः सर्वबुद्धत्वमाप्नुयाद् ॥

इत्याह भगवान् बुद्धः ॥

अथ वज्रपाणिं महाबोधिसत्वं ते सर्वतथागता [एककष्ठे]न साधुकाराण्यनुप्रादान् ॥

साधु ते वज्रसत्वाय वज्ररत्नाय साधु ते ।
वज्रधर्माय ते साधु साधु ते वज्रकर्मणे ॥

सुभाषितमि[दं सूत्रं] वज्रयानमनुत्तरं ।
सर्वतथागतं गुह्यं महायानाभिसंग्रहम् ॥इति ॥

इदम् [अवोचद्भगवानात्तमनाः सतथारतार्यबोधिसत्वश्च सर्वः स्वहृदये प्रविश्य भगवतश्च वज्रसत्वस्य च] भाषितमभ्यनन्दन्निति ॥

[सर्वतथागततत्वसंग्रहं नाम महायानसू]त्रं समाप्तम् ॥

॥ ॐ नमो बुद्धाय ॥

  • देवनागरी लिप्यां कर्तुं इदं उपकरणं प्रयुक्तः
https://scriptoq.com/tools/diCrunch/